________________
२०८ ]
सिद्धान्तकौमुदी। [ एकशेष. बनौ । ६३२ स्त्री पुंवञ्च । (१-२-६६) यूना सहोलौ वृद्धा श्री शिष्यते तदर्थश्च पुंषत् । गार्गी च गाायणौ च गर्गाः । 'अस्त्रियाम्' इत्यनुवर्तमाने 'यमयोश्च' (सू ११०८) इति लुक् । दासी च दाचायणश्च दाक्षी । ६३३ भागवित्तिकाविति । भगवित्तस्य गोत्रापत्यं भागवित्तिः । अत इञ् । भागवित्तेः सौवीरस्यापत्यं युवा कुत्सितो भागवित्तिकः । 'वृद्धाक् सौवीरेषु-' इति ठक् । अत्र भागवित्तिशब्दस्य भागवित्तिकशब्दस्य च न गोत्रयुवप्रत्ययमात्रकृतं वैरूप्यम् , कुत्सासौवीरत्वकृतस्यापि वैरूप्यस्य सत्त्वात् । अतो गोत्रप्रत्ययान्तो भागवित्तिशब्दो न शिष्यत इति भावः । गायेवात्स्यायनाविति । गर्गस्य गोत्रापत्यं गायः, वत्सस्य गोत्रापत्यं वात्स्यः, गर्गादित्वाद्यञ् । वत्सस्यापत्यं युवा वात्स्यायनः। 'यजिओश्च' इति फक् । गाय॑श्च वात्स्यायनश्चेति विग्रहः । अत्र गार्यशब्दस्य वात्स्यायनशब्दस्य च न गोत्रयुवप्रत्ययमात्रकृतं वैरूप्यम् , प्रकृतिवरूप्यस्य गोत्रयुवप्रत्ययमात्रकृतत्वाभावात् । अतो गोत्रप्रत्ययान्तो गार्यशब्दो न शिष्यत इति भावः । स्त्री पुंवञ्च । वृद्धो यूनेत्यनुवर्तते । वृद्धति स्त्रीलिङ्गेन विपरिणम्यते । तदाह-यूना सहोतो वृद्धा स्त्री शिष्यत इति । गोत्रप्रत्ययान्तः स्त्रीवाचकः शब्दः शिष्यत इति भावः । स्त्रीत्वस्य वैरूप्यकारणस्याधिकस्य सत्त्वात् पूर्वेणाप्राप्ते वचनमिदम् । तदर्थ इति । तस्य शिष्यमाणस्य स्त्रीवाचकगोत्रप्रत्ययान्तस्यार्थः पुमानिव स्यादित्यर्थः । गार्गी चेति । गर्गस्यापत्यं स्त्रीत्यर्थः । गर्गादियमन्ताद् 'यत्रश्च' इति कीप् । गाायणौ चेति । गर्गाद्यअन्ताद् यून्यपत्ये 'यजिलोश्च' इति फक् । गर्गा इति । अत्र स्त्रीत्वकृतवैरूप्याधिक्येऽपि गोत्रप्रत्ययान्तः स्त्रीवाचको गार्गीशब्दः शिष्यते । स पुंवत् । तर्हि यञ् कुतो न श्रूयत इत्यत श्राह-अस्त्रियामितीति । उपलक्षणमिदम् । 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इत्यतः अस्त्रियामिति, तेनैवेति, बहुष्विति चानुवर्तमाने सतीत्यर्थः । एतेन पुंवदित्यस्य प्रयोजनमुक्तम् । गार्गी च गाायणश्चेति विग्रहस्तु न दर्शितः । तथा सति अबहुत्वाद् यो लुगभावे सति पुंस्त्वे स्त्रीत्वे च रूपं तुल्यम्-गार्याविति, तत्र पुंवत्त्वं निरर्थकं स्यात् । उदाहरणान्तरमाहदाक्षी चेति । दक्षस्य गोत्रापत्यं स्त्री दाक्षी । 'अत इब्' इतीअन्ताद् 'इतो मनुष्यजातेः' इति डीए । दाक्षायणश्चेति । दक्षस्यापत्यं पुमान् दाक्षिः, तस्यापत्यं गोत्रादिकृतम् । स्त्री पुंवञ्च । वृद्धा स्त्रीति । गोत्रप्रत्ययान्तं स्त्रीवाचकमित्यर्थः । पुंवद्भावकृतवेलक्षण्यं स्फुटीकर्तुं द्विवचनान्तेन विग्रहमाह-गर्गगाायणाविति । अनुवर्तमान इति । तद्राजस्य बहुषु-' इत्यतः 'पुंवत्' इत्यातिदेशस्य फलमनेन दर्शितम् । अन्यथा त्रीत्वस्यानिवर्तनाल्लुङ् न स्यात् । 'गर्गान्पश्य' इत्यत्र नत्वं च