________________
३३४ ]
सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार
'क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् ' ( वा २६६ ९ ) । तद्राजमाचक्षाणस्तद्राज इत्यन्वर्थसंज्ञासामर्थ्यात् । पञ्चालानां राजा पाञ्चालः 1 'पूरोरण्वक्तव्यः' ( वा २६७० ) पौरवः । ' पाण्डोर्व्यण' वा २६७१ ) पाण्ड्यः । ११८७ साल्वेयगान्धारिभ्यां च । ( ४-१ - १६६ ) श्राभ्यामपत्ये
1
राजा च । तस्य राज्ञोऽपत्यमिति विग्रहे अञ्, अणोऽपवादः । भवरे विशेषः ! ओर्गुणं बाधित्वा ‘दाण्डिनायन-' इति सूत्रे निपातनादुकारस्य टेर्लोपः । ऐदवाकाविति । बहुवचने तु लुग्वक्ष्यत इति भावः । क्षत्त्रियसमानेति । चत्त्रियवाचकशब्देन समानशब्दो जनपदवाचकः, तस्मात् षष्ठयन्ताद् राजन्यर्थे अपत्यवत्प्रत्यया भवन्तीत्यर्थः । वार्तिकमेतत्सूत्रसिद्धार्थकथनपरिमित्याह - तद्राजमिति । 'जनपदशब्दात् -' इत्यादिविहितानानत्रादीनां तद्राजसंज्ञा विहिता 'ते तद्राजाः' इति । प्रत्ययानां तद्वाजत्वं तद्वाचकत्वाद्रौणम् । एवं च तद्राजवाचकास्तद्राजा इत्यन्वर्थसंज्ञैषा, नतु टिघुभादिवदवयवार्थरहिता । तथा च अजादिप्रत्ययानां तद्राजसंज्ञवानां राजवाचकत्वमपि विज्ञायत इति राजन्यपि वाच्ये ते भवन्तीति विज्ञायत इत्यर्थः । पञ्चालानामिति । बहुवचनान्तमिदं देशविशेषनाम, भाष्ये तथैव प्रयोगदर्शनात् । ‘द्यञ्मगध-' इत्यत्र भाष्ये 'नेषो नाम जनपदः' इति दर्शनाद्देशवाचिनोऽप्येकवचनमिति ज्ञेयम् । जनपदशब्दादिति किम् ? दुह्योरपत्यं द्रौह्यवः, अरोव, तद्राजत्वा - भावाद्बहुत्वे न लुक्, द्रौह्यवाः । चत्त्रियादिति किम् ? पञ्चालो नाम कश्चिद् ब्राह्मणः, तस्यापत्यं पाञ्चालिः । वैदेहिः । पूरोरणिति । पूरुशब्दस्य जनपदव चित्वाभावात्प्राग्दीव्यतीये अणि सिद्धे तद्राजसज्ञार्थं वचनम् । देशवाचित्वे तु 'मगध-' इत्येव सिद्धम् । पाण्डोर्च्चणिति । वाच्य इति शेषः । इह श्वेतगुणवाचिनो युष्ठिरपितृवाचिनश्च पाण्डोर्न ग्रहणम्, जनपदादित्युक्तेः, तस्य च पाण्डुदेशाधिपतिराजत्वाभावात् । पाड्य इति । पाण्डोरपत्यं पाण्डोर्देशस्य राजा वेत्यर्थः । साल्वेय । ननु दाहरणं चिन्त्यमित्यन्ये । क्षत्रियसमानशब्दादिति । समानः शब्दो यस्य जनपदस्य सोऽयं समानशब्दो जनपदः । क्षत्रियेण समानशब्दक्षत्रियसमानशब्दस्तस्मात्, 'तस्य ' इति षष्ठीसमर्थाद्राजनि वाच्ये अपत्यवत्प्रत्ययो भवतीत्यर्थः । पाञ्चालानां राजेति । इह ‘अवृद्धादपि बहुवचनविषयात्' इति प्राप्तो वुञ् बाध्यते । पुरोरिति । पूरुशब्दो न जनपदवाचीति प्राग्दीव्यतीये आणि सिद्धे तद्राजसंज्ञार्थं वचनम् । जनपदवाचित्वे तु 'यमगध-' इत्येव सिद्धम् । पाण्डोडर्यगिति । णित्करणं तु ‘पण्ड्याभार्यः’ इत्यत्र ‘वृद्धिनिमित्तस्य-' इति पुंवद्भावप्रतिषेधार्थम् । युधिष्ठिर पितृवाचिनो गुणवाचिनश्च पाण्डोर्नेह ग्रहणम्, 'जनपदशब्दात् -' इत्युक्ते तदधिपतिवाचिन एवोप
1