________________
प्रकरणम् २१ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २११
श्वश्रवा सहोकौ श्वशुरो वा शिष्यते, तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्व श्वशुरश्च श्वशुरौ – श्वश्रूश्वशुरौ वा । ७३८ त्यदादीनि सर्वैर्नित्यम् । ( १-२-७२ ) सर्वैः सहोकौ त्यदादीनि नित्यं शिष्यन्ते । स च देवदत्तश्च तौ । 'त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते' ( वा ८०१ ) स च यश्च यौ, ( सा च या च ये ) । 'पूर्वशेषोऽपि दृश्यते' इति भाष्यम् । स च यश्चः तौ । ' त्यदादितः शेषे पुन
1
विदं वचनं विकल्पार्थं च । मातापितराविति । ' पितुर्दशगुणं माता गौरवेणातिरिच्यते' इति स्मृत्या मातुरभ्यर्हितत्वात्पूर्वनिपातः । 'नहृतः' इत्यानङ् । श्वशुरः श्वश्रवा । श्वश्रूश्वशुराविति । श्वश्रवा अपि मातृतुल्यत्वोक्तेरभ्यर्हितत्वम् । 'श्वश्रूः पूर्वजपत्नी च मातृतुल्या प्रकीर्तिता' इति स्मृतेः । इह तल्लक्षणग्रहणानुवृत्तिः स्पष्टार्था, 'श्वशुरः श्वश्र्वा' इति शब्दग्रहणात् । त्यदादीनि । सर्वैरिति । त्यदादिभिरितरैश्चेत्यर्थः । ताविति । अत्र देवदत्तशब्दो निवर्तते । तच्छब्दस्तु शिष्यते । तद्देवदत्ताविति न भवति । सर्वैः किम् ? प्रत्यासत्त्या त्यदादिभिरेव सहोक्लावित्यर्थो मा भूदित्येतदर्थम् | त्यदादीनां मिथ इति । भाष्ये स्थितमेतत् । यत् परमिति । त्यदादिगणे यत् परं पठितं तच्छिष्यत इत्यर्थः, शब्दपरविप्रतिषेधाश्रयणादिति भावः । सच यश्च यौ, सा च या च ये इति । त्यदादिगणे यच्छब्दस्य तच्छब्दादूर्ध्वं पाठात् परत्वात् स एव शिष्यत इति भावः । पूर्वशेषोऽपीति । परशब्दस्येष्टवाचित्वात् क्वचित्पूर्वमपि शिष्यत इति भावः । अत्र 'द्विपर्यन्तानाम्' इति न भवति । श्रहं च भवांश्चावामिति भाष्योक्तेः । त्यदादित इति । आद्यादित्वात् षष्ठयर्थे तसिः । त्यदादीनां स्त्रीशेषेऽपि सहविवक्षितषु यः पुमान्, यच्च नपुंसकं, तद्वशेन इत्यादिप्रदर्शनं तु शुक्लशब्दस्य गुणिलिङ्गत्वस्फोरणाय । पिता मात्रा । श्वशुरः श्वश्र्वा । नन्वेतत्सूत्रद्वयं व्यर्थम्, पितृशब्देन मातापित्रोः श्वशुरशब्देन श्वश्रूश्वशुरयोर्लक्षणया बोधसंभवात् । न च 'सरूपाणाम्' इत्यादिसूत्रसमूहवदिदमपि सूत्रद्वयं द्वन्द्वनिवृत्त्यर्थमावश्यकमिति वाच्यम्, पक्षे तस्यापीष्टत्वादिति चेत् — अत्राहुः पितृश्वशुरशब्दयोरिव मातृश्वश्रूशब्दयोः केवलयोरुक्तविषये प्रयोगं वारयितुमारम्भणीयमेव सूत्रद्वयम्, अनभिधानमाश्रित्य प्रत्याख्यानस्यानुचितत्वादिति । मातापितराविति । 'पितुर्दशगुणं माता गौरवेणातिरिच्यते' इति स्मृतेर्मातुरभ्यर्हितत्वात्पूर्वनिपातः । 'श्रनङ् ऋतः-' इत्यानङ् । श्वश्रूश्वशुराविति । श्वश्रूः पूर्वजपत्नी च मातृतुल्या प्रकीर्तिता' इति स्मृतेः श्वश्र्वा श्रभ्यर्हितत्वात्पूर्वनिपातः । त्यदादीनि सर्वैः । सर्वैः किम् त्यदादिभिन्नैरपि सहोक्तौ यथा स्यात् । प्रत्यासत्त्या ' त्यदादिभिरेव सहौक्तौ' इत्यर्थो मा भूत् । यत्परमिति । शब्दपरविप्रतिषेधादिति भावः | त्यदादित इति ।
1