SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३१ स्यात्प्रत्ययः प्रकृतिश्च । 'जनपदतदवध्योश्च' (सू ३४८) इति प्रकरणे ये प्रत्यया उकास्तेऽत्रातिदिश्यन्ते । अङ्गा जनपदो भनिरस्य प्राङ्ग : । अङ्गाः स्त्रियाः भक्तिरस्य प्राङ्गकः । 'जनपदिनाम् किम्-पशाला ब्राह्मण भक्तिरस्य पाञ्चालः। 'जनपदेन' इति किम्-पौरवो राजा भक्रिरस्य पौरवीयः । १४८१ तेन प्रोक्तम् । (४-३-१०१) पाणिनिना प्रोक्तं पाणिनीयम् । १४८२ इति वुप्रत्यये प्राङ्गक इति यथा, तथा अङ्गदेशस्वामिनः क्षत्रिया अङ्गा भक्तिरस्येत्यर्थे क्षत्रियवाचकादङ्गशब्दाद् वुनि आनक इति रूपमित्यर्थः । पश्चाला ब्राह्मणा इति । अभेदोपचारादिह ब्राह्मणेषु पञ्चालशब्दः। तत्रातिदेशाभावादणेव भवति । पौरव इति । पौरवशब्दो न जनपदवृत्तिरिति नावः । 'बहुवचने' किम् ? एकवचनद्विवचनयोः सत्यपि शब्दभेदे अतिदेशो भवति । यथा आङ्गो वा आगो वा भक्तिरस्य श्राङ्गक इति। 'प्रकृतिश्चेति' किम् ? मद्राणां राजा माद्रः, 'यष्मगध-' इत्यम्। माद्रो भक्तिरस्येत्यर्थे अतिदेशान्मादस्य मद्रत्वे सति 'मद्रवृज्योः - इति कनि माद्रक इति सिध्यति । तेन प्रोक्तम् । अस्मिन्नर्थे तृतीयान्ताद् यथाविहितं प्रत्ययाः स्युरित्यर्थः । पाणिनीयमिति । व्याकरणमिति शेषः। वृद्धाच्छः । प्रथमं प्रकाशितं प्रोक्त दर्शयति-जनपदस्वामिवाचिनामिति । प्रत्ययः प्रकृतिश्चेति । अनेन सर्वशब्दस्यार्थो दर्शितः । असति सर्वग्रहणे प्राधान्यात्प्रत्ययस्यैवातिदेशः स्यात् , न तु प्रकृतेरिति हरदत्तः । अत्र वार्तिककारः सर्वशब्दस्य प्रयोजनमाह-सर्ववचन प्रकृतिनिहर्हासार्थम् , तच्च मद्रवृज्यर्थमिति । अयं भावः-वृद्धिनिमित्तेषु वुनादिष्वतिदिष्टेऽपि प्रकृतिरूपे पुनर्वृध्या भाव्यमिति विशेषस्य तत्र दुर्लभत्वान्मद्रवृज्योः कनि विशेषो बोध्यः । सोऽप्यबहुत्व एवेति निर्हासोपचयोल्पता। तथा हि, मद्राणां राजा 'यञ्मगध-' इत्यण् । माद्रः । वृजिशब्दाद् 'वृद्धत्कोशला-' इति व्यङ् । वायंः । स भक्तिरस्येति प्रकृतिनिहाँसे मद्रकः, वृजिकः । 'मद्रवृज्योः कन्' । अन्यथा मादकः वाय॑क इति स्यात् । प्राङ्गक इति । 'जनपदतदवध्योश्च । 'श्रवृद्धादपि-' इति वुञ् । अङ्गशब्दात्स्वामिवाचिनो बहुवचनान्तादणि प्राप्ते वुनतिदिश्यते । पश्चाला ब्राह्मणा इति । अभेदोपचाराब्राह्मणेषु पञ्चालशब्दस्य वृत्तिः। बहुवचनग्रहणं किम् , एकवचनद्विवचनयोः सत्यपि शब्दभेदे अतिदेशो यथा स्यात् । आज श्राङ्गो वा भक्तिरस्य श्राङ्गकः । इह वृद्धाच्छे प्राप्ते वुन् । तेन प्रोक्तम् । प्रकर्षणोक्तं प्रोक्तमित्युच्यते, न तु कृतम् , 'कृते ग्रन्थे' इत्यनेन गतार्थत्वात् । पाणिनिना प्रोक्नमिति । स्वयमन्येन वा कृतं व्याकरणमध्यापनेनार्थव्याख्यानेन वा प्रकाशितमित्यर्थः । प्रेति किम् , देवदत्तेनाघ्यापितं प्रख्यातस्यैव ग्रन्यस्याध्यापनमिति नेहानेन प्रत्ययः ।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy