________________
४]
सिद्धान्तकौमुदी। [अव्ययीभाव(२-१-४) 'सह' इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगविभागस्पेष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः स च छन्दस्येव । पर्यभूषयत् । अनुग्यचलत् । 'सुपा' । सुप्सुपा सह समस्यते । समासस्वात्प्रातिसमासो न स्यात् , तत्राह-सहेति योगो विभज्यत इति । समाससंज्ञाया अन्वर्थत्वादेकस्याप्रसङ्गात् सुपेत्येतावतैव सहेति सिद्धे तद्ग्रहणं योगविभागाथमिति भावः । सहेत्यत्र 'सुबामन्त्रिते-' इत्यतः सुबित्यनुवर्तते। प्रत्ययग्रहणपरि भाषया तदन्तग्रहणम् । 'समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीयया विपरिगम्यते तदाह-सुबन्तमित्यादिना । समस्यत इति । एकीक्रियते प्रयोकाभिरित्यर्थः । समाससंज्ञां लभत इति यावत् । केचित्तु सुबन्तं कर्तृ समर्थन समस्यते-कीभवतीत्यर्थः। कर्तरि लट् । 'उपसर्गादस्यत्यूह्योः' इत्यात्मनेपदम् । समासशब्दोऽपि कर्तरि बाहुलकाद्धान्त एव, कर्मणि घअन्तो वा । तथा सति समस्यत इति कर्ता : तिङन्तं फलितार्थकथनपरमित्याहुः । ननु घटो भवतीत्यत्र समासे घटभवतात्यपि लोके प्रयोगः स्यादित्यत आह-योगविभागस्येति । कतिपयेति । कतिपयानि तिङन्तानि उत्तरपदानि यस्येति विग्रहः । पर्यभूषयदिति । समासान्तोदात्तत्वे शेषनिघात इति 'कुगति -' इति सूत्रे कैयटः । देवो देवान् क्रतुना पर्यभूषयदित्यत्र तु स्वरव्यत्ययो बोध्यः । अनुव्यचलदिति । अचलदित्यनेन वेः पूर्व समासे सति तेन अंनोः समासः । न त्वनुव्योर्युगपत्समासः, सुबित्येकत्वस्य विरक्षितत्वात् । अत एव महिष्या अजायाश्च क्षीरमित्यत्र क्षीरशब्देन सुबन्तयोर्न समास ति कैयटः । सुपा। 'सुबामन्त्रिते-' इत्यतः सुबित्यनुवर्तते, समास इत्यधिकृतम् , दाह-सुप्सुपेति । सुबन्तं सुबन्तेनेत्यर्थः । ततश्च पूर्व भूत इति विग्रहे समाससं ना स्थिता। समासअन्यथा सुबन्तं समस्यत इत्युत्तरग्रन्थो न संगच्छते। ननु अन्वर्थत्वात्समाससंज्ञायाः प्रत्येकम प्रसङ्गात्सहग्रहणं व्यर्थमित्याशङ्कयाह--योगो विभज्यत इति । 'सुबामत्रिते-' इत्यतः सुबित्यनुवर्तते तदाह-सुबन्तमिति । सम्स्य त इति । संपूर्वादस्यतेः कर्मणि तङ् । आचार्येणेति शेषः। समर्थेनेति तु सहयोगे तृतीया । समसन. कियां प्रति सुबन्तं कर्म, न तु कर्तृ । यद्यपि सुबन्तस्य कर्तृत्वा युपगमेऽपि 'उपसर्गादस्यत्यूह्योः' इति वार्तिकेन समस्यत इत्यत्रात्मनेपदं लभ्यते, त? ापि समास इति व्याख्येयग्रन्थे कर्तरि घञ् दुर्लभः। बाहुलकं तु अगतिकगतिरिनि कर्मत्वाभ्युपगम एव ज्यायान् । स चेति । एतदपि योगविभागस्येष्टसिद्धयर्थत्वादेव लभ्यते । छन्दस्येवेति । यदि लोकेऽपि स्यात्तर्हि यत्प्रकुरुते इत्यादौ स्वायत्पत्तिः स्यात् । लिङ्गसर्वनाम तामभ्युपेत्य 'स्वमोर्नपुंसकात्' इति लुकि कृतेऽपि 'हस्वो नपुंसक-' इति हस्खः स्यादि