________________
प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८१ १०८० द्विगोलुंगनपत्ये । (४-१-८८) द्विगोनिमित्तं यस्तद्धितोऽजादिरनपत्यार्थः प्राग्दीव्यतीयस्तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । द्विगोर्निमित्तम् इति किम्-पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम्-पञ्चगर्गरूप्यम् । अनपत्ये किम्-द्वयोर्मित्रयोरपत्यं द्वैमित्रिः । तु पुंसः सकारस्य संयोगान्तलोपे पुन्न इति स्यादिति भावः। वत्यर्थे नेति । 'तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययो वक्ष्यते । तस्यार्थे स्त्रीपुंसाभ्यां नमो न भवत इत्यर्थः । कुत इत्यत आह-स्त्री पुंवच्चेति ज्ञापकादिति । अन्यथा पुंवदिति निर्देशोऽनुपपन्नः स्यादिति भावः । न च पुंवदिति निर्देशः पुंस्शब्दाद्वत्यर्थे स्नञभावं ज्ञापयेत्, नतु स्त्रीशब्दानञभावमपीति वाच्यम्, ननसोरेकसूत्रोपात्ततया वत्यर्थ स्नञभावे ज्ञापिते सति स्त्रीशब्दानसभावस्यापि लाभाद् ज्ञापकस्य सामान्यापेक्षत्वात् । तदुक्तं भाष्ये 'योगापेक्षं ज्ञापक्रम्' इति । द्विगोलगनपत्ये । द्विगोरिति हेतुत्वसंबन्धे षष्ठी । लुक्श्रवणात् प्रत्ययस्येत्युपस्थितम् , प्रत्ययादर्शनस्यैव लुक्त्वात् । तथा च द्विगुनिमित्तस्य प्रत्ययस्य लुगिति लभ्यते । द्विगुनिमित्तश्च प्रत्ययस्तद्धित एव भवति, तद्धितार्थे विषये तद्विधानात् । ततश्च द्विगुनिमित्तस्य तद्धितस्येति लभ्यते । प्राग्दीव्यत इत्यनुवृत्तेः प्राग्दीव्यतीयत्वं तद्धितविशेषणम् । 'गोत्रेऽलुगचि' इत्युत्तरसूत्रे अचीति सप्तम्यन्तस्य गोचविशेषणतया तदादिविधिः । अजादावित्यर्थकमचीति पदमिहापकृष्यते । तच्च षष्ठ या विपरिणतं तद्धितविशेषणम् , तदाह-द्विगोनिमित्तमित्यादिना । पञ्चकपाल इति । 'संस्कृतं भक्षाः' इत्यण् , तद्धितार्थे द्विगुः, अणो लुक् । प्रत्ययलक्षणाभावान्नादिवृद्धिः । पञ्चकपालस्येदमिति । पञ्चसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे अणि विवक्षिते द्विगुसमासे अणो लुकि निष्पन्नात् पञ्चकपालशब्दात् 'तस्येदम्' इत्यणि आदिवृद्धौ पाञ्चकपालमित्यत्राणो लुङ् न भवति, अणो द्विगुनिमित्तित्वाभावादिति भावः । पञ्चगर्गरूप्यमिति । पञ्चभ्यो गर्गेभ्य आगतयथान्यासमेव स्वीकर्तव्यमिति । अन्ये तु 'स्त्रीपुंसयोर्नुक् च' इत्यस्तु, आगमे अकारो विवक्षितः । तस्य च 'यस्येति च' इति लोपे कृतेऽपि स्थानिवत्त्वाहिलोपो न भविध्यति । एवं च 'टिड्ढाणञ्-' इति सूत्रेणैव ङीसिद्धौ ननयोरुपसंख्यानं मास्त्विति महदेव लाघवमित्याहुः । वत्यर्थ इति । 'स्त्रीपुंसाभ्यां ननौ वत्यर्थे न प्रवर्तते' सामान्यापेक्षं ज्ञापकमिति भावः। अतएवोदाहरति-स्त्रीवदिति । 'श्रा च त्वात्' इति चकारो ननभ्यां त्वतलोः समावेशार्थ इति वक्ष्यति । तेन स्त्रीत्वं स्त्रीता पुंस्त्वं पुंस्तेति सिद्धम् । द्विगोलुंगनपत्ये । द्विगोरिति षष्टी, तदर्थश्च हेतुत्वम् , तच्च भावि. नोऽप्युपपद्यते, बुद्धयाध्यवसायादित्याशयेनाह-द्विगोनिमित्तमिति । अजादि