________________
प्रकरणम् ३३] बालमनोरमा-तत्त्वबोधिनीसहिता। [५११ १६) विरागं नित्यमर्हति वैरजिकः । १७३० शीर्षच्छेदाद्यश्च । (५-१-६५) शिरश्छेदं नित्यमर्हति शीर्षच्छेदः, शैर्षच्छेदिकः । यटकोः सन्नियोगेन शिरसः शीर्षभावो निपात्यते । १७३१ दण्डादिभ्यः । (५-१-६६) एभ्यो यत्स्यात् । दण्डमर्हति दरख्यः । अध्यः । वध्यः । १७३२ पात्राद्धश्च । (५-१-६८) चाद्यत् । तदहतीत्यर्थे । पात्रियः, पाभ्यः । १७३३ कडङ्करदक्षिणाच्छ च । (५-१-६६) चाद्यत् कडं करोतीति विग्रहेऽत एव निपाफलति । विराग विरङ्गं चेति । गणसूत्रमिदम् । उक्तेऽर्थे विरागशब्दो विरङ्गादेश लभत इत्यर्थः । चादा-यष्ठक्। शीर्षच्छेदाद्यश्च । चादा यष्ठक् । ननु 'शीर्षञ्छन्दसि' इति छन्दस्येव शिरसः शीर्षादेशविधानात् कथमिह शीर्षादेश इत्यत आह यट्टकोरिति । दण्डादिभ्यः । यदित्यनुवर्तते तदाह यत्स्यादिति । 'दण्डादिभ्यो यः' इति त्वपपाठः, 'अचो यत्' इति सूत्रभाष्ये तथैव दर्शनात् । अर्घ्य इति । मूल्यं पूजाविधिं वाहतीत्यर्थः । 'मूल्यं पूजाविधावर्घः' इत्यमरः । वध्य इति । वधमर्हतीत्यर्थः। पात्रात् घंश्च । पात्रियः, पाच्य इति । सिद्धेः, किं तु प्रत्ययार्थविशेषणमिति ध्वनयति-छेदं नित्यमर्हतीति । भाष्ये तु नित्यग्रहणं प्रत्याख्यातम् , सूत्रमेव मास्त्विति तदाशय इति मनोरमा। अयं भावःनित्यग्रहणमिह प्रत्ययाथेविशेषणं न भवति, नित्यं छेदमहतीत्यस्यार्थस्यासम्भवात् । न हि कश्चित्पदार्थो नित्यं छेदमर्हति । योऽपि वेतसादिरर्धच्छिंन्नः प्ररोहति, सोऽपि न नित्यं छेदमर्हति। कालान्तर एव तस्य छेदप्रवर्तनात् । न चात्र नित्यग्रहणत्यागेऽपि छेदमर्हतीत्यादिविग्रहवाक्यनिवृत्तये सूत्रस्यावश्यकत्वात्तत्प्रत्याख्यानं न युज्यत इति शङ्कयम् , विग्रहवाक्यस्य भाष्यादिसम्मतत्वादिति दिक्।छेद भेद द्रोह दोषेत्यादयश्छेदादयः। गणसूत्रमाह-विरागेति । दण्डादिभ्यः। पूर्वसूत्राद्यदनुवर्तत इत्याह-यत्स्यादिति। केचित्तु “दण्डादिभ्यो यः' इति पठन्ति, स चापपाठ एव भाष्यादिविरोधादित्याहुः । तथा हि-'अचो यत्' इति सूत्रे भाष्ये उक्त 'हनो वा यद् वधादेशश्च' वध्यः, घात्यः। 'तद्धितो वा' वधमर्हति वध्य इति । यदि चेह यद्विधीयेत तदेवैतदुपपद्यते, पक्षद्वयेऽपि 'यतोऽनावः' इत्यायुदात्तत्वात् । यदि त्वत्र यो विधीयेत तदा खरो भिद्येत । मनोरमायां तु 'क्यब्विधौ हनो वा' 'वधस्तद्धितो वा' इति भाष्यम् । यदि चेह यद्विधीयेत, तदैवतदुपपद्येत । क्यप्याद्युदात्तत्वं यत्यपि तद्धिते 'यतोऽनावः' इत्यायुदात्तत्वमित्यादि
१ अयमेव बालमनोरमात त्वबोधिनीसंमतः सूत्रपाठः । अष्टाध्यायीपुस्तकेषु तु क्वचिद् 'दण्डादिभ्यो यत्' इति, क्वचिच्च 'दण्डादिभ्यो यः' इत्युपलभ्यते।