Book Title: Vyutpattivada Adarsha Vyakhya Author(s): Sudarshanacharya Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai Catalog link: https://jainqq.org/explore/009523/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ ક્રમ અહો શ્રુતજ્ઞાનમ્ ગ્રંથ જીર્ણોદ્ધાર – સંવત ૨૦૬૬ (ઈ. ૨૦૧૦) . શ્રી આશાપૂરણ પાર્શ્વનાથ જૈન જ્ઞાનભંડાર - સંયોજક- બાબુલાલ સરેમલ શાહ્ हीरान सोसायटी, रामनगर, साबरमती, अमावाह - 04 (मो.) ९४२५५८५८०४ (ख) २२१३२५४३ (२हे.) २७५०५७२० પ્રાયઃ જીર્ણ અપ્રાપ્ય પુસ્તકોને સ્કેન કરાવીને સેટ નં.-૨ ની ડી.વી.ડી.(DVD) બનાવી તેની યાદી या पुस्तठी वेबसाहट परथी पक्ष SIGनलोड करी सारी. પુસ્તકનું નામ श्री सिद्धहेम बृहद्वृत्ति बृहद्न्यास अध्याय-६ 055 056 विविध तीर्थ कल्प ભારતીય જૈન શ્રમણ સંસ્કૃતિ અને લેખનકળા 058 सिद्धान्तलक्षणगूढार्थ तत्त्वलोकः 059 व्याप्ति पञ्चक विवृत्ति टीका 060 જૈન સંગીત રાગમાળા 061 चतुर्विंशतीप्रबन्ध (प्रबंध कोश) 062 व्युत्पत्तिवाद आदर्श व्याख्यया संपूर्ण ६ अध्याय 063 चन्द्रप्रभा मकौमुदी 064 विवेक विलास पञ्चशती प्रबोध प्रबंध 065 066 सन्मतितत्त्वसोपानम् 067 068 | मोहराजापराजयम् क्रियाकोश 069 070 कालिकाचार्यकथासंग्रह 071 सामान्यनिरुक्ति चंद्रकला कलाविलास टीका जन्मसमुद्रजातक मेघमहोदय वर्षप्रबोध पहेशभाला होघट्टी टीडा गुर्भरानुवाह 072 073 074 075 076 077 संगीत नाट्य उपावली જૈન સામુદ્રિકનાં પાંચ ગ્રંથો જૈન ચિત્ર કલ્પબૂમ ભાગ-૧ જૈન ચિત્ર કલ્પબૂમ ભાગ-૨ ભારતનાં જૈન તીર્થો અને તેનું શિલ્પસ્થાપત્ય 078 079 शिल्प चिन्तामशि लाग-१ 080 बृह६ शिल्प शास्त्र भाग - १ 081 बृह६ शिल्पशास्त्र लाग-२ 082 बृह६ शिल्प शास्त्र लाग-3 083 आयुर्वेधना अनुभूत प्रयोगो लाग - १ 084 085 કલ્યાણ કારક विश्वलोचन कोश કથા રત્ન કોશ ભાગ-1 086 087 5था रत्न प्रेश लाग-2 088 હસ્તસગ્રીવનમ્ એન્દ્રચતુર્વિશતિકા 089 સમ્મતિ તર્ક મહાર્ણવાવતારિકા 090 ભાષા सं सं शुभ. सं सं शु. सं सं सं सं/ ४. सं सं गु४. शुभ. शुभ. शुभ. शुभ. शुभ. शुभ. ४. शुभ. शुभ. शुभ. सं./हिं र्त्ता-टीडाडार-संचा शुभ. पू. हेमसागरसूरिजी म.सा. सं पू. चतुरविजयजी म.सा. श्री मोहनलाल बांठिया सं/हिं सं/गु४. श्री अंबालाल प्रेमचंद सं. सं/हिं सं/हिं शुभ. शुभ. सं. सं.. सं.. पू. लावण्यसूरिजी म.सा. पू. जिनविजयजी म.सा. पू. पूण्यविजयजी म.सा. श्री धर्मदत्तसूरि श्री धर्मदत्तसूरि श्री मांगरोळ जैन संगीत मंडळी श्री रसिकलाल हीरालाल कापडीआ श्री सुदर्शनाचार्य पू. मेघविजयजी गणि श्री दामोदर गोविंदाचार्य पू. मृगेन्द्रविजयजी म. सा. पू. लब्धिसूरिजी म.सा. श्री वामाचरण भट्टाचार्य श्री भगवानदास जैन श्री भगवानदास जैन श्री हिम्मतराम महाशंकर जानी श्री साराभाई नवाब श्री साराभाई नयाब श्री विद्या साराभाई नवाब श्री साराभाई नवाब श्री मनसुखलाल भुदरमल श्री जगन्नाथ अंबाराम श्री जगन्नाथ अंबाराम श्री जगन्नाथ अंबाराम पू. कान्तिसागरजी श्री वर्धमान पार्श्वनाथ शास्त्री श्री नंदलाल शर्मा श्री बेचरदास जीवराज दोशी श्री बेचरदास जीवराज दोशी पू. मेघविजयजीगणि पूज. यशोविजयजी, पू, पुण्यविजयजी आचार्य श्री विजयदर्शनसूरिजी પૃષ્ઠ 296 160 164 202 48 306 322 668 516 268 456 420 638 192 428 406 308 128 532 376 374 538 194 192 254 260 238 260 114 910 436 336 230 322 114 560 Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ “અહો શ્રુતજ્ઞાનમ” ગ્રંથ જીર્ણોદ્ધાર કર 'વ્યુત્પત્તિવાદ આદર્શ વ્યાખ્યયા સંપૂર્ણ ૬ અધ્યાય : દ્રવ્યસહાયક : સુવિશાલ ગચ્છાધિપતિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ વિજય રામચંદ્ર-ભદ્રંકરકુંદકુંદસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન વર્ધમાનતપોનિધિ પૂજ્યપાદ ગણિવર્ય શ્રી નયભદ્રવિજયજી મ.સા.ની શુભ પ્રેરણાથી શ્રી જિનાજ્ઞા આરાધક સંઘ-મીઠાખળી (નવરંગપુરા) જ્ઞાનખાતાની રકમમાંથી લાભ લીધો છે : સંયોજક : શાહ બાબુલાલ સરેમલ બેડાવાળા શ્રી આશાપૂરણપાર્શ્વનાથ જૈન જ્ઞાનભંડાર શા. વિમળાબેન સરેમલ જવેરચંદજી બેડાવાળા ભવન હીરાજૈન સોસાયટી, સાબરમતી, અમદાવાદ-૩૮૦૦૦૫ (મો.) ૯૪૨૬૫૮૫૯૦૪ (ઓ.) ૨૨૧૩૨૫૪૩ (રહે.) ૨૭૫૦૫૭૨૦ સંવત ૨૦૬૯ ઈ.સ. ૨૦૧૦ Page #4 -------------------------------------------------------------------------- Page #5 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ तर्कशास्त्रसाम्राज्यधुरन्धरमहामहोपाध्यायविद्वद्वरश्रीमद् गदाधर भट्टाचार्य प्रणीतः प्रत्ययार्थनिरूपणपरः व्युत्पत्तिवादः ( शब्दखण्डग्रन्थः ) -501010- पञ्चनदीयपण्डितसुदर्शनाचार्यशास्त्रिप्रणीतया आदर्शाख्यव्याख्यया संतुलितः स चैष खेमराज श्रीकृष्णदास श्रेष्ठिना बंबई नगरे ( खेतवाडी सांतवींगली खंबाटा लाइन ) स्वकीयश्रीवेङ्कटेश्वरमुद्रणवेश्मनि मुद्रयित्वा : प्रकाशितः विक्रमाङ्कसंवत् १९७० पुनर्मुद्रणे श्रीवेङ्कटेश्वरयन्त्रालयाधिपतेरेवाधिकारः "Aho Shrutgyanam" Page #6 -------------------------------------------------------------------------- ________________ "Aho Shrutgyanam" Page #7 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ भूमिका अये गीर्वाणवाग्वलिललितालवालकल्पा अनल्पादरकादिकमनीयगुणगणार्णवा विद्याविन्दवः? स हि वक्तव्यं च श्रोतव्यं च शब्दाधीनमैव धर्मावगमोपि शन्दायत्त एव किंबहुना लौकिकी वा पारमार्थिको वा कोपि व्यवहारः शब्दं विना न निर्वहति, उक्तं चाभियुक्तः " न सोस्ति प्रत्ययो लोके यः शन्दानुगमाहते ।। अनुविद्धमिव ज्ञाने सर्व शब्देन भासत ॥” इति । च शब्दः किं च कथं च बोधयतीति शब्दखण्डेन निरूप्यते । शन्देपि प्रकृतिप्रत्ययभेदेन द्वौ भागौ तत्र "श्रीयुतगदाधरभट्टाचार्येण शक्तिवादे निरूपणं कृतं प्रत्ययार्थानां चात्र व्युत्पत्तिवादे । इदं च भंद्वयमपि खण्डितमेवोपलभ्यते इति हृदयखेदः । अस्य च व्युत्पत्तिवादस्य ये खलु मया मूलार्थी विद्यागुरुभ्यो महामहोपाध्याय सी.आई.ई.श्री ७ मद्गङ्गाधरशास्त्रिचरणेभ्योऽणुमात्रमवगतास्तान् स्वकीयशानरक्षार्थ संकलय्याऽऽसमाप्ति मूलार्थोपपादयाख्यान्तरानुपलब्ध्या याऽऽदर्शसमाख्येयं व्याख्या केवलं मूलार्यजिज्ञासूनां छात्राणामुपयोगार्थ प्रकानास्ति । अत्र च प्रथमाकारके चित्कचित्कृष्णभट्टकृतटीकापि निक्षिप्तास्तीति तत्र तत्र स्पष्टमेव । उपाठोप्यासमाप्ति यथामति प्राक्तनलिखितानेकपुस्तकसाहाय्येन संशोभित इति प्रायः प्रीतिकरः विदानो भविष्यति । लोके ह्यस्य सन्दर्भस्य प्रायः प्रथमाकारकपर्यन्त एंवावलोकनम्यवहारोस्ति यद्यपि गि यं प्रशावतां व्युत्पत्तिप्राप्त्यर्थमलमेव तथाप्यतनोपि भागो द्रष्टव्य एवास्ति, मन्मेऽनवकोपेशवा यादव्युत्पत्तिवादयोरन्त्यभागी विनष्टी, उपलभ्यमानावपिसोम सब यो विज्ञया च जातावि. पधिकेनात्र प्रेधावस्तु सविस्तरनिवेदनेनति विरमन्' "न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो झविद्यमानोपि तश्चित्तानां प्रकाशते ।।" इत्यादीन्यत्र वाक्यानि चिन्तनीयानि कोविदः । शुद्धं यदत्र तद् ग्राह्यं दुष्टं चास्तु ममैव मे ॥ इति विज्ञापयति श्रीमतीयः पञ्चनदीयः सुदर्शनाचार्यः काशी "Aho Shrutgyanam" Page #8 -------------------------------------------------------------------------- ________________ विशेषव्युत्पत्तीनां संग्रहः अभैदान्वयबोधश्च विरूपोपस्थितयोरेवेति व्युत्पत्तिः ... भेदान्वयबोधश्च प्रातिपदिकार्थधात्वर्ययोः प्रत्ययायन क्वचिन्निपातार्थेन समागवे प्रति ना व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदश्चौद्देश्यतावच्छेदकावच्छेदेनैव बोचते इति व्युत्पत्तिः आख्यातोपस्थापितद्वित्वादिकं चोभयादिरूपान्वयितावच्छेदकावच्छिन्ने एवान्वेतीति व्युत्पतिः व्यासज्यवृत्तिधर्मो यत्रान्वयितावच्छेदकस्तत्र यावत्स्वन्वयितावच्छेदकस्य पर्याप्तिस्तावतामेव पदार्थान्तरेणान्वयः इति व्युत्पत्तिः ... .... द्वित्वाद्यवच्छिन्नोद्देश्यताकबुद्धाधुद्देश्यतावच्छेदकव्यापकता नियमतो विधेयसंसर्गे भासते __ इति व्युत्पत्तिः व्यासज्यवृत्तिधर्मावच्छिन्नोद्देश्यताकशाब्दबुद्धौ स्वव्याप्यताशधर्मवत्त्वमपि विधेयसंसर्गतया भासते इति व्युत्पत्तिः ... .... एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयाऽन्वयोऽव्युत्पन्न इति व्युत्पत्तिः पदार्थः पदार्थेनान्वेति न तु पदार्थकदेशेन इति व्युत्पत्तिः प्रतियोगिपदादन्यत् यदन्यत् कारकादपि, इति व्युत्पत्तिः गृह्णाति वाचकः संख्या प्रकृतेर्विकृतेर्न हीति व्युत्पत्तिः कर्मत्वान्तरविशेष्यतापनकृत्यादौ कर्मत्वस्य संसर्गतया भानमव्युत्पन्न मिति व्युत्पत्तिः उपलक्षणीभूतधर्मावच्छिन्ने न नअर्थाभावान्षय इति व्युत्पत्तिः ... प्रकृत्यर्थसुबर्थयोस्तरा नअर्थातिरिक्तभानस्य व्युत्पत्तिविरुद्धत्वादिति व्युत्पत्तिः आख्यातार्थवर्तमानत्वादेनसमभिव्याहारस्थलेऽभावांशे एवान्वयस्य व्युत्पन्नत्वादिति ... उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्य व्युत्पतितिति ... नअर्थे प्रतियोगितयैवाऽऽधेयस्वातिरिक्तविभक्त्यर्थान्वयस्य व्यत्पन्नत्वादिति ... पदार्थकदेशे इव वृत्त्येकदेशे ससंबन्धिके प्रतियोगिसंबन्धान्वयस्य व्युत्पत्तिसिद्धत्वादिति... संख्यातिरिक्तविभक्त्यर्थस्य प्रकृत्यर्थविशेष्यतयैव भानमिति व्युत्पत्तिः ... ( अनेकत्र ) एकपदोपस्थितयोईयोस्तत्प्रकृतिकविभक्त्यर्थे एकस्य विशेषणतयाऽपरस्य तदविशेषणतयेत्यादि माश्रयातिरिक्ताविशेषणतापनकर्तृत्वविशेषणतानापन्नक्रियायामेव विशेषणतया कर्तृत्वं तृती यया बोध्यते इति व्युत्पत्तिः ... ... ... नामार्थधात्वर्थयो)देन साक्षादन्वयस्याव्युत्पन्नत्वादिति व्युत्पत्तिः... धातोः कर्मतादिसंबन्धेन क्रियान्वयाबोधकत्वमिति व्युत्पत्तिः ... नञः सुबर्थप्रतियोगिकस्वार्थाभावान्वितक्रियाकर्तृत्वाभावबोधकत्वं नेति ... वृत्तिशब्दैकदेशे इतरानन्वयनियमः लडादिस्थले (काख्यातस्थले ) आख्यातार्थकृतेः क्रियाविशेष्यतयैव भानं भवतीति ... सामान्यविधेर्विशेषेतरपरत्वं व्युत्पत्तिसिद्धमिति ... कथं चिदबाघकापनयसंभवे नौत्सर्गिकार्थपरित्याग इति ::::::::: mmmmmm "Aho Shrutgyanam" Page #9 -------------------------------------------------------------------------- ________________ विषयाः अभेद: समानविभक्तिवचनकत्वे अभेदान्वयाकाङ्क्षाविचार: विशेषणविभक्त्यर्थविचार: अभेदस्वरूपम् क्रियाविशेषणानामभेदान्वयाकाङ्क्षास्व रूपम् अभेदान्वय नियामकम् घटोघट इतिविवादः अभेदान्वयविचारः अभेदान्वयानुगमः भेदान्वयबोधविचारारम्भः रूपकालङ्कारवाती राजा पुरुषः तण्डुलंपचतीति षष्ठयर्थः लुप्तविभक्तिस्मरणम् .4. 940 घरद्धस्य राजमातङ्गाः पचति चैत्र इति चैत्रो जानाति भूतले न घटः, नञ् च प्रत्ययप्रत्ययार्थयोर्विचारः एकवचनादिविचारः संख्यावाचक विचारः विषयानुक्रमणिका पृ० | ३ ४ प्राद्युपसर्गीर्थविचार: संख्यासंबन्धविचारः पदार्थन्तिरान्वयविचारः संख्यान्वयविचारः दशशतादिशब्दविचारः नित्यबहुवचनान्तशब्दविचारः आख्यातस्य संख्यार्थता विचारः ... ... ... ... .... ... 9400 ... ... .... १३ १७ २६ ३१ ४० ४० ५६ ६२ ६७ विषयाः द्वितीया तृतीयाप्रयोजक सिद्धान्तः आख्यातद्विवचनादेः संख्याबोधकत्वम् संख्यान्वयबोधकारणम् प्रथमाकारकसमाप्तिः १२३ १२६ १३६ १३६ १५८ १७१ १७३ १७७ १७९ गुणादिवाचकपदोत्तरविभक्त्यर्थविचारः द्वितीयकारकारम्भः द्वितीयार्थधात्वर्थयोर्निरूपणारम्भः नव्यमतेन धात्वर्थः धात्वर्थद्वितीयार्थयोर्नव्यप्राचीन मतयोः समीक्षा णिजर्थ: य गन्त प्रयोगः भावाख्यातप्रयोगः कमीख्यातार्थनिरूपणम् हुधात्वर्थ: ७० दाधात्वर्थः प्रतिग्रहार्थ: २४० ७२ पचधात्वर्थ: २४० ८७ भुजधात्वर्थ: २४१ ८९ सकर्मक धात्वर्थवचारोपसंहारः १०१ २४१ १०२ | द्विकर्मक धातुसमभिव्याहृतद्वितीयाया अर्थ: २४१ १०८ | दुद्दधात्वर्थ: २४२१२४३ १०८ | याचधात्वर्थ: २४६ ११८ | रुणद्वयर्थः पृच्छत्यर्थश्च २४९ १२३ नयस्यथों वहत्यर्थः २५१ निरूपयत्यर्थः २५३ ण्यन्तधातुप्रयोगविशेषाः २५४ २५९ २६० २६५ २६६ ... २७२ २७५ २८० < स्वं गच्छति' इत्यादिवारणम् सविषयका र्थकज्ञादिधात्वर्थः प्राधात्वर्थंस्तत्रत्यवादश्च ' आकाशं न पश्यति' इति **** ... "Aho Shrutgyanam" १९४ २०२ २०३ २०५ २०६ २०७ २०७ २१५ ... २२. २३० २३४ Page #10 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका ar ० m ० ar ० . . m m 1 m m Mmmm m mm ३४७ ४४० विषयाः विषयाः द्वितीयखण्डारम्भः ... ... २९५ ! करणतृतीयाशक्तिद्वयम् अनुमित्यर्थकमातुः .. २९५ धूमेन वह्निमित्यादितृतीया ... ... ४२. घटत्वेन वहिर्नास्ति २९६ | धूमेन वलिमनुमिनोति न घटेन इत्यादिः ४२२ रजतत्वेन शुक्ति जानाति हेतुतृतीया ... .... ... ... ४२४ लोहितवहिं जानाति ... हेतुवृत्तिगुणत्वपदार्थविचारः आरोपविषयवाचकसमानवचनत्वमाख्यातस्य ज्ञाप्यज्ञापकस्वरूपम् इच्छार्थकधातुप्रयोगः उक्त प्राचीनमतम् सन्नन्तप्रयोगाः ... ... ... | केन हेतुनेत्यादि नामधातुप्रकरणम् | सहशब्दप्रयोगप्राप्ततृतीया कृत्यर्थकचातुप्रयोगाः सहशब्दार्थविचारः कर्मप्रभेदनिरूपणम् ... इत्थम्भूतलक्षणतृतीया अधिशीस्थासांप्रयोगाः ... विशेषणोपलक्षणयोः स्वरूपम् .... कालाथ्वनारत्यन्तसंयोगे इत्यस्य प्रयोगाः ३४८ विशेषणोपलक्षणपरिभाषा ... ४४२ अत्यन्तसयोगरूपाभिव्याप्तिविचार: चतुर्थीकारकारम्भः ४४६ विनापदसमभिव्याहृतद्वितीयार्थः | संप्रदानत्वलक्षणम् यावत्पदसमभिव्याहृतद्वितीयार्थ: मतान्तरेण मुख्यं संप्रदानत्वम् ... देशरूपसीमावाचकयावच्छब्दः ... भाक्तं संप्रदानत्वम् ... ... अभिविध्यर्थकयावच्छब्दः मुख्यं संप्रदानत्वम् ... ... अनुशब्दसमभिव्याहृतद्वितीयार्थः • शत्रवे भयं ददाति ' इति ... कर्मप्रवचनीयप्रतिशंन्दः युद्धाय सनात अन्तराशन्दसमभिव्याहृतद्वितीयार्थ: रजकस्य वस्त्रं ददातीत्यादि । तृतीयाकारकारम्भः नारदाय रोचते कलह इत्यादि तृतीयायाः कर्तृत्वार्थकत्वम् ... धारयत्यर्थविवेचनमू शरदि पुष्प्यन्ति सप्तच्छदा इति... यूपाय दारु इत्यादि ... ... काठेन पच्यते ... ... ... पाकाय ब्रजति इति चत्रेण ज्ञायते गम्यते इत्यादि ... नश्यते घटेनेति तृतीयार्थः अश्वाय घासः अचेतनस्य भाक्तं कर्तृत्वम् ... ... नमःस्वस्त्यादियोगे चतुर्थी ... ४६८ नमःपदार्थरूपत्यागविचारः स्वातन्त्र्यलक्षणम् मुख्य क्रियाकर्तृत्वम् ... ... नमस्काररूपनमःपदार्थः अन्योद्देशेन नाराचक्षेपाद् प्राझणवधविषयः ४०६ विप्रत्ययार्थविचारः ... ... ४७८ श्येनविधिविषयः पश्चमीकारकारम्भः ४८४ करणतृतीया ... ... ४१७ पञ्चम्पर्थविचारः .. ... ४८४ करणत्वलक्षणम् ....... ... ४१७ . व्याघ्रादिभेतीतिप्रयोगः ... ४५२ m mmmmmmmmmmmmmmmmmm"" so v VV VVV Vom ० ० ० "Aho Shrutgyanam" Page #11 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका w विषयाः पृ० विषयाः भयेभ्यो गां वारयतीति.... ... ४९३ | उक्त तार्किकमतम् .... ... ... ५६३ आख्यातोपयोगे सूत्रम् ... ... ४९५ दीधितिकारमतम् ... ... ... ५६८ जानकर्तुः सूत्रप्रयोगः ... ... | कर्तृत्वशक्ततावच्छेदकनिर्वचनम् भुवःप्रभवःसूत्रप्रयोगः ... ... आत्मनेपदस्य कर्मत्वार्थकत्वम् ... अपादानत्रैविध्यम् ... ... ४९९ | कर्माल्यातार्थनिर्वचनम् ... ... ५८२ अन्येतरादिपदार्थविचारः .... .... ५०२ ज्ञायते इत्यादिप्रयोगाः ... ... ... ५८८ अर्जुनः क्रोधादित्यादिप्रयोगः .... लटो वर्तमानकालार्थकत्वम् ... ... ५८९ ___ षष्ठयर्थनिरूपणारम्भः वर्तमानकालस्वरूपम् .... ... ... ५९. षष्ठया संबन्धत्वसामान्यरूपेण संबन्धबोध- लटोभविष्यदर्थकत्वं भविष्यत्कालस्वरूपं च ५९७ कत्वम् ५११ लुटोऽनद्यतनभविष्यदर्यकत्वम् .............. यतम्भ निर्धारणे... ... ... ५१४ | लुथकालनिरूपणम् सप्तमीकारकारम्भः लल्यकालनिरूपणम् ... ... आधारस्वविवेचनम् ... लिडर्थकालनिरूपणम् ... ... चर्मणि दीपिनं हन्तीति ५२८ किडलोडनरूपणम् गोषु दुद्यमानासु गतः ... ... ५२९ | उक्त निष्कर्षः ... ... संबोधनप्रथमा ५३२ मीमांसकमतम् ... ... स्त्रीप्रत्ययाः ३५ | नित्यकर्मविध्यर्थविचारः तद्धितप्रत्ययविचारः ५३८ उक्तमीमांसकमतनिरास: धातुप्रकृतिकाः प्रत्ययाः ५४९ तार्किकमतम् ... ... लकाराणां कर्तृत्ववाचकत्वस्थापनम् ... ५४९ निषेधवाझ्याविचार: ... .... कर्तृत्वानमिधानविचारः श्येनवाक्यार्थविचारः ... ... "अनभिहिते" इतिसत्रार्थ: तार्किकमतेन सिद्धान्तः ... ... लकारार्थे मीमांसकमतम् .... ... ५६० लस्यों टीकायाम् .... ... ५२४ w ८२४ w w १ क w w w Vw.my w w w w w ६४६ इति "Aho Shrutgyanam" Page #12 -------------------------------------------------------------------------- ________________ 5 Kerzuvasoleserseas wala MBAVU CARTEAAAAAAAAAD) ना ने fo?" f7: u H AALLOWAR "Aho Shrutgyanam Page #13 -------------------------------------------------------------------------- ________________ ॥ श्रीः ।। अथ सटीक: व्युत्पत्तिवादः । श्रीमते हयग्रीवाय नमः ॥ शाब्दबोधे चैकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते । अथ ॥ व्युत्पत्तिवादादर्शः ॥ ॥ भगवते श्रीहयग्रीवाय नमः ॥ आद्यं विद्यानिदानं विधिविबुधवरैर्बन्धमानाघ्रिपमं धाम्नां धामैन्दवानां दनुजभुजरुजां जन्मनां छद्म जिझम् । प्रज्ञाऽऽलोकार्कमर्तिप्रतिकृतिममतिध्वान्तदन्त्येणशक्रं चक्रं भक्ताघचके हरिमिह तुरंगग्रीवमुमं प्रपद्ये ।। नत्वा श्रीमद्धयग्रीवं विद्याविघ्नविनाशनम् । स्मृत्वा स्मृत्वा पदाम्भोजं श्रीगङ्गाधरशास्त्रिणाम् ।। करोति बालबोधार्थ मूलार्थप्रतिपादिकाम् । व्याख्यां व्युत्पत्तिवादस्य ह्याऽऽदर्शाम उपरीनः ॥ ननु न्यायमते प्रत्यक्षानुमानोपमानशब्दभेदात् प्रमाणचतुष्टयं तत्र घटप्रत्यक्षे जाते घटे यो घटत्वादीनां नीलरूपादीनां च संबन्धः स तु संयुक्तविशेषणतासंसर्गेण भासते-चक्षुस्संयुक्तघटे तस्य विशेषगत्वादिति तादृशसंबन्धनिष्ठा विषयता संयुक्तविशेषगतासंनिकर्षप्रयोज्यास्ति घटस्तु चक्षुम्संनिकृष्ट एव, वैशेषिकमते च समवायस्याप्रत्यक्षवाहिशिष्टबुद्धया समवायानुमानं भवति तदुक्तं तैः-" इहात्मनि ज्ञानमिहाकाशे शब्द इतीहबुद्धिरुत्पद्यमाना न विना संभमत्पत्तुमर्हति तेनानुमीयते-अस्ति कश्चित्संबन्धः ।" इति । अनुमितौ च पर्वतधूमौ चक्षुस्संनिकृष्टौ घह्निनिष्ठा च विषयता च्याप्तिज्ञानप्रयोज्यास्ति पर्वतीयवह्निसंयोगनिष्टा च विषयता पक्षधर्मताज्ञानप्रयोज्यारित. अर्थात्-धूमपर्वतयोः प्रत्यक्षेण ज्ञातत्वद् वह्वेश्च व्याप्तिज्ञानेन ज्ञातत्वात् पक्षधर्मताज्ञानेन 'वहिव्याप्यधूमवान् पर्वतः । इत्यनेन वह्निसंयोग एव ज्ञायतेऽत एव पक्षधर्मताज्ञानानन्तरं तत्कार्यभूतं ' वहिमान् पर्वतः । इत्याकारकं ज्ञानं जायते. अत्र वाप्तिज्ञानेन ज्ञानत्वात् पारि "Aho Shrutgyanam" Page #14 -------------------------------------------------------------------------- ________________ (२) सादर्श: [ प्रथमाकारके - शेष्याहिसंयोग एव विषय इति । उपमितौ च गवयनिष्ठा विषयता चक्षुस्संनिकर्ष प्रयोज्यास्ति गवयगवयपदयोर्वाच्यवाचकभावसंबन्धनिष्ठा च विषयता सादृश्यज्ञानप्रयोज्यास्ति तत्र वाच्यवाचकभावसंबन्धस्य सादृश्यज्ञानेन ज्ञायमानत्वात् प्रथमम् ' गोसदृशो गवयः ' इत्यतिदेशवाक्यश्रवणात् तस्य गवयदर्शनकाले स्मरणात् इत्येवं प्रत्यक्षानुमानोपमानेतिप्रमाणत्रयस्थले तु येन प्रका. रेण संबन्धज्ञानं जायते संबन्धनिष्ठा च विषमता यत्प्रयोज्या भवति तत्सर्वं विज्ञातम्, संप्रति 7 राजपुरुषः ' नीलघटमानय' इत्यादिवाक्यजन्यशाब्दबोधस्थले स्वत्वाऽभेदादिसंबन्धानां प्रतीतिः कथं भवति तादृशसंबन्धनिष्ठा विषयता च किं प्रयोज्या भवतीति न ज्ञातमिति तद्वक्तव्यमित्याशङ्कय श्रीमद्गदाधरभट्टाचार्यो व्युत्पत्तिवादाख्यं ग्रन्थमारमत - शाब्दबोधे चेति । कुम्भकारः ' इतिवत् ' व्युत्पत्तीर्वदतीति व्युत्पत्तिवादः इति ग्रन्थनामार्थः । L 22. " शाब्दबोध इति - अत्र चस्त्वऽर्थे, “ शाब्दबोधे " इति सप्तम्यर्थो निरूपितत्वम्/ एकपइति सप्तम्यर्थोऽनुयोगित्वन, " अपरपदार्थस्य " इति षष्ठ्यर्थः प्रतियोगित्वम् संसर्गः भभेदादिसंबन्धः, संसर्गमर्यादया = आकाङ्क्षया, तृतीयार्थश्च प्रयोज्यत्वम्, भासधात्वर्थो विषयता, आत्मनेपदप्रत्ययार्थ आश्रयता, तथा च ' एकपदार्थानुयोगिकोऽपरपदार्थप्रतियोगिकोमेदादिसंबन्धः शाब्दबोध निरूपिताऽऽकाङ्क्षा प्रयोज्यविषयताश्रयः ' इति वाक्यार्थः, पदार्थद्वयस्य यः संसर्गः स शाब्दबोधे आकाङ्क्षाबलेन भासते इति यावद् यथा- नीलघटमानय ' इत्यत्र नीलप्रतियोगिको घटानुयोगिकश्व यो नीलघटयोरभेदसंवधः स केनापि पदेनानुपस्थितत्वादाकाङ्क्षाबलेन मासते, यथा च ' राजपुरुषः' इत्यत्र राजप्रतियोगिकः पुरुषानुयोगिकश्च यः स्त्रत्यसंबन्धः स आकाङ्क्षाबलेन भासते ' राजपुरुषः ' इत्यादिविशिष्टबुद्धेः संबन्वमानं विनोत्यतेरसंभवात्. संबन्धभासकपदस्य चाभावात् तादृशस्वत्वादि संबन्धस्याकाङ्क्षया मानं स्वीकि - यते, ओकाङ्क्षा च “यत्पदेन विना यस्याननुभावकता भवेत् । आकाङ्क्षा । " इति विज्ञेया । ' नीघटम् ' इत्यादी पदनिष्ठा विषयता श्रावणप्रत्यक्षप्रयोज्या नीलघटादीनां च विषयता नीलादिपदघटादिपदप्रयोज्या नीलघटाद्येोर्योऽमेदादिसंबन्धस्तन्निष्ठा विषयताऽऽकाङ्क्षाज्ञानप्रयोज्या भवतीति यावत् । एवम् ' राजपुरुषः ' इत्यादौ स्वत्वादिसंवन्धनिष्ठा विषयताऽऽकाङ्क्षाज्ञानप्रयोज्या विज्ञेया । अत एव शक्तिवादेऽन्विताभिधानवादखण्डनस्थले हामेदादिसंबन्धे शक्तिं दूषयित्वा संबन्धस्याकाङ्क्षामास्यत्वं प्रतिपादितम् । नीलो घट: ' इत्यादिव्यासस्थले विशेषण विभक्तेरभेदार्थकत्वमते त्वऽभेदादेर्विभक्त्युपस्थापितत्वात् प्रकारत्वमेव भवति न तु संसर्गस्वम् ' नीलाभेदवान् घटः * इति च तत्र शाब्दबोधः, तस्माद् यत्र यस्य संसर्गत्वं तत्र तस्याकाङ्क्षाभास्यत्वमेव विज्ञेयम्, व्यासस्थलेपि विशेषणविभक्तेर्निरर्थकत्वमते ह्यभेदादेः संसगत्वमेव "भवतीत्याकाङ्क्षामास्यत्वमेव, तत्र विशेषणविभक्तिः साधुत्वार्थ विज्ञेया ' अभेदसंबन्धेन नीलवशिष्ट घटः ' 'स्वत्वसंवन्धेन राजविशिष्टः पुरुषः' इत्यादिश्च शाब्दबोचाकारो विज्ञेय इत्यलम् । "Aho Shrutgyanam" 66 Page #15 -------------------------------------------------------------------------- ________________ अभेदसंबन्धः ] व्युत्पत्तिवादः । स च क्व चिदऽभेदः क्व चिच्च तदतिरिक्त एवाधाराधेयप्रतियोग्यनुयोगिविषयविषयिभावादिः । अभेदश्च प्रातिपदिकार्थे स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववर्तिना च पदेनोपस्थापितस्यैव संसर्गमर्यादया भासते यथा- 'नीलो घटः ' 'नीलघटमा. नय' इत्यादी घटादौ नीलादेः, न तु विरुद्धविभक्तिमत्पदार्थस्य - ' नीलस्य घटः । इत्यादौ नीलघटाभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वात् । संवन्धो द्विविधः- अभेदलक्षणो भेदलक्षणश्च तत्राभेदलक्षणम्यैकत्वाद् भेदलक्षणस्य चाऽनेक. रूपत्वात् प्रथममभेदर्सबन्धमाह- स चेति । सः-संसर्गः । कतिपयभेदसंबन्धानाह- कचिच्चेति । तदतिरिक्तः अभेदातिरिक्तः । 'भूतले घटः ' 'घटवद् भूतलम् ' इन्यादावाऽऽधाराधेयभावः संबन्धः । ' भूतले घटो नास्ति । इत्यादौ प्रतियोग्यनुयोगिभावः संबन्धः । 'घटे ज्ञानम् । सोले इच्छा ,इत्यादौ घटादिविषयकज्ञानस्य मोक्षादिविषयकेच्छायाश्च प्रतीयमानत्वाद् विष विषयित्यादित्यर्थः । एतच्च प्राचीनमतेन, नवीनमतने त्वानुमा बिदासरतासाथ क्वचिदाधेयतासंबन्धो यथा भूतलस्य घटे एवं कचित् प्रतियागिता कागदपोती षयता क्वचिद्विषयिता संबन्ध इति विवेकः । उक्तमभेदसंबन्धं व्युत्पादयति- अभेदश्चेति । “प्रातिपदिकार्थे " इतिसप्तम्यर्थोऽनुयोगित्वम्, “ उपस्थापितस्य " इतिषष्ठयर्थः प्रतियोगित्वम्, पदार्थस्येतिशेषः, यथा-'नीलो घटः। इत्यत्र प्रातिपदिकार्थे घटे स्वसमानविभक्तिकेन= घटादिलक्षणानुयोगिवाचकघटपदादिसमानविभक्तिकेन नीलपदेनोपस्थापितस्य नीलपदार्थस्याऽभेदः संसर्गमर्यादया आकाङ्क्षया भासते नीलपदोत्तरविभक्तेः साधुत्वमात्रार्थकत्वात् । 'नीलघटमानय ' इत्यत्र च स्वसमानविभक्तिकत्वाभावेष्यभेदस्य भासमानत्वेनोक्तम्- स्वाव्यवहितेति, तथा चात्र स्वं घटपदं तदव्यवहितपूर्ववर्तिना नीलपदेनोपस्थापितस्य नीलपदार्थस्य प्रातिपदिकार्थे घटेऽभेदसंबन्धः संसर्गमर्यादया भासतेतादृशसंबन्धोपस्थापकपदाभावात् । एवकारो भिन्नक्रम इति “स्वसमान विभक्तिकेनैव स्वाव्य. वहितपूर्ववर्तिनैव च " इत्यन्वयः, एवकारव्यवच्छेद्यमाह-न विति, नीलस्य धरः इत्यत्र नीलसदस्य घरपदसमानविभक्तिकत्वमपि नास्ति षष्ठया व्यवधानेन च घटपदाव्यर्विवर्तित्वमपि नास्तीति न नीलघटयोरभेदो भासते । नीलपदोत्तरषष्ठयां च बातमदास्यवहितपूर्ववर्तिस्वेप्यऽयोग्यत्वाल षष्ठयर्थसंबन्धस्याभेदेन घटेऽन्वयः संभवति । स्वसमानेत्यादिनियमाभावे च 'नीलस्य घटः' इत्यत्रापि नीलघटयोरभेदान्वयबोधः प्रसज्येत स तु सर्वविज्ञानुभवविरुद्ध एवेति न विरुद्धविभक्तिमत्पदार्थस्याभेदो भासते इति मूलार्थः । "Aho Shrutgyanam" Page #16 -------------------------------------------------------------------------- ________________ (४) सादर्शः [प्रथमाकारकेसमावि स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् । साजात्यं च विभक्तिविभाजकप्रथमात्वादिना न तु समानानुपूर्वीतत्वं साजात्यमू'वेदाः प्रमाणम् ' 'शतं ब्राह्मणाः ' इत्यादावन्वयबोधानुपपत्तेः। ननु "विंशत्याद्याः सदैकत्वे" इत्यनुशासनात् 'शतं ब्राह्मणाः' इत्यादेः साधुत्वेपि 'वेदाः प्रमाणम्' इत्यादयः कथं प्रयोगा: ?-- विशेष्यविशेषणवाचकपदयोरसति विशेषानुशासने समानवचनकत्वनियमात्, अन्यथा 'घटा नीलः' इत्यादेरपि साधुताप्रसङ्गात् । ननु · वेदाः प्रमाणम् ' इत्यादौ वेदादिपदप्रमाणादिपदयोः समानविभक्तिकत्वाभावेपि वेदप्रमाणादिपदार्थयोरभेदो भासते एवेत्याशङ्कय समानविभक्तिकत्वं निर्वक्ति- स्वसमानेति, स्वम्= मेखिकायकपदम् । स्वप्रकृतिके ति- यथा 'वेदाः प्रमाणम् ' इत्यत्र स्वपदेनाऽनुयोगिवाचक बाद ग्रोहा तत्प्रकृतिका विभक्तिर्जस्विभक्तिस्तत्सजातीयविभक्तिकत्वं प्रमाणपदेप्यस्त्येव तस्य प्रथमान्तत्वादिति नात्राऽभेदान्वयबोधानुपपत्तिरित्यर्थः । ननु वेदपदोत्तरं जसूविभक्तिः प्रमाणपदोत्तरं च सुविभक्तिस्तयो. फयं च क च साजात्यमित्याशय विवक्षितसाजात्यस्य स्वरू. पमा- साजात्यमिति, अत्रानुपूर्वीलक्षणं साजात्यं न ग्राह्यं किं तु प्रथमारवादिधर्मेण तथा च सुजसोरुभयोरपि प्रथमावेन साजात्यमस्त्येवेति वेदपदप्रमाणपदयोः समान विभक्तिकत्वं प्राप्तं तेन चाभेदान्वयः प्राप्त इत्यर्थः । समानानुपूर्वीक्रत्वरूपसाजात्यस्वीकारे बाधकमाह-- न विति, यदि समानानुपूर्वीकत्वं साजात्यं स्यात्तदा सुजसोः समानानुपूर्वीकत्वाभावात्साजात्यं न स्यात्तथा व वेदपदप्रमाणपदयोः शतपदब्राह्मणपदयोश्च सजातीयविभक्तिप्रकृतित्वाभात् ' वेदाः प्रमागम्' 'शतं ब्राह्मणाः । इत्यादौ वेदादेः प्रमाणादेश्चान्वयबोधः अभेदान्वयबोधी नोपपयेतेत्यर्थः । ननु “विंशत्याद्याः सदैकत्वे" इत्यनुशासनाद्-विंशत्याद्याः संख्यावाचकाः शब्दा यदा संख्येयपरा भवन्ति तदा नियमेनैकवचनान्ता एव भवन्तीति नियमात् 'शतं ब्राह्मणाः' इत्यत्र ब्राह्मणशब्दस्य बहुवचनान्तत्वेपि शतशब्दस्यैकवचनान्तत्वमुपपद्यते, 'वेदाः प्रमाणम्' इत्यत्र वेदपदस्य बहुवचनान्तत्वेपि यत् प्रमाणपदस्यैकवचनान्तत्वेन विशेष्यविशेषणवाचकपदयोविभिन्नवचनकरवं तत् कथमुपपद्यतेत्याशङ्कते- नन्विति । स्वाभिप्रायं शाब्दबोधव्युत्पत्त्या प्रकटयति म्येति प्रथा 'नीलो घटः' इत्यादौ विशेष्यविशेषणवाचकयोर्घटपदनीलपदयोः समानवचनकत्वमस्ति सारा वेदाः प्रमाणम्' इत्यत्रापि विशेष्यविशेषणवाचकयोर्वेदपदप्रमाणपदयोः समानवचनकत्वेन भवितव्य तद्बाधकस्य विशेषानुशासनस्याभावादित्यर्थः । विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियमानङ्गीकारे बाधकमाह- अन्यथेति, 'घटा नीलः' इत्यादिप्रयोगाणां यदऽसाधुत्वं तत् सम्मवचनकत्वाभावादेवास्तीति 'वेदाः प्रमाणम्' इत्यादिप्रयोगाणां समानवचनकत्वाभावे कथं साधुत्वैसाक्षेपः। "Aho Shrutgyanam" Page #17 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः । समानलिङ्गकस्थले तथानियमोपगमेन " इति हेतुस्तदुद्भवे" इतिकारिकायाः " इति त्रयः समुदिता हेतु: " इतिकाव्यप्रकाशव्याख्याया असङ्गतिर्दुर्वारव । एवमसमानलिङ्गकस्थले विशेव्यवाचकपदाऽसमानवचनस्यापि विशेषणपदस्य साधुत्वे तादृशस्थले औत्सर्गिकमेकवचनमेव सर्वत्र विशेषणपदानन्तरं प्रयोक्तुमुचितमिति “ पितरो देवताः" इत्यादेरनुपपत्तिः । - समानवचनकत्व परिष्कारः ] मैवम् - यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्ध संख्याया अविवक्षितत्वं तत्र विशेष्यविशेषणपदयोः समानवचनकत्वनियमः, अत एव (५) ननु विशेष्यविशेषणापत्र समानलिङ्गकल मग तो समानवचनकत्वस्य निय मोस्ति यथा - 'नीलो घटः' इत्यादी, 'वेदाः प्रमाणम्' इत्यत्र तु वदपदमनायष्टयों समानलिङ्गकत्वाभावेन समानवचनकत्वाभावेपि न साधुत्वानुपपत्तिरित्याशङ्क्याह-समान किरातीः नियमोपगमेन = समानवचनकत्वनियमोपगमेन । एवमपि " इति हेतुस्तदुद्भवे" इत्याकरिककाव्य-काशकारिकाया या " इति त्रयः समुदिता हेतुः" इत्याकारकटीकास्ति तत्र तु त्रिपद हेतुपदयोयोरपि पुंलिङ्गत्वेन समानलिङ्गकत्वात् समानवचनकत्वेन भवितव्यमिति कथं त्रिपदहेतुपदयोर्विभिन्नवचनकत्वे साधुत्वं स्यादित्युक्त समानवचनकत्वनियमस्याऽव्याप्तिं प्रदर्शयन्नाक्षिपति - इतिहेतुरिति । उक्तरीत्या " इति त्रयः समुदिता हेतु :" इत्यत्र समान लिङ्गकस्थलेपि समानवचनत्वं नास्तीत्यव्याप्ति प्रदर्श्याऽसमानलिङ्गकस्थले समानवचनत्वस्यातिव्याप्तिं प्रदर्शयति- एवमिति, उक्तार्थानां प्रयोगो न भवतीति विशेष्यवाचकपदोत्तरवर्तिन्या विभक्त्या संख्याया उक्तत्वाद् विशेषणवाचकपदोत्तरं द्विवचन बहुचनयोरपेक्षैव नास्तीति साधुत्वार्थमत्सर्गिकमेकवचनमेव प्राप्नोतीति 'वेदाः प्रमाणम्' इत्यत्र प्रमाणपदोत्तरमेकवचनमेवात्सर्गिकं यदि युक्तम् - समानवचनकत्वनियमस्य समानलिङ्गकस्थले एव स्वीकारात् तदा विशेष्यविशेषणवाचकपदयोस्तादृशस्थले =असमानलिङ्गकस्थले सर्वत्रौत्सर्गिकमेकवचनमेव विशेषणवाचकपदोत्तरं प्रयोक्तव्यमिति "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" इत्यत्र प्रमाणपदोत्तरम् " पितरो देवताः" इत्यत्र च देवतापदोत्तरमेकवचनमेव प्रयोक्तव्यमासीन्न तु बहुवचनम् - विशेष्यविशेषणवाचकपदयोः समानवचनकत्व नियामकस्य समानलिङ्गकत्वस्याभावादित्यर्थः तथा च समानलिङ्गकस्थले एव समानवचनकत्वं भवतीति नियमस्याsसंभवाद् यथा " प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" इत्यत्र समानलिङ्गकत्वाभावेपि समानवचनकत्वं तथा 'बेदाः प्रमाणम्' इत्यत्रापि समानलिङ्गकत्वाभावेपि समानवचनकत्वं युक्तं तच नास्तीति कथं साधुत्वमित्याक्षेपः । उक्तरीत्याक्षिप्य परिहरति- मैवमिति । यत्रेति - यथा 'नीला घटाः चकपदं घटपदं तदुत्तरत्रर्तिविभक्तिर्ज विभक्तिस्तत्तात्पर्यविषयीभूता संख्या "Aho Shrutgyanam" Page #18 -------------------------------------------------------------------------- ________________ सादर्श: [ प्रथमाकारके - पुरूरवद्रवसौ विश्वेदेवाः " इत्यादौ द्वित्वविशिष्टयोः पुरूरव आद्रवः प्रभृत्योविशेषणतया विवक्षितत्वात् तद्वाचकस्य पदस्य द्विवचनान्तता । ( ६ ) 26 6 वेदाः प्रमाणम्' इत्यत्र च विशेषणपदोत्तरविभक्त्या बहुत्वविरुद्ध मेकत्वं विवक्षितं तच प्रकृत्यर्थतावच्छेदके प्रमितिकरणत्वेऽन्वेति । मस्करणलं मपात पायाग्यता । संख्याया अविवक्षितत्वान्नीलपदोत्तरमपि जसैव युक्तमिति समानवचनकत्वम्, एवम् क्षानुमानोपमानशब्दाः प्रमाणानि " " पितरो देवताः " इदमदार, विशेष्यवाच पितृपदं शब्दपदं च तदुत्तरवत्तिजं विभक्तिसात्पर्यविषयीभूतबहुत्वसंख्यातो विरुद्धसंख्याया अि वक्षितत्वाद विश्वविशेषणवाचकपदयोः समानवचनकत्वमित्यर्थः । " पुरूरव आद्रवसौ विश्वदेवाः इत्यत्र द्वित्वविशिष्टयोरेव पुरूरवसद्रवसोर्विश्वेदेवविशेषणत्वं विवक्षितमिति विशेष्यवाचकविर्वेदेवपदोत्तरवर्तिजस्विभक्तितात्पर्यविषयीभूतबहुत्वसंख्यातो विरुद्धाया द्वित्वसंख्याया वि क्षितत्वेनाऽविवक्षितत्वं नास्तीति न समानवचनकत्वं प्राप्तं किं तु द्वित्वसंख्याया विवक्षितत्वेन विशेषणवाचकपुरूरवआद्रवः पदोत्तरं द्वित्वबोधकं द्विवचनमेव प्रयुक्तमित्याह- अत एवेति । अंत एव यत्रेत्यायुक्त नियमादेव । तद्वाचकस्य = विशेषणीभूत पुरुरव आद्रवोवाचकस्य पुरूरवआद्रव:पदस्य । वस्तुतस्तु पुरूरवपदमाद्रवपदं चाकारान्तमेवेति श्रीगुरुचरणाः । 27 66 "Aho Shrutgyanam" प्रत्य एवम् ' वेदाः प्रमाणम्' इत्यत्रापि विशेष्यवाचकवेद पदोत्तर वर्तिजसू विभक्तितात्पर्यविषयीभू तबहुत्वसख्याती विरुद्धाया एकत्वसंख्याया विवक्षितावेन समानवयवत्व नियामक मुक्ताऽविनवितो तत्वं नास्तीति न समानर्वचनत्वं तत्प्राप्तिश्व किं त्वेकत्वसंख्याया विवक्षितत्वेन तद्बोधक वनमेष प्रमाणपदोत्तरं प्रयुक्तं तदेव युक्तं चेत्याह- ' वेदाः प्रमाणम्' इत्यत्रेति । ननु चत्वारों वेदास्तेषु कथमेकत्वान्वयः स्यादित्याशङ्क्याह- तच्चेति तत् एकत्वम् । प्रकृतिपदेन प्रमाणपदं ग्राह्यम्, प्रमितिकरणं च प्रमाणमिति प्रकृत्यर्थतावच्छेदकं प्रमितिकरणत्वं तच चतु पि वेदेष्वेकमेव विवक्षितमिति तादृशप्रमितिकरणत्वे एकत्वस्यात्रान्वयो भवति न तु प्रमिति करणभूतेषु वेदेष्वित्यर्थः । ननु नानाभूतेषु प्रमितिकरणेषु वेदेषु कथमेकमेव प्रमितिकरणत्वं स्यादि त्याशङ्क्याह-- शाब्देति, यथाऽनेकेषु घटेष्वेकमेव घटत्वं तथाऽनेकेष्वपि प्रमितिकरणेषु वेदेष्वे कमेव प्रमितिकरणत्वं युक्तमिति तत्रैकत्वान्वयस्य नाऽयोग्यता, याचच्छन्दपदेन प्रमाणभूतशब्द ग्राह्यः-- • अनातवाक्येषु प्रमाणत्वास्वीकारात् । इति त्रयः समुदिता हेतुः " इत्यत्र च समुदाये एकमेव हेतुत्वं विवक्षितमिति ताद्दशसमुदाय निष्ठहेतुत्वे एकत्वान्वय समोनवचनत्वं तत्प्राप्तिश्चेत्यर्थः । 66 Page #19 -------------------------------------------------------------------------- ________________ समानवचनत्ववादः ] व्युत्पत्तिवादः । (७) , न च " पदार्थः पदार्थेनान्वेति " इति व्युत्पत्तिविरोधः, 'संपन्नो व्रीहिः इत्यनेकत्रीहितात्पर्यकेप्येकवचनदर्शनेन तादृशव्युत्पत्तिसंकोचस्यावश्यकत्वात् । यदि स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्स्व संबन्धेन प्रकृत्यर्थ एवैकत्वान्वयः, व्रीहित्वजातेः स्वरूपत एव व्रीह्यादिपदशक्यतावच्छेदकतयाऽन्वयितावच्छेदकरूपेणाSनुपस्थितेस्तत्र पदार्थान्तरस्याऽन्वयानुपपत्तेरिति मन्यते ? तदा प्रकृतेऽपीह इयेव गतिः । ननु ' पदार्थान्तरनिष्टप्रकारतानिरूपित विशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रत्यन्वयितावच्छेदकरूपेणोपस्थितिः कारणम् इतिनियमेन पदार्थस्य नीलादेः पदार्थेन घटादिनैवान्चयो भवति घटादेरन्वयितावच्छेदकरूपेण घटत्वेन रूपेणोपस्थितेर्न तु घटत्वादिना, घटत्वादेर्घटत्वत्वादिरूपेणोपस्थितेरभावात् स्वरूपत एवोपस्थिति स्वीकारात्, उक्त नियमानङ्गीकारे तु लोमलाङ्गलादीनामपि दीर्घ चाभिप्रायेण ' दीर्घः पशुः ' इतिप्रयोगः स्यात् पश्वेकदेशेन लोमादिना दीर्घस्वान्वये बाधकाभावप्रसङ्गात् न च लोमादिनात्र दीर्घत्वान्वय इष्ट इति पदार्थ: पदार्थेनैवान्वेति न तु पदार्थैकदेशेनेतिव्युत्पत्तिः स्वीकार्या तथा च ' वेदाः प्रमाणम्' इत्यत्रापि एकत्वपदार्थस्य वेदरूप पदार्थेनैवान्वयो युक्तो न तु वेदैकदेशेन प्रमितिकरणत्येनेति कथमेकत्वस्य प्रमितिकरणत्वेऽन्वय उक्त इत्याशङ्क्याह- न चेति । ' संपन्नो व्रीहि:' इति वाक्यस्य नोकव्रीहिकणसंपन्नत्वे तात्पर्यं किं त्वनेकव्रीहिसंपन्नत्वस्ति तथाप्यत्रैकत्रचनदर्शनेनैकत्वस्य चानेकव्रीहिषु बाधेन व्रीहित्वजातायेवान्वयोस्तीत्यसति बाधके पदार्थः पदार्थेनैवान्वेति सति बाधक तु पदार्थैकदेशेनाप्यन्वे तीति व्युत्पत्तिसंकोचे कृते ' संपन्नो व्रीहिः ' इत्यत्रेव ' वेदाः प्रमाणम्' इत्यत्राप्येकत्वपदार्थस्य पदार्थैकदेशेन प्रमितिकरणत्वेनान्वये न कोपि दोषः । वस्तुतस्त्वयं नियमः संख्यातिरिक्तस्थलार्थ मस्ति संख्यायास्तु पदार्थैकदेशेनाप्यन्वयो भवति ' संपन्नो व्रीहिः' इत्यादिप्रयोगदर्शनात तथा वेदाः प्रमाणम्' इत्यत्राप्येकत्वस्य पदार्थैकदेशे प्रमितिकरणत्वेऽन्वये न दोषः । 6 9 C ननु गत्यभावे एव नियमसंकोच उचितो न तु सत्यां गतावपीति न व्रीहित्वजातावेकत्वान्चयो युक्तः - व्रीहित्वं हि स्वरूपत एव व्रीहिपदस्य शक्यतावच्छेदकमस्तीति व्रीहिपदेन व्रीहित्वस्य स्वरू पस एवोपस्थितिर्भवति न त्वन्वयितावच्छेदकेन व्रीहित्यत्वेन रूपेण पदार्थान्तरान्वयं प्रति चान्वयितावच्छेदकरूपेणोपस्थितिः कारणमस्तीति न व्रीहित्खजातावत्रैकत्वान्वय उपपद्यते किं तु स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसंबन्धेन प्रकृत्यर्थे = व्रीहिष्वेवैकत्वान्वयः संभवतीति नोक्तनियमर्सकोचस्यावश्यकतेत्याह-- यदीति, स्वं एकत्वं तदाश्रयीभूतं यत् प्रकृत्यथतावच्छेदकं व्रीहित्वं तत्वसंबन्धेन त्रीहित्यवत्त्वं संबन्धरूपं व्रीहिष्वस्त्येवेत्यर्थः । उत्तरमाह - तदेति, यथा 喜 संपन्नो व्रीहिः ' इत्यत्रैकत्वस्य व्रीहिष्वेवान्वयस्त्वयोपपादितस्तथा प्रकृतेपि = ' वेदाः प्रमाणम् ' इत्यत्रापि स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसंबन्धेनैकत्वस्य वेदेष्वेवान्वयो ज्ञेयः । स्वं एकत्वं तदाश्रयीभूतं यत प्रकृत्यर्थतावच्छेदकं प्रमितिकरणत्वं तद्वत्त्वसंबन्धेन वेदेष्वेवैकत्वस्यान्ययः । प्रमितिकरणत्ववत्त्वं वास्त्येव वेदेष्वित्यर्थः "Aho Shrutgyanam" Page #20 -------------------------------------------------------------------------- ________________ (८) सादर्शः [प्रथमाकारकेयत्तु — संपन्नो व्रीहिः' इत्यादावेकवचनोपस्थितानि नानकत्वानि प्रत्येक नानाव्रीहिष्वन्वीयन्ते इत्युक्तयैव सामञ्जस्ये जातावेकत्वभानोपगमो निरर्थक इति, तदसत्, यतः- स्वसजातीयनिष्ठभेदप्रतियोगिताऽनवच्छेदकैकत्वरूपसजातीयद्वितीयरहितत्वमेकवचनार्थो न त्वेकत्वमात्रं तस्य वस्तुमात्रसाधारण्येनार्थत एव लाभात्. अनुपयोगाच्च, अत एव “पशुना यजेत '' इत्यादौ पशुनिष्ठताहशैकत्वस्य विवक्षितत्वादऽनेकपशुकरणकयागान्नादृष्टसिद्धिः । · नवमी श्रीहिः । इत्यत्रैकत्वस्य जाताबन्वयो न भवति येन " पदार्थः पदार्थेन । चावश्यकता स्यात्, न चापि विभक्तया एकमेवैकत्वमुपतिष्ठति येनेकस्यैककत्रीहिष्बन्वयबाधः स्यात् , किं त्वेकवचनविभक्त्या नाना अनेकान्येवैकत्यान्युपतिष्ठन्ति अनेकेषां चैकत्वानामनेकेषु व्रीहिष्वन्वये न कोपि बाध इत्याशङ्कते- यत्त्विति । परिहरतितदसदिति, ' संपन्नो ब्रीहिः ' इत्यत्रैकवचनस्यैकत्वमात्रम्-संख्यारूपमेकत्वं नार्थ:- तस्य= संख्यारूपैकत्वस्य वस्तुमात्रसाधारण्येन= केवलान्वयित्वेनार्थत एवं लाभात्-प्रतीतिसंभवात् । अनुपयोगाचेति- अत्रैकवचनस्य संख्यारूपैकत्वार्थकत्वस्वीकारे उपयोगाभावात् ब्रीहिसजातीयोप्तानान्तरसंपन्नत्वव्यावृत्तिर्या वक्तुरभीष्टा सा न प्राप्नुयात् एकत्वसंख्यान्वयित्रीहीणां संपनत्वेपि ब्रीहिभिन्नाचसंपन्नत्वे बाधकाभावात् सजातीयद्वितीयराहित्यरूपैकत्वस्वीकारे तु तादृशैकत्वान्वयित्रीहीनों में संपनले व्रीहिसजातीयोप्तानान्तरसंपन्नत्वव्यावृत्तिरुपलभ्यते तस्मादन वैशानमेवानाः किं तु स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वरूपं यत्सजातीय व तदेकवचनार्थः । स्वसजातीयेति- यत्रानेके घटा वर्तन्ते तत्र स्वं पीतघटस्तत्सजातीयो द्वितीयो नीलघटः नीलघटे पीतघटभेदोप्यस्त्येव तस्य भेदस्य प्रतियोगी पीतघटस्तत्र यदेकत्वं तद् भेदप्रतियोगितावच्छेदकमेवेति-त तदेकत्वं सजातीयद्वितीयरहितत्वरूपम् । यदा त्वेक एवं घटस्तदा सजातीयद्वितीयघटस्याभावाद् वर्तमानघटनिष्ठमेकत्वं स्वसजातीयनिष्ठभेदप्रतियोगिताऽनवच्छेदकमेव एतादृशाऽनवच्छेदकैकत्वरूपमेव सजातीयद्वितीयरहितत्वपेकवचनार्थः । “संपन्नो व्रीहिः' इत्यत्र यद्यऽन्नान्तरं सपन्नं स्यात्तदा संपन्नत्वेन ब्रीहिसजातीयान्नान्तरस्य सत्त्वात् तत्र वर्तमानो यो नी. लातियोगितावच्छेदकं व्रीहिगतैकत्वं स्थादपि यदा च नान्नान्तरं संपन्नं तदा संपन्नत्वेन रूपेनावातीपत्यकामावात स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकमेव जातं व्रीहिगतकत्वं तदेव सजातीयद्वितीयरहितत्वम्। प्रकृतोपष्टम्भकमाह-अत एवेति,अत एव एकवचनार्थैकत्वस्य सजातीयद्वितीयरहितत्वरूपस्वीकारादेव "पशुना यजेत" इत्यादौ पशुनिष्ठस्य तादृशैकत्वस्य सजातीयदेतीयरहितत्वरूपस्यैव विवक्षितत्वदिकपशुकरणकयागादेवादृष्टसिद्धिर्भवति नत्वनेकपशुकरणकयागादपि । एकत्वस्य सजातीयद्वितीयराहित्यस्वरूपत्वानझीकारे पश्वन्तरस्य व्यावत्यानाऽनेकपशुकरणकयागादप्यऽदृष्टसिद्धिरापतेद् न चैवं सिद्धान्तः । अत्र च स्वं संजातीपो यदि SE"72NEL: "Aho Shrutgyanam Page #21 -------------------------------------------------------------------------- ________________ एकवचनत्वपरि.] व्युत्पत्तिवादः। साजात्यं च स्वसमभिव्याहतपदार्थसंसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकवत्त्वरूपेण, अतः' अत्र घटोस्ति ' इत्यादौ घटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वाप्रसिद्धावपि न क्षतिः- एतद्देशविद्यमानघटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वस्यैव तत्र बोधादिति. तस्य च प्रसिद्धत्वात् । एतदेशे बहुघटसत्वदशायां ताहशवाक्यप्रयोगस्तु जात्येकत्वादेव समर्थनीयः। द्वितीयः पशुर्यागे स्यात्तदा द्वितीयपशुनिष्टस्यैतत्पशुभेदस्यैतत्पशुनिष्ठमेकत्वं मेदप्रतियोगिता. वच्छेदकं स्यादपि, यागे पश्वन्तरस्याभावे चैतत्पशुनिष्ठमेकत्वं सजातीयपश्वन्तरनिष्ठभेदस्य प्रतियोगितानवच्छेदकमेव जातं तदेव सजातीयद्वितीयराहित्यम् । ननु यज्ञभूमौ कार्यान्तरार्थबद्धपशुसत्त्वे तन्निष्टो य एतत्पशुभेदस्तादृशभेदप्रतियोगितावच्छेदकमेबैतत्पशुनिष्ठमेकत्वं स्यात् तस्यापि पशोरेतत्पशुसजातीयत्वात् , तथा यागसंबद्धघृतादिष्वप्येतत्पशुभेदोस्ति तादृशभेदप्रतियोगितावच्छेदकमप्येतत्पशुनिष्ठमेकत्वं स्यात् घृतादीनामपि यागसंबन्धित्वेनेतत्पशुसजातीयत्वादेवेत्येतत्पशुनिष्ठैकत्वस्य कथं स्वसजातीयनिष्ठमेदप्रतियोगितानवच्छेदकत्वं स्यादित्याशङ्कय साजात्यं परिष्करोति-साजात्यं चेति, स्वेति-स्वं यजेतेत्यत्र वर्तमानतिविभक्तिस्तसमभिव्याहृतः पदार्थो यागपदार्थस्तत्संसर्गित्वविशिष्टम्यागसंबन्धित्वसमानाधिकरणं यत्प्रकृत्यर्थ - तावच्छेदकं पशुत्वं तद्वत्त्वरूपेण साजात्यं ग्राह्य तथा च कार्यान्तरार्थोक्तयागभूमिबद्धपशौ पशुत्वसत्वेपि यागसंसर्गित्वं नास्तीति न स पशुरेतद्यागीयपशुसजातीयः, घृतादौ यायसेसीत्वसत्त्वेऽपि प्रकृत्यर्थतावच्छेदकस्य पशुत्वस्याभावान्न धृतादीनामपि यागीयपशुसजातीयत्वं तस्मानित दोषः । अतः उक्तरूपेण साजात्यस्य परिष्कारात् 'अत्र घटोस्ति' इत्यादी घटानामने पर भेदाच नीलादिघटेषु पीतादिघट निष्ठकत्वस्याभावाद् अयं घटस्तद्धटनिष्ठेकत्ववान्नेति प्रताल चैकत्वबद्घटनिष्ठा या भेदप्रतियोगिर लवच्छेदकमेवैकत्ववद्घटनिष्ठमेकत्वं जातं नाऽनवच्छेदकमित्येवंरीत्या भेदप्रतियोगितानवच्छेदकस्पैकरसस्माSपि क्षति स्ति, यतः--'अत्र घटोस्वि' इत्यत्राऽत्रपदेनैतद्देश उपस्थाप्यते तथा चतर्दशानियमा मनातायो. घट एतद्देशविद्यमान एव घटो भविष्यति न तु घटमात्रम् एतद्देशे च घटान्तरस्यामावाद् देशान्तरलर्निघटे घटत्वसत्त्वेप्येतिद्देशवृत्तित्वाभावेन साजात्याभावादेतद्देशविद्यमानघटे यदेकत्वं तद् एतद्देशविरमाला शिवप्रतियोगिताया अनवच्छेदकमेव जातम् एतद्देशविद्यमानघटे सजातीयनिष्ठभेद प्रतियो एवाभावात् । एतविद्यमानत्वसमानाधिकरणधटलवत्त्वेन सजातीयस्याभावात् । तत्र='अत्र घटोस्ति' इत्यत चयविद्यमानघटनिष्ठप्रतियोगितानवच्छेदकस्यैवैकत्वस्य बोधात् तस्य एतद्रू, कत्वस्य चैतदै शानियमानघटे प्रसिद्धत्वात् । ननु बहुधटसत्त्वदशायामपि 'अत्र घटोस्ति' इत्येकिवचनान्तः प्रयोगों भवति तस्य का गतिरित्याशङ्ख्याह-बहुघटेति, बहुघटसत्त्वदशायाम् 'भत्र रवाहापासपयोगस्तु जात्येकत्वादेव समर्थनीयः । अर्थात् 'संपन्नो नीहिः' इत्यत्रेव 5.. "Aho Shrutgyanam" Page #22 -------------------------------------------------------------------------- ________________ (१०) सादर्श: [प्रथमकारकेयत्तु- एकत्वाविवक्षायामाप भावाख्यातस्थले एकवचनस्य साधुत्वदर्शनात् संख्याया अविवक्षणेपि 'संपन्नो व्रीहिः' इत्यादावेकवचनोपपत्तेरलं जात्येकत्वपरतया तत्र समर्थनेनेति, तदप्यकिंचित्करम्- भावाख्यातस्थले गत्यन्तरविरहेण विभक्तनिरर्थकत्वोपगमात्, अत्र च सार्थकत्वोपगमसंभवे तत्परित्यागस्यानुचितत्वात्, सति तात्पर्ये तद्बोधस्याऽऽनुभविकत्वाचेति । एवम् “त्रयः समुदिता हेतुः' इत्यत्र हेतुपदं कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नपरं तादृशसमुदायत्वान्वितमेकत्वमेकवचनार्थः, अत एव शक्त्याघटत्वजाताधेकत्वान्वयः कर्तव्यः किं वा स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसंबन्धेन घटेष्वेवान्वयः कर्तव्यः स्वमेकत्वं तदाश्रयीभूतं यत् प्रकृत्यर्थतावच्छेदकं घटत्वं तद्वत्त्वं सकलघटेष्वस्त्येव तेन संब: न्धेनानेकघटेष्वप्येकत्वान्वये न कोपि दोष इत्यर्थः।। ननु 'आख्यातार्थसंख्यानिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तपदजन्योपस्थितिः कारणम्' इति नियमेन 'देवदत्तः पचति'तण्डुलः पच्यते' इत्यादौ देवदततण्डुलादिप्रथमान्तपदसत्त्वेन तत्र देवदत्ततण्डुलादावाख्यातार्थसंख्याया अन्वयेन साक्येपि त्वया गम्यते' 'अन्यर्गम्यते' इत्यादी भावाख्यातस्थले प्रथमान्तपदामायेनाख्यातार्थसंख्याया क्वचिदप्यन्वयाभावात् सार्थक्यं न भवति तत्कस्य हेतो; संख्याया अविवक्षणात् , तथा च यथा भावाख्यातस्थले संख्याया अविवक्षायामप्येकवचनस्य साधुत्वं भवति' तथा 'संपन्नो व्रीहिः' इत्यादावपि संख्याया अविवक्षायामप्येकवचनस्य साधुत्वं संभवतीति किमर्थं ब्रीहित्वजातावेकत्वान्वयेन गौरवमाश्रीयते इत्याशङ्कते-- परिहरति-तदपीति, भावाख्यातस्थले प्रथमान्तपदाभावेनाख्यातार्थसंख्यायाः कचिदप्यन्वयासंभवाद् गत्यन्तरविरहेण निरर्थकत्वस्वीकारेपि सर्वत्र नि वाश्रयणं तु न युक्तं भवति तस्मात्र='संपन्नो व्रीहिः' इत्यादौ च संख्याया जाताबन्धज्यन सार्थकत्वसंभवे तत्परित्यागस्य विभक्तयर्थसंख्यासार्थकत्वपरित्यागस्थानुचितत्वात् । प्रत्युत् 'संपन्नो व्रीहिः ' इत्यादावत्यावश्यक संख्यासार्थकत्वमित्याह- सतीति । तद्बोधस्य-संख्याबोधस्यानुभविकत्वाद् वक्तुः संख्यायां तात्पर्य सति संख्याबोधोपि भवत्येवेतिप्रसिद्धमेव तथा च कथं सर्वत्र संख्याया निरर्थकलं स्यादित्याक्षेपः । "त्रयः समुदिता हेतुः" इत्येकवचनस्य गतिमाह-एवमिति । कार्य काव्यम् , उत्पादः इत्पत्तिः, काव्योत्पत्तिप्रयोजकता च शक्तिनिपुणताभ्यासानां त्रयाणां समुदायेस्तीति प्रयोजकतावच्छेदकं समुदायत्वं तादृशसमुदायत्वावच्छिन्नसमुदायपरं चात्र हेतुपदमिति तादृशसमुदायत्वे एकस्वान्वयः । तादृशसमुदायत्व-कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्व । एकत्वविशिष्टं यत्कार्यो"त्पादप्रयोजकतावच्छेदकसमुदायत्वं तद्धर्मवन्तस्त्रय इति वाक्यार्थः । अत एव समुदायत्वे एकस्यान्वयस्वीकारादेव यथा तृणारणिमणीनां वह्नि प्रति पृथक् पृथगेव हेतुत्वमस्ति केवलतृणसत्त्वेपि वद्युत्पत्तिदर्शनात्, न तथा शक्त्यादीनां काव्यं प्रति पृथक् पृथग् हेतुत्वमस्ति शक्त्यादिष्वेकैकस "Aho Shrutgyanam" Page #23 -------------------------------------------------------------------------- ________________ समानवचनत्वपरि० ] शक्तिवादः। (११) दीनां त्रयाणां तृणारणिमणिन्यायेन हेतुत्वशङ्कानिरासः, तथा सत्येषामेकैकसमवधानदशायामाप कार्योत्पत्तेरावश्यकतया तदात्रतयपर्याप्तसमुदायत्वस्य कार्योत्पत्तिप्रयोजकतानवच्छेदकतया तेषां त्रयाणां तथाविधैकसमुदायत्वाश्रयत्वाऽनुपपत्तः। एवम् “जात्याकृतिव्यक्तयः पदार्थः " इत्यत्र त्रितयनिष्ठस्य पदशक्तिरूपपदार्थत्वस्यैकत्वं विवक्षितमिति तत्र विशेष्यपदस्य बहुवचनान्तत्वेपि विशेषणपदस्यैकवचनान्ततोपपत्तिः। प्रत्यक्षानुमानेत्यादिसूत्रे प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्य प्रत्यक्षानुमानादिनिष्ठस्यैकताया बाधितत्वेनाऽविवक्षितत्वात् प्रमाणपदस्य बहुवचनान्ततेति । __ एवम् “ पितरो देवताः" इत्यत्रापि पितृपितामहादीनां सहितानामेकरूपेण देवतात्वविरहेण पितृत्वपितामहत्वादिना पृथगेव त्यागोद्देश्यत्वरूपदेवतात्वम् । त्त्वेप्यपरद्वयाभावे काव्योत्पत्त्य दर्शनादिति तृणार शिमणिन्यायेन हेतुत्वशङ्का निरासः । विपक्षे बाधकमाह- तथासतीति, काव्यं प्रति शक्त्यादीयों तृणारणिगिन्यायेन हेतुत्वे सति शक्त्यादिध्वकैकमात्रसत्त्वदशायामपि काव्यलक्षणकार्योत्पत्तरावर कतया शक्त्यादित्रितयपर्याप्तं यत्समुदायत्वं तस्य काव्यलक्षणकार्योत्पत्तिं प्रति प्रयोजकतावच्छेदकत्वं न स्यादिति प्रयोजकतामा कत्यापत्तौ तेषाम्-शक्त्यादीनां त्रयाणां तथाविधम् कार्योत्पादप्रयोजकतावच्छेदकं यदेक समुदायत्वं तदाश्रयत्वं न स्यादेव तथा चकैकसमवधानदशायामपि काव्योत्पत्त्याऽऽपत्ती तृणारणिमणिन्यायेनैव हेतुत्वं स्यात् तथा च "हेतुः" इत्येकवचनमनुपपन्नं स्यात्तस्माच्छक्त्यादीनां त्रयाणामपि काव्योत्पत्तिप्रयोजकतावच्छेदकसमुदायत्वाश्रयत्वं स्वीकार्य ततश्च तादृशसमुदायत्ये . एके एकवचनाथूकत्वस्यान्वक्स्तथा च न कोपि दोष इत्यर्थः । ___ "जात्याकृतिव्यक्तयः पदार्थः" इत्यत्रत्यविभिन्नवचनकत्वस्य व्यवस्थां व्याकरोति–एवमिति । त्रितयनिष्ठस्य-जात्याकृतिव्यक्तिनिष्टस्य पदार्थत्वस्यैकत्वं विवक्षितमस्ति यतः पदवाच्यत्वं तर्कमते जात्याकृतिव्यक्तित्रितयपर्याप्तमस्तीति विशेष्यपदस्य-जात्याकृतिव्यक्तिपदस्य बहुवचनान्तत्वेपि विशेषणपदस्य-पदार्थपदस्यैकवचनान्तत्वं युक्तमेव । पदार्थत्वं पदार्थे भवति पदशक्तिरपि निरूपकस्वसंबन्धेन पदार्थे भवतीति पदार्थत्वस्य पदशक्तिरूपत्वमुक्तमित्यवधेयम् । प्रत्यक्षेति-"प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" इत्यत्र प्रमाणानीतिबहुवचनान्तस्य प्रकृत्यर्थतावच्छेदकं यते प्रमाकरणत्वं तस्यैकस्य प्रत्यक्षादिप्रमाणचतुष्टयेऽसंभवेन बाधितत्वात् प्रमाकरणत्वनिष्ठकत्वस्याऽविवक्षितत्वेन प्रमाणपदस्थात्र बहुवचनान्तस्वम् । प्रत्यक्षादीनामिन्द्रियसंयोगादिलक्षणसामग्रीभेदेन तन्निष्ठप्रमाकरणत्वस्यापि भेदादित्यर्थः। . "पितरो देवता: 'इत्यत्रत्यसमानवचनत्वमुपपादयति-एवमिति 1 पितृपितामहादिष्वेकं देवतात्वं नास्तीति पितृपितामहादिषु यद् देवतात्वं तत्रैकत्वं नास्तीत्येकत्वस्याऽविवक्षितत्वाद् बहुत्वस्य च "Aho Shrutgyanam" Page #24 -------------------------------------------------------------------------- ________________ (१२) सादर्शः [ प्रथमाकारकेमोटार औरत्वस्याविषक्षया देवतापदस्य बहुवचनान्ततेति दिक। स्वप्रकृतिकत्वं च-स्वाव्यवहितोत्तरत्वेन प्रतिसन्धीयमानत्वम्, तेन ‘दधि सुन्दरम् । इत्यादौ विशेष्यपदानन्तरं विभक्तरसत्वेपि न क्षतिः- तत्र विभक्तरनुसंधानं विना शाब्दबोधानुपगमात् । एवं तादृशविभक्तिसजातीयविभक्तिकत्वमपि तथाविधविभत्त्यऽव्यवहितपूर्ववर्तितया प्रतिसंधीयमानत्वम् , तेन 'इदं दधि' इत्यादौ विशेषणपदानन्तरं विभक्तरसत्त्वेपि न क्षतिः । विवक्षितत्वाद् विशेषणवाचकं देवतापदमपि बहुवचनान्तमेव । पितृपितामहादिनिष्ठदेवतात्वस्य कत्वाभावमुपपादयति-उद्देश्यतेति, त्यागोद्देश्यत्वमेव हि देवतात्वं त्यामोद्देश्यता च पित्रादौ ते उद्देश्यतावच्छेदकं च पितृत्वपितामहत्वादिकं न च पितृत्वपितामहत्वादिकमेकमस्तीत्युद्देश्यतावच्छेदकस्य पितृत्वादेर्भेदेनोद्देश्यताया अवश्यं भेदात्. उद्देश्यताया भेदे उद्देश्यतारूपदेवतात्वस्याऽप्यर्थाद् भेदात् तत्र-देवतात्वे एकत्वस्य बाधितरवेनाविवक्षया देवतापदस्य बहुवचनान्तता । ___ यदुक्तम्- " स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् ( पृ० ४ )" इति तत्र वैयाकरणः स्वप्रकृतिकत्वस्य " स्वनिष्ठोद्देश्यतानिरूपितविधेयतावत्त्वं स्वप्रकृतिकत्वम् " इति लक्षणमुक्तम् . अत्र स्वं घटादिपदं तदुद्दिश्य विभक्तेर्विधानाद् विभक्तौ घटादिपदनिष्ठोद्देश्यतानिरूपितविधेयतायत्त्वमस्त्येव यद्यपि तथापि विभक्तिनिष्ठतादृशस्वप्रकृतिकत्वस्याऽवैयाकरणानां ज्ञानाऽसंभवात् स्वप्रकृतिकत्वस्य स्वविवक्षितस्वरूपमाह- स्वप्रकृतिके ति, स्वं घटादिपदं तत्प्रकृतिकत्वं विभक्ती स्वं घटादिपदं तदऽज्यवहितोत्तरत्वेन mer तथा च 'दधि सुन्दर र मिरमानेएि मामले लस विभक्तेः स्मरणस्वीकाराद् विभक्तो दधिपदाव्यवहितोत्तरत्वेन प्रतिसन्धीयमानत्वमस्त्यवेत्याह-तमत्यादिना । तत्र छवि सुन्दरम् ' इत्यादौ । उत्तरत्वेनेतिप्रकारत्वं तृतीयार्थस्तथा चाव्यवहितोत्तरत्वप्रकारकस्मृतिविषयत्वं किं वा उत्तरत्वनिष्ठप्रकारतानिरूपितविशेष्यताश्रयीभूतस्मृतिविषयत्वं स्वप्रकृतिकत्वमिति वाक्यार्थः। स्वप्रकृतिकेत्युक्तवाक्यस्योत्तरभागं व्याकरोति- एवमिति । तादृश स्वप्रकृतिक । तथाविधस्वप्रकृतिक । विशेषणयाचकपदे यत्स्वप्रकृतिकविभक्तिसजातीय विभक्तिकत्वमस्ति तत् तथाविधविभक्त्यव्यवहितपूर्ववर्तितया प्रतिसन्धीयमानत्वमेव यथा 'नीलो घटः ' इत्यत्र घटपदोत्तरवर्तमा"नप्रथमाविभक्त्यव्यवहितपूर्ववर्तितया ज्ञानविषयत्वं नीलपदेस्त्येव, तथा च ' इदं दधि ' इत्यत्र दधिपदोत्तरं विभक्तेरभावेपि तस्याः प्रतिसन्धीयमानत्वात् तत्पूर्ववर्तितया प्रतिसन्धीयमानस्वरूपं ज्ञानविषयत्वं दधिपदेऽस्त्येवेति न कोपि दोष इत्यर्थः । __ननु सत्यां सामन्यां कार्योत्पत्तिर्भवत्येव शाब्दबोधं प्रति चोपस्थि-यादिकमेव कारणं तत्र “नीलस्य घटः' इत्यत्र नीलपदेन नीलत्वावच्छिन्नविषया घटपदेन च घटत्वावच्छिन्नविषयोपस्थितिरप्यस्त्येव नीलघटयोरभेदस्य योग्यताज्ञानमस्त्येवेत्याभेदसंबन्धावच्छिन्ननीलत्वावच्छिन्न "Aho Shrutgyanam" Page #25 -------------------------------------------------------------------------- ________________ अभेदान्वाकाङ्क्षावि० ] . व्युत्पत्तिवादः । अथ ' नीलस्य घट: ' इत्यादावपि पदार्थोपस्थित्यादिकारणसमवधानसंभवात् कथं न नीलघटाद्योरभेदान्वयबोधः- सामय्या कार्यजनने उक्तनियमभङ्गप्र-सङ्गरूपबाधकस्याकिंचित्करत्वादितिचेत् ? तथाविधान्वयबोधौपयिकाऽऽकाङ्क्षाविरहात् । तथा हि- तादृशान्वयबोधे प्रथमाविभक्त्यन्तघटादिपदसमभिव्याहतप्रथमान्तनीलादिपदत्व मे वाऽसमस्तनीलघटपदाद्याकाङ्क्षा ( १३ ) । उक्तस्थले च तादृश्या एकस्या अप्याकाङ्क्षाया विरहान्नापत्तिः । कार्यतावच्छेदककोटावऽव्यवहितोत्तरत्वनिवेशात्रोक्ताऽऽकाङ्क्षाज्ञानयोः परस्परबा व्यभिचारः । , प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकज्ञानं कथं न जायते ? यद्युच्येत समानविभक्तिकत्वस्थले एवभेद संबन्धो भासते इति ' नीलस्य वटः इत्यत्राप्यभेदमाने समानविभक्तिकत्वनियमस्य भङ्गो भविष्यतीति, तदा सत्यां सामग्र्यां कार्योत्पत्तौ नियमविशेषमङ्गस्याकिंचित्करत्वेन प्रतिबन्धकत्वं न संभवतीत्याशङ्कते -- अथेति । उत्तरमाह - तथाविधेति । तथाविधः = अभेद संबन्धप्रकारको योऽन्वयबोधः = शाब्दबोधस्तत्कारणीभूताया आकाङ्क्षाया अभावादेव 'नीलस्य घट: ' इत्यत्र नीलघटयोरमेदो न भासते आकाङ्क्षां विना शाब्दबोधास्वीकारात् । उक्तमुपपादयति-तथाहीति । तादृशान्वयबोधे अभेद संबन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिनविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तघटपदसमभिव्याहृतप्रथमान्तनीलपदत्वं व्यासस्थळे आकाङ्क्षा, समासस्थले च घटपदाव्यवहितपूर्ववर्तिनीलपदत्वं ( नीलघटः ) नीलपदाव्यवहितोत्तरवर्तिघटपदत्वं वाऽऽकाङ्क्षा, एतादृशाकाङ्क्षायाश्च कारणत्वाद् उक्तस्थले=' नीलस्य घटा' इत्यत्र चोक्तरूपा एकाव्याकाङ्क्षा नास्तीत्यभेदान्वयबोधकारणीभूताया आकाङ्क्षाया अभाषेनाऽभेद संबन्धप्रकारक शाब्दबोधरूपकार्यस्य सामग्र्येव नास्तीति कथमभेद संबन्धप्रकारकः बोध: स्यादित्यर्थः । आपत्तिः शाब्दबोधापत्तिः । नवविधा खल्वाकाङ्क्षा त्वयोक्ता एकस्मिन् स्थले चैकरूपैवाकाङ्क्षा संभवतीत्याऽकाङ्क्षाणामऽपरापराकाङ्क्षाजन्यशाब्दबोधे व्यभिचारात्कथं कारणत्वं स्याद् अव्यभिचारिण एव कारणत्वस्वीकारादित्याशङ्कयाह- कार्यतेति यथा वह्निं प्रत्यनेकेषां तृणारण्यादीनां कारणत्वेपि तृणोत्तरजायमानवहित्वावच्छिन्नं प्रति तृणं कारणम् अरण्युत्तरत्वविशिष्टवह्निं प्रत्यरणिः कारणमिन्येवं कार्यतावच्छेदककोटावऽव्यवहितोत्तरत्वनिवेशेन न तृणादीनां व्यभिचारशङ्का तथात्रापि समासस्थले घटादिपदाव्यवहितपूर्ववर्तिनीलादिपदज्ञानानन्तरत्वविशिष्टशाब्दबोधं प्रति घटादि पदाव्यवहितपूर्ववर्तिनीलादिपदत्वमाकाङ्क्षा. नीलादिपदाव्यवहितोत्तरवर्तिघटादिपदज्ञानानन्तरत्वविशिष्टशाब्दबोधं प्रति नीलादिपदान्यवहितोत्तरवर्तिघटादिपदत्वमाकाङ्क्षा इत्येवं कार्यतावच्छेदकको टावऽव्यवहितोत्तरत्वनिवेशेनोक्तसमासस्थलीयाकाङ्क्षाज्ञानयोर्नाऽपराऽपरजन्य शाब्दबोधे जयमिचारः - अपरजन्यशाब्दबोधं प्रत्यऽपरस्य कारणत्वाभावादित्यर्थः । "Aho Shrutgyanam" Page #26 -------------------------------------------------------------------------- ________________ (१४) सादर्शः [ प्रथमाकारकेयत्तु- समासव्याससाधारण विशेषणपदस्य विशेष्यवाचकपदाऽप्रकृतिकविभत्त्यऽप्रकृतित्वरूपं विरुद्धविभक्तिराहित्यमेव तादृशान्वयबोधौपयिकाऽऽकाङ्क्षा, विशेष्यवाचकपदनिष्ठविशेषणवाचकपदाऽप्रकृतिकविभक्त्यऽप्रकृतित्वं च न तथा 'नीलघटमानय ' इत्यादावसंभवादिति, तदसत्- विशेष्यवाचकपदाऽप्रकृतिक. त्वस्य तादृशपदानुत्तरत्वरूपस्य तदुत्तरत्वेनाऽप्रतिसन्धीयमानत्वरूपस्य वा नीलो समासव्यासयोराकाङ्क्षाया उक्तरीत्या पृथक् पृथक् स्वरूपस्वीकारापेक्षया लाघवाद् यत्केनापि समासव्यासोभयसाधारणमेकमेवाकाङ्क्षास्वरूपं प्रदर्शितं परिहाराय तदुपस्थापयतियत्त्विति । विशेषणेति- यथा 'नीलो घटः' इत्यत्र विशेष्यवाचकघटपदप्रकृतिका विभक्तिः सुविभक्तिः, विशेष्यवाचकघटपदाऽप्रकृतिकविभक्तिरविभक्तिः तादृशाऽविभक्तयऽप्रकृतित्वरूपमेव विरुद्धविभक्तिराहित्यं तदेव तादृशान्वय अभेदसंबन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नशाब्दशोधं प्रत्याकाङ्क्षास्तीति एतादृशविरुद्धविभक्तिराहित्यस्य — नीलो घटः । इत्यत्र नीलपदे सत्वादभेदो भासते, विशेष्यवाचकपदोत्तरं या विभक्तिर्नास्ति सा विशेषणवाचकपदोत्तरं न स्यादित्यर्थः । 'नीलस्य घटः' इत्यत्र चोक्तविरुद्धविभक्तिराहित्यस्याकाङ्क्षारूपस्याभावाद् नीलपदे विरुद्धविभक्तरेव सत्त्वादभेदो न भासते । ननु विशेष्यवाचकपदनिष्ठं यद् विराषणवाचकपदाऽप्रकृतिकविभक्त्यऽप्रकृतित्वं . तदेव विरुद्धविभक्तिराहित्यं किं न स्यात् ? यथा- 'नीलो घटः ' इत्यत्र विशेषणवाचकनीलपदप्रकृतिका विभक्तिः सुविभक्तिः नीलपदाऽप्रकृतिकविभक्तिरविभक्तिस्तादृशाऽम् विभक्त्यऽप्रकृतित्वं विशेष्यवाचकघटपदेऽस्त्येवेति लक्षणसमन्वय इत्याशङ्कते- विशेष्येति । परिहरति-न तथेति, 'नीलघटमानय ' इत्यत्राभेदसंबन्धोदाहरणे समन्वयाऽसंभवादित्यर्थः, तथाहि-अत्र विशेषणवाचकनीलपदोत्तरं विभक्तिरेव नास्ति समासस्थले लुप्तविभक्तिस्मरणस्य चाऽस्वीकारात् विशेषणवाचकनीलपदाऽप्रकृतिका याऽविभक्तिस्तत्प्रकृतित्वमेव विशेष्यवाचकघटपदेस्ति न तु तदऽप्रकृतित्वरूपं विरुद्धविभक्तिराहित्यमित्य: व्याप्तिर्दोषः । पूर्वोक्तमदुक्तलक्षणेन तु 'नीलघटमानय , इत्यत्रापि विशेष्यवाचकघटपदाप्रकृतिका याऽमिन्नस्वादिविभक्तिस्तदऽप्रकृतित्वं नीलपदेस्त्येव नीलपदोत्तरं कस्यापि विभक्तेरभावादिति न कोपि दोष इत्यर्थः । इत्येवमाशय परिहरति- तदसदिति । विशेष्यवाचकेल्यादिलक्षणस्य हि ' विशेषणवाचकपदोत्तरविभक्तौ विशेष्यवाचकपदाऽप्रकृतिकत्वं न स्यात् । इत्ययमेवार्थस्तथा च 'नीलो घटः । इत्यत्र नीलपदोत्तरविभक्तौ घटपदाप्रकृतिकत्वं नास्ति-उभयत्र सुविभक्तरेव सत्त्वेन घटपदप्रकृतिकस्वस्येव सत्त्वात् ' नीलधटम् ' इत्यत्र तु नीलपदोत्तर विभक्तिरेव नास्तीति घटपदाऽप्रकृतिकत्वं सुतरां नास्त्येवेति वक्तव्यम् । विशेष्यवाचकपदाऽप्रकृतिकत्वं च निषिध्यमानं तादृशपदानुत्तरत्यम्= विशेष्यवाचकपदानुत्तरत्वं वा तदुत्तरत्वेन-विशेष्यवाचकपदोत्तरत्वेनाऽप्रतिसन्धीयमानत्वं वा वक्तच्यम् , तत्र हि "प्रत्युच्चारणं शब्दो भिद्यते " इतिन्यायेन 'नीलो घटः । इत्यादौ नीलपदोत्तरं "Aho Shrutgyanam" Page #27 -------------------------------------------------------------------------- ________________ अभेदान्बयाकाङ्क्षानि० ] व्युत्पत्तिवादः । (१५) घटः' इत्यादौ नीलादिपदसमभिव्याहृतविभक्तौ घटपदसमभिव्याहतविभक्तिभिन्नतया सत्त्वात् । ___ अथ विशेष्यवाचकपदोत्तराऽवृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहित्यस्य विवक्षणान्न दोष इतिचेत् ? तर्हि विभक्तित्वादिकमजानतः पुरुषस्य तादृशधर्मज्ञानासंभवाच्छाब्दबोधानुपपत्तिः। नीलो घटः । इत्यादावपि सुपदस्याम्पदत्वादिभ्रमदशायां तादृशबोधस्यानुदयात् 'नीलस्य घटः' इत्यादावपि षष्ठयादेः सुविभक्तिभिन्नास्ति घटपदोत्तरं च भिन्नास्तीति नीलपदोत्तरं समभिव्याहृतविभक्तौ उच्चारितसुविभक्तौ घटपदोत्तरसमभिव्याहृतसुविभक्त्यऽपेक्षया भेदस्य सत्त्वाद् निषिध्यमानं विशेष्यवाचकपदाऽप्रकृतिकत्वमेवायातमिति कथमभेदसंबन्धमानं स्यात् ? विशेष्यवाचकपदप्रकृतिकविभक्तविशेध्यवाचकपदोत्तरमेव संभवादिति समासव्याससाधारणं विरुद्धविमक्तिराहित्यं यदुक्तं तन्न युक्तमित्यर्थः। ननु विरुद्धविभक्तिराहित्येन हि विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहित्य विवक्षितमस्ति यथा- 'नीलो घटः' इत्यत्र विशेष्यवाचकघटपदोत्तरावृत्तिविभक्तिरमादिविभक्तिस्तद्विभाजको यो धर्मो द्वितीयात्वादिस्तद्वन्द्विभक्तिरमादिविभक्तिस्तद्राहित्यमपेक्षितं तच विशेषणवाचकनीलपदेऽस्त्येव. एवम् — नीलघटम् ' इत्यत्र विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजको धर्मस्तृतीयात्वादिस्तद्वद्विभक्तिराहित्यं नीलपदेऽस्त्येव नीलपदोत्तरं कस्याअपि विभक्तेरसत्त्वादिति नोक्तदोष इत्याशङ्कते- अथेति । परिहरति-तीति, विभक्तिविभाजकत्वादिधर्माणां वैयाकरणस्यैव ज्ञानं संभवति नान्यस्येत्यऽवैयाकरणानाम् 'नीलो घटः' इत्यादावभेदसंबन्धप्रकारकः शाब्दबोधो न स्याद् न चैतदिष्टम् । अयं भावः- उक्तविभक्तिराहित्यमेवाकाङ्क्षा. आकाङ्क्षां च न स्वरूपसती शाब्दबोधं प्रति कारणं किं तु ज्ञाता सत्येव उक्तराहित्यरूपाया विशिष्टाया आकाङ्क्षाया छानं च तद्विशेषणीभूतविभक्तिविभाजकधर्मादीनां ज्ञानं विना न संभवतीति विभक्तित्वादिकमजासतः पुरुषस्य तादृश-विभक्तिविभाजकधर्मज्ञानासंभवेन शाब्दबोधानुपपत्तिरितिदोषः । ननु यदि शाब्दबोधं प्रत्याकाङ्का ज्ञाता सत्येव कारणं स्यात्तदोक्तदोषः स्यादपि नैवमस्ति किं तु स्वरूपसत्येवाकाङ्क्षा शाब्दबोधं प्रति कारणमस्ति तथा चाकाङ्क्षाज्ञानापेक्षाऽभावादाऽऽकाङ्क्षारूपस्य विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहित्यस्य कुक्षिप्रविष्टविभक्तित्वादीनामपि ज्ञानापेक्षाभावाद्विभक्तित्वादिकमजानतः पुरुषस्य न शाब्दबोधानुपपत्तिरित्याशब्याह-नीलो घट इति, यद्याकाङ्क्षा स्वरूपसत्येव कारण स्यात्तदा 'नीलो घटः' इत्यत्रोतविभक्तिराहित्यरूपाकाङ्क्षायाः सत्त्वात् सुपदस्याऽम्पदत्वादिभ्रमदशायामप्यऽभेदप्रकारकः शाब्दबोधः स्यादेव न च भवति तस्मादाकाङ्क्षाज्ञानस्यैव कारणत्वं वक्तव्यं तथा चात्राम्पदत्यादिभ्रमदशायामुक्तविभक्तिराहित्यरूपाकाङ्क्षाज्ञानाभावान्न शाब्दबोध इत्युपपद्यते । तथा 'चीलस्य घटः' इत्यादावपि यदा षष्ठयादौ सुपदत्वादिभ्रमो भवति तदोक्तविभक्तिराहित्यरूपा. "Aho Shrutgyanam" Page #28 -------------------------------------------------------------------------- ________________ (१६) सादर्श: [ प्रथमाकारके-- सुपदत्वादिभ्रमदशायां शाब्दबोधोत्पत्त्या स्वरूपतो विरुद्धविभक्तिराहित्यस्याप्रयोजकत्वात् । __ अथ ' नीलो घटः ' ' नीलघटः' इत्यादिद्विविधबोधसाधारणं स्वोत्तरसुप्पदभिन्नपदानुत्तरत्वविशिष्टस्वोत्तरत्वादिरूपस्वाव्यवाहितोत्तरत्वसंबन्धेन नीलादिपदवत्सुबन्तघटादिपदत्वमेव तथास्तु इतिचेत् ? न- 'नीलघटरूपम् ' इत्यादिवाक्यसाधारण्यानुराधेनाऽन्याश्या अपि आकाङ्क्षायाः समासस्थले उपगन्तव्य तयोपदर्शितसमासव्याससाधारणानुगताकाक्षानुसरणस्याप्रयोजकत्वादिति । काङ्क्षायाः ज्ञानसत्त्वाच्छान्दबोध उपपद्यते जायते च, यद्याकाङ्क्षा स्वरूपसत्येव कारगं स्यात्तदा वस्तुतः 'नीलस्य घटः' इत्यत्रोक्ताकाङ्क्षाया असत्त्वात् षष्ठयादौ सुपदत्वभ्रमदशायामपि शान्दबोधो न स्याद् भवति तु तस्मादाकाङ्क्षाज्ञानस्यैव कारणत्वं प्राप्तं तथा चोक्तो विमक्तित्वादिकमजानतः पुरुषस्य शाब्दबोधानुपपत्तिरूपो दोषस्तदवस्थ एवेत्यर्थः । - ननु निखिलबोधसाधारणाकाङ्क्षानिर्वचनस्याशक्यत्वेपि “नीलो घटः' 'नीलधटः' 'नीलं घटम्' 'नीलघटम्' इत्यादिद्विविधबोधसाधारणं त्वाकाङ्क्षास्वरूपं निर्वक्तुं शक्यते तच्च स्वोत्तरसुप्पदेत्यादि ज्ञेयम् , तथा हि स्वं विशेषणवाचकनीलपदं तदुत्तरवति यत् सुप्पदं विभक्तिपदं तद्भिन्नं यत् पटादिपदं तदनुत्तरत्वविशिष्टं स्वं विशेषणवाचकपदं तदुत्तरत्वादिरूपं यत् स्वाव्यवहितोत्तरत्वं तेन संबन्धेन नीलादिपदवत् यत्सुबन्तघटादिपदं तत्त्वमेवाकाङ्क्षा तथा चात्र घटपदे नीलपदोत्तरवर्तमानविभक्तिपदोत्तरत्वसत्त्वेपि तद्मिन्नपटादिपदानुत्तरत्वमप्यस्त्येव तथा नीलपदोत्तरत्वमप्यस्त्येवेत्यनेन संबन्धेन घटपदे नीलपदवत्त्वमुभयत्रास्त्येव तदेवाकाङ्क्षास्त्वित्याशङ्कते- अथेति । तथा नामाऽऽकाक्षा । 'नीलस्य घटः' इत्यादिप्रयोगवारणाय सुप्पदमिन्नपदेनात्र विशेष्यवाचकघटादिपदोत्तरवर्तमानविभक्तिपदमिन्नपद ग्राह्यं तथा च 'नीलस्य घटः' इत्यत्र विशेष्यवाचकघटपदोत्तरवर्तमानं यत् प्रथमाविभक्तिपदं तद्भिन्नं यत् षष्ठीविभक्तिपदं तदुत्तरत्वमेव घटपदेस्ति तदनुत्तरत्वं नास्तीति नात्रोक्ताकाङ्क्षा । तथा चात्र 'विशेष्यवाचकघटादिपदोत्तरविभक्तिवृत्तिविभक्तिविभाजकप्रथमात्वादिधर्मावच्छिन्नपदमिन्नपदानुत्तरत्वविशिष्टस्योत्तरत्वादिरूपस्वाव्यहितोत्त. रत्वसंबन्धेन नीलादिपदवत्सुबन्तवटादिपदत्वमाकाङ्क्षा , इत्येवमाकाङ्क्षास्वरूपं वक्तव्यम् । परिहरति- नेति, 'नीलघटरूपम् ' इत्यत्रापि शाब्दबोध इष्टः किं तु त्वदुक्तोक्ताकाङ्क्षास्त्ररूपं न घटते यतो नीलं च तद् घटरूपमिति कर्मधारयेण विशेष्यवाचकरूपपदे विशेषणवाचकनीलपदाव्यवहितोत्तरत्वं नास्ति मध्ये घटपदेन व्यवधानात, न च घटरूपमित्येकपदं तर्कमते "शक्तं पदम् " इति नियमेन घटपदस्य भिन्नत्वाद् रूपपदस्य च भिन्नत्वात्, तस्मात् 'नीलघटरूपम् ' इत्यत्र जायमानशाब्दबोधनिर्वाहार्थमऽन्यादृशमाकाक्षास्वरूपं वक्तव्यं तच्च- ' स्वोतरसुप्पदभिन्ननिराकाङ्क्षपदानुत्तरत्वविशिष्टस्योत्तरत्वादिरूपस्वाव्यवहितोत्तरत्वसंबन्धेन नीलादिपदबत्सुबन्तघटादिपदत्वम् । इति, लक्षणसमन्वयः पूर्ववदेव ' नीलो घटः । 'नीलघटः' इत्यादौ "Aho Shrutgyanam" Page #29 -------------------------------------------------------------------------- ________________ विशेषण विभक्त्यर्थविचारः ] व्युत्पत्तिवादः । ( १७ ) अथ ' नीलं घटमानय ' इत्यादौ नीलादेर्घटादावन्वयोपगमे नीलादिपदोत्तरविभक्त्यर्थकर्मत्वादेः कुत्रान्वय इति चेत् ?, न कुत्रापि विभक्तिपदं साधुत्वार्थमेव प्रयुज्यते । अभेद एव वा विशेषणविभक्तेरर्थः, अभेदस्य संसर्गमर्यादया भानं तु समासस्थले एव तत्र लुप्तविभक्तेरनुसंधानं विनापि शाब्दबुद्धेरानुभविकत्वादित्यपि वदन्ति । अथैतन्मते - अभेदो यदि भेदत्वावच्छिन्नाभावस्तदाऽप्रसिद्धिः, यदि च भेदतियोगिको भावस्तदा 'नीलं जलम्' इत्यादिवाक्यस्यापि मामाण्यापत्तिः - जले. विशेष्यवाचकत्रटपदे निराकाङ्क्षपदानुत्तरत्वमस्त्येव तथा ' नीलघटरूपम् ' इत्यत्र यद्यपि नीलरूपपदयोर्मध्ये घटपदव्यवधानेन रूपपदे स्वोत्तरसुप्पदमिन्नपदानुत्तरत्वं नास्ति तथापि स्वोत्तरसुप्पदभिन्ननिराकाङ्क्षपदानुत्तरत्वं त्वस्त्येव घटपदस्य रूपद साकाङ्क्षत्वेन निराकाङ्क्षत्वाभावादित्येतादृश्या आकाङ्क्षाया अवश्यमभ्युपगन्तव्यत्वे त्वदुक्ताकाङ्क्षाऽभ्युपगमस्य निरर्थकत्वादित्यर्थः । ननु ' नीलं घटमानय ' इत्यत्र नीलस्य तु घटेऽन्वयो भवतीति प्रसिद्धं किं तु नीलपदोचरद्वितीयाविभक्त्यर्थस्य कर्मत्वस्य कुत्रान्यो भवतीतिजिज्ञासाथ शङ्कते अथेति । उत्तरगर्भं प्रतिषेधमाह - न कुत्रापीति । "संभवत्यर्थसाधुत्वे पदसाधुत्वम् (विभक्तेः पदसाधुत्वार्थकत्वोपपादनम् ) अन्याय्यम् ” इत्यभिप्रायेण पक्षान्तरमाह- अभेदेति, ' नीलो घटः 'नीलं घटम् ' 'नीलस्य वटस्य ' इत्यादी सर्वत्र विशेषण विभक्तेरमेद एवार्थ:- नीलाभिन्नो घट इतित्रोधादित्यर्थः । ननु ग्रन्थारम्भे एवाभेदस्य संसर्गमर्यादमा मासमानत्वमुक्तं संसर्गमर्यादया मानं च पदा - नुपस्थितस्यैव भवति यदि विशेषण विभक्तेरेवा मेदोर्थस्तदाऽभेदस्य विभक्तिलक्षणपदेनोपस्थितौ संसर्गमर्यादया भासमानत्वं न स्यादित्याशङ्कयाह- अभेदस्येति, अभेदस्य संसर्गमर्यादयां भानं समासस्थल एव भवति तत्र=समासस्थले विशेषणविभक्तेलोंपेन लुप्तविभक्तेश्च समासेऽनुसंधानाकारेण पदान्तरस्याभेदानुपस्थापकत्वादगत्याऽभेदस्य संसर्गमर्यादया भानं स्वीक्रियते, नीलं घटम्' इत्यादौ त्वभेदोपस्थापिकाया विशेषण विभक्तेः सत्त्वेनाभेदस्य न संसर्गमर्यादया मानं किं तु प्रकारतयेत्यर्थः । उक्त विभक्त्यर्थ रूपाभेदस्वरूपं पृच्छन्नाशङ्कते - अथेति । अप्रसिद्धिरिति - घटादौ पटादीनां भेदस्य सत्त्वादेव भेदत्वावच्छिन्नस्याभावोऽप्रसिद्ध एव सर्वत्र पदार्थेषु तद्भिन्नपदार्थभेदस्य सर्वप्रमाणसिद्धत्वादित्यर्थः । ननु न भेदत्वावच्छिन्नाभावोऽभेदो येनाऽप्रसिद्धिः स्यात् किं तु भेदप्रतियोगिको नाम किंचिद्भेदव्यक्तिप्रतियोगिको भावोऽभेद इत्युच्यते तथा च नीलघंटे नीलभेदो 'नास्तीति नीलभेदप्रतियोगिकामावरूपोऽमेदः सर्वप्रसिद्ध एवेत्याशङ्क्याह- यदि चेति । अत्र दोषमाह - तदेति, भेदप्रतियोगि काभावस्याभेदत्वे ' नीलं जलम्' इत्यादिवाक्यस्यापि प्रामामापद्येत तथा हि-- जलं नीलं न भवतीति तर्कसिद्धान्तेन जले नीलभेद एव वर्तते इति नीलं जलम् ' इति प्रयोगो न भवति भेदप्रतियोगि काभावस्या मेदत्वे तु जले नीलभेदाभा २ " Aho Shrutgyanam" " Page #30 -------------------------------------------------------------------------- ________________ ( १८ ) सादर्श: [ प्रथमाकार के द्वित्वादिना नीलभेदाद्यभावस्य सत्त्वात् । नीलभेदत्वावच्छिन्नाभावस्य विभक्तयवे नीलादिपदार्थानन्वयप्रसङ्गः । न च--भेदप्रतियोगि काभाव एव विभक्त्यर्थः- नीलपदसमभिव्याहारान्नीलभेदत्वावच्छिन्नाभावः प्रतीयते इति वाच्यम्, पदार्थद्रय संसर्गभानस्यैवाकाङ्क्षानिये - म्यत्वान्नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वान्तर्भावेण वृत्ति विना भेदरूपपदार्थतावच्छेदकस्याभावे तादृशसंबन्धेन भानाऽसंभवात् । चस्याऽसत्त्वेपि द्वित्वादिना नाम द्वित्वावच्छिन्नप्रतियोगिताकस्य अर्थाद् घटत्वनीलभेदैतदुभयप्रतियोगिका भावस्य सत्त्वात् ' नीलं जलम् ' इत्यादिवाक्यस्यापि प्रामाण्यमापद्येतैव न चैतदिष्टमित्यर्थः । ननु विश्वावच्छिन्नप्रतियोगिताकाभावस्य ग्रहणेनोक्तदोषः प्रदर्शितो न च हित्वावच्छि प्रतियोगिताकाभावं ग्रहीष्यामस्तथा च जले नीलभेदरूपप्रतियोगिन एव सत्त्वेन तदभावहासत्त्वान्न ' नीलं जलम् ' इत्यादिवाक्यस्य प्रामाण्यापत्तिरित्याशङ्कय दोषान्तरमाह- नीलमे दत्वेति, नीलो घट: ' इत्यत्र नीलभेदत्वावच्छिन्नस्यामावो यदि विभक्त्यर्थस्तदाऽभावविशेषणीभूतो नीलपदार्थोपि विभक्त्यर्थ एवेति प्राप्तं तथा च नीलपदेनोपस्थितस्य नीलपदार्थस्यानन्वयप्रसङ्गो यतो विभक्त्यर्थभूत नीलविशिष्ट घटे पुनर्नीलपदोपस्थितनीलपदार्थस्यान्यो नैव संभवतीति । · - 1 6 ननु न नीलभेदत्वावच्छिन्नाभावोऽभेदो येनोक्तदोषः स्यात् किं तु ' नीलो घट: ' इत्यादौ प्रतियोगि काभाव एव विभक्त्यर्थः नीलभेदत्वावच्छिन्नाभावस्तु नीलपदसमभिव्याहारादेव प्रती - यते तथा च नीलपदोपस्थितनीलपदार्थस्य घटे नाऽनन्वयप्रसङ्ग इत्याशङ्कयाह - न चेति । परिहारहेतुमाह- पदार्थेति, ' नीलो घटः इत्यत्र यो हि नीलभेदत्वावच्छिन्नाभावः प्रतीयते तत्र नीलभेदस्य तदभावस्य च यो नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वरूपः संबन्धस्तस्य कथं मानं स्यात् ?, न चाकाङ्क्षया संमप्रति- पदार्थद्वयसंसर्गस्यैवाकाङ्क्षाभास्यत्वात् । न चोट्संबन्धे विभक्तेः शक्तिमहोस्ति येनोक्तसंबन्धस्य शक्त्योपस्थितिः स्यादित्याक्षेपाभिप्रायः, तथा हिनीट : ' इत्यत्र नीलपदार्थस्य यो घटपदार्थेऽभेद संबन्धो भासते स नीलपदसमभिव्याहाररूपाकाङ्क्षया भासते तदुपस्थापकपदान्तरस्याभावात्, 'नीलो घट: ' इत्यत्र तु भेदाभावरूपोऽभेदो नीलपदोत्तरवर्तमानप्रथमा विभक्तेरेवार्थस्तत्राभेदे भेदः पदार्थतावच्छेदकः अभेदश्च पदार्थ : प्रथमाविभक्तिलक्षणपदजन्यप्रतीतिविशेष्यत्यात् तत्राभेदरूपभेदाभावे पदार्थतावच्छेदकरूपदस्य यो नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वरूपः संबन्धः स पदान्तरसमभिव्याहाररूपाकाङ्क्षाउभ्यो न भवति पदार्थद्वय संसर्गस्यैवाकाङ्क्षालभ्यत्वादत्र च न भेदाभेदौ द्वावेव पदार्थोंअमेदस्य पदार्थत्वेपि भेदस्य पदार्थतावच्छेदकत्वेन पदार्थत्वाभावात् किं तु यथा इत्यत्र घटघटत्वसमवायेषु त्रिषु घटपदशक्तिस्वीकारात् घटे घटत्वसमवायः शक्त्यैव भासते न तु पदान्तरसमभिव्याहाररूपाकाङ्क्षया तथा प्रकृतेपि प्रथमाविभक्त्यर्थे मेदाभावरूपामेदे शक्त्योपस्थिते घट: 2 "Aho Shrutgyanam" ८ Page #31 -------------------------------------------------------------------------- ________________ विशेषगत्रिभक्त्यर्थ विचारः] व्युत्पत्तिवादः। ( १९) मैवम्-भेदोऽभावश्च विशेषणविभक्तरों विशिष्टलाभस्त्वाकाङ्क्षादिवशात् । एतेन भेदे नीलादिपदार्थान्वये एकदेशान्वयप्रसङ्ग इति निरस्तम् । न च विशेषणविभक्तरभेदार्थकत्वे 'नीलं घटः' इत्यादावप्यऽभेदान्वयबोधा. पत्ति:--'धान्येन धनवान्' इत्यादौ तृतीययाऽभेदबोधनात्. अभेदप्रकारकबोधे पदार्थतावच्छेदकीभूतभेदस्य नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वरूपः संबन्धः शक्त्यैव भासते इति वक्तव्यं न चैवमपि संभवति यतो विभक्तिशक्तिर्हि भेद प्रतियोगिकामावरूपाभेदे एवास्ति म तु नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन भेदविशिष्टे भेदपतियोगिकाभावे, अतो न शक्या भेदरूपपदार्थतावच्छेदकस्याभावे= विभक्त्यर्थाभावपदार्थे ताशसंबन्धेन नीलभेदत्वावच्छिनप्रतियोगिताकत्वरूपसंबन्धेन भानं संभवति, अतो नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन भेदविशिष्टे एवाभावे अर्थात् नीलभेदत्वावच्छिनप्रतियोगिताकाभावे एव प्रथमाविभक्तेः शक्तिर्वक्तव्या तथा सत्युक्तरीत्या स एव नीलस्यापि विभक्त्यर्थत्वेन विभवत्युपस्थितनीलविशिष्ट घटे नीलपदोपस्थितनीलपदार्थस्यानन्ययप्रसङ्ग इत्यवधेयम् । परिहरति- मैवमित्यादिना । उक्ता दोषाः स्युर्यदि विशेषणविभक्तेविशिष्टे भेदत्वावच्छिन्नाभावे वा भेदप्रतियोगिकामावे वा एका शक्तिः स्त्री क्रियेत नैवमस्ति किं तु भेदे अभाचे च खण्डशः शक्तिः स्वीक्रियते, तत्र भेदोपि प्रसिद्ध एवाभावोपि प्रसिद्ध एव पदार्थ इति नोक्ताऽप्रसिद्धयादिदोषप्रसक्तिः । भेदस्याभावस्य च विशेषणविभक्त्या मुख्यत्वेन पृथक् पृथगुपस्थितिर्भवति विशिष्टस्य भेदाभावस्य च नीलादिपदसममिव्याहाररूपाकाङ्क्षाबलात् प्रतीतिर्भवतीति न कोपि दोषः । “नीलं जलम् ' इत्यत्र च जले नीलभेदस्यैव सत्त्वेन नीलभेदाभावस्याऽसत्त्वान्न प्रामाण्यापत्तिः । ' नीलो घटः ' इत्यत्र नीलपदार्थस्य स्वनिष्ठप्रतियोगितानिरूपकत्व. संबन्धेन नीलपदोत्तरविभक्त्यर्थभेदेऽन्वयो भवति तस्य भेदस्य च स्वनिष्टप्रतियोगितानिरूपकत्वसंबन्धेन नीलपदो तरविभत्त्यर्थाभावेऽन्वयो भवति तस्याभावस्य च विशेष्यतासंबन्धेन घटेऽन्वयों भवलीति सिद्धान्तः । अत्र विशेषणविभक्तर्यदि विशिष्ट भेदाभावे एकैव शक्तिः स्यात्तदा भेदस्य पदार्थकदेशत्वेन तत्रोक्तरीत्या नीलपदार्थस्यान्वयो न स्यात् “पदार्थः पदार्थेनान्वेति न तु पदार्थकदेशेन " इति नियमादिति यः केनापि दोषः प्रदर्शित इदानीं सोपि नास्ति- विशेषपविभक्ते दे अभावे च पृथगेव खण्डशः शक्तिस्वीकारेण भेदस्यापि विभक्त्या मुख्यत्वेनोपस्थित्या पदार्थत्वेन तत्र नीलपदार्थस्यान्वये विरोधाभावादित्याह- एतेनेति । एतेन=भेदे अभाचे च खण्डशः शक्तिस्वीकारेण । ननु खण्डशः शक्तिस्वीकारेपि विशेषणविभक्तेरभेदार्थकत्वमस्त्येव तथा च यथा 'नीलो घटः ' इत्यत्राऽभेदान्वयबोधो भवति तथा ' नीलं घटः ' इत्यत्रापि :नीलपदस्य विशेषणवाचकत्येन तदुत्तरविभक्तेरप्यभेदार्थकत्व प्राप्तावऽभेदान्वयवोधः स्यादेव नीलस्य भेदे भेदस्याऽभावे अभावस्य च घटे उक्तरीत्याऽन्वयसंभवात् । ययुच्येताऽभेदान्वयवोधे विरुद्धविभक्तिराहित्यं कारण तदत्र नास्तीति नाऽभेदान्वयबोधापत्तिरिति, तदपि न युक्तम्- ' धान्येन धनवान् ' इत्यत्र "Aho Shrutgyanam" Page #32 -------------------------------------------------------------------------- ________________ सादर्श: [ प्रथमाकारके - विरुद्धविभक्तिराहित्यस्याऽनपेक्षणादिति वाच्यम्, द्वितीयादिनाऽभेदबोधने द्वितीयाद्यन्तविशेष्यवाचकपदसमभिव्याहारस्य प्रयोजकत्वमित्युपगमात् । अथ 'प्रमेयो घटः' इत्यादौ प्रमेयत्वावच्छिन्नभेदाऽप्रसिद्ध्या लघुधर्मसमनियतगुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वेन 'कम्बुग्रीवादिमान् घटः' इत्यादावपि कम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगिताकभेदाऽप्रसिद्ध्या विशेषणविभक्तेरभेदार्थकत्वाऽसंभवः । एवं नीलपटादिपरनीलादिपदघटितस्य 'नीलो घट:' इत्यादिवाक्यस्यापि प्रामाण्यापत्तिः- नीलत्वादिनां पटादेर्भेदाभावस्य नीलघटादौ सत्त्वात् । ( २० ) धान्याभिन्नवनवानित्येवमभेदान्वयबोधो विरुद्धविभक्तिराहित्याभावेपि भवत्येवेत्यऽभेदान्वयबोधं प्रति किं वा अभेदस्य संसर्गतया बोधे विरुद्रविभक्तिराहित्यस्य कारणत्वेप्यऽभेदस्य प्रकारतया बोधं प्रति तु विरुद्धविभक्तिराहित्यस्य कारणत्वं नास्त्येव येन ' नीलं घटः ' इत्यत्राऽभेदान्वयबांधो न स्यादित्याशङ्कयाह - न चेति । परिहरति- द्वितीयादिनेति, 'धान्येन धनवान् ' इत्याद्युपपदविभक्तिस्थले तु विरुद्धविभक्तिराहित्याभावेप्यऽभेदान्वयबोध स्वीकारेप्यऽन्यत्र त्वभेदान्वयबोधं प्रति विरुद्धविभक्तिराहित्यस्य कारणत्वमस्त्येवेति न ' नीलं घटः' इत्यत्राभेदान्वयबोधप्रसङ्गो विरुद्धविभक्तिराहित्यस्याभावादित्यर्थः । दोषान्तरमाह- अथेति, यदि भेदाभाव एव विशेषण विभक्तेरर्थस्तदा सर्वस्यैव पदार्थजातस्य प्रमेयत्वेन प्रमेयत्वावच्छिन्नभेदस्यैवाऽप्रसिद्धया ' प्रमेयो घट: ' इत्यत्राऽभेदान्वयबोधो न स्यादेवेत्येको दोषः, तथा घटे घटत्वमप्यस्ति कम्बुग्रीवादिमत्त्वमप्यस्तीति तत्र लघुधर्मस्य घटत्वस्याभावीयप्रतियोगितावच्छेदकत्वसंभवे घटत्वसम नियतस्य = घटत्वसमानाधिकरणस्य गुरुधर्मस्य कम्बुग्रीवादिमत्त्वस्याभावीय प्रतियोगितावच्छेदकत्वं न भवतीति कम्बुग्रीवादिमान् घटः ' इत्यवाप्यभेदान्वयबोधो न स्यादेव यतो विशेषणविभक्तेमैदाभाव एवार्थः अत्रापि कम्बुग्रीवादिमत्त्वच्छिन्नप्रतियोगिताकभेदाभाव एव विशेषणविभक्तेरर्थो वक्तव्यस्तन्न संभवति - अत्र भेदप्रतियोगितावच्छेदकत्वं कम्बुग्रीवादिमत्त्वस्य प्राप्तं तच्च न युक्तं घटत्वांपेक्षया कम्बुग्रीवादिमत्त्वस्य गुरुधर्मत्वादिति द्वितीयो दोष इति विशेषणविभक्तेरभेदार्थकत्वं नैव संभवतीत्यर्थः । दोषान्तरमाह-एवमिति, अयं भावः- यत्र घटे नीलत्वप्रतिपादनाय ' नीलो घटः इत्युच्यते तत्र तु नीलाभेदप्रकारको बोध इष्ट एवं यत्र चं नील: ' इति पटतात्पर्येणोच्यते ' वटः' इत्यत्युच्यते तत्र नीलाभेदप्रकारकघटविशेष्यकबोधो नेष्टः, विशेषणविभक्तेरभेदार्थकत्वे च नोलयोर्घटपटयोर्घत्वपटत्वरूपाभ्यां भेदेपि नीलत्वेन रूपेण तु भेदो नास्त्येवेति नीलत्वेन पटभेदाभावस्य नीलपदोत्तरविभक्त्यर्थस्य घटे सत्त्वादेव पटतात्पर्येण प्रयुक्तनीलपदघटितात् 'नीलो घटः ' इतिवाक्यादपि नीलाभेदप्रकारकघटविशेष्यको बोधः स्यादेवेति नीलपटादिपरनीलादिपदघटितस्य ' नीलो चट ' इत्यादिवाक्यस्यापि प्रामाण्यापत्तिः । " "Aho Shrutgyanam" 4 Page #33 -------------------------------------------------------------------------- ________________ विशेषगविभक्त्यर्थविचारः] व्युत्पत्तिवादः । (२१) __एतेन-विशेषणतावच्छेदकीभूतनीलत्वप्रमेयत्वादिकमेव · विशेषणविभक्त्यर्थः, नीलत्वादेनीलत्वावच्छिन्नभेदाभावरूपतयाऽभेदार्थकत्वप्रवादोपपत्तिरित्यपि निरस्तम् । नीलत्यादौ नीलत्वादिमतः स्ववृत्तित्वसंबन्धेनान्वये आकाङ्क्षाविरहाच । यथा हि तद्विशिष्टेऽधिकरणे तदधिकरणतया तदन्वयोऽनुभवविरुद्धस्तथा तद्धर्मे आधेयतया बद्धर्मवदन्वयोपि, अत एव 'कर्म गच्छति' इतिवाक्यस्य निराकाश्ता । केनापि- न भेदाभावो विशेषणविभक्तरर्थो येनोक्तदोषाणां प्रसक्तिः स्यात् किं तु विशेषणतावच्छेदकीभूतं यद् नीलत्वप्रमेयत्वादिकं तदेव विशेषणविभक्तेरर्थस्तस्य चाश्रयतासंबन्धेन विशेष्ये घटादावन्ययो भवतीति 'नीलो घटः' इत्यत्र नीलत्वाश्रयो घटः 'प्रमेयो घटः' इत्यत्र प्रमेयत्वाश्रयः (प्र-- मेयत्ववान् बट इतियोधे न काप्यनुपपत्तिः, जले नीलत्वाऽभावाच 'नीलं जलम्' इति प्रयोगापत्तिरपि नास्ति, विशेषगविभक्तरभेदार्थकत्वं यदुच्यते तदपि नीलत्वादेरतद्व्यावृत्तिरीत्या नीलत्वावच्छिन्नभेदाभावरूपत्वेनैवेत्यऽभेदार्थकत्वप्रवादस्याप्यनुपपत्तिर्नास्तीति यदुक्तं तत् पराचष्टे-एतेनेति, एतेन नाम नीलपटादिपरनीलादिपदघटितस्य 'नीलो घटः' इत्यादिवाक्यस्यापि प्रामाण्यप्रसङ्गेन । अयं भावः- विशेषणविभक्तेर्यदि विशेषणतावच्छेदकीभूतनीलत्यादिकमेवार्थस्तदा नीलत्वं स्वेकमेव सर्वत्र घटपटादिष्वस्तीति पटवृत्तिनीलत्वस्य घटेपि सत्त्वात् पूर्ववद् नीलपटादिपरनीलपदछटितात् 'नीलो घटः' इत्यादिवाक्यादपि नीलाभेदप्रकारकघटविशेष्यको बोधः स्यादेव न च भवतीति विशेषणविभक्तर्विशेषणतावच्छेदकीभूतनीलत्वाद्यर्यकत्वमपि नोपपद्यते । विशेषणविभक्तेविशेषणतावच्छेदकीभूतनीलत्वायर्थकत्वे दोषान्तरमाह- नीलत्वादाविति, "प्रकृतिप्रत्ययार्थी सहाथ ब्रूतस्तयोः प्रत्ययार्थस्य प्राधान्यम्" इतिन्यायेन 'नीलो घटः' इत्यत्रत्ये 'नील;' इतिपदार्थेपि विभक्त्यर्थस्य नीलत्वस्यैव प्राधान्येन तत्र प्रकृत्यर्थस्य नीलत्ववतो नीलस्यान्वयः स्व( नील वृत्तित्वसंबन्धेन कर्तव्यः स च न संभवत्याकाङ्क्षाविरहात् । स्त्रम्-नीलत्यवान् नीलस्तत्र वृत्तित्वं नीलत्वेस्त्येव । अत्र कृष्णभट्टो यथा- "आकाङ्क्षाविरहमेवोपपादयति- यथा ही. त्यादिना । तद्विशिष्टे भूतले अधिकरणतया तदन्वयः घटान्वयो विरुद्धो घटवान् घटवान् इतिबोधाभावात्, तया तद्धर्मे घटे आधेयतया तद्धर्मवतो घटवतोऽन्वयोपि न-- घटवति वट इतिः बोधाभावादित्यर्थः । तथा तत्प्रत्ययार्थनीलत्वे आधेयतासंबन्धेन प्रकृत्यर्थस्य नीलत्वादिमतोप्यन्वयो न संभवत्याकाङ्क्षाविरहादिति भावः । अत एव तद्धर्मे तद्धर्मवत आधेयतयान्वयविरहादेव, कर्मत्ये द्वितीयार्थे कर्मत्ववतः प्रकृत्यर्थस्य कर्मण आधेयतयाऽन्वये निराकाङ्क्षतेत्यर्थः” इति । यथा घटत्ववति स्वाधिकरणसंबन्धेन घटत्वान्वयो न भवत्यनुभवविरोधाद् एकघटस्य घटत्वद्वयवत्तप्रसङ्गाच्च तथा घटत्वेपि स्वाधेयत्वसंबन्धेन घटस्ववदन्वयो न भवत्यनुभवविरोधात् तथैव प्रकृतेपि विभक्त्यर्थे नीलत्वे नीलत्वयतो नीलस्यान्वयोऽनुभवविरुद्ध एवेत्यर्थः । तद्धर्मवदन्क्योपीत्यत्र “अनुभवविरुद्धः” इत्यनुवर्तनीयम् । कर्मेति- 'कर्म गच्छति' इत्यत्रापि द्वितीया "Aho Shrutgyanam Page #34 -------------------------------------------------------------------------- ________________ (२२) सादर्श: [ प्रथमाकारके - न चैवं संसर्गतामतेप्यनिस्तार:- 'नीलो घटः" इत्यादौ स्ववृत्तिनीलत्वादे: संसर्गतास्वीकारे उक्तस्थले प्रामाण्यापत्तेर्दुर्वारत्वादितिवाच्यम्, स्ववृत्तिनीलत्वादेः स्वस्मिन्नेव संबन्धतोपगमेन पटादिवृत्तिनीलत्वादेर्घटादौ पटादिसंबन्धताविरहेण तादृशातिप्रसङ्गाभावात् । वस्तुतस्तु - तत्तद्व्यक्तित्वावच्छिन्नभेदाभाव एव नीलत्वादिप्रकारेण भासमातार्थे कर्मपदार्थे द्वितीयार्थस्य कर्मत्वस्य प्राधान्येन तत्र स्त्रवृत्तित्वसंबन्धेन स्वाधेयत्व संबन्धेन वा प्रकृत्यर्थस्य कर्मपदार्थस्यान्त्रयो वक्तव्यः सोपि न संभवत्यनुभवविरोधात् । तस्मात् विशेषणत्रिभक्तेर्विशेषणतावच्छेदकीभूतनीलत्वादावपि शक्तिर्न संभवतीत्यर्थः । न च 'ग्रामं गच्छति इत्यत्र ग्रामवृत्तिसंयोगे आधेयतासंबन्धेन ग्रामान्वयस्य वक्ष्यमाणत्वाद्विरोध इतिवाच्यम्, तत्रापि संयोगे ग्रामस्य ग्रामत्वेनैवान्वयस्वीकारात् संयोगवत्त्वेनान्वयास्त्रीकाराच. अन्यथा संयोगवान् संयोगवान् इतिशाब्दबोधः स्यात् स च नेष्ट इत्यवधेयम् । ननु यथाsमेदस्य प्रकारतास्वीकारे लया दोषाः प्रदर्शितास्तथा स एव दोषा अभेदस्य संसर्गतास्वीकारेपि प्रसङ्क्षयन्ति - अभेदस्य भेदाभावस्वरूपत्वादेवेत्याशङ्कते न चैवमिति, अभेदस्य संसर्गतामतेप्युक्तस्थले नीलपटादिपरनीलादिपदघटिते 'नीलो घट:' इतिवाक्ये ग्रामाण्यं स्यादेव । भयं भावः अमेदस्य संसर्गत्वस्वीकारेपि नीलत्वेन परमेदाभावस्य नीलपदोत्तरविभक्त्यर्थस्य नीलघटे सत्त्वादेव पटतात्पर्येण प्रयुक्त नीलपदघटितात् 'नीलो घटः" इति वाक्यादपि नीलाभेदसंसर्गकघटविशेष्यको बोधः स्यादेवेत्यस्य वाक्यस्य प्रामाव्यापत्तिरनिष्टा दुर्बीरैष । स्ववृत्तीति- त्रिभक्त्यर्थभूतं नीलवृत्ति यन्नीलत्वं तस्य प्रकारत्वं वा संसर्गत्वं वा स्वीकार्यं तत्र संसर्गत्वस्वीकारे इत्यर्थः । परिहरति- स्ववृत्तीति, उक्तस्थळे नीलत्वस्यैकत्वादेव दोषः प्राप्तस्तत्र समवायस्यैकत्वेपि यथा वायौ स्पर्शसमवायसत्त्वेपि रूपसमवायो नास्तीति व्यवहारस्तत्कस्य हेतोः ? वायौ रूपाभावाद् रूपसमवायप्रतियोगिकत्ववाञ्चनुयोगिकत्वयोरवच्छेयावच्छेदकभावाभावादित्युच्यते तथा नीलत्वस्यैकत्वेपि पटवृत्तिनीलत्वस्य पढ़ें एवं संबन्धता न तु घटादाविति पटादिवृत्तिनीलत्वादेर्या पटादिसंबन्धता तस्या घटादौ विरहेण तादृशातिप्रसङ्गस्य नीलपटादिपरनीलादिपदघटितस्य 'नीलो घट:' इत्यादिवाक्यस्य प्रामाण्यप्रसङ्गस्याभावात् । स्त्रवृत्ति=नोलपटवृत्ति | स्वस्मिन्नेव पटे एव संबन्धता न घटे । विशेषणवि भक्तेरर्थोऽमेदः स एव संबन्धः स चाभेदो नीलवरूप एवेति नीलत्वस्य संबन्ध तोक्तेत्यवधेयम् 1. तदुक्तं कृष्णभट्टेन – “नीलपटपरनीलपदघटितात् 'नीलो घटः' इतिवाक्याद् घटे नीलत्वविशिष्टबुद्धयनुदयेन स्ववृत्ति ( पटवृत्ति ) नीलत्वादेघंटे पटसंबन्धता न स्वीक्रियते किंतु पटे एव स्वीक्रियते ‘नीलपट:' इतिविशिष्टबुद्धयुदयात्” इति । 