________________
प्रकरणम् ३३] बालमनोरमा-तत्त्वबोधिनीसहिता। [५०६ पञ्च परिमाणमस्य पञ्चवर्गः । दशत् । पने पञ्चकः । दशकः । १७२७ त्रिंशत्र इति छन्दःशास्त्रे । दशानां वर्गो दशत् । 'पञ्चद्दशती वर्गे वा' इति वक्ष्यते । द्वौ दशतौ परिमाणमस्य संघस्येति विंशतिः, शतिच्प्रत्ययः, प्रकृतेर्विन्भावः, अनुस्वारश्च । अत्र संघग्रहणमनुवर्तते । तथा च गर्वा विंशतिरिति भवति । संघ. संघिनोस्तादात्म्यविवक्षायां तु विंशतिर्गाव इति भवति । स्वभावादेकवचमं स्त्रीत्वं च । एवं त्रिंशदादावपि । 'विंशत्याद्याः सदैकत्वे संख्याः संख्येयसङ्ख्ययोः' इति, 'तासु चानवतेः स्त्रियः' इति चामरः। त्रयो दशतः परिमाणमस्य संघस्य बिरात्, शत्प्रत्ययः, प्रकृतेः त्रिन्भावश्च । चत्वारो दशतः परिमाणमस्य संघस्य चत्वारिंशत् , शत्प्रत्ययः । प्रकृतेः चस्वारिन्भावश्च । पञ्च दशतः परिमाणमस्य संघस्य पश्चाशत् , शत्प्रत्ययः प्रकृतेः पञ्चादेशः । षड् दशतः परिमाणमस्य संघस्य षष्टिः । तिप्रत्ययः प्रकृतेः षष् , जश्त्वाभावश्च । सप्त दशतः मरिमाणमस्य संघस्य सप्ततिः, तिप्रत्ययः, प्रकृतेः सप्तादेशः। अष्टौ दशतः परिमाणमस्य संघस्य अशीतिः, तिप्रत्ययः, प्रकृतेः अशी इत्यादेशः । नव दशतः परिमाणमस्य संघस्य नवतिः, तिप्रत्ययः प्रकृतेः नवादेशः । दश दशतः परिमाणमस्य संघस्य शतम् , तप्रत्ययः प्रकृतेः शादेशश्च । एतत्सर्व भाष्ये स्पष्टम् । “एतान्यव्युत्पनप्रातिपदिकानि' इति तु भाष्यनिष्कर्षः । पञ्चदशती । पञ्च दश वा परिमाणमस्य वर्गस्येत्यर्थे एतौ निपात्येते इत्यर्थः । पश्चद्वर्ग इति । पञ्च परिमाणमस्येत्यर्थे पश्चन्शब्दाद् डतिप्रत्ययः । तत्र इकार उच्चारणार्थः । 'टेः' इति टिलोपः। दशदिति । दश परिमाणमस्य वर्गस्येति पङ्किरिति । अस्ति च दशसंख्यायां पतिरथ इति, दशरथ इत्यर्थः । अस्ति हि छन्दोविशेषे यस्य पञ्चाक्षराः पञ्चपादाः । तथा च छन्दोविशेषे एवावयवार्थो नान्यत्रेति बोध्यम् । द्वयोर्दशतोविन्भावः शतिश्च प्रत्ययः अपदत्वं च। द्वौ दशती परिमाणमस्य विंशतिः, अपदत्वनिपातनामकारस्यानुखारः । केचित्तु विन्भावमुक्त्वा अपदत्वं चेति न पठन्ति । त्रयाणां दशतां त्रिन्भावः शच प्रत्ययः । मतान्तरे तु त्रिभावः । त्रयो दशतः परिमाणमस्य त्रिंशत् । एवं चतुर्णां चत्वारिं । पञ्चानां पञ्चा । प्राभ्यामपि शत्प्रत्ययः । षण्णां दशता षष् , तिश्च प्रत्ययः अपदत्वं च । षड् दशतः परिमाणमस्याः षष्टिः । ततखिभ्योऽपि तिप्रत्यय एव । सप्तानां दशतां सप्त, अष्टानां दशतामशी, नवानां दशता नव, दशानां दशतां शभावः तश्च प्रत्ययः। दश दशतः परिमाणस शतम् । पशहाराती। इभी उत्यन्तत्वेन निपात्येते वगैऽभिधेये । 'तदस्य
१ 'तिप्रत्ययः' । 'न लोपः' इति नकारलोपः' इति पाठः क.। २ 'न लोपः' इति पाठः का