________________
प्रकरणम् ३३] बालमनोरमा-तस्वबोधिनीसहिता। [५०७ परिमाणमस्य प्रास्थिको राशिः । १७२४ संख्यायाः संज्ञासासूत्राध्ययनेषु । (५-१-५८) पूर्वसूत्रमनुवर्तते । तत्र 'संज्ञायां स्वार्थे प्रत्ययो वाच्यः' (वा ३०३१) । यद्वा कयोरितिवत्सङ्ख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः । - पञ्चैव पञ्चकाः शकुनयः । पक्ष परिमाणमेषामिति वा । सङ्के पश्चकः । सूत्रे
अष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृथगुपात्तम् । प्रत्ययाः स्युरित्यर्थः । प्रास्थिक इति । 'आत्'ि इत्यत्र परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । अत्र संख्यापि परिमाणम् । यद्यपि 'अगोपुच्छसंख्यापरिमाणात्-' इति पृथग्ग्रहणात् संख्या न परिमाणम् , तथाप्यत्र परिच्छेदकत्वात् संख्यापि परिमाणम् , उत्तरसूत्रे संख्यायाः परिमाणेन विशेषणाल्लिनात् । तेन षष्टिः परिमाणमस्य षाष्टिकमिति सिद्धम् । द्विषष्टयादिभ्यस्त्वनभिधानानेति भाष्ये स्पष्टम् । संख्यायाः। अनुवर्तत इति । तथा च तदस्य परिमाणमित्यर्थे प्रथमान्तात् संख्यात्मकपरिमाणवाचिनो यथाविहितं प्रत्ययाः स्युरित्यर्थः । संज्ञायां स्वार्थे प्रत्ययो वाच्य इति । पञ्चकाः शकुनय इत्यत्र पञ्च परिमाणमेषामित्यर्थो न संभवति, 'श्रा दशतः संख्याः संख्येये' इति पञ्चन् शब्दस्य संख्येयवृत्तित्वेन पञ्च परिमाणमिति सामानाधिकरण्यानुपपत्तेः । अतः संज्ञायां स्वार्थ एव संख्यायाः प्रत्यय इति पर्यवस्यतीति भावः। यद्वेति । द्विशब्दस्य एकशब्दस्य च संख्ययवृत्तित्वेऽपि 'धेकयोः-' इति समासवृत्तावेकत्वद्वित्वपरत्वमभ्युपगम्यते । अन्यथा 'द्वथेकयोः-' इति द्विवचनानुपपत्तेः । तद्वत्पञ्चकाः शकुनय इति तद्धितवृत्तावपि पचनशब्दस्य पञ्चत्वसंख्यापरतया पञ्चत्वं परिमाणमस्येति सामानाधिकरण्यं स्वीकृत्य पञ्चत्ववाचिनः पञ्चन्शब्दात् पञ्चत्वरूपपरिमाणवति प्रत्यय उपपद्यत इत्यर्थः। तत्र संज्ञायां स्वार्थे उदाहरतिपञ्चैवेति । परिमाणिनि प्रत्ययमुदाहरति पश्च परिमाणमिति । पञ्चत्वमित्यर्थः । सङ्घ इति । उदाहरणं वक्ष्यत इत्यर्थः । पञ्चक इति । पञ्चत्वमस्य संघस्य परिमाणमित्यर्थः । संघस्य पञ्चत्वं तु अवयवद्वारा बोध्यम् । सूत्र इति । उदाह्रियत इति शेषः । अष्टकं पाणिनीयमिति । सूत्रमिति शेषः । अष्टावध्यायाः परि. माणमस्येति विग्रहः । अत्राष्टत्वं अध्यायद्वारा सूत्रेऽन्वेति । सूत्रशब्दश्च सूत्रसंघपरः, एकस्मिन् सूत्रे अष्टकत्वस्यासंभवात् । नन्वेवं सति संघग्रहणेनैव सिद्धे सूत्र'अध्यर्ध-' इति लुङ् न भवति । स्पष्टं चेदं काशिकादौ । पूर्वसूत्रमिति । तेन पञ्च गावः परिमाणस्य पञ्चको गोसङ्घ इत्यादि सिध्यति । यदा तु प्रकृत्यर्थस्यैव परिच्छेदिका संख्या पञ्च गावोऽस्य सक्स्येति, तदा तु प्रत्ययो न भवति, परिमाणस्य प्रत्ययार्थत्वाभावात । एतच्च 'श्रादिगोपुच्छ-' इति सूत्रे कैयटे स्पष्टम् । खाचे उदाहरति