SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४४३ " १५१५ अवयवे च प्राण्योषधिवृक्षेभ्यः । ( ४-३ - १३५) चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्व काण्डं भस्म वा । पैप्पलम् । १५१६ बिल्वादिभ्यो ऽण् । ( ४-३ - १३६) बैल्वम् । १५१७ कोपधाच्च । रूपम् । एवं चर्मणो विकारः चार्मः कोशः । ' चर्मणः कोशे' इत्युपसंख्यानाट्टिलोपः । भास्मन इति । भस्मनो विकार इत्यर्थः । श्रणि 'अन्' इति प्रकृतिभावान्न टिलोपः । मार्त्तिक इति । मृत्तिकाया विकार इत्यर्थः । अत्र 'प्राणिरजतादिभ्योऽन्' 'ओरञ्' 'अनुदात्तादेश्च' इत्यादिवच्यमाणापवादविषयभि नमुदाहरणम् । तत्र अश्मन् भस्मन् चर्मन् इति त्रयं मनिन्प्रत्ययान्तं नित्स्वरेणायुदात्तम् । मृत्तिकाशब्दोऽपि 'मृदस्तिकन्' इति तिकन्नन्तः । नित्स्वरेणायुदात्तः । अवयवे च प्राण्योषधि । प्राणिवाचिन श्रोषधिवाचिनो वृक्ष - वाचिनश्च षष्ठयन्तेभ्यः श्रवयवे विकारे च अणादयः साधारणा उक्ता वक्ष्यमाणाश्च प्रत्यया यथाविहितं स्युः । श्रन्येभ्यस्तु विकारमात्र इत्यर्थः । प्राणिन उदाहरतिमायूर इति । 'लघावन्ते -' इति मयूरशब्दो मध्योदात्तः । ततः 'प्राणिरजतादिभ्यः -' इत्यञ् । श्रोषधेरुदाहरति — मौर्वमिति । मूर्वा श्रोषधिविशेषः । तस्या अवयवो विकारो वेत्यर्थः । श्रौत्सर्गिकोऽण् । 'अनुदात्तादेश्व' इत्यञ् तु वक्ष्यमाणो न मवति, 'तृणधान्यानां च द्वयषाम्' इत्याद्युदात्तत्वात् । वृक्षस्योदाहरति — पैप्पलमिति । पिप्पलः अश्वत्थः, तस्यावयवो विकारो वेत्यर्थः । ‘लघावन्ते-' इति मध्योदात्तः पिप्पलशब्दः । 'अनुदात्तादेश्च' इति वक्ष्यमाणागोऽभावे औत्सर्गिकोऽण् । बिल्वादिभ्यो ऽण् । एषु प्राण्योषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे अण् स्यादित्यर्थः । बैल्वमिति । बिल्वस्यावयवो विकारो वेत्यर्थः । विल्व, व्रीहि, काण्ड, मुद्ग, मसूर, गोधूम, इक्षु, वेणु, गवेधुक, कार्पासी, पाटली, कर्कन्धू, कटीर इति बिल्वादयः । तत्र गवेधुकस्य 'कोपधाच्च' इत्यणि सिद्धे मयटो बाधनार्थमिह पाठः । इतरेषां तु 'अनुदात्तादेश्च' इत्यत्रो बाधनार्थमिति मनिन्प्रत्ययान्तौ, 'मृदस्तिकन्' नित्स्वरेण त्रयोऽप्यायुदात्ताः । प्राचीनस्य तस्येत्यस्य निवृत्तत्वादधिकारोक्नप्रत्यया न प्रवर्तन्त इति नेह ठक् । हालः, सैरः । चाद्विकार इति । तेन वक्ष्यमाणप्रत्ययाः प्राण्यादिभ्यस्त्रिभ्योऽर्थद्वये भवन्त्यन्येभ्यस्तु विकार एवेति फलितम् । मायूर इति । 'प्राणिरजतादिभ्यः -' इत्यञ् । अनुदात्तादेरमः सिद्धत्वादुदात्ताद्यर्थं वृद्धेषु मयड्बाधनार्थं चावश्यकमिदं परत्वादनुदात्तादिष्वपि प्रवर्तते । श्रोषधिभ्य उदाहरति — मौर्वमिति । मूर्वाशब्दः 'तृणधान्यानां च व्यषाम्' इत्याद्युदात्तः । पिप्पलशब्दस्तु 'लघावन्ते -' इत्यनेनायुदात्तः । बिल्वा
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy