________________
२१० ]
सिद्धान्तकौमुदी ।
[ एकशेष
नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम् । ( १-२-६६ ) अनीबेन सहोकौ क्रीबं शिष्यते तच्च वा एकवत्स्यात्सहचय एव विशेषश्चेत् । शुनः पटः । शुक्रा शाटी । शुक्रं वस्त्रम् । तदिदं शुक्रम् । तानीमानि शुक्रानि । ६३६ पित्रा माता । ( १-२-७०) मात्रा सहोकौ पिता वा शिष्यते । माता च पिता च पितरौ - मातापितरौ वा । १३७ श्वशुरः श्वश्र्वा । ( १-२-७१ )
नपुंसकम् । अन्यतरस्यांग्रहणम् एकवदित्यनेनैवान्वेति श्रानन्तर्यात्, नत्वेकशेषेणेत्याह - तच्चेति । तल्लक्षण एवेति । नपुंसकत्वानपुंसकत्वमात्रकृतवैरूप्यं चेदित्यर्थः । शुक्लः पटः शुक्ला शाटी शुक्लं वस्त्रमिति । पटशब्दसमभिव्याहारात् शुक्लशब्दः पुंलिङ्गः, शाटीशब्दसमभिव्याहारात् स्त्रीलिङ्गः, वस्त्रशब्दसमभिव्याहारे तु नपुंसकलिङ्गः, 'गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति' इत्यमरोक्तेरिति भावः । तच्च सा च इदं च तत् । अयं च इयं च इदं च इदम् । शुक्लश्च शुक्ला च शुक्लं च शुक्लम् । अत्र नपुंसकान्येव शिष्यन्ते एकवच भवन्ति । तानीमानि शुक्लानीति । नपुंसकत्वे एकशेषे सति एकवत्त्वाभावे रूपाणि । न चेतरेतरयोगविवक्षायां द्विबहुवचनान्तयोः, समाहारद्वन्द्वविवक्षायामेकवचनस्य च सिद्धत्वाद् एकवदिति व्यर्थमिति वाच्यम्, अत एवैकशेषप्रकरणस्य समाहारेऽप्रवृत्तिज्ञापनात् । तेन श्रोदनश्च श्रोदनं च तयोः समाहारे श्रोदनमिति न भवति । श्रोदनशब्दो ह्यर्धर्चादिः । श्रदनश्च श्रोदनं चेति इतरेतरयोगद्वन्द्वेऽपि श्रदनमिति न भवति, अनभिधानात् । एवं च क्वचिदनभिधानस्यावश्याश्रयणीयतया द्वन्द्वमात्रस्यैकशेषविषयेऽनभिधानमाश्रित्य एकस्य शब्दस्यानेकार्थत्वं चाश्रित्य एकशेषप्रकरणं भाष्ये प्रत्याख्यातम् । पिता मात्रा । 'पुमान् स्त्रिया' इत्यत्र सरुपाणामित्यनुवृत्तेरप्राप्तासिद्ध्यत्येवेति । अत्र वदन्ति - 'द्वन्द्वतत्पुरुषविशेषणानाम्' इत्येतन्न्यायसिद्धमेव वचनम् । ‘विशेष्ये यलिङ्गं तदेव विशेषणेष्वपि ' इति सर्वसंमतत्वात्, एवं च द्वन्द्वतत्पुरुषविशेषणेष्विव एकशेषविशेषणेऽपि 'एतौ' इत्यत्र 'त्यदादितः शेषे -' इत्यादिनियमाप्रवृत्त्या विशेष्यगतमेव लिङ्गं भवतीति स्त्रीवाचिगोशब्दस्य शेषे 'एते' इति स्यादेवेति 'एतौ गावौ' इति नियमतो न स्यादित्याक्षेपः संगच्छत एवेति दिक् । नपुंसकमन । अन्यतरस्यांग्रहणम् 'एकवच्च' इत्यनेनैवानन्तयत्सिंबध्यते, न त्वेकशेषणेत्याशयेनाह — क्लीचं शिष्यते तच्च वा एकवदिति । अनपुंसकेनेति किम्, शुक्लं च शुक्लं च शुक्ले । अत्र 'एकवच' इति न भवति । 'अस्य' ग्रहणम् 'अस्यैवैकशेषस्य एकवद्भावो यथा विज्ञायेत' इत्येवमर्थम् । अन्यथा उत्तरत्राप्येकवदित्यस्यानुवृत्तिः शङ्कयेत । शुक्लः पट इत्यादि । 'शुक्लः शुक्ला शुक्लम्' इत्येव विग्रहः, 'पटः पटी'