________________
५०८ ]
सिद्धान्तकौमुदी। तद्धितेष्वाीय. पञ्चकमध्ययनम् । 'स्तोमे डविधिः' ( वा ३०४५)। पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः स्तोमः । सप्तदशः । एकविंशः। डप्रत्यये तिलोपः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ठादिसंज्ञिका स्तुतिः स्तोमः । १७२५ पङ्क्तिविंशतित्रिंशञ्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् । (५-१-५६) एते रूढिशब्दा निपात्यन्ते । १७२६ पञ्चदशती वर्गे वा । (५-१-६०) ग्रहणं व्यर्थमित्यत आह-संघशब्दस्येति । पञ्चकमध्ययनमिति । पञ्चावृत्तयः परिमाणमस्येति विग्रहः। स्तोमे डविधिरिति । तदस्य परिमाणमित्यर्थे संख्यावाचिन उपसंख्यातव्य इति शेषः । सामाधारमन्त्रसमूहे स्तोमशब्दः शक्त इति कैयटः । मनुष्यादिसमूहे तु स्तोमशब्दो लाक्षणिक इति तदाशयः । तदाहपञ्चदश मन्त्रा इति । पञ्चदशः स्तोम इति । पञ्चदश् शब्दाद् डप्रत्यये 'टेः' इति टिलोपः । सामाधारभूतपञ्चदशमन्त्रसमूह इत्यर्थः । ननु डित्त्वाभावेऽपि 'नस्तद्धिते' इत्येव टिलोपसिद्धेर्डित्त्वं व्यर्थमित्यत आह–एकविंश इति । एकविंशतिर्मन्त्राः परिमाणमस्य समूहस्येति विग्रहः । डप्रत्यय इति । 'तिविंशतेडिति' इति टिलोपः । मीमांसकास्तु पृष्ठरथन्तरादिशब्दवाच्या प्रगीतमन्त्रसाध्या गुणवत्त्वेन वर्णनात्मिका स्तुतिरेव स्तोमः, स एव डप्रत्ययार्थः । प्रगीतपञ्चदशमन्त्रपरिमाणकः स्तोम इत्यर्थः । पञ्चदशत्वसंख्यात्मकपरिमाएं स्तुतौ मन्त्रद्वारा बोध्यम् । एवं च 'पञ्चदशेन स्तुवते' इत्यादौ धात्वर्थभूतस्तुतिसामानाधिकरण्यं पञ्चदशादिशब्दानामुपपद्यत इत्याहुः । तन्मतमवलम्ब्याह-सोमयागेष्वित्यादि। पतिर्विशति । रूढिशब्दा निपात्यन्त इति । तदस्य परिमाणमित्यर्थे इति शेषः । पञ्च पादाः परिमाणमस्येत्यर्थे पञ्चन्शब्दात् तिप्रत्यः, प्रकृतेष्टिलोपः, चकारस्य कुत्वम् , अनुस्वारपरसवर्णों, पक्तिरिति रूपम् । 'पञ्चाक्षरा पञ्चपदा पङ्क्तिः ' पञ्चैवेति । स्तोमे डविधिरिति । डित्करणमेकविंश ? त्यत्र टिलोपार्थम् । त्रयस्त्रिंशादौ टिलोपार्थं च । पञ्चदश मन्त्रा इति । 'साम्ना स्तुवीत', 'एकं साम तृचे क्रियते' इति हि श्रुतिः । तत्र तृचस्य पञ्चकृत्व आवृत्त्या पञ्चदशमन्त्राः । सप्तदशे स्तोमे अन्त्याया ऋचः सप्तकृत्व आवृत्तिः। प्रथममध्यमयोस्तु पञ्चकृत्व एव, एकविंशे स्तोमे तु तृचस्य सप्तकृत्व आवृत्तिरिति ज्ञेयम् । छन्दोगैरिति । सामगैरित्यर्थः । पङ्क्तिविंशति । तदस्य परिमाणम्' इति वर्तते पञ्चन्शब्दस्य टेिलोपः, तिप्रत्ययः, 'चोः कुः' इति कुत्वम् । पञ्चपदानि परिमाणमस्य पतिश्छन्द इति काशिका । पदशब्दोऽत्र पादपर्याय इति हरदत्तः । रूढिशब्दा इति । तथा चात्र नावयवार्थेऽभिनिवेष्टव्यम् । पङ्किशब्दो हि नानार्थः । अस्ति क्रमसंनिवेशे ब्राह्मणपतिः पिपीलिका