3 वास्तविक परिहारमाह- वस्तुतस्त्विति विशेषणविभक्तेर्भेदाभाव एवार्थः स च मेदाभावस्तत्तव्यक्तित्वावच्छिन्नभेदाभाव एव ज्ञेयस्तथा च 'नीलो घटः' इत्यत्र नीलवटव्यक्तिगततन्नीलव्यक्तिनाभावो नीलवादिप्रकारेण भासमानानां तत्तद्व्यक्तीनाम् = नीलरूपाश्रयी भूतघटा "Aho Shrutgyanam" Page #35 -------------------------------------------------------------------------- ________________ विशेषगविभक्त्यर्थविचारः ] व्युत्पत्तिवादः । (२३) नानां तत्तद्व्यक्तीनां स्वस्मिन् संवन्धतया भासते इति न काप्यनुपपत्तिः । संबन्धता च तस्य भेदप्रतियोगिताकाभावत्वेन तत्तद्व्यक्तिभेदप्रतियोगिताकाभावत्वेन वेत्यन्यदेतत् । न चैवं विशेषणविभक्तेरभेदार्थकत्वमतेपि तत्तद्व्याक्तित्वावच्छिन्नाऽभेद एव विभक्त्यर्थों वक्तव्य इतिवाच्यम्, तथासत्यपूर्वव्यक्तिनिष्ठतत्तव्यक्तित्वस्य कथंचिदपि भानासंभवेन तदवच्छिन्नभेदाभावे शक्तिग्रहासंभवेनाऽपूर्वव्यक्तीनामभेदादिव्यक्तीनां स्वस्मिन् तद्घटादिव्यक्तावेव संबन्धतया भासते नान्यपटादिव्यक्तिसंबन्धतयेति 'नीलो घटः' इत्यत्र नीलत्वावच्छिन्नभेदाभावसंसर्गकघटविशेष्यकबोध उपपद्यते, नीलपटादिपरनीलादिपदघटितात् 'नीलो घटः' इतिवाक्यात् नीलत्वावच्छिन्नभेदाभावसंसर्गकघटविशेष्यकबोधस्य चापत्तिर्नास्त्येव नीलपटपरनीलपदबोध्यतन्नील ( पटगतनील ) व्यक्तित्वावच्छिन्नभेदाभावस्य घटेऽभावान नीलपटादिपरनीलादिपदघटितस्य 'नीलो घटः' इतिवाक्यस्य प्रामाण्यापत्तिरित्यर्थः । यथा घट इत्यत्र घटत्वप्रकारेण बटस्य भासमानत्वं तथात्रापि नीलत्वप्रकारेण नीलघटादिव्यक्तेरेव भासमानत्वं ज्ञेयम् । ननूक्तभेदाभावस्य संबन्धता केन रूपेण ज्ञेयेत्यत्राह- संबन्धतेति । तस्यविशेषणविभक्त्यर्थभेदाभावस्य । यथा पर्वतो वन्हिमानित्यत्र पर्वते यो वन्हिप्रतियोगिकः संयोगस्तस्य संयोगत्वेन वा वह्निप्रतियोगिकसंयोगत्वेन वोभयथापि संबन्यत्वं संभवति विशिष्टबुद्धिनियामकत्वाक्षतेस्तथात्रापि भेदाभावस्य भेदप्रतियोगिताकाभावत्वेन वा तव्यक्तित्वावच्छिन्नभेदप्रतियोगिताकाभावत्वेन वोभयथापि संबन्धत्वं घटते 'नीलो घटः' इत्याकारकविशिष्टबुद्धिनियामकत्वाक्षतरित्याशयेनाह- इत्यन्यदेतदिति । । ननु यथा त्वयाऽभेदस्य संसर्गत्वमाश्रित्याऽभेदस्य तत्तव्यक्तित्वावच्छिन्नभेदाभावत्वेन ताहशनीलादितद्व्यक्त्यभेदस्य तत्तद्घटपटव्यक्तिध्वेव सत्त्वेनान्यत्र चासत्त्वेन नीलपटादिपरनीला. दिपदघटितस्य 'नीलो घटः । इतिवाक्यस्य प्रामाण्यप्रसङ्गो निवारितस्तथा मयाप्यभेदस्य प्रकारत्वमप्याश्रित्य प्रकारीभूतोष्यभेदस्तत्तद्व्यक्तित्वावच्छिन्नभेदाभाव एवेति तस्य पटादिगतस्य घटादिष्वभावेन उक्तस्य — नीलो घटः ' इतिवाक्यस्य प्रामाण्यप्रसङ्गो निवारितो भविष्यतीत्याशङ्कयाह-न चेति । अत्र चाभेदस्य विशेषणविभक्त्यर्थत्वकथनेन प्रकारत्वमेव विज्ञेयं प्रकारस्य किंचित्पदार्थत्वनियमात् शक्त्योपस्थिति नियमाच्च, संसर्गस्तु न कस्यचित्पदस्यार्थों भवति न वा शक्त्योपस्थितो भवतीति नियमः- आकाङ्क्षाबलेन तद्भानस्योक्तत्वादित्यवधेयम् । परिहारमाह- तया सतीति, तथासति अभेदस्य प्रकारतामतेऽभेदस्य तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदाभावरूपत्वाश्रयणे सति । प्रकारीभूतपदार्थस्यान्वयं प्रति तच्छक्तिज्ञानाधीनोपस्थितिः कारणमस्ति तथा च 'नीलो घटो भविष्यति' इत्यत्र माविनस्तद्रव्यक्तित्वस्योपस्थित्यसंभवेन तवच्छिन्नभेदाभावे च विभक्तिशक्तिमहासंभवाद् विभक्त्या प्रकारीभूताभेदस्योपस्थित्यसंभवादपूर्वव्यक्तीनां घटादीनामभेदान्वयबोधो न स्थादेवेति दोषः । तदुक्तं कृष्ठभेट्टन- " नीलो घटो "Aho Shrutgyanam" Page #36 -------------------------------------------------------------------------- ________________ सादर्श: ( २४.) [ प्रथमाकारके - न्वयबोधानुपपत्तेः । संसर्गज्ञानस्य विशिष्टबुद्धावहेतुत्वेनाऽनुपस्थितस्यापि संसर्गतया भानसंभवेन संसर्गतामतेऽनुपपत्त्यभावात् । न च विभक्त्यर्थेपि भेदे तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्व संबन्धेन ffererfear तत्तद्व्यक्तीनामन्वयः, तादृशभेदानामपि तत्तद्व्यक्तिभेदत्वावच्छि अप्रतियोगिताकत्व संबन्धेनाऽभावेऽन्वय उपेयते तावतैव तत्तद्व्यक्तित्वावच्छिन्ना भविष्यतीत्यत्र तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताको यो भेदस्तादृशभेदत्वावच्छिन्न प्रतियोगिताको भावो नीलपदोत्तरप्रथमार्थस्तदेकदेशे तद्व्यक्तित्वे प्रकृत्यर्थस्य नीलरूपवतोऽन्वयः ( कर्तव्यः ) तथा चाsपूर्वा भविष्यति या नीलरूपाश्रयव्यक्तिस्तन्निष्टं यद् तद्द्व्यक्तित्वं तस्य कथंचिदपि मानासंभवेन सामान्यलक्षणारूपभासकविरहाद्भानासंभवेन ( घटादौ तु घटत्वं सकलवृत्ति तस्य सामान्यलक्षणारूपत्वं भवति तद्व्यक्तित्वं तु तद्द्व्यक्तिमात्रपर्याप्तमिति न तस्य सामान्यलक्षणारूपत्वम् ) तदवच्छिन्न मेदाभावे = अपूर्वव्यक्तित्वावच्छिन्नप्रतियोगिताकमेदस्याभावे शक्तिअहासंभवेनाऽपूर्वव्यक्तीनामभेदान्वयानुपपत्तेः । अभावज्ञाने हि प्रतियोगिज्ञानं कारणमिति प्रतियोगि(अपूर्व व्यक्ति) ज्ञानाभावाच्छक्तिग्रहासंभवादपूर्वव्यक्तीनामभेदान्वयबोधानुपपत्तिरित्यर्थः "इति । tasमेदस्य संसर्गतास्वीकारेपि ' नीलो घटो भविष्यति' इत्यत्रोक्त दिशाऽपूर्वव्यक्तीनामदान्यबोधानुपपत्तिः किं न स्यादित्याशङ्कय समाधत्ते- संसर्गज्ञानस्येति, विशिष्टबुद्धौ संसर्गस्यैवकारणत्वमस्ति न तु संसर्गज्ञानस्प्रेत्यऽनुपस्थितस्याप्य मेदस्य संसर्गतया मानसंभवेनापूर्वव्य-: क्तीनामभेदान्त्रयबोधेऽनुपपत्त्यभावात् उपस्थित्यर्थमेव शक्तिज्ञानस्यापेक्षणात् न चामेदोपस्थित्यपेक्षा संसर्गतामते अत एव न संसर्गज्ञानस्य विशिष्टबुद्धिहेतुत्वमित्यर्थः । 'नीलो ननु यदि तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकमेदाभावो विशिष्टो विशेषणविभक्तेरर्थः स्यात्तदा एतादृशविशिष्टाभेदकुक्षिप्रविष्टतद्व्यक्तित्वस्याऽपूर्वस्य कथंचिदपि मानासंभवेन तत्र विभक्तिशक्तिहासंभवाच्छक्तिप्रहाभावे वाऽपूर्वतद्व्यक्तित्वस्योपस्थित्यसंभवेन ' नीलो घटो भविष्यति ' इत्यत्रा पूर्वतन्नीलव्यक्तीनामभेदान्ययबोधानुपपत्तिः स्यादपि न चोक्तविशिष्टाभावस्य विशेषणविभक्तयत्वं वदामः किं तु खण्डशो विभक्तिशक्तिवीकारेण विशेष गविभक्ते मेदोऽभावश्चार्थः, तत्र विमक्त्यर्थे भेदे तत्तन्नीलव्यक्तीनां नीलत्वादिना तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्व संबन्धेनान्वयस्तादृशभेदानामपि तत्तद्द्व्यक्तित्वावच्छिन्नप्रतियोगिता कत्वसंबन्धेनाऽमादेऽन्वय इति घटो भविष्यति' इत्यत्र नाऽपूर्वतत्तन्नीलव्यक्तीनाममेदान्वयबोधानुपपत्तिः -- तद्द्व्यक्तित्वस्यात्र बन्धकुक्षौ प्रवेशेन विभक्त्यर्थे प्रवेशाभावेन च तत्र विभक्तिशक्तिग्रहस्यापेक्षेव नास्ति, उक्तसंबन्वस्य तद्द्व्यक्तित्वविशिष्टस्याकाङ्क्षाबलेन मानसंभषेन संबन्धकुक्षिप्रविष्टतद्रव्यक्तित्वस्याप्याकाङ्क्षाबलेन मानसंभवादित्यर्थः । तावतैव तत्तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकत्वसंबन्धेन तत्तनीलव्यक्तीनां भेदे तादृशभेदानां चाभावेऽन्वयाङ्गीकारेणैव । संबन्धप्रणालिकया हि तद्व्यक्ति "Aho Shrutgyanam" Page #37 -------------------------------------------------------------------------- ________________ विशेषणविभक्त्यर्थवि ० ] व्युत्पत्तिवादः । भेदलाभ इति न किंचिदनुपपन्नमिति वाच्यम्, विशेषणतावच्छेदकावच्छिन्नाया एव प्रतियोगिताया अभावे प्रतियोगिनः संबन्धतया भानात्, अन्यथा - विशिष्टवैशिष्ट्यबुद्धित्वानुपपत्तेः । “प्रतियोगिविशेषिताभावज्ञानं च विशिष्टवैशिष्टयबोधमर्यादां नातिशेते" इतिदर्शनात् केवलं विशेष्ये विशेषणमितिरीत्या न कश्चिदभ्युपैतीति चेत् ?, ( २५ ) त्त्वस्य भेदेन संबद्धत्वात् तत्तदूव्यक्तित्वावच्छिन्नाभेदस्य=तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकमेदामावरूपस्याभेदस्य लाभः=मानं संभवत्येवेति न 'नीलो घटो भविष्यति' इत्यत्रापूर्वतत्तन्नीलव्यक्तीनामभेदान्वयबोधानुपपत्तिः, न वा नीलपटादिपरनीलादिपदघटितस्य 'नीलो घटः' इतिवाक्यस्य प्रामाण्यापत्तिः- तद्व्यक्तित्वस्य निवेशात् पटगततन्नीलव्यक्तेर्घटादिष्वसत्त्वादित्यर्थस्तदाह - न किंचिदनुपपन्नमिति । इत्याशङ्क्याह-न चेति । परिहरति- विशेषणतेति, वया तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकत्वसंबन्धेन भेदे तत्तन्नीलव्यक्तीनामन्वय उपपादितः प्रतियोगिता चात्र संबन्धे प्रविष्टास्ति तस्याः प्रतियोगितायाश्चाभावे प्रतियोगिविशेषणतावच्छेदकावच्छिन्नाया एव संबन्धत्वेन भानं भवति विशेषणतावच्छेदक चात्र नीलत्वमेव न तु तन्नीलव्यक्तित्वं तथा च नीलत्वावच्छिन्न प्रतियोगितायाः संबन्धत्वे : नीलत्वस्य सर्वत्र घटपटादिष्वेकत्वेन पुनर्नीलपटादिपरनीलादिपदघटितस्य 'नीलो घटः " इतिवाक्यस्य प्रामाण्यापत्तिदोषः प्राप्तः । विपक्ष बाधकमाह- अन्यथेति, यदि प्रतियोगिताया विशेषणतावच्छेदकावच्छिन्नायाः संवन्वत्वं न स्यात्तदाऽभावज्ञानस्य विशिष्टवैशिष्ट्यबुद्धित्वं न स्याद् नाम - अभावज्ञानेन विशिष्ट - वैशिष्टयस्यावगाहनं न स्यात् ' वटो नास्ति ' इत्यत्र हि विशिष्टस्य = घटत्वविशिष्टस्यैव घटस्य स्वप्रतियोगिताकत्व संबन्धेनाभावे वैशिष्ट्यं भासते ( स्वं वट: ) अर्थात् - यथा घटस्य स्वपतियोगिताकत्वसंबन्धेनाभावेऽन्ययो भवति तथा घटत्वस्यापि स्वावच्छिन्नप्रतियोगिताकत्व संबन्धना Hasrat भवत्येव भासते च । स्वं घटत्वम् तन्न स्याद् यदि विशेषणतावच्छेदकावच्छिन प्रतियोगिता संबन्धो न स्थात्, अर्थात् यदि प्रतियोगितावच्छेदकं घटत्वं विशेषणं न स्यात् किं तूपलक्षणं स्यात्तदोपलक्षणीभूतघटत्वस्याभावे स्वावच्छिन्नप्रतियोगिताकत्व संबन्धेनाऽन्वयोपिन स्यात्तदा ' विशेषणतावच्छेदकावच्छिन्नाया एव प्रतियोगितायाः संबन्धत्वेनाभावे भानं भवति । इतिनियमोपि न स्यात्तदोक्तस्थलेपि नीलत्वस्य प्रतियोगितावच्छेदकत्वाभावेन प्रामाण्यापत्तिर्न स्यादपि न चैत्रमस्ति विशेषणतावच्छेदकावच्छिन्नाया एव प्रतियोगितायाः संबन्धत्वस्वीकारा - दित्यर्थः । भावे विशेषणतावच्छेदकावच्छिन्नाया एव प्रतियोगितायाः संबन्धत्वं भवतीत्यत्र त्रिनिगमनामाह प्रतियोगिविशेषितेति, प्रतियोगिता विशेषितं प्रतियोगिविशेषितमभावज्ञानं यथा 'घट सि' इत्यत्र घटप्रवेशात् एतादृशमभावज्ञानं विशिष्टवैशिष्टयस्य मर्यादाम् = तत्रगाहनं नातिटो नास्ति ' इत्यभावज्ञानेऽमाचे घटत्वविशिष्टस्यैव घटस्य स्वप्रतियोगिताकत्व "Aho Shrutgyanam" Page #38 -------------------------------------------------------------------------- ________________ ( २६ ) सादर्श: [ प्रथमाकारके सत्यम् - अभेदस्तादात्म्यम्, तच्च स्ववृत्त्य साधारणो धर्मः । असाधारण्यं च एकमात्रवृत्तित्वम्, तच स्वसामानाधिकरण्यस्वमतियोगिवृत्तित्वोभयसंबन्धेन भेदसंबन्धेन वैशिष्ट्यम्=अन्वयो भासते तस्माद् घटविशेषणीभूतस्य घटत्वस्याप्यभावे स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेनान्वयो भवत्येव भासते च सः, तस्मात्संबन्धकोटिप्रविष्टा प्रतियोगिता विशेषणतावच्छेदकीभूतवटत्वाद्यवच्छिन्ना भवत्येव । अभावज्ञाने चाभावस्यैव विशेष्यत्वेन तत्र प्रतियोगिनो घटादेर्विशेषणत्वाद् घटत्वादीनां विशेषणतावच्छेदकत्वं प्राप्तमिति । ननु ' वटो नास्ति इत्यभावज्ञाने घटत्वस्य केवलं वटविशेषणत्वमेत्र भविष्यति नाभावविशेषणत्वम् अर्थात् घटत्वस्य स्वावच्छिन्नप्रतियोगिताकत्व संबन्धेनाभावेऽन्वयं नाङ्गीकरिष्याम इति नोक्तदोपपत्तिरित्याशङ्कयाह- केवलमिति, ' घटो नास्ति ' इत्यादी प्रतियोगिविशेषिता भावज्ञाने त्वदुक्तां विशेष्ये विशेषणमितिरीतिं न कश्चित्स्वीकरोति किं तु घटत्वस्य स्वावच्छि नप्रतियोगिताकत्वसंबन्धेनाभावेऽन्ययो भवत्येव भासते चेत्येव सर्वो जनः स्वीकरोतीत्यर्थः । भावज्ञाने उपलक्षणत्वेन घटत्वमानं स्यात्तदोपलक्षणत्वाविशेषाद् द्रव्यत्वादीनामपि मानं स्यान्नचैत्रमस्ति तस्माद् द्रव्यलाद्यपेक्षया घटले विशेषणत्वमेव विशेष इतिप्राप्तम् । यदि च प्रतिगिता विशेषणतावच्छेदकेन घटलेनावच्छिन्ना न स्यात्तदा ' घटो नारित ' इत्यत्र घटत्वावच्छिन्नप्रतियोगिताका भावस्याऽसिद्धया किंचिद्यटव्यक्तिसत्त्वदशायामनि किंचिद्घटव्यक्त्यभावतात्पर्येण 'वटो नास्ति ' इतिप्रयोगस्य प्रामाण्यं स्यात् न च किंचिद्घटव्यक्तिसत्त्वे ' घटो नास्ति ' इतिप्रयोगो भवति, तस्मात् प्रतियोगिता विशेषणतावच्छेदकघटत्वादिनावच्छिन्ना भवति तथा सति च किंचिवट वटत्वावच्छिन्नप्रतियोगिताकाभावस्य बाधात् 'जाति ? ति प्रयोगो न भवति । प्रकृते च ' नीलो घट: ' इत्यत्र विभक्त्यर्थाभात्रसंबन्धभूतायाः अतितास विशेषणतावच्छेदकनोलवेनावच्छिनत्वात् नीलत्वस्य च सर्वत्र नीलघटपटेष्वेकत्वनाभावाभावाद् नीलपटादिपर नीलादिपदघटितस्थापि ' नीलो घटः इति वाक्यस्य प्रामाण्यं स्यादितिदोषः । 7 इत्येवं प्रकारतावादे प्राप्तं दोषं स्वीकुर्वन् प्रकारतावाद्याह-- सत्यमिति । विशेषणविभक्त्यर्थभूतामेदं निर्वक्ति - अभेद इति । तादात्म्यमेवाभेदस्तथा च 'नीलो घटः ' इत्यत्र घटे नीलतादात्म्यं भासते नीलतादात्म्यवान् घट इति नीलपदोत्तरविभक्तेस्तदेवार्थ: । तादात्म्यस्वरूपमाहस्ववृत्तीति । तत् = तादात्म्यम् । स्वं वटः । वटवृत्ति यन्नीलतादात्म्यं तद् घटस्यासाधारणो धर्मस्तस्य नीलतादात्म्यस्य तद्घटव्यक्तिमात्रवृत्तित्वात् । असाधारण्यस्वरूपमाह - असाधारण्य - मिति, एकव्यक्तिमात्रवृत्तिधर्मोऽसाधारणो धर्म इति फलितम् । एकमात्रवृत्तित्वस्वरूपमप्याहस्वसामानेति । तत् = एकमात्रवृत्तित्वम् । अत्र कृष्णभट्टो यथा - स्वं नीलवटव्यक्तिभेदस्तत्सामानाधिकरण्यं द्रव्याचे अथ च स्वं नीलघटव्यक्तिभेदस्तत्प्रतियोगिनी नीलवदव्यक्तिस्तद्वृत्तित्वमपि द्रव्यत्वे इत्युभयसंबन्धेन भेदविशिष्टं द्रव्यत्वमेव तदन्यत्वं तद्व्यक्तित्वे (तन्नीलघटव्यक्तिवृत्तितद् " Aho Shrutgyanam" Page #39 -------------------------------------------------------------------------- ________________ विशेषण विभक्तयर्थवि० ] व्युत्पत्तिवादः । (२७) विशिष्टं यत् तदन्यत्वमित्येकमात्रवृत्तिधर्म एव विशेषणविभक्तेरर्थः । वृत्तिश्च तत्र प्रकृत्यर्थस्य संसर्गमर्यादया भासते, तादृशधर्मस्तत्तद्व्यक्तित्वादिरूप एव । अपूर्वव्यक्तिनिष्ठतादृशधर्मस्य विशिष्य ज्ञातुमशक्यत्वेप्येकमात्रवृत्तिधर्मत्वादिना सामान्यप्रत्यासत्तितः सुग्रहत्वमेव । अभेदस्य संसर्गतामतेप्येतादृशाऽनुगताऽभेदस्यैव तथात्वमुचितम् । तद्व्यक्तित्वावच्छिन्नभेदाभावकूटस्य विशिष्य तथात्वे 'घटो न नील:' इत्यादिवाक्य व्यक्तित्वे ) इत्यर्थः । स्वप्रतियोगिवृत्तित्वस्यैव संबन्धत्वे- स्वं नीलव्यक्तिभेदस्तत्प्रतियोगिनी नीलघटव्यक्तिस्तद्वृत्तित्वं तद्व्यक्तित्वे इत्यनेन संबन्धेन भेदविशिष्टमेव तत्तद्व्यक्तित्वमतो द्वितीयसंबन्धनित्रेशः, तथा च स्वं नीलव्यक्तिभेदस्तत्सामानाधिकरण्यं तत्तद्व्यक्तित्वे नास्ति नील व्यक्तिभेदवति पटे तत्तद्व्यक्तित्वस्याभावात् । स्वसामानाधिकरण्यस्यैव संबन्धत्वे च स्वपदेन फ्रुटादिभेदस्तत्सामानाधिकरण्यं तत्तद्व्यक्तित्व इति भेदविशिष्टमेव भवतीति स्वप्रतियोगिवृत्तित्वनिवेशः, तथा च स्वपटादिभेदस्तत्प्रतियोगी पटादिस्तद्वृत्तित्वं तद्व्यक्तित्वे नास्तीत्यर्थः । " इति । एवं चैतदुभयसंबन्धेन तद्व्यक्तित्वं विना भेदविशिष्टं सर्वं घटत्वादिकं धर्मजातं भविष्यति तदन्यत्वं तद्द्व्यक्तित्व प्राप्तम् । प्रकृतिप्रत्ययौ सहार्थं ब्रूतः " इतिन्यायेन विभक्त्यर्थप्रयोक्तकमात्रवृत्तिधर्मस्य प्राधान्येन तत्र प्रकृत्यर्थस्य नीलस्थान्वयः केन संबन्धेन कर्तव्य इत्यत्राह - वृत्तिश्चेति । तत्र = विभक्त्यर्थे तादात्म्ये, प्रकृत्यर्थस्य = नीलस्य, वृत्तिः = अन्वयः संसर्गमर्यादया भासते । स्ववृत्तित्व संबन्धेन नीलस्य तादात्म्येऽन्वयः । तादात्म्यस्य च नीलविशिष्टस्य घटे आश्रय ८८ संबन्धेन विज्ञेयः स चापि संबन्धः संसर्गमर्यादया भासते नीलघटयोर्यस्तादाम्य संबन्धस्तस्य प्रकारत्व स्वीकारेण विभक्त्यर्थत्वाद् विशेषण विभक्त्यैवोपस्थिति स्वीकाराच। तादृशधर्भः= एकमात्रवृत्तिधर्मः । 'नीलो घटो भविष्यति' इत्यत्रामेदान्वयबोधानुपपत्तिपरिहारमाह- अपूर्वेति । |दृशधर्मस्य तदूव्यक्तित्वरूपधर्मस्य, विशिष्य = तद्द्व्यक्तित्वत्वेन रूपेण ज्ञातुमशक्यत्वं हि तस्य सावित्वेन वर्तमानत्वाभावात् । तद्व्यक्तित्वस्य तद्व्यक्तित्वत्वेन रूपेण ज्ञातुमशक्यत्वेप्येकमात्रवृ|त्तिधर्मत्वेन रूपेण सामान्यप्रत्यासत्त्या ज्ञातुं शक्यत्वात् = एकमात्रवृत्तित्वधर्मस्य वर्तमाननीलादि • व्यक्तिस्यस्य ज्ञानसंभयेन तद्रूपेण भाविव्यक्तिस्थस्यापि ज्ञानसंभवादित्यर्थः । अभेदस्येति - अभेदसंसर्गतावादेप्येतादृशानुगताऽभेदस्यैव एकमात्रवृत्तिधर्मत्वेन रूपेणानुगतस्य= सकलतद्द्व्यक्तित्वरूपधर्मेष्वनुगतस्यैव तादात्म्यलक्षणस्याभेदस्य तथात्वम् == संसर्गत्वमुचि सम् । अननुगतामेदस्य संसर्ग बाधकमाह- तत्तद्व्यक्तित्वेति, तचद्व्यक्तित्वावच्छिन्न प्रतियोगि ताकमेदाभावसमूहस्य विशिष्य तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकभेदाभावत्वेन रूपेण तथा वे सर्ग 'टो न नील:' इतिवाक्यजन्यबोधे तादृशः तत्तद्व्यक्तित्वादिरूपो योऽननुगत विच्छिन्न प्रतियोगिताका अननुगता एवं नीलाभावा भासेरन् अर्थात् संबन्धभूतः "Aho Shrutgyanam" Page #40 -------------------------------------------------------------------------- ________________ ( २८ ) सादर्श: [ प्रथमा कारके - जन्यबोधे “प्रतियोग्य भावान्वयौ तुल्ययोगक्षेमौ” इतिन्यायेन तादृशाननुगतसंबन्धावच्छिन्नप्रतियोगिताकाऽननुगताऽभावा एव भासेरन् न तु नीलवृत्तिरेकीभावः, तथा सति यत् किंचित्तादृशाभावतात्पर्येण प्रयुक्तस्य नीलेपि 'न नीलः' इत्यादिवाक्यस्य प्रामाण्यं स्यात् । तद्व्यक्तित्वस्यैकमात्रनीलव्यक्तिस्थत्वेन प्रतियोगितायास्तदवच्छिन्नत्वे हि सकलनीलव्यक्तीनामेकोSerat घटेन प्रत्येतुं शक्यते किं तु प्रतियोगितावच्छेदकस्य तद्द्व्यक्तित्वस्यानेकत्वेनाने एव नीलाभावा घटेऽत्र प्राप्तास्ते पृथक् पृथगेव भासेरन् । अत्र प्रमाणमाह- प्रतियोगीति, प्रतियोग्यन्त्रयस्तदभावान्त्रयश्च तुल्ययोगक्षेमौ-संबन्धादिषु तुल्यसापेक्षौ भवतः, अन्ययः शाब्दबोधः, अर्थात् नञःसत्त्वे येन संबन्धेन यत्र यस्य येन रूपेण सत्त्वं प्रतीयते नञ्सत्त्वेपि तेनैव संबन्धेन तत्रैव तस्यैव तेनैव रूपेणासत्त्वं प्रतीयते तथा च नञसमभिव्याहारस्थले यत्संबन्धावच्छिन्नयद्धर्मावच्छिन्नप्रकारता यद्विशेष्यकः शाब्दबोधो भवति न समभिव्याहारस्थलेपि तत्संबन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगिताकतदभावविशेष्यकः शाब्दबोधो भवति यथा- 'भूतले घटोस्ति' इत्यत्र संयोगसंबन्धावच्छिन्नघटत्वावच्छिन्न विशेष्यताकः शाब्दबोधो भवतीति घटो नास्तीत्यत्रापि संयोगसंबन्धावच्छिन्नत्वावच्छिन्न प्रतियोगिताकघटाभावविशेष्यकः शाब्दबोधो भवति तथा व 'घटो नील:' इत्यत्र घटे नीलसत्त्वं अननुगततद्द्व्यक्तित्वाव, च्छन्नप्रतियोगिताकमेदाभावरूपामेदसंबन्धेन प्रतीयते इति 'घटो न नील:' इत्यत्रापि घटे नीलासत्त्वं तेनैवाननुगततद्व्यक्तित्वाव च्छिन्नप्रतियोगिताकमेदाभावरूपाऽ मेद संबन्धेन प्रतीयेतेति प्राप्तं तत्र संबन्धभूतस्याननुगतस्य तद्-वस्य ततन्नीलव्यक्ती नामानन्त्येनानन्त्यात् तदवच्छिन्नप्रतियोगिताकानां नीलाभावानाम सग्राहकरूपाभावेनानन्त्यादऽनन्ता एव नीलाभावा भासेरन् न तु नीलवृत्तिः =नीलघटवृत्तिरेको नीलाभाव: प्रत्येतुं शक्यते इत्यर्थः । उपसंहरति-- तथा सतीति, यदि 'घटो न नील:' इत्यत्र तन्नीलव्यक्तित्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावरूपैक संबन्धा वच्छिन्न प्रतियोगिताक एक एव नीलाभावः प्रतीयेस तदा नीले घटे किंचिनीलरूपव्यक्तिस त्त्वेपि किंचिन्नीलरूपव्यक्तेरसत्त्वेन तदभावाभिप्रायेण नीलेपि घटे 'घटो न नीलः' इति प्रयोगः स्यात्तस्य च प्रामाण्यमपि स्यात् न चैव भवति तस्मात् 'घटो न नील:' इत्यत्रोक्तदिशा नीलाभावा अनन्ता एव भासन्ते इति वक्तव्यम्, अनन्ताभावानां च ज्ञानासंभव इति संसर्गतामतेप्येकमात्रवृत्तिधर्मत्वेन रूपेणानुगतस्यैव तद्व्यक्तित्वस्योक्ततादात्म्यरूपस्य संसर्गत्वं वक्तव्यमिति प्राप्तमित्यर्थः । एवं च प्रतियोगिताया एकमात्रवृत्तिधर्मत्वेन रूपेण तद्व्यक्तित्वेनावच्छिन्नत्वेन पटगततन्नीलव्यक्तेश्व वटादौ बाधादुक्तदिशा नीलपटादिपरनीलादिपदघटितस्य 'नीलो घटः इतिवाक्यस्यापि प्रामाण्यापत्तिर्नास्त्येव । T "Aho Shrutgyanam" Page #41 -------------------------------------------------------------------------- ________________ विशेषण विभक्त्यर्थवि० ] व्युत्पत्तिवादः । ( २९ ) इदं तु बोध्यम् - विशेषणविभक्तेरभेदार्थकत्वे 'घटो न नीलः' इत्यादौ नत्रा नीलाद्यभेदाभाव एव मत्याययिष्यते न तु नीलादिभेदः, यादृशसमभिव्याहारस्थले येन संबन्धेन यत्र धर्मिणि येन रूपेण यद्वत्त्वं नञऽसत्त्वे प्रतीयते तादृशस्थले नत्रा तद्धर्मिणि तादृशसंबन्धावच्छिन्नतादृशधर्मावच्छिन्नप्रतियोगिताकतदभावबोधस्य व्युत्पत्तिसिद्धत्वात् । “प्रतियोग्यभावान्वयौ च" इत्यादेरप्ययमेवार्थः । एवं च नञो भेदबोधकत्वं न कुत्रापि संभवति - 'अनीलं घटमानय' इत्यादी घटपदसामानाधिकरण्यानुरोधेनाऽनीलपदस्य नीलभिन्नपरतया नञो भेदवत्येव लक्षणाया उपगन्तव्यत्वात् । इदं त्वावधेयम् - अभेदस्य प्रकारतामतेपि 'घटो न नीलः इत्यादिवाक्यस्य नीलाभेदाभावबोधकत्वेपि तृतीयाऽभावस्य प्रतियोगिस्वरूपतया नजो 'भेदबोधकत्वं नानुपपन्नं परं तु भेदत्वप्रकारेण भेदबोधो भवति न वेत्यन्यदेतत् । इदं तु तत्रम्- ' नीलो वटः ' इत्याद्यसमासस्थलेऽभेदस्य संसर्ग तोपगमेपि trafarera तत्र विशेषण विभक्तेर्वृत्तिकल्पनमनुचितम् । नञऽसत्त्वे यस्य प्रतीतिर्भवति नञ्सत्त्वे तदभावस्य प्रतीतिर्भवतीति नियमोस्ति प्रकृते च यदि 'नीलो घट:' इत्यत्र विशेषणविभक्तेरमेद एवार्थस्तदा 'घटो न नील:' इत्यत्र नत्रा नीला मेदाभावस्यैव प्रतीतिर्भविष्यति न तु नीलभेदस्येत्याह- इदमित्यादिना । व्याख्यात्तप्रायोयं ग्रन्थः । उपसंहरति- एवं चेति । ननु 'अनील घटम्' इत्यत्र तु नञो भेदबोधकत्वं भाव नीत्याशङ्देवाह- अनीलमिति, अत्रापि नत्रो भेदवति लक्षणैव न तु शक्त्या भेदबोधकत्वमित्यर्थः । इदं त्वत्रेति- यद्यप्यऽभेदस्य प्रकारतामते उक्तरीत्या 'घटो न नीलः" इत्यत्र नजो नीलामे - दाभावबोधकत्वमेत्र तथापि तृतीयाभावस्य प्रतियोगिस्वरूपत्वाद् यथा घटाभावाभावो घट पैमेव तथात्राप्यमेदो नाम भेदाभाव इति नीलाभेदाभाव इत्यनेन नीलभेदाभावाभाव इति प्राप्त तत्र नीलभेदाभावाभावो हि नीलभेदस्वरूपमेवेति नञो नीलाभेदाभावबोधकवे प्राप्ते नीलभेदaland प्राप्तमेवेति भेदबोधकत्वं नानुपन्नं किं त्वेवं नञो भेदत्वप्रकारेण भेदत्वेन रूपेण भेदबोधत्वं न संभवति विभेदाभावत्वेनैव रूपेण भेदबोधकत्वं संभवति यथा कचिद् घटादिपदानां द्रव्यत्वादिना घटादिबोधकत्वं भवति तथेत्यर्थः । इदं तु तत्त्वमिति - 'नीलघटम्' इत्यादिसमासस्थले त्वऽभेदोपस्थापिकाया नीलादिविशेषपदोत्तरं विभक्तेरभावेन तदनुसंधानस्याप्यनङ्गीकाराच्च विभक्त्याऽभेदस्योपस्थित्यसंभवेन प्रकारत्वं नैव संभवति केनचित्पदेन वृत्त्योपस्थितस्यैव प्रकारत्वनियमादित्युक्तसमस्तस्थले त्वभेदस्य संसर्गतयैव भानं भवतीति निर्विवादम् । 'नीलो घटः' इत्यत्र त्वभेदोपस्थापकविशेषणविभक्तेः सत्त्वेन तया वृत्त्याऽभेदस्योपस्थितिः संभवतीत्यभेदस्यात्र यद्यपि प्रकारत्वमपि संभवति तथापि संसर्गतामतेपि = अभेदस्य संसर्गत्वस्वकारेपि किमपि गौरवं नास्तीति तत्र = अभेदे विशेषणविभक्तेः वृत्तिकल्पनम् = शक्तिकल्पनमनुचितमेव । प्रत्युत प्रकारतामते एवाभेदे विशेषणविभक्तेः शक्तिकल्पन रूपं गौरवमस्तीत्यर्थः । "Aho Shrutgyanam" Page #42 -------------------------------------------------------------------------- ________________ (३०) सादर्श: [ प्रथमाकारकेन चाऽभेदे यत्र विशेषणविभक्तेः शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र सर्वमते एवाऽभेदप्रकारकबोधस्य 'नीलो घटः' इत्यादिवाक्यादुत्पत्त्या तादृशसमभिव्याहारज्ञानस्य द्विविधबोधे हेतुताद्वयं कल्पनीयमभेदस्य संसर्गतावादिनेति गौरवम् । एवं तादृशसमभिव्याहारज्ञानघटितसामथ्या भिन्नयोग्यताज्ञानघटि. तत्वेन दैविध्यमिति भिन्नविषयकप्रत्यक्षादिकं प्रति तादृशशाब्दसामग्रीप्रतिबन्धकताया अप्याधिक्यमिति वाच्यम्, संसर्गतावादिनोक्तस्थलेपि तत्संसर्गकबोधस्यैवोपगमादिति दिक् । ननु यदि कस्यचित् पुरुषस्याभेदे एकत्वादिसंख्यात्राचिकाया विशेषणविभक्तेः शक्तिश्रमो जातः किं वा विशेषणविभक्तेरेकत्वे शक्तिरस्तीत्यभेदे स्वारसिकलक्षणाग्रहः स्यात्तदा तु 'नीलों घट: । इतिवाक्येनाभेदप्रकारक एव बोधो भवतीति सर्वसंमतम्, तथा च- तादृशसमभिव्याहारज्ञानस्य= नीलो घटः ' इत्यादिप्रथमान्तनीलपदप्रथमान्तघटपदसमभिव्याहारज्ञानस्य द्विवि. धबोधे अभेदप्रकारकबोधे अमेदसंसर्गकबोधे च हेतुताद्वयं संसर्गतावादिना कल्पनीयमिति गौरवं तथा हि — नीलो घटः । इति वाक्यस्य स्वसिद्धान्तेनाभेदसंसर्गकबोधे एका हेतुता. विशेषणविभक्तेरभेदे शक्तिश्रमे लक्षगाग्रहै चोक्तरीत्या वृत्त्योपस्थिताभेदस्य प्रकारत्वसंभवेनाभेदप्रकारकबोधे द्वितीया हेतुतेत्यर्थः। प्रकारतामते तु शक्तिभ्रमे लक्षणाग्रहे तथा सिद्धान्ते चाऽभेदप्रकारक एव बोधो भवतीति दोक्तवाक्यस्य हेतुताद्वयं कल्पनीयमिति न गौरवम् । एवम् - यत्र प्रत्यक्षसामग्री शादसा'मग्री च समानविषया भवति तत्र प्रत्यक्षसामाग्याः प्राबल्येन शाब्दबोधं प्रति प्रत्यक्षसामग्री प्रतिब! विका भवति यत्र भिन्नविषया भवति तत्र तु शाब्दसामग्र्या एव प्राबल्यं भवतीति तादृशसमभिव्याहा. रज्ञानघटितसामग्र्याः= 'नीलो घटः' इत्यादिप्रथमान्तनीलपदप्रथमान्तघटपदसमभिव्याहारज्ञानघटितसामग्या भिन्नयोग्यताज्ञानघटितत्वेन सिद्धान्ते संसर्गविषयकयोग्यताज्ञानघटितत्वेन तथाऽभेदे शक्तिभ्रमे लक्षणाग्रहे वाऽभेदप्रकारताविषयकयोग्यताज्ञानघटितत्वेन द्वैविध्यं जात मिति भिन्नविषयकप्रत्यक्ष प्रति तादृशद्विविधशाब्दबोधसामग्र्याः प्रतिबन्धकत्वं कल्पनीयमित्यपि संसर्गतामते गौरवम् । प्रकारतामते तु सर्वत्राभेदप्रकारक एव बोधो भवतीति एकविधयोग्यताज्ञानवटितत्वेनोक्तशाब्दसामया द्वैविध्यमेव नास्ति येन द्विविधं प्रतिबन्धकत्वं स्यादिति न गौरवमित्याशङ्कय परिहरति- न चेति । परिहारहेतुमाह- संसर्गतेति, उक्तस्थले शक्तिभ्रमस्थले लक्षगाग्रहस्थलेपि चोपस्थितस्याभेदस्य संसर्गतयैव भानं भवतीति स्वीकाराद् हेतुताद्वयस्य प्रतिबन्धकताद्वयस्य च न कल्पनापत्तिरिति न गौरवम् । अयं भावः यथाऽननुभूतस्य स्मरण न भवतीति नियमसत्त्वेप्यनुभूतस्य स्मरणं भवत्येवेति नियमो नास्ति तथा केनचित्पदेन वृत्त्याऽनु. पस्थितस्य प्रकारत्वं न भवतीति नियमसत्त्वेप्युपस्थितस्य प्रकारत्वं भवत्येवेति नियमो नास्ति तया च शक्तिभ्रमे लक्षणाग्रहे च विशेषणविभक्या वृत्त्योपस्थितस्याप्य भेदस्य संसर्गत्वमेव स्वीक्रियते न प्रकारत्वं येन गौरवं स्यात् । "Aho Shrutgyanam" Page #43 -------------------------------------------------------------------------- ________________ क्रियाविशेषणाभेदान्वयाकाङ्क्षा ] व्युत्पत्तिवादः । ‘स्तोक पचति ' 'मृदु पचति ' इत्यादौ विरुद्धविभक्त्यऽवरुद्ध पदोपस्थापितस्थापि स्तोकमृदादेर्धात्वर्थपाकादावऽभेदान्वयो व्युत्पत्तिसिद्धः तदनुरोधेन च द्वितीयान्तपदधातुपदयोः समभिव्याहारस्याप्यभेदान्वयबोधौपयिकाऽऽकाङ्क्षात्वमुपगम्यते. क्रियाविशेषणस्थले च न द्वितीयातिरिक्तविभक्तिरुत्पद्यते "क्रियाविशेषणानां क्लीबत्वं कर्मत्वं च" इत्यनुशासनेन तत्र कर्मत्वातिदेशात् ।। न चैवम्- ‘स्तोकः पाकः' इत्यादावपि द्वितीयाप्रसङ्गः- तत्रापि म्तोकादेः क्रियायामेव विशेषणत्वात्. भावकृतां प्रयोगसाधुत्वमात्रार्थकतया __ नीलो घटः ' इत्यादावऽभेदान्वयबोधौपयिकाकाङ्क्षास्वरूपमुक्त्वा संप्रति स्तोकं पचति' इत्यादावभेदान्वयदोधौपयिकाकाङ्क्षां निर्वक्ति- स्तोकमित्यादिना । यद्यपि 'नीलो घटः । इत्यादौ सुबन्तप्रयोगे तु विशेष्यविशेषणवाचकपदयोर्विरुद्धविभक्त्यन्तत्वे ह्यऽभेदान्वयबोधो न भवति तथापि ' स्तोकं पचति । इत्यादौ तिङन्तप्रयोगे तु विशेष्यविशेषणवाचकपदयोर्विरुद्धविभक्त्यन्तत्वेप्यभेदान्वयबोधो भक्तीति पचतीतितिविभक्त्यपेक्षया विरुद्धविभक्त्या द्वितीययाऽवरुद्धेन स्तोकमितिपदेनोपस्थापितस्यापि स्तोकपदार्थस्य धात्वर्थीभूतपाकादावऽभेदेनान्वयो भवति-स्तोकाभिन्नः पाक इति, अभेदसंबन्धावच्छिन्नस्तोकत्वावच्छिन्नप्रकारतानिरूपितपाकत्वावच्छिन्नविशेष्यताकः शाब्दबोधः । तथा च यथा 'नीलो घटः । इत्यत्राभेदान्वये प्रथमान्तघ पदप्रथमान्तनीलपदयोः समभिव्याहारस्याकाङ्क्षात्वं तथा 'स्तोकं पचति' इत्यत्र द्वितीयान्तविशेषणवाचकस्तोकादिपदधातुपदयोःसमभिव्याहारस्याकाङ्क्षात्वं ज्ञेयम् । ननु क्रियाजन्यफलाश्रयत्वमेव कर्मत्वम्, एतादृशकर्मवाचकपदादेव द्वितीया भवति. अत्र च स्तोकपदार्थस्य पाकक्रियाजन्यफलाश्रयत्वमेव नास्ति धात्वर्थपाकेऽभेदेनान्वयस्वीकारादिति स्तोकपदाद् द्वितीया कथमत्र प्रावत्याशङ्कमाह-नियाविशेषणेति तत्र' स्तोकं पचति' इत्यादिवाक्यघटकस्तोकपैदस्यार्थे कर्मत्वातिदेशात्-कर्मत्वोपचारात, औपचारिकं यत कर्मत्वं तदाश्रित्य द्वितीया जायते इत्यर्थः । नन्वेवम् स्तोकः पाकः .. ..... नात स्तोकपदार्थ-त्रापि पाकेन धात्वर्थेनाभेदान्वयस्वीकारात् । ननु प्रत्ययार्थस्यात्र प्राधान्येन तत्रैव स्तोकदार्थान्ययो भविष्यति न धात्वर्थे, क्रियाविशेषणवाचकपदाद् द्वितीया तु तत्र भवति मत्र क्रियाविशेषणस्य धात्वर्थेऽभेदान्वयः स्यादित्याशङ्कयाह- भावेति, भाववाचककृदन्तप्रत्ययानां साधुत्वमात्रार्थकत्वेन तत्र' स्तोकः पाकः' इत्यादावपि धातुनैव पाकाद्यर्थः प्रतिपाद्यते न तु प्रत्ययेन येन प्रत्ययार्थपाकादौ विशेषणस्यान्वयः स्यात् । अयं भावः पाकः' इत्यत्र धातुनापि पाकक्रियैव प्रतिपाद्यते भावार्थकघञापि पाकक्रियेव प्रतिपादनीया " उक्तार्थानामप्रयोगः " इतिन्यायेनैकस्यैव पाकस्य द्विरभिधानं तु न संभवतीति धातुनैव पाकः प्रतिपाद्यते प्रत्ययस्य साधुस्वार्थकावमेव स्त्रीक्रियते, न च विनिगमनाविरहात् प्रत्ययेनैव पाकः प्रतिपाद्यते न धातुनेति वाच्यम् , अनेकभावार्थकप्रत्ययानां प्रकृतिभूतधात्वर्थक्रिमायां शक्तिकल्पने गौरवात. धातोस्त्वगत्या क्रियायां शक्तिः स्वीकार्यवेति भावार्थप्रत्ययस्थलेपि "Aho Shrutgyanam" Page #44 -------------------------------------------------------------------------- ________________ सादर्श: [ प्रथमाकारकेधासुनैव तत्र पाकादिप्रतिपादनादितिवाच्यम्, क्रियापदस्य तत्र सार्थकप्रत्ययान्तधातूपस्थाप्यार्थपरत्वात्। 'स्तोकं स्थीयते'इत्यादावाऽरख्यातस्यापि वर्तमानत्वार्थकतया सार्थकत्वात् । न च वर्तमानत्वाद्यविवक्षायां द्वितीयानुपपत्तिरितिवाच्यम्, वर्तमानत्वादिविवक्षास्थल इवार्थबोधप्रयोजकाकाङ्क्षाशालित्वेनैव तदविवक्षास्थलेपि भावाख्यातस्यार्थवत्वात्।। केचित्तु- धातोरिव घजन्तस्यापि पाकादौ शक्तिरुपेयते, अन्यथा सुब्बिभत्यर्थसंख्याकर्मत्वादीनां तत्र पाकादावन्वयानुपपत्ते:- " प्रकृत्यान्वितस्वार्थधातोरेव पाकादिक्रियाबोधकत्वं युक्तं न प्रत्ययस्येति 'स्तोकः पाकः ' इत्यत्रापि स्तोकपदार्थ धात्वर्थे एवाभेदान्वयात् स्तोकपदाद् द्वित्तीयाः स्यादेवेत्याशङ्कयाह- न चैवमिति । परिहारहेतु. माह-क्रियापदस्येति । तत्र" क्रियाविशेषणानां क्लीबत्वं कर्मत्वं च " इत्यनुशासने क्रिया पदस्य सार्थकप्रत्ययान्तधातूपस्थाप्यक्रियापरत्वादत्र च घनः साधुत्वमात्रार्थकत्वेन सार्थकत्वाभाः वात् तदन्तधातूपस्थाप्यपाकक्रियायां स्तोकपदार्थस्य विशेषणत्वेपि न स्तोकपदाद् द्वितीया भवति 'स्तोकं पचति । इत्यादौ तु तिष्प्रत्ययस्य सार्थकत्वेन तदन्तधातूपस्थाप्यपाकक्रियायां स्तोकपदार्थस्य विशेषणत्वेन स्तोकपदाद् द्वितीया भवतीत्यर्थः । ननु यदि भावार्थकप्रत्ययानां न सार्थत्वं तदा स्तोकं स्थीयते' इत्यत्राऽऽख्यातप्रत्ययस्यापि भावार्थकत्वेन सार्थत्वं न स्यादिति स्तोकप: दात् कथं द्वितीया प्राप्तेत्याशङ्कयाह- स्तोकमिति, ' स्तोकं स्थीयते' इत्यादावण्याख्यातप्रत्या यस्य वर्तमानकालबोधकत्वेन सार्थकत्वमस्त्येवेति न द्वितीयाऽनुपपत्तिरित्यर्थः । ननु यत्र काल विवक्षा न भवति तत्रापि भावाख्यातप्रत्ययो भवतीति वर्तमानकालाविवक्षायाम् ' स्तोकं स्थीयते इत्यादी वाख्यातस्य सार्थकत्वं न संभवतीति द्वितीयापि न स्यादित्याशङ्कयाह-न चेलि. परिहारहेतुमाह- वर्तमानत्वादीति, तिङ्भावाख्यातप्रत्यये वर्तमानत्वबोधनस्य स्वरूपयोग्यता त्वत्येव- विवक्षायां सत्यां वर्तमानत्वविषयकबोधोदयादिति तादृशस्वरूपयोग्यतामादायैव सार्थ, कत्वोपपत्तरित्यर्थः । तत्-वर्तमानत्यादि । एवं च 'मर्थबोधानुकूलाकाङ्क्षापर्याप्यधिकरण भूतप्रत्ययप्रकृतिभूतधातुवाच्यक्रियामिष्ठविशेष्यतानिरूपिताऽभेदसंबन्धावच्छिन्नकर्मत्वप्रयोजकपदाद्र द्वितीया भवति 'इति नियमः प्रातस्तथा च ' स्तोकं पचति' स्तोकं स्थीयते' इत्यादौ तिम प्रत्ययस्य सार्थकत्वेनार्थबोधानुकूलाकाङ्क्षापर्यायधिकरणत्वात् तत्प्रकृतिभूतधातुवाच्यपाकक्रिया निष्ठविशेष्यतानिरूपिताभेदसंबन्धावच्छिन्नकर्मत्वस्य प्रयोजकं स्तोकपदमिति स्तोकपदादत्र द्वितीय प्राप्ता । स्तोकः पाकः' इत्यत्र च धप्रत्ययस्य सार्थकत्वाभावान स्तोकपदाद् द्वितीया संभवति भावार्थकृत्प्रत्ययानां यत्प्रयोगसाधुत्वमात्रार्थकत्वमुपगम्यानर्थकत्वमुक्तं तत्र कस्यचिन्मुखेर प्रत्यवतिष्ठते- कैचिदित्यादिना, ( ३८) वदन्तीतिपर्यन्तम् । यथा धातो; पाकादौ स य 'काया र इत्यत्र घमन्तस्यापि पाके शक्तिः स्वीकार्यैव । विपक्षे बाधकमाह- अन्यथे घनन्तपाकपदस्य पाके शक्तिर्न स्यात्तदा तत्र- 'पाकः । इति धान्तप्रयोगे पाका "Aho Shrutgyanam" Page #45 -------------------------------------------------------------------------- ________________ विभक्त्यर्थान्वयवि० ] व्युत्पत्तिवादः । ( ३३ ) बोधकत्वं प्रत्ययानाम् ” इतिव्युत्पत्तेः, धातूनां च सुब्विभक्त्यप्रकृतित्वात् । प्रकृत्येक देशार्थेपि प्रत्ययार्थान्वयोपगमे ? ' पचन्तं पश्यति ' इत्यादित: 'पचमानं पश्यति' इत्यादितश्च पाकादौ द्वितीयाद्यर्थकर्मत्वाद्यन्वयबोधप्रसङ्गात् । एकविशेषणत्वेनोपस्थितस्यान्यत्रविशेषणत्वेनान्वयस्याव्युत्पन्नतया तत्र प्रत्थयार्थविशेषणपाकादेर्न कर्मत्वे विशेषणतयाऽन्वय इति चत् ?, तथापि पाकादिविशेपणतया सुबर्थ संख्याया अन्वयसंभवात् यत्र पाककर्त्रादर्द्वित्वादिकं बाधितं पाका कृत्यर्थभूत संख्या कर्मत्वादीनामन्वयो न स्यात् । अत्र हेतुमाह- प्रकृत्यर्थेति - प्रत्ययानां स्वप्रकृयर्थविशिष्टस्वार्थबोधकत्वमस्ति " प्रकृतिप्रत्ययौ सहार्थ ब्रूतः " इतियायद् यथा f घटं कुरु इत्यत्र द्वितीयायाः स्वप्रकृत्यर्थ घट विशिष्टकर्मत्वबोधकत्वमस्ति न तु घटाऽनन्वित कर्मत्वबोध करवामिअर्थः तथा च यदि घञन्तपाकपदस्य पाके शक्तिर्न स्यात् किंतु घञः साधुत्वमात्रार्थकत्वं स्यात् विलस्य धातोरेव पाके शक्तिः स्यात्तदा सुन्निभक्त्यर्थसंख्याकर्मत्वादीनां पाकेनान्वयो न स्याद् यतः प्रत्ययानां स्वप्रकृत्यर्थान्वितस्त्रार्थबोधकत्व नियमोस्तीति सुप्रप्रत्ययेनापि स्वप्रकृत्यर्थान्वितानामेव स्वार्थभूतसंख्या कर्मत्वादीनां बोधनं कर्तव्यं प्रकृतित्वं चाव्यवधानेन पूर्ववर्तित्वं न च पचादिधानां सुब्विभक्तिप्रकृतित्वमस्ति घञादिना व्यवधानात् यस्य च घञः सुब्विभक्तिप्रकृतित्वं तस्यानर्थकत्वाश्रयणादित्यर्थः । ननु प्रत्ययानामनुभवबलात् प्रकृतितदेकदेशार्थान्यतरान्वितस्वार्थबोधकत्वं कल्पयामस्तथा च , पाक: इत्यत्र सुब्विभक्तिप्रकृत्येक देशार्थभूतेपि धात्वर्थे पाके संख्याकर्मत्वादीनामन्वयो भविष्यतीत्याशङ्कयाह- प्रकृत्येकदेशार्थेपीति, एवं हि 6 पचन्तं नश्यति' इत्यत्रापि विवक्षासत्त्वे प्रकृत्येक देशार्थे पाके द्वितीयार्थ कर्मत्वस्यान्वयः स्यान्न तु प्रत्यपार्थे पाककर्तरीति पाककर्मकमेव दर्शनं स्यान्न तु पाककर्तृकर्मकम् न चैतदिष्टमिति न प्रकृत्येकदेशार्थे प्रत्ययार्थान्वयो भवति तथा च पाक इत्यत्रापि धात्वर्थपाके कर्मत्वाद्यन्वयनुपपन्न इति तदन्वयार्थ घञन्तस्य विशिष्टस्य पाके शक्तिः स्वीकार्या तथा च ' पाकः' इत्यत्र घञन्तपासुब्विभक्तिप्रकृतित्वेन तदर्थीभूतपाके सुत्रिभक्त्यर्थ संख्या कर्मत्वादीनामन्वये न 6 कपदस्य कोपि विरोधः । > ननु 'पचन्तं पश्यति' इत्यादी शतृप्रत्ययार्थे कर्तरि पाकस्य विशेषणत्वेनान्वयो जातोस्ति कत्र विशेष गत्वेनोपस्थितस्य चान्यत्र विशेषणत्वेनान्वयो नैव भवतीति पाकस्य कथं सुब्विभक्त्यकर्मत्वेऽन्वयः स्यादित्याशङ्कते - एकेति । तत्र = ' पचन्तं पश्यति' इत्यादिसार्थप्रत्ययान्तप्र-, योगे । कर्मत्वरूप प्रत्ययार्थत्वेन प्राधान्यात् तत्र प्रकृत्यर्थ पाकादीनामन्वयस्य योग्यत्वात् तत्परहारः कृत इतिभावः । उक्तरीत्या पाकादी कर्मव्यान्वयवारणे कृतेपि संख्याद्यन्त्रयापत्ति प्रतिपादयति- तथापीत, प्रकृत्येकदेशार्थे प्रत्ययार्थान्वयपगमे एकदेशार्थे पाकादौ सुबर्थ संख्याया अन्यो भविष्यत्येव तथा च यत्रक एव पाककर्ता पाकद्वयं करोति तत्र द्विश्वसंख्यायाः प्रकृत्ये • "Aho Shrutgyanam" Page #46 -------------------------------------------------------------------------- ________________ ( ३४ ) सादर्श: [ प्रथमाकारके देश्व तदबाधितं तत्र 'पचन्तौ पश्यति' 'पचमानों पश्याते' इत्यादिप्रयोगप्रसक्रस्य दुर्वारत्वात् । धातूपस्थाप्यार्थे सुबर्थान्वयबोधं प्रति तत्तद्वातूत्तरप्रत्ययधर्मिकfifaeपरत्वज्ञानस्य प्रतिबन्धकतामुपगम्यैतादृशातिप्रसङ्गवारणे च गौरवात् । एवम्- 'शोभनं पचनम्' इत्यादी धातुमात्रेण पाकाद्युपस्थितौ च तत्र शोभनाद्यभेदान्वयबोधानुपपत्तिः- विशेषणविभक्तिसजातीयविभक्तिप्रकृत्यनुपस्थाव्यत्वात् । कदेशार्थे पाकेऽन्वयसंभवात् 'पचन्तौ पश्यति' इत्यादिप्रयोगः स्यादेव । न चैव भवति किं तु यत्र द्वौ पाककर्तारौ त्रतस्तत्रैव 'पचन्तौ पश्यति' इति प्रयोगो भवति तस्मात् प्रकृत्येकदेशार्थे प्रत्ययार्थान्वयो न भवतीति घञन्तस्य विशिष्टस्य पाकादी शक्तिरुपेया तथा च घञन्तस्य विभक्तिप्रकृतित्वेन विशिष्टार्थभूते पाके सुव्विभक्त्यर्थ संख्या कर्मत्वादीनामन्वयः संभवत्येव । ननु प्रत्ययार्थ निष्ठप्रकारता निरूपितचात्वर्थनिष्ठविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तत्तद्वातूतरप्रत्ययधर्मिककिंचिदर्थपरत्वज्ञानं प्रतिबन्धकमित्येवं प्रतिबध्यप्रतिबन्धकभावं कल्पयिष्या मस्तथा च 'पचन्तं पश्यति' 'पचन्तौ पश्यति' इत्यादौ पचधातूत्तरवर्तमानस्य शतृप्रत्ययस्य कर्तरि शक्तत्वेन तदर्थतया शतृप्रत्ययस्य कर्तृत्वरूपार्थपरत्वज्ञानमेव प्रत्ययार्थसंख्यादीनां धात्वपाकादौ विशेषणतयान्वयबोधे प्रतिबन्धकं भविष्यतीति नात्र प्रकृत्येकदेशार्थपाकादौ प्रत्ययार्थसंख्यादीनामन्त्रयापत्तिर्दोष: 'पाकः' इत्यादि भावार्थकृत्प्रत्ययस्थले तु भावार्थकृत्प्रत्ययानां साधुत्वमात्रार्थकत्वेन निरर्थकत्वाश्रयणात् किंचिदर्थपरत्यज्ञानमेत्र न जायते इति प्रतिबन्धकाभावात प्रत्ययार्थ संख्या कर्मत्वादीनां धात्वर्थपाकादौ विशेषणतयाऽन्वयबोधे न काचिदनुपपत्तिरिति कृतं वन्तस्य पाकादौ शक्तिस्वीकारेणेत्याशङ्क्याह- धातूपस्थाप्येति, एवं नवीन प्रतिबध्यप्रतिबन्धकभावकल्पनरूपमेव गौरवं भविष्यति तस्माद् घञन्तस्य पाकादौ शक्तिः स्वीकार्या | प्रत्ययार्थानां प्रत्येक देशार्यान्वयश्च न स्वीकार्य इत्यर्थः । यथा 'पाकः' इत्यत्र वनन्तस्य पाके शक्तिः स्वीकार्या तथा 'पचनम्' इत्यत्रापि ल्युडऽन्तस्यैव पाके शक्तिः स्वीकार्या न तु धातुमात्रस्येत्याह - एवमिति, यदि ल्युडेन्तस्य पाके शक्तिर्न स्वीक्रियेत किं तु धातुमात्रेण पाकोपस्थितिः स्यात्तदा यथा 'पाकः' इत्यत्र धातुमात्रेणोपस्थि तपाके संख्याकर्मत्वाद्यन्वयस्यानुपपत्तिरस्ति तथात्रापि धातुमात्रोपस्थितपाके अभेदसंबन्धेन शो नपदार्थान्वयो न स्यादेवेत्यर्थः । उक्ते हेतुमाह - विशेषणेति, विशेष्यविशेषणयोरभेदसंबन्धेन शाब्दबोधं प्रति सजातीयविभक्तिप्रकृत्युपस्थाप्यत्वं हेतुरस्ति तथा च विशेष्यस्य विशेषण विभक्तिसजातीयविभक्तिप्रकृत्युपस्याप्यत्वमपेक्ष्यते अत्र च पाकपदार्थस्य न विभक्तिप्रकृत्युपस्थाप्यत्वम् 'पचनम्' इत्यत्र पचनेतिल्युडन्तस्यैव विभक्तिप्रकृतित्वेन पाकोपस्थापकस्य धातुमात्रस्य विम. क्त्यप्रकृतिस्वात् ल्युटा व्यवधानात्. विभक्त्यप्रकृतिभूतपच्धातुना पाकस्योपस्थापितत्वादित्यर्थः । "Aho Shrutgyanam" Page #47 -------------------------------------------------------------------------- ________________ सभेदान्वयवि.] व्युत्पत्तिवादः। प्रकृत्येकदेशसाधारणताहशविभक्तिप्रकृतित्वस्य प्रयोजकत्वे ? तत्र ल्युडादेरधिकरणपरत्वेपि तथाविधान्वयबोधापत्तेः । कस्यचित् प्रतिबन्धकतां कल्प: यित्वा तद्वारणे च गौरवात् । __न चैवम्.