________________
प्रकरणम् २१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२०७ दण्डौ । वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । (१-२-६५) यूना सहोको गोत्रं शिष्यते, गोत्रयुवप्रत्ययमात्रकृतं चेत्तयोः कृरखं वैरूप्यं स्यात् । गायश्च गार्यायणश्च गाग्यौँ । वृद्धः किम् । गर्गगाायणौ । यूना किम् । गर्गगाग्यौं तहणः किम्। भागवित्तिभागवित्तिकौ । कृत्सम् किम् । गार्यवात्स्याइति भावः । वृद्धो यूना । रूपतोऽर्थतश्च भेदेऽपि प्राप्त्यर्थमिदम् । यूनेति । 'जीवति तु वंश्ये युवा' इति वक्ष्यमाणयुवप्रत्ययान्तेनेत्यर्थः। सहोकाविति । अध्याहारलब्धमेतत् । गोत्रमिति । वृद्धशब्देन 'अपत्यं पौत्रप्रभृति गोत्रम्' इति सूत्रोक्तं गोत्रं विवक्षितम् । अपत्यमन्तरितं वृद्धमिति पूर्वाचार्यपरिभाषितत्वादिति भावः । गोत्रप्रत्ययान्तमिति यावत् । न च 'गोत्रं यूना' इत्येव कुतो न सूत्रितमिति वाच्यम् , अपत्याधिकारादन्यत्र गोत्रग्रहणेन लौकिकं गोत्रं विवक्षितमिति सिद्धान्तज्ञापनार्थत्वात् । शिष्यत इति । शेष इति कर्मणि घअन्तमनुवर्तत इति भावः। तल्लक्षण इति । स गोत्रप्रत्ययो युवप्रत्ययश्च लक्षणं निमित्तं यस्येति विग्रह. । विशेषो वैलक्षण्यम् । तथाच गोत्रयुवप्रत्ययान्तयोर्विशेषो वैरूप्यम्, तल्लक्षणश्चेद् गोत्रयुवप्रत्ययनिमित्तकश्चेदित्यर्थः । अन्यनिमित्तको न चेदित्यर्थः सिद्धः, तदाह-गोत्रयुवेति । कृतमिति। एवकारलभ्यमिदम् । गाय॑श्चेति । गर्गस्य गोत्रापत्यं मार्यः । गर्गादिभ्यो यञ् । गाायण इति । गर्गस्य गोत्रापत्यं गार्ग्यः । तस्यापल्यं युवा गाायणः । 'यमिओश्च' इति फन् । गााविति । अत्र गायेशन्दस्य गायिणशब्दस्य च गोत्रयुवप्रत्ययकृतमेव वैरूप्यमिति गोत्रप्रत्ययान्तो गायशब्दः शिष्यत इति भावः । गर्गगाायणाविति । गर्गश्च गाायणश्चेति विग्रहः । अत्र गर्गशब्दस्य गाायणशब्दस्य च युवप्रत्ययमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तत्वाभावान्नैकशेष इति भावः । गर्गगाग्र्याविति । अत्र गर्गशब्दस्य गाय॑शब्दस्य च गोत्रप्रत्ययमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तो गार्ग्यशब्दो न शिष्यते, यूना सहोक्त्यभावादिति भावः । भागवित्तिबोध्यत इति व्युत्पत्त्या सौत्रस्य रूपशब्दस्यार्थपरतयापि व्याख्यानात्सूत्राक्षरैरेव लब्धं शक्यत इति प्रागेव व्याख्यातम् । वृद्धो यूना। अपत्यमन्तर्हितं वृद्धम्' इति पूर्वाचार्यैः परिभाषितस्य पाणिन्युक्तगोत्रापरपर्यायस्येह ग्रहणम् , कृत्रिमेण यूना साहचर्यात्तदाह-गोत्रं शिष्यत इति । 'गोत्रं यूना' इत्येव तु न सत्रितम् । 'अपत्याधिकारादन्यत्र लौकिकं गोत्रग्रहणम्' इति सिद्धान्तेन औपगवश्चानन्तरः, औषगविश्च युवेत्यत्र नैकशेषः । भागवित्तीति । भागवित्तस्य गोत्रापत्यं भागवित्तिरित्यस्मायूनि 'वृद्धाक् सौवीरेषु बहुलम्' इति कुत्सायां ठक् । इह कुत्सा सौवीरत्वं चाधिकमपेक्ष्यते। न तु युवत्वमात्रकृतं वैरूप्यम् । गार्यवात्स्यायनाविति । इह प्रकृत्यंशे वैरूप्यं न