________________
२१४ ] सिद्धान्तकौमुदी। [ एकशेषवरसा इमे । 'अनेकशफेष्विति वाच्यम्' (वा ८०१)। अश्वा इमे । इह सर्वत्रैकशेषे कृतेऽनेकसुबन्ताभावाद् द्वन्द्वो न । तेन शिरसी शिरांसि इत्यादौ समासस्थेत्यन्तोदात्तः प्राण्यङ्गत्वादेकवद्भावश्च न । पन्थानौ पन्थानः इत्यादौ समासान्तो न।
इत्येकशेषप्रकरणम् ।
पुंलिङ्गयोः सहोतो असंघत्वान्न स्त्री शिष्यते । संघशब्दो हि बहूनां समुदाये वर्तते, अन्यथा एकशेषस्यानेकविषयत्वादेवानेकपरिग्रहे सिद्ध किं तेनेति भावः । स्त्रीशेषे तु एते इति अनुप्रयोगे रूपं स्यात् । वत्सा इमे इति । वत्साश्च वत्साश्च इति विग्रहः । तरुणत्वान्न स्त्री शिष्यते । अन्यथा वत्सा इमा इत्यनुप्रयोगः स्यात् । अनेकशफेष्विति वाच्यम् । वार्तिकमिदम् । एकशफा अश्वादयः, तेषां सहोतो ग्राम्यपश्विति न भवति । अश्वा इमे इति । एकशफत्वान्न स्त्री शिष्यते । ततश्चानुप्रयोगे पुंलिङ्गत्वमिति भावः । ननु 'सरूपाणाम्' इति सूत्रे 'तिष्यपुनर्वखोर्नक्षत्रद्वन्दे' इत्यतः द्वन्द्वग्रहणानुवृत्त्या द्वन्द्वे एकशेष इति भाष्यात् कृते द्वन्द्वे एकशेषः स्यादित्यत आह-इहेति । इहोदाहृतेषु एकशेषविषयेषु सर्वत्र प्रसक्तं द्वन्द्वमनवकाशत्वादेकशेषो बाधते । कृते त्वेकशेषेऽनेकाभावाद् द्वन्द्वो नेत्यर्थः । द्वन्द्वसमासे एकशेष इति भाष्यं तु द्वन्द्वे प्रसक्ते सहविवक्षायामेकशेष इति व्याख्येयम् । ननु कृत एव द्वन्द्वे एकशेषो भवतु, का हानिरित्यत आह-तेनेति । द्वन्द्वात् प्रागेवैकशेषाश्रयणेनेत्यर्थः। कृते द्वन्द्वे एकशेषाभ्युपगमे शिरसी इति द्विवचने शिरांसीति बहुवचने च समासस्येत्यन्तो. दात्तः स्यात् , प्राण्यङ्गत्वात् 'द्वन्द्वश्व प्राणि' इत्यादिना एकवद्भावश्च स्यादित्यर्थः । आदिना शिरोभ्यां शिरोभिरित्यादिसंग्रहः । पन्थानाविति । द्वन्द्वे कृते एकशेषाभ्युपगमे पन्थानौ पन्थानः, पथिभ्याम् पथिभिः इत्यादौ 'ऋक्पूः' इत्यप्रत्ययः समासान्तः स्यादिति भावः । नचात्र 'इतोऽत्सर्वनाम' इति सर्वनामस्थाने परेऽकारविति। एकशेषस्यानेकविषयत्वादेवानेकपरिग्रहे सिद्धे सङ्घग्रहणसामर्थ्याद्वहूनां समुदायोऽत्र गृह्यत इति भावः । एकशेषे कृत इति । विभक्त्युत्पत्त्यनपेक्षत्वेनान्तरगत्वादिति भावः । नन्वेवं विषयभेदाद् 'द्वन्द्वापवाद एकशेषः' इत्युद्धोषः कथं प्रवर्तत इति चेत्-अत्राहुः-यद्यकशेषो न स्यात्, तर्हि विभक्तावुत्पद्यमानायां द्वन्द्वः स्यात्, कृते त्वेकशेषे स न भवतीति तार्किकी प्राप्तिमादायापवादोद्घोष इति । द्वन्द्वो नेति । एतेन 'कृतद्वन्द्वानामेकशेषः' इति भ्रमो निरस्तः । न च तथैवास्तु, फले विशेषाभावादिति वाच्यमित्याह-तेनेति । पन्थानाविति । न चात्र 'इतोऽत्सर्व नामस्थाने' इति लिङ्गात्समासान्तः सुपरिहरः, 'इतोऽत्' इत्युक्तेऽपि 'सौ' इत्यनुवृत्त्या