________________
५१० ]
सिद्धान्तकौमुदी ।
[तद्धितेष्वाहय
1
त्वारिंशतोर्ब्राह्मणे संज्ञायां डण् । ( ५-१-६२ ) त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां शानि । चात्वारिंशानि । १७२८ तदर्हति । ( ५-२-६३ ) लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्त्रमर्हति तच्छस्त्रिकः । १७२६ छेदादिभ्यो नित्यम् । ( ५-१-६४ ) `नेत्यमाभीषण्यम् । छेदं नित्यमर्हति छेदिको वेतसः । छिवप्ररूढत्वात् । 'विराग विरङ्गं च' (ग सू विग्रहः । डति डित्त्वाट्टिलोपः । एतदर्थमेव डित्त्वम् । पक्ष इति । डत्यभावपक्षे ‘संख्यायाः-' इति कन्नित्यर्थः । त्रिंशच्चत्वारिंशतोः । तदव्य परिमाणमित्यर्थे परिमाणिनि ब्राह्मणे वाच्ये त्रिंशच्चत्वारिंशद्भयां डण् स्यादित्यर्थः । ब्राह्मणं वेदेषु मन्त्रव्यतिरिक्तो भागः । त्रँशानीति | ङित्त्वात् 'टे:' इति टिलोपः । तदर्हति । श्रतीत्यस्य योग्यो भवतीत्यर्थे श्रकर्मकत्वात्तदिति द्वितीया न स्यात् । इष्यते तु द्वितीयान्तादेव प्रत्ययः । तत्राह - लब्धुमिति । श्वैत च्छत्त्रिक इति । आर्हीयष्ठक् । छेदादिभ्यो नित्यम् । श्रभीक्ष्ण्यमिति । पौनःपुन्यमित्यर्थः । तन्नित्यमर्हतीत्यर्थे द्वितीयान्तेभ्यः छेदादिभ्यो यथाविहितं प्रत्ययः स्यादित्यर्थः । छैदिको वेतस इति । 'आहत्' इति ठक् । 'तदर्हति' इलेव सिद्धे श्राभीक्ष्ण्य एवेति नियमार्थमिदं सूत्रम् । वस्तुतस्तु नित्यमिति नाभीक्ष्यार्थः प्रत्ययार्थकोटिप्रविटम्, किंतु पाक्षिकार्थकं 'समर्थानां प्रथमाद्वा' इति वाग्रहणानुवृत्तिनिवृत्त्यर्थमित्यभिप्रेत्य विग्रहवाक्यस्यापि लोके दर्शनान्नित्यग्रहणं न कर्तव्यमित्युकं भाष्ये । एवं च छेदादिभ्यः पाक्षिकप्रत्ययस्य ' तदर्हति' इत्येव सिद्धत्वात् सूत्रमेवेदं नारब्धव्यमिति परिमाणम्' इत्यनुवर्तत एव । दशदिति । दश परिमाणस्य | पक्ष इति । वाग्रहणात् 'संख्यायाः -' इति कन्नपि भवतीति भावः । त्रिंशच्चत्वारिंशतोः । व्यत्ययेन पञ्चम्यर्थे षष्ठीद्विवचनम् । 'चत्वारिंशतो ब्राह्मणे' इति पाठे तु समाहारद्वन्द्वात्पञ्चम्येकवचनम् । इह 'ब्राह्मण संज्ञायाम्' इति षष्ठीसमास्न निर्देष्टुमुचितम् । तथा हि सति ब्राह्मणस्य चेत्संज्ञा' इति स्फुटीभवति । अन्यथ तु यस्य कस्यचित् संज्ञायां ब्राह्मणस्थे च प्रयोगे इत्यनिष्टोऽर्थः सम्भाव्येत । ततश्व मन्त्रे भाषायां च डन सिध्येत् । इष्यते च सः । तस्मादिष्टानुरोधेन षष्ठयर्थे सप्तमीति व्याख्येयम् । 'ब्राह्मणेऽभिधेये' इति तु काशिकायां व्याख्यातम् । ठञादय इति । ठञ उदाहरणं तु प्रस्थमर्हति प्रास्थिकः द्रौणिक इत्याद्यूत्यम् । श्रादिशब्दग्राह्यस्य ठक उदाहरणमाह - श्वेतच्छत्रिक इति । एवं खारीकः । शल्यः । शतिक । साहस्रः । इत्यादीन्युदाहर्तव्यानि । छेदादिभ्यो । नित्यग्रहणमिह 'नित्यं क्रोडाजीविकयोः' इत्यत्रेव महाविभाषया प्राप्तस्य वाक्यस्य निवृत्त्यर्थ न भवति, आरम्भसामर्थ्यादेव तन्निवृत्ति