________________
अथाव्ययीभावसमासप्रकरणम् । १७ ।
६४७ समर्थः पदविधिः । (२-१-१) पदसंबन्धी यो विधिः स
अथ समासाः । तदेवं विभक्त्यर्थं निरूप्य तदाश्रितसमासान्निरूपयिष्यन् तदुपोद्वातत्वेनाह - समर्थः पदविधिः । विधीयते इति विधिः- कार्यम् । पदस्य विधिः पदविधिरिति शेषषष्ठया समासः । तदाह- पदसंबन्धी यो विधिरिति ।
1
समर्थः पदविधिः । सामर्थ्यं च द्विविधं व्यपेक्षालक्षणमेकार्थीभावलक्षणं चेति । तत्र स्वार्थपर्यवसायिनां पदानामा कालादिवशायः परस्परसंबन्धः सा व्यपेक्षा । सैव वाक्ये राज्ञः पुरुष इत्यादौ । तत्र अपेक्षायां सत्यां यो यः संनिहितो योग्यश्च तेन तेन संबन्धोऽभ्युपेयते । यथा राज्ञः पुरुषोऽश्वश्व । राशो देवदत्तस्य च पुरुष इति । एकार्थीभावस्तु राजपुरुष इत्यादिवृत्तावेव । स च प्रक्रियादशायां पृथगर्थत्वेन प्रथमगृहीतस्य विशिष्टैकार्थत्वरूपः । श्रत एव राजपुरुष इत्यत्र राशि ऋद्धस्येति विशेषणं नान्वेति, पदार्थैकदेशत्वात् । न चैवं देवदत्तस्य गुरुकुलमित्यादावनन्वयापत्तिः, तत्रापि देवदत्तोत्तरषष्ठयर्थस्य गुरुरणान्वयादिति वाच्यम्, देवदत्तस्य प्रधानभूतकुलेनैवान्वयात् । संबन्धस्तूपस्थितगुरुद्वारक एव षष्ठयर्थः, न तु तदितरः । उक्तं च 'समुदायेन संबन्धो येषां गुरुकुलादिना । संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह' इति । यद्वाससंबन्धिकपदार्थस्यैकदेशत्वेऽपि भवत्येव विशेषणान्वयः । उक्तं च- - 'संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते' इति । नन्वेवं राज्ञोऽपि नित्यसापेक्षत्वादेकदेशत्वेऽपि श्रद्धस्येति विशेषणेनान्वयोऽस्तु । मैवम्, राज्ञ ईशितुरीशितव्यं प्रति साकाङ्क्षत्वेऽपि ऋद्धं प्रत्यनाकाङ्क्षत्वात् । ननु वाक्ये क्लृप्तयैवावयवशक्त्योपपत्तौ विशिष्टार्थविषयकशक्तयन्तरमेव मास्तु । सत्यम् - ' बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महद्गौरवं तस्मादेकार्थीभाव आस्थितः ॥ चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । कर्तव्यं ते, न्यायसिद्धं त्वस्माकं तदिति स्थितम् । तथाहि—धवखदिराविति वृत्त्यैव कोडी कृतार्थत्वाच्चकारो न प्रयुज्यते, तथा चित्रग्वादी यत्पदम्। त्वया तु वचनं कर्तव्यम् । निरूढभलक्षणा तु शक्तितो नातीव भिद्यते । किंच प्रातमुदकं यमिति व्यस्ते समीचीनमुदकामेति विशेषणवत्समस्तेऽपि उदकविशेषणप्रयोगः समासघटकपदार्थानां प्राप्तः, स च ' वृत्तस्य विशेषणयोगो न' इति वचनेनैव वारणीयः । ‘नामार्थयोरभेदान्वयः' 'प्रत्ययार्थः प्रधानम्' इति व्युत्पत्तित्यागश्च प्राप्तो