________________
प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३३३ भस्माद्वा फिन्सिद्धः, तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्रिकायणिः, गार्गीपुत्रायणिः, गार्गीपुत्रिः । ११८४ प्राचामवृद्धात्फिन्बहुलम् । (४-१-१६०) ग्लुचुकायनिः । ११८५ मनोर्जातावञ्यतौ षुक् च । (४-१-१६१) समुदायार्थो जातिः। मानुषः, मनुष्यः । ११८६ जनपदशब्दात् क्षत्रियाद।(४-१-१६८) जनपदक्षस्त्रिययोर्वाचकादम् स्यादपत्ये। 'दाण्डिनायन-' (सू ११४५) इति सूत्रे निपातनाटिलोपः। ऐचवाकः । ऐचवाको। पुत्रान्तादन्यतरस्याम् । स्पष्टम् । प्राचामवृद्धात् । अवृद्धसंज्ञकाद् अपत्ये बहुलं फिन् स्यादित्यर्थः । प्राचांग्रहणं पूजार्थम् । ग्लुचुकायनिरिति । ग्लुचुकस्यापत्यमिति विग्रहः । अवृद्धात्किम् ? राजदन्तिः । बहुलग्रहणानेह-दाक्षिः। मनोर्जातौ । मनुशब्दाद् अञ् यत् एतौ प्रत्ययौ स्तः, तयोः परयोः मनुशब्दस्य षुगागमश्च प्रकृतिप्रत्ययसमुदायेन जातो गम्यायामित्यर्थः, तदाह-समुदायार्थी जातिरिति । नात्रापत्यग्रहणं संबन्ध्यत इति भावः । अन्यथा मानुषा इत्यत्र 'योश्च' इति लुक् स्यादिति बोध्यम् । जनपदशब्दात् । जनपदो देशः, तद्वाचकशब्दो जनपदशब्दः, तथाभूतो यः क्षत्रियवाचकशब्दः, तस्मादित्यर्थः । फलितमाह-जनपदक्षत्रिययोरिति । ऐक्ष्वाक इति । इक्ष्वाकुर्नाम देशः, चार्मिकायणिः । वार्मिकायणिः । कुकि कृते नकारस्यानन्त्यत्वान्नलोपाप्राप्तौ वचनम् । न च कुक्परादिरस्त्विति वाच्यम् , फस्यानादित्वादायनादेशाभावप्रसङ्गात् । वाकिनिरिति । 'अत इञ्' । फित्रभावे तत्संनियोगशिष्टः कुगत्र न भवति । एवं गारेधिः, चार्मिण इत्यागृह्यम् । पुत्रान्तात् । 'उदीचां वृद्धात्-' इत्यनुवर्तत इत्याशयेनाहवा फिन् सिद्ध इति । तेनैव सूत्रेण फिजि सिद्धे अनेन कुगेव वा विधीयत इति भावः । प्राचामवृद्धात् । प्राचांग्रहणं पूजार्थम् । अवृद्धादिति किम् , राजदन्तिः । बहुलग्रहणान्नेह । दाक्षिः । मानुषः । मनुष्य इति । जातिशब्दावेतौ 'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः ॥' णत्वविधानार्थमिदम् । अणः सिद्धत्वात् । अनधीतवेदत्वान्मूढत्वं विहिताननुष्ठानाच कुत्सितत्वम् । इदं च वचनं 'ब्राह्मणमाणव-' इति णत्वनिपातनाल्लब्धमित्याहुः । जनपद । जनपदक्षत्रियेति । जनपदवाची सन् यः क्षत्रियवाचीत्यर्थः । यद्यपि पच्चालादयो जनपदे बहुवचनान्ताः, क्षत्रिये त्वेकवचनान्ताः, तथापि प्रातिपदिकस्योभयवाचित्वमक्षतमेवेति बोध्यम् । जनपदशब्दात्किम् , द्रुह्योरपत्यं द्रौह्यवः । केवलक्षत्रियवाच्यम् । क्षत्रियादिति किम् , ब्राह्मणस्य पञ्चालस्यापत्यं पाञ्चालिरिति वृत्तिकारादयः । बाह्वादिष्वस्य पाठादिदं प्रत्यु