________________
६७८ ]
सिद्धान्तकौमुदी ।
[ द्विरुक्त
पात्राणि प्रयुनक्ति । द्वन्द्वं सङ्कर्षणवासुदेवौ । श्रभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वन्द्वम् इष्यते । इति द्विरुक्तप्रकरणम् । इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यां पूर्वार्ध समाप्तम् । भाष्याल्लभ्यते । तदाह साहचर्येणेत्यर्थ इति । अत्र द्वन्द्वं न्यञ्चीत्यत्र वीप्सायां द्वित्वम् । अन्यत्र स्वार्थे इति बोध्यम् । अन्यत्रापीति । द्वन्द्वानि सहते इत्यादावित्यर्थः । शीतमुष्णं च एकं द्वन्द्वम् । सुखं दुःखं चापरम् । क्षुत्तृष्णा चान्यत् । इह स्वार्थे द्वन्द्वः । श्रम्भावादि पूर्ववत् । 'चार्थे द्वन्द्वः' इति निपातनादन्यत्रापीति सिद्धम् । इति द्विरुक्तप्रकरणम् ।
इति श्रीमत्सन्ततसन्तन्यमानश्येनकूर्म षोडशाररथचक्राकारादिबहुगुणविराजमानप्रौढापरिमितमहाध्वरस्य श्रीशाहजी शरभतुकोजी भोसलचोलमहीमहेन्द्रामात्यधुरन्धरस्य श्रीमत आनन्दराय विद्वत्सार्वभौमस्याध्वर्युणा पञ्च पुरुषी पोष्येण बाल्य एव तद्द्यानिर्वर्तितापरिमिताग्निविजृम्भितवाजपेय सर्वपृष्टाप्तोर्यामप्रमुखमखसन्तर्पितशतमखप्रमुखबर्हिर्मुखेन पदवाक्यप्रमाणपारावारपारीणाग्रजन्मविश्वेश्वरवाजपेययाजितो लब्धविद्यावैशद्येन अध्वर मीमांसा कुतूहल वृत्तिनिर्माण प्रकटित सर्व तन्त्रस्वातन्त्र्येण बौधायनापस्तम्ब सत्याषाढ भारद्वाज कात्या- . यनाश्वलायनद्राह्यायणादिकल्पसूत्रतद्भाष्यपारीणमहादेववाजपेययाजिसुतेन अन्नपूर्णाम्बा गर्भजातेन वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां पूर्वार्ध
सम्पूर्णम् ।
यज्ञपात्राणीति । 'स्फ्यश्च कपालानि च' इत्यादीनि पात्राणि द्वन्द्वं प्रयुनक्ति । श्रासादयतीत्यर्थः । अभिव्यक्तौ साहचर्येणेत्यर्थ इति । अत्र द्वन्द्वमित्यत्र स्वार्थे द्विर्वचनम् । एकवद्भावादिकं तु पूर्ववत् । अन्यत्रापीति । 'द्वन्द्वं युद्धं प्रवर्तते ' इह वीप्सायां द्विर्वचनम् । द्वयोर्द्वयोर्युद्धमित्यर्थः । 'द्वन्द्वानि सहते' शीतमुष्णमेकं द्वन्द्वं सुखदुःखे चापरं क्षुत्तृष्णे चापरम् । इह स्वार्थे द्विर्वचनमेकवद्भावादि पूर्ववत् । बहुत्वं त्वशेषवशात् । इति तत्त्वबोधिनीव्याख्यायां द्विरुक्तप्रक्रियाप्रकरणम् । सिद्धान्तकौमुदीव्याख्या या कृता तत्त्वबोधिनी । समाप्तं तत्र पूर्वार्धं तेन तुष्यतु शंकरः ॥ इति श्रीपरमहंसपरिव्राजकाचार्य वामनेन्द्रस्वामिचरणारविन्दसेवकज्ञानेन्द्रसरस्वतीकृतौ सिद्धान्तकौमुदीव्याख्यायां तत्त्वबोधिन्याख्यायां पूर्वार्धं संपूर्णम् ॥