________________
४३२] सिद्धान्तकौमुदी। [तद्धितेषु शैषिक. तित्तिरिवरतन्तुखण्डिकोखाच्छण् । (४-३-१०२ ) 'छन्दोब्राह्मणानि-' (सू १२७८ ) इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः । १४८३ काश्यपकौशिकाभ्यामृषिभ्यां णिनिः। (४-३-१०३ ) काश्यपेन प्रोक्तमधीयते काश्यपिनः । १४८४ कलापिवैशम्पायनान्तेवासिभ्यश्च । (४-३-१०४) कलाप्यन्तेवासिभ्यः-हरिगुणा प्रोकमधीयते हारिद्रविणः । म् । नेह-देवदत्तेनाध्यापितम् । तित्तिरिवरतन्तु । तेन त्रोक्तमित्येव । तित्तिरि, वरतन्तु, खण्डिक, उखें एभ्य उक्तविषये छण् स्यादित्यर्थः । इत प्रारभ्य 'तेनैकदिक्' इतिपर्यन्तं प्रोक्ते वेदे भवन्ति, 'शौनकादिभ्यः छन्दास' इति छन्दो. ग्रहणस्य ततः पूर्वं तत उत्तरं चापकर्षानुवृत्त्योरभ्युपगमात् । अत्र छणादिप्रत्य. यान्तानामेषां केवलानां न प्रयोगः । किंत्वध्येतृवेदितृप्रत्यय शेरस्काणामेवेत्याहछन्दोब्राह्मणानीति । तद्विषयतेति । अध्येतृवेदितृप्रत्ययशिरस्कत्वनियम इत्यर्थः। तैत्तिरीया इति । प्रोक्ते वेदे छण् , ईयः । तैत्तिरीयः शाखाभेदः, तमधीयते विदन्ति वेत्यर्थे अण् । 'प्रोक्ताल्लुक' इति तस्य लुगिति भावः । वारतन्तवीयाः, खाण्डिकीयाः । औखीयाः । तित्तिरिणा प्रोक्तः श्लोक इत्यत्र तु न, छन्दसीत्यनुवृत्तेः । छन्दःशब्देन च कल्पसूत्राणामपि ग्रहणम् , तेष सर्वशाखागतविधिवाक्यसंग्रहात्मकत्वात् । काश्यप । तेन प्रोक्तमित्येव । छस्या पवादः । काश्यपिन इति । काश्यपशब्दाद् णिनिः । णकार इत् , नकारादिकार उच्चारणार्थः । काश्यपिन्शब्दात् 'प्रोक्ताल्लुक्' इत्यध्येतृप्रत्ययस्याणो लुगिति भावः । एवं कौशिकिनः । 'ऋषिभ्यां' किम् ? इदानींतनेन काश्यपेन प्रोक्तं काश्यपेयम् । कलापि । तेन प्रोक्तमित्येव । कलापिशिष्यवाचिभ्यो वैशम्पायनशिष्यवाचि यश्च णिनिः स्यादित्यर्थः । कलाप्यन्तेवासिभ्य इति । उदाह्रियत इति शेषः । हारिद्रविण तित्तिरिवर । अणोऽपवादः । तद्विषयतेति 'शौनकादिभ्यश्छन्दसि' इत्यत्रास्यानुवृत्तेस्तित्तिरिणा प्रोक्ताः श्लोका इत्यत्र न भवतीति भावः । तैत्तिरीया इति । 'प्रोक्ताल्लुक्' इत्यध्येतृप्रत्ययस्य लुक् । एवमग्रेऽपि । काश्यप । छस्यापवादः । णकार उत्तरत्र वृद्ध्यर्थः । ननु 'वृद्धिनिमित्तस्य-' इति पुंवद्भावनेषेधोऽत्र फलमस्तीति चेत् । अत्राहुः-णिन्यन्तस्याध्येतृवादेतृविषयत्वेन स्त्रियामप्रवृत्तेः । प्रवृत्तावपि 'जातेश्च' इति सिद्धत्वात् , चरणत्वेन जातित्वादिति । ऋषिभ्यामिति किम् , इदानींतनेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम् । कलापिवैशम्पायन । अणोऽ. पवादः। छं तु परत्वाद्वाधते । कलाप्यन्तेवासिनश्चत्वारः । ह रेछ, छगली, तुम्बुरुः,
१ 'उखा' इति क.