________________
प्रकरणम् २१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२१३ तरुणेषु स्त्री। (१-२-७३) एषु सहविवसायांनी शिष्यते । 'पुमान् स्त्रिया' (सू १३३) इत्यस्यापवादः । गाव इमाः। ग्राम्य इति किम् । रुरव इमे । परग्रहणं किम् । ब्राह्मणा इमे । सङ्केषु किम् । एतौ गावी। अतरुणेषु किम् । स्त्रीत्वाप्रसक्त्या तत्र 'त्यदादितःशेषे' इति पुंस्त्वविधरप्रवृत्तत्वेन 'अद्वन्द्वतत्पुरुषविशेषणानाम्'इति निषेधस्यानुपयोगात् । तत्पुरुषे उदाहरति-तथेति । पिप्पल्या अर्धम् अर्धपिप्पली । 'अध नपुंसकम्' इति तत्पुरुषः । अर्धपिप्पली च पिप्पल्यर्ध च अर्धपिप्पल्यौ। तच्च सा च ते । तत्र पिप्पल्यर्धशब्दविशेष्याभिप्रायं तदिति नपुंसकत्वम् । सेति स्त्रीत्वं तु अर्धपिप्पलीति विशेष्याभिप्रायम् । अत्र 'पुमान् स्त्रिया' इत्यस्य नैव प्रसक्तिः । किंतु 'नपुंसकमनपुंसकेनैकबत्' इति नपुंसकं शिष्टम् । तत्र 'परवल्लिङ्गम्' इति स्त्रीत्वम् । तस्य स्त्रीलिङ्गतया तद्विशेषणस्यापि 'परवल्लिङ्गम्' इति स्त्रीत्वम् । तस्य 'त्यदादितः शेषे' इति नपुंसकत्वं प्राप्तं निषिध्यते । एवं च ते इति स्त्रीलिङ्गमेव सिध्यति । यद्यपि स्त्रीत्वे नपुंसकत्वे वा ते इति द्विवचनस्य न कोऽपि विशेषः तथाप्यर्धपिप्पल्यस्ताः इत्युदाहार्यम् । तच्च तच सा चेति विग्रहः । ग्राम्यपशु । एग्विति । तरुणभिन्नेषु ग्राम्याणां पशूनां संघेष्वित्यर्थः । इह अनपुंसकेनेत्यनुवर्तनादाह-पुमान् लियेत्यस्यापवाद इति । गौश्व गौश्च गौश्च इति पुंलिङ्गस्त्रीलिङ्गेषु गोशब्देषु सहविवक्षितेषु 'पुमान् स्त्रिया' इत्येतद्बाधित्वा स्त्री शिष्यत इति भावः । ननु स्त्रीशेषे पुंशेषे वा न कोऽपि रूपभेद इत्यंत आह-इमा इति। अनुप्रयोगे रूपभेदः फलमिति भावः । 'त्यदादितः शेषे' इति न भवति, 'गाव इमाः' इति भाष्यप्रयोगादित्याहुः । रुरव इमे इति । रुरुः कृष्णाख्यो मृगः। अग्राम्यपशुत्वान्न स्त्री शिष्यते । किंतु 'पुमान् स्त्रिया' इत्येकशेषः । ततश्चानुप्रयोगे इमे इति पुंलिङ्गत्वमेव । ब्राह्मणा इमे इति । ब्राह्मणी च ब्राह्मणाश्चेति विग्रहः । अपशुत्वान स्त्री शिष्यते । किंतु 'पुमान् त्रिया' इत्येकरोषः। अन्यथा ब्राह्मण्यः इमा इति स्यात् । एनौ गावाविति । स्त्रीलिङ्गपिप्पल्यर्धम् । सा वेति । अर्धपिप्पली । तत्पुरुषविशेषणमुदाहरति-अर्धपिप्पल्यौ ते इति । यद्यपि स्त्रीनपुंसकसाधारणतः 'ते' इति प्रयोगः, तथापि 'तच्च तच्च सा च अधेपिप्पल्यत्ताः' इत्यायुदाहरणमृह्यम् । ग्राम्य । ग्रामे भवा ग्राम्याः। 'ग्रामाद्यखो' इति यः। लिङ्गद्वयेऽपि 'गावः' इति रूपस्य समानत्वात् स्त्रीलिङ्गशेषस्य फलमाह-इमा इति । एवं च 'इमे च इमाश्च इमाः' इति स्त्रीलिङ्गशेष एव भवति, न त्वत्र 'त्यदादितः शेषे पुनपुंसकतो लिङ्गवचनानि' इति पुंलिङ्गशेषः । 'गाव इमाः' इति भाष्योदाहरणादित्येके । अन्ये तु ग्राम्यपशुसङ्घविषयत्वाविशेषाद् 'गावः' इतिवत् 'इमाः' इति च स्त्रीलिङ्गशेष एव स्यादिति नास्ति शावकाश इत्याहुः । एतौ गावा