SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४४२] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्दीव्यतीयणिकस्यायमाथवणो धर्म आम्नायो वा । चरणाद् वुमोऽपवादः । ___ इति तद्धितेषु शषिकप्रकरणम् । अथ तद्धितेषु प्राग्दीव्यतीयप्रकरणम् । २६ । १५१४ तस्य विकारः। (४-३-१३४) 'भश्मनो विकारे टिलोपो वक्तव्यः' (वा ४१८५) । अश्मनो विकार पाश्मः । भाप्मनः । मार्तिकः । कस्य लोपश्चेत्यर्थः । आथर्वणिकस्येति । अथर्वणा प्रोक्तो वेदः अथर्वेत्युपचर्यते, तमधीते प्राथर्वणिकः । वसन्तादित्वाट्टक् । आथर्वणिकस्यायमित्यर्थे अनेन अणि, इको लोपे 'दाण्डिनायन-' इति टिलोपाभावे, पाथर्वण इति रूपमित्यर्थः । धर्म आम्नायो वेति । 'चरणाद्धर्माम्नाययोः' इत्युक्तेरिति भावः । ननु तस्येदमित्येव सिद्ध अरिवधिर्व्यर्थ इत्यत आह-चरणाद् वुञोऽपवाद इति । आथर्वणिकशब्दस्य अथर्वणवेदाध्येतृवाचित्वादिति भावः । इति तद्धितेषु शैषिकप्रकरणम् । अथ विकारार्थप्रत्यया निरूप्यन्ते । तस्य विकारः। विक्रियते इति वि. कारः, कर्मणि घञ् । प्रकृतेरवस्थान्तरात्मिकां विक्रियां प्राप्त इत्यर्थः । विकार इत्यर्थे षष्टयन्तादणादयः साधारणा वक्ष्यमाणाश्च वैशेषिका यथाविहितं स्युरि. त्यर्थः । अश्मनो विकार इति । विकारार्थकप्रत्यये परे अरमन्शब्दस्य टिलोपो वक्तव्य इत्यर्थः । अनिति प्रकृतिभावापवादः । श्राश्म इति । अणि टिलोपे इति । अस्मादेव निपातनादण् पद्भावश्चेति भावः। आथर्वणिकस्य । अथर्वणा प्रोक्तो वेदोऽथा, अभेदोपचारात् 'तमधीते' वसन्तादित्वादृक् 'दाण्डिनायन-' आदिसूत्रे निपातनाडिलोपाभावः । अन्ये त्वाहुः-अथर्वणा प्रोक्तमधीते आणिकः। इह प्रोक्तेऽण् , ततः 'छन्दोब्राह्मणानि.' इति तद्विषयतयाथर्वण शब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक् , तस्य विधानसामर्थ्यात्प्रोक्ताल्लुङ् नेति । इति तत्त्वबोधिन्यां शैषिकप्रकरणम्। तस्य विकारः । षष्ठयन्ताद्विकारे अणादयः स्युः । घादिसम्बद्धस्य तस्य प्रहणस्य निवृत्तये पुनस्तस्येत्युक्तम् । अणादयस्तु न निवर्तन्ते 'प्राग्दीव्यत:-' 'प्राग्भवनात्' इति विशिष्टावधिपरिच्छेदेनाधिकृतत्वात् । इह प्राणिरजतादिभ्योऽञ्, श्रोरञ्, अनुदात्तादेश्च, मयड्वैतयोः, नित्यं वृद्धशरीरादिभ्यः, पिष्टाच्च, इत्यादिभिरपवादानां वक्ष्यमाणत्वादणि श्राद्युदात्तम् अवृद्ध प्रतिपदमवक्ष्यमाणप्रत्ययं चोदाहरणमिति पर्यालोच्य तथैवोदाहरति-प्राश्म इत्यादि । अश्मन्-भस्मन्शब्दौ
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy