________________
प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३३७ 'निरुध्यमाना यदुभिः कथञ्चित्' इति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया । ११६४ कम्बोजाल्लुक् । (४-१-१७५) अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजौ। 'कम्बोजादिभ्य इति वक्तव्यम्' (वा २६७४)। चोलः । शकः । यज्लक्षणस्याणो लुक् । केरलः । यवनः । अजो लुक् । 'कम्बोजाः समरे' इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिलादिभ्योऽणी' (सू १४७३) इस्यण् । ११६५ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च । (४-१-१७६) तद्राजस्य लुक्स्यात् । अवन्ती । कुन्ती । कुरूः । ११६६ रघूणामिति । लक्षणयेति । प्रयोग इति शेषः । ततश्च नेदमपत्यप्रत्ययान्तमिति भावः । लक्षणाबीजं तु रघुयदुसमानवृत्तिकत्वं बोध्यम् । कम्बोजाल्लुक् । तद्राजा इत्यनुवृत्तं षष्ठया विपरिणम्यते । कम्बोजात्परस्य तद्राजस्य लुक् स्यादित्यर्थः । अबहुत्वार्थ सूत्रम् । तदाह-कम्बोजः कम्बोजाविति । जनपदशब्दादिति । विहितस्य अओ लुक् । चोलः, शक इति । चोलशकौ देशविशेषौ राजविशषौ च । व्यज्लक्षणस्येति । 'यश्मगध-' इति विहितस्येत्यर्थः । केरल इति । केरलयवनशब्दो देशराजोभयवाचिनौ। अमओ लुगिति । जनपदशब्दादिति विहितस्येति शेषः । ननु काम्बोज इति कथम् , लुकप्रसङ्गादित्यत आह--कम्बोजाः समर इति । दीर्घपाठे स्थिति। अचां मध्ये आदेरचो दीर्घभूतस्य पाठे त्वित्यर्थः । अभिजन इति। यत्र पूर्वैरुषितं सोऽभिजन इत्यग्रे वक्ष्यति । सिन्धुतक्षेति । सिन्धबादौ कम्बोजशब्दस्य पाठादिति भावः । स्त्रियामवन्ति । अवन्ती कुन्तीति । अवन्तेः कुन्तेश्वापत्यं स्त्री राजी वेति विग्रहः । 'वृद्धत्कोसल-' इति ज्योऽनेन लुकि 'इतो मनुष्यजातेः' इति ष् । कुरूरिति । 'कुरुनाराषवाणां यादवैरित्येव भवितव्यमित्याशङ्कयाह-रघुयदुशब्दयोरिति । लक्षणयेति । ततश्वोक्तार्थत्वादपत्यप्रत्ययो नात्रोत्पन्न इति भावः । कम्बोजाल्लुक् । तद्राजस्य बहुषु-' इति प्रकरण एवेदं न कृतम्, धेकार्थवाचकस्याओ लुगभावप्रसंगात् । यद्यपि लुगधिकारे पुनर्मुग्विधानसामर्थ्याद् कयोरप्यनो लुग्भविष्यत्येवेति वक्तुं शक्यम् , तथाप्यतद्वाजस्यापि लुक्प्रसङ्गशङ्कापत्तेर्लाघवाभावाच तत्प्रकरणे न कृतमित्याहुः । न चात्र आपत्ये लक्षणयेन 'कम्बोजः कम्बोजो' इत्यादिरूपसिद्धौ किमनेन सूत्रेणेति शङ्कयम् , काम्बोज इत्यादिपाक्षिकानिष्टवारणाय सूत्रस्यावश्यकत्वात् । सिन्धुतक्षेति। कम्बोजशन्दस्य सिन्ध्वादित्वादण् । तस्य तु तद्राजत्वाभावाल्लुङ् नेति भावः । अवन्ती । कुन्तीति । 'वृद्धत् ' इति ध्यो लुकि 'इतो मनुष्यजातेः' इति ङीष् ।
, 'पूर्वम्' इति कचित् पाठः।