________________
३३६ ]
सिद्धान्तकौमुदी। (तद्धितेष्वपत्याधिकारपाश्मकिः । राजन्यप्येवम् । ११६२ ते तद्राजाः (४-१-१७४ ) अनादय एतत्संज्ञाः स्युः । ११६३ तद्राजस्य बहुषु तेनैवास्त्रियाम्। (२-४-६२) बहुष्वर्थेषु तद्राजस्य लुक्स्यात्तदर्थकृतबहुस्ने, न तु स्त्रियाम् । इक्ष्वाकवः, पञ्चाला इत्यादि । कथं तर्हि 'कौरव्याः पशवः' 'तस्यामेव रघोः पाण्ड्याः ' इति च । कौरव्ये पाण्ड्ये च साधव इति समाधेयम् । 'रघूणामन्वयं वक्ष्ये'
'उदुम्बरास्तिलखला मद्रकारा युगन्धराः ।
भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः ॥' इति प्रसिद्धिः । 'यज्मगध-' इति भाष्ये तु बुध आजमीड अजक्रन्दा अपि गृहीताः । ते तद्राजाः। ते इत्यनेन जनपदशब्दादित्याद्यारभ्य विहिता अनादयः परामृश्यन्ते । तदाह-अजादय इति । तद्राजस्य । ‘ण्यक्षस्त्रियार्ष-' इत्यतो लुगित्यनुवर्तते । तेनेत्यनन्तरं कृते बहुत्वे इत्यध्याहार्यः। तद ह-बहष्विति । तदर्थकृतबहुत्व इति । अनादिप्रत्ययान्तमात्रार्थगतबहुत्वे नतीत्यर्थः । तेनेति किम् ? प्रियो वाङ्गो येषां ते प्रियवाङ्गाः इत्यत्र बहुत्वस्यान्यपदार्थगतत्वाद् वाङ्गशब्दात्परस्य न लुक् । यद्यपि वर्तिपदार्थविशिष्टान्यपदार्थगतं बहुत्वं वर्तिपदार्थगतमपि भवति, तथापि अञ्प्रत्ययान्तार्थवाङ्गमात्रगतं न भवतीति न लुक् । एतदर्थमेवकारग्रहणम् । इक्ष्वाकवः, पश्चाला इति । 'जनपदशब्दात्-' इति विहितस्य अञो लुकि श्रादिवृद्धिनिवृत्तिः। इत्यादीति। अङ्गाः, वङ्गा इत्यादि बोध्यम् । कथं तीति । कौरव्या इत्यत्र ण्यप्रत्ययस्य पाण्ड्य इत्यत्र ड्यरप्रत्ययस्य च तद्राजतया बहुषु लुक्प्रसङ्गादित्यर्थः। साधव इतीति । कौरव्यशब्दात् पाण्ड्यशब्दाच्च 'तत्र साधुः' इति यत्प्रत्यये 'यस्येति च' इत्यकारलोपे यत्प्रत्ययस्य तद्राजत्वाभावान लुगित्यर्थः। ननु रघुयदुशब्दयोर्जनपदव चित्वाभावात् प्राग्दीव्यतीयेऽणि तस्य तद्राजत्वाभावात् कथं बहुषु तस्य लुगित्याशङ्कय परिहरति
औदुम्बरिरिति । तैलखलिः । माद्रकारिः । यौगन्धरिरित्याादाहरणान्युदाहर्तव्यानि । ते तद्राजाः । अआदय इति । ततः प्राचीनस्तु तच्छब्देन न परामृश्यन्ते गोत्रयुवसंज्ञाकाण्डेन विच्छेदात् । एतदर्थमेवेदं न तत्काण्डमध्ये कृतमाचायेणेत्याहुः । वस्तुतस्तु 'तद्राज' इत्यधिकृत्य 'जनपदशब्दात्क्षत्रियादा' इत्यादिसूत्राणामारम्भे गोत्रयुवसंज्ञाकाण्डस्य मध्ये पाठाभावेऽपि न क्षतिरित्यन्ये । तद्राजस्य । तदर्थेति । तद्राजप्रत्ययार्थेन कृत इत्यर्थः । तेनैवेति किम् , प्रियपाञ्चालाः । साधव इतीति । तथा च 'तत्र साधुः' इति यत्प्रत्ययस्य तद्राजत्वाभावाल्लुङ् नेति भावः । रघुयदुशब्दयोजनपदवाचित्वाभावादाभ्यां परस्य तद्राजसंज्ञा नेति लुकोऽप्रवृत्त्या