- उपकुम्भार्धपिप्पल्यादिरूपपूर्वपदार्थप्रधानसमासपदात कुम्भसमीपपिप्पल्यर्धादौ विभक्त्यर्थान्वयस्य प्रातिपदिकान्तरार्थाऽभेदान्वयस्य चानुपपत्तिःपूर्वपदस्य समासोत्तरविभक्तपऽप्रकृतित्वादिति वाच्यम्, तदनुरोधेनैव तत्र कुम्भ ननु प्रत्ययविधावुद्देश्यत्वं हि प्रकृतित्वं तच्च पचनमित्यत्र प्रत्ययभागे इव धातुभागेप्यस्त्येवेति कृतितदेकदेशसाधारणं यत् तादृश-विशेषगविभक्तिसजातीयविभक्तिप्रकृतित्वं तदेव विशेष्यविविगयोरभेदान्वयप्रयोजक तथा चात्र धातुभागेप्युक्तप्रकृतित्वस्य सत्त्वेन प्रकृतिभूतधातूपस्थाप्य ने लोभनपदार्थाभेदान्वये न काचिदनुपपत्तिरित्याशझ्याह-प्रकृत्येकेति । अत्र दोषमाहपति । ... -'शोभनं पचनम्' इत्यत्र यद्यऽधिकरणार्थंक ल्युट् स्यात्तदापि तथाविधान्वयःकिन झोभनपदार्थाभेदान्वयः स्यात् न त्वधिकरणेनेत्यर्थः, इष्टं च तदाधिकरणेनेव शोधनपदार्थान्वय ति ल्युडन्तस्यैव पाके शक्तिः स्वीकार्य तथा चाधिकरणार्थकल्युटस्थले लास्याधिकरणे एवं तिम्बाकारदिऽधिकरणेनैव शोभनपदार्थान्वयो भविष्यति न पाकादौ । नन्वन्नापि पूर्ववत् ‘पदातरार्थना. नेरूपितधास्वर्थनिष्टविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रतितत्तद्धातूत्तर"यय :कचिदर्थपरत्वज्ञानस्य प्रतिबन्धकत्वं कल्पयिष्यामस्तथा चाधिकरणटल्युस्थले ल्युटो. भरणार्थपरत्वज्ञानं शोभनपदार्थस्य धात्वर्थपाकादावभेदान्वये प्रतिबन्धकं भविष्यति, भावार्थत्यु ले तु भावकृतां निरर्थकत्वाश्रयणेन धातूत्तरवर्तिव्युटोऽर्थपरत्वज्ञानस्य प्रतिबन्धकस्याभावात भनादार्थस्य धात्वर्थपाकेनाभेदान्वये न काचिदनुपपत्तिरित्याशक्याह- कस्यचिदिति । एवं नभिप्रतिबध्यप्रतिबन्धकमावकल्पनरूपमेय गौरवं प्राप्तमित्यर्थः । तथा च पचनमितिल्युडन्तचैवत शामिः स्वीकार्या। मनु एवम् प्रत्ययानां स्वप्रकृत्यर्थविशिष्टस्वार्थबोधकत्वनियमे तथा स्वाव्यवहितपूर्ववर्तित्वमेव "अचमिति स्वीकारे च ' उपकुम्भम् , ' अर्धपिप्पली । इत्यादिपूर्वपदार्थप्रधानसमासप्रयोगे विपशन समीपार्धादिना विभक्त्यर्थकर्मत्वादीनां तथा 'सुन्दरमुपकुम्भम् ' इत्यादौ पूर्वपदार्थेन पिदिका तरार्थस्य सुन्दरादेरभेदसंबन्धेनान्वयो न स्यात्, अत्र हेतुमाह-पूर्वपदस्येति, पूर्व अपदस्थाऽर्चपदस्य च समासोत्तरविभक्तिप्रकृतित्वं नास्ति कुम्भादिपदेन व्यवधात, तित्वं चान्यवहितपूर्ववर्तिन एव, प्रत्ययेन च. स्वार्थकर्मस्वादीनां स्वप्रकृत्यर्थेनैव शिष्टयं बोधनीयमिति पूर्वपदार्थे प्रत्ययान्वियामुपपत्तिः, " पदार्थः पदार्थेनान्वेत्ति न तु गर्थकदेशेन " इतिनियमेन च सुन्दरपदार्थस्य पूर्वपदार्थेप्यऽन्वयो न संभवति- तस्य पदार्थैकदेवादिति' उपकुम्भम् । इत्यादौ तु विशिष्टस्यैव समासस्य कुम्भसमीपादौ शक्तिः स्वीकार्या तथा कुम्भसमीपस्य पदार्थत्वेन तत्राभेदेन पदार्थान्तरस्य सुन्दरपदार्थस्यान्वये नानुपपत्तिः, तथा "Aho Shrutgyanam" Page #48 -------------------------------------------------------------------------- ________________ मादर्श: [प्रथमाकारकेपिप्पल्यादिपदानामेव कुम्भसमीपपिप्पल्यर्धादौ लक्षणायाः पूर्वपदस्य तात्पर्यग्रहमात्रोपयोगितायाश्च स्वीकारात् ।' वस्तुतस्तु-तत्रोत्तरपदार्थविशेषितपूर्वपदार्थसमीपार्धादी प्रत्ययान्वयबोधे तादृशसमस्तपदप्रत्ययपदयोरऽव्यवहितपूर्वापरीभावोप्याकाङ्क्षा । एवं तत्र प्रातिपदिकान्तरार्थाभेदान्वयबोधे समानविभक्तिकयोस्ताहशसमस्तपदपदान्तरयोश्च समभिव्याहारोप्याकाङ्क्षा तथा सत्यतिप्रसङ्गविरहात् । प्रत्ययार्थान्वयेपि नानुपपत्तिः- उपकुम्भपदस्य विशिष्टस्य विभक्तिप्रकृतित्वाद् विशिष्टस्यैव कुम्भसमीपार्थोंपस्थापकत्वादित्याशङ्कयाह- न चैवमिति । परिहारहेतुमाह- तदनुरोधेनेति, उक्तदोघप्राप्त्यनुरोधेनैव तत्र' उपकुम्भम् । इत्यादौ कुम्भपदस्य कुम्भसमीपे लक्षणा उपेतिपूर्वपदं तात्पर्यग्राहकमिति स्वीक्रियते, तथा चात्र कुम्भपदस्य विभक्तिप्रकृतित्वमस्त्येवाव्यवधानेन पूर्वव. तित्वात् कुम्भसमीपोपि तदर्थ एवेति तत्र प्रत्ययार्थान्वये न काप्यनुपपत्तिरिति कृतं समासे-समस्तस्य विशिष्टस्य शक्तिस्वीकारेणेत्यर्थः । एवम् — अर्धपिप्पली । इत्यत्रापि । इदानीं कुम्भसमीपार्थस्य पदार्थत्वमेव न तु पदार्थैकदेशस्वमिति तत्र सुन्दरादिपदार्थान्तरान्वयेप्यनुपपत्तिर्नास्तीत्यर्थः । शाब्दबोधौपयिकाकाङ्क्षासत्त्वे शाब्दबोधानुपपत्तिर्न भवतीति 'उपकुम्भम्' इत्यादौ प्रत्ययार्थस्य पदार्थान्तरस्य चान्वयबोधौपयिकाकाङ्क्षास्वरूपमाह-- वस्तुत इत्यादिना । उत्तरपदार्थेन कुम्भादिना विशिष्टो यः पूर्वपदार्थः समीपादिस्तत्र प्रत्ययार्थान्वयबोधे तादृश=' उपकुम्मम् इत्यादिसमस्तपदप्रत्ययपदयोश्च यः पूर्वापरीभावः स एवाकाङ्क्षा, तस्य चात्र सत्त्वेन पूर्वपदा. प्रत्ययार्थान्वये न काप्यनुपपत्तिः, तथा चात्र ' प्रत्ययार्थनिष्ठप्रकारतानिरूपितपूर्वपदार्थनिष्ठ विशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्न प्रति विभक्त्यव्यवहितपूर्ववर्तिकुम्भपदाव्यवहितपूर्ववर्युप पदज्ञानं कारणम् । आकाङ्क्षा )' इति वक्तव्यम् । पदार्थान्तरान्वयप्रकारमाह- एवमिति । तत्र पूर्वपदार्थे । अत्र च 'अभेदसंबन्धावच्छिन्नसुन्दरत्वाद्यवच्छिन्नप्रकारतानिरूपितसमस्तों पकुम्भादिपदार्थनिष्ठविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति समानविभक्तिकयोः सुन्दरादिपदोपकुम्भादिपदयोः सममिव्याहार आकाङ्क्षा । इत्येवमाकाङ्क्षास्वरूपं वक्तव्यम् । समानविभक्तिकयोस्तादृशसमस्तपदपदान्तरयोः सुन्दरमुपकुम्भम् । इत्यनयोः। तथासति उक्तास्वरूपाकाङ्क्षयोर्नियामकत्वस्वीकारे सति, अतिप्रसङ्गस्य-पूर्वपदार्थे प्रत्ययार्थान्क्यस्य पदान्तरार्थान्वयस्यानुपपत्तेरभावात् । किं वाऽतिप्रसङ्गस्य नाम विशिष्टे समासे शक्तिस्वीकाररूपातिप्रसङ्गस्याभावादित्यर्थः। • ननु यथा त्वया 'उपकुम्भम् ' इत्यादौ विशिष्टे समासे शक्तिमस्वीकृत्योक्ताकाक्षास्वरूपं च परिकल्प्य तेन पूर्वपदार्थे प्रत्ययार्थस्य पदान्तरार्थस्य चान्वय उपपादितस्तथा 'पाकः' इत्यादा "Aho Shrutgyanam" Page #49 -------------------------------------------------------------------------- ________________ अकाङ्क्षावि० ] व्युत्पत्तिवादः । (३७) धात्वर्थपाकादौ प्रत्ययार्थान्वयबोधे प्रातिपदिकान्तरार्थाऽभेदान्वयबोधे च ल्युघञाद्यन्तसमुदायप्रत्यययोरानुपूर्वीरूपाऽव्यवहितपूर्वापरीभावस्य समानविभक्तियस्ता समुदाय पदपदान्तरयोः समभिव्याहारस्य चाकाङ्क्षत्वोपगमे ? दशिताधिकरणार्थ कल्युट्प्रत्ययस्थलीयातिप्रसङ्गस्य दुरुद्धरतया न तत्संभवः । 7 " C अथ घञन्तसमुदायस्य पाकाद्यर्यकत्वे घञन्तसमुदायस्य संयोगविभागत्वादिविशिष्ट वाचकत्वं व्युत्पाद्य संयोगविभागादिपदानां नैमित्तिकसंज्ञात्वनिराकaf भावार्थदन्तस्थले विशिष्टे घञन्ते शक्तिर्न स्वीकार्य किं तु घञो निरर्थकत्वमाश्रिय धातोदेव पाकादौ शक्तिः स्वीकार्या तत्र च धात्वर्थपाकादौ प्रत्ययार्थान्वयबोधे ल्युइघञाद्यन्तसमुदायस्य पाकः पचनम् ' इत्यस्य प्रत्ययस्य च विभक्तेर्यः पूर्वापरीभाव: स एवाकाङ्क्षा, पदार्थान्तरान्वयबोधे च समानविभक्तिकयोस्तादृशसमुदायपदपदान्तरयो:--' शोभनः पाकः ' शोभनं बचनम् ' इत्याद्योः समभिव्याहार एवाकाङ्क्षा, उक्तप्रयोगेषु चैतादृशाकाङ्क्षयोः सत्त्वेन धात्वर्थपाकादौ प्रत्ययार्थान्वयस्य पदार्थान्तरान्वयस्य च न काप्यनुपपत्तिरिति कृतं घञाद्यन्तस्य पाकादौ शक्तिस्वीकारेण तथा च- * प्रत्ययार्थनिष्ठप्रकारतानिरूपितधात्वर्थ पाकादिनिष्टविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति ल्युड्ङ्घनाद्यन्तसमुदायस्य विभक्त्यव्यवहितपूर्ववर्तित्वज्ञानमा - काङ्क्षारूपं कारणम् अमेदसंबन्धावच्छिन्नपदार्थान्तरत्वा सुन्दरत्वा प्रकारता - .निरूपितधात्वर्थपाकादिनिष्ठविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति ल्युड्ङ्घनाद्यन्तसमुदायस्य पाक इत्यादेर्विशेषणवाचक सुन्दरादिपदस्य च समानविभक्तिकत्वज्ञानमाकाङ्क्षास्वरूपं कारणम् ' इतिवक्तव्यमित्याशङ्कयाह - धात्वर्थेति । उक्ते दोषमाह - दर्शितेति, उक्तस्य पूर्वापरीभाचस्य समभिव्याहारस्य च धात्वर्थपाकादौ प्रत्ययार्थान्वयबोधे पदार्थान्तरान्चयबोधे चाकाङ्क्षाखोपगमे हि यत्राधिकरणार्थको ल्युट् भवेत्तत्राप्युक्ता काङ्क्षास्वरूपसत्त्वेन प्रत्ययार्थस्य पदार्थान्तरस्य च धात्वर्थपाकादावेवान्वयापत्तिः स्यान्न तु प्रत्ययार्थे पाकाधिकरणे इष्टश्च तत्र पाकाधिकरणे एवान्वय इति न तत्संभवः = ' पाकः ' इत्यादौ उक्तस्य पूर्वापरीभावस्य समभिव्याहारस्य चाऽऽकाङ्क्षात्वसंभवः । तथा च पाक: ' इत्यादौ तु घनाद्यन्तस्यैव पाकादौ शक्तिस्वीकारेणाऽधिकरणार्थ कल्युट्स्थले पाकाधिकरणे प्रत्ययार्थादीनामन्वये न काप्यनुपपत्तिः । उपकुम्भम् ' इत्यत्र च कुम्भपदस्यैव कुम्भसमीपे लक्षणास्वीकारेण तत्र प्रत्ययार्थदीनामन्वये न काप्यनुपपत्तिरित्यर्थः । 家 " , पाक: ' इत्यादी घञन्तस्यैव पाकादौ शक्तिस्वीकारे दीधितिग्रन्थविरोध प्रदर्शयतिअथेति, दीधितिकारेण हि घञन्तस्य संयोगपदस्य विभागपदस्य च संयोगत्वविभागत्वविशिष्टवाचकत्वं नास्तीति व्युत्पाद्य संयोगविभागादिपदानां नैमित्तिकसंज्ञात्वं निराकृतम्, डित्थकपित्थाया संज्ञा", यदृच्छासंज्ञा, घटपटाचा संज्ञा नैमित्तिकसंज्ञास्ति घटत्व पटत्वादिकं प्रवृत्तिनिमित्तं कृत्वा प्रवृत्तत्वात् एवं यदि घञन्तसंयोगविभागादिपदानामपि संयोगत्वविभागत्वाद्यवच्छिन्ने शक्तिः स्यात्तदा संयोगत्व विभागत्यादिकं प्रवृत्तिनिमित्तं कृत्वा प्रवृत्तत्वाद् "Aho Shrutgyanam" Page #50 -------------------------------------------------------------------------- ________________ ( ३८ ) सादर्श: [ प्रथमाकारके - रणदीधितिकृतां विरुद्धमितिचेत् ? का क्षतिः न हि कस्यचिद् ग्रन्थकृतो विपरीतलेखनं युक्तिबलाद्वस्तुसिद्धौ बाधकम् । एवं च यत्र धातुमात्रस्यैव पाकादौ तात्पर्यं तत्र तद्विशेषणवाचकपदाद् द्वितीमैव । यत्र तु कृदन्तसमुदायस्य पाकादौ तात्पर्यं तत्र तादृशपदं तथाविधकृदन्तसमुदायसमानविभक्तिकमेव । तदुक्तं कातन्त्र परिशिष्टकृता- " कथं स्तोक:पाकः ? कृदन्त विशेषणत्वात् ", धात्वर्थैकाधिकरण्ये तु ' स्तोकमोदनस्य पाकः इति स्यादेवेति वदन्ति । 6 : नैमित्तिकसंज्ञात्वं स्यात् न च संयोगविभागादिपदानां संयोगविभागत्वायवच्छिन्ने शक्तिरस्ति, अन्यथा-- संयुनक्ति संयुज्यते विभजते ' इत्यादी : संयोगविभागपदयोरभावेन संयोगविभागरूपार्थयोरुपस्थितिर्न स्यात् भवति चात्रापि संयोगविभागरूपार्थोपस्थितिरिति ' संयुनक्ति संयोगः विभजते विभाग: ' इत्यादौ सर्वत्रानुगतस्य धातोरेव : लाघवात् संयोगविभागादी शक्तिः स्वीकार्या न घञन्तसंयोगविभागपदयोरिति घञः साधुत्वमात्रार्थकत्वेन निरर्थकस्वमेवेति दीधितिकारस्यैतद्द्मन्यस्य चामिप्रायस्तथा च वन्तस्य पाकादौ शक्तिस्वीकारे उक्ता - प्रायदीधितिग्रन्थस्य विरोधः स्यात् संयोगादिपदानां पाकादिपदतुल्यत्वादित्यर्थः । उक्तविरोथे स्वक्षत्यभावमाह- केति । हेतुमाह- न हीति । युक्तिबलादितिपदस्य वस्तुसिद्ध इतिपदेनान्वयः, मया हि युक्तिवलेन घञन्तसमुदायस्यैव पाकादौ शक्तिः स्वीकार्येति साधितमिति तत्र दीधितिकारस्य संयोगादिपदानां नैमित्तिकसंज्ञात्वनिराकरणं बाधकं भवितुं नार्हतीत्यर्थः । एवं संयोंगादिपदेष्वपि घञन्तस्यैव संयोगाद्यर्थे शक्तिः स्वीकार्या । धातोरेव पाकादौ शक्तिर्न घञायन्तस्येति स्वीकारे ऽधिकरणल्युट् स्थले विशेषणीभूतशोभनादिपदार्थस्य पाके एवान्वयः स्यान्नाधिकरणे इति दोष: पूर्वमुक्तः स्मरणीयः । · " 7 ननु यदि वन्तसमुदायस्यैव पाकादौ शक्तिस्तदा विशेषणत्राचकस्तोकादिपदात् विशेष्यवापदोत्तर विभक्तिसजातीयविभक्तिप्राप्तिप्रसङ्गेन द्वितीयानुपपत्त्या ' स्तोकं पाकः इति नैव स्वाद् भवति चेत्याशङ्क्य के द्वितीया भवति क च न भवतीति निर्वक्ति एवं चेति । स्तोकं पाकः इत्यत्र धातोरेव पाके तात्पर्यम् = पाकोपस्थापकत्वमिति तद्विशेषणत्राचकपदात् धात्वर्थविशेषणवाचकस्तोकपदादू द्वितीया प्राप्तेत्यर्थः । यत्र च कृदन्तसमुदायस्य पाक इत्यादिपदस्य पाकोपस्थापकत्वं तत्र तादृशपदम् = विशेषणवाचकस्तोकादिपदं तथाविध = पाकाद्यर्थोपस्थान नक्शे यः कृदन्तसमुदायः पाकः ' इति तत्समानविभक्तिकं भवति यथा - ' स्तोकः पाकः ' इति तदाह - यत्र त्विति । अत्र प्रमाणमाह- तदुक्तमिति, स्तोकपदस्य कृदन्तपाकपद विशेषणत्वात् ' स्तोक : ' इतिप्रथमान्तप्रयोगो जात इत्यर्थः । धात्वर्थैकाधिकरण्ये धात्वर्थ सामानाधिकरण्ये =धात्वर्थीभूतपाकादिविशेषणत्वे तु ( धातुमात्रेण पाकोपस्थितौ तु ) द्वितीयापत्या ' स्तोक पाक: ' इत्यपि भवत्येवेत्याह- धात्वर्थेकेति । . , "Aho Shrutgyanam" Page #51 -------------------------------------------------------------------------- ________________ विभत्तयर्थसंख्याबोधवि० ] व्युत्पत्तिवादः । तदर्थकपदोत्तरविभक्त्या संख्याबोधनेऽभेदसंसर्गावच्छिन्नप्रकारताभिन्नतदर्थविषयता लिशाब्दबोधसामग्री अपेक्षिता, तादृशश्च बोधस्तदर्थविशेष्यकः तदर्थनिरूपितभेदान्वयविषयकश्च । 'नीलो घटौ ' इत्यादौ च विशेष्यवाचकपदोत्तर. विभक्त्यैव द्वित्वादिकं प्रत्याय्यते एवं च-क्रियाविशेषणवाचकपदोत्तरविभक्त्याऽबाधितयोरपिं द्वित्वबहुत्वयोः प्रत्यायनाऽसंभवात् तादृशपदोत्तरमौत्सर्गिकमेकवचनमेव भावाख्यातस्थलवदित्यवधेयम् ।। " केचित्तु " इत्यारभ्य “ इतिवदन्ति ': इतिपर्यन्तं परमतं प्रदर्थ यत् (पृ. १७) विशेषणविभक्तेः साधुत्वमानार्थकत्वोक्त्या विशेषणवाचकपदोत्तरविभक्त्यर्थसंख्यायाः शान्दबोधे भानं न भक्तीति व्यजितं तस्य वचनमात्रेण सिद्धयसंभवात् कार्यकारणभावमाह- तदर्थकेत्यादिना । यथा--'घटोस्ति' इत्यत्र तदर्थकं घटार्थकं पदम् 'घटः' इतिपदं तजन्यशाब्दबोधे घटे या विषयता भासते सा अभेदसंबन्धावच्छिन्नप्रकारताभिन्नैव भासते नीलादिवद् घटस्य कचिदम्यभेदसंबन्धेन प्रकारत्वाभावादिति घटपदोत्तरविभक्त्यर्थसंख्यायाः शाब्दब्रोधे भानं भवति 'एको घटः ''द्वौ घटौ ' इत्यादि । 'नीलो घटः । इत्यत्र च नीले प्रकारता वर्तते साप्यमेदसंबन्धावच्छिन्नैव नीलस्याभेदसंबन्धेन घटे प्रकारत्वादिति — नीलो घटः । इति वाक्यजन्यशाब्दबोधे भासमाना नीलविषयता ह्यऽभेदसंबन्धावच्छिन्नप्रकारतामिन्ना नास्तीति नीलपदोत्तरविभक्त्यर्थसंख्यायाः शाब्दबोधे भानं न भवतीत्यर्थः । तथा च-' किंचिदर्थनिष्ठविशेष्यतानिरूपितामेदसंबन्धावच्छिन्नप्रकारताश्रयत्वज्ञानं तद्वाचकपदोत्तरविपक्त्यर्थसंख्याबोधे प्रतिबन्धकम् ' इतिवक्त. व्यम् । बोधस्वरूपमाह- तादशश्चेति । तादृशः विभक्त्यर्थसंख्यावगाहनशीलः। तदर्थविशे. ध्यकः संख्यावोधकविभक्तिप्रकृत्यर्थविशेष्यको भवति यथा- 'घटः । इत्यत्र, 'नीलो घटः । इत्यत्र च धटपदजन्यो घटविशेष्यकः । द्वितीयं बोधस्वरूपमाह- तदर्थनिरूपितेति, संख्याबोधकविभक्तिप्रकृत्यर्थनिरूपितो यो भेदस्तदन्ययविषयक इत्यर्थः । यथा- 'राज्ञः पुरुषः । इत्यत्र यपि पुरुषनिष्ठविशेष्यतानिरूपिता प्रकारतैव राज्ञि वर्तते तथापि राजनिष्ठा सा प्रकारताऽभेदन्धावच्छिन्ना नास्ति भेदसंबन्धेनैव राज्ञः पुरुषविशेषणत्वादिति राजपदोत्तरसूविभक्त्यर्थै कस्वसख्यायाः शाब्दबोधे भानं भवत्येव यथा- एकराजनिरूपितस्वत्ववान् पुरुषः । इति । तथा च 'राज्ञः पुरुषः : इतिवाक्यजन्यबोधो भेदसंबन्धविषयक एव- राजपुरुषयोरभेदभानाभावात् । प्रत्युदाहरणमाह- 'नीलो घटी' इति, अत्र नीलनिष्टप्रकारताया अभेदसंबन्धावच्छिन्नत्वान्नीम्पदोत्तरविभक्त्या द्वित्वं न प्रत्याय्यते किं तु घटपदोत्तरविभक्त्यैव । एवं चेति-संख्यानोधने झमेदसंबन्धावच्छिन्नप्रकारताभिन्नविषयताज्ञानस्य कारणत्वस्वीकारे क्रियाविशेषणानां च स्तोकादेनां क्रियायामभेदसंवन्धेनैव प्रकारत्योपगमेन तन्निष्ठप्रकारताया अभेदसंबन्धावच्छिन्नत्वात् क्रियाविशेषणवाचकस्तोकादिपदोत्तरविभक्त्यर्थसंख्यायाः शाब्दबोधे भानं नैव भवतीति तारशपदो. त्तरम्= क्रियाविशेषणवाचकस्तोकादिपदोत्तरं साधुत्वार्थमौत्सगिकमेकवचनमेव ' स्तोकं स्थीयते । "Aho Shrutgyanam" Page #52 -------------------------------------------------------------------------- ________________ ( ४० ) सादर्श: [ प्रथमा कारके - अभेदान्वयबोधश्च विरूपोपस्थितयोरेवेतिव्युत्पत्तिः - 'घंटो घटः ' ' दण्डवान् दण्डवान्' 'पाकं पचति' इत्यादौ घटत्वदण्डवस्वपाकत्वाद्यवच्छिन्ने तत्तद्रूपावच्छि नस्य तथाविधान्वयबोधानुदयात् । अथ तत्प्रयोजकसमानविभक्तिकत्वादेः सत्त्वात् कथं न तादृशबोध: ? । अत्राहुः - यादृशं फलं कचित् प्रसिद्धयति तादृशस्यैवापत्तिः संभवति क्लृप्तसामग्रीबलात् । यादृशं च सर्वथैवाप्रसिद्धं तादृशस्य चाऽऽपादकाऽप्रसिद्धेरापत्तिरशक्यैवेति घटत्वाद्यवच्छिन्नावेशेष्यताकाऽभेदसंसर्गकवटत्वाद्यवच्छिन्नप्रकारताकशाब्दबोधस्य कचिदप्यनुयात् कथं तदापत्तिः । इतिभावाख्यातस्थलवत् 'स्तोकं पाकः ' 'स्तोकं पचति' इत्येवं प्रयोक्तव्यमित्यर्थः । अबाधितयो - रिति यत्रक एव कर्ता पाकद्वयं पाकत्रयं वा करोति तत्र पाके यद्यपि द्वित्वहुवयोर्बाधो न भवति तथापि पाकादिक्रियाविशे षणवाचकस्तोकादिपदोत्तरद्विवचनादिविभक्त्या केनापि प्रकारेण पाकादिक्रियागत द्वित्वबहुत्वयोः प्रत्यायनं न संभवत्यनुभवविरोधादिति क्रियाविशेषणवाचकपदोतरमेकवचनमेव साधुत्वार्थं प्रयुज्यते । ननु यद्यमेदसंबन्धेनान्वये समानविभक्तिकत्वमेव प्रयोजकं तदा यथा 'नीलो घटः' इतिप्रयोगो भवति नीलवयोश्चाभेद संबन्धेनान्वयो भवति तथा 'घटो घटः' इत्यपि प्रयोगः स्याद् घटस्य स्वात्मन्यभेदसंबन्धेनान्ययोपि स्यात्तत्र घटस्य स्वात्मना मेदाभावाद् योग्यताप्यस्त्येवेत्याशङ्क्याह- अभेदान्वयेति । विरूपोपस्थितयो : = विरुद्धधर्माभ्यामुपस्थितयोरेवा मेदान्ययो भवति यथा-'नीलो घटः' इत्यत्र नीलवघटत्वाभ्यां विरुद्धधर्माभ्यामुपस्थितयोनीलघटयोः । ततद्रूपा - पि-प्रत्याद्यवन्नस्य । तथाविधान्वयः अभेदान्वयः । तथा च घटत्वावच्छिन्ने घट त्वावच्छिन्नस्याभेदसंवन्धेन शाब्दबोधो न भवतीति लब्धम् । एवं दण्डवत्त्वावच्छिन्ने दण्डवस्वावच्छिन्नस्य पाकत्वावच्छिन्ने पाकवावच्छिन्नस्य चामेदान्यवोच विज्ञेयः । 'पार्क पचति' इत्यत्रवाकपदेनानि पाक पाकनेत्र रूोगोपस्थितिर्भवति पचतिपदेनापि कर्तृविशेगतया पाकस्य योपस्थितिर्भवति सा पाकयेनैव रूपेण भवति पाकत्वेनोपस्थिते च पाकत्वेनोपस्थितस्याभेदान्वयबोधासंभवातू 'पाकं पचति' इति प्रयोगोपि न भवति । नवदान्यप्रयोजकस्य समानविभक्तिकत्वादेः सत्त्वात् कथं नाऽभेदान्वयबोवः कारणसामग्रीसत्त्वे कार्यावश्यंभावादित्याशङ्कते - अथेति । तत्प्रयोजक = अभेदान्वयप्रयोजक । तादृशबोधः= अभेदान्वयबोधः । उत्तरमाह - यादृशमिति । यथा तन्तुभ्यः पदस्योत्पत्तिरूपफलं भवतीति तन्त्यादिपोत्पादक सामग्रीबलात् पटरूपं फलं संभवति यादृशं च शशविषाणादिकं कचिदपि न प्रसिद्धं तदापादकस्यात्पप्रसिद्धेः तस्य शशविषाणादेरापत्तिरशक्यैव तथा चाsभेद संबन्धावच्छिघटत्वावच्छिन्नप्रकारता निरूपितवत्वावच्छिन्न विशेष्यताकः शाब्दबोधः कदापि कचिदपि न दृष्ट इति तदापत्तिरपि कथं स्यादित्यर्थः । अत्रापत्तिर्नाम तदभावप्रयोजकीभूताभावप्रतियोगिवि "Aho Shrutgyanam" Page #53 -------------------------------------------------------------------------- ________________ 'act घट इतिविवादः ] व्युत्पत्तिवादः । ( ४१ ) अथ 'घटो नीलघटः ' ' दण्डवान् रक्तदण्डवान्' इत्यादौ तादृशशाब्दबोधस्य प्रसिद्धि:- विधेयकोटावधिकावगाहिनः शाब्दबोधस्य नवीनैः स्वीकारादिति: चेत् ?, तर्हि घटावंशे विशेषणतावच्छेदकविधया नीलादिभाननियामकनीलाद्युपस्थितितात्पर्यज्ञानविशेषादिवटितैव सामग्री घटत्वावच्छिन्नविशेष्यकनीलघटत्वाद्यवच्छिन्नाभेदान्वयबोधप्रयोजिका, तदभावादेव 'घटो घटः' इत्यादिषु न तादृशशाब्दबोधापत्तिरिति केचित् । - या जिज्ञासा यथा दण्डाभावे घटाभावो भवतीति घटाभावप्रयोजकीभूतो यो दण्डाभावस्त-प्रतियोगिनो दण्डस्य जिज्ञासाऽऽरत्तिः । एवमत्र घटत्वावच्छिन्न प्रकारताकघटत्वावच्छिन्न विशेष्यताकशाब्दबोधस्यासंभवाद् योऽमात्र उक्तस्तत्प्रयोजकीभूताभावस्य यः प्रतियोगी तद्विषया या जिज्ञासा सेवापत्तिपदार्थः । किमऽभावप्रयुक्तः उक्तशाब्दबोधाभाव इति पूर्वपक्षिजिज्ञासा, सा च जिज्ञासा न संभवत्युक्तशाब्दबोधस्य सर्वयाऽप्रसिद्धत्वेन तत्कारणस्याप्यऽप्रसिद्धत्वात् सद्विषयाया एव जिज्ञासायाः संभवादित्यर्थः । ननु 'घटो नीलवट : ' ' दण्डवान् रक्तदण्डवान्' इत्यादौ घटे नीलघटाभेदान्वयावगाहनेन दण्डवति रक्तदण्डवदभेदान्वयावगाहनेन नवीनैर्विधेयकोटौ = विशेषण कोटावऽधिकावगाहिनः शाब्दबोधस्य स्वीकाराद् यथा- 'वटो नीलघट:' इत्यत्राऽभेद संबन्धावच्छिन्ननीलत्वावच्छिन्नघटत्वावच्छि प्रकारता निरूपितवटत्वावच्छिन्न विशेष्यताकः शाब्दबोधो भवति तत्र प्रकारतावच्छेदकं विशेष्यतावच्छेदकं चैकं घटत्वमेव तथा 'घटो घटः' इत्यत्रापि घटत्वमेव प्रकारतावच्छेदकं विशेष्यतावच्छेदकं चेति 'घटो घट:' इत्यनेनाप्यमेदसंबन्धावच्छिन्न घटत्वावच्छिन्न प्रकारता निरूपितवटत्वावच्छिन्नविशेष्यताकः शाब्दबोधः कथं न भवति, यथा च- 'दण्डवान् रक्तदण्डवान्' इत्यत्राइमेद संबन्धावच्छिन्न रक्तत्वावच्छिन्न दण्डवत्त्वावच्छिन्नप्रकारता निरूपितदण्डवत्त्वावच्छिन्न विशेष्यताकः शाब्दबोधो भवति प्रकारतावच्छेदकं विशेष्यतावच्छेदकं चैकं दण्डवत्त्वमेवेत्यादौ तादृशशाब्दबोधस्य = रकधर्नप्रकारताकविशेष्यताकशाब्दबोधस्य ( एकधर्मे गोपस्थितयोरप्यमेदान्वयबोधस्य ) प्रसिद्धिरस्येव तथा 'दण्डवान् दण्डवान्' इत्यत्रापि दण्डवत्त्वमेव प्रकारतावच्छेदकं विशेष्यतावच्छेदकं चेति 'दण्डवान् दण्डवान्' इत्यनेनाऽभेद संबन्धावच्छिन्नदण्डवत्त्वावच्छिन्नप्रकारता निरूपितदण्डवत्वावच्छिन्नविशेष्यताकः शाब्दबोधः कथं न भवतीत्याशङ्कते - अथेति । उत्तरमाह - तहति, 'घटो नीलवट:' इत्यत्र न घंटे शुद्धघटस्यामेदान्वयः किं तु नीलवटस्यैव तथा च घटे विशेषणीभूतो यो घटस्तत्र विशेषणीभूतो नीलपदार्थ इति विशेषगतावच्छेदकत्वेन नीलमानं भवति नीलपदार्थमानस्य नियामकं च नीलपदजन्यनीलोपस्थितिर्नील विषयक तात्पर्यज्ञानं च एतादृशनीलभान नियामकसामग्री सत्त्वे एव घटत्वावच्छिने नीलवटत्वावच्छिन्नस्याभेदसंबन्धेयो भवति तस्य मूलं च नीलपदसमभिव्याहार एव, 'घटो घटः' इत्यत्र च नीलपदाभावेन नीलमान नियामक सामथ्र्यभावात् तादृश = अभेदान्वयबोधो न भवति । एवमेव 'दण्डवान् दण्डवान्' इत्यत्रापि रक्तपदाभावेन रक्तमान नियामकसामग्र्यभावादभेदान्वयबोधो न भवतीत्यर्थः । "Aho Shrutgyanam" Page #54 -------------------------------------------------------------------------- ________________ (४२) सादर्श: [प्रथमाकारकेअथ द्रव्यत्वादी धर्मितावच्छेदकतासंसर्गेण प्रसिद्धस्य शुद्धघटत्वाद्यवच्छिन्नप्रकारकाऽभेदान्वयबोधस्य घटत्वादावाऽऽपत्तिः संभवात् । ननु यदि नीलपदसत्त्व एवाभेदान्वयबोधो भवति तदा 'घटो रक्तघटः' 'घटः पीतघटः' इत्यादाबप्यभेदान्वयवोधो न स्यात्- नीलपदाभावादितिचेत, तर्हि-घटस्वेतरधर्मोपस्थापकसामऔसत्त्वेऽभेदान्वयो भवति घटत्वेतरधर्मोपस्थापकसामग्र्यमावे चाभेदान्वयबोधो न भवति तथा च "घटो नीलघटः ' 'घटो रक्तघटः 'घटः पीतघटः' इत्यादौ घटत्वेतरस्य नीलत्वरक्तत्वपीतत्वादिधर्मस्योपस्थापकसामग्री नीलादिपद ; सत्त्वादभेदान्वयबोधो भवति । 'घटो घटः' इत्यत्र च घटेतरनीलादिपदामावेन घटत्वेतरधर्मोपस्थापकसामन्यभावादभेदान्वयबोधो न भवतीत्यवधेयम् । उक्तरीत्या 'घटो घटः । इत्यत्राभेदान्वयशाब्दबोधापत्तिवारणे कृतपि पूर्वपक्षी 'द्रव्यं वटः' इत्यस्य दृष्टान्तेन 'घटो घटः । इत्यत्राभेदान्वयबोधापत्ति प्रदर्शयति-अथेति । कार्यतावच्छेदककोटी धर्मितावच्छेदकाऽनिवेशप्रयुक्तलाघवेन विषयनिष्ठप्रत्यासत्या शाब्दबोधतत्कारणयोः कार्यकारणभावमाह-- धर्मितेति, अय भावः- शाब्दबोधतत्कारणयोर्द्विधा कार्यकारणभावोस्ति- आत्मनिष्ठप्रत्यासत्त्या विषयनिष्टप्रत्यासत्या च. तत्रात्मनिष्ठप्रत्यासत्त्या नाम शाब्दबोधस्य तत्कारणीभूतोपस्थितियोग्यताज्ञानतात्पर्यज्ञानानां च ज्ञानरूपत्वेन. समवायसंबन्धनात्मनि स्थितिर्भवतीति शाब्दबोधादिप्रतियोगिकेनात्मनिष्ठेन समवायेन कार्यकारणभावः । प्रत्यासत्तिः संबन्धस्तथा च समवायसंबन्धेन शाब्दबोधकारणान्यात्मनि भवंतीति समवायसंबन्धेन शाब्दमोहलपकार्यमप्यारमन्येवोल्पद्यते तथा च-- समवायसंबन्धेन शाब्दबुद्धित्वावच्छिन्ने प्रति समवाय समिति वयम् । अत्र व समवायेन पटविषयकोपस्थितिसत्त्वेपि समवायेनात्मनि घटत्वावन्छिन्नविषयकशाब्दवापितिः स्यात् तद्वारणाय विषयप्रवेशः कर्तव्य:समवायसंबन्धन घटत्वावच्छिन्नविषयकशाब्दबुद्धिवावच्छिन्न प्रति समवायसंबन्धेन घटत्वावन्छिनविषयकोपस्थितिः कारणमिति, अत्रानन्तधर्मितावच्छेदकानां वाऽनन्त विषयाणां वा प्रवे. शाद् गौरवम् । यथा समवायसंबन्धेन ज्ञानमात्मनि तिष्ठति तथा विषयतासंबन्धेन ज्ञानं विषयेपि तिष्ठतीति जानस्वरूपाणां शाब्दबोधतत्कारणानां विषयतासंबन्धन विषयेवि संभवाद् विषयनिष्ठप्रत्यासत्या= विषयनिष्ठा या विषयता तल्लक्षणप्रत्यासत्या संबन्धेन शाब्दबोधतत्कारणयोः कार्यकारणभावः । रषा च विषयता विविधस्वरूपा भवति यथा 'नीलो घटः' इत्यत्र धटनिष्ठा विषयता विशेष्यतारूपा धर्मितारूपा वा, घटत्वनिष्ठा च धर्मितावच्छेदकतारूपा, घटघटत्वयोः समवायनिष्ठा धर्मितावच्छेदकतावच्छेदकसंबन्धरूश, नीलनिष्ठा प्रकारतारूपा, नीलत्वनिष्ठा प्रकारतावच्छेदकतारूपा, नीलनीलत्वयोः समवायनिष्ठा प्रकारतावच्छेदकतावच्छेदकसंबन्धरूपा किं वा प्रकारतावच्छेदकजापच्छेदकतारूपा- समवायसंबन्धस्यैवात्र प्रकारतावच्छेदकतावच्छेदकत्वात्, नीलघटोभयनिता "Aho Shrutgyanam" Page #55 -------------------------------------------------------------------------- ________________ प्रत्यासत्योर्निवचनम् ] व्युत्पत्तिवादः । चाभेदसंसर्गरूपा, इति । तत्र 'नीलो घटः' इति शाब्दबोधो धर्मितारूपविषयतासंबन्धेन घटे जायते, धर्मितावच्छेदकतारूपविषयतासंबन्धेन घटत्वे जायते, धर्मितावच्छेदकतावच्छेदकतारूपविषयतासंबन्धेन घटघटत्वयोः समवाये जायते, प्रकारताख्यविषयतासंबन्धेन नीले जायते, प्रकारतावच्छेदकतारूपविषयतासंबन्धेन नीलत्वे जायते, प्रकारतावच्छेदकतावच्छेदकतारूपविषयतया नीलनीलत्वयोः समवाये जायते, अभेदसंसर्गाख्यविषयतासंबन्धेन च नीलस्य घटस्य चाभेदसंसर्गे जायते, घटघटत्वतत्समबायनीलनीलस्वतत्समवायघटनीलाभेदसंसर्गाणामेषां सर्वेषामेव नीलो घटः । इतिशाब्दबोधविषयत्वादित्यवधेयम् । एवमन्यत्रापि कार्यकारणभावो विज्ञेयः । तथा च विषयतासंवन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विषयतासंबन्धेनोपस्थित्यादिकं कारणमिति वक्तव्यम् । अत्र च समवायेन देवदत्तात्मन्युपस्थित्यादिसत्त्वे यज्ञदत्तस्यापि शाब्दबोधः स्यादिति तद्वारणाय तत्पुरुषीयत्वनिवेशः कर्तव्यः- यज्ञदत्तीयघटत्वावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति यज्ञदत्तीयवटत्वावच्छिन्नविषयकोपस्थित्यादिकं कारणमिति । आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे हि तत्पुरुषीयत्वप्रवेशस्यापेक्षा नास्ति कार्यकारणयोः सामानाधिकरण्यनियमस्य सर्वप्रसिद्धत्वात्समवायेनात्मन्येवोपस्थित्यादिकं संभवतीत्यात्मन्येव शाब्दवोधस्य संभवादात्मनां च नानात्वेन यदात्मन्युपस्थित्यादिकं कारणं तदात्मन्येव शाब्दबोधरूपकार्यस्यापि संभवादिति विषयनिष्ठप्रत्यासत्यपेक्षया लाघवम् । किं तु समवायेन यज्ञदत्तात्मनि घटस्वावच्छिन्नविषयकोपस्थितिसत्त्वेपि पटत्वावच्छिन्नविषयकशाब्दबोधापत्तिरस्तीति तद्वारणाय विषयनिवेशः कर्तव्यः- पटत्वावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति पटत्वावच्छिन्नविषयकोपस्थितिः कारणमिति विषयनिष्टप्रत्यासत्त्यपेक्षया गौरवम् । विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे हि विषयप्रवेशस्यापेक्षा नास्ति विषयतासंबन्धेन शान्द, बुद्धित्वावच्छिन्नं प्रति विषयतासंबन्धेनोपस्थित्यादिकं कारणमित्युक्ते विषयस्य घटादेविषयताख्यसंबन्धान्तःप्रवेशेन पृथक् निवेशापेक्षाऽभावात्, कार्यकारणयोः सामानाधिकरण्यनियमेन च यदा कारणीभूतमुपस्थित्यादिकं विषयतासंबन्धेन घटे तदा तत्कार्यस्य शाब्दबोधस्यापि विषयतासंबन्धेन घटे एव संभवात् . विषयभेदेन विषयनिष्ठविषयतानामपि मिन्नत्वाद् यस्मिन्नेव घटे विषयतासंबन्धेनोपस्थित्यादिकं तस्मिन्नेव घटे तत्कार्यस्य शाब्दबोधस्यापि संभवात् पटादौ चासंभवादिति विषयनिवेक्षापेशाभाव इत्यात्मनिष्ठप्रत्यासत्यपेक्षया लाघवम् । किं तु विषयस्य घटादेरेकरवेन देवदत्तयज्ञदत्तादिसकालपुरुषसाधारणत्यात् संबन्धभूताया विषयताया अप्येकत्वेन सर्वसाधारणत्वाद् य एव घटो देवदत्तज्ञानविषयः स एव यज्ञदत्तज्ञानविषयोपि भवितुमर्हत्येवेति विषयतासं. बन्धेन यज्ञदत्तस्योपस्थित्यादिसत्त्वे देवदत्तस्यादि शाब्दबोधः स्यात् कार्यकारणयोरुपस्थितिशा. लेबोधयोर्विषयतासंबन्धेन घटे एवं सत्त्वेन सामानाधिकरण्यस्याऽक्षुण्णत्वाद् उपस्थितिशाब्दबोध. समवायिनोर्यज्ञदत्तदेवदत्तयोर्भेदस्याऽकिंचित्करत्वाद् विषयतासंबन्धेन तयोरुपस्थितिशाब्दबोधानधिकरणवाद् संप्रति विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावपक्षस्वीकारेण विषयतासंबन्धेन घटादे "Aho Shrutgyanam" Page #56 -------------------------------------------------------------------------- ________________ (४४) सादर्शः [ प्रथमाकारकेविषयस्यैवोपस्थितिशाब्दबोधाधिकरणत्वात् तथा च यज्ञदत्तस्य पटत्वावच्छिन्नविषयकोपस्थिस्यादिसत्त्वे देवदत्तस्यापि पटत्वावच्छिन्नविषयकशाब्दबोधः स्यादेवेति तद्वारणाय तत्पुरुषीयस्वा निवेशः कर्तव्यः-- विषयतासंबन्धेन देवदत्तीयपटत्वावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति विषयतासंबन्धेन देवदत्तीयपटत्वावच्छिन्नविषयकोपस्थित्यादिकं कारणमिति तत्तत्पुरुषाणां नाना त्वेन तेषां निवेशादात्मनिष्ठप्रत्यासत्यपेक्षया गौरवं तत्र तत्पुरुषीयत्वनिवेशापेक्षाभावात् । । तथा च यत्र विशेषणविशेष्ययोः समानसंख्याकत्वं भवति यथा-- 'नीलो घटः' इत्यत्रैकमेव विशेषणमेकमेव च विशेष्यमिति: तत्रात्मनिष्टप्रत्यासत्त्या वा विषयनिष्ठप्रत्यासत्त्या वा शान्दबोधो भवतु विशेषो नास्ति यतोत्रात्मनिष्ठप्रत्यासत्त्या शाब्दबोधपक्षे तत्पुरुषीयत्वप्रवेशामावप्रयुक्तलाघवसत्तेपि विषयप्रवेशेन गौरवमस्त्येव, विषयनिष्ठप्रत्यासत्त्या शाब्दबोधपक्ष च विषयप्रवेशाभावप्रयुक्तलाघवसत्त्वेपि तत्पुरुषीयत्वप्रवेशेन गौरवमस्त्येवेत्युभयप्रत्यासत्त्योस्तुल्यत्वमेव । किं तु यत्र विशेषणविशेष्ययोः समसंख्याकत्वं न भवति तत्रात्मनिष्ठप्रत्यासत्त्या शाब्दबोधापेक्षया विषयनिष्ठप्रत्यासत्या शाब्दबोधे लाघवं भवति, तथा हि-- यथा- 'नीलो घटः पीतो घटः सुन्दरो घटः । इत्यत्र विशेषणानि बहूनि विशेष्यं चैकमेव, अनात्मनिष्ठप्रत्यासत्या शाब्दबोधस्वीकारे समवायेन अभेदसंबन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति समवायेन अभेदसंबन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकोपस्थित्यादिकं कारणम् , एवं अभेदसंबन्धावच्छिन्नपीतत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्ने प्रति अभेदसंबन्धावच्छिन्नपीतत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकोपस्थित्यादिकं कारणमित्येवं पृथक् पृथक् कार्यकारणभावस्य वक्तव्यत्वेन महद् गौरवं भवति, विषयनिष्ठप्रत्यासत्त्या शाब्दबोधपक्षे च घटत्वावच्छिन्नविशेष्यतानिरूपिताऽभेदसंबन्धावच्छिन्नप्रकारतावच्छेदकतासंवन्धेन तत्पुरुषीयशाब्दबुद्धिवावच्छिन्नं प्रति घटत्वावच्छिन्नविशेष्यतानिरूपिताऽभेदसंबन्धावच्छिन्नप्रकारतावच्छेदकतासंबन्धेन तत्पुरुषीयोपस्थित्यादिकं कारणमित्येवमेकेनैव वाक्येन 'नीलो घटः ' ' पीतो घटः । इत्यादीनामेकघटविशेव्यकवाक्यानां सर्वेषामपि शाब्दबोधतत्कारणयोः कार्यकारणभावस्यानुगमः संभवति यतो यत्र यत्र नीलत्वपीतत्वसुन्दरत्वादौ प्रकारतावच्छेदकतासंबन्धेन शाब्दबोधकारणमुपस्थित्यादिकं भविध्यति तत्र तत्रैव प्रकारतावच्छेदकतासंबन्धेन शाब्दबोधोपि भविष्यतीति बहूनां विशेषणीभूतानां नीलपीतादीनां नामग्रहणापेक्षा नास्ति विशेष्यस्यैकत्वात् तस्यैव नामग्रहणं कृतं घटत्वावच्छिन्नेति इत्यात्मनिष्ठप्रत्यासत्यपेक्षया लाघवम्, तत्र समवायसंबन्धेन कार्यकारणभावनियमाद् विषयतासंबन्धेन च कार्यकारणभावाऽसंभवेनैवंप्रकारेण लाघवासंभवात् । ___ एवम्- ‘पटो नील: ' ' घटो नीलः , 'मठो नीलः ' इत्यत्र विशेष्याणि बहूनि विशे•षणं चैकमेत्र, अत्राप्यात्मनिष्ठप्रत्यासत्त्या शाब्दबोधपक्षे समवायेनाभेदसंबन्धावच्छिन्ननीलत्वाव. च्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्न विशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति समवायेनाभेदसंबन्धा "Aho Shrutgyanam" Page #57 -------------------------------------------------------------------------- ________________ वटो घट इसिविवादः ] न्धुत्पत्तिवादः। वस्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकोपस्थित्यादिकं कारणमित्येवं पूर्ववत् पृथक् पृथगेवोक्तवाक्यानां शाब्दबोधतत्कारणयोः कार्यकारणभावो वक्तव्य इति महद् गौरवम् । विषयनिष्ठप्रत्यासत्त्या शाब्दबोधपक्षे च अभेदसंबन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारता. निरूपितविशेष्यतावच्छेदकतासंबन्धेन तत्पुरुषीयशाब्दबुद्धित्वावच्छिन्नं प्रति अभेदसंबन्धावच्छिन्ननीलस्वावच्छिन्न प्रकारतानिरूपितविषयता ( धर्मितावच्छेदकता ) संबन्धेन तत्पुरुषायोपस्थित्यादिकं कारणमित्येवमेकेनेव वाक्येन 'पटो नीलः' 'घटो नीलः, 'मठो नीलः' इत्यादीनामेकनीलविशेषणकानां सर्वेषामपि वाक्यानां शाब्दबोधतत्कारणयोः कार्यकारणभावस्थानुगमः संभवति यतो यत्र यत्र पटत्ववटत्वमटत्वादी धर्मितावच्छेदकतासंबन्धेन शाब्दबोधकारणीभूतमुपस्थित्यादिकं. भविष्यति तत्र तत्रैव धर्मितावच्छेदकतासंबन्धेन शाब्दबोधोपि भविष्यतीति बहूनां विशेष्यभूतानां घटपटमठादीनां नामग्रहणापेक्षा नास्ति विशेषणस्यैकत्वात्तस्यैव नामग्रहणं कृतम्-- नीलत्वावच्छिनेति इत्यात्मनिष्ठप्रत्यासत्त्यपेक्षया लाघवम् , तत्र समवायसंबन्धेन कार्यकारणभावनियमाद् विषयतासंबन्धेन च कार्यकारणभावासंभवेनैवंप्रकारेण लाघवाऽसंभवात् । __एवमन्यत्रापि विशेषणविशेष्ययोविषमसंख्याकत्वे ज्ञेयम्- यत्र विशेषणानि बहूनि तत्र प्रकारतावच्छेदकतासंबन्धेन कार्यकारणभावो वक्तव्यो बहूनां विशेषणानां नामग्रहणं न कर्तव्यम् । यत्र च विशेष्याणि बहूनि तत्र धर्मितावच्छेदकतासंबन्धेन कार्यकारणभावो वक्तव्यो बहूनां विशेष्याणां नामग्रहणं न कर्तव्यमिति लाघवं स्यादेवेतियाक्त् । आत्मनिष्टप्रत्यासत्त्या कार्यकारणभावे विषयप्रवेशोप्यस्त्येव ' कृष्णोहं गौरोहम् । इत्यादा. वात्मनो विषयत्वेनात्मप्रवेशापेक्षाप्यस्त्येवेत्युभयप्रवेशेन गौरवं विषयनिष्ठप्रत्यासत्तौ तूमयप्रवेशापे. क्षा नास्ति केवलमात्ममात्रप्रवेशस्यावश्यकत्वादिति लाधवमित्यपि केचित् । . प्रकृते च यद्यात्मनिष्ठप्रत्यासत्या शाब्दबोध उच्येत तदा विषयप्रवेशस्याऽवश्यंभावात 'द्रव्य घटः ' इत्यत्र द्रव्यपदेन द्रव्यत्वेन घटपदेन च घटत्वेनोपस्थितिरस्ति, एवम्- 'घटो घटः , इत्यत्र तु नास्ति किं तूभाभ्यामेव घटपदाभ्यां घटत्वेनैवोपस्थितिरिति दृष्टान्तदान्तिकयोर्वेषम्यात् ' द्रव्यं घटः । इतिदृष्टान्तेन 'घटो घटः' इत्यत्राऽभेदान्वयबोधापत्तिर्न संभवतीत्याऽऽत्मनिष्ठप्रत्यासत्तिं त्यक्त्वा विषयनिष्ठप्रत्यासत्या शाब्दबोधमाह- धर्मितेति । अत्र च दृष्टान्तदासन्तिकयो(पम्यसत्त्वपि कार्यकारणभावे विषयप्रवेशाभावेन तन्न प्रतीयते तथा च यथा ' द्रव्यं घटः' इत्यत्र धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वेऽभेदसंबन्धेन घटप्रकारको बोधो भवति तथा 'घटो घटः । इत्यत्रापि धर्मितावच्छेदकतासंबन्धेन घटत्वे घटप्रकारकाभेदान्वयबोधस्यैव मदिष्टवात् स कथं न स्यात् , ' द्रव्यं घटः । इत्यत्र या घटप्रकारकबोधसामग्री तस्याः 'घटो घटः' इत्यत्रापि सत्त्वात्, घटस्य स्वात्मनाऽभेदस्यापि सत्त्वेन योग्यताज्ञानसत्वात् ' घटो घटः । इत्यत्र घटत्वावछिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेभ्यताकशाब्दबोधस्यापत्तिरस्त्यवेति पूर्वप्रक्षाभिप्रायः । "Aho Shrutgyanam" Page #58 -------------------------------------------------------------------------- ________________ सादर्श: [प्रथमाकारके न च तत्रापादकाभावः-- तात्पर्यज्ञानविशेषादिघटिताया धर्मितावच्छेदकतया द्रव्यत्वादौ तदुत्पादनियामकसामग्या एवापादकत्वात् । . न च धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वादौ तादृशान्वयबोधोत्पत्तिप्रयोजिका द्रव्यपदजन्यद्रव्यत्वाद्यवच्छिन्नविशेष्यकोपस्थितितदवच्छिन्नविशेष्यकयो 'द्रव्यं घटः । इत्यत्र द्रव्यं धर्मी द्रव्यत्वं धर्मितावच्छेदकं द्रव्यत्वनिष्टा च विषयता धर्मितावच्छेदकतारूपा सैथ संबन्धस्तेन संबन्धेन शाब्दबोधो द्रव्यत्वे वर्तते तथा च 'द्रव्यं घटः। इत्यत्र धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वे प्रसिद्धो यथा शुद्धघटत्वावच्छिन्नप्रकारकाभेदान्चयबोधस्तथा 'घटो घटः । इत्यत्रापि घटत्वे धर्मितावच्छेदकतासंबन्धेन शुद्धघटत्वावच्छिन्नप्रकारकाभेदान्वयबोधस्यापत्ति: संभवतीत्याह- द्रव्यत्वादाविति ।। __ ननु' द्रव्यं घटः ' इत्यत्राभेदान्वयविषयकतात्पर्यज्ञानादिघटितसामाग्र्याः सत्त्वात् तत्कार्यभूतो घटत्वावच्छिन्नप्रकारकाभेदान्वयबोधो भवति 'घटो घटः ' इत्यत्र वस्तुगत्याउभेदश्य सत्त्वेपि तद्वोधानुकूलसामग्र्यभावात् कथमभेदान्वयबोधः स्यादित्याशङ्कयाह- न चेति । तत्र= 'बटो घटः । इत्यत्र । आपादकाभावः कारणीभूतसामग्र्यभावः । परिहारहेतुमाह- तात्पर्यज्ञानेति, धर्मितावच्छेदकतया धर्मितावच्छेदकतासंवन्धेन द्रव्यत्वे तदुत्पादनियामकसामन्या:-अभेदान्वयबोधोत्पतेनियामिकायास्तात्पर्यज्ञानविशेषादिघटितायाः सामग्र्या एव 'घटो घटः' इत्यत्रापि घटत्वावच्छिन्न प्रकारकाभेदान्वयबोधापादकत्वात् । यया तात्पर्यज्ञानादिघटितसामच्या 'द्रव्यं घटः । इत्यन्न घटत्वावच्छिन्नप्रकारकाभेदान्वयबोधस्तयैव 'बटो घटः ' इत्यत्रापि घटत्वावच्छिनप्रकारकाभेदान्वयबोधो भविष्यतीत्यर्थः । तात्पर्यज्ञानं. चात्र- 'घटपदं द्रव्यपदार्थान्वितस्वार्थ बोधर्यतु ' इति । योग्यताज्ञानं च ' द्रव्यपदार्थो घटत्वावच्छिन्नाभेदसंसर्गवान् ' इति, द्रव्यत्वे योग्यताज्ञानं तु धर्मितावच्छेदकतासंबन्धेन वर्तते । तात्पर्यज्ञानं च-- 'द्रव्यं घट इत्येतद्वाक्यजग्यकिंचिद्धर्मावच्छिन्न प्रकारककिंचिद्धर्मावच्छिन्नविशेष्यताशालिशाब्दबोधविषयकेच्छावानयम् ' इति, एतादृशज्ञानीया या इच्छानिष्ठाविषयता तन्निरूपिता या बोधनिष्ठा विनयता तनिरूपिता या विशेष्यतानिष्ठा विषयता तनिरूपिता या अवच्छिन्नत्वनिष्ठा विषयता तन्निरूपितविषयतासंबन्धेन । एषा विषयता विशेष्यतावच्छेदके द्रव्यत्वादौ वर्तते ) द्रव्यत्वे वर्तते ।। ननु ' द्रव्यं घटः' इत्यत्र द्रव्यत्वे तादृशान्वयबोधोत्पत्तिप्रयोजिका अभेदान्वयबोधोत्पत्तिप्रयोजिका तु धर्मितावच्छेदकतासंबन्धेन द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविशेष्यकोपस्थितिघटिता तथा नदेवच्छिन्नद्रव्यत्वावच्छिन्नविशेष्यकयोग्यताज्ञानादिघटितेव सामग्री भवतीति वक्तुमारभते-न चेत्यादिना । ननु त्वयाऽऽत्मनिष्ठप्रत्यासत्तेरेव कार्यतावच्छेदकसंबन्धत्वमाश्रित्य घटो घटः । इत्यत्राभेदान्वयबोधः परियिते इति कथमत्रेदानी वा धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वेऽभेदान्वया बोधप्रयोजकत्वं सामग्र्या उक्तमिति पूर्वपक्ष्यांशङ्कामालोच्य सिद्धान्त्याह- धर्मितावच्छेदकताया इति, धर्मितापच्छेदकतायास्तत्कार्यतावच्छेदकसंबन्धताविरहेपिउक्तसामग्रीजन्यं यच्छाब्दबोधरूप "Aho Shrutgyanam" Page #59 -------------------------------------------------------------------------- ________________ घटो घट इति विवादः ] व्युत्पत्तिवादः । (४७) ग्यताज्ञानादिघटितसामग्येव-धर्मितावच्छेदकतायास्तत्कार्यतावच्छेदकसंबन्धताविरहेपि द्रव्यत्वादिनिष्ठायास्तस्यास्तत्कार्यतावच्छेदकधर्मघटकत्वात् तादृशसाकार्य तादृशकार्यतावच्छेदकसंबन्धताविरहेपि ( आत्मनिष्ठप्रत्यासत्तेः समयायस्यैव तादृशकार्यतावच्छेदकसंबन्धत्वात् , द्रव्यत्वादिनिष्ठायास्तस्या:-धर्मितावच्छेदकतायास्तत्कार्यतावच्छेदकधर्म. घटकत्वात्-उक्त सामग्रीकार्यतावच्छेदकधर्मघटकत्वाद्धेतोः द्रव्यत्वादौ धर्मितावच्छेदकतासंबन्धेत तादृशान्वयबोधोत्पत्तिप्रयोजिका द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविशेष्यकोपस्थितितदवच्छिन्नविशेष्यकयोग्यताज्ञानादिघटिता सामग्र्येवेत्यन्वयः । अयं भावः- यया वयवयवेषु वह्निप्रतियोगिकसंयोगविशिष्टबही जननीये यादृशीन्धनादिसामग्री प्रयोजिका भवति तादृश्येव सामग्री महानसादी संयोगेन वह्नौ जननीये प्रयोजिका भवति । किं चात्र वह्नयययवेषु वयुत्पत्तौ समवाय एव कार्यतावच्छेदकसंबन्धो भक्ति न तु संयोग इति संयोगस्य कार्यतावच्छेदकसंबन्धवाभावपि कार्यतावच्छेदकधर्मबटकत्वं त्वत्येववह्निमतियोगिकसंयोगविशिष्ट उत्पाद्यमानबह्नौ वह्नित्यस्येव वहिप्रतियोगिकसंयोगवैशिष्टयस्यापि सत्त्वाद् बह्निप्रतियोगिकसंयोगिविशिष्टवशित्वस्य कार्यतावच्छेदकत्वात् संयोगस्यापि तद्घटकत्वाद् यदि चात्र संयोगः कार्यतावच्छेदकधर्मवटको न स्यात्तदा समवायेन बयुत्पत्ति प्रति यादृशी सामग्री प्रयोजिका भवति तादृशी सामग्री संयोगेन वद्युत्पत्तिं प्रति प्रयोजिका न स्यात् कारणाभावात्. यदा च संयोगः कार्यतावच्छेदकधर्मघटको भवति तदा तु यादृशी सामग्री संयोगविशिष्टवहिप्रयोजिका भवति तादृश्येव संयोगेन वहिप्रयोजिका भवति संयोगस्यापि वहिना सह कार्यत्वात् । किं चात्र समवायेन वह्नयुत्पत्ती संयोगस्य कार्यतावच्छेदकसंबन्धत्वाभावेप्यान्यत्र पर्वतादौ बढ्युत्पत्तौ तु पर्वतानुयोगिकवह्निप्रतियोगिककार्यतावच्छेदकसंबन्धत्वं भवत्येव । तथा प्रकृतेप्यात्मनिष्ठप्रत्यासत्त्या ' द्रव्यं घटः ' इत्यत्राऽभेदान्वयबोधे जननीये समवायस्यैव कार्यतावच्छेदकसंबन्धत्वेन धर्मितावच्छेदकतायाः कार्यतावच्छेदकसंबन्धत्वाभाषेपि द्रव्यत्वनिष्ठाया धर्मितावच्छेदकतायाः कार्यतावच्छेदकधर्मघटकत्वं त्वस्त्येव- द्रव्यत्वनिष्ठाप्येषा विषयतारूमा धर्मितावच्छेदकता स्वनिरूपितविषयितासंबन्धेन शाब्दबोधे वर्तते इति शाब्दबोधत्वस्येवोक्तधर्मितावच्छेदकतावैशिष्टयस्यापि शाब्दबोधे सत्त्वाद् अभेदसंबन्धावच्छिन्नघटत्यावच्छिन्नप्रकारतानिरूपि-- तद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबोधत्वस्य कार्यतावच्छेदकत्वाद् उक्तधर्मितावच्छेदकताया अपि उद्घटकत्वात् स्वनिरूपितविषयितासंबन्धेन तत्र वर्तमानत्वात् । तादृशधर्मितावच्छेदकताविशिष्टशा बोधे समवायेनात्मनि जननीये यादृशी द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविशेष्यकोपस्थितितदेवच्छिन्नविशेष्यकयोग्यताज्ञानादिघटितसामग्री प्रयोजिका भवति तादृश्येव सामग्री धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वादौ तादृशशाब्दबोधप्रयोजिका भवति । यदि चात्र धर्मितावच्छेदकाता कार्यतावच्छेदकधर्मघटिका न स्यात्तदात्मनिष्ठप्रत्यासत्या समवायेनात्मन्युक्तशाब्दबोधे जननीये यादृश्युक्तसामग्री प्रयोजिका भवति तादृशी सामग्री धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वे इक्तशाब्द "Aho Shrutgyanam" Page #60 -------------------------------------------------------------------------- ________________ सादर्श: [ प्रथमाकारके - ( ४८ ) मम्याश्वात्मनिष्ठप्रत्यासत्या द्रव्यत्वाद्यवच्छिन्न विशेष्यकघटत्वाद्यवच्छिन्नाद्यभेदः बुद्धित्वरूपस्वीकार्यतावच्छेदकावच्छिन्नोत्पतेरेव व्याप्यतया घटत्वादौ धर्मि -: तावच्छेदकतासंबन्धेन घटत्वावच्छिन्नाभेदबोधापादकत्वं न संभवतीति वाच्यम् योग्यताज्ञानस्य धर्मितावच्छेदकं निवेश्य तद्भेदेनाऽनन्तकारणता कल्पनमपेक्ष्य जोधे जननीये प्रयोजिका न स्यात् कारणाभावात् समवायेनात्मन्युक्तशाब्दबोधे जननीये धर्मितावच्छेदकतायाः कार्यतावच्छेदकधर्मघटकत्वाभावात् । अस्ति चात्र धर्मितावच्छेदकतायाः का यतावच्छेदकधर्मघटकत्वमिति यादृश्युक्तसामग्री आत्मनिष्ठप्रत्यासत्त्या धार्मेतावच्छेदकता विशिष्टशाब्दबोधप्रयोजिका तादृश्येवोक्त सामग्री धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वे शाब्दबोधप्रयोजिका भवति-धर्मितावच्छेदकता विशिष्टस्य शाब्दबोधस्य कार्यत्वे तेन सह धर्मितावच्छेदकताया अपि कार्यत्वापत्त्या तया सामन्या विना धर्मितावच्छेदकतासंबन्धेन शाब्दबोधोत्पत्त्यनुपपत्तेः । द्रव्यत्वनिष्ठाया धर्मितावच्छेदकताया आत्मनिष्ठप्रत्यासत्त्याऽऽत्मनि शाब्दबोधोत्पत्तौ कार्यतावच्छेदकसंबन्धत्वाभावेपि उक्तसंयोगस्येव द्रव्यत्वे उक्तशाब्दबोधे जननीये तु कार्यतावच्छेदकसंबन्ध भवत्येव ( नानुपपन्नम् कार्यशाधिकरणद्रव्यत्वनिष्ठत्वादिति धर्मेतावच्छेदकता संब-न्धेन द्रव्यत्वे तादृशान्त्रयबोधोत्पत्तिप्रयोजिका द्रव्यपदजन्येत्यायुक्तसामग्र्येव तादृशसामग्र्याश्चात्म-निष्ठप्रत्यासत्या ( समवायेन ) द्रव्यत्वाद्यवच्छिन्न विशेष्यकघटरवाद्यवच्छिन्नाद्यभेदबुद्धित्वरूपस्त्री-: कार्यतावच्छेदकावच्छिन्नोत्पत्तेरेव = अभेद संबन्धावच्छिन्न घटत्वावच्छिन्नपकारता निरूपितद्रव्यत्वावच्छिन्न विशेष्यकशाब्दबोधत्वावच्छिन्नो ( शाब्दबोधो ) त्पत्तेरेव) ( द्रव्यं घट इतिस्थले ) व्याप्यतया = प्रयोजकतया घटत्वादी धर्मितावच्छेदकतासंबन्धेन घटत्वावच्छिन्नाभेदबोधापादकत्वं न संभवति किं वोक्तसामग्र्या घटत्वे वटत्वावच्छिन्नाभेदबोधापादकत्वं धर्मितावच्छेदकतासंबन्धेनापि संभवति किमुतात्मनिष्ठप्रत्यासत्त्या आत्मनिष्ठप्रत्यासत्त्या हि बोधापादकत्वं सामग्र्या आत्मन्येक संभवति नान्यत्र संबन्धभूतस्य बोधसमवायस्यात्ममात्रनिष्ठत्वात् धर्मितावच्छेदकतापि यात्र संव धरूपास्ति तस्या द्रव्यत्वमात्रनिष्ठत्वात् तादृशाधर्मितावच्छेदकतासंबन्धेन च सामग्र्या द्रव्यत्वी एव शाब्दबोधापादकत्वं संभवति न घटत्वादावित्यर्थः । किं च द्रव्यत्वावच्छिन्न विशेष्य कशाब्द-: 'बोधं प्रति द्रव्यत्वावच्छिन्नविशेष्यक योग्यताज्ञानस्यैव कारणत्वात् तादृशयोग्यताज्ञानस्य च द्रव्यत्वनिष्ठधर्मितावच्छेदकतासंबन्धेन द्रव्यत्वे एव संभवात् घटले चासंभवात् न केवलं घटत्वे शाब्दबोवापत्यसंभव एव किं तु तादृशशाब्दबोधकारणीभूतयोग्यताज्ञानस्याप्यऽसंभव एव योग्यताज्ञानस्वरूपेनि द्रव्यत्वविशेष्यकत्वप्रवेशात् कारणाभावे कार्यासंमवाच्चेत्यलम् । पूर्वपक्षी उक्तं परिहरन् अभेदसंबन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबोधकारणीभूतयोयताज्ञानमात्रं घटत्वे आपादयति- योग्यताज्ञानस्येति, धर्मितावच्छेदकं द्रव्यत्वं निवेश्य = द्रव्यत्वावच्छिन्न विशेष्यक योग्यताज्ञानस्वीकारे हि तद्भेदेन=धर्मितावच्छेदकभेदेन यथा- 'घटः प्रमेयः " इत्यत्र प्रमेयत्वं धर्मितावच्छेदकम् 'घटो द्रव्यम्' इत्यत्र द्रव्यत्वं धर्मितावच्छेदकमिति तपस्थलीय "Aho Shrutgyanam" Page #61 -------------------------------------------------------------------------- ________________ घंटो वट इति विवादः ] व्युत्पत्तिवादः । ( ४१ ) लाववाद धर्मितावच्छेदक संबन्धेन शाब्दबुद्धौ तादृशसंबन्धेन तस्य धर्मितावच्छेदकमनिवेश्य हेतुताकल्पनस्यैव युक्तत्वात्, घटत्वादिधर्मितावच्छेदककघटत्वरः द्यवच्छिन्नमकारक योग्यताज्ञानबलादेव घटत्वादौ धर्मितावच्छेदकतासंबन्धेन तदापत्तेः । न च योग्यताज्ञानस्य धर्मितावच्छेदकनिष्ठप्रत्यासत्या हेतुत्वोपगमे द्रव्यत्वाद्यवच्छिन्नस्य पदादनुपस्थितत्वेपि द्रव्यत्वादौ वाराप्रत्यासत्त्या प्रत्यासन्नयोधर्मितावच्छेदकभेदेन तद्घटितयोग्यताज्ञानस्यापि भेदप्राप्या तत्तत्स्थलीयभिन्नभिन्नवर्मितावच्छेदकप्रतिभिन्नभिन्नयोग्यताज्ञानानां कारणता कल्पनेनाऽनन्त कारणताकल्पनं स्यादिति तदपेक्षया लाघबाद् धर्मितावच्छेदकं द्रव्यत्वमनिवेश्य धर्मेतावच्छेदकतासंबन्धेन शाब्दबोधं प्रति तादृशसंबन्धेनधर्मितावच्छेदकतासंबन्धेन तस्य - योग्यताज्ञानस्य ( अभेदसंबन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताक्रयोग्यताज्ञानस्य द्रव्यत्वावच्छिन्नविशेष्यकत्वनिवेशरहितस्य च ) हेतुताकल्पनं युक्तम्, तथा चं विटत्वादिधर्मितावच्छेदककघटत्वाद्यवच्छिन्नप्रकारकयोग्यताज्ञानबलादेव = घटत्वं धर्मितावच्छेदक स्य तद् घटत्वधर्मितावच्छेदककं घटखावच्छिन्नप्रकारकं च यद् योग्यताज्ञानं तस्य धर्मिंतावरच्छेदकतासंबन्धेन घटत्वे संभवाद् घटत्वे धर्मितावच्छेदकतासंबन्धेन तदापत्तेः-अभेदसंबन्धावच्छि घटत्वावच्छिन्नप्रकारताकशाब्दबोधापत्तेः संभवात् तथा च 'द्रव्यं घटः' इत्यत्रेव 'घटो घटः ' इत्यत्राप्यभेदान्वयबोधानुपपत्तिर्नास्त्येवेत्यर्थः । अत्र च " धर्मितावच्छेदकम निवेश्य" इत्यनेन योग्यताज्ञाने धर्मितावच्छेदकनिवेशो न कर्तव्य इति यदुक्तं तस्य धर्मितावच्छेदकविशेष्यकत्वस्योचारणमात्रं न कर्तव्यमित्येवार्थो वस्तुतो योग्यताज्ञाने धार्मेतावच्छेदकविशेष्यकत्वस्य सत्त्वादेव तदेव केवलं प्रदर्शितम् - घटत्वादिधर्मितावच्छेदककेति, उच्चारणं तु- अभेदसंबन्धावच्छिन्नघटस्वावचिप्रकार योग्यताज्ञानस्य घटत्वेपि सत्त्वादित्येव कर्तव्यमित्यवधेयम् । तथेदानी संबन्धस्वमपि शुद्धाया एव धर्मितावच्छेदकताया ज्ञेयं न तु द्रव्यत्वनिष्ठायाः द्रव्यत्वनिष्ठाया धर्मितावच्छेदकताया द्रव्यत्वमात्रे एव संभवाद् घटत्वे चासंभवात् द्रव्यत्वनिष्ठत्वनिवेशरहितायास्तु शु. द्धाया धर्मितावच्छेदकतायाः संबन्धभूताया घटत्वेप्यनुपपत्त्यभावादित्सवधेयम् । ननु यद्येवं योग्यताज्ञानबलादेव शाब्दबोधः स्यात्तदा "धर्मितावच्छेदकतासंबन्धेन द्रव्यत्वादौ तादृशान्वयबो चोत्पत्तिप्रयोजिका द्रव्यपदजन्यद्रव्यत्वाद्यवच्छिन्न विशेष्यको पस्थितितदवच्छिन्न विशेष्यकयोग्यताज्ञानादिघटितसामय्येव (पृ. ४६ ) " इत्यनेन यदुपस्थितेः शाब्दबोधकारणत्वमुक्तं तन्न युक्तं योग्यताज्ञानबलादेव शाब्दबोधसंभवात् उपस्थितेर्व्यभिचारित्वाच्चेत्यभिप्रायेगाशङ्कते योग्यताज्ञानकारणतावादी- न चेति, योग्यताज्ञानस्य धर्मितावच्छेदकनिष्ठ प्रत्यासत्त्या धर्मितावच्छेदकता संबन्धेन शाब्दबोधं प्रति हेतुत्वस्वीकारे द्रव्यत्वाद्यवच्छिन्नस्य पदादनुपस्थितत्वेरि=द्रव्यपदजन्यद्रव्यत्वावच्छिन्न विषयको पस्थि तेरभावेपि द्रव्यत्यादौ तादृशप्रत्यासत् गतावच्छेदकतामंत्रन्वेनं प्रत्यासन्नात्=संबद्धात् ( वर्तमानात् ) योग्यताज्ञानात् तत्र द्रव्ये तादृशप्रत्यासत्या= "Aho Shrutgyanam" Page #62 -------------------------------------------------------------------------- ________________ (५०) सादर्श: [ प्रथमाकारकेग्यताज्ञानात् तत्र ताशप्रत्यासत्या शाब्दबोधापतिः, आत्मनिष्ठप्रत्यासत्त्या हेतुभूतां द्रव्यत्वाद्यवच्छिन्नोपस्थितिमन्तरेणापि तादृशप्रमेयत्वाद्यवच्छिन्नोपस्थिस्वादिवशाया प्रमेयत्वादौ धर्मितावच्छेदकतासंबन्धेन ज्ञानस्य फलजनकत्वाव ताशद्रव्यत्वाद्यवच्छिन्नोपस्थितिविरहस्याकिंचिदकरत्वादिति वाच्यम्, समानप्रकारतामत्वासत्त्या पदार्थोपस्थिते शाब्दबोधे हेतुत्वोपगमात् । धर्मितावच्छेदकतासंबन्धेन शाब्दबोधापत्तिः संभवतीत्युपस्थित्यऽभावेपि शाब्दबोधसंभवे कय सुपस्थितेः कारणत्वं स्यात् ? कार्यकारणभावस्यान्वयव्यतिरेकाभ्यामेवावधार्यत्वात्. किं चउपस्थितिर्हि प्रकारविशेष्यभूतपदार्थयोः स्वरूपमात्रविषया भवति न तु कमपि पदार्थ धर्मिता ( विशेष्यता) बच्छेदकत्वेनावगाहते. यथा-'द्रव्यं घटः' इत्यत्र घटपदेन घटघटत्वयोरुपस्थि तिर्भवति भ्रव्यपदेन च द्रव्यद्रव्यत्वयोरुपस्थितिर्भवति स्वरूपेणैव न हि ध्यत्वादौ धर्मितावच्छेदकत्वं भासते तथा चोपस्थितौ धर्मितावच्छेदकत्वेन कस्यापि पदार्थस्याऽभानात् कथमुपस्थिति कचिदपि द्रव्यत्वादी धर्मितावच्छेदकतासंबन्धेन वर्तेत ? तस्माद् धर्मितावच्छेदकतासंबन्धेन तूप स्थितेः कारणत्वमेव नास्त्यसमवात्, मेधा-आरमनिष्ठप्रत्यासत्योपस्थितिरात्मन्युत्पद्यते इत्या मनिष्ठ पत्यासत्या उपस्थितेः कारणखे संभवत्यपि सति द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविषयकोपस्थितेस्त्वात्मनिष्ठप्रयासत्त्याप्यत्र कारणत्वं न संभवति- उक्तव्यभिचारादित्याह- आत्मनिष्ठेति मात्मनिष्टप्रत्यासत्या समवायेन हेतुभूताम् हेतुत्वेन संभाव्यमानां द्रव्यस्वावच्छिन्नोपस्थिति वि नापि तादृशः-आत्मनिष्ठप्रत्यासत्त्या हेतुभूत प्रमेयत्वावच्छिन्नोपस्थितिदशायाम् ( सत्त्वे) प्रमेयर धर्मितावच्छेदकतासंबन्धेन ज्ञानस्य योग्यताज्ञानस्य फलजनकत्वात्-शाब्दबोधजनकत्वात् (यो ग्पताज्ञानेन शान्दबोधे संभवति ) तादृश-आत्मनिष्ठप्रत्यासत्त्या हेतुभूतद्रव्यत्वावच्छिन्नोपस्थितेरमावस्याऽकिंचित्करत्वात् शान्दबोधाऽप्रतिबन्धकवान द्रव्यत्गवच्छिन्नोपस्थितेः कारणत्वम्, एवम्-द्रव्यपदजन्यद्रव्यस्वावच्छिन्नविषयकोपस्थितिदशायी प्रमेयत्वे शाब्दबोधो जायत एवेति प्रासेयत्वावच्छिन्नविषयकोपस्थितेरपि न कारणत्वं व्यभिचारात्, चालनीन्यायेनोपस्थितिमात्रस्य व्यभिचारित्वादिस्यर्थः । योग्यताज्ञाने तु द्रव्यावादीनां नितारच्छेदकविधया भानाद् योग्यताज्ञानं तादृशद्रव्यत्वादिनिष्ठधर्मितावच्छेदकताख्यसंबन्धेन द्रव्यत्वादी संभवत्येवेति योग्यताज्ञानस्यैव धर्मितावच्छेदकतासंबन्धेन शाब्दबोधं प्रति कारणत्वं वक्तव्यम्, यदा चोपस्थितेर्व्यभिचारित्वात्कारणत्वमेव नास्ति तदा तादृश-आत्मनिटसर गसत्त्य हेतुभूनाया द्रव्यत्वावच्छिन्नोपस्थितेरभाष-- स्याकिंचित्करत्वमशाब्दबोधप्रतिबन्धक न संभवतीति उक्तयोग्यताज्ञानबलादेव शाब्दबोपों जायते स्वीकर्तव्यश्चेत्यभिप्रायः । अत्र घटो घटः । इत्यत्र शाब्दबोधापत्तिरस्ति नास्तीति वा न विचार्यते किं तूपस्थितेः धर्मितावच्छेदकतासंबन्धेन तय त्मनिष्ठप्रत्यासत्त्या कारणत्वं न संमचतीति पूर्वपक्षतात्पर्यम् । अत एवोत्तापक्षे प्रकारतासंबन्धनोपस्थिते; कारणत्वं व्यवस्थाध्यते इत्यवधेयम् । "Aho Shrutgyanam" Page #63 -------------------------------------------------------------------------- ________________ घटो घट इति विवादः ] व्युत्पत्तिवादः। (५१) येन संबन्धेन यद्धर्मावच्छिन्नकार्य प्रति येन संबन्धेन यद्धर्मावच्छिन्नकार्यस्य व्यापकता तेन संबन्धेन तद्धर्मावच्छिन्नकार्योत्पादकसामग्या अपि तेन संबन्धन तधर्मावच्छिन्नकार्योत्पत्तावपेक्षिततया प्रकारतासंबन्धेन द्रव्यत्वादौ द्रव्यपदजन्यपदार्थोपस्थित्यऽसखे तत्र धर्मितावच्छेदकतासंबन्धेन शाब्दबोधापत्तेरयोगात् । परिहारहेतुमाह- समानेति, योग्यताज्ञाने द्रव्यत्वं धर्मितावच्छेदकविषया भासते इति योग्य. ताज्ञानं शाब्दबोधं प्रति धर्मितावच्छेदकतासंबन्धेनैव कारणमिति समानधर्मितावच्छेदकतासंत्रन्धेन शाब्दबोधयोंग्यताज्ञानयोः कार्यकारणभावः । उपस्थितौ च कस्यचिदपि द्रव्यत्वादेर्धर्मितावच्छेदकतया मानामावादुपस्थितेर्धर्मितावच्छेदकतासंबन्धेन कारणत्वासंभवेपि समानप्रकारताप्रत्यासत्त्या समानप्रकारतासंबन्धेन कारणत्वं संभवत्येव, अयं भावः- 'द्रव्यं घटः ' इतिवाक्यजन्योपस्थितौ घटत्वं घटे प्रकारो घटश्च द्रव्ये प्रकारो द्रव्यत्वं च द्रव्ये प्रकारो द्रव्यमेकं विशे. म्यम्, यद्यप्यत्रोपस्थितौ प्रकारताया विशेष्यतायाश्च निरवच्छिन्नत्वात् प्रकारतावच्छेदकतया विशेष्यतावच्छेदकतया च कस्यचिदपि भानं न भवति तथापि द्रव्यत्वस्य प्रकारतया मानं तु भवत्येव द्रव्यप्रकारतयोरस्थितत्वात् तच्च द्रव्यत्वं शाब्दबोधेपि द्रव्यप्रकारतया द्रव्यं घटः ! इत्यत्र भासत एवेति द्रव्यत्वनिष्ठा प्रकारता समानप्रकारता प्राप्ता तादृशसमानप्रकारतासंबन्धेनोपस्थिते; कारणत्वमस्ति-- द्रव्यत्वे प्रकारतासंबन्धेनोपस्थितिशाब्दबोधयोरुभयोरपि सत्त्यादेवेति नोपस्थितेरकारणत्वमुपस्थितिविरहस्याऽकिंचित्करत्वं चेति ।। ननु धर्मितावच्छेदकतासंबन्धेन शान्दबोधे जननीये प्रकारतासंबन्धेनोपस्थितेव्यत्वादी संभवेपि कथमुपयोगः स्यादित्याशङ्कय प्रकारतासंबन्धनोपस्थितेर्धर्मितावच्छेदकतासंबन्धावच्छिन्नशाब्दबोधं प्रति कारणत्वमुपपादयति- येनेति, यथा-- येन संबन्धन-समवायसंबन्धेन यद्धविच्छिनकार्य प्रति घटत्वावच्छिन्नकार्य प्रति येन संयन्वेन तादात्म्यसंबन्धेन यद्धर्मावच्छिन्न कार्यस्य-द्रव्य. स्वावच्छिनकार्यस्य व्यापकतास्तीति तेन संबन्धेन तादात्म्यसंबन्धेन तद्धर्मावच्छिन्नकार्योत्पादकसामायाः-द्रव्यत्वावच्छिन्नकार्योत्पादकसमवायिकारणादिसमवधानादिरूपसामघ्या अपि तेन संबन्धेन-समवायसंबन्धेन तद्धर्मावच्छिनकार्योत्पत्तौ घटत्वावच्छिन्नकार्योत्पत्तौ अपेक्षितत्वं भवति-व्याप्यधर्मावच्छिन्नकार्योत्पत्तेः व्यापकधर्मावच्छिन्नकार्योत्पादकसामग्रीसापेक्षत्वेन समवायिकारणनिमिसकारणादिसमवधानादिरूपां द्रव्योत्पादकसामग्री विना द्रव्यव्याप्यस्य घटस्योत्पत्तेरसंभवान् * समवायसंबन्धेन कार्यत्वावच्छिन्नं प्रति तादात्म्यसंबन्धेन द्रव्यत्वेन द्रव्यं समवायिकारणमिति व्यापककार्यकारणभावः । समवायसंबन्धेन घटत्वावच्छिन्न कार्य प्रति तादात्म्यसंबन्धेन कपालस्वेन कपाल: समवायिकारणमिति व्याप्यकार्यकारणभावः, तथा- प्रकृतेपि येनं संबधेनः धर्मितावच्छेदकतासंबन्धेन यद्धर्मावच्छिन्न कार्य प्रति घटत्वाच्छिन्न प्रकारकाऽभेदसंसर्गकशाब्दबोधत्वावच्छिन्नकार्य प्रति येन -संबन्धेन= प्रकारतासंबन्धेन यद्धर्मावच्छिन्नकार्यस्य शाब्दबोधन्वरूपसामान्यधर्मावच्छिन्नकार्यस्य व्यापकता=अधिकदेशवृत्तित्वं तेन संबन्धेन प्रकारतासंबन्धेन तद्धर्मा "Aho Shrutgyanam" Page #64 -------------------------------------------------------------------------- ________________ (५२) सादर्श: [ प्रथमाकारके न च यत्र प्रमेयत्वाद्यवच्छिन्नविशेष्यकवृत्तिज्ञानजन्यप्रमेयत्वाद्यवच्छिन्न विशे orकोपस्थितावेव उद्बोधकान्तराद् द्रव्यत्वाद्यवच्छिन्नस्य भानं तत्र द्रव्यत्वाद्यवच्छिन्नविषयक शान्दापत्तिवारणाय तद्धर्मावच्छिन्न विशेष्य कशाब्दबोधं प्रति वच्छिन्नकार्योत्पादकसामाग्र्याः = शाब्दबोधत्यरूपसामान्यधर्मावच्छिन्न कार्योत्पादकसामाग्र्या अपि तेन संबन्धेन=धर्मितावच्छेदकता संबन्धेन तद्धर्मावच्छिन्न कार्योत्पत्तौ घटत्वावच्छिन्न प्रकारताकाभेदसंसर्गकशाब्दबोधत्वावच्छिन्न कार्योत्पत्तौ अपेक्षितत्वं भवतीति प्रकारतासंबन्धेन द्रव्यत्वादौ द्रव्यपदजन्यपदार्थौपस्थित्यभावे तत्र = द्रव्यत्वादौ धर्मितावच्छेदकतासंबन्धेनापि शाब्दबोधापत्तेः= शाब्दबोधोत्पत्तेरसंभवादित्यन्वयः । अयं भावः - अधिकदेशवृत्तित्वं हि व्यापकत्वम् ' द्रव्यं घटः इत्यत्र च विशेष्यता तु केवलं द्रव्ये व बर्तते प्रकारता च घटघटत्वद्रव्यत्वेषु त्रिषु वर्तते इति प्रकारताया विशदत्वात् प्रकारता संबन्धेन शाब्दबोधस्य घटघटत्वद्रव्यत्वेषु संभवादधिक देशवृत्तित्वमस्तीति व्यापकत्वम्, शासंबन्धेन तु शाब्दबोधो द्रव्यत्वमात्रे एव वर्तते इति तस्य व्याप्यत्वम् । तथा न्दबोधत्वरूपसामान्यधर्मावच्छिन्नस्य व्यापकत्वम्, घटत्वावच्छिन्नप्रकारका मेदसंसर्गकशाब्दबोधत्वावच्छिन्नस्य व्याप्यत्वम् । व्याप्यधर्मावच्छिन्ने च कार्ये जननीये व्यापकधर्मावच्छिन्न कार्योस्वादकसामग्री अपेक्ष्यते यथा - करीषजन्यत्वविशिष्टवह्नित्वरूपव्याप्यधर्मावच्छिन्नवह जनीये शुद्धवह्नित्वरूपव्यापकधर्मावच्छिन्नवहयुत्पादक सामग्री इन्धनादिरूपाऽपेक्षिता भवति तदभावे वह्नयुत्पत्यसंभवात्, यथा च घटत्वरूपव्याप्यधर्मावच्छिन्ने घटे जननीये द्रव्यत्वरूपव्यापकधर्मावच्छिन्न कार्योत्पादिका समवायिकारणादिसमवधानादिरूपा सामग्र्यऽपेक्षिता भवति, तथा - प्रकृतेपि घटत्वावच्छिन्नप्रकारका भेदसंसर्गकशाब्दबोधत्यरूपव्याप्यधर्मावच्छिन्ने शाब्दबोवे जननीये शुद्धशाब्दबोधःवरूपव्यापकधर्मावच्छिन्नशाब्दबोधोत्पादिका या प्रकारतासंबन्धेनोपस्थितिस्तस्या अवश्यमपेक्षा भवत्येवेति प्रकारतासंबन्धेन द्रव्यत्वे द्रव्यपदजन्योपस्थित्यऽसत्त्वे द्रव्यत्वे धर्मितावच्छेदकतासंबन्धेनापि शाब्दबोधोत्पत्तिर्न संभवतीति प्रकारतासंबन्धेनोपस्थितेः शाब्दबोधकारणत्वमवश्यमभ्युपगन्तव्यम् । न चेति- यदि समानप्रकारताप्रत्यासत्त्योपस्थितेः शाब्दबोधं प्रति कारणत्वं स्वीक्रियते तदा यत्र प्रमेयपदेन प्रमेयत्वावच्छिन्नविषयको पस्थितिः स्याद् उद्बोधकान्तराच द्रव्यत्वावच्छिन्न विषयको - पस्थितिः स्यात्तत्र तादृशसमूहालम्बनात्मकप्रमेयद्रव्ययोरुपस्थितौ प्रमेयपदजन्यत्वेन पदजन्यत्वमप्यस्त्येव तत्र प्रमेयस्यैव विशेष्यत्वेन द्रव्यस्य प्रकारत्वाच्च उद्बोधकान्तरादुपस्थितद्रव्ये प्रकारतासंत्र न्धेनोपस्थितेः सत्त्वाद् द्रव्ये शाब्दबोधोपि स्यादेव कारणसत्त्वे कार्यावश्यंभावात् न चैत्रमुद्दोकान्तरादुपस्थित पदार्थे उद्बोधकान्तरजन्योपस्थितिसत्त्वेपि शाब्दबोध इष्ट इत्युक्तस्थले तद्वारनाय= शाब्दबोधापत्तिवारणाय तद्धर्मावच्छिन्नविशेष्यकशान्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मावच्छिन्नविशेष्यकं यद् ' इव्यं द्रव्यपदशवयम्' इत्याकारकं वृत्तिज्ञानं तादृशवृत्तिज्ञानजन्यतद्धर्मप्रकारक - "Aho Shrutgyanam" Page #65 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः । ( ५३ ) घटो बट इति विवादः ] तद्धर्मावच्छिन्नविशेष्यकवृत्तिज्ञानजन्य तद्ध में प्रकारकपदार्थोपस्थितेर्हेतुता वाच्या तथा च प्रकारविशेष्यनिवेशस्यावश्यकत्वे विषयनिष्ठप्रत्यासत्त्या हेतुताकल्पनमयुक्तम्, तथा सति पुरुषभेदेन कार्यकारणभावबाहुल्यप्रसङ्ग इतिवाच्यम्, स्वजन - -पदार्थोपस्थितेर्हेतुत्वं वक्तव्यं तथा चोक्तस्थले द्रव्यस्य योपस्थितिर्जाता सोद्बोधकान्तरादेव जाता न तु द्रव्यपदवृत्तिज्ञानजन्यास्तीति तादृशोद्बोधकान्तरजन्योपस्थितेः शाब्दबोधं प्रति कारणत्वमेव नास्ति येनोद्बोधकान्तरादुपस्थितद्रव्ये शाब्दबोधापत्तिः स्यादित्यर्थः । तथा चेति-तथा च 'तद्धर्मावछिन्न विशेष्यकशाब्दबोधं प्रति तद्धर्मावच्छिन्न विशेष्यकवृत्तिज्ञानजन्यतद्धर्मप्रकारकपदार्थोपस्थितेर्हेतुत्वम् ' इत्येवं कार्यकारणभात्रे स्वीकृते कार्यकारणभावे प्रकारविशेष्य योर्निवेशस्यावश्यकावे प्राप्ते विषयनिष्ठप्रत्यासत्त्या हेतुताकल्पनमयुक्तमेवेत्यर्थः । अयं भावः- शाब्दबोधतत्कारणयोश्च कार्यकारणभाव आत्मनिष्ठप्रत्यासत्त्यापि भवति विषयनिष्ठ प्रत्यासत्त्यापि च भवति तत्रात्मनिष्ठप्रत्यासत्त्या यदात्मन्युपस्थित्यादिकं कारणं भवति तदात्मन्येव शाब्दबोधोप्यर्थादव ते नान्यत्र प्रसङ्ग इति तत्पुरुषीयत्वप्रवेशापेक्षा न भवति किं तु पटाद्युपस्थित्यादिसत्त्वे घटाविषयको पिशाब्दबोधः स्यादिति तद्वारणाय विषयनिवेशापेक्षा भवत्येव यथा - घटत्वावछन्नविषयक शाब्दबोधं प्रति घटत्वावच्छिन्नविषयको पस्थितेः कारणत्वमिति, विषयनिष्ठप्रत्यासत्या च यस्मिन् विषये उपस्थित्यादिकं भवति तत्रैव शाब्दबोधोपि संभवति नान्यत्रेति विषय निवेशापेक्षा नास्ति किं तु तत्पुरुषीयत्वनिवेशापेक्षा भवत्येव यथा -- यज्ञदत्तीयशाब्दबोधं प्रति यज्ञदत्तीयोपस्थित्यादिकं कारणमिति. अन्यथा देवदत्तस्योपस्थित्यादिसत्त्वे यज्ञदत्तस्यापि शाब्दबोधः स्यादित्येवं स्थिते उक्तोद्बोधकान्तरजन्योपस्थितेद्रव्यादौ प्रकारतासंबन्धेसत्त्व तत्र द्रव्ये शाब्दबोधोपि स्यादेवेति तद्वारणाय यदि विषयनिष्ठप्रत्यासत्त्या कार्यकारणस्वीकारेप प्रकारविशेष्ययो निवेशस्योक्तस्यापेक्षा प्राप्ता तदा विषयनिष्ठप्रत्यासत्त्या ( प्रकारसंबन्धेनापि ) उपस्थितेः कारणत्वाश्रयणमयुक्तमेव यतो विषयनिष्टप्रत्यासत्त्या कारणत्वं हि .वैषयप्रवेशप्रयुक्तगौरवपरिहारार्थमेवाश्रीयते विषयप्रवेशापेक्षा तूक्तरीत्या प्राप्तैव पुरुषान्तरस्य शाब्दबोधवारणाय तत्पुरुषीयत्व निवेशोपि कर्तव्य एवेति विषयनिष्टप्रत्यासत्त्या हेतुताकल्पनमयुतमेव तथा चात्मनिष्ठप्रत्यासत्त्यैवोपस्थितेर्हेतुत्वं स्वीकार्यम् आत्मनिष्ठप्रत्यासत्त्या हेतुत्वापगमे विषयप्रवेशापेक्षासत्त्वेपि तत्पुरुषीयत्वप्रवेशापेक्षाभावेन लाघवात् एतदेवाह - तथा सतीति । तथा सति विषयनिष्ठप्रत्यासत्या हेतुत्वोपगमे सति तत्पुरुषीयत्वप्रवेशापेक्षया देवदत्तादिपुरुषमेदेनाऽनन्तकार्यकारणभावकल्पनाप्रसङ्गः, उक्तोद्बोधकान्तरजन्योपस्थित्या शाब्दबोधवारणाय विषप्रवेशापेक्षाप्यस्त्येवेति महद् गौरवम् । आत्मनिष्ठसमवाय प्रत्यासत्त्या च द्रव्यत्वावच्छिन्नधर्मिकबटत्वावच्छिन्नप्रकारकाभेदसंसर्ग कशाब्दबोधं प्रति क्लृप्ता या द्रव्यत्वावच्छिन्नधर्मिकयोग्यताज्ञानरूपा सामग्री तदभावान्न 'बटो घट:' इत्यत्र शाब्दबोधापत्ति:- अत्र द्रव्यत्वस्य धर्मिताव-च्छेदकत्वाभावादितिभावः । "Aho Shrutgyanam" Page #66 -------------------------------------------------------------------------- ________________ (५४) सादर्श: [ प्रथमाकारकेकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासंबन्धेनो पस्थितेहेतुतां स्वीकृत्य तादृशापत्तेारणात् । परिहारमाह- स्वजनकज्ञानीयेति, याद्बोधकान्तरजन्योपस्थित्या शाब्दबोधवारणाय विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावस्वीकारेपि 'तद्धर्मावच्छिन्नविशेष्यकशाब्दबोधं प्रति तद्धर्मावच्छिनविशेष्यकवृत्तिज्ञानजन्यतद्धर्मप्रकारकोपस्थितेर्हेतुत्वम् । इत्येवं कार्यकारणभावे विषयप्रवेशापेक्षा स्याद् विषयप्रवेशेन गौरवापत्त्या विषयनिष्टप्रत्यासत्त्या कार्यकारणभावस्त्यक्तः स्यादात्मनिष्टप्रत्यासत्या च स्वीकृतः स्यात् तदात्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे विषयप्रवेशापश्यंभावेन 'द्रव्य घटः । इत्यत्र शाब्दबोधकारणं या द्रव्यत्वावच्छिन्नधर्मिकयोग्यताज्ञानादिरूपा सामग्री तस्याः ‘बटो घटः ' इत्यत्र द्रव्यत्वस्य धर्मितावच्छेदकत्वाभावेमाऽभावात् शाब्दबोधापत्तिने स्यादपि न चैवमस्ति गतः- स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदमाताविशिष्टप्रकारतासंबन्धेनोपस्थितेः कारणत्वं स्वीक्रियते ( स्वं उपस्थितिः) । प्रकारतासंबन्धश्च विषयनिष्ठप्रत्यासत्तिरेव, तथा च द्रव्यं घटः ' इत्यत्र स्वं द्रव्यपदजन्योपस्थितिस्तज्जनकं यत् 'द्रव्यं द्रव्यपद शक्तिमत्' इतिशक्तिरूपवृत्तिज्ञानं तादृशज्ञाननिरूपिता या शक्तिरूपवृत्तिनिष्ठा प्रकारता ( उक्तशक्तिज्ञाने शक्तेरेव प्रकारत्वात ) तन्निरूपिता विशेष्यता द्रव्ये वर्तते ( उक्तशक्तिशाने द्रव्यस्वैग विशेष्यत्वात् ) विशेष्यतावच्छेदकता च द्रव्यत्वे वर्तते अथ च तत्र द्रव्यत्वे द्रव्यपदजन्यद्रव्यपदार्थोपस्थितिनिरूपिता प्रकारतापि वर्तते ( उपस्थिती द्रव्यस्य विशेष्यत्वेन तत्र द्रव्यत्वस्य प्रकारत्वेन भानाद् उपस्थितिनिरूपिता द्रव्यत्वे प्रकारतास्ति ) इति द्रव्यत्वे स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताप्यस्ति उपस्थितीयप्रकारताप्यस्तीत्येषा प्रकारता सामानाधिकरण्यसंबन्धेन स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टा जातेति स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्ट प्रकारतासंबन्धेनोपस्थितेः शाब्दबोधं प्रति कारणत्वं स्वीक्रियते, एतादृशप्रकारतासंबन्धेन च ' द्रव्यं बटः ' इत्यत्र द्रव्य उपस्थितेः सत्त्वेन तत्र द्रव्यत्वे शाब्दबोधोपि जायते, उद्बोधकान्तरेण द्रव्योपस्थितिकाले च द्रव्ये नैतादृशप्रकारतासंबन्धेनोपस्थितिर्जायते- तस्या उपस्थितेः वृत्तिज्ञानजन्यवाभावाद् उद्बोधकान्सरजन्योपस्थितिनिरूपितद्रव्यनिष्ठप्रकारतायाश्च स्व ( उपस्थिति ) जनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टत्वाभावादिति कारणीभूताया उक्तंप्रकारतासंबन्धेनोपस्थितेरभावादेव शाब्दबोधो न संभवतीत्येवंरीत्या तादृशापत्तेः= उक्तोढोधकान्तरजन्योपस्थित्या शाब्दबोधापत्तेारणात्, तथा चोक्तोद्बोधकान्सरजन्योपस्थित्या शाब्दबोधापत्तिवारणार्थ विषयप्रवेशापेक्षा नास्तीति विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे उक्तदोषस्याभावात् — द्रव्यं घटः । इत्यत्र विषयनिष्ठप्रत्यासत्त्या घटत्वावच्छिन्नप्रकारकाभेदसंसर्गकयोग्यताज्ञानस्य यस्य शाब्दबोधकारणत्वमस्ति ताशयोग्यताज्ञानस्य " घटो घटः' इत्यत्रापि सत्वाच्छाब्दबोधापत्तिरस्त्येव विष: यनिष्ठप्रत्यासत्त्या कारणत्वस्वीकारेण द्रव्यत्वावच्छिन्नधार्मिकरवस्य प्रवेशापेक्षाभावादित्यर्थः । "Aho Shrutgyanam" Page #67 -------------------------------------------------------------------------- ________________ घट घट इति विवादः ] व्युत्पत्तिवादः । ( ५५ ) न च पदार्थेपि प्रकारतासंवन्धेन शाब्दबोधोत्पत्या तंत्र तादृशप्रकारता संबन्धेन पदार्थोपस्थतेरभावात् प्रकारनिष्ठप्रत्यासत्या पदार्थोंपस्थितेर्हेतुता व्यभिचारेण कल्पयितुमशक्येतिवाच्यम्, परामर्शकारणताविचारदर्शितदिशा व्यभिचारस्य ननु कार्यकारणभावस्यान्वयव्यतिरेकाभ्यामवधार्यत्वादुक्तप्रकारतासंबन्धेनोपस्थितेः कारणत्वमेव न संभवति व्यभिचारादित्याशङ्कते - न चेति 'द्रव्यं घटः ' इत्यत्र द्रव्यं विशेष्यं घटध प्रकार इति यथा द्रव्ये विशेष्यतासंबन्धेन द्रव्यत्ये च विशेष्यतावच्छेदकता संबन्धेन शाब्दबोधो जायते तथा पदार्थेपि= घटेपि प्रकारतासंबन्धेन शाब्दबोधो जायते एव तत्र = घंटे च तादृशप्र-कारतासंबन्धेन=उक्तप्रकारतासंबन्धेन पदार्थोपस्थितिः = घटोपस्थितिस्तु नास्त्येव यसः - घटप Prachपस्थिती घटो विशेष्यतयैव भासते न तु प्रकारतयेति घंटे घटपदजन्योपस्थितीयप्रकारतैव नास्तीति कथं प्रकारतासंबन्धेन घंटे उपस्थितिः स्यादिति घटे प्रकारतासंबन्धेनोपस्थित्य भावेपि ' द्रव्यं घट: ' इतिवाक्यजन्यशाब्दबोधस्तु प्रकारतासंबन्धेन घटे उत्पद्यते एवेत्युपस्थिते प्रकारासंबन्धेन व्यभिचारित्वात्कारणत्वं न संभवति । तथा चात्मनिष्ठप्रत्यासत्त्या योग्यज्ञानस्य कारणत्वं वक्तव्यं आत्मनिष्ठप्रध्यासत्त्या योग्यताज्ञानं च द्रव्यत्वावच्छिन्नधर्मिकमेव द्रव्यं घटः ' इत्यत्रोक्तरीत्या कारणं तस्य च ' घटो घटः' इत्यत्राऽसंभचान्न शाब्दबोधापतिरित्यर्थ: : घटपदजन्योपस्थितौ घटस्य विशेष्यत्वेन पदार्थत्वादुक्तं- पदार्थोंपीति । घटेपि द्रव्यं घटः इतिवाक्यजन्यशाब्दबोधीया प्रकारतास्स्येव घटस्य द्रव्ये विशेषणत्वादिति घटे कारतासंबन्धेन शाब्दबोधसंभवः । उपस्थितिश्चोपस्थितीयप्रकारतासंबन्धेनैव घटादौ शाब्दबोवाधिकरणेऽपेक्ष्यते न त्वन्यदीयप्रकारतासंबन्धेन घंटे उपस्थितीय प्रकारता तु नास्त्येव - उपस्थितौ घटस्य विशेष्यत्वेनोपस्थितीय विशेष्यताया एवं घटे वर्तमानत्वादित्युक्तं तादृशप्रकारतेति । पत्वं तु द्रव्यप्रकारतयैव द्रव्यपदजन्योपस्थितौ भासते इति द्रव्यत्वे प्रकारतासंबन्धेन द्रव्यपदजिन्योपस्थितिरस्त्येवेति द्रव्यत्वे शाब्दबोधोत्पत्तौ न कोपि दोष इत्यवधेयम् । प्रकारनिष्ठ प्रत्यासया प्रकारनिष्ठा या प्रकारता तल्लक्षणप्रत्यासत्त्या | परिहारमाह- परामर्शेति, यथा वह्यनुमितिं प्रति धूमपरामर्शस्यापि कारणत्वमस्स्यालोकपरामशस्यापि कारणत्वमस्ति तयोश्च परामर्शयोः परस्परजन्यानुमितौ व्यभिचारे प्राप्ते धूमपरामर्शान्यन - हितोत्तरस्वविशिष्टानुमितिं प्रत्येव धूमपरामर्शस्य कारणत्वमालोकपरामर्शाव्यवहितोत्तरत्वविशिष्टानुमिति प्रत्येवालोकपरामर्शस्य कारणत्वमित्येवं कार्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्व निवेशेन मिचारो निवारितस्तथात्रापि कार्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्वनिवेशेष व्यभिचारी ' निवारणीयस्तथा च स्वजनकज्ञानीयवृत्तिनिष्ठ प्रकारतानिरूपित विशेष्यतावच्छेदकता विशिष्टप्रकारतासंबन्धेनोपस्थित्यव्यवहितोत्तरत्व विशिष्टशाब्दबोधं प्रति स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारता निरूपितविशेष्यतावच्छेदकता विशिष्टप्रकारतासंबन्धेनोपस्थितेः कारणत्वं यथा ' द्रव्यं घटः इतिवाक्यजन्यं द्रव्यत्वे जायमानशाब्दबोधं प्रति । घटे जायमानशाब्दबोधं प्रति तूक्तप्रकारतासंबन्धेनो "Aho Shrutgyanam" Page #68 -------------------------------------------------------------------------- ________________ सादर्श: [ प्रथमाकारकेवारणीयत्वादिति चेत् ?,तर्हि तद्धर्मावच्छिन्नाऽभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मभेदस्यापि हेतुतायाः स्वीकरणीयतया न 'घटो घटः ' इत्यादिस्थले शाब्दबोधापत्तिः । . 'स घटः' इत्यादिवाक्याजातित्वादिनाघटत्वादिधर्मितावच्छेदककस्य स्वरूपतो घटत्वादिप्रकारतावच्छेदककस्य, 'घटः सः' इत्यादिवाक्यात् स्वरूपतो घटत्वापस्थितेः कारणत्वमेव नास्ति येन घटेऽसत्वाद् व्यभिचारित्वं स्यात् किं तु घटे यादृशप्रकारतासंबन्धेनोपस्थित्यनन्तरं शाब्दबोधो जायते तादृशप्रकारतासंबन्धेनैवोपस्थितेः कारणत्वमिति न व्यभिचारः । तथा च विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे दोषाभावाद् योग्यताज्ञाने द्रव्यत्वा.. वच्छिन्नधर्मिकत्वस्य प्रवेशापेक्षाभावेन 'द्रव्यं घटः । इत्यत्र यद् घटत्वावच्छिन्नप्रकारकाभेदसंसगेंकयोग्यताज्ञान शाब्दबोधजनकं तस्य 'घटो घटः' इत्यत्रापि सत्त्वाद् घटत्वावच्छिन्नप्रकारकाभेदसंसर्गकशाब्दबोधः स्यादेव कारणसत्त्वे कार्यावश्यंभावादित्यर्थः । __ अथेत्यादिनाशङ्कित सिद्धान्ती परिहरति-तीति । तद्धर्मपदेन प्रकारतावच्छेदकधर्मों घटत्वादिर्ग्राह्यः । तद्धर्मावच्छिन्नाभेदसंसर्गावच्छिन्न प्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्द बोधोत्पत्ति प्रति तद्धर्मभेदस्य-प्रकारतावच्छेदकधर्मभेदस्य हेतुत्वम् । यत्र विशेष्यतावच्छेदकप्र. कारतावच्छेदकधर्मयोर्भेदो भवति तत्रैवाइभेदान्वयबोधो भवति यथा 'द्रव्यं घटः' इत्यत्र विशे. ध्यतावच्छेदकं द्रव्यत्वं प्रकारतावच्छेदकं च तद्भिन्नं घटत्वमिति । 'घटो घटः' इत्यत्र तु घट त्वमेव विशेष्यतावच्छेदकं प्रकारतावच्छेदकं चेति विशेष्यतावच्छेदकप्रकारतावच्छेदकयोर्भेदाभावानाऽभेदान्वयबोधो भवतीत्यर्थः । अत्र- " तद्धर्मावच्छिन्नाऽभेदसंसर्गावच्छिन्ना च या घटनिष्टा प्रकारता तन्निरूपिता विशेष्यता द्रव्ये तदवच्छेदकता ( विशेष्यतावच्छेदकता) संबन्धेन 'द्र घटः । इति शाब्दत्वावच्छिन्नं द्रव्यत्वे जायते तत्र द्रव्यत्वे तद्धर्मभेदो घटत्वभेदो हेतुरस्तिा 'घटो घटः' इत्यत्र तु न शाब्दबोधापत्तिः- घटत्वे घटत्वभेदाभावादित्यर्थः" इति कृष्णभट्टाः । किं च 'द्रव्यं घटः' इत्यत्र घटमुद्दिश्य द्रव्यत्वविधानाद् द्रव्यमुद्दिश्य घटत्वविधानासंभवाच घटविशेष्यक एव शाब्दबोधो युक्तो न तु घटप्रकारको येन 'द्रव्यं घटः' इतिदृष्टान्तेन 'घटो घटः' इत्यत्र घटप्रकारकशाब्दबोधापत्तिः स्यादित्यपि विज्ञेयम् । ननु यद्युक्तरीत्याऽभेदसंसर्गकशाब्दबोधं प्रति तद्धर्मभेदस्य नाम विशेष्यतावच्छेदकप्रकारतार च्छेदकधर्मयोर्भेदस्य हेतुत्वं स्वीक्रियते तदा ‘स घटः' 'घटः सः' इत्यादौ योऽभेदसंसर्गकशाब्दबो इष्टः स नोपपद्यत- विशेष्यतावच्छेदकप्रकारतावच्छेदकधर्मयोर्भेदाभावात्, यतः- 'यः खल्या जातिमानस्ति स घट आनेतव्यः' इतिवाक्यघटके ‘स घटः' इति वाक्ये तत्पदेन जातिमान् बो. ध्यते इति जात्यवच्छिन्नेऽत्र तत्पदस्य शक्तिः तत्पदवाच्यो जातिमानेव विशेष्य उद्देश्यत्वान् घटश्च प्रकारो घटे प्रकारतावच्छेदकधर्मो घटत्वं तत्पदवाच्ये जातिमति विशेष्ये च विशेष्यतावच्छेदकधर्मो जातिरेव जातौ च घटत्वमेदो नास्त्येव जातेघटत्वादिरूपत्वात. अत्रापि वस्तुतो विशेष्य "Aho Shrutgyanam" Page #69 -------------------------------------------------------------------------- ________________ अभेदान्त्र यविचारः] व्युत्पत्तिवादः । (५७) दिधर्मितावच्छेदककस्य जातित्वादिविशिष्टघटत्वावच्छिन्नप्रकारताकस्य शाब्दबोधस्योपपत्तये विशेष्यत्वप्रकारत्वयोरवच्छेदकत्वे निरवच्छिन्नत्वेन विशेषणीये। तावच्छेदकधर्मो घटत्वमेव तत्पदस्य घटबोधकत्वादेव किंतु तस्य घटत्वस्य घटत्वत्वेन रूपेण प्रतीतिन भवति किं तु जातित्वेन प्रतीतिर्भवति तत्पदस्यात्र जातिमति शक्तत्वात, जातिमद्रूपेणैव घटबोधकत्वात् तयोश्च विशेष्यतावच्छेदकप्रकारतावच्छेदकधर्मयो तिघटत्वयोर्भेदाभावादत्राभेदसंसर्गकशाब्दबोधो न स्यादेव, तथा घटः सः' इत्यत्रापि तत्पदस्योक्तरीत्या जातिमति शक्तत्वात् विशेष्यतावच्छेदकप्रकारतावच्छेदकधर्मयोर्घटत्वजात्योर्भेदाभावादिष्टोऽभेदसंसर्गकशाब्दबोधो न स्यादेथेत्याशङ्क्याह- स घट इत्यादीति । 'स घट:' 'घटः सः' इत्यादावभेदसंसर्गकविवक्षितशाब्दबोधस्योपपत्तये विशेष्यत्वप्रकारत्वयोरवच्छेदकत्वे निरवच्छिन्नत्वेन विशेषणीये अर्थात्-यत्र विशेष्यतावच्छेदकता प्रकारतावच्छेदकता च निरवच्छिन्ना भासते तादृशशाब्दबोधं प्रत्येव तद्धर्मभेदस्य हेतुत्वमस्ति तथा च- निरवच्छिन्नावच्छेदकताकविशेष्यताकम् ( निरवच्छिन्नविशेष्यतावच्छेदकताकम् ) निरवच्छिन्नावच्छेदकताकप्रकारताकम् ( निरवच्छिन्नप्रकारतावच्छेदकताकम् ) च शाब्दबोधं प्रति तद्धर्मभेदस्य हेतुत्वम्, 'द्रव्यं घटः' इत्यत्र द्रव्यत्वनिष्ठा या विशेष्यतावच्छेदकतास्ति सा निरवच्छिन्नास्ति द्रव्यत्यस्य स्वरूपेणैव भासमानत्वात् तथा घटत्वनिष्ठा प्रकारतावच्छेदकतापि निरवच्छिन्नास्ति घटत्वस्यापि स्त्ररूपेणैव भासमानत्वादिति तादृशशाब्दबोधं प्रति तद्धर्मभेदस्योक्तरीत्या हेतुत्वमस्ति. अस्ति च तत्र द्रव्यत्वघटल्वयोर्भेदः । अत्र तु 'स घटः' इत्यस्य 'जातिमान् घटः' इत्यर्थः जातिमानेव च विशेष्यः विशेष्यतावच्छेदकता जातौ वर्तते जातेश्च जातित्वेन रूपेण भासमानत्वात् जातिनिष्ठा भाष्यतावच्छेदकता जातित्वावच्छिन्नास्ति तथा चात्र शाब्दबोधः सावच्छिन्नविशेष्यतावच्छे. एकताको जायते न तु निरवच्छिन्न विशेष्यतावच्छेदकताकः, सावच्छिन्नविशेष्यतावच्छेदकताक. शाब्दबोधं प्रति तु तद्धर्मभेदस्य हेतुत्वमेव नास्तीत्यऽत्र विशेष्यतावच्छेदकप्रकारतावच्छेइकधर्मयोर्जातिघटत्वयोर्भेदाभावेपि नाभेदसंसर्गकशाब्दबोधस्यानुपपत्तिः । एवम्-'घटः सः' इत्यस्य 'घटो जातिमान्' इत्यर्थः जातिमानेव च प्रकारः प्रकारतावच्छेदकतात्र जातौ वर्तते जातेश्च जातित्वेन रूपेण भासमानत्वात् जातिनिष्ठा प्रकारतावच्छेदकता (प्रकारता जातिमतीति जातिमद्विशेषणीभूतजातौ प्रकारतावच्छेदकता) जातित्वावच्छिन्नास्ति. तथा चात्र शाब्दबोधः सावच्छिन्नप्रकारतावच्छेदकताको जायते न तु निरवच्छिन्नप्रकारतावच्छेदकताकः सावच्छिन्नप्रकारतावच्छेदकताकशाब्दबोधं प्रति च तद्धर्मभेदस्य हेतुत्वमेव नास्तीत्यत्र विशेष्यतावच्छेदकप्रकारतावच्छेदकधर्मयोर्घटत्वजात्योर्भेदाभावेपि नाऽभेदसंसर्गकशाब्दब्रो. धस्थानुपपत्तिः । . ‘स घटः ' इत्यस्य शाब्दबोधस्वरूपमाह-- जातित्वादिनेति । अत्र धर्मितावच्छेदकतया घटत्वमेव जातित्वेन रूपेण भासते इत्युक्तं जातिवादिनेति, जातित्वेन भासमानं घटत्वं धर्मिता "Aho Shrutgyanam" Page #70 -------------------------------------------------------------------------- ________________ (५८) सादशे: [ प्रथमाकारके'घटो नीलघटः ' इत्याद्यन्वयबोधस्य प्रामाणिकत्वेऽन्यत्र दर्शितरीत्या सोऽप्युपपादनीयः । वच्छेदकं यस्य तस्य तथा स्वरूपतः--स्वरूपेण भासमानं च घटत्वं प्रकारतावच्छेदकं यस्य तस्य (घटे प्रकारतास्ति ) एवंभूतस्य शाब्दबोधस्योपपत्तये । घटः सः । इत्यत्र च स्वरूपतःस्वरूपेण भासमानं घटत्वं धर्मितावच्छेदकं यस्य तस्य तथा जातित्वविशिष्टं जातित्वेन भासमानं च यद् घटत्वं तदवच्छिन्ना प्रकारता यस्य ( जातित्वावच्छिन्ना घटत्वनिष्ठा प्रकारतावच्छेदकता यस्य ) तस्यैवंभूतस्य शाब्दबोधस्योपपत्तये इत्यन्वयस्तथा च ' स घटः । इत्य 'जातिवावच्छिन्नघटत्वनिष्ठावच्छेदकतानिरूपिता या विशेष्यता तनिरूपिता याऽमेदसंबन्धावच्छिन्ना घटत्वावच्छिन्ना प्रकारता तादृशप्रकारताशालिशाब्दबोधः । 'घटः सः' इत्यत्र घटत्वनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपिता या विशेष्यता तादृशविशेष्यतानिरूपिता या जातिका नघटत्वनिष्ठावच्छेदकतानिरूपिता घटनिष्ठा प्रकारता तादृशप्रकारताशालिशाब्दबोधः। 'स घट; ' इत्यत्र विशेष्यतावच्छेदकता जातिनिष्ठा सावच्छिना जातित्वावच्छिन्नत्वात, घटः सः' इत्यत्र च तथैव प्रकारतावच्छेदकता जातिनिष्ठा सावच्छिन्नास्तीति व्यतिरेकः । 'घटो नीलघरः । इति- 'घठो नीलघटः' इत्यत्र कस्यचिन्मते घटत्वापेक्षया नीलधटत्वस्य मिनावेन विशेष्यतावच्छेदकप्रकारतावच्छेदकयोर्घटत्वनीळघटत्वयोर्मेदादऽभेदसंसर्गकशाब्दबोधस्य नानुपपत्तिः 'द्रव्यं घटः' इत्यनेन तुल्यत्वात् । नवीनमते चात्र विधेयांशेऽधिकावगाहिशाब्दबोधस्वीकाराद् उद्देश्य (विशेष्य ) कोटौ केवलं घटस्यैव प्रवेशाद् विधेय (विशेषण). कोटौ घदापेक्षयाधिकस्य नीलस्यापि प्रवेशाद् भानाच नाऽभेदान्वयबोधे काचिदनुपपत्तिः । न चैवम् ' घटो घटः । इत्यत्राप्यभेदान्वयापत्तिरिति वाच्यम्, “घटो घटः' इत्यत्र उद्देश्यकोव्ये विधेयकोटौ च केवलं घटस्यैव प्रवेशाद् घटातिरिक्तनीलादेरप्रवेशेनाधिकावगाहित्वाभावात् ।। किं वा यत्र विशेष्यतावच्छेदकताप्रकारतावच्छेदकता चैकधर्मपर्याता स्यात्तत्राऽभेदान्वयबोध) प्रति सद्धर्मभेदस्य हेतुत्वमस्ति नान्यत्र यथा- 'द्रव्यं घटः । इत्यत्र विशेष्यतावच्छेदकता केवलं द्रव्यत्वे पर्याप्तास्ति प्रकारतावच्छेदकता च केवलं घटत्वे पर्याप्तास्तीति तत्राभेदान्वयबोधं प्रति तद्धर्मभेदस्य हेतुत्वमस्ति. अस्ति च तत्र द्रव्यत्वघटत्वयोः परस्परं भेद इति नाऽभेदान्वयबोधानुपपत्तिः । 'घटो नीलघटः । इत्यत्र तु प्रकारतावच्छेदकता नैकधर्मपर्याप्तास्ति किं तु नीलत्वघटत्वैतदुभयधर्मपर्याप्तास्तीत्यत्राऽभेदान्वयबोधं प्रति तद्धर्मभेदस्य हेतुत्वाभावाद् विशेष्यः तावच्छेदकीभूतस्य घटत्वस्य प्रकारतावच्छेदकीभूतस्य च नीलघटत्वस्य भेदाभावेप्यऽभेदा: न्वयबोधे न काप्यनुपपत्तिरित्याह- अन्यत्र दर्शितरीत्येति । किं वा-तद्धर्मवृत्तिाऽभेदसंबन्धावच्छिन्ना प्रकारता तादृशप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसंबन्धेन शान्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मभेदः कारणम्, तद्धर्मवृत्तित्वं च प्रकारतायां स्वनिरूपितावच्छेकतात्यावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसंबग्वेन "Aho Shrutgyanam" Page #71 -------------------------------------------------------------------------- ________________ अभेदान्वयविचारः ] व्युत्पत्तिवादः । 'स सः' इत्यादिवाक्याज्जातित्वाद्यवच्छिन्नधर्मितावच्छेदकताकतद्धर्मावच्छिनमकारतावच्छेदकताकाऽभेदान्वयबोधस्य वारणाय तद्धर्मावच्छिन्नावच्छेदकता स्वं अभेद संबन्धावच्छिन्ना प्रकारता, ' घटो घटः' इत्यत्र तद्धर्मः घटत्वगतैकत्वं तद्तिर्या स्वरूपसंबन्धेन घटनिष्ठा अभेदसंबन्धावच्छिन्ना प्रकारता ( घटे या स्वरूपसंबन्धेनाभेदसंबन्धावच्छिन्ना प्रकारता वर्तते सोक्तसंबन्धेन तद्धर्मे घटत्वगतैकत्वेपि वर्तते ) तादृशप्रकारतानिरूपिता या घटनिष्ठा विशेष्यता ( क्टो घट इत्यत्र प्रकारखं विशेष्यत्वं च घटस्यैव- घटप्रकारकघटविशेष्यकबोधस्यैवापाद्यमानत्वात् ) तादृशविशेष्यतावच्छेदकता घटत्वे, विवक्षितपर्याप्तिसंन्यस्य प्रतियोगिता तादृशविशेष्यतावच्छेदकतायां वर्तते तत्र विशेष्यतावच्छेदकतात्यमपि वर्तते इति सा प्रतियोगिता विशेष्यतावच्छेदकतात्वावच्छिन्ना जाता तथा चोक्त विशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोषिताकपर्याप्तेरनुयोगितावच्छेदकं वटत्वगतैकत्वम् ( विशेष्यतावच्छेदक पर्याप्तिर्घट विवक्षिता घटत्वमनुयोगी अनुयोगितावच्छेदकं घटत्वगतैकत्वं प्राह्यम् ) इति तन्निष्ठानुयोगितावच्छेदकत्व संबन्धेन ( तद् = घटत्वगतैकत्वम् ) शाब्दबुद्धित्वावच्छिन्नं प्रति तस्य कारणत्वमस्ति तच घटो घट: ' इत्यत्र नास्त्येव - विशेष्यतावच्छेदकतात्वावच्छिप्रतियोगिताक पर्याप्त्यनुयोगितावच्छेदकमपि घटत्वगतैकत्वमेव प्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्यात्यनुयोगितावच्छेदकमपि घटत्वगतैकत्वमेवेति न' घटो घटः मेदान्वयबोधापत्ति:- घटत्वगतैकत्वयोः पर्याप्त्यनुयोगितावच्छेदकयोः परस्परं मेदाभावात्, एकत्वाश्रयीभूतघटत्वस्य भेदाभावात् । 'घटो नीलघटः' इत्यत्र तु विशेष्यतावच्छेदकतात्वावच्छिन्नप्र तियोगिता पर्याप्त्यनुयोगितावच्छेदकं घटत्वगतैकत्वम्, प्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिता - पर्याप्त्यनुयोगितावच्छेदकं च नीलत्वघटत्वैतदुभयगतं द्वित्वमिति एकत्वद्वित्वयोश्च परस्परं भेदात तद्धर्मभेदस्य सत्त्वादभेदान्वयबोध उपपद्यते इत्याशयेनाह - अन्यत्रदर्शितरीत्येति इत्यत्रा ५९ < स सः ननु यदि ' स घटः ' इत्यादावऽभेदान्वयबोधोपपत्तये ' यत्र विशेष्यतावच्छेदकता प्रकारतावच्छेदकता च निरवच्छिन्ना स्यात्तत्रैवाऽभेदान्वयबोधं प्रति तद्धर्ममेदस्य कारणत्वम् ' इति स्वीक्रियते यथा ' द्रव्यं घटः ' इत्यादौ तदा इत्यत्र तत्पदयोर्जातिमति शक्तत्वाद् : विशेष्यतावच्छेदिका प्रकारतावच्छेदिका व जातिरेव जातिनिष्ठा हि विशेष्यतावच्छेदकता प्रकारबावच्छेदकता च जातित्वावच्छिन्नास्ति न तु निरवच्छिन्नेत्यत्राभेदान्वयबोधं प्रति तद्धर्मभेदस्य=विशेष्यतावच्छेदकप्रकारतावच्छेदकधर्मयोः किं वा विशेष्यतावच्छेदकतावच्छेदकप्रकारतावच्छेदकतावच्छेदकधर्मयोर्भेदस्य हेतुत्वाभावाद विशेष्यतावच्छेदकीभूतायाः प्रकार तावच्छेदकीभूतायाश्च जातेः किं वा विशेष्यतावच्छेदकतावच्छेदकस्य प्रकारतावच्छेदकतावच्छेदकस्य तित्वस्य भेदाभावेप्यऽभेदान्वयबोधः स्यादेवेत्याशङ्कयाह- स स इति । स स इति वाक्यानिवार्यमाणशाब्दबोधस्य स्वरूपमाह - जातित्वादीति । स सः इत्यस्य " जातिमान् जाति- " " Aho Shrutgyanam" Page #72 -------------------------------------------------------------------------- ________________ (६०) सादर्श: [ प्रथमाकारकेकाकारतानिरूपितमितावच्छेदकतावच्छेदकत्वप्रत्यासत्या शाब्दबोधं प्रति तद्धर्मभेदस्यापि पृथक कारणत्वं कल्पनीयम् । मान् ' इत्यर्थः, तत्र जातिमान् धर्मी धर्मितावच्छेदिका जातिः सा च जातित्वावच्छिन्नेति जातित्वावच्छिन्ना धर्मितावच्छेदकता यस्य स जातित्वाद्यवच्छिन्नधर्मितावच्छेदकताकः तथा तद्धर्मावच्छिन्ना--जातित्वधर्मावच्छिन्ना प्रकारतावच्छेदकता यस्य तस्य जातित्वाद्यवच्छिन्नधर्मितावच्छेदकताकतद्धर्मावच्छिन्नप्रकारतावच्छेदकताकस्याभेदान्वयबोधस्य ‘स सः' इतिवाक्यात्संभाव्यमानस्थ वारणाय. तद्धर्मावच्छिन्नावच्छेदकताकप्रकारतानिरूपितधर्मितावच्छेदकतावच्छेदकत्वप्रत्यासत्त्या शाब्दब्रोधं प्रत्यपि तद्धर्मभेदस्य कारणत्वं पृथक् कल्पनीयम् , तद्धर्मावच्छिन्नावच्छेदकतेति-तद्धर्मः जातित्वं जातित्वावच्छिन्नावच्छेदकता जातौ तादृशावच्छेदकताका तादृशावच्छेदकतानिरूपिता प्रकारता द्वितीयतत्पदयोध्ये घटे तादृशप्रकारतानिरूपितधर्मिता प्रथमतत्पदबोध्ये घटे धर्मितावच्छेदकत्वं घटत्वरूपजातौ धर्मितावच्छेदकताबच्छेदकत्वं च जातित्वे, तथा च जातित्वे जातित्वनिष्ठं यत् तद्धर्मावच्छिन्नावच्छेदकताकप्रकारतानिरूपितधर्मितावच्छेदकतावच्छदकत्वं तेन संबन्धेन शाब्दबोधे जननीये तद्धर्मभेद:-प्रकारतावच्छेदकतावच्छेदकभेदः कारणमस्तिं तच्च ‘स सः ' इत्यत्र नास्ति, अत्र विशेष्यतावच्छेदकतावच्छेदकं तथा प्रकारतावच्छेदकतावच्छेदकं एक जातित्वमेव तथा विशेष्यतावच्छेदिका प्रकारतावच्छेदिका चैका जातिरिति तद्धर्मदस्य कारणीभूतस्याभावादेव 'स सः' इत्यत्र नाऽभेदान्वयबोधापत्तिरित्यर्थः । अपिमिन्नक्रम इति प्रत्यासत्यापीत्यन्वयः । अस्य कार्यकारणभावस्योदाहरणं तु 'जातिमान् प्रमेयवान् ' इति, अत्र विशेष्यतावच्छेदिमर जातिः प्रकारतावच्छेदकं प्रमेयम् ( प्रमेयवतः प्रकारत्वात् ) तयोः परस्परं भेदादभेदान्चयबोधो जायत एव, किं वा विशेष्यतावच्छेदकतावच्छेदकं जातित्वं प्रकारतावच्छेदकतावच्छेदकं च प्रमेयत्वं तयोः परस्परं भेदादभेदान्धयबोधो जायते इति । वस्तुतस्तु यत्र प्रकारतावच्छेदकता. विशेष्यतावच्छेदकते उभे अपि निरवच्छिन्ने वा स्यातां सावच्छिन्ने वा स्यातां तत्राभेदान्वयबोधं प्रति तद्धर्मभेदस्य कारणत्वं तथा च ' द्रव्यं घटः ' इत्यत्र विशेष्यतावच्छेदकप्रकारतावच्छेदकयो. व्यत्वघटत्वयोरुभयोरपि निरवच्छिन्नत्वात् तद्धर्मभेदस्य कारणत्वमस्ति. अस्ति च तद्धर्मभेदो द्रव्य त्वघटत्वयोभिन्नत्वादित्य भेदान्वयबोधे न काप्यनुपपत्तिः, 'जातिमान् प्रमेयवान्' इत्यत्र च विशे. व्यतावच्छेदकप्रकारतावच्छेदकयोरुभयोरपि जातिप्रमेययोर्जातित्वप्रमेयत्वाभ्यां सावच्छिन्नत्वाद् अभेदान्वयबोधं प्रति तद्धर्मभेदस्य कारणत्वमस्ति. अस्ति चोक्तरीत्या तद्धर्मभेद इति नाऽभेदान्वयत्रोधानुपपत्तिः । ‘स सः' इत्यत्र च विशेष्यतावच्छेदकताप्रकारतावच्छेदकते जातिनिष्ठे उभे अपि जातित्वेन सावच्छिन्ने स्तः न चात्र विशेष्यतावच्छेदकप्रकारतावच्छेदकयोर्भेदोस्ति जातेस्वैकाया विशेष्यतावच्छेदकत्वात् प्रकारतावच्छेदकत्वाच्चेति कारणीभूतस्य तद्धर्मभेदस्याभावान्नाइभेदान्वयबोधापत्तिः । 'स घटः' इत्यत्र चोक्तरीत्या केवलं विशेष्यतावच्छेदकतैत्र सावच्छिन्नास्ति "Aho Shrutgyanam" Page #73 -------------------------------------------------------------------------- ________________ अभेदान्वयविचारः ] व्युत्पत्तिवादः । एवम्- ' दण्डवान् दण्डवान्' इत्यादिवाक्याद् दण्डसंयोगत्वाद्यवच्छिन्नवति तदवच्छिन्नवदभेदान्वयबोधस्य वारणाय दण्डसंयोगत्वाद्यवच्छिन्नावच्छेदकताकप्रकारतानिरूपितविशेष्य तानिरूपित संयोगत्वाद्यवच्छिन्नावच्छेदकतानिरूपितावच्छेदकतावच्छेदकत्व संबन्धेन शाब्दबोधे दण्डत्वादिभेदस्यापि पृथक् घटः सः ' इत्यत्र चोक्तरीत्या केवलं प्रकारतावच्छेदकतैव सावच्छिन्नास्ति न तु विशेष्यतावच्छेदकताप्रकारतावच्छेदकते उभे सावच्छिन्ने स्तः इति ' स घटः घटः सः' इत्यादौ तद्धर्मभेGreatest न काचिदनुपपत्तिः ' घटो घट: ' इत्यत्र विशेष्यतावच्छेदकताप्रकारतावच्छेदकते घटत्वनिष्ठे उभे अपि निरवच्छिन्ने स्तः भतोत्रामेदान्वयबोधं प्रति तद्धर्मभेदस्य कारणत्वमस्ति नास्ति चात्र तद्धर्मभेदो घटत्वस्यैकत्वादिति नात्राभेदान्वयबोधापत्तिरित्यवधेयम् । & ? 1 यथा स सः' इत्यत्राभेदान्वयबोधो नेष्टस्तथा ' दण्डवान् दण्डवान्' इत्यत्राप्यभेदान्वयबोधो नेष्ट इति तद्वारणोपायमाह - एवमिति । पूर्वोक्त्तापेक्षयात्रैकावच्छेदकताया अधिकायाः प्रवेशाद् बुद्धिवैशद्यार्थी च पृथक् प्रतिपादनम् । ' दण्डवान् दण्डवान् ' इत्यस्य मतुपः संबन्धिनि शक्तेः ' दण्डसंयोगवान् दण्डसंयोगवान् ' इत्यर्थः, तत्र प्रथमे ' दण्डसंयोगवान् ' तथा इति पदे दण्डयोगवान् पुरुषो विशेष्यन्तत्र दण्डसंयोगः प्रकारः ( विशेष C Sis के म् ) दण्डसंयोगे दण्डः प्रकारो दण्डे दण्डत्वं प्रकारः । द्वितीये दण्ड संयोगान दण्डवान् इतिपदे दण्डसंयोगवान् पुरुषः प्रकारस्तत्र दण्डसंयोगः प्रकारस्तत्र दण्ड: प्रकार ८ स्त्र दण्डवं प्रकारः तथा च दण्डत्वावच्छिन्ना या दण्डनिपच्छेदकता ( कता ) तन्निरूपिता या संयोगत्वावच्छिन्ना संयोगनिष्टाऽपचता (६१) बन्धावच्छिन्ना पुरुषनिष्ठा प्रकारता तन्निरूपिता या पुरुषनिष्ठा विशेष्यता तनिरूपिता या संयोगनिष्ठाऽवच्छेदकता ( विशेष्यतावच्छेदकता ) तन्निरूपिता या दण्डनिष्ठाऽवच्छेदकता तन्निरूपिता या दत्वनिष्ठाऽवच्छेदकता तादृशावच्छेदकतासंबन्धेन दण्डत्वे शाब्दबोधे जननीये तद्धमस्य==प्रकारतावच्छेदकतावच्छेदकतावच्छेदकस्य ( प्रकारता पुरुषे पुरुषनिष्ठप्रकारतावच्छेदकता दण्डसंयोगे तदवच्छेदकता दण्डे तदवच्छेदकं दण्डत्वमिति ) दण्डत्वादेर्धर्मस्य भेदः पृथक् = पूर्वापेक्षया पृथक् कारणमस्ति तचात्र नास्त्येव - विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकमपि त्वमे तथा प्रकारतावच्छेदकतावच्छेदकतावच्छेदकमपि दण्त्वमेव दण्डत्वस्यैक्येन परस्परं भेदाभावात् ' दण्डवान् दण्ढषान् इत्यत्र दण्डसंयोगत्वाद्यवच्छिन्नवति=दण्ड संयोगत्वावच्छिन्नो दण्डसंयोगस्तद्वति पुरुषे तदवच्छिन्नवत् = दण्डसंयोगत्वावच्छिन्नो यो दण्डसंयोगस्तद्वतः पुरुषस्याऽभेदान्वयबोधस्यापत्तिर्नास्ति तद्धर्मभेदरूपकारणाभावादित्यर्थः । दण्डसंयोगत्वायवच्छिनावच्छेदकताकेति - दण्डसयोगत्वावच्छिन्नो दण्डसयोगस्तन्निष्ठा यावच्छेदकता तादृशावच्छेद कताका = दण्डसंयोग निष्ठावच्छेदकता निरूपिता या प्रकारता पुरुषनिष्ठा प्रकारता तादृशप्रकातानिरूपिता विशेष्यता पुरुषनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता या संयोगत्वायव 7 प्र. " Aho Shrutgyanam" Page #74 -------------------------------------------------------------------------- ________________ सादर्श: [प्रथमाकारकेकारणत्वं कल्पनीयम् । अवच्छेदकतायां निरवच्छिन्नत्वनिवेशोपि पूर्ववद् बोध्यः । वस्तुतस्तु तद्धर्मान्यवृत्तिविषयतासंबन्धेन ज्ञान प्रति तद्धर्मभेदत्वेन हेतुता लाघवात्। च्छिन्नावच्छेदकता दण्डसंयोगनिष्ठाऽवच्छेदकता तादृशावच्छेदकतानिरूपिता याऽवच्छेदकता दण्डनिष्ठाऽवच्छेदकता तदवच्छेदकत्वं दण्डत्वे तेन संबन्धेनेत्यन्वयः । 'जातिमद्वान् दण्डवान्' दण्टवान् जातिमद्वान् ' इत्यादावऽभेदान्वयबोधस्येष्टत्वादाहअवच्छेदकतायामिति । भवच्छेदकतायाम् विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकतायां तथा प्रकारतावच्छेदकतावच्छेदकतावच्छेदकतायां निरवच्छिन्नत्यनिवेशः कर्तव्यस्तथा च 'दण्डवान् दण्डवान् । इत्यत्र दण्डत्वे या विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकतास्ति तथा या प्रकारतावच्छेदकतावच्छेदकतावच्छेदकतास्ति सा निरवच्छिन्नास्ति दण्डत्वस्य स्वरूपेणैव मास मानत्वादिति तत्र विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकप्रकारतावच्छेदकतावच्छेदकतावच्छेदकधर्मयोर्भेदस्याभेदान्वयबोधं प्रति कारणत्वमस्ति न चास्ति तादृशधर्मयोर्भेदो विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकस्य प्रकारतावच्छेदकतावच्छेदकतावच्छेदकस्य दण्डत्वस्याऽभिन्नत्वादिति न तत्राभेदान्वयबोधापत्तिः । 'जातिमद्वान् दण्डवान् । इत्यत्र जातिमद्वान् दण्डसंयोगवान् पुरुषो विशेष्यस्तत्र दण्डसंयोगस्तत्र दण्डस्तत्र जातिः प्रकार. जातिश्च जातिरवेन रूपेण भासते किलानिपनियामास्ति तथा चात्र जातिनिष्ठा विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकता Kारी मात्र तद्धर्मभेदस्य कारणत्वमिति जातेर्दण्डत्वरूपत्वेन प्रकारतावच्छेदक लातविच्छेदकस्य दण्डत्वस्य विशेष्यतावच्छेदकतावच्छेदकतावच्छेदिकाया जातेश्च परस्पर मावेपि नाऽभेदान्वयबोधानुपपत्तिः, तथा 'दण्डवान् जातिमहान् ' इत्यत्र च जातिमिष्ठा अकारतावच्छेदकतावच्छेदकतावच्छेदकता जातित्वावच्छिन्नास्तीति विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकस्य दण्डत्वस्य प्रकारतावच्छेदकतावच्छेदकतावच्छेदिकाया जातेश्च परस्परं भेदाभानपि नाऽभेदान्वयबोधानुपपत्तिरित्यर्थः । जातिमद्वानित्यत्र जातिः दण्डत्वं तद्वान् दण्डस्तद्वान् पुरुषः, मतुपश्च संबन्धिनि शक्तेर्दण्डवत्पुरुषे दण्डसंयोगः प्रकारस्तत्र दण्डस्तत्र दण्डे दण्डत्वरूपा अतिर्जातौ च जातित्वं प्रकार इति । - पृथक् पृथक् कार्यकारणभावानुक्त्वा संप्रति सर्वानुगतं कार्यकारणभावमाह- वस्तुतस्त्विति । व्याप्यधर्मावच्छिन्ने कार्ये जननीये व्यापकधर्मावच्छिन्नकार्यस्य सामग्री अपेक्षिता भवतीत्याशयेन यत्र यत्र शाब्दबोधस्तत्र तत्र ज्ञानं भवत्येवेति ज्ञानस्य शाब्दबोधव्यापकत्वात् ज्ञानस्यैव कार्यकारणभावमाह- सद्धर्मे ते, तद्धर्मपदेन विशेषगकोटिप्रविष्टपदार्थगतधर्मो ग्राह्यो यथा-प्रकारतावच्छेदकः प्रकारतावच्छेदकतावच्छेदकः प्रकारतावच्छेदकतावच्छेदकतावच्छेदक इत्यादि, तदन्यपदेन विशेष्यकोटिप्रविष्टपदार्थगतधर्मों ग्राह्यो यथा- विशेष्यतावच्छेदको विशेष्यतावच्छेदकताचच्छेदको विशेष्यतावच्छेदकतावच्छेदकतावच्छेदक इत्यादि । वस्तुतस्तु यस्मिन् धर्मे द्रव्यत्वादी तद्गतविषयताविशेषसंबन्धेन शाब्दबोध उत्यांदनीयस्तदन्यधर्मो घटत्वादिस्तद्धर्मपदेन पाहाः तद्न्यच शाब्दबोधाधिकरण द्रव्यत्वादिकमऽन्यपदेन ग्राह्यम्, एवं च प्रकारताख्यविषयतासंबन्धन "Aho Shrutgyanam" Page #75 -------------------------------------------------------------------------- ________________ अभेदान्वयविचारः ] व्युत्पत्तिवादः । ( ६३ ) एवं च घटत्वाद्यवच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकता संबन्धेन शादबोधं प्रति घटत्वाद्यन्य वृत्तिविषयता संबन्धेन ज्ञानत्वाद्यवच्छिन्नस्य व्यापकतथा घटत्वादौ तादृशविषयतासंबन्धेन ज्ञानत्वावच्छिन्नोत्पादक सामग्रीविरहेण न तत्र चादृशविशेष्यतावच्छेदकतासंबन्धेन शाब्दबोधापत्तिः । 'द्रव्यं घटः " इत्यत्र घटत्वे शाब्दबोधे जननीये तद्धर्मपदेन घटत्वान्यद् द्रव्यत्वं ग्राह्यमऽन्यपदेन द्रव्यत्वान्यद् घटत्वं ग्राह्यम् । विषयतापदेन च शाब्दबोधाधिकरणीभूतपदार्थे यादृशी विषयता स्यात् सा ग्राह्मा यथा - विशेष्यतारूपा विशेष्यतावच्छेदकतारूपा विशेष्यतावच्छेदकतावच्छेदकतारूपा इत्यादि तथा प्रकारतारूपा प्रकास्तावच्छेदकतारूपा प्रकारतावच्छेदकतावच्छेदकतारूपा इत्यादितथा च 'द्रव्यं घटः' इत्यत्र घटत्वान्यद् यद् द्रव्यत्वं तस्मिन् तन्निष्ठविशेष्यतावच्छेदकताख्यविषयतासंबन्धेन शाब्दबोधे जननीये तद्धर्मभेदस्य घटत्वमेदस्य हेतुत्वं प्राप्तमऽस्ति चात्र घटत्वद्रव्यत्वयोर्भेद इत्यभेदान्वयबोधे न काप्यनुपपत्तिः । तथा प्रकारतावच्छेदकताख्य विषयता संबन्धेन घटत्वेप्यभेदान्वयबोधेऽनुपपत्तिर्नास्ति - द्रव्यत्वघटत्वयोर्भेदात् । 'घटो नीलघट : ' इत्यत्रापि घटत्वनी योर्भेदस्वीकारे त्वभेदान्वयबोधोऽनेन नियमेनापि संभवति भेदास्वीकारे पूर्व शाब्दबोधप्रकार उपपादित एव । 'घटो घट:' इत्यत्र घटत्वेऽभेदान्वयबोधस्तु न संभवति तद्धर्मभेदाभावात् - घटस्वस्यैव प्रकारतावच्छेदकत्वाद् विशेष्यतावच्छेदकत्वाच्चेति सर्वे सुस्थम् । स्वयमपि 'घटो घटः' इत्यत्रोक्तनियमेनाभेदान्त्रयबोधापत्त्यभावमाह एवं चेति । एवं च "तद्धर्मान्यवृत्तिविषयतासंबन्धेन" इति नियमे कृते । 'घटो घटः' इत्यत्र घटस्यैव प्रकारत्वाद् विशेष्यत्वाच घटत्वावच्छिना या घटनिष्ठा प्रकारता तन्निरूपिता या घटनिष्ठा विशेयता तदवच्छेदकत्वं घटत्वे इति घटत्वनिष्ठविशेष्यतावच्छेदकतासंबन्धेन शाब्दबोधे जननीये शाब्दबोधव्यापकस्य ज्ञानखावच्छिन्नज्ञानस्य सामग्री अपेक्षिता भवति सा च सामग्री तद्धर्मभेद एव, 'घटो घट:' इत्यत्र च तद्धर्मभेदरूपा सामग्री नास्तीति नाऽभेदान्वयबोधापत्तिरित्यर्थः । यत्र घटत्वे विशेष्यतावच्छेदकता मंबन्धेन शाब्दबोध आपादनीयस्तत्र घटत्वे घटत्वान्यत्वमेव नास्ति येन तद्धर्मान्यवृत्तिविषयतायाः संबन्धत्वं तादृशसंबन्धेन शाब्दबोधश्व स्यादिति भावः । तादृशविवयता संबन्धेन वदस्वान्यवृत्तिविषयतासंबन्धेन । ज्ञानत्वावच्छिन्नोत्पादकसामग्री - तद्धर्ममेदः, ज्ञा नाधिकरणीभूतार्थे तदन्यत्वं चेति । तत्र = 'घटो घटः ' इत्यत्र | तारशविशेष्यतावच्छेदकतासंबन्धेन घटत्वनिष्ठ विशेष्यतावच्छेदक संबन्धेन । 'तद्धर्मान्प्रवृत्तिविषयता संबन्धेन शाब्दबोधं प्रति तद्धर्मभेदस्य कारणत्वम्' इत्युक्ते 'घटो घटः ' इत्यत्र तद्धर्मान्यवृत्तिविषयतासंबन्धेन शाब्दबोधस्येष्टत्वाभावात् तद्धर्मभेदाभावेपि पुनरप्यमेवसबोधापत्तिः स्यादेवेति शाब्दबोधव्यापकीभूतज्ञानं प्रति तद्धर्ममेदस्य हेतुत्वमुक्तं तथा च व्याप्यकार्य प्रति व्यापककार्यसामग्र्या अपेक्षानियमात् 'घटो घट:' इत्यत्राभेदान्वयबोधे जननीये तद्धर्मान्य वृत्तिविषयत (संबन्धेन व्यापकीभूतज्ञानस्य सामन्या अपेक्षा प्राप्ता सा च सामन्यत्र ना "Aho Shrutgyanam" Page #76 -------------------------------------------------------------------------- ________________ (६४) सादर्शः | प्रथमाकारकेएवं च घट्वान् घटवान्' इत्यादिशाब्दबोधवारणानुरोधेन धर्मितावच्छेदकतावच्छेदकादिनिष्ठप्रत्यासत्या कारणत्वान्तरमपि न कल्प्यते । समुद्देश्यतावच्छेदकविधेययोरैक्येन 'एक' 'दौ' इत्यादिवाक्यादेकत्वादिवाद्यवच्छिन्ने एकत्वद्वित्वादीनां भेदान्वयबोधानुदयाद् एकत्वत्वद्वित्वत्वाद्यवस्त्येवेति नाऽभेदान्वयबोधापत्तिः। तद्धर्मान्यवृत्तिविषयतासंबन्धेन हानसामग्री च न केवलं तद्धर्मभेद एव किं तु संबन्धभूतविषयतायास्तद्र्र्मान्यवृत्तित्वमपीति ज्ञेयम् । अयं भावः- तद्धर्मान्यत्तिविषयतासंबन्धेन ज्ञानं प्रति केवलतभेदस्य सामग्रीस्वस्वीकारे यत्र तद्धर्मान्यवृत्तिविषयतासंबन्धेन ज्ञानमापादनीयं भविष्यति तत्रैव तद्धर्मभेदस्य हेतुत्वं भविष्यति यथा- 'द्रव्यं घटः' इत्यादी. 'घटो घटः । इत्यत्र तु तद्धर्मान्यवृत्तिविषयतासंबन्धेन झानमापादनीयमेव नास्ति येनाऽभेदान्वयबोधानुपपत्तिः स्यात्. किं तु तद्धर्मवृत्तिविषयतासंबन्धेनैद ज्ञानमापादनीयमस्तीति 'घटो घटः' इत्यत्राऽभेदान्वयबोधं प्रति तद्धर्मभेदस्यापेक्षाभावात् तद्धर्मभेदाभावेप्यभेदान्वयबोधः स्यादेवेति तदापत्तिपरिहाराय ज्ञानसंबन्धभूताया विषयतायास्तद्धर्मान्यवृत्तित्वमपि सामग्रीकुक्षौ निवेशनीय तथा च 'घटो घटः' इत्या घटत्वे एवं ज्ञानमापादनीयं घटत्वनिष्ठावाश्च विशेष्यतावच्छेदकताख्ययत्ता : ज्ञानसंबन्धभूतायास्तद्धर्मान्यवृत्तित्व हेतुभूतं नास्त्येव- प्रकारतावच्छेदकघटत्ववृतित्वेन भावादिति नात्र ज्ञानस्य तद्व्याप्याऽभेदान्वयबोधस्य चापत्तिः । उक्तनियमेन लाघवान्तरमाह-एवं चेति । एवं च तद्धर्मान्यवृत्तिविषयतासंबन्धेन ज्ञानं प्रति तद्धर्मभेदत्वेन हेतुत्वाङ्गीकारे च 'घटवान् घट्वान्' इत्यत्राभेदान्वयबोधवारणायाभेदान्वयबोधं प्रति तद्धर्मभेदस्य पृथग् हेतुत्वकल्पनापेक्षा नास्ति,- अत्र हि घटवानेव विशेष्यः प्रकारच, तत्र घटवान् 'धर्मी धर्मितावच्छेदको संटः धर्मितावच्छेदकतावच्छेदकं घटत्वमिति धर्मितावच्छेदकतावच्छेदकं यद् घटत्वं तनिष्ठा या धर्मितावच्छेदकंतावच्छेदकतारूपा प्रत्यासत्तिः संबन्धस्तेन घटत्वे शाब्द. बोधे जननीये तद्धर्मभेदस्य हेतुत्वमस्ति नास्ति चात्र तद्धर्मभेद एकस्य घटत्वस्यव विशेष्यता (धर्मिता ) वच्छेदकतावच्छेदकत्वात् प्रकारतावच्छेदकतावच्छेदकावाञ्चेत्यर्थः । एवम् 'दण्डवान् दण्डवान्' इत्यत्रापि दण्डत्वे विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकत्वप्रत्यासस्या शाब्दबोधे जननीये तद्धर्मभेदस्य हेतुत्वमस्ति नास्ति चात्र तद्धर्मभेदः- एकस्य दण्डत्वस्यैव विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकत्वात् प्रकारतावच्छेदकतावच्छेदकतावच्छेदकत्वाचेत्यर्थः । एवमिति- 'एकः' इत्यत्रैकपदवाच्या एकत्वेन घटादिव्यक्तिरेव एकपदोत्तरवर्तमानविभक्तेरप्येकत्वमर्थ इति विभक्तेः सार्थकत्वे 'एकः' इत्यस्य 'एकत्यवान् एकत्ववान्' इत्यर्थः स्यात् ( प्रथम एकत्ववानिति प्रकृतेरों द्वितीय एकत्ववान् इति विभक्तरर्थः ) तत्रैकत्ववती घटव्यक्तिमुद्दिश्यकत्वविधानाद् उद्देश्या एकव्यक्तिरुद्देश्यतावच्छेदकमेकावं विधेयमप्येकत्वमेव स्यात् तथा चात्रोदेश्यतावच्छेदकस्य विधेयस्य चैत्य प्राप्त उद्देश्यभूतव्यक्तावेवादिसंख्याया अन्वयश्च समवायसंबन्धेन भवति समवायश्च भेदसंबन्ध एव. एवं च एकः' इतिवाक्यात् प्रकृतिभूतैकपदवाच्ये एक. "Aho Shrutgyanam" Page #77 -------------------------------------------------------------------------- ________________ अभेदान्वयवि० ] व्युत्पत्तिवादः। (६५) च्छिन्नसमवायादिसंसर्गावच्छिन्नमकारतानिरूपितविशेष्यतानिरूपितसमवायादिसंसर्गावच्छिन्नावच्छेदकतावच्छेदकत्वादिसंबन्धेन शाब्दबुद्धौ एकत्वत्व द्वित्वत्वादिभेदस्य, एवम् ‘कर्म गच्छति' इत्यादौ च कर्मत्वत्वाद्यवच्छिन्ने आधेयतासंबन्धेन स्वावच्छिन्ने एकव्यक्तिभूतवटादौ एकपदोत्तरप्रथमार्थेकत्वरूपसंख्याया भेदान्वयः स्यादित्यत्रोद्देश्यतावच्छेदकविधेययोरैक्येन एकत्वावच्छिन्ने एकत्वस्य यो भेदान्वयबोधः प्राप्तस्तस्यानुदयात्=ताह. शभेदान्वयबोधोत्पत्तेरनिष्टत्वात् तद्वारणायेदानी एकत्वत्वनिष्ठेन एकत्वत्वावच्छिन्नसमवायसंबन्धाव. च्छिन्नप्रकारतानिरूपित विशेष्यतानिरूपितसमवायसंबन्धावच्छिन्नावच्छेदकतावच्छेदकत्वलक्षणसंबन्धेन शाब्दबोधं प्रति एकत्वत्वभेदस्य पृथग् हेतुत्वकल्पनापेक्षा नास्ति- उक्तनियमेनैवोक्तशाब्द. बोधवारणसंभवात्, एकत्वत्वस्य परस्परं भेदाभावात् । वस्तुतस्तु शाब्दबोधसंबन्धस्यैव एकत्वत्वान्यवृत्तित्वं नास्ति-एकत्वत्ववृत्तित्वादेवेति नात्र एकत्वावच्छिन्नव्यक्तौ प्रथमार्थैकत्वस्य समवायेनान्वयबोधापत्तिः, भवति च 'एकः' इतिप्रयोग इति संख्यावाचकैकादिपदोत्तरवर्तमानविभक्तनिरर्थकत्वमेव(इदं चाग्रेसंख्यान्वयविचारस्थलेद्रष्टव्यम् तथा च प्रकृतिभूतैकपदेनैवैकत्वेन रूपेण घटादिव्यक्तरुपस्थितिर्भवतीति विज्ञेयम् । एवम् 'द्वौ' इत्यत्रापि उद्देश्यतावच्छेदकं द्वित्वं विधेयमपि द्वित्वं विभक्त्यर्थः 'द्वित्ववान् द्वित्ववान्' इत्यर्थस्तत्रोद्देश्यतावच्छेदकविधेययोरैक्येन द्वित्वावच्छिन्ने व्यक्तिद्वये द्विवचनार्थद्वित्वसंख्याया यो भेदान्वयबोधः प्राप्तस्तस्यानुदयात्=तादृशभेदान्वयबोधोत्पत्तेरनिष्ट स्वात् तद्वारणाय द्वित्वत्वनिष्ठेन द्वित्वत्वावच्छिन्नसमवायसंबन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितसमवायसंबन्धावच्छिन्नावच्छेदकतावच्छेदकत्वलक्षणसंबन्धेन शाब्दबोधं प्रति द्वित्वत्वभेदस्य पृथग् हेतुत्वकल्पनापेक्षा नास्ति- उक्तनियमेनैवोक्तशाब्दबोधवारणसंभवात्, द्वित्वत्वस्य परस्परं भेदाभावादेकत्वादिति नात्र द्वित्वावच्छिन्नव्यक्तौ द्विवचनार्थद्वित्वस्य समधायेनान्वयबोधापत्तिः, भवति च 'द्वौ ' इति प्रयोग इति द्विवचनं निरर्यकमेव तथा च प्रकृतिभूतद्विपदेनैव द्वित्वेन रूपेण द्वित्वविशिष्टरूपेण वा घटादिव्यक्तरुपस्थितिर्भवति । एकत्वत्वेति- एकत्वत्वावच्छिन्ना तथा समवायसंबन्धावच्छिन्ना या विभक्त्यर्थैकत्वनिष्ठा प्रकारता ताहशप्रकारतानिरूपिता या एकपदवाच्यव्यक्तिनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता तथा समवायसंबन्धावच्छिन्ना या एकरवनिष्ठा अवच्छेदकता ( उक्तविशेष्यतावच्छेदकता ) तदवच्छेद. कत्वं एकत्वत्वे इत्येकत्वत्वनिष्ठं यद्विशेष्यतावच्छेदकतावच्छेदकत्वं तेन संबन्धेनेत्यन्वयः । एवम् 'द्वौ ' इत्यत्र एकपदस्थाने द्विपदं निवेश्यान्वयो विज्ञेयः । " एकत्वत्वद्वित्वत्वादिभेदस्य " इत्यस्य " हेतुत्वान्तरकल्पनमनादेयमेव ॥ इत्यग्रिमवाक्येन सहान्वयः।। 'ग्रामं गच्छति । इत्यत्र शाब्दबोध इष्टस्तत्र ग्राम आधेयतासंबन्धेन द्वितीयार्थकर्मतायां प्रकारः, प्रकारतावच्छेदकं प्रामत्वम्, कर्मता विशेष्यं विशेष्यतावच्छेदक कर्मतास्वम् । प्रामस्य कर्मपदार्थत्वेन कर्मपदवाच्यत्वेपि 'कर्म गच्छति । इति प्रयोगस्तु नेष्ट इत्याशयेनाह- एवमिति, "Aho Shrutgyanam" Page #78 -------------------------------------------------------------------------- ________________ ( ६६ ) सादर्श: [ प्रथमाकार के anistarataवारणाय कर्मत्वत्वाद्यवच्छिन्नावच्छेदकता काऽऽधेयतासंबन्धावचित्रकारतानिरूपितधर्मितावच्छेदकता संबन्धेन शाब्दबोधे कर्मत्वत्वादिभेदस्य, * घटो न घट:' इत्याद्यनुमितेः शाब्दबोधस्य च वारणाय घटत्वावच्छिन्नभेदमकारतानिरूपितधर्मितावच्छेदकता संबन्धेनानुमितौ शाब्दबोधे च घटत्वादिभेदस्य हेतुत्वान्तरकल्पनमनादेयमेव तद्धर्मभेदस्यैककारणतयैव सकलातिप्रसङ्गवारण संभवादिति कृतं पल्लवितेन ॥ इत्यभेदव्युत्पत्तिवादः ॥ $ - 'कर्म गच्छति' इत्यत्र प्रकृतिभूतकर्मपदस्य कर्मत्वावच्छिन्ने शक्तिः कर्मपदोत्तरलुप्त द्वितीयायाः कर्मस्वत्वावच्छिन्ने कर्मत्वे शक्तिस्तथा च प्रत्ययार्थस्य प्राधान्यात कर्मत्वत्वावच्छिने द्वितीयार्थकर्मुखे आधेयतासंबन्धेन ( कर्मत्वे आत्रेयत्वमस्ति ) लद्वतः कर्मत्ववतः कर्मत्वावच्छिन्नकर्मपदवाच्यकर्मपदार्थस्य मेदान्वयबोधवारणाय कर्मत्वत्वावच्छिन्नाव-छेदकता काधेयता संबन्धावच्छिन्नप्रकारतानिरूपितधर्मितावच्छेदकतालक्षणसंबन्धेन कर्मत्वत्वनिष्ठेन शाब्दबोधं प्रति कर्मत्वस्वभेदस्य पृथग् हेतुत्वकल्पनापेक्षा नास्ति - उक्तनियमेनैवोक्तशाब्दबोधवारणसंभवात् शाब्दबोधाश्रयत्वेनाभिमतधर्मितावच्छेदकस्य कर्मत्वत्वस्य प्रकारतावच्छेदकतावच्छेदकस्य च कर्मत्वत्वस्यैक्येन भेदाभावात् । यथा एकः ' इत्यत्रोद्देश्यतावच्छेदकस्य विधेयस्य चैकत्वस्यैक्यानोक्तशाब्दबोध इष्टस्तथात्र विशेष्यतावच्छेदकस्य प्रकारतावच्छेदकतावच्छेदकस्य कर्मत्वत्वस्यैक्येन भेदाभावादुक्तशाब्दबोधापत्तिवारणं कृतम् । कर्मत्वश्वेति- कर्मश्वत्वावच्छिन्ना या कर्मत्वनिष्ठाऽवच्छेदकता तादृशावच्छेदनावच्छिन्ना याssधेयत्व संबन्धावच्छिन्ना कर्मनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या ..कता निष्ठा धर्मिता तादृशधर्मितानिरूपिता या कर्मतास्वनिष्ठा भवच्छेदकता तादृशावच्छेदकतासंबन्धेन ( कर्मता शाब्दबोधे जबनीये ) इत्यन्वयः । " कर्मत्वत्वादिमेदस्य " इत्यस्यापि हेतुत्वान्तरकल्पनमनादेयम्" इत्यग्रिमवाक्येन सहान्वयः । " £6 घटो न वटः ' इत्यत्र धर्मी घटस्तत्र प्रकारो घटभेदः प्रकारतावच्छेदको घटः प्रकारतावच्छेदकतावच्छेदकं घटत्वं धर्मितावच्छेदकमपि घत्वमेव । घटे समवायेन घटत्वं प्रकार : घटभेदे घटत्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन घटः प्रकारः स च भेदः स्वरूप संबन्धेन घंटे विशेष्ये प्रकार इतिपदार्थनिर्देशः । घटे च घटभेदो न भवतीत्यत्र शाब्दबोधस्यानुमितेश्च ( घंटे घटमेदानुमितेः ) वारणाय घटत्वनिष्ठेन घटत्वावच्छिन्न मेदनिष्ठप्रकारता निरूपितधर्मितावच्छेदकता लक्षणसंबन्धेन शाब्दबोधं प्रति घटत्वभेदस्य पृथग् हेतुत्वकल्पनापेक्षा नास्ति - उक्त नियमेनैव वारणसंभवाद् धर्मितावच्छेदकं प्रकारतावच्छेदकतावच्छेदकं चैकं घटत्वमेव घटखे च घटत्वभेदाभावात् तद्धर्मान्यवृत्तिविषयतासंबन्धेन ज्ञानसामान्यं प्रति तद्धर्मभेदस्य हेतुत्वादनुमितेरपि वारणं जातमि - त्यर्थः । घटत्वावच्छिन्नेति - घटत्वावच्छिन्नभेदः - घटत्वावच्छिन्न प्रतियोगिताकमेदस्तन्निष्ठा या प्रकारता तादृशप्रकारता निरूपिता या घटनिष्ठा धर्मिता तादृशधर्मितावच्छेदकं घटत्वं घटत्वनिष्ठा यैषा धर्मितावच्छेदकता तादृशसंबन्धेनेत्यन्वयः । हेतुत्वान्तरकल्पनमनादेयम् = पृथक् हेतुस्वकरूप "Aho Shrutgyanam" Page #79 -------------------------------------------------------------------------- ________________ 'भेदान्वयविचारः ] व्युत्पत्तिवादः । (६७) भेदान्aratara प्रातिपदिकार्थधात्वर्थयोः प्रत्ययार्थेन कचिन्निपातार्थेन च नापेक्षा नास्ति । अत्र हेतुमाह - तद्धर्मभेदस्येति, तद्धर्मभेदनिष्ठया एककारणतयैव = " तद्धर्मान्यवृत्तिविषयता संबन्धेन ज्ञानं प्रति तद्धर्ममेदस्य हेतुत्वात् " इत्युक्तेनैकेनैव कार्यकारणभावेन सकलातिप्रसङ्गानाम्=' घटो घटः दण्डवान् दण्डवान् इत्यादौ शाब्दबोधापत्तीनां वारणसंभवादित्यर्थः । 76 ॥ इत्यभेदान्वयव्युत्पत्तिवादादर्शः समाप्तः ॥ “ अभेदान्वयबोधप्रकारं निरूप्य संप्रति मेदान्वयबोधप्रकारं वक्तुमुपक्रमते- भेदान्वयेत्यादिना । भेदसंसर्गावच्छिन्ननामार्थनिष्ठप्रकारता निरूपित विशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विभक्तिनिपातान्यतरजन्योपस्थितिः कारणं तथा च 'राज्ञः पुरुषः' इत्यत्र राजपुरुषयोर्भेदलक्षणः स्वस्वाभाव: संबन्धः किं वा राज्ञः पुरुषे भेदलक्षणः स्वत्वसंबन्ध इति भेदसंबन्धावच्छिन्नराजत्वा - वच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकशाब्दबोधं प्रति उविभक्तिजन्य तदर्थोपस्थितिः कारणमस्ति अत एव राजा पुरुषः ' इत्यत्र इसऽभावेन तदर्थोपस्थित्यभावान्न तादृशो भेदसंसर्गकः शाब्दबोधः । एवम् 'घटो न पटः इत्यत्र घटपटयोः प्रतियोग्यनुयोगिभावलक्षणो भेदसंबन्धोस्ति, किं वा घटे पटस्य स्वप्रतियोगिकभेदविशिष्टत्वं संबन्धरित पटप्रतियोगिक भेदवान् घट इति स्वार्थस्तथा चात्र भेदसंबन्धावच्छिन्न पटत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छि प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधं प्रति नञ्पदजन्यतदर्थोपस्थितिः कारणमस्तीति कार्यकारणभावमभिप्रेत्याह- प्रातिपदिकेत्यादिना । 3 6 प्रातिपदिकार्थस्य प्रत्ययार्थेन कचिन्निपातार्थेनैव च सह भेदान्वयो जायते यथा- तण्डुलं पचति, इत्यत्र प्रातिपदिकार्ये तण्डुलस्याऽम्प्रत्ययाथैकर्मत्वे आधेयतालक्षणेन भेदसंबन्धेनान्वय आधेयतासंबन्धेन तण्डुलवती कर्मता' इति बोधात् । 'चन्द्र इव मुखम्' इत्यत्र च निरूपितत्वलक्षणेन भेदसंबन्धेन प्रातिपदिकार्थस्य चन्द्रस्य इवनिपातार्थसादृश्येन सहान्वयः, सादृश्यस्य चाधारतासंबन्धेन मुखेन सहान्वयः - चन्द्रनिरूपितसादृश्यवन्मुखमितिबोधात् । एवं धात्वर्थ-प्रत्ययार्थेन चिन्निपातार्थेनैव च सह भेदान्वयो जायते यथा- 'तण्डुलं पचति ' इत्यत्र धात्वर्थपाकस्यानुकूलता संबन्धेनाख्यातार्थ ( प्रत्ययार्थ ) कृत्या सहान्वयः पाकानुकूला कृतिरितिबोधात, तादृशप्रत्ययार्थकृतेश्वाधारता संबन्धेन कर्त्रा सहान्वयः - पाकानुकूलकृतिमान् देवदत्त इति । न कलअं भक्षयेत् ' इत्यत्र च धात्वर्थभक्षणे विध्यर्थभूतं यद्वलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वं तदभावस्य निपातनमर्थस्यानुयोगितासंबन्धेनान्वयः - बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभाववत्कलञ्जभक्षणमिति बोधात् । गुरुमते तु - कलजभक्षणाभाववत् postपूर्वमुत्पादयेदिति बोधः । नत्वऽन्येन = प्रत्ययनिपातार्थातिरिक्तेन प्रातिपदिकार्थेन धात्वर्थेन चेत्यर्थः । विभक्त्यर्थमन्तराकरणं विना प्रातिपदिकार्थयोः साक्षाद् भेदान्वयो न भवति किं 6 "Aho Shrutgyanam" Page #80 -------------------------------------------------------------------------- ________________ (६८) सादर्श: [ प्रथमाकारकेसममेव जायते न त्वऽन्येन । सत्यपि पदार्थोपस्थितियोग्यताज्ञानादिरूपकारणकलापे 'राजा पुरुषः' 'भूतलं घटः' इत्यादौ पुरुषघटाद्यंशे राजभूतलादेः स्वत्वाधेयतासंबन्धेन, ' तण्डुलः पचति ' 'चैत्रः पच्यते ' इत्यादौ कर्मत्वकर्तृत्वादिसंबन्धेन तण्डुलचैत्रादौ पाकादेः, स्वकर्मकत्वस्वकर्तृकत्वादिसंबन्धेन पाकाधंशे वा तण्डुलचैत्रादेरन्वयाऽबोधान्निपातातिरिक्तप्रातिपदिकार्थयोः क्रियातादृश प्रातिपदिकार्थयोश्च भेदेन साक्षादन्वयबोधस्याऽव्युत्पन्नत्वात् । त्वमेदान्वय एव यथा- 'नीलो घटः ' इत्यत्र । विभक्त्यर्थमन्तराकृत्य तु मेदान्वयोपि भवति यथा- 'राज्ञः पुरुषः ' इत्यत्र उसथस्वत्वमन्तराकृत्य राजपुरुषयोः । एवं विभक्त्यर्थमन्तराकरणं विना प्रातिपदिकधात्वर्थयोरपि साक्षाद् भेदान्वयो न भवति किं त्वमेदान्वय एव यथा'स्तोकं पचति ' इत्यत्र स्तोकपाकयोरभेदान्वयः- स्तोकाभिन्नः पाक इति । विभक्त्यर्थमन्तराकृत्य तु भेदान्वयोपि भवति यथा-' तण्डुलं पचति ' इत्यत्र विभक्त्यर्थकर्मत्वद्वारा कर्मणस्तण्डुलस्य पाके स्वकर्मकत्वसंबन्धेनान्वयः । विपक्षे बाधकमाह- सत्यपीति । ' राजा पुरुषः । इत्यत्र राजपदजन्यराजोपस्थितिपुरुषपदजन्यपुरुषोपस्थितियोग्यताज्ञानादिसत्त्वेपि ङस्प्रत्ययाभावेन तदर्थोपस्थित्यमावात् पुरुषविषयकराजनिरूपितस्वत्वसंबन्धान्वयबोधो न भवति । 'भूतलं घटः' इत्यत्र भूतलपदजन्यभूतलोपस्थितिघटपदजन्यघटोपस्थितियोग्यताज्ञानादिसत्त्वेपि डिप्रत्ययाभावेन तदर्थोपस्थित्यभावाद् घटविषयकभूतलनिरूपिताधेयतासंबन्धान्वयबोधः (आधेयतासंबन्धेन भूतलवान् घट इतिबोधः ) न भवति । 'तण्डुलः पचति' इत्यत्र तण्डुलपदजन्यतण्डुलोपस्थितिधातुपदजन्यपाकोपस्थितियोग्यताज्ञानादिसत्त्वेपि कर्मत्वबोधकाऽम्प्रत्ययाभावेन तदर्थोपस्थित्यभावात् कर्मत्वसंबन्धेन तण्डले पाकान्वयो न भवति, अम्प्रत्ययसत्त्वे तु तदर्थोपस्थितिसंभवाद् भवत्येव यथा- 'तण्डुलं पचति । इत्यत्र । ' चैत्रः पच्यते ' इत्यत्र चैत्रपदजन्यचैत्रोपस्थितिधातुपदजन्यपाकोपस्थितियोग्यताज्ञानादिसत्त्वेपि कर्तृत्वबोधकतृतीयाविभक्त्यभावेन तदर्थोपस्थित्यभावात् कर्तृत्वसंबन्धेन चैत्रे पाकान्वयो न भवति, तृतीयासत्त्वे तु भवत्येव यथा- ' चैत्रेण पच्यते । इत्यत्र । स्वकमकत्वेति- 'तण्डुलः पचति । इत्यत्रोक्तोपस्थितियोग्यताज्ञानादिसत्त्वेपि द्वितीयाविभक्तिजन्यतदर्थोपस्थित्यभावात् स्वकर्मकत्वसंबन्धेन पाके तण्डुलान्त्रयोपि न भवति, द्वितीयासत्त्वे तु भवत्येव यथा-'तण्डुलं पचति ' इत्यत्र । 'चैत्रः पन्यते ' इत्यत्राप्युक्तोपस्थितियोग्यताज्ञानादिसत्त्वेपि तृतीयाविभक्तिजन्यतदर्थोपस्थित्यभावात् स्वकर्तृकत्वसंबन्धेन पाके चैत्रान्वयोपि न भवति, तृतीयासत्त्वे तु भवत्येव यथा- ' चैत्रेण पच्यते । इत्यत्र चैत्रकर्तृकत्वसंबन्धेन चैत्रवान् पाक इत्यन्वयः। ___ एवम् ' राजा पुरुषः । इत्यादौ भेदलक्षणेन स्वत्वादिसंबन्धेनान्वयबोधानुत्पत्तेर्भेदान्धयबोधामावनियामकस्वरूपमाह- निपातातिरिक्तेति, निपातातिरिक्तेतिव्युत्पत्तिः 'राजा पुरुषः, "Aho Shrutgyanam" Page #81 -------------------------------------------------------------------------- ________________ भेदान्ययविचारः] व्युत्पत्तिवादः। (६९) विभक्त्यर्थमन्तराकृत्य तयोरप्यन्वयबोधात् साक्षादिति । निपातातिरिक्तत्वादिविशेषणात्- ‘भूतले न घटः' 'घटो न पटः ' इत्यादौ घटादेर्नअर्थाभावेन, ‘मुखं चन्द्र इव ' इत्यादौ मुखचन्द्रादीनामिवार्थसादृश्यादिना, न कलशं भक्षयेत् ' इत्यादौ नैयायिकमते नझुपस्थाप्येन बलवदनिटाननुबन्धित्वविशिष्टेष्टसाधनत्वादिरूपविध्यर्थाऽभावेन धात्वर्थभक्षणादेरनुयोगितया. गुरुमते तु विध्यर्थाऽपूर्वाशे विशेषणतयान्वितेन नत्रुपस्थाप्याभावेन धात्वथेभक्षणादेः प्रतियोगितयान्वयेपि न क्षतिः । इत्यादौ स्वत्त्वादिसंबन्धेन शाब्दबोधवारणाय, क्रियेत्यादिव्युत्पत्तिश्च 'तण्डुलः पचति । इत्यादौ कर्मत्वादिसंबन्धेन शाब्दबोधवारणाय, तथा च निपातातिरिक्तप्रातिपदिकार्थयोर्द्वयोः परस्परं साक्षाद् भेदेनान्वयो न भवति यथा- 'राजा पुरुषः' इत्यत्र राजपुरुषयोः स्वत्वसंबन्धेन साक्षादन्वयो न भवति । क्रिया धात्वर्थः । तादृशः निपातातिरिक्तः । धात्वर्थनिपातातिरिक्तप्रातिपदिकार्थयोरपि परस्परं साक्षाद् भेदसंबन्धेनान्वयो न भवति यथा- तण्डुलः पचति ' इत्यत्र तण्डुलपाकयोः कर्मत्वसंबन्धेनान्वयो न भवतीत्यर्थः । स्वत्वादिसंबन्धबोधकङसादिप्रत्ययसत्त्वे तूपस्थिततदर्थद्वारा भेदसंबन्धेनान्वयो भवत्येवेति साक्षादित्युक्तं तदेवाह- विभक्त्यर्थेति । तथा च ' राज्ञः पुरुषः ' इत्यत्र सर्थ स्वत्वमन्तराकृत्य तद्वारा राजपुरुषयोर्मेदसंबन्धेनान्वयो भवत्येव राज्ञो निरूपितत्वसंबन्धेन स्वत्वे स्वत्वस्याधारतासंबन्धेन पुरुषेऽन्वयः- राजनिरूपितस्वत्ववान् पुरुष इति । एवम् ' भूतले घटः ' इत्यत्र । 'तण्डुलं पचति ' ' चैत्रेण पच्यते । इत्यादावपि विभक्त्यर्थद्वारा धात्वर्थप्रातिपदिकार्थयोर्मेदसंबन्धेनान्वयो भवत्येव । निपातातिरिक्तेतिविशेषणसार्थक्यमाह- निपातातिरिक्तत्वेति, निपातातिरिक्तप्रातिपदिकार्थयोर्निपातातिरिक्तप्रातिपदिकार्थधात्वर्थयोश्च भेदेन साक्षादन्वयबोधस्याऽव्युत्पन्नत्वेपि निपातार्थप्रातिपदिकार्थयोर्धात्वर्थनिपातार्थयोश्च तु भेदसंबन्धेन साक्षादन्ययो भवत्येवेत्यर्थः । तथाहि: भूतले न घटः' इत्यत्र नार्थाभावेन घटस्य स्वप्रतियोगिकत्वसंबन्धेनान्वयः- नमोनिपातत्वात्, घटप्रतियोगिकामावो भूतलवृत्तिरित्यर्थः । ' घटो न पटः ' इत्यस्य पटप्रतियोगिकभेदवान् घट इत्यर्थः,अत्र च स्वानुयोगिकत्वसंबन्धेन घटस्य स्वप्रतियोगिकत्वसंबन्धेन च पटस्यामावेन साक्षादेवान्वयः । इवपदस्यापि निपातत्वात् ' मुखं चन्द्र इव ' इत्यत्रेवार्थसादृश्येन मुखचन्द्रयोः साक्षादेवान्ययो भवति तत्र चन्द्रस्य स्वप्रतियोगिकत्वसंबन्धेन मुखस्यस्वानुयोगिकरवसंबन्धेन चान्वयः, चन्द्रप्रतियोगिकसादृश्यानुयोगि मुखमितिबोधः । एवं निपातार्थप्रातिपदिकार्थयोर्भेदसंबन्धेन साक्षादन्वयमुक्त्वा धात्वर्थनिपातार्थयोर्भेदसंबन्धेन साक्षादन्वयमुदाहरति- द कलखेति, 'न कलशं भक्षयेत्' इत्यत्र नैयायिकमते बलवदनिष्टाऽननुबन्धित्वविशिष्टेष्टसाधन त्वरूपविध्यर्थाsभावेन नत्रुपस्थाप्येन सह धात्वर्थभक्षणस्यानुयोगित्वेन रूपेण साक्षादेवान्वयः- 'कलजकमर्क "Aho Shrutgyanam" Page #82 -------------------------------------------------------------------------- ________________ ( ७० ) सादर्श: [ प्रथमाकार के - राजपुरुषः ' इत्यादि समासस्थले तु पुरुषादिपदार्थेन समं राजादिपदार्थस्य न भेदान्वयबोधः किं तु तेन समं विभक्त्यन्तार्थविशिष्टलाक्षणिकराजादिपदोरस्याप्यराजसंबन्ध्यादेरभेदान्वयबोध एवेति न दोषः । एवम्- ' मुखं चन्द्रः इत्यादिरूपकस्थले चन्द्रादिपदस्य चन्द्रादिसदृशे लक्षणया चन्द्रादिसदृशाऽभेदान्वयबोध एव न तु सादृश्यादिसंबन्धेन चन्द्रादेर्मुखादावन्वय इति नः तत्र व्यभिचारः । " क्षणं बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभाववत् ' इतिबोधोदयात्. अत्र च धात्वर्थमक्षस्यैवाभावानुयोगिवात् । प्रभाकरमते तु विध्यर्थापूर्वाशे विशेषणतयान्वितेन ननुपस्याप्याभावेन सह धात्वर्थमक्षणस्य प्रतियोगित्वरूपेण साक्षादेवान्वयः - ' कलञ्जभक्षणप्रतियोगि काभाववदपूर्वमुत्पादयेत्' इतिबोधोदयात् अत्र च धात्वर्यभक्षणस्याभावप्रतियोगित्वेन भानात, तथा चात्र धात्वर्थस्य निपातरूपनञर्थाभावस्य च परस्परं साक्षादेव मेदसंबन्धेनान्वयस्येष्टत्वान्निपातातिरिक्तेतिविशेषणं चरितार्थम् । विध्यर्थश्वापूर्वमिति प्राभाकराणां संकेतस्तदुक्तं तै:- "क्रियाक्षणविनाशिनी न कालान्तरभाविनः स्वर्गादे: साधनायोपपद्यते इति कालान्तरस्थायि क्रियातो भिन्नं कार्यपूर्व लिङादयो बोधयन्तीति स्थितम् । न च कार्याभिधानं कृतिमनभिदधतां लिङादीनामुपपद्यते इति कृतिमप्यभिदधति, अपूत्र च । " इति । न क्षतिरिति - मेदसंबन्धेन नामार्थयोर्नामा - धास्वर्थयोश्च साक्षादन्ययाभावो निपातातिरिक्तेति विशेषगात्, निगतार्थेन तु भेदसंबन्धेनापि साक्षादन्वयो भवत्येवेति प्राप्त्या ' भूतडे न घंट: ' इत्यादौ निपातार्थनामार्थयोः ' न फल भक्षयेत्' इत्यादी धात्वर्थनिपातार्थयोः प्रदर्शितरीत्या मेदसंबन्धेन साक्षादप्यन्वये न क्षति:= न दोषः = नोक्तनिपातातिरिक्तेत्यादिकस्य मेदसंबन्धेनान्वयामावनियामकस्याव्याप्तिरित्यर्थः । ननु मेदसंसर्गावच्छिन्ननामार्थनिष्ठ प्रकारता निरूपित विशेष्यतासंबन्धेन शाब्दबुद्धिवावच्छिन्नं प्रति विभक्तिनिपातान्यतरजन्योपस्थितेः कारणत्वात् ' राजपुरुषः ' इत्यत्र च विभक्त्यभावेन तज्जन्यतदर्थोपस्थित्यभावात् कथं भेद ( स्वत्व ) संबन्धेन राजप्रकारकपुरुषविशेष्यकबोधः स्यादित्याशङ्क्य समासस्थले मेदान्वयबोधं पराचष्टे - राजपुरुषेति । तर्हि कथमत्रान्वयबोधः १ इत्याश. क्याह-- किं त्विति, तेन = पुरुषपदार्थेन सह । विभक्त्येति - विभक्त्यन्तस्य राज्ञ इति पदस्य योर्थः = राजसंबन्धस्तद्विशिष्टे = राजसंबन्धविशिष्टे राजसंबन्धिनि लाक्षणिकं यद्राजपदं तदुपस्थाप्यों यो लक्षणया राजसंबन्धी तस्य पुरुषपदार्थेनाभेदान्वय एवात्र - राजसंबन्ध्यऽभिन्नः पुरुष इति न दोषःस् इस्प्रत्ययजन्योपस्थित्यभावादत्र भेदान्वयबोधस्यापत्तिर्नास्त्येव येन दोषः स्यादित्यर्थः । मुखं चन्द्र इव' इत्यत्र तु इक्पदजन्योपस्थिति सत्त्वेन मेदान्त्रयबोधो भवति ' मुखं चन्द्रः ? इत्यादिरूपकस्थळे तु इवपदजन्योपस्थित्यभावेनामेदान्वयबोध एव भवति, अत्र चन्द्रपदस्य चन्द्रसदृशे लक्षणा तथा च चन्द्रसदृशाऽभिन्नं मुखमित्य मेदान्वयबोध एव न तु स्वप्रतियो "Aho Shrutgyanam" Page #83 -------------------------------------------------------------------------- ________________ नामार्थयोरन्वयविचारः] व्युत्पत्तिवादः । केचित्तु रूपकस्थले चन्द्रादिपदस्य चन्द्रादिसदृशे न लक्षणा किं तु तत्र मुख्यार्थचन्द्रादेरेवाऽभेदभ्रमो मुखादौ । 'मुखं न चन्द्रः' इत्यादिविशेषदर्शनद. शायां च न तत्र शाब्दोऽभेदप्रत्ययः. अपि तु शब्दजन्यविशकलितपदार्थोपस्थितिमूलको मानस एवाऽऽहार्याऽभेदभ्रम इत्याहुः। परे तु- तादात्म्यातिरिक्तसंबन्धेन नामार्थयोनान्वयबोधः, तादात्म्यं च प्रकृते तद्वृत्तिधर्मवत्त्वम्, एवं च 'नीलो घटः' इत्यादौ स्ववृत्तिनीलत्वादिम वसंबन्धेन घटायंशे नीलपदार्थस्येव 'मुखं चन्द्रः' इत्यादौ स्ववृत्त्याल्हादकत्वागिकसादृश्यसंबन्धेन चन्द्रस्य मुखे भेदान्वयो येन इवपदजन्योपस्थित्यभावेपि भेदान्धयारत्त्या व्यभिचारः स्यादित्यर्थः । आलङ्कारिकमतमाह- केचित्त्विति, 'मुखं चन्द्रः । इत्यादिरूपकस्यले चन्दादिसादृश्यं न प्रतीयते किं तु चन्द्राद्यऽमेद एव प्रतीयते-- चन्द्राभिन्नं मुखमिति, अतो न चन्द्रादिपदस्य चन्द्रादिसदृशे लक्षणा किं तु तत्र रूपकस्थले मुखादौ मुख्यार्थस्य चन्द्रादेरेवाऽभेदस्थ भ्रमो भवति-वस्तुतश्चन्द्रमुखयोभिन्नत्वात् । यदि च रूपकस्थले चन्द्रपदस्य चन्द्रसदृशे लक्ष गा स्यात्तदा मुखे चन्द्रसादृश्यमात्रप्राप्तौ रूपकोपमयो दो न स्यादुपमायामपि चन्द्रादिसादृश्यस्य लाभादिति रूपके उपमानोपमेययोरभेद एव प्रतीयते इत्यर्थः । यदा च 'मुख न चन्द्रः' इत्याकारकं विशेषदर्शनम्मे दज्ञानं वर्तते तदा तत्र एकस्थले उपमानोपमेययोरभेदप्रत्ययोपि न शाब्दो भवति किं तु शब्दजन्यविशकलितादिपार्थोपस्थितिमूलकः शुख चन्द्रशब्दाभ्यां विश कलिता-परस्परं संबन्धरहिता मुखचन्द्रपदार्थयोरुपस्थितिर्जायते तन्मूलको मानस पवाऽऽहार्याभेदभ्रमो जायते । (बाधज्ञानकालीनेच्छाजन्यं ज्ञानमाहार्यम् । सामान्यतो बाधज्ञानकाले भ्रमो में भत्रति यस्तु भ्रमो बाधज्ञानकालेपि वर्तते स आहार्यभ्रम इत्यर्थः । - परे विति- नामार्थयोः प्रातिपदिकार्थयोः परस्परं साक्षात् तादात्म्यसंबन्धेनैवाऽन्वयो भवति न तु तादात्म्यातिरिक्तसंबन्धेन । तादात्म्यातिरिक्तेन कर्मत्वादिरूपेण भेदसंबन्धेन तु प्रत्य। यार्थमन्तराकृत्यैवान्वयो भवति स: तु न साक्षाद् भवति प्रत्ययार्थस्य मध्यपातित्वात् तथा चोक्तायाः "निपातातिरिक्तप्रातिपदिकार्थयोः क्रियातादृशप्रातिपदिकार्थयोश्च भेदेन साक्षादन्वयबोधस्याव्युत्पन्नत्वात् (पृ० ६८)" इतिव्युत्पत्तेरप्ययमेवार्थ इत्यर्थः । तादात्म्यस्व. रूपमाह- तादात्म्यमिति । तद्वृत्ति-प्रतियोगिवृत्ति । तथा च 'नीलो घटः' इत्यत्र स्व: वृत्तिनीलत्ववत्त्वसंबन्धेन घटे नीलपदार्थस्यान्वयो भवति स्ववृत्तिनीलस्ववत्त्वमेवात्र तवृत्तिधर्मवत्वं तदेव तादात्म्यरूपः संबन्धः- स्वं नीलपदार्थः तद्वृत्ति नीलत्वं च गुणरूपं नीलरूपमेवगुणवाचकनीलादिपदस्य गुणिपरत्वे ताशनीलादिपदार्थनिष्ठस्य नीलत्वादेर्गुणरूपत्वाद् गुणस्वरूपनीलत्वादेर्गुणमात्रवृत्तित्वेन गुणिनि द्रव्ये बाधात्, अथ च नीलोपि घट एवेति नीलवृत्ति नीलत्वं घटवृत्त्येवेति नीलत्ववत्त्वं घटे वर्तते तेन संबन्धेन घटे यथा नीलपदार्थ "Aho Shrutgyanam" Page #84 -------------------------------------------------------------------------- ________________ (७२) सादर्श: [ प्रथमाकारकेदिमत्त्वसंबन्धेन मुखादौ चन्द्रादेरन्वयबोधः, तादृशान्वयबोधेपि समानविभक्तिकत्वं तन्त्रमित्यती नातिप्रसङ्ग इति वदन्ति । अथ 'राजा पुरुषः' इत्यादौ पदार्थोपस्थित्यादिसत्त्वेन कथं न भेदान्वयबोधः ?, सामय्या कार्यजनने उक्तनियमभङ्गरूपायाः प्रयोजनक्षतेरकिंचित्करत्वात्, सामग्रीसत्त्वेऽवश्यं कार्यमितिनियमात् ।। न च तत्र भेदान्वयबोधौपयिकाकाङ्क्षाविरहाच्छाब्दसामग्र्येवासिद्धेति वा. च्यम्, समभिव्याहाररूपाकाङ्क्षायास्तत्रापि सत्वात् । न च तादृशाकाङ्क्षायास्तत्र सत्त्वेपि राजादिपदार्थप्रकारकभेदान्वयबोधे राजादिपदाऽव्यवहितोत्तरङस्पदत्वरूपानुपूर्वोविशेषरूपाया आकाक्षाया आप प्रयोजकत्वात् तदभावा देव न तत्र शाब्दसामग्रीति वाच्यम्, संबन्धादिविशेष्यकराजादिप्रकारकान्वयस्याभेदान्वयस्तथा 'मुखं चन्द्रः' इत्यत्रापि स्ववृत्त्याल्हादकत्ववत्त्वलक्षणेन तादात्म्यसबन्धेन मुखे चन्द्रस्याभेदान्त्रयः, स्वं चन्द्रः. चन्द्रवृत्त्याल्हादकत्यवत्त्वं च मुखेऽस्त्येव । नन्वेवं गुणरूपनीलत्वं घटेऽस्त्येवेति तेन संबन्धेन 'नीलस्य घटः' इत्यत्राऽप्यभेदान्वयबोधः स्यादित्याशक्याह-तादृशेति, उक्ततादात्म्यसंबन्धेनाप्यभेदान्वयबोधे समान विभक्तिकत्वं प्रयोजकमस्तीति 'नीलस्य घटः' इत्यत्र समानविभक्तिकत्वाभावादेवाभेदान्वयबोधो न भवतीति नातिप्रसङ्गः । 'नीलो घटः' 'मुखं चन्द्रः' इत्यादौ च समान विभक्तिकत्वस्य सत्त्वादऽभेदान्वयबोधो भवस्यवेत्यर्थः । • ननु 'राजा पुरुषः' इत्यत्रापि राजपदजन्यराजोपस्थितिः पुरुषपदजन्यपुरुषोपस्थितिरस्ति पुरुषे राजसंवन्धयोग्यतासत्त्वाद् योग्यताज्ञानमप्यस्ति राजसंबन्धिपुरुषविषयकबोधो भवत्विति तात्पर्यज्ञानमध्यस्त्येवेति मेदान्वयबोधकसामग्रीसत्वे भेदान्वयबोधस्यावश्यंभावात 'निपातातिरिक्त. नामार्थयोः साक्षाद् भेदान्वयो न भवति' इत्युक्तनियमभङ्गरूपायाः प्रयोजनक्षतेः-प्रयोजकक्षते. रबाधकत्वादित्याशङ्कते- अथेति । ननु शाब्दबोधं प्रत्याकाङ्क्षाया अपि कारणत्वमस्ति भेदान्धयबोधं प्रति च डस्पदसममि. व्याहाररूपाया ङसन्तराजादिपदसमभित्र्याहाररूपाया वा आकाङ्क्षायाः कारणत्वादेतादृशाकाङ्क्षायाः ‘राजा पुरुषः' इत्यत्रामावाद् भेदान्वयबोधौरयिकसामन्येव नास्तीति कथं भेदान्वयबोधः स्थादित्याशङ्क्याह- न चेति । परिहारमाह-समभिव्याहारेति, राजपदपुरुषपदसमभिन्याहाररूपाकाङ्क्षायास्तत्र='राजा पुरुषः' इत्यत्रापि सत्तादेव भेदान्वयबोधः स्यादेवेत्यर्थः । ननु तादृशाया: राजपदपुरुषपदसममिव्याहाररूपाया आकाङ्क्षायास्तत्र= राजा पुरुषः' इत्यत्र सत्त्वेपि या खलु राजादिपदार्थप्रकारकमेदान्चयबोधप्रयोजिका राजादिपदाव्यवहितोत्तरङस्पदत्वरूपानुपूर्वीरूपाऽऽकाङ्क्षा तस्या अभावादेव न तत्र= राजा पुरुषः' इत्यत्र भेदान्वयशाब्दसामग्रीति कथं भेदान्वयबोधः स्यादित्याशङ्क्याह--न चेति । परिहारमाह-संबन्धादीति, राजपदार्थप्रकारकषष्ठ्यर्थस्वत्वसंबन्धविशेष्यकशाब्दबोधं प्रत्येव तादृशाकाङ्क्षाज्ञानस्यः-राजपदोत्तरङस् "Aho Shrutgyanam" Page #85 -------------------------------------------------------------------------- ________________ भेदान्वयविचारः ] व्युत्पत्तिवादः । बोधे एव तादृशाकाङक्षाज्ञानस्य हेतुतया पुरुषादौ राजादिपदार्थप्रकारकान्वयबोधोत्पत्तौ तादृशाकाङ्क्षाज्ञानरूपकारणविरहस्याकिंचित्करत्वात् । अत्र केचित् - नामार्थप्रकारकभेदान्वयबोधं प्रति समानविशेष्यताप्रत्यासत्त्या प्रत्यय जन्योपस्थितेर्हेतुत्वकल्पनान्नामार्थप्रकार कभेदान्वयबोधे विशेष्यतया प्रत्ययार्थस्यैव भानं न तु नामार्थान्तरस्य तत्र विशेष्यतासंबन्धेन प्रत्ययजन्योपस्थितेरसत्त्वात् । पदाकाङ्क्षाज्ञानस्य हेतुत्वमस्ति न तु राजपदार्थप्रकारकपुरुष विशेष्यकशाब्दबोधं प्रत्यपि मया च 'राजा पुरुषः' इत्यत्र न राजप्रकारकस्वत्व संबन्धविशेष्यकबोधापत्तिरुच्यते किं तु पुरुषविशेव्यकशाब्दबोधापत्तिः, पुरुषविशेष्यकशाब्दबोधं प्रति तु ङसन्तराजपदसमभिव्याहाररूपाया आकाङ्क्षायाः कारणत्वमेत्र नास्ति, अन्यथा 'राजपुरुष:' इत्यत्रापि पुरुषविशेष्यको बोधो न स्यादेव तथा च तादृश= ङसन्तराजपदसमभिव्याहाररूपाकाङ्क्षाऽमावस्याऽकिंचित्करत्वात् पुरुष विशेष्यकशाब्दबोधाप्रतिबन्धकत्वात् 'राजा पुरुष : ' इत्यत्र राजप्रकारकपुरुषविशेष्यको मेदान्ध - यबोधः स्यादेवेत्यर्थः । किं वा भेदलक्षणस्वत्व संबन्धस्य प्रकारतया शाब्दबोधे बसन्तराजपद समभिव्याहारस्य कारणत्वमस्ति स्वत्वोपस्थापकङसऽभाचे स्वत्वानुपस्थितौ स्वत्वस्य प्रकारतया भानासंभवादुपस्थितस्यैव प्रकारतया माननियमात, मया तु स्वत्वसंबन्धस्य संसर्गतया भानमुच्यते संसर्गतया भानं त्वनुपस्थितस्याप्याकाङ्क्षाबलाद् भवत्येवेति 'राजा पुरुषः' इत्यत्र पुरुषविशेष्यकः स्वत्वसंसर्गकः कथं न शाब्दबोधो भवतीति पूर्वपक्षाभिप्रायः । , अत्र केचिदिति, नामार्थप्रकार कभेदान्वयबोधं प्रति समानविशेष्यताप्रत्यासत्त्या प्रत्ययजन्योपस्थितेर्हेतुत्वकल्पनान्न ' राजा पुरुषः- इत्यत्र राजप्रकारकपुरुषविशेष्यकभेदान्वयबोधस्यापत्तिरित्यन्वयः । नामार्थयोस्साक्षाद् भेदान्वयबोधो नैव भवति किंवा साक्षाद् नामार्थप्रकारकनामार्थविशेornमेदान्वयबोधो नैव भवतीति सिद्धान्तः - नामार्थस्य प्रत्ययार्थेन वा निपातार्थेन वा भेदान्वasarत् । 'नीलो घटः' इत्यादौ त्वभेदान्त्रयबोध एवेति न नीलघटयोर्नामार्थयोर्भेदान्वयबोधः । 'राज्ञः पुरुषः' इत्यादौ च नामार्थपुरुषे न साक्षाद्राजपदार्थान्वयः किंतु राजा निरूपितत्वसंबन्धेन स्वत्वे प्रकारः षष्ठयर्थभूतं तादृशस्वत्वं चाश्रयत्वसंबन्धेन पुरुषे प्रकारस्तथा चात्र-निरूपितत्वसंबन्धावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपिताश्रयत्व संबन्धावच्छिन्नस्वत्वत्वावच्छिन्न प्रकार तानिरूपित पुरुषत्वावच्छिन्नविशेष्यताकः शाब्दबोधः किं वा निरूपितत्वसंबन्धावच्छिन्न राजत्वावच्छिन्नप्रकारतानिरूपितस्वत्वनिष्ठविशेष्यतासमानाधिकरणप्रकारतानिरूपित पुरुषत्वावच्छिन्न विशेष्य शाब्दबोधो भवति । नामार्थप्रकारकभेदान्वयबोधश्च प्रत्ययार्थस्य भवति तत्र प्रत्ययार्थे विशेष्यतासंबन्धेन शाब्दबोधो यदा भवति तदा विशेष्यतासंबन्धेन तत्र प्रत्ययजन्योपस्थितिरपि भवत्येव यथा ' राज्ञः ' इत्यत्र राजपदेन राजोपस्थितिर्भवति इस्पदेन च स्वत्वोपस्थितिर्भवति राजपदार्थस्य स्वत्वे भेदलक्षणेन निरूपितत्व संबन्धेनान्ययो भवतीति नामार्थराजप्रकारस्वत्ववि - ताकः ( ७३ ) "Aho Shrutgyanam" Page #86 -------------------------------------------------------------------------- ________________ ( ७४ ) सादर्श: [ प्रथमाकारके 2 न च संबन्धादेरपि नामार्थतयाः तत्प्रकारकान्वयबोधे पुरुषादिपदार्थस्य विशेव्यतया भानानुपपतिः, तत्तन्नामपदजन्यतत्तन्नामार्थप्रकारकशाब्दबोधत्वावच्छित्रं प्रति प्रत्ययजन्योपस्थितित्वेन हेतुत्वेपि ' राजसंबन्धः प्रमेयः ' राज्ञः पुरुष:' इत्येतादृशवाक्यद्वयजन्यवाक्यार्थद्वयान्वयबोधे पुरुषस्य राजसंबन्धविशे'ष्यतया मानानुपपत्तिरिति वाच्यम्, प्रत्ययाधीनतत्तत्पदार्थोपस्थित्य जन्यतदर्थमशेष्यकभेदान्मयबोधं प्रति प्रत्ययजन्योपस्थितेः कारणत्वमुक्तमत्र च स्वत्वस्य डस्प्रत्ययजन्यौपस्थितिरप्यस्तीति सर्व सुस्थम् । राजा पुरुषः ' इत्यत्र च पुरुषस्य पुरुषपदजन्योपस्थित्या प्रत्ययजन्योपस्थित्यभावाद् न राजप्रकारको भेदान्वयबोधः संभवतीत्यर्थः । तथा च नामार्थप्रकार मेदान्वयबोधे प्रत्ययार्थस्यैव विशेष्यतया मानं भवति प्रत्ययजन्योपस्थितिविषयत्वात्, नामामेदान्वयबोधे नामार्थान्तरस्य तु विशेष्यतया मानं नैव भवति तत्र = नामार्थान्तरे विशेष्यतासंबन्धेन प्रत्यय जन्योपस्थितेरसंभवादित्येवाह - नामार्थेति । ६ 看 , ननु यदि नामार्थप्रकारकमेदान्चयबोधं प्रति प्रत्ययजन्योपस्थितेर्हेतुत्वं तदा राज्ञः पुरुषः ' इत्यत्र षष्ठयर्थस्वत्वप्रकारकपुरुषविशेष्यकबोधोपि न स्यात् - संबन्धभूतं यत् षष्ठयर्थस्वत्वं तदि यथा डस्प्रत्ययस्यार्थस्तथा स्वत्वरूपनाम्नः संबन्धरूपनाम्नश्चार्थो भवत्येवेति स्वत्वरूप संबन्धस्यापि नामार्थतया स्वत्वप्रकारक बोधेपि पुरुषस्य विशेष्यतया भानं न स्यात् - प्रत्ययजन्योपस्थितिविषयत्वाभावादित्याशङ्कते - न चेति । ननु यन्नामार्थप्रकारकः शाब्दबोध इष्टः स यदा प्रकारीभूतनामार्थवाचकनामपदजन्यो भवति तदा तादृशशाब्दबोधं प्रत्येव प्रत्ययजन्योपस्थितेर्हेतुत्वमुच्यते यथा राज्ञः इत्यत्र षष्ठ्यर्थस्वत्वविशेष्यकबोधे नामार्थस्य राजपदार्थस्य निरूपितत्वसंबन्धेन स्वत्वे प्रकारत्वमस्ति. अथ चायं शब्दबोधो राजनामपदजन्योप्यस्त्येवेत्येतादृशशाब्दबोधं प्रति प्रत्ययजन्योपस्थितैः कारणत्वमस्ति अत्र च स्त्रत्वस्य विशेष्यस्य उस्प्रत्ययेनैवोपस्थितिरस्त्येवेति न काप्यनुपपत्तिः राज्ञः पुरुषः इत्यत्र तु पुरुषविशेष्यक बोधे पुरुषे प्रकारीभूतस्य स्वत्वस्य यद्यपि नामार्थत्वमस्त्येव नामार्थत्वस्य केवलान्वयित्वात् तथापि स्वत्वस्योपस्थितिर्नात्र नामजन्या किं तु ङस्प्रययजन्यैवेति शाब्दबोधस्य प्रकारीभूतं यत्स्वत्वं तस्य तद्वाचकस्वत्वादिनामपदजन्यत्वाभावानात्र प्रत्ययजन्योपस्थितेः कारणत्वमिति पुरुषस्य प्रत्ययजन्योपस्थित्यविषयत्वेपि विशेष्यतया माने न काप्यनुपपत्तिरित्याशङ्कयाह- तत्तन्नामपदेति । अत्रापि दोषमाह - राजसंबन्धेति, तत्तन्नामपदजन्येत्यादिनियमे कृतेपि ' राजसंबन्धः प्रमेयः ' राज्ञः पुरुषः इत्येतादृशवाक्यद्वयजन्यो यः समूहालम्बनामको बोधस्तत्र पुरुषस्य राजसंबन्धविशेष्यतया यदिष्टं भानं तन्न स्यात्, अत्र षष्ठ्यर्थ स्वत्वस्य यथा ङस्पदेनोपस्थितिरस्ति तथा राजसंबन्धः इतिसंबन्धपदेनाप्यस्त्येवेत्यत्र नामपदजन्यनामार्थप्रकारकशाब्दबोधो जायते संबन्धेतिनामपदजन्यत्वात् संबन्धेति नामार्थस्वत्वप्रकारकत्वाच्च पुरुषस्य च प्रत्ययजन्योपस्थितिर्नास्तीति राजसंबन्धविशेष्यतया मानानुपपतिरिति पूर्वपक्ष: । ८ 9 4 7 ८ 4 " "Aho Shrutgyanam" Page #87 -------------------------------------------------------------------------- ________________ भेदान्वयविचारः ] व्युत्पत्तिवादः । कारकशब्दत्वावच्छिन्नं प्रत्येव प्रत्ययजन्योपस्थितेः समानविशेष्यताप्रत्यासत्या हेतुत्वापगमात् । अथैवमपि यत्र 4 राजा पुरुषः' इत्यत्र पुरुषपदाधीन पुरुषोपस्थितौ प्रत्ययवशात् कश्चित्प्रत्ययार्थोपि विषयीभूतस्तत्र प्रत्यय जन्यतयाविध समूहालम्बनोपस्थिविशेष्यतासंबन्धेन पुरुषेपि सत्त्वात् तस्य राजप्रकारकान्वयबोधे विशेष्यतया भानापत्तिर्तुरेव | परिहारमाह— प्रत्ययाधीनेति, अर्थात्- यदर्थप्रकारकः शाब्दबोध इष्टः स यदि प्रकारीभूतपदार्थविषयकप्रत्ययजन्योपस्थितिजन्यो न भवति तदा तादृशशाब्दबोधं प्रत्येव विशेष्यतासंबन्धेन प्रत्ययजन्योपस्थितेः कारणत्वमुच्यते यदा च शाब्दबोधे प्रकारीभूतपदार्थस्य प्रत्ययेनोपस्थिति. भवति तदा तादृशशाब्दबोधे विशेष्यस्य विशेष्यतया भानं प्रति प्रत्ययजन्योपस्थितेः कारणत्वं नास्त्येव, तथा च राजसंबन्ध: प्रमेयः राज्ञः पुरुषः ' इतिवाक्यद्वयजन्य समूहालम्बनाम: बोधे पुरुषे प्रकारीभूतस्य राजसंबन्धस्य = षष्ठयर्थ स्वत्वस्य यद्यपि राजसंबन्धपदेनाप्युपस्थिति. रस्ति तथापि राज्ञ: ' इत्यत्रत्य डस्प्रत्ययेनाप्युपस्थितिरस्त्येवेत्येतादृश समूहालम्बनात्मकशाब्दबो L " ८ ८ (७५) प्रकारीभूतस्वत्वपदार्थ विषयकप्रत्ययजन्योपस्थित्यजन्यत्वं नास्तीति नैतादृशशाब्दबोधं प्रति विशेष्यस्य पुरुषादेः प्रत्ययजन्योपस्थितेः कारणत्वं येन प्रत्ययजन्योपस्थित्यभावादत्र पुरुषस्थ राजसंबन्धविशेष्यतया भानं न स्थात्, 'राज्ञः' इत्यत्र च राजप्रकारकस्वत्वविशेष्यकः शाब्दबोधो Shared as प्रकारीभूतस्य राजपदार्थस्य केवलं राजेतिनाम्नैवोपस्थितिरस्ति न तु प्रत्ययेनेति प्रत्ययाधीनराजपदार्थोपस्थित्यजन्यराजपदार्थप्रकार कशाब्दबोधत्वाद् एतादृशशाब्दबोधं प्रति विशेष्यपदार्थस्य प्रत्ययजन्योपस्थितेः कारणत्वमस्ति अत्र च विशेष्यस्य स्वत्वस्य स्प्र त्ययेनैवोपस्थितिरप्यस्त्येवेति राजपदार्थप्रकारकस्वत्वविशेष्य कशाब्दबोधस्य नानुपपत्तिरित्यर्थ: । एवम् ' राजा पुरुषः ' इत्यत्रापि पुरुषविशेष्यकराजप्रकार कशाब्दबोधे त्वयाssपाद्यमाने प्रकारीभूतराजपदार्थस्य राजेतिनाम्नैवोपस्थितिरस्ति न तु प्रत्ययेनेति प्रकारीभूतराजपदार्थविषयकप्रत्ययजन्योपस्थित्यजन्यत्वादत्र विशेष्यभूतपुरुषपदार्थविषयकप्रत्ययजन्योपस्थितेः कारणत्वं प्राप्तं पुरुष छात्र विशेष्यता संबन्धेन प्रत्ययजन्योपस्थितिर्नास्येव पुरुषस्य पुरुषेतिनाम्नैवोपस्थितत्वादिति नात्र पुरुषविशेष्यकराजप्रकारक भेदान्वयबोधः संभवति । , 7 5 ननुक्तरीत्या ' राजा पुरुषः इत्यत्र राजप्रकारक भेदान्वयबोधस्य निवारणे कृतेपि यत्र = यदा राजा पुरुषः इत्यत्र पुरुषपदेन पुरुषोपस्थितिर्जाता पुरुषपदोत्तरवर्तमानसुप्रत्ययेन चैकव्वस्योपस्थितिर्जाता तत्र तदा पुरुष एकत्वं च ' इत्येतादृशी या समूहालम्बनात्मिकोप्रस्थि• तिरस्ति सा यथा पुरुषपदजन्यास्ति तथा सुप्रत्ययजन्याप्यस्त्येव एतादृशप्रत्ययजन्योपस्थितिवियत्वं यथा प्रत्ययार्थैकत्वस्यास्ति तथा पुरुषस्याप्यस्त्येवेत्येवंरीत्या प्रत्ययजन्योपस्थितरत्र विशेष्यवासंबन्धेन पुरुषेपि सत्त्वात् तस्य = पुरुषस्य राजप्रकारक भेदान्वयबोधे विशेष्यतया मानं स्यादेव . अथादवरीत्या ' राजा पुरुषः इत्यत्र राजपदार्थप्रकारकपुरुषविशेष्यकभेदान्चयबोधस्यापत्तिस्तदयस्यैवास्तीत्याशङ्कते - अथैवमपीति । "Aho Shrutgyanam" Page #88 -------------------------------------------------------------------------- ________________ सादशे: (७६) [ प्रथम कारके - न च प्रत्ययजन्यतावच्छेद की भूतविशेष्यतासंबन्धेनोपस्थिते र्हेतुत्वापगमान्नाssपत्तिः - तादृशसमूहालम्बनोपस्थिति निरूपित पुरुषनिष्ठविशेष्यताया नाम्न एव 4 पुनः राजा पुरुष:' इत्यत्र भेदान्वयबोधापत्तिं निवारयति - न चेत्यादिना, नामार्थप्रकारकभेदान्वयबोधं प्रति प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेनोपस्थितेर्हेतुत्वमस्तीत्यन्वयः । अयमर्थ:- यत्र प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेन विशेष्यपदार्थे प्रत्ययजन्योपस्थितिर्भवति तत्रैव तत्पदार्थ विशेष्यक किंचिन्नामार्थप्रकार कभेदान्वयबोधो भवतीति नियमः । प्रत्ययजन्यतेति - प्रत्ययजन्या या उपस्थितिस्तन्निष्ठा या प्रत्ययजन्यता तदवच्छेदकत्वं चात्र विशेष्यनिष्ठविशेष्यताया ज्ञेयम् - विशेष्यनिष्ठापि विशेष्यता स्वनिरूपित विषयितासंबन्धेनोपस्थितौ वर्तते - स्वम् = आश्रयतासंबन्धेन विशेष्यनिष्ठा विषयतारूपा विशेष्यता विशेष्ये उपस्थितिनिरूपित विषयतायाः सत्त्वात् उपस्थितेश्व ज्ञानरूपत्वेन विषयित्वादुपस्थितौ उपस्थितिविषयीभूतपदार्थनिष्ठविषयतानिरूपित विषयिता वर्तते तथा च शाब्दबोधे विशेष्यतया भासमानपदार्थ निष्ठापि विशेष्यता स्वनिरूपित विषयिता संबन्धेनोपस्थितौ वर्तते तादृशौपस्थितौ प्रत्ययजन्यतापि वर्तते इत्येषा विशेष्यता उपस्थितिनिष्ठप्रत्ययजन्यतायाः सामानाधिकरण्यसंबन्धेनावच्छेदिका जातेति. एतादृशप्रत्ययजन्यतावच्छेद की भूत विशेष्यता संबन्धेनोपस्थितेर्नामार्थप्रकारकभेदान्वयबोधं प्रति कारणत्वमस्ति यथा- राज्ञः ' इत्यत्र ङसर्थस्वत्वविशेष्यकराजपदार्थ प्रकारकमेदान्वयबोधो भवति - स्वत्वे राजपदार्थस्य निरूपितत्वलक्षणभेद संबन्धस्य सत्त्वाद् निरूपितत्यसंबन्धेन राजवरस्वत्वमितिबोधात्, अत्र हि स्वत्वस्य स्प्रत्ययेनोपस्थितिर्भवतीति स्वत्वविषयको पस्थितौ उस्प्रत्ययजन्यता वर्तते. अथ च स्त्र योपस्थितीयविषयता वर्तते तादृशविषयतानिरूपित विषयिता स्वत्वविषयकोपस्थितौ वर्तते स्वत्वनिष्ठा च विषयता विशेष्यतारूपैव विज्ञेया तथा च- एषा स्वत्वनिष्ठापि विशेष्यता स्व ( स्वत्वनिठाविशेष्यता ) निरूपितविषयितासंबन्धेन स्वत्वविषयको पस्थितौ वर्तते इति स्वत्वविषयको - पस्थितौ या प्रत्ययजन्यता वर्तते तस्या अवच्छेदिका जातेति स्वत्वनिष्ठा विशेष्यता प्रत्ययजन्यतावच्छेदिकास्ति एतादृशी च प्रत्ययजन्यतावच्छेदकीभूतविशेष्यता विशेष्यभूते स्वत्वेप्याश्रयतासंबन्धेन वर्तत एवेति प्रत्ययजन्यतावच्छेदकी भूतविशेष्यता संबन्धेन सा डस्प्रत्ययजन्या स्वत्वोपस्थितिः स्वत्वेपि प्रत्ययार्थे वर्तत एवेति नामार्थप्रकारकभेदान्चयबोधकारणीभूतायाः प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेनोपस्थितेः स्वत्वे सत्त्वात् 9 राज्ञः इत्यत्र स्वत्ववि - शेकराज पदार्थप्रकारकभेदान्वय उपपद्यते इति कार्यकारणभावसमन्वयः । L राजा पुरुषः ' इत्यत्र तु पुरुषस्य योपस्थितिरस्ति सा पुरुषेतिनामपदजन्यास्ति न तु प्रत्ययजन्येति पुरुषविषयको पस्थितौ प्रत्ययजन्यतैव नास्तीति पुरुषनिष्ठा विशेष्यता स्त्रनिरूपित - विषयिता संबन्धेनोपस्थितौ वर्तमानापि प्रत्ययजन्यतावच्छेदिका कथं स्यात् ? इति पुरुषे प्रत्यय "Aho Shrutgyanam" Page #89 -------------------------------------------------------------------------- ________________ भेदान्वयविचारः ] व्युत्पत्तिवादः । ( ७७) जन्यतावच्छेदकत्वादितिवाच्यम्, ज्ञानभेदेन विशेष्यताभेदाभावाद् यत्र कुत्र चित् प्रत्ययादेव लक्षणादिना पुरुषाद्युपस्थितिस्तत्र तादृशोपस्थितिनिरूपितप्रत्ययजन्यतावच्छेदकीभूतविशेष्यतातः L पुरुषादिपदजन्यपुरुषाद्युपस्थितिविशेष्यताया अभिन्नतया तावताप्युक्तातिप्रसङ्गवारणाऽसंभवादिति चेत् ? " जन्यतावच्छेद की भूतविशेष्यतैव संबन्धरूपा यदा नास्ति तदा पुरुषे प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेन पुरुषोपस्थितिरपि कथं बर्तेत संबन्धिसत्तायाः संबन्धसत्ताधीनत्वात् तथा चात्र पुरुषे प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेनोपस्थितेरभावादेव तत्कार्यभूतः पुरुषपदार्थवि - शेष्यकराजपदार्थप्रकारकमेदान्वयबोधो न संभवतीत्याह - नापत्तिरिति, 'राजा पुरुषः इत्यत्र पुरुषविशेष्यकराजप्रकारकमेदान्वयबोधस्यापत्तिर्नास्तीत्यर्थः । उक्ते आपत्त्यभावे हेतुमाह- तादृशेति, पुरुषपदाधीनेत्यायुक्तसमूहालम्बनोपस्थितिनिरूपिता या पुरुषनिष्ठा विशेष्यता तस्याः प्रत्यय जन्यतावच्छेदकत्वमुक्तरीत्या नास्ति किं तु नाम्न एव जन्यतावच्छेदकत्वमस्ति नाम्न इति निरूपित्वं यर्थः पुरुषेतिनामनिरूपिता या पुरुषोपस्थितौ जन्यता तदवच्छेदकत्वादित्यर्थः । 3 राजा 'पुरुषः इत्यत्र पुरुषार्थस्य योपस्थितिरस्ति सा पुरुषेतिनामपदजन्यास्तीति पुरुष - निष्टा विशेष्यता पुरुषविषयको पस्थितिनिष्ठायाः पुरुषेतिनामपदजन्यताया एवावच्छेदिकास्ति न तु प्रत्ययजन्यताया अवच्छेदिका पुरुषविषयको पस्थितौ प्रत्ययजन्यताया एवाभावादित्यर्थः तथा च कारणीभूतायाः प्रत्ययजन्यतावच्छेदकी भूतविशेष्यतासंबन्धेनोपस्थितेरभावात् कथं तत्कार्यभूतः पुरुषविशेष्यकराजप्रकारकमेदान्चयबोधः स्यात् ? । एवम् ' राज्ञः पुरुषः' इत्यत्रापि पुरुषस्य प्रत्ययाधीनोपस्थितेरभावात् उपस्थितौ प्रत्ययजन्यत्वाभावाच्च पुरुषनिष्ठा विशेष्यता प्रत्ययजन्यतावच्छेदिका नास्तीति प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेन पुरुषे उपस्थितेरभावाद् राजप्रकारकपुरुष विशेष्यकभेदान्वयबोधो नैव जायते किंतु प्रत्ययार्थस्वत्वप्रकारकभेदान्वयबोधो जायते - आश्रयत्वसंबन्धेन राजनिरूपितस्वत्ववान पुरुष इति एतादृशप्रत्ययार्थप्रकारकनामार्थविशेष्यक मेदान्वयबोधं प्रति तु प्रत्यय जन्यतावच्छेदकीभूतविशेष्यता संबन्धेनोपस्थितेः कारणत्वमपि नास्त्येवेति पुरुषनिष्ठविशेष्यतायाः प्रत्ययजन्यताबच्छेदकत्वाभावेपि ङस्प्रत्ययार्थस्वत्वप्रकारकपुरुषेतिनामार्थविशेष्यक मेदान्वयबोधस्यापि नानुपपत्तिरिति सर्वे समञ्जसम् । 66 पुनः प्रतिवादी परिहरन् 'राजा पुरुषः' इत्यत्र पुरुषविशेष्यकराजप्रकारक स्वत्वसंसर्गक भेदान्वयबोधमापादयति- ज्ञानभेदेनेत्यादिना । ज्ञानभेदेन विशेष्यतामेदाभावात्” इति " विशेव्यताया अभिन्नतया इत्यत्र हेतुः । अयमर्थ:- देवदत्तादिभिरनेकैरपि पुरुषैरेकस्मिन्नेव ज्ञाते घंटे देवदत्ताद्यनेकपुरुषसमवेतैकघटविषयकज्ञानस्य देवदत्तादिभेदेन भेदेपि यथा घटभेदो न भवति तथा ज्ञानमेदेन घटनिष्ठविशेष्यताया अपि भेदो न भवति विशेष्यभेदेनैव विशेष्यताभेदनियमात् तथा च यदा कदाचित् ' राज्ञः ' इत्यत्र केन चित् उस्प्रत्ययस्य पुरुषपदार्थे 17 "Aho Shrutgyanam" Page #90 -------------------------------------------------------------------------- ________________ (७८) सादर्श: [ प्रथमाकारकेन, स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासंबन्धेनैवोपस्थितेहेतुतया उक्तसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यतायाश्च लक्षणावृत्तिाता तदा प्रत्ययेन स्वारसिकलक्षणावृत्त्या पुरुषस्योपस्थितिर्भविष्यत्येव तत्र पुरुषोपस्थितेः ङसूप्रत्ययेन जातत्वात् तादृशपुरुषोपस्थितौ प्रत्ययजन्यतापि प्राप्तैव ताशप्रत्ययजन्यपुरुषविषयकोपस्थितिनिरूपिता विषयताख्या विशेष्यता पुरुषेपि वर्तत एव पुरुषनिष्ठा चैषा विशेष्यतोक्तरीत्या स्वनिरूपितविषयितासंबन्धेन पुरुषोपस्थितावपि वर्तते तत्र पुरुषोपस्थिती प्रत्ययजन्यतापि वर्तते इति पुरुषनिष्ठा विशेष्यता उपस्थितिनिष्ठप्रत्ययजन्यताया अवच्छेदिका जातैव. अथ च विषयभेदेनैव विशेष्यताभेदनियमेन ज्ञानभेदेन विशेष्यताभेदाऽभावात् पुरुषे ' राज्ञः ' इत्यत्र लक्षणाधीनस्प्रत्ययजन्यपुरुषोपस्थितिनिरूपितविशेष्यता ' राजा पुरुषः । इत्यत्र शक्त्यधीनपुरुषेतिनामपदजन्यपुरुषोपस्थितिनिरूपितविशेष्यता च वर्तते तयोरुभयोरपि विशेष्यतयोविशेष्यभूतपुरुषपदार्थस्य भेदाभावाद् भेदो नास्तीत्यैक्यं प्राप्तं तथा च ' राज्ञः' इत्यत्र लक्षणाधीनङस्प्रत्ययजन्यपुरुषोपस्थितिनिरूपिता पुरुषनिष्ठा विशेष्यता पुरुषोपस्थितिनिष्ठप्रत्ययजन्यताया अवच्छे. दिकास्तीति 'राजा पुरुषः ' इत्यत्रापि शक्त्यधीनपुरुषेतिनामपदजन्यपुरुषोपस्थितिनिरूपिता पुरुषनिष्ठा विशेष्यता प्रत्ययजन्यतावच्छेदिका जातैव उक्तपुरुषनिष्ठविशेष्यतयोक्तरीत्या ऐक्यात् तथा च ' राजा पुरुषः' इत्यत्रापि पुरुषे प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतायाः सत्त्वात् तादशप्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेन पुरुषे पुरुषपदजन्योपस्थितिर्वर्तत एवेति प्राप्तमिति तत्कार्यभूतः पुरुषविशेष्यकराजप्रकारकभेदान्वय ( स्वत्वसंसर्गक ) बोधः कथं न स्यादित्यर्थस्तदाह-- तादृशोपस्थितीति । ज्ञानभेदेन विशेष्यताभेदाभाषात् तादृशा=' राज्ञः ' इत्यत्र लक्षणाधीनस्प्रत्ययजन्या । तादृशोपस्थिनितिरूपिता या प्रत्ययजन्यावच्छेदकीभूतन पुरुषनिष्ठा विशेष्यता तादृशविशेष्यतातः ' राजा पुरुषः ' इत्यत्र शक्त्यधीनपुरुषपदजन्यपुरुषो. पस्थितिनिरूपितायाः पुरुषनिष्ठविशेष्यताया अभिन्नतया. तावतापि-प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेनोपस्थितेः नामार्थप्रकारकभेदान्वयबोधं प्रति कारणतास्वीकारेपि उक्तातिप्रसङ्गस्य= 'राजा पुरुषः' इत्यत्र राजपदार्थप्रकारकपुरुषविशेष्यकभेदान्वयबोधप्रसङ्गस्य ( आरत्तेः , वारणासंभवादित्यर्थः । उक्तरीत्या 'राजा पुरुषः । इत्यत्र भेदान्वयबोधस्य प्रदर्शितत्वात् । " ज्ञानभेदेन विशेष्यताभेदाभावास " इत्यादिना " पुरुषपदाधीन " इत्यादिपूर्वोक्तभेदान्वयप्रकारस्यैष समर्थनं कृतं न तु प्रकारान्तरेण भेदान्क्यापत्तिः प्रदर्शितेत्यवधेयम् । उक्तरीत्या प्रतिवादिना 'राजा पुरुषः' इत्यत्रापादित नामार्थप्रकारकनामार्थविशेष्यकभेदाम्वयबोधं परिहरति-नेति, स्वजनकेति-नामार्थप्रकारकमेदान्वयबोधं प्रति स्वजनकज्ञानीयप्रत्ययवृ. त्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासंबन्धेनोपस्थितेः कारणत्वमुच्यते, स्वम्-उपस्थितिः, उपस्थितिजनकं यदर्थविशेष्यकशक्तिज्ञानं तादृशशक्तिज्ञानविषयभूता या प्रत्ययवृत्तिप्रकारता (प्रत्ययार्थविशेष्यकशक्तिज्ञाने प्रत्ययस्य प्रकारतया भानात् ) तादृशप्रकारतानिरूपिता "Aho Shrutgyanam" Page #91 -------------------------------------------------------------------------- ________________ दान्वयविचारः] व्युत्पत्तिवादः। (७९) सादृशोपस्थितिजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यतासामानाधिकरण्यविरहान्नातिप्रसङ्ग इति वदन्ति ।। या प्रत्ययार्थनिष्ठा विशेष्यता ( शक्तिज्ञानीयविशेष्यता-प्रत्ययार्थविशेष्यकशक्तिज्ञाने प्रत्ययार्थस्य विशेष्यतया मानात् ) तादृशविशेष्यताविशिष्टा या प्रत्ययार्थनिष्ठैवोपस्थितीयविशेष्यता- तादृशेन विशेष्यताविशिष्टविशेष्यतासंबन्धेनोपस्थिते मार्थप्रकारकमेदान्वयबोधं प्रति कारणत्वमुच्यते इत्यन्वयः। __ यथा-'राज्ञः' इत्यत्र या प्रत्ययजन्या स्वत्वोपस्थितिस्तजनकं यत् प्रत्ययार्थस्वत्वविशेष्यकं शक्तिज्ञानम्-ङस्प्रत्ययशक्यं स्वत्वं शक्तिसंबन्धेन उस्प्रत्ययवदितिज्ञानं ताशशक्तिज्ञानविषयभूता या ङस्प्रत्ययनिष्ठा प्रकारता ( उक्तार्थविशेष्यकशक्तिज्ञाने स्प्रत्ययस्य प्रकारतया मानात् ) तादृशप्रकारतानिरूपिता स्प्रत्ययार्थस्त्रत्वे विशेष्यता (शक्तिज्ञानीयविशेध्यता- उक्तशक्तिज्ञाने स्प्रत्ययार्थस्वत्वस्य विशेष्यतया भानात् ) वर्तते. अथ च ङस्प्रत्ययार्थभूते स्वत्वे डस्प्रत्ययजन्योपस्थितीयापि विशेष्यता वर्तते इत्येषा स्वत्वनिष्ठोपस्थितीयविशेष्यता उक्तप्रथमया स्वत्वनिष्ठया शक्तिज्ञानीयविशेष्यतया विशिष्टा जाता-उभयोर्विशेष्यतयोः सामानाधिकरण्यादिति स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यता ङस्प्रत्ययार्थस्वत्वेऽत्र घर्तते एवेति एतादृशविशेष्यताविशिष्टविशेष्यतासंबन्धेनोपस्थिति ( ढस् प्रत्ययजन्यस्वः त्वोपस्थिति ) रपि स्वत्वे वर्तते एवेति तत्कार्यभूतो राजपदार्थप्रकारकस्वत्वविशेष्यकनिरूपितत्वलक्षणभेदसंसर्गकशाब्दबोधोपि जायते इति कार्यकारणभावसमन्वयः । 'राजा पुरुषः' इत्यत्र च पुरुषपदाधीनपुरुषोपस्थितिः पुरुषपदोत्तरवर्तमानसुप्रत्ययवशाच्चैकत्वादिप्रत्ययार्थोपस्थितिर्जाता तत्र . प्रत्ययजन्यतथाविधसमूहालम्बनोपस्थितेर्विशेष्यतासंबन्धेन पुरोपि सत्त्वात् पुनश्च "ज्ञानभेदेन विशेष्यतामेदाभावात् । इत्यादिना विशेष्यतयोरक्यं प्रतिपाद्य पुरुषनिष्ठायाः पुरुषपदजन्योपस्थितीयविशेष्यताधा अप्युक्तप्रकारेण प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतात्वमुपपाद्य यात्र पुरुषविशेष्यकराजप्रकारकमेदान्वयापत्तिः प्रदर्शिता सा नेदानीं संभवतीत्याह-उक्तसमूहालम्बनेत्यादिना । उक्ता या समूहालम्बनोपस्थितिस्तादृशोपस्थितिनिरूपिता यात्र पुरुषनिष्ठा विशेष्यता तस्यास्तादृशोपस्थितिजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यतया सह सामानाधिकरण्यमेव नास्ति- प्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यतायाः प्रत्ययार्थमात्रवृतित्वात् पुरुषे चासत्त्वादिति पुरुषोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यता प्रत्ययवृत्तिप्रकारतानिरूपित विशेष्यताविशिष्टैव नास्तीति संबन्धरूपाया विवक्षितविशेष्यताविशिष्टविशेष्यतायाः पुरो प्रमा वात् तादृशविशेष्यताविशिष्टविशेष्यतासंबन्धेनोपस्थितिरपि पुरुषे कथं वर्तेतेति कथं पुरुषषिव्यकुराजप्रकारकभेदान्वयबोधः स्यादित्यन्वयः । अयमर्थ:-'राजा पुरुषः' इत्यत्र पुरुषपदेन पुरुषोपस्थितिर्भवति पुरुषपदोत्तरवर्तमानसुप्रत्ययेन चैकत्वोपस्थितिर्भवति- पुरुष एकत्वं चेतिरूपा, एतादृशसमूहालम्बनोपस्थितीयविशेष्यता पुरुषे वर्तते 'राज्ञः' इत्यत्र च कस्यचित्स्वारसिकलक्षणावशात स्प्रत्ययेन पुरुषोपस्थितिर्जातेति म्स् "Aho Shrutgyanam" Page #92 -------------------------------------------------------------------------- ________________ (८०) सादर्श: [प्रथमाकारके प्रत्ययजन्योपस्थितीयविशेष्यतापि पुरुषे वर्तते ज्ञान ( अत्रोभयोपस्थिति ) भेदेन विशेष्यता दाभावाच्चोक्तोभयोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यतयोरैक्यात पुरुषनिष्ठोपस्थितीयविशेष्यताया स्वनिरूपितविषयितासंबन्धेन पुरुषविषयकप्रत्ययजन्योपस्थितौ वर्तमानत्वाच्च पुरुषनिष्ठा विशेष्यात उपस्थितिनिष्ठप्रत्ययजन्यतावच्छेदिका जातेति तादृशप्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासंबन्धेनोपस्थितिः पुरुषे वर्तते एवेति तत्कार्यभूतः पुरुषविशेष्यकराजप्रकारकभेदान्वयबोधः संभवत्येवेति प्रतिवादिना यत् प्रतिपादितम्, तन्न संभत्रति- 'राजा पुरुषः' इत्यत्रोक्तसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यता पुरुः वर्तते तादृश=उक्तसमूहालम्बनोपस्थितिजनकं यच्छक्तिज्ञानं सुप्रत्ययशक्यमेकत्वं शक्तिसंबन्धेन सुप्रत्ययवदितिज्ञानं तादृशशक्तिज्ञाननिरूपिता या प्रत्ययनिष्ठा प्रकारता ( प्रत्ययार्थविशेष्यकशक्तिज्ञाने प्रत्ययस्य प्रकारत्वात् ) तादृशप्रकारतानिरूपिता विशेष्यता तु सुप्रत्ययार्थैकत्वे एव वर्तते न तु पुरुषेपीत्युक्तसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यताया उक्तसमूहालम्बनोपस्थितिजनकज्ञानीय (शक्तिज्ञानीय) प्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यतायाश्च वैयधिकरण्येन सामानाधिकरण्याभावादुक्तसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेध्यता उक्तसमूहालम्बनोपस्थितिजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टैव न भवतीति संवन्धत्वेन विवक्षितायाः स्व ( उपस्थिति ) जनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतायाः पुरुषेऽभावादेवैतादृशविशेष्यताविशिष्टविशेष्यतासंबन्धनात्र पुरुषे उपस्थितिरपि न वर्तते इति तत्कार्यभूस्य पुरुषविशेष्यकराजप्रकारकस्वत्वसंसर्गकभेदान्वयबोधस्यापि प्रसङ्गः=आपत्तिर्नास्त्येवेति वदन्ति । ___ एवम्- 'राज्ञः पुरुषः' इत्यत्रापि प्रत्ययजन्योपस्थितिजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यता प्रत्ययार्थे एव वर्तते न तु पुरुषे इति पुरुषे स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यताया अभावेन तादृशविशेष्यताविशिष्टविशेष्यतासंबन्धेन पुरुषे उपस्थितेरप्यऽभावाद् राजप्रकारकपुरुषविशेष्यकभेदान्वयबोधो न जायते । यश्च उस्प्रत्ययार्थस्वत्वप्रकारकपुरुषविशेष्यकभेदान्वयबोधो जायते तादृशप्रत्ययार्थप्रकारकनामार्थविशेष्यकमेदान्त्रयबोध प्रति स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्ट विशेष्यतासंबन्धेनोपस्थितेर्हेतुत्वमेव नास्तीति एतादृशविशेष्यताविशिष्टविशेष्यतासंबन्धेनोपस्थितेरभावेपि आश्रयत्वसंसर्गकप्रत्ययार्थस्वत्वप्रकारकपुरुषविशेष्यकभेदान्वयबोधस्य नानुपपत्तिः । 'राज्ञः पुरुषः' इत्यत्र निरूपितत्वसंबन्धेन राजा ङसर्थे स्वत्वे प्रकारः स्वत्वस्य राजनिरूपितत्वात् स्वत्वं चाश्रयतासंबन्धेन पुरुषे प्रकार इत्यवधेयम् । 'राज्ञः' इत्यत्र च नामार्थप्रकारकभेदान्वयबोधो जायते तादृशभेदान्वयबोधं प्रति स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासंबन्धनोपस्थितेः कारणत्वमस्तीति 'राज्ञः' इत्यत्र स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासंबन्धनोपस्थितिरपि ङतर्थस्वत्वे वर्तत एवेति नामार्थराजप्रकारकप्रत्ययार्थस्वत्वविशेष्यकनिरूपितस्वलक्षणभेदसंसर्गकभेदान्वयबोधोपि जायते एवेति सर्व समअसम् । "Aho Shrutgyanam" Page #93 -------------------------------------------------------------------------- ________________ मेदान्वयवादः] व्युत्पत्तिवादः । (८१) तदसत्- प्रत्ययत्वस्याऽनुगतस्याऽनतिप्रसक्तस्य दुर्वचतया उक्तकार्यकारणभावकल्पनाया असंभवात् । 'राजसंबन्धः पुरुषः' इत्यादौ संबन्धादिपदे इन्स्पदत्वादिभ्रमदशायां संबन्धादिविशेष्यकराजादिपदार्थप्रकारकान्वयबोधानुपपत्तेः । 'राज्ञः पुरुषः' इत्यादौ ङस्पदादिषु संबन्धादिपदत्वभ्रमदशायां संबन्धाशे राजादिप्रकारकान्वयबोधापत्तेश्च ।। ___ न च प्रत्ययत्वेन ज्ञातं यत्पदं तत्पदजन्योपस्थितेः कारणत्वादेतद्दोषद्वयस्य नावकाश इति वाच्यम्, 'राज्ञः पुरुषः' इत्यादौ षष्ठ्यादेः प्रत्ययत्वाद्यनुपस्थितिदशायामपि आनुपूर्वीविशेषप्रकारकज्ञानाधीनतदर्थोपस्थितिसत्त्वे शाब्दबोधोत्पत्या प्रत्ययत्वप्रकारकज्ञाननिवेशासंभवात् । उक्तकार्यकारणभावं सिद्धान्ती परिहरति- तदसदिति, उक्तकार्यकारणभावे प्रत्ययस्य प्रवेशोऽस्ति प्रत्ययत्वं च सकलप्रत्ययानुगतं प्रत्ययातिरिक्ते चानतिप्रसक्तं न निवक्तुं शक्यते प्रत्ययत्वनिर्वचनासंभवे च प्रत्ययज्ञानासंभवात् प्रत्ययविशिष्टोक्तकार्यकारणभावोपि नावधारयितुं शक्यते इत्यर्थः । किंचोक्तप्रत्ययत्वविशिष्ट कार्यकारणभावस्वीकारे यदा 'राजसंबन्धः पुरुषः' इत्यत्र कस्यचित् संबन्धपदे अस्पदत्वभ्रमो जायते तदात्र 'राजसंबन्धः' इति भागे डस्प्रत्ययार्थस्वत्वसंबन्धविशेष्यकराजपदार्थप्रकारकमेदान्वयबोध इष्टोस्ति स न स्यात्- वस्तुतोत्र राजपदोत्तरं ङस्प्रत्ययाऽभावात् कार्यकारणभावे च प्रत्ययत्वनिवेशात् । 'राज्ञः पुरुषः' इत्यत्र च यदा ङस्प्रत्यये संबन्धपदवभ्रमो जायते तदा उस्प्रत्ययार्थस्वत्वविशेष्यकराजप्रकारकभेदान्वयबोध इष्टो नास्ति उक्त कार्यकारणभावस्वीकारे चापद्येतैव वस्तुतोत्र राजपदोत्तरं डस्प्रत्ययस्य सत्त्वादिति नोक्तकार्यकारणभावः समञ्जसः । ननु प्रत्ययत्वेन ज्ञातं यत्पदं तत्पदजन्योपस्थितेः नामार्थप्रकारकभेदान्वयबोधं प्रति कारणत्वमुच्यते तथा च 'राजसंबन्धः पुरुषः' इत्यत्र संबन्धपदे डस्पदत्वभ्रमदशायां संबन्धपदं प्रत्ययत्वेन ज्ञातमिति प्रत्ययत्वेन ज्ञातसंबन्धपदजन्योपस्थितेर्नामार्थप्रकारकभेदान्वयबोधं प्रति कारणत्वस्वीकारात्प्रत्ययार्थसंबन्धविशेष्यकराजप्रकारकभेदान्वयबोधस्यानुपपत्तिास्ति तत्कारणीभूतायाः प्रत्ययत्वेन ज्ञातपदजन्योपस्थितेः सत्त्वात् । 'राज्ञः पुरुषः' इत्यत्र डस्पदे संबन्धपदत्वभ्रमदशायां वस्तुतो विद्यमानमपि स्प्रत्ययपदं प्रत्ययत्वेन न ज्ञातमिति प्रत्ययत्वेन ज्ञातपदजन्योपपस्थितेरभावात् तत्कार्यभूतस्य संबन्धविशेष्यकराजपदार्थप्रकारकभेदान्वयबोधस्यापन्र्नािस्तीत्या. शङ्कयाह- न चेति । परिहारमाह- राज्ञ इति, 'राज्ञः ' इत्यत्र यदा षष्ठया: प्रत्ययत्वेनोपस्थिति: ज्ञानं न भवति तदापि ' राज्ञः ' इत्याकारकानुपूर्वी विशेष प्रकारकम् ' राज्ञः ' इत्यानुपूर्वीमात्रविषयकं यज्ज्ञानं तज्जन्या या तदर्थोपस्थितिःषष्ठयर्थस्वत्वविषयकोपस्थितिः तत्सत्त्वेपि राजप्रकारकषष्ठयर्थस्वत्वविशेष्यकभेदान्वयबोधो जायते एव इष्टश्च तन्न स्यादिति कार्यकारणभावे प्रत्ययत्वप्रकारकज्ञाननिवेशो न युक्तः। प्रत्ययत्वज्ञाननिवेशाभावे च राज्ञः 'इत्यत्र षष्ठयाः प्रत्ययत्वे. "Aho Shrutgyanam" Page #94 -------------------------------------------------------------------------- ________________ ( ८२ ) सादर्श: [ प्रथमा कारके i इदं पुनरत्र तस्वम्- राजा पुरुषः ' इत्यादौ पुरुषादिविशेष्यकराजादिप्रकारक भेदान्वयबोधस्याऽप्रसिद्धचैव नापत्ति संभवः । यत्र षष्ठयादिविभक्तेरेव स्वारसिकलक्षणया शक्तिभ्रमेण वा पुरुषाद्युपस्थितिस्तत्र तद्विशेष्यकराजादिपदार्थप्रकारेकभेदान्वयबोधः प्रसिद्ध इति चेत् , तर्हि तादृशबोधे तथाविधप्रकृतिप्रत्ययानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानसहकृततत्तद्विभक्तिजन्यपुरुषाद्युपस्थितिघदिल सामय्या एव तादृश बोधोत्पात्तनियामकतया तदभावादेव न तदापत्तिः । अत एव स्वत्वादिसंबन्धेन राजादिविशिष्टपुरुषादितात्पर्यकतदादिपदघटितात् ' स सुन्दरः ' इति वाक्यात् पुरुषादिविशेष्यकस्वत्वादिसंसर्गक राजादिप्रकार कशाब्दबोधस्य च प्रसिद्धया ' राजा पुरुषः सुन्दरः' इत्यादौ पदार्थोंपनानुपस्थितिदशायामपि राजप्रकारक स्वत्वविशेष्यकमेदान्वयबोधस्य नानुपपत्तिरित्यर्थः । प्रस्ययत्वाद्यनुपस्थितिदशायाम् = प्रत्ययत्वादिना रूपेणानुपस्थितिदशायाम् । कचित् प्रसिद्धस्यैव पदार्थस्यान्यत्रापत्तिः संभवति यथा घटादेर्न त्वप्रसिद्धस्य यथा शशविषाणादेरिति यदि नामार्थप्रकारकनामार्थविशेष्य कभेदान्वयबोधः कचिदपि प्रसिद्धः स्यात्तदा 'राजा पुरुषः' इत्यत्राप्यापद्येतेत्याह- इदमित्यादिना । नामार्थयोः साक्षाद् मेदान्वयबोधस्याSन्युत्पन्नखादित्यर्थः । नामार्थस्य साक्षात्तु प्रत्ययार्थेन वा निपातार्थेन वा एव मेदान्वयबोधो 'जायते न तु निपातातिरिक्तनामार्थेन, तथा च राजपदार्थस्य पुरुषपदार्थेन सह साक्षात्कथं arraratधः स्यादित्यर्थः । 酱 ? ननु यत्र राज्ञः ' इति षष्ठयैव स्वारसिकलक्षणया शक्तिभ्रमेण वा पुरुषोपस्थितिर्जायते तत्र तु तद्विशेष्यक-पुरुष विशेष्यकराज प्रकारक मेदान्वयबोधः प्रसिद्ध इति तस्यैव 'राजा पुरुषः इत्यत्राप्यापत्तिरित्याशङ्कते - यत्रेति । उत्तरमाह- तहति, कार्यकारणभावो ह्यन्वयव्यतिरेकाभ्यामवधार्यते इति ' राज्ञः ' इत्यत्र यदि लक्षणया शक्तिभ्रमेण वा पष्ट्या पुरुषोपस्थितौ राजप्रकारकपुरुषविशेष्यकभेदान्त्रयबोधो जायते तदा स बोधः कया सामग्र्या जायते इति विवेके कर्तव्ये ' राज्ञः ' इत्यत्र तादृशबोधे = राजप्रकारकपुरुषविशेष्यक मेदान्वयबोधे तथाविध-रात्रइत्याकारकप्रकृतिप्रत्ययानुपूर्वीविशेषरूपाकाङ्क्षा सहकृतङ स्विभक्तिजन्यपुरुषोपस्थितियुक्तसा मध्या एव तादृशबोधोत्पत्तिनियामकतया तदभावादेव = एतादृशसामग्र्यभावादेव ' राजा पुरुषः' इत्यत्र राजप्रकारकपुरुषविशेष्यकभेदान्वयबोधस्य नापत्ति:- कारणसत्त्वे एव : कार्यसंभवादित्यर्थः । $6 वादिविभक्तेः " इति पञ्चम्यन्तम् । ८ यादृशशाब्दबोधसामग्री भवति तादृश एव शाब्दबोधो भवति न त्वन्यादृश इत्याह- अव एवेति स सुन्दरः इत्यत्र स्वत्वसंबन्धेन राज विशिष्टपुरुषतात्पर्येण स इति तत्पदं प्रयुक्तमिंति स सुन्दर:' इति वाक्येन पुरुषविशेष्यकस्वत्वसंसर्गकराजप्रकारकः शाब्दबोधो जायते इति तत्प्रसिद्धया ' राजा पुरुषः सुन्दरः ' इत्यत्रापि पदार्थोपस्थितियोग्यताबलात् स्वत्वसंबन्धेन ८ 7 "Aho Shrutgyanam" Page #95 -------------------------------------------------------------------------- ________________ मेदान्वयवादः] व्युत्पत्तिवादः। .८३) स्थितियोग्यताज्ञानादिवलात् तादृशशाब्दबोधापत्तिरित्यपि निरस्तम्-'स सुन्दरः' इत्यादिवाक्याधीनशाब्दबोधसामग्यास्तत्पदत्वाधवच्छिन्नविशेष्यकसुन्दरादिपदसममिव्याहारज्ञानसहकृततदादिपदजन्यतादृशविशिष्टार्थोपस्थितिघटिततया तदभावादेवापत्त्यभावात् । • अथैतादृशरीत्यापत्तिवारणे — राज्ञः पुरुषः' इत्यादी स्वत्वादिसंबन्धेन पुरुपादौ राजाद्यन्वयबोधस्वीकारेपि क्षतिविरहादुक्तव्युत्पत्तिनियुक्तिका । विभक्तीनां संबन्धादिवाचकत्वमपि नियुक्तिकम्, 'नीलो घटः' इत्यादौ विशेषणवाचकपदसमभिव्याहृतविभक्तेरिव सर्वविभक्तीनां साधुत्वमात्रार्थकत्वस्यैवोचितत्वात्, राजप्रकारकपुरुषविशेष्यकबोधः स्यादेवत्यपि निरस्तम् । यतः- 'स सुन्दरः । इत्यत्र तत्पदविशेष्यकं यत्सुन्दरपदसमभिव्याहारज्ञानं तादृशज्ञानसहकृता या तत्पदजन्या तादृशे स्वत्वसबन्धेन राजविशिष्टपुरुषविषयकोपस्थितिस्तद्घटितसामघ्या एव पुरुषविशेष्यकस्वत्वसंसर्गकराजप्रकारकशाब्दबोधो जायते ' राजा पुरुषः सुन्दरः' इत्यत्र च तदभावादेव-तत्पदाभावेन तत्पदविशेषयकसुन्दरपदसममिव्याहारज्ञानसहकृततत्पंदजन्यतादृशविशिष्टार्थोपस्थितिघटितसामग्य - मावादेव आपत्त्यभावात् तत्कार्यभूतस्य पुरुषविशेष्यकस्वत्वसंसर्गकराजप्रकारकशाब्दबोधस्यापत्त्यभावादित्यर्थः । - अथेति- यादृशशाब्दबोधसामग्री भवति तादृश एव शाब्दबोधो भवतीत्येतादृशोक्तरीत्या * राज्ञः पुरुषः । इतिवाक्याजायमानशाब्दबोधस्य : राजा पुरुषः ' इत्यत्रापत्तिवारणे कृते तथा * स सुन्दरः । इतिवाक्याजायमानशाब्दबोधस्य 'राजा पुरुषः सुन्दरः' इत्यत्रापत्तिवारणे कृते * राज्ञः पुरुषः । इत्यत्र स्वत्वसंसर्गकराजप्रकारकपुरुषविशेष्यकबोधस्यापि सन्तराजपदप्रयमा न्तपुरुषपदसममिव्याहाररूपाकाशाज्ञानघंटिनोपस्थित्यादिसामग्रीवशादेव स्वीकारें क्षतिविरहात . राजा पुरुष: ' इत्यत्र सन्तराजपदाभावेन 'राज्ञः पुरुषः' इत्यत्रत्यसामग्र्यभावात् स्वत्वसंसर्गकराजप्रकारकपुरुषविशेष्यकशाब्दबोधापत्तिर्न संभवतीति उक्तव्युत्पत्तिः=नामार्थप्रकारकभेदान्वयबोधं प्रति प्रत्ययजन्योपस्थितिः कारणमिति व्युत्पत्तिनियुक्तिका-पृथक्पृथगाकाक्षादिघटितविलक्षणसामग्रीवशादेव पृथक्पृथक्स्वरूपशाब्दबोधोत्पत्तिनियमसंभवाद् व्यथैवेत्यर्थः । एवं विशेषणवाचकपदोत्तरवर्तमान विभक्तेरिव सर्वविभक्तीनाम्-विशेष्यवाचकपदोत्तरवर्तमानविभक्तीनामपि साधुत्वमात्रार्थकत्वौचित्यासंबन्धादिवाचकत्वमपि नियुक्तिकम्- तत्र तत्र जायमानताशसंबन्धादिविषयकशाब्दबोधं प्रति तत्र तत्र वर्तमानाकाङ्क्षादिघटितसामग्रीवियस्पैन कारणव स्वीकारे तादृशसामग्र्यभावानान्यत्र तादृशशाब्दबोधातिप्रसङ्गो गया' नीलो घाट: ' इत्यत्रत्यायाः प्रेषमान्तनीलपदघटपदाकाङ्क्षाया विरहात् 'नीलस्य घटः । इत्यादौ न नीलघटयोरमेदाचयबोधापत्तिरित्यर्थः । तत्रत्यशान्दबोधविशेषं प्रति तत्रत्यसामग्री विशेषस्य कारणत्वमित्येकस्यैव कार्यकारणभावस्य सकलशाब्दसाधारणत्वेन लाघवात् । पृथक्पृधग् व्युत्पत्तीनां "Aho Shrutgyanam" Page #96 -------------------------------------------------------------------------- ________________ ( ८४ ) सादर्श: [ प्रथमकारके न हि तत्र तथाविधान्वयबोधोपगमे तत्स्थलीयसामग्रीबलात् ' राजा पुरुषः ' इत्यादिष्वपि तथाविधान्वयबोधप्रसङ्गः संभवति - तत्स्थलीयसामय्याः षष्ठयन्त- राजपदत्वाद्यवच्छिन्नधर्मिक पुरुषादिपदसमभिव्याहाररूपाकाङ्क्षाज्ञानघटिततया तदभावादेव तत्र तादृशसामय्या अभावात् । एवं च ' राजपुरुषः ' इत्यादिसमासे राजादिपदस्य राजसंबन्ध्यादिलक्षणा'स्वीकारोपि व्यर्थः- तत्र भेदान्वयबोधस्वीकारेपि क्षतिविरहात् । न च तत्र भेदान्वयबोधाभ्युपगमे तत्स्थलीयसामग्रीबलात् ' राजा पुरुषः ' इत्यादावपि ताहशान्वयबोधापत्तिरिति वाच्यम्, तत्स्थलीय शाब्दबोधे राजपदाव्यवहितोत्तरपुरुषाकार्यकारणभावनियामकत्वे ह्यनेककार्यकारणभावानां स्वीकारापत्त्या गौरवाचेत्यर्थः । स्वाभि प्रायं प्रकटयति- नहीति । तत्र - 'राज्ञः पुरुषः इत्यत्र । तत्स्थलीयसामग्रीबलात् = राज्ञः पुरुष:' इत्यत्रत्रर्तमानङसन्तराज पदप्रथमान्तपुरुषपदघटितसामग्रीबलात् तथाविधान्वयबोधोपगमे= निरूपितत्व संबधेन राजविशिष्टस्वत्वप्रकारकपुरुषविशेष्यकबोधस्त्री कारेपि 'राजा पुरुषः' इत्यत्र उक्तस्वत्वप्रकारकपुरुषविशेष्यकबोधापत्तेरभावात् षष्ठ्यन्तराजपदाभावात्, एतदेवाह -- तत्स्थलीयेति ! तत्स्थलीय सामन्याः = ' राज्ञः पुरुषः' इत्यत्रत्यसामग्र्याः षष्ठयन्तं यद्राजपदं तद्विशेष्यकं यत् पुरुषपदसमभिव्याहाररूपाकाङ्क्षाज्ञानं तद्घटितत्वेन, तत्र = ' राजा पुरुषः' इत्यत्र च तदभावात् पष्ठयन्तराजपदत्वावच्छिन्नविशेष्यकपुरुषपदसमभिव्याहाररूपाकाङ्क्षाज्ञानाभावादेव तादृशसामग्र्या: स्वत्वप्रकारकपुरुषविशेष्यकशाब्दबोधजनकसामग्र्या अमावान्न स्वत्वप्रकारकपुरुषविशेष्यकशाब्दबोधापत्तिरित्यर्थः । एवं चेति - यथा 'राज्ञः पुरुषः' इत्यत्र भेदान्वयबोधो भवति तथा 'राजपुरुष:' इत्यत्रापि भेदान्वयबोधः स्वीकर्तव्यः- यतोत्र राजपदस्य राजसंबन्धिनि लक्षणां स्वीकृत्याभेदान्वयबोधे राजपुरुषयोर्यः स्वस्वामिभावसंबन्धः प्रतीयते तस्य भेदान्वयबोधस्वीकारेप्यनुपपत्तिर्नास्तीति राजपदस्य राजसंबन्धिनि लक्षणास्त्रीकारो व्यर्थो गौरवादित्यर्थः । ननु यदि 'राजपुरुषः' इत्यत्र मेदान्चयः स्वीक्रियेत तदात्र मेदान्वयं प्रति षष्ठ्यन्तत्वम निवेश्य केवलं राजपदपुरुषपदयोः सममिव्याहार रूपाकाङ्क्षाज्ञानस्थ कारणत्वं वक्तव्यं तथा च राजपदपुरुषपदसमभिव्याहाररूपाकाङ्क्षाज्ञानस्य 'राजा पुरुषः' इत्यत्रापि सत्त्वात् 'राजपुरुष:' इतिदृष्टान्तेन 'राजा पुरुषः' इत्यत्रापि मेदान्वयबोधापत्तिः स्यादिति तद्वारणाय 'राजपुरुषः' इत्यत्र न भेदान्वयबोधः स्वीकार्यः किं तु राजपदस्य राजसंबन्धिनि लक्षणाद्वारा मेदान्वयबोध एव स्वीकार्य इत्याशङ्क्याह - न चेति । तत्र' राजपुरुषः ' इत्यत्र । तत्स्थलीयसामग्रीबलात - 'राजपुरुषः ' इत्यत्रवर्तमानसामग्रीसदृशसामग्रीबलात् । तादृशान्वयबोधापत्तिः = भेदान्वयबोधापत्तिः । परिहारहेतुमाह - तत्स्थलीयेति, राजपुरुषः " इत्यत्र भेदान्वयस्वीकारेपि तादृशभेदान्वयबोधं प्रति राजपदाव्यवहितोत्तरपुरुषपदसमभिव्याहाररूपाकाङ्क्षाज्ञानस्य हेतुत्वं वक्ष्याम एतादृशाकाङ्क्षाज्ञानम् 'राजा पुरुषः' इत्यत्र तु "Aho Shrutgyanam" Page #97 -------------------------------------------------------------------------- ________________ -भेदान्ययवादः ] व्युत्पत्तिवादः । ( ८५ ) दिपदत्वरूपानुपूर्वीविशेषज्ञानस्य हेतुतयाऽसमासस्थले पुरुषादिपदस्य विभक्त्या राजादिपदव्यवहितत्वात् तादृशानुपूर्वीविशेषज्ञानाऽसंभवेन तत्र तादृशबोधसा -" मय्या असिद्धेः । न च प्रकृतिप्रत्यययोरानुपूर्वीविशेषरूपस्याकाङ्क्षात्वात् प्रातिपदिकद्रयाव्यव' धानघटितोक्तानुपूर्वीविशेषज्ञानस्य हेतुत्वंमेव निष्प्रामाणिकमितिवाच्यम्, भवन्मतोपे ' राजपुरुषः ' इत्यादौ तादृशसामग्रीबलाद् राजपदार्थराज संबन्धिपुरुषपदार्थयोरभेदान्वयबोधः तादृशसामग्रीबलात् 'राज्ञः पुरुषः' इत्यादावपि राजादिपदस्य राजसंबन्ध्यादौ लक्षणाग्रहसच्चे तादृशाऽभेदान्वयबोधप्रसङ्गवारणाय तथाविधानुपूर्वीविशेषज्ञानस्य समासजन्यबोधे हेतुताकल्पनस्यावश्यकत्वात् । अस्मानास्त्येव राजपदपुरुषपदयोर्मध्ये प्रथमाविभक्त्या व्यवधानादिति न ' राजपुरुष:' इत्यस्य दृष्टान्तेन * राजा पुरुष ' इत्यत्र भेदान्वयबोधापत्तिः संभवतीत्यर्थः । तादृशानुपूर्वी - राजपदाव्यवहितोत्तरपुरुषपदत्वरूपानुपूर्वी । तत्र = ' राजा पुरुषः ' इत्यत्र । तादृशबोधसामग्र्या:--भेदान्वयबोधस्योक्तसामग्र्याः । ما . न चेति । निष्प्रामाणिकमिति- प्रातिपदिकद्वयस्याव्यवधानमेव न सर्वत्र संभवति मध्ये विभक्तिव्यवधानसंभवादिति प्रातिपदिकद्वयाव्यवधानघटितोक्तानुपूर्वीविशेषस्य कथं शाब्दबोधविशेषं प्रति हेतुत्वं स्यात् ? तस्मादव्यवहितप्रकृतिप्रत्ययानुपूर्वी विशेषस्यैव हेतुत्वं वक्तव्यं प्र तिप्रत्यययोः सर्वत्राव्यवधानसंभवात् सर्वत्रानुगतस्यैव च कारणत्वौचित्यात् तथा च- आनु पूर्वीज्ञानस्याऽकारणत्वे ' राजपुरुषः ' इतिसमासे या सामग्री वर्तते सा राजा पुरुष. ' इत्यत्रापि राजपदपुरुषपदजन्योपस्थितिघटितयोग्यताज्ञानादिसामप्यस्तीति 'राजपुरुष:' इत्यत्र भेदान्वयबोधस्वीकारे तद्दृष्टान्तेन 'राजा पुरुषः' इत्यत्रापि राजम कारकस्वत्वसंसर्गक पुरुषविशेष्यकभेदान्वयबोधस्यापत्तिरस्त्येवेति तद्वारणाय आनुपूर्वी विशेषस्य ( राजपदाव्यवहितपुरुषपदत्वानुपूर्वी विशेषस्य ) कारणत्वकल्पनप्रयुक्तं गौरवं पूर्वपक्षिमतेतिरिच्यते ' राजपुरुषः ' इत्यत्रामेदान्वयवादिसिद्धान्तिपक्षे ' स्वनाभेदान्वयस्य राजपदस्य राजसंबन्धिनि लक्षणैव नियामिका तदभावादेव राजा पुरुषः इत्यत्र नाऽभेदान्वयापत्तिरित्यत्राभेदान्वयापत्तिवारणाय राजपदपुरुषपदयोरव्यवधानघटितानुपूर्वीज्ञानस्य कारणत्वकल्पनापेक्षाऽभावेनोक्तगौरवाभावाल्लाघवमितिभाव इतिकृष्णभट्टाभिप्रायः । परेिहरति- भवन्मतेपीति, सिद्धान्तिमतेपि यथा राजपुरुष:' इत्यत्र तादृशसामग्रीबलात् = लक्षणाघटितसामग्रीबलादऽभेदान्वयबोधो जायते तथा ' राज्ञः पुरुषः ' इत्यत्रापि राजपदस्य राजसंबन्धिनि लक्षणाग्रहे जाते तादृशसामग्री बलात्-लक्षणाघटित सामग्री बलादऽमेदान्वयबोधापत्तिरत्येति ' राज्ञः पुरुष' इत्यत्राभेदान्वयबोधापत्तिवारणाय समासजन्यबोधे = ' राजपुरुषः' इतिसमस्तपदजन्याऽभेदान्वयबोधे तथाविधानुपूर्वीविशेषज्ञानस्य = राजपदाव्यवहितोत्तर पुरुषपदानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानस्य कारणत्वकल्पनमावश्यकमेव ( तथा च 'राज्ञः पुरुषः' इत्यत्र राज - < ? " "Aho Shrutgyanam" Page #98 -------------------------------------------------------------------------- ________________ ( ८६ ) सादर्श: [ प्रथमाकारके - < भिर्भेदान्वयबोधे एव तादृशानुपूर्वीविशेषज्ञानस्य हेतुतायाः कल्पनीयत्वात् । न चोभयमते एव राजसंबन्धिनि राजपदस्य स्वारसिकलक्षणाग्रहण राज-पुरुषः" इत्यत्र राजसंबन्धिपुरुषयोरभेदान्वयबोधो भवति, इयांस्तु विशेषः- यदस्मन्मतेऽसौ समासः षष्ठीतत्पुरुषो भवन्मते कर्मधारय इति. एवं च पुरुषविशेष्यकाऽभेदसंसर्गकराजसंबन्धिप्रकारकबोधे राजपदाऽव्यवहितोत्तरवर्ति पुरुषपदत्वप्रकारकज्ञानत्वेन हेतुत्वमुभयवादिसिद्धमेव भेदान्वयबोधे तादृशानुपूर्वीज्ञानहेतुताकल्पन पदपुरुषपदयोरव्यवहितानुपूर्व्यऽभावादेवाऽभेदान्वयबोधापत्तिर्न स्यात्. ) तथा च यथावया तथाविधानुपूर्वी विशेषज्ञानस्य ' राजपुरुषः ' इत्यत्राभेदान्वयबोधं प्रति कारणत्वं कल्प्यते तथा मया भेदान्वयबोधं प्रत्येव कारणस्वं कल्पते तथा च मेान्यवोपकारणस्य तादृशानुपूर्वीविशेषज्ञानस्य राजपदाव्यवहितपुरुषपदानुपूर्वी विशेषज्ञानस्य ' राजपुरुषः' इत्यत्र सत्त्वाद् मेदान्वयबोध एवं स्वीकार्यो नाऽभेदान्वयबोधस्तत्र राजपदस्य राजसंबन्धिनि लक्षणापत्त्या गौरवादित्यर्थः । न चैवम् ' राज्ञः पुरुषः ' इत्यत्र भेदान्वयबोधो न स्याद् भेदान्वयकारणीभूतोक्तराजपदाव्यवहितपुरुषपदानुपूर्वी विशेषज्ञानस्याभावात् षष्ठ्या व्यवधानादिति वाच्यम्, उक्तकार्यकारणभावस्य समासस्थलार्थमेव कल्पितत्वात्. असमासस्थले ' राज्ञः पुरुषः ' इत्यादौ तु भेदान्वयबोधं प्रति षष्ठधन्तराजादिपदसमभिव्याहारस्य वा विरुद्धविभक्त्यन्त पदयोः समभिव्याहारज्ञानस्य वा कारणस्वादिति न काप्यनुपपत्तिरिति सूचितम् - " समासजन्यबोधे " इत्यनेन । पुनः सिद्धान्ती ' राजपुरुष:' इत्यत्र मेदान्वयबोधरवीकर्तृपूर्वपक्षिमते गौरवं प्रदर्शयति- न चेत्यादिना । 'राजपुरुषः' इत्यत्र राजपदस्य यदि कस्यचित् राजसंबन्धिनि स्वारसिकलक्षणाग्रह: स्यात्तदा राजपदालक्षणयोपस्थित राजसंबन्धिनः पुरुषेऽभेदान्वयस्य ममेव तवापि स्वीकारावश्यकरवाद मेदान्वयबोधं प्रति राजपदाव्यवहितोत्तरवर्ति पुरुषपद स्वप्रकारकं यदानुपूर्वीज्ञानं तस्य कारणत्वमुभयवादि ( तव मम च ) सिद्धमेव त्वया तु तादृशाव्यवहितानुपूर्वीज्ञानस्य राजपदस्य राजसंबन्धिनि लक्षणा महाभावकाले भेदान्वयबोधं प्रत्यपि कारणत्वं कल्पनीयमिति गौरवमित्यर्थः । किं च लक्षणाग्रहनिवेश विना कारणत्वस्वीकारे भेदान्वयबोधाभेदान्वयबोधयोर्विनिगमनाविरहः, लक्षणाग्रहनिवेशे ततोप्यधिकं गौरवम्, केवललक्षणाया एवाभेदान्वयबोधनियामकत्वे मदीयमत स्वीकारापत्तिरित्यवधेयम् । राजपुरुषः इत्यत्र राजपदस्य राजसंबन्धिनि स्वार सिकलक्षणाग्रहकालिकः स्वस्य प्रतिवादिनश्च यावान् भेदस्तमाह- इयांस्त्विति, पुरुष : " इत्यत्र लक्षणाग्रहे सत्यमेदान्वयबोधकालेऽसौ समासो मममते षष्ठीतत्पुरुषः 'राज्ञः पुरुषः' इति विग्रहस्वीकारात् ङसन्तराजपदस्य राजसंबन्धविशिष्ट लक्षणास्वीकारात्, तव मते चासौ समासः कर्मधारय एव राजा चासौ पुरुषो राजपुरुषः • इतिविग्रहस्वीकारात् प्रथमान्तराजपदस्यैव राजसंबन्धिनि लक्षणास्त्रीकारात् राजसंबन्धित्व पुरुषत्वेति विभि-नप्रवृत्तिनिमित्तधर्माभ्यां पदाभ्यामेकधर्मिबोधनादित्यर्थः । पूर्वपक्षी परिहरति- उक्तेति, L ' राज L " Aho Shrutgyanam" T Page #99 -------------------------------------------------------------------------- ________________ भदाययव दः] व्युत्पत्तिवादः। (८७) मधिकमिति वाच्यम्, उक्ताऽभेदान्वयबोधे तथाविधानुपूर्वीज्ञानहेतुतायां पर्यायश: ब्दान्तरघटितानुपूर्वीज्ञानजन्यतथाविधान्वयबोधे व्यभिचारवारणाय तादृशानुपूर्वी. ज्ञानानन्तर्यस्य कार्यतावच्छेदककोटाववश्यं निवेशनीयतया तंत्र विषयनिवेशे प्रयोजनाभावेन तादृशकार्यतावच्छेदकस्यैव भेदान्वयबोधसाधारण्येनानुपूर्वीज्ञानस्य भेदान्वयबोधे हेतुताया अनाधिक्यात्। - एवम् 'तण्डुलं पचति ' इत्यादावपि पाकादिरूपधात्वर्थे कर्मत्वादिसंबन्धेन तण्डुलादेरन्वयबोधः स्वीकर्तुमुचितः । कर्मत्वस्य पाकाशे प्रकारत्वे तत्र तत्र 'राजपुरुषः । इत्यत्र राजाकारकपुरुषविशेष्यकाभेदान्वयबोधं प्रति तथाविधानुपूर्वीज्ञानहेतुतायाम-राजपदाव्यवहितोतरपुरुषरदानुपूर्वीज्ञानस्य हेतुत्वे यत्र । नृपपुरुषः ' ' नृपतिनरः । इत्यादौ राजपुरुषपदपर्यायशब्दान्तरघटितानुपूर्वीज्ञानेनाभेदान्वयचोधो भवति तत्र राजपदाव्यवहितोत्तरपुरुषपदज्ञानस्यासत्वाद् अभेदान्त्रयबोधरूपकार्यस्य च सत्त्वाद् व्यभिचारः प्राप्त इति तादशव्यभिचारवारणाय तत्तदानुपूर्वीज्ञानानन्तर्यस्य कार्यतावच्छेदककोटौ निवेशः कर्तव्यो पथा-- राजपदाव्यवहितोत्तरपुरुषपदानुपूर्वीज्ञानोत्तरत्वविशिष्टराजप्रकारकपुरुषविशेष्यकाभेदान्वयबोधं प्रति राजपदाव्यवहितपुरुषपदानुपूर्वीज्ञानस्य हेतुत्वम् . नृपतिपदाव्यवहितो. चरनरपदानुपूर्वीज्ञानोत्तरत्वविशिष्टराजप्रकारकपुरुषविशेष्यकाभेदान्वयबोधं प्रति नृपतिपदाव्यवहितोत्तरनरपदानुपूर्वीज्ञानस्य कारणत्वमित्यादि, एवं हि कार्यतावच्छेदककोटी तत्तदानुपूर्वीज्ञानानन्तयस्य निवेशे कृते विषयनिवेशे संबन्धरूपविषय निवेशस्य प्रयोजनं नास्त्येव कारणानन्तर्यनिवेशेन तादृशशान्दबोधं प्रत्येव तादृशानुपूर्वीज्ञानस्यैव हेतुत्वप्राप्तौ व्यभिचारासंभवाद् व्यभिचारवारणार्थमेव विषयनिवेशस्यावश्यकत्वात् तथा च राजपदाव्यवहितोत्तरपुरुषपदानुपूर्वीज्ञानानन्तरजायमानराजप्रकारकपुरुषविशेष्यकशाब्दबोधं प्रति राजपदाव्यवहितोत्तरपुरुषपदानुपूर्वीज्ञानस्य हेतुत्वमित्येवं “भेदान्वयबोधाऽभेदान्वयबोधसाधारणं" कार्यकारणभावं वक्ष्याम इति न भेदान्वयबोधं प्रत्युक्तानुपूर्वीज्ञानस्य पृथग् हेतुत्वकल्पनापेक्षेति नाधिक्यमित्यर्थः । तादृशकार्येति, राजप्रकारकपुरुषविशेष्यकशाब्दबोधत्वस्य कार्यतावच्छेदकस्म भेदान्वयबोधसाधारण्यात्- 'राजा पुरुषः । इत्यत्र भेदान्वयबोधो वा भवत्वमेदान्वयबोधो वा भवतु .राजप्रकारकपुरुषविशेष्यकबोधस्योभयत्रैव जायमानत्वाद् राजप्रकारकपुरुषविशेश्यकबोधत्वस्योभयविधबोधसाधारणत्वात्ताहशोभवबोधसाधारणराजप्रकारकत्वपुरुषविशेष्यकत्वं प्रत्येव राजपदाव्यवहितोत्तरपुरुषपदानुपूर्वीज्ञानस्य हेतुस्वकल्पनानाधिक्यम् । __ यथा ' राज्ञः पुरुषः' इत्यत्र स्वत्वस्योक्तरीत्या संसर्गत्वमेव युक्तं न प्रकारत्वं तथा 'तण्डुलं पचति' इत्यत्र द्वितीयार्थकर्मत्वस्यापि संसर्गत्वमेवोचित न तु प्रकारत्वमित्याह- एवमित्यादिना । तथा चात्र कर्मत्वसंबन्धेन पाकादिधात्वर्थे तण्डुलाद्यन्वयः कर्तव्य इत्यर्थः । विपक्षे बाधकमाहकर्मत्वस्येति, कर्मत्वस्य प्रकारत्वस्वीकारे हनुपस्थितस्य प्रकारतया भानं न भवति. उपस्थितिश्च "Aho Shrutgyanam" Page #100 -------------------------------------------------------------------------- ________________ ( ८८ ) सादर्श: [ प्रथमाकारके - द्वितीयादेः शक्तिकल्पने तादृशवाक्यजन्यशाब्दबोधे कर्मत्वादिसंसर्गस्पाधिकस्य विषयता कल्पनेच गौरवात् । ' तण्डुलं पचति ' इत्यादिवाक्यजन्यशाब्दबोधसामग्रीबलात् ' तण्डुलः पचति' इत्यादावपि तथाविधान्वयबोधापत्तिस्तु न संभवति तादृशान्वयबोधे द्वितीयान्ततण्डुल पदत्वाद्यवच्छिन्नधर्मिक पचतीत्यादिसमभिव्याहारज्ञानस्य हेतुतया तण्डुलः पचति ' इत्यादौ तादृशसामय्या अप्रसिद्धेः । एवम् ' पचति चैत्र: ' इत्यादावपि कृतिसंबन्धेन पाकादेश्चेत्राद्यंशेऽन्वयबोधस्वीकार उचितः, अन्यथा - उक्तरीत्या गौरवात् । तत्र तादृशान्वयबोधस्वीकारे शक्तिमहं विना न भवतीति तत्र तत्र = कर्मत्वादिषु द्वितीयादिविभक्तीनां शक्तिकल्पनापेक्षा प्राप्ता तया तादृश = ' तण्डुलं पचति ' इत्यादिवाक्यजन्यशाब्दबोधे प्रकारभूतकर्मत्वादेरपि संबन्धस्थाश्रयत्वादिरूपस्य विषयताकल्पना प्राप्तेति गौरवं स्यात्, कर्मत्वस्य संसर्गत्वस्त्रीकारे त्वेतद् गौरवं नास्त्येव - अनुपस्थितस्यापि संसर्गतया मानसंभवेन कर्मत्वादौ द्वितीयादिविभक्तिशक्तिकल्पनापेक्षाभावात्. संसर्गत्वेन भासमानकर्मत्वादीनां संबन्धान्तरस्याश्रयत्वादेः शाब्दबोधविषयत्वकल्पनापेक्षाभावाच्चेति संसर्गतावादे लाघवमित्यर्थः । ननु कर्मत्वस्य संसर्गत्वे वृत्त्या तदुपस्थित्यपेक्षाभावेन यथा तण्डुलं पचति ' इत्यत्र कर्मस्वसंबन्धेन पार्क तण्डुलान्वयबोधस्तथा ' तण्डुलः पचति ' इत्यत्रापि बोधः स्यात्. प्रकारत्वस्वीकारे sपस्थितस्य प्रकारतया मानाभावनियमेन ' तण्डुलः पचति ' इत्यत्र कर्मव्यवस्थापकद्वितीयाऽभावादेव न तादृशान्वयबोधः प्रथमायाः कर्मत्वे शक्त्यभावादित्याशङ्कयाह- तण्डुलमित्यादिना । न संभवतीत्युक्ते हेतुमाह- तादृशेति, कर्मत्वसंबन्धेन पाके तण्डुलान्वयबोधं प्रति द्वितीयान्ततण्डुलपदसमभिव्याहारस्य कारणत्वात् तण्डुलः पचति ' इत्यत्र द्वितीयान्ततण्डुलपदाभावाच्च न तादृशान्वयबोधापत्तिरित्यर्थः । 6 6 L एवम् ' पचति चैत्रः ' इत्यत्र कृतिसंबन्धेन पाकादेश्चैत्रादावन्वयबोधस्तत्रापि कृतेः संसर्ग त्वमेवोचितं न प्रकारत्वमित्याह - एवमिति । विपक्षे बाधकमाह- अन्यथेति, अन्यथा = कृतेः प्रकारत्वस्त्रीकारे, उक्तरीत्या यथा ' तण्डुलं पचति ' इत्यत्र कर्मत्वादौ द्वितीयादेः शक्तिकल्पनापेक्षा स्यात् प्रकारत्वे तथात्रापि कृतावाख्यातस्य शक्तिकल्पनापेक्षा स्यात् प्रकारीभूतकृतेश्वाश्रयतारूपसंबन्धकल्पनापेक्षा स्यादिति गौरवम् । कृतेः संसर्गत्वस्वीकारे चतादृशं गौरवं नास्तिअनुपस्थितस्यापि संसर्गतया भानसंभवात् कृतावाख्यातस्य शक्तिकल्पनापेक्षाभावाद् संसर्गभूतकृतिप्रतीत्यर्थं संबन्धान्तरापेक्षाभावादाश्रयतासंबन्धकल्पनाभावाचेत्यर्थः । ननु कृतेः संसर्गत्वे तदुपस्थित्यपेक्षाभावेन तदुपस्थापकापेक्षाभावात् ' पच्यते चैत्रः ' 6 पाकचैत्र: ' इत्यादावपि कृतिसंबन्धेन पाकादेश्चैत्रादावन्वयबोधः स्यात्, प्रकारत्वस्वीकारे त्वऽनुपस्थितस्य प्रकारत्वासंभवात्तदुपस्थापकशविकरण विशिष्टाख्यातस्यात्राभावान्न ' कृतिसंबन्धेन पाकवांश्चैत्रः ' इति बोधापत्तिरित्याशङ्कयाह- तत्रेति । तत्र = ' पचति चैत्र:' इत्यत्र । तादृशान्त्रयबोधः = ' कृतिसंब - "Aho Shrutgyanam" Page #101 -------------------------------------------------------------------------- ________________ भेदान्वयवादः ] व्युत्पत्तिवादः। तत्स्थलीयसामग्रीबलात् ‘पच्यते चैत्रः ''पाकश्चैत्रः' इत्यादौ तथाविधान्वयबोधापत्तरप्युक्तरीत्या वारणसंभवादिति । मैवम्- 'राज्ञः पुरुषः' इत्यादौ षष्ठयादेः स्वत्वादिवाचकत्वमावश्यकम्, अन्यथा- 'पुरुषो न राज्ञः ' इत्यादौ पुरुषे राजस्वत्वाद्यभावबोधानुपपत्तेः । न हि तत्र स्वत्वादिसंबन्धावच्छिन्नप्रतियोगिताकराजाद्यभाव एव प्रतीयते न तु राजस्वत्वाद्यभाव इति संभवति- स्वत्वादिसंबन्धस्य वृत्त्यनियामकतया प्रतियोगितानवच्छेदकत्वेनं तत्संबन्धावच्छिन्न प्रतियोगिताकाऽभावाऽप्रसिद्धेः। न्धेन पाकवांश्चैत्रः' इतिबोधः । उक्तरीत्या वारणसंभवात् कृतेः संसर्गत्वस्वीकारे उक्तान्वयबोधं प्रति शविकरणविशिष्टाख्यातान्तधातुपदसमभिव्याहारस्य कारणत्वस्वीकारात् 'पच्यते चैत्रः ' इत्यादौ च शविकरण विशिष्टाख्यातान्तधातुपदाभावान्न ‘कृतिसंबन्धेन पाकवांश्चैत्रः' इत्यन्वयनोधापत्तिरित्यर्थः । प्रकारतावादी संसर्गतावादं परिहरति- मैत्रमित्यादिना, अनुपस्थितस्य प्रकारतया भानासंभवेन तदुपस्थित्यर्थम् 'राज्ञः पुरुषः । इत्यत्र स्वत्वे षष्ठयाः शक्तिकल्पनं कर्तव्यं षष्ठयाद्यर्थभूतस्वत्वादीनां प्रकारत्वमेवोचितमित्यर्थः। विपक्षे बाधकमाइ- अन्यथेति । अन्यथा स्वत्वादेः संसर्गत्वे पुरुषो न राज्ञः ' इत्यत्र राजस्वत्वप्रतियोगिकाभावबोधो न स्यात-- स्वत्वस्य संसर्गत्वेन प्रतियोगितावच्छेदकसंबन्धत्वेनैव भानसंभवात् । प्रकारत्वे तु तस्यापि शक्यत्वेन पदार्थत्वात् स्वत्वप्रतियोगिकाभावप्रतीतिः संभवति तथा च 'राज्ञः पुरुषः । इत्यत्र राजनिरूपितस्वत्ववान् पुरुष इत्येव बोधो न तु स्वत्वसंबन्धेन राजवान् पुरुष इतिबोध इत्यर्थः । ननु — पुरुषो न राज्ञः ' इत्यत्र स्वत्वस्य प्रतियोगितावच्छेदकसंबन्धत्येनैव भानं भवति न तु प्रतियोगित्वेन येन स्वत्वस्य प्रकारत्वं स्यादित्याशङ्कयाह- न हीति । तत्र 'पुरुषो न राज्ञः । इत्यत्र । राजस्वत्वायभावः राजनिरूपितस्वत्वप्रतियोगिकाभावः । ' पुरुषो न राज्ञः ' इत्यत्र स्वत्वस्य प्रतियोगितावच्छेदकसंबन्धत्ये बाधकमाह- स्वत्वादीति, आश्रयत्वसंयोगादीनामेव वृत्तिनियामकसंबन्धानां प्रतियोगितावच्छेदकसंबन्धत्वं भवति- येन संबन्धेन यः पदार्थो यत्र वर्तते तेनैव संबधेन तत्रैव तत्पदार्थस्याभावोऽपि ना प्रत्याय्यते स्वत्वसंबन्धेन तु न कस्यचित् पदार्थस्य राजादेः पुरुषादौ स्थितिः संभवति. न हि ' राज्ञः पुरुषः' इत्युक्ते स्वत्वसंबन्धेन राज्ञः पुरुषे स्थितिः प्रतीयते येन स्वत्वस्य वृत्तिनियामकत्वं स्यात्, वृत्तिनियामकत्वाभावेन स्वत्वस्य प्रतियोगितावच्छेदकसंवन्धत्वाभावात् तत् स्वत्वसंबन्धावच्छिन्नप्रतियोगिताकाभावस्य कचिदपि प्रसिद्धत्वामावाच्च न 'पुरुषो न राज्ञः । इत्यत्रापि स्वत्वसंबन्धावच्छिन्नप्रतियोगिताकराजाभावः प्रतीयते किं तु राजस्वत्वाभाव एव, तस्मात् स्वत्वस्य प्रकारत्वमेव युक्तं न संसर्गत्वमित्यर्थः । "Aho Shrutgyanam" Page #102 -------------------------------------------------------------------------- ________________ (९०) सादर्श: [प्रथमाकारके- अत एव स्वामित्वादिकं परित्यज्य स्वत्वादेः षष्ठयर्थत्वं नवीनाः स्वीकुर्वन्ति-- स्वामित्वादेः षष्ठयर्थत्वे तस्य निरूपकतासंबन्धेन पुरुषांशेऽन्वयसंभवेपि ताहशसंवन्धस्य वृत्त्यनियामकतया संसर्गाभावप्रतियोगितानवच्छेदकत्वेन तत्सं. बन्धावच्छिन्नाभावस्य नञा प्रत्यायनासंभवात् । आश्रयतासंबन्धाधवच्छिनाभावबोधस्यैताहशसमभिव्याहारस्थलेऽभ्युपगमे चैत्रादिसंबन्धिनि धनेप्याश्रयतासंबन्धावच्छिन्नप्रतियोगिताकचैत्रवृत्तिस्वामित्वाभावसत्त्वात् । नेदं चैत्रस्य' इति प्रयोगापत्तिः। ___ न च नसमभिव्याहारस्थलानुरोधेन षष्ठयादेः स्वत्वादिवाचकत्वेपि — राज्ञः पुरुषः' इत्यादौ षष्ठयाद्यर्थस्य संसर्गमर्यादया भानमुचितम्- तस्य प्रकारत्वो। अत एव कृत्यनियामकसंबन्धस्य प्रतियोगितावच्छेदकसंबन्धवाभावादेव । यदि स्वामित्वं षष्ठपर्थः स्यात्तदा पुरुषस्य स्वामित्वनिरूपकत्वाद् निरूपकत्वसंबन्धेन स्वामित्वस्य पुरुषेऽन्वयसंभवाच ' राज्ञः पुरुषः' इत्यत्र निरूपकतासंबन्धेन राजनिष्ठस्वामित्ववान् पुरुष इति पुरुषविशेष्यकबोधसंभवेपि तादृशसंबन्धस्य-निरूपकतासंबन्धस्य वृत्यनियामकत्वेन संसर्गाभावप्रतियोगिताधम्छेदकसंबन्धत्वासंभवात् 'पुरुषो न राज्ञः' इत्यत्र नत्रा तत्संबन्धावच्छिन्नाभावस्य निरूपकत्वसंबन्धावच्छिनप्रतियोगिताकस्वामित्वाभावस्य प्रतीतिर्न संभवतीति न स्वामित्वं षष्ठयर्थः, स्वत्वस्य षष्ठयर्थत्वे तु स्वत्वं हि पुरुषे आश्रयतासंबन्धेन वर्तते,आश्रयतासंबन्धश्च वृत्तिनियामक एवेति भाश्रयतासंबन्धेन पुरुषे राजस्वत्वाभावप्रतीतिः संभवत्येव- आश्रयत्वसंबन्धावच्छिन्न प्रतियोगिताकराजनित पितस्वत्वाभाववान् पुरुष इतिबोधसंभवादित्यर्थः । ननु स्वामित्वमेव षष्ठ्यर्थ एतादृशसमभिव्याहारस्थडे-'पुरुषो न राज्ञः' इति नसमभिव्याहारस्थले आश्रयतासंबन्धावच्छिन्नप्रतियोगिताकामावस्येव बोधो भवतीति स्वीकरिष्यामः- आश्रयतासंबन्धस्य वृत्तिनियामकत्वेन संसर्गाभावप्रतियोगितावच्छेदकत्वसंभवादित्याशङ्कयाह-- आश्रयतेति, एवं हि भाश्रयतासंबन्धेन स्वामित्वस्य पुरुषे सदैवाऽभावाद् राजपुरुषेपि 'पुरुषो न राज्ञः' इतिप्रतीतिः स्यादेव तथा चैत्रसंबन्धिन्यपि धने आश्रयतासंबन्छन स्वामित्वस्यासत्वात् नेदं चैत्रस्य ' इति प्रतीत्यापत्तिः किं वा प्रयोगापत्तिः स्यादेव । न ह्याश्रयतासंबन्धेन स्वकीये धनपुरुषादौ स्वामित्वं वर्तते किं तु स्वामिन्येव । तथा च निरूपकतासंबन्धेन धनपुरुषादौ नसत्त्वे स्वामित्वाभावो वक्तव्यः निरूपकतासंबन्धस्य च संसर्गामावप्रतियोगितावच्छेदकत्वं न संभवति वृत्त्यनियामकत्वादिति न स्वामित्वं षष्ठयर्थः किं तु स्वत्वमेक्त्यर्थः । . न चेति-स्वामित्वस्य षष्ठ्यर्थत्वे — पुरुषो न राज्ञः ' इत्यत्र निरूपकत्वसंबन्धेनापि पुरुषे स्वामित्वाभावो नना न प्रत्याययितुं शक्यते निरूपकत्वसंबन्धस्य वृत्त्यनियामकत्वात्. आश्रयतासंबन्धस्य वृत्तिनियामकत्वेन तेन स्वामित्वाभावः प्रत्याययितुं तु शक्यते किं तूक्तरीत्या. चैत्रध. नेपि — नेदं चैत्रस्य । इति प्रयोगः स्यादिति यदि षष्ठयर्थः स्वामित्वं न संभवति मसमभिव्याहारस्थलानुरोधेन तदा स्वत्वमेवास्तु षष्ठ्यर्थः किं तु षष्ठयर्थस्यापि स्वत्वस्य संसर्गत्वमेवोचितं न "Aho Shrutgyanam" Page #103 -------------------------------------------------------------------------- ________________ भेदान्वयवादः ] व्युत्पत्तिवादः । (९१) पगमे तत्संबन्धस्याधिकस्य मानकल्पनेन गौरवात् । नञ्समभिव्याहारस्यैव तत्प्रकारकबोध नियामकत्वाभ्युपगमेन सामग्रीविरहात् तत्प्रकारकबोधस्य तदसम भिव्याहारस्थलेऽसंभवादितिवाच्यम्, एवं सति नञ्पदं बिना यादृशसमभिव्याहारस्थले यत्र धर्मिणि येन संबन्धेन यस्य विशेषणतया भानं तत्र नञ्समभिव्याहारे तंत्र धर्मिणि तत्संबन्धावच्छिन्न प्रतियोगिताकतदभावः प्रतीयते इति सर्वजनानुभवस्याऽपलापापत्तेः । 'राज्ञः पुरुषः इतिवाक्यजन्याऽप्रामाण्यज्ञानानास्कन्दिततु प्रकारत्वमित्यर्थः । स्वत्वस्य प्रकारत्वे बाधकमाह- तस्येति तर = स्वत्वस्य प्रकारत्वे तत्संबन्धस्याप्यधिकस्य भानापत्त्या गौरवात् यथात्र पुरुषे स्वत्वमाश्रयतासंबन्धेन भासेत । राजनिरूपितवत्वाश्रयः पुरुष इति, प्रकारीभूतपदार्थस्य संबन्धान्तरं विना भानासंभवात् । संसर्गभूतपदार्थमानार्थं तु संबन्धान्तरस्यापेक्षाभावात् तस्य स्वयमेव संसर्गत्वाद् प्रथात्र स्वत्रसंबन्धेन राजवान् पुरुष इति संसर्गतामते बोध इत्यर्थः । नन्येवं नञ्समभिव्याहारस्थलेपि स्वत्वस्यैव प्रतियोगितावच्छेदकसंबन्धवं वक्तव्यं तचोक्तरीत्या न संभवति स्वत्वस्य वृत्त्यनियामकत्वादित्याराक्याह- नसमभिव्याहारस्येति, पुरुषो न राज्ञः इत्यादि नञ्समभिव्याहारस्थले स्वत्वस्य संसर्गवं नोपपद्यते इति प्रकारत्वमेव, नञःसमभिव्याहारस्थले राज्ञः पुरुषः' इत्यादौ तु स्वत्वस्य संसर्गत्वमेव तथा च नञ्समभिव्याहारस्यैव स्वत्वप्रकारक बोध नियामकतया नञसममिव्याहारस्थले ' राज्ञः पुरुषः इत्यादी सामग्रीविरहात् = नञ् पदसमभिव्याहाराभावात् तत्प्रकारकबोधस्य= स्वत्वप्रकारक बोधस्यासंभवात् स्वस्वसंसर्गकबोधोपपत्त्या स्वत्वस्य संसर्गत्वमेवो - चितमित्यर्थः । " " + ८ ८ परिहरति- एवं सतीति, ' राज्ञः पुरुषः ' इत्यत्र स्वत्वस्य संसर्गत्वम् ' पुरुषो नराः इत्यत्र च स्वत्वस्य प्रकारत्वमिति वैषम्यं न सभवति यतः प्रतियोग्यमावान्त्रयों तुल्ययोगक्षेमौ भवतः । नञ्पदं विनेति - यथा-' घटवद् भूतलम् ' इत्यत्र यत्र धर्मिणि भूतले येन संबन्धेन= संयोगसंबन्धेन यस्य = वटस्य विशेषणतया भानं भवति तत्र तत्स्थले ' घटवद् भूतलम् ' इति . वाक्ये नञ्समभिव्याहारे भूतलं न घटवत्' इत्यत्र तत्र धर्मिणि तत्संबन्धावच्छिन्नप्रतियोगिताकतदभावः = संयोगसंबन्धावच्छिन्नप्रतियोगिताकघटाभावः प्रतीयते, एवं प्रकृतेपि यदि 'राज्ञः पुरुष:' इत्यत्र नत्र समभिव्याहारे पुरुषे स्वत्वसंबन्धेन राजपदार्थस्य विशेषणतया मानं स्यात्तदा ' पुरुषो न राज्ञः ' इत्यत्र न समभिव्याहारेपि पुरुषे स्वत्वसंबन्धेन राजपदार्थामात्रस्यैवस्वत्वसंबन्धावच्छिन्नराजत्वावच्छिन्नप्रतियोगिताका भावस्यैव मानं स्यात् तच्च न संभवति-- स्वत्वस्थ वृत्त्यनियामकत्वेन प्रतियोगितावच्छेदकत्वासंभवात् । ' राज्ञः पुरुषः १ इत्यत्र स्वत्वस्य संसर्ग - त्वम् ' पुरुषो न राज्ञः ' इत्यत्र च स्वत्वस्य प्रकारत्वमिति वैषम्ये दोषान्तरमाह - राज्ञः पुरुष: ' इति, त्वन्मते 'राज्ञः पुरुषः' इतिवाक्यजन्यो योऽप्रामाण्यज्ञानाऽनास्कन्दितो बोधस्ताraateeशायामपि पुरुषो न राज्ञः' इतिवाक्यादपि शाब्दबोधः स्यादेव अत्र हेतुमाह - L 6 "Aho Shrutgyanam" > Page #104 -------------------------------------------------------------------------- ________________ (९२) सादर्शः [ प्रथमाकारकेबोधदशायाम् 'पुरुषो न राज्ञः' इत्यादिवाक्यादाप शाब्दबोधापत्तेः-स्वत्वाभा. वबुद्धौ स्वत्वसंसर्गकज्ञानस्य विरोधित्वे मानाभावात् । वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितावच्छेदकत्वेपि राज्ञः पुरुषः' इत्यादी राजस्वत्वादेः प्रकारताभ्युपगमः समुचितः, अन्यथा- तादृशसमभिव्याहारज्ञानघटितशाब्दसामग्रीकाले 'राजस्वत्वाभाववान् पुरुषः सुन्दरः' इत्याकारकविस्वत्वाभावेति, यथा ' धटवद् भूतलम् ' ' पटाभाववद् भूतलम् । इतिवाक्यद्वयजन्यज्ञानयोर्न परस्परं विरोधो भिन्नविषयत्वात् समानप्रकारकसमानसंसर्गकज्ञानस्यैव विरोधित्वात् तथा स्वत्वाभावबुद्धौ-आश्रयतासंबन्धावच्छिन्नस्वत्वत्वावच्छिन्नप्रतियोगिताकामावबुद्धौ, ' राज्ञः पुरुषः ' इत्यत्र हि तव मते स्वत्वसंसर्गको बोधो भवति- 'स्वत्वसंबन्धेन राजवान् पुरुषः ' इति. 'पुरुषो न राज्ञः '.इत्यत्र च तव मते स्वत्वस्य प्रकारत्वमेव-- 'आश्रयतासंबन्धेन स्वत्वाभाववान् पुरुषः' इति बोधः संसर्गप्रकारयोश्च परस्परं भेदेनोक्तबोधयोरपि भेदात् 'राज्ञः पुरुषः, इत्यत्र संसगभूतस्वत्वसत्त्वस्य प्रतीयमानत्वात् ' पुरुषो न राज्ञः ' इत्यत्र च प्रकारीभूतस्वत्वासत्त्वस्य प्रतीयमानत्वात् परस्परं प्रतिबध्यप्रतिबन्धकमावो न स्यादिति — राज्ञः पुरुषः । इतिवाक्यजन्यबोधकालेपि 'पुरुषो न राज्ञः ' इतिप्रयोगापत्तिः स्यादेव तत्तु न युक्तमित्यर्थः । ___ ननु वृत्त्यनियामकसंबन्धस्य प्रतियोगितावच्छेदकत्वं न भवतीति नात्र श्रुतिरस्ति येन 'पुरुषो न राज्ञः । इत्यत्र वृत्त्यनियामकस्य स्वत्वस्य पुरुषे राजाभावप्रतियोगितावच्छेदकसंबन्धत्वं न स्यात्तथा च'पुरुषो न राज्ञः' इत्यत्र स्वत्वस्यैवाभावप्रतियोगितावच्छेदकत्वेन संसर्गत्वमेवेति नोक्तसवजनानुभवस्यापलापापत्तिस्तथाच वृत्त्यनियामकस्यापि स्वत्वस्य प्रतियोगितावच्छेदकसंबन्धत्वस्वीकारेण 'पुरुषो न राज्ञः' इत्यस्य स्वत्वसंबन्धेन राजाभाववान् पुरुष इति बोधः 'राज्ञः पुरुषः । इत्यस्य च स्वत्वसंबन्धेन राजवान् पुरुष इतिबोधः. अनयोश्च बोधयोर्भावाभावविषयकत्वेन परस्परं विरोधात् ' राज्ञः पुरुषः । इतिवाक्यजन्याऽप्रामाण्यज्ञानानास्कन्दितबोधदशायां न 'पुरुषो न राज्ञः' इतिवाक्यस्य शान्दबोधापत्तिः प्रयोगापत्तिश्च- स्वत्वसंप्सर्गकराजाभाववत्त्वबुद्धिं प्रति स्वत्वसंसर्गकराजवत्त्वबुद्धेः प्रतिबन्धकत्वादित्येवमुक्तदोषद्वयस्य परिहारमभ्युपगम्यापि संसर्गतामते दोषमाह- वृत्त्यनियामकेति, वृत्त्यनियामकस्य स्वत्वस्याभावप्रतियोगितावच्छेदकसंबन्धत्वस्वीकारेपि तस्य स्वत्वस्य प्रकारत्वमेव युक्तं न संसर्गत्वमित्यर्थः । विपक्षे बाधकमाह- अन्यथेति, विभिन्नविषयकप्रत्यक्ष प्रति शाब्दबोधसामग्र्याः प्रतिबन्धकत्वमुभयवादिसिद्धमस्ति. 'राज्ञः पुरुषः' 'राजस्वत्वाभाववान् पुरुषः सुन्दरः' इतिज्ञानयोः परस्परं विभिन्न विषयत्वमप्यस्ति ‘राजस्वत्वामायवान् पुरुषः सुन्दरः । इति च राजस्वत्वाभावविशिष्ट पुरुषे सुन्दरत्ववैशिष्टयमिति विशिष्टवैशिष्टयावगाहि प्रत्यक्षम्, तत्र तादृशसमभिव्याहारज्ञानघटितसामग्रीकाले=' राज्ञः पुरुषः । इत्याकारक. षष्ठयन्तराजपदप्रथमान्तपुरुषपदसमभिव्याहारज्ञानघटितयोग्यतासत्तिज्ञानादिरूपशाब्दबोधसामग्रीकाले राजस्वत्वाभाववान् पुरुषः सुन्दरः' इत्याकारकविशिष्टवैशिष्ट्यावमाहिप्रत्यक्षं नेष्टमिति तद्वार "Aho Shrutgyanam" Page #105 -------------------------------------------------------------------------- ________________ भेदान्वयवादः ] व्युत्पत्तिवादः । (९३) शिष्टवैशिष्ट्या वगाहिप्रत्यक्षवारणाय तत्र तादृशसामय्याः प्रतिबन्धकता कल्पनाविक्येन गौरवात् । अस्मन्मते तादृशसमभिव्याहारघटितसामय्याः राजस्वस्वाभाववान् पुरुष:' इत्यादिबाधाभावघटिततया तत्सत्त्वे विशेष्यतावच्छेदकादिप्रकारकनिश्चयरूपकारणविरहादेव तथाविधविशिष्टवैशिष्टचावगाहिप्रत्यक्षीत्पत्यसंभवेन तादृशसामग्र्यास्तत्र प्रतिबन्धकत्वस्याऽकल्पनात् । णाय तत्र उक्तविशिष्टवैशिष्टयावगाहिप्रत्यक्षे = उक्तविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षं प्रति तादृशसा मग्र्याः = राज्ञः पुरुषः इत्याकारकषष्ठ्यन्तराजपदप्रथमान्तपुरुषपदसमभिव्याहारज्ञानघटित राज्ञः योग्यतासत्तिज्ञानादिरूपशाब्दबोधसामग्र्याः प्रतिबन्धकत्वकल्पनाधिक्येन संसर्गतामते गौरवम् । उक्तशाब्दबोधप्रत्यक्षयो विभिन्न विषयकत्वेपि परस्परं विरोधो नास्ति यतः - 'राज्ञः पुरुषः' इत्यनेन स्वत्व संबन्धेन राजवान् पुरुष इतिबोधो जायते प्रत्यक्षं च < राजस्वत्वाभाववान् पुरुषः.. सुन्दर: ' इत्याकारकमिति उक्तशाब्दबोधस्यापि सामग्री संपन्ना उक्तप्रत्यक्षस्यापि सामग्री संपनेति तत्र तत्कार्यभूतशाब्दबोधप्रत्यक्षयोरापत्तिः समानबलत्वेन प्राप्तेत्युक्तप्रत्यक्षवारणाय पुरुषः ' इत्यत्रत्यशाब्दसामग्र्याः प्रतिबन्धकत्वं संसर्गतावादिना कल्पनीयमितिगौरवम् । यद्युक्तशाब्दबोधप्रत्यक्षयोः परस्परं विरोधः स्यात्तदा शाब्दबोधसामय्याः प्राबल्येन प्रत्यक्षसामग्रीसंत्तिरेव न स्यादिति प्रत्यक्षकारणाभावादेव प्रत्यक्षं स्वयमेव निवर्तेतेति तद्वारणाय शाब्दसामय्याः प्रतिबन्धकत्वकल्पनं न स्यादपि न चैवमस्ति संसर्गतामते उक्तशाब्दबोधप्रत्यक्षयोः परस्परे विरोधाभावादित्यर्थः । 6 " 14 नन्दिं गौरवं प्रकारतामतेपि स्यादित्याशङ्कय प्रकारतावादी स्वमते उक्तगौरवाभावमुपपादयति - अस्मन्मते इति, स्वत्वस्य प्रकारतास्वीकारे तु 'राज्ञः पुरुषः' इत्यनेन राजनिरूपितस्वत्ववान् पुरुष इतिशाब्दबोधो जायते इति शाब्दबोधे राजस्वत्यवत्त्वस्य विषयत्वाद् उक्तविशिष्टवैशिष्ट्या - वगाहिप्रत्यक्षे च राजस्वत्वाभाववत्त्वस्य विषयत्वादुक्तशाब्दबोधप्रत्यक्षयोः परस्परं विरोधोस्त्येव. अथ च राज्ञः पुरुषः इतिवाक्यजन्यशाब्दबोधसामग्री योग्यतारूपेण ‘ राजस्वत्वाभाववान् - पुरुषः ' इत्याकारक बाधस्याभावेन घटितास्ति तथा व तत्सत्त्वे = ' राजस्वत्वाभाववान् पुरुषः ' इत्याकारको यो बाधस्तदभावघटितषष्ठ्यन्तराजपदप्रथमान्तपुरुषपदसमभिव्याहारज्ञानघटितयो - ग्यताज्ञानादिरूपसामग्रीसत्त्वे, 'राजस्वत्वाभाववान् पुरुषः सुन्दरः । इत्याकारकविशिष्टवैशिष्ट्य - प्रत्यक्षं प्रति च तद्विशेषणीभूतस्य ' राजस्वत्वाभाववान् पुरुषः' इत्याकारकविशिष्टस्य यज्ज्ञानं तस्य कारणत्वमस्ति विशेष्यतावच्छेदकस्य राजस्वत्वाभावस्य चात्र निश्चयो नास्त्येव शाब्दसाम्याः 'राजस्वत्वाभाववान् पुरुषः ' इत्याकारकबाधस्याभावेन घटितत्वात् तथा चोक्तप्रत्यक्षकारणस्य राजस्वत्वाभाववान् पुरुषः : इत्याकारकस्य विशेष्यतावच्छेदकप्रकारकनिश्चयस्याभावादेवोक्तविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षस्योत्पत्तिः स्वयमेव न संभवतीति नोक्तप्रत्यक्षं प्रत्युक्तशाब्दबोधसान या प्रतिबन्धकत्वं कल्पनीयमिति न तत्कल्पनाप्रयुक्तं प्रकारतामते गौरव मित्यर्थः । कारण 9 3 "Aho Shrutgyanam" Page #106 -------------------------------------------------------------------------- ________________ ( ९४ ) सादर्श: [ प्रथमाकार के अन्यादृशप्रत्यक्ष स्थलीयप्रतिबन्धकतया च न त्वन्मते निर्वाह:- अन्यत्रान्यविधप्रत्यक्षेच्छानामुत्तेजकतया तादृशेच्छायामसत्यां चौपदर्शितविशिष्टवैशिष्ट्यataraarthच्छा बलादुपदर्शित विशिष्टवैशिष्ट्यबोधोपपत्तयेऽन्यादृशविषयताया `एवं प्रतिबध्यतावच्छेदकत्वोपगमावश्यकत्वात् । 3 · सत्त्वे एव कार्य सत्त्वसंभवादु प्रत्यक्ष कारणामा उक्त प्रत्यक्षोत्पच्यऽसंभवः । तादृशसम भित्र्या'हारघटितसामग्र्या :- 'राज्ञः पुरुषः इतिषष्यन्त राजपदप्रथमान्तपुरुषपद समभिव्याहारघटितसामग्र्याः । तथाविधम् = ' राजस्वत्वाभाववान् पुरुषः सुन्दरः । इत्याकारकम् । तादृशसामग्र्याः=' राज्ञः पुरुषः ' इतिशाब्दबोधसामय्याः । तत्र = उक्तप्रत्यक्षे-उक्तप्रत्यक्षं प्रति । ननु विभिन्नविषयकप्रत्यक्षं प्रति शाब्दबोधसामग्र्याः प्रतिबन्धकत्वं क्लृप्तमेवास्तीति नात्र ८ राजस्वत्वाभाववान् पुरुषः सुन्दरः । इत्याकारकप्रत्यक्षं प्रति राज्ञः पुरुषः " इत्याकारक शाब्दबोधसामग्र्या इदानीं नूतनप्रतिबन्धकत्वकल्पनापत्तिरित्याशङ्कयाह- अन्यादृशेति । भन्याप्रत्यक्ष स्थलीयप्रतिबन्धकतया = घटादिप्रत्यक्षनिष्ठप्रतिबध्यतानिरूपितेन ' राज्ञः पुरुषः ' इति - शाब्दबोधसामग्रीनिष्ठेन प्रतिबन्धकत्वेन त्वन्मते = संसर्गतामते नात्र निर्वाहः संभवति । अत्र हेतु - माह - अन्यत्रेति, अयं भाव :- विभिन्नविषयकप्रत्यक्षं प्रति शाब्दबोधसामग्र्याः प्रतिबन्धक - स्वमस्त्येव किं तु यदि प्रत्यक्षं मे जायतामित्याकारा प्रत्यक्षेच्छा जायते तदा तु प्रत्यक्षमेव भवति इच्छाया उत्तेजकत्वाद् यथा दाहप्रतिबन्धकमणौ सत्यामप्युत्तेजकमणिसंनिधाने दाहो भवत्येव तथा च यदा राजपुरुषविषयकस्य ' राज्ञः पुरुषः ' इतिशाब्दबोधस्य सामग्री प्राप्ता घटविषयकस्य च प्रत्यक्षस्य सामग्री प्राप्ता तत्राऽन्यविधप्रत्यक्षेच्छानाम् = घटप्रत्यक्षं मे जायतामित्या करके - च्छाया उत्तेजकतया घटप्रत्यक्षं जायते, यदीदृशीच्छा न भत्रति किं तु राजस्वत्वाभाववान् पुरुषः सुन्दरः' इतिविशिष्टवैशिष्ट्या वगाहिप्रत्यक्षत्वप्रकारकेच्छा जायते तदोक्तस्य राजस्वत्वाभाववान् पुरुषः सुन्दरः ' इत्याकार कविशिष्टवैशिष्ट्यप्रत्यक्षस्योपपत्तये = उत्पत्त्युपपत्तये अन्यादृशविषयतायाः घटादिप्रत्यक्षनिष्ठाया घटादिप्रत्यक्षविषयकेच्छा निरूपिताया एव विषयतायाः प्रतिबयतावच्छेदकत्वं स्वीकार्यम् । घटादिप्रत्यक्षे विषयतापि वर्तते प्रतिबध्यत्वमपि वर्तत इति प्रतिबध्यतावच्छेदकत्वं विषयताया ज्ञेयम् । ८ 6 अर्थात् - ' राज्ञः पुरुषः ' इत्यादिशाब्दबोधसामग्र्यां सत्यामपि घटप्रत्यक्ष सामग्र्यां सत्यां यदि घटप्रत्यक्षेच्छा जायते तदा घटप्रत्यक्षं जायते शाब्दबोधो न जायते किं तु तदापि घटप्रत्यक्षमेव जायते पटादिप्रत्यक्षं तु नैव जायते तथा च घटप्रत्यक्षेच्छा त्रिरहविशिष्टशाब्दबोधसामग्र्या घटप्रत्यक्षं प्रति प्रतिबन्धकत्वं घटप्रत्यक्षस्य च प्रतिबध्यत्वम्. पटप्रत्यक्षेच्छाविरह विशिशाब्दबोधसामग्र्याः पट प्रत्यक्षं प्रति प्रतिबन्धकत्वं पटप्रत्यक्षस्य च प्रतिबध्यत्वम् इत्येवं पृथक् पृथगेव विशिष्य प्रतिबध्यप्रतिबन्धकमावो वक्तव्य इति ' राजस्वत्वाभाववान् पुरुषः सुन्दरः इत्याकारक प्रत्यक्षेच्छा विरह विशिष्टशाब्दबोध सामग्र्या एतत्प्रत्यक्षं प्रति प्रतिबन्धकत्वं एतत्प्रत्यक्षस्य 2 " Aho Shrutgyanam" Page #107 -------------------------------------------------------------------------- ________________ मेदान्वयवादः ] व्युत्पत्तिवादः न च स्वत्वादेः प्रकारतामतेपि स्वत्वादिनंबन्धावच्छिन्नप्रतियोगिताकराजाद्यभावविशिष्टपुरुषादिवैशिष्ट्यबोधे तथाविधसामय्याः प्रतिबन्धकताधिक्यन गौरवम्, तत्संसर्गतामते तादृशसामग्र्याः स्वत्वादिसंबन्धावच्छिन्न प्रतियोगित्ताक - राजाद्यभाववत्तानिश्वयाभावघटिततथा तत्सत्त्वे कारणविरहादेव तथाविधप्रत्यक्षच प्रतिबध्यत्वमिति पृथगेव प्रतिबध्यप्रतिबन्धकभावे वक्त ये नान्यादृशप्रत्यक्षस्थलीयप्रतिबन्धकत्वेन त्वन्मते निर्वाह इत्यत्र नवीनप्रतिबध्यप्रतिबन्धकभावकल्पनया स्वन्मते गौरवमस्त्येव । प्रकारतामते त्वत्र शाब्दबोधसामग्र्याः प्रतिबन्धकत्वकल्पनाभावः प्रथममेव प्रदर्शितः । उपदर्शितविशिष्टवैशिष्ट्यबोधस्त्र ( प्रत्यक्ष ) प्रकारकेच्छाबहादु पदर्शितविशिष्टवैशिष्ट्यबोधोपपत्तये अन्यत्रान्यविधप्रत्यक्षेच्छानामुत्तेजकतया तादृशेच्छायामसत्यां चान्यादृशविषयताया एव प्रतिबध्यतावच्छेदकत्वोपगमावश्यकत्वादित्यन्वयः । घटप्रत्यक्षेच्छाया घटप्रत्यक्षमात्रोत्तेजकत्वं भवति न तु पटादिप्रत्यक्षोत्तेजकत्वमपि तथा चोक्तवैशिष्टयप्रत्यक्षेच्छायां सत्यां घटप्रत्यक्षेच्छायां चासत्याम् उक्तवैशिष्ट्य प्रत्यक्षमेव भवति न घटप्रत्यक्षमिति घटप्रत्यक्षस्य प्रतिबध्यत्वं घटप्रत्यक्षनिष्ठविषयतायाश्च प्रतिबध्यतावच्छेदकत्वं न तुक्तवैशिष्ट्यप्रत्यक्षस्य प्रतिबध्यत्वं तनिष्टविषयतापाश्च प्रतिबध्यतावच्छेदकत्वमिति स्वीकार्यम्, तथा चात्र पृथगेव प्रतिबध्यप्रतिबन्धकभावापत्त्या संसर्गतामते गौरवमनिवार्यम् । 6 संसर्गतावादी प्रतिबन्धा प्रकारतामते दोषमुपपादयति- न चेति, यथा मम संसर्गतावादिनः राजस्वत्वाभाववान् पुरुषः सुन्दरः 7 इत्याकार कविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षं प्रति C राज्ञः पुरुषः ' इत्याकारकशाब्दसामग्रयाः पृथक् प्रतिबन्धकत्वकल्पनापत्त्या गौरवमस्ति तथा तव प्रकारतावादिनोपि स्वत्वसंबन्धावच्छिन्नप्रतियोगिताको यो राजाभावस्तद्विशिष्टे पुरुषे सुन्दरत्ववैशिष्टचावगाहिनम् -' स्वत्वसंबन्धेन राजाभाववान् पुरुषः सुन्दरः . इत्याकारकविशिष्टवैशिष्ट्या वगाहिनं प्रत्यक्षं प्रति तथाविधसामग्र्या: 'राज्ञः पुरुषः ' इत्याकारकशाब्दबो- सामयाः पृथगेव प्रतिबन्धकत्वकल्पनापत्त्या गौरवमस्त्येवेति साम्यम् । मम संसर्गतामते तु नात्र प्रतिबन्धकत्वकल्पनापत्तिरित्याह-- तत्संसर्गतामत इति । तत्संसर्गतामते स्वत्वस्य संसर्गता - मते तु ' राज्ञः पुरुषः ' इत्यनेन ' स्वत्वसंबन्धेन राजवान् पुरुषः ' इत्येव बोधो जायते एतच्छा-दबोधं प्रति च ' स्वत्वसंबन्धेन राजाभाववान् पुरुषः ' इत्येव बाधोस्ति, बोवसामन्याश्च बाधा - भावघटितत्वमपेक्ष्यते एवेति तादृशसामग्र्याः राज्ञः पुरुषः इत्याकारकशब्दबोधसामय्याः स्वत्वादिसंबन्धावच्छिन्नप्रतियोगिता कराजाद्यभाववत्तानिश्चयाभावघटिततया - 'स्वत्व संबन्धेन राजाभाववान् पुरुषः' इत्याकारकवाधनिश्चयस्याभावेन घटिततया तत्सत्त्वे - ' राज्ञः पुरुषः ' इत्याकाराब्दबोधसामग्र्या उक्तबाधाभावघटिताया: सत्त्वे कारणविरहादेव - 'स्वत्त्वसंबन्धेन राजाभाव'वान् पुरुषः सुन्दरः' इत्याकारकवैशिष्टयप्रत्यक्षं प्रति ' स्वत्वसंबन्धेन राजाभाववान् पुरुषः, इत्याकारक विशिष्टविशेषणज्ञानस्य कारणत्वमस्ति ततु नास्ति उक्तशाब्दबोधसामय्या एतद्विशिष्टविशेषणज्ञानाभावघटितत्वादिति कारणाभावात्स्वयमेव तथाविधप्रत्यक्षस्य = 'स्वत्वसंबन्धेन राजामा "Aho Shrutgyanam" (१५) , Page #108 -------------------------------------------------------------------------- ________________ (९६) सादर्श: [प्रथमाकारकेवारणसंभवादिति वाच्यम्, मन्मते तादृशप्रत्यक्षं प्रति तथाविधसामन्याः प्रतिबन्धकताधिक्येपि निरूपितत्वादिसंबन्धावच्छिन्न प्रतियोगिताकराजाद्यभावविशिष्टस्वत्वादिवैशिष्टयबोधे तथाविधसामग्याः प्रतिबन्धकताऽकल्पनेन तदंशे साम्यात, तथा च पूर्वोक्तराजस्वत्वाभाववान पुरुषः सुन्दर इत्यादिविशिष्टवैशिष्टयप्रत्यक्षं प्रति 'राज्ञः पुरुषः' इत्यादिसामग्र्याः प्रतिबन्धकत्वकल्पनं संसर्गतावादिनां मतेऽधिकमिति । न च स्वत्वादेः प्रकारतामते घटप्रत्यक्षादिकं प्रति तादृशसामग्रीप्रतिबन्धकववान् पुरुषः सुन्दरः' इति प्रत्यक्षस्य वारणसंभवात् अनुत्पत्तिसंभवात् न शाब्दबोधसामग्र्या: प्रतिबन्धकत्वकल्पनापत्तिः । यद्युक्तप्रत्यक्षोत्पत्तिः संभवेत् तदोक्तप्रत्यक्ष प्रति शाब्दसामग्र्याः प्रतिबन्धकत्वकल्पनापत्तिः स्यादपि नैवमस्तीत्यर्थः । प्रकारतावादी प्रत्युत्तरमाह- मन्मत इति, उक्तरीत्या प्रकारतामते तादृशप्रत्यक्ष प्रति='स्वत्वसंबन्धेन राजाभाववान् पुरुषः सुन्दरः । इति प्रत्यक्षं प्रति तथाविधसामग्र्याः= राज्ञः पुरुषः । इति शाब्दबोधसामग्र्याः प्रतिबन्धकत्वाधिक्येपि निरूपितत्वसंबन्धावच्छिन्न प्रतियोगिताकराजाद्यभावविशिष्टस्वत्वादिवैशिष्टयबोधे= निरूपितत्वसंबन्धेन राजाभाववत्स्वत्वं प्रमेयम् । इति निरूपितत्वसंबन्धेन राजाभावविशिष्टे स्वत्वे प्रमेयत्ववैशिष्टयावगाहिप्रत्यक्षं प्रति तथाविधसामन्या:= राज्ञः पुरुषः । इति शाब्दसामग्र्याः प्रतिबन्धकत्वकल्पनापत्तिर्नास्ति यतः-- 'राज्ञः पुरुषः' इत्यत्र प्रकारतामते स्वत्वस्याश्रयतासंबन्धेन पुरुषेऽन्वयः स्वत्वे च निरूपितत्वसंबन्धेन राजान्बयोस्तीति निरूपितत्वसंबन्धेन राजविशिष्टं स्वत्वं पुरुषवृत्तित्वेन भासते निरूपितत्वसंबन्धेन राजविशिष्टस्वत्वज्ञानस्य च ' निरूपितत्वसंबन्धेन राजाभाववरस्वत्वम् । इतिज्ञानमेव बाधः 'राज्ञः पुरुषः' इतिशाब्दसामग्री चोक्तबाधाभावेन घटितास्ति. ' निरूपितत्वसंबन्धेन राजाभाववरस्वत्वं प्रमेयम् । इति प्रत्यक्षे च 'निरूपितत्वसंबन्धेन राजाभाववत्स्वत्वम्' इतिज्ञानं कारणं तच्च नास्तीति कारणविरहात्स्वयमेव ' निरूपितत्वसंबन्धेन राजाभाववत्स्वत्वं प्रमेयम् ' इति प्रत्यक्षस्योत्पत्तिर्न संभवतीति नेशप्रत्यक्ष प्रति शाब्दसामन्याः प्रतिबन्धकत्वकल्पनापत्तिरिति तदंशे साम्यात् यथा तव 'स्वत्वसंबन्धेन राजामाक्वान् पुरुषः सुन्दरः' इति प्रत्यक्ष प्रति शाब्दसामग्र्याः प्रतिबन्धकत्वकल्पनापत्तिर्नास्ति मम चास्ति तथा 'निरूपितत्वसंबन्धेन राजाभाक्वत्स्वत्व प्रमेयम् ' इतिप्रत्यक्षं प्रति शाब्दसामन्याः प्रतिबन्धकत्वकल्पनापत्तिर्मम नास्ति तव चास्तीत्येतदंशे साम्यात्= साम्येपि 'राजस्वत्वाभाववान् पुरुषः सुन्दरः' इति प्रत्यक्ष प्रति शाब्दासामग्र्याः प्रतिबन्धकत्यकल्पनापत्तिर्मम नास्ति तव त्वस्त्येवेत्येतत्प्रयुक्तं गौरवं तव मतेऽधिकमेवेत्याह- तथा चेति । पुनः संसर्गतावादी प्रकारतामते गौरवं प्रदर्शयति- न चेति । स्वत्वादेः प्रकारत्वस्वीकारेऽनुपस्थितस्य प्रकारत्वासंभवात् डसादिपदेनोपस्थितिः स्वीकार्या । शाब्दसामग्र्याः प्रतिबन्धकत्वे शाब्दसामग्रीघटकसर्वेषामेव पदार्थानां प्रतिबन्धकत्वं प्रामोतीति 'राज्ञः पुरुषः' इति वाक्यजन्य "Aho Shrutgyanam" Page #109 -------------------------------------------------------------------------- ________________ भेदान्वयवादः] व्युत्पत्तिवादः। तायां विभक्तिजन्यस्वत्वाद्युपस्थितिनिवेशाधिक्येन 'राजत्वत्वाभाववान् पुरुषः' इत्यादिवाधाद्यभावांनवेशाधिक्येन च गौरवम, अस्मन्मते तादृशोपास्थतितथाविधवाधाभावादीनां तथाविधवाक्यजन्यशाब्दबोधं प्रत्य तया ताशवाक्य. घटितसामग्रीप्रतिबन्धकतायां तेषामानवेशादितिवाच्यम्, भान्मतोप 'स्वत्व. शाब्दसामग्रीघटकत्वेन राजपदजन्यराजोपस्थितेस्पदजन्यस्वत्योपस्थितेः पुरुषपदजन्यपुरुषोपस्थि. तेश्च प्रतिबन्धव प्राप्तं तथा बाधाभावरूपयोग्यताज्ञानम्यापि शाब्दसामग्रीवर त्वेन ‘निरूपितत्वसंबन्धेन राजाभाववरस्वत्वम् ' इत्याकारको यो बाधस्तदभावज्ञानस्वापि प्रतिबन्धमत्वम् 'आश्रयत्वसंबन्धेन राजस्वत्वाभाववान् पुरुषः ' इत्याकारकश्व यो बाधस्तदभावज्ञानम्यापि प्रतिबन्धकरवं प्राप्तमिति उपस्थितित्रयस्य बाधाभावद्वयस्य च प्रत्यक्षप्रतिबन्धक त्वं प्राप्त मिलित्वा पञ्चाना पदार्थानां प्रकारतामते प्रतिवन्धकत्वं प्राप्नोतीति गौरवमित्यर्थः । राजपदजन र जोपस्थितेः पुरुषादजन्यपुरघोपस्थितेश्च प्रतिबन्धकत्वं तु संलगतावादेप्यरत्येव उत्पदजन्यम्बकोपस्थितः प्रतिबन्धकत्वं नारित शाब्दबोधे स्वत्वोपस्थित्यपेक्षामावादनुपस्थितस्यापि संम्गतया भानसंभवादिति प्रकारतामते यदधिकं स्वत्वोपस्थितेः प्रतिबन्धकत्वं तदेव प्रशितम्-- विभक्तीति । मंरार्गतामतेपि 'राजाभाववान् पुरुषः ' इत्याकारको यो बाधातदभावत्य कारण वन प्ररक्षप्रतिबन्धकत्वमस्त्येवेति प्रकारतामते यदधिकं बाधाभावस्य प्रतिबन्धकत्वं तदेव प्रदर्शितम्-- राजस्ववाभाववानिति । तथा च प्रकारतामते पञ्चानां पदार्थाना प्रत्यक्ष प्रतिबन्धकन्वं प्रातम् . संसर्गनामते च द्विविधोपस्थितरेकविधबाधाभावस्य च प्रत्यक्षप्रतिबन्धकत्वेन त्रयाणामेव पदार्थानां प्रतिबन्धकत्वं प्राप्नोतीति विवेकः । संसर्गतावादी स्वमते लाधवं प्रदर्शयति- अस्मन्मत इति । संसर्गतावादे हि ' राज्ञः पुरुषः । इतिवाक्यात् ' स्वत्वसंबन्धेन राजत्रान् पुरुषः । इति बोधस्वीकाराद् एत. द्वोधं प्रति राजपदजन्यराजोपस्थितेः पुरुषपदजन्यपुस्पोपस्तित: स्वत्वकन्धेन राजाभाववान पुरुषः' इत्याकारकवाधस्याभावस्य च कारणत्वमातांति प्रत्यक्ष प्रयतत्पदार्थत्रयस्यैव प्रतिबन्धकत्वं प्राप्नोति, तादृशोपस्थितेः=डस्पदजन्यस्वत्योपस्थितः तथाविधवाधाभावस्य-राजस्वत्वाभाववान् पुरुपः ' इत्याकारकवाधस्याभावस्य च तथाविधवाक्यजन्यशाबोधं प्रति='राज्ञः पुरुषः । इति वाक्यजन्यशाब्दको प्रति कारणत्वाभावात् प्रत्यक्षप्रतिबन्धकवकल्प पत्तिर्नास्तीति लावयम् । नाशवाक्यंति-' राज्ञः पुरुषः । इत्येतद्वाक्यघटित ( एतमाम्पसमभिव्याहारपटत ) सानप्रानिठप्रतिवन्धकतायां तेषाम् स्वत्वोपस्थितेः 'राजस्वत्वाभाववान् पुरुषः । इत्याकारकवावस्याभावय चानिवेशादित्यर्थः । , प्रकारतावादी प्रत्युत्तरमाद- भगवतेपीति, यथा प्रकारतामने उकरीत्या पधपाः । प्रत्यसप्रतिबन्धपकल्पना त्या गौरवं तथा संसर्गामपि प्रतिबन्धकत्वकल्पनाधिक्य नास्त्येव गौरवमिति तालार्यम् । एतस्योपपा यति-- सोयारिला । बदत्ताबुद्धि प्रति तदभाववाहात य तद. "Aho Shrutgyanam" Page #110 -------------------------------------------------------------------------- ________________ ( ९८ ) सादर्श: [ प्रथमाकारके - -संबन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्य राजस्वत्वाभाववान् पुरुषः' इत्यादिनिश्वयस्य तदभावव्याप्यवत्तानिश्चयमुद्रया तादृशवाक्य जन्य शाब्दधीविरोधितया साहशनिश्वयाभावस्य तयाविधसामग्रