________________
२१२ ]
सिद्धान्तकौमुदी ।
[ एकशेष
पुंसकतो लिङ्गवचनानि' ( वा ७६६ ) । साच देवदत्तश्च तौ । तच्च देवदत्तश्च यज्ञदत्ता च तानि । पुत्रपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते । तच्च देवदत्तश्च ते । 'श्रद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम्' ( वा ८०० ) । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तच सा च अर्धपिप्पल्यौ ते । ६३६ ग्राम्यपशुसवेष्वलिङ्गप्रतिपादकानि भवन्तीत्यर्थः । कानीत्याकाङ्क्षायामर्थात् त्यदादीन्येव सम्बध्यन्ते । सा च देवदत्तश्च ताविति । अत्र तच्छब्दः शिष्यते समभिव्याहृतदेवदत्तशब्दलिङ्गश्च । देवदत्तशब्दस्तु निवर्तत एव । पुन्नपुंसकयेोरिति । सहोक्ताविति शेषः । परत्वादिति । पुंनपुंसकतो लिङ्गवचनानीत्यत्र पुमपेक्षया नपुंसकस्य पाठतः परत्वावगमादित्यर्थः । द्वन्द्वेति । द्वन्द्वतत्पुरुषविशेषणानां त्यदादीनां स्त्रीशेषे 'त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि' इत्येतन्न भवतीत्यर्थः । द्वन्द्व उदाहरति—कुक्कुटमयूर्याविमे इति । अयं च इयं च इमे इत्यत्र 'त्यदादितः शेषे' इति पुंलिङ्गत्वं न भवति, किंतु विशेष्यनिघ्नतैव । यद्यपि द्वन्द्वे उभयपदार्थप्रधानत्वाद् उभयमपि विशेष्यम्, तथापि परवल्लिङ्गम्' इति परपदलिङ्गत्वात्तदधीनतैव विशेषणस्येति बोध्यम् । नच अयं च इयं च इत्यत्र स्त्रीशेष एव न भवति, 'पुमान् स्त्रिया' इत्युक्तत्वात् । अतः पुंनपुंसकतः लिङ्गविधेः प्रसक्तिः कथमिति वाच्यम्, 'परवल्लिङ्गम्' इति हि द्वन्द्वतत्पुरुषयोः परवल्लिङ्गविधिः । अतः द्वन्द्वविशेषणस्य तत्पुरुषविशेषणस्य चानुप्रयोगे तदेव लिङ्गमिति भाष्यकैयटयोः स्थितम् । ततश्च 'कुक्कुटमयूर्याविमे' इति उदाहरणे अयं च इयं च इति विग्रहे 'पुमान् स्त्रिया' इति पुंशेषेऽपि 'परवल्लिङ्गम्' इति विशेषणत्वात् स्त्रीलिङ्गत्वे सति तस्य ' त्यदादितः' इति पुंवत्त्वं प्राप्तमनेन निषिध्यत इति नानुपपत्तिः । क्वचिन्मूलपुस्तकेषु तु मयूरीकुक्कुटाविमावित्यपि दृश्यते । तत्तु प्रकृतानुपयुक्तम्, अत्र मयूरीकुक्कुटाविति द्वन्द्वार्थस्य पुंलिङ्गतया इयं चायं च इमाविति तद्विशेषणस्यानुप्रयुज्यमानस्यापि 'पुमान् स्त्रिया' इति परिशिष्टस्य पुंलिङ्गस्य इदमूशब्दस्य
1
श्रद्यादित्वात्तसिः । 'त्यदादीनां शेषे सह विवक्षिते यः पुमान्, यच्च नपुंसकम्, तद्वशेन लिङ्गप्रतिपादकानि भवन्ति' इति वाच्यमित्यर्थः । कानीत्याकाङ्क्षायामर्थात्त्यदादीन्येव । श्रस्यापवादमाह - द्वन्द्वेति । द्वन्द्वादिविशेषणानां पूर्वोक्तं नास्ति, किं तु विशेष्यनिघ्नतैवेत्यर्थः । नन्वेवं ‘कुक्कुटमयूय' इत्यत्र उभयपदार्थप्रधानत्वेन उभयोरपि विशेष्यत्वाद् विशेष्यनिघ्नतायामपि 'कुक्कुटमयूर्याविमे' इति नियमतो न स्यादिति चेत् — अत्र नव्याः — ‘परवल्लिङ्गम् -' इत्यनेन द्वन्द्वतत्पुरुषयोरुत्तरपदलिङ्गवत्त्वादुत्तरपदलिङ्गस्यैव द्वन्द्वतत्पुरुषप्रतिपाद्यत्वेन तल्लिङ्गाधीनतैवानुप्रयोगस्येति न काचिदनुपपत्तिरिति । मयूरीकुक्कुटाविमाविति । प्रकृतानुपयुक्तमप्येतत्प्रसङ्गादुक्तम् । तचेति ।
-