________________
प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३३ वैशम्पायनान्तेवासिभ्यः-पालम्बिनः। १४८५ पुराणप्रोक्नेषु ब्राह्मणकल्पेषु। (४-३-१०५) तृतीयान्ताप्रोकार्थे णिनिः स्याद् यत्प्रोकं पुराणमोकाश्चेद् ब्राह्मण. कल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्काः । भल्लु, भाल्लविनः । शाव्यायन-शाकायनिनः । कल्पे, पिक-पनी कल्पः । 'पुराण' इति किम्इति । हरिद्रुर्नाम कलापिनः शिष्यः । ततः प्रोक्ते णिनिः, ओर्गुणः, श्रादिवृद्धिः । हारिद्रविन्शब्दादध्येत्रणः 'प्रोक्ताल्लुक्' इति लुगिति भावः । हरिदुः, छगली, तुम्बुरुः, उलप इति चत्वारः कलापिशिष्याः। तुम्बुरुणा प्रोक्तमधीयते तौम्बुरविणः । छगलिनस्तु ढिनुग्वक्ष्यते, औलपिनः । वैशम्पायनान्तवासिभ्य इति । उदाहियत इति शेषः । प्रालम्बिन इति । श्रालम्बिः, कलिङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति नव वैशम्पायनशिष्याः। तत्र आलंबिशब्दाद् अध्येत्रणः प्रोक्ते णिनिः। श्रालम्बिन्शब्दादध्येत्रणः 'प्रोक्ताल्लुक्' इति लुक् । श्रालम्बिनः, कालिङ्गिनः, कामलिनः, आर्चाभिनः, आरुणिनः, लाण्डिनः । अत्र 'भापत्यस्य-' इति यलोपः। श्यामायनिनः । कठात्तु लुग्वक्ष्यते । कलापिनस्त्वण वक्ष्यते । वैशम्पायनशिष्यः कलापी। तथा च कलाप्यन्तेवासिनां वैशम्पायनशिष्यत्वादेव सिद्धे पृथग्ग्रहणात् तच्छिष्यशिष्याणां न ग्रहणमिति भाष्ये स्पष्टम् । पुराणप्रोक्नेषु । 'तेन प्रोक्तम्' इति 'णिनिः' इति चानुवर्तते । मन्त्रव्यतिरिक्तवेदभागा ब्राह्मणानि । बोधायनादिकल्पसूत्राणि कल्पाः । तथाभूतेषु पुरातनमुनिप्रोक्तेषु ग्रन्थेषु वाच्येषु तृतीयान्तारिणनिः स्यादित्यर्थः । तदाहतृतीयान्तादिति । यत्प्रोक्तमिति । सामान्याभिप्रायमेकवचनम् । प्रत्ययाभिधेयं यत्प्रोक्तं तत्पुरातनमुनिप्रोक्तब्राह्मणकल्पात्मकं चेदिति यावत् । पुराणप्रोक्तमित्येतद् व्याचष्टे । पुराणेनेति । ब्राह्मणे उदाहरति-भल्लु-भालविन इति । भल्लु इति प्रकृतिनिर्देशः । भल्लुना पुरातनमुनिना प्रोक्लान् ब्राह्मणभागानधीयते इत्यर्थे प्रोक्तार्थणिनिः । भाल्लविन्शब्दादध्येत्रणो लुकि भाल्लविन इति रूपमिति भावः । ब्राह्मणे उदाहरणान्तरमाह-शाट्यायन-शाट्यायनिन इति । शाट्यायनेतिप्रकृतिनिर्देशः । शाय्यायनेन पुरातनमुनिना प्रोक्लान् ब्राह्मणभागान् अधीयते इत्यर्थे प्रोक्तार्थणिनिप्रत्यये शाट्यायनिन्शब्दादध्येत्रणो लुकि शाट्यायनिन इति रूपमित्यर्थः । कल्प इति । उदाह्रियत इति शेषः । पिङ्ग-पैङ्गी कल्प इति । उलप इति। वैशम्पायनान्तेवासिनस्तु नव । श्रालम्बिः, कलिङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति । हारिद्रविण इति । एवं तौम्बुरविणः, औलपिनः । छगलिनस्तु ढिनुकं वक्ष्यति । प्रालम्बिन इति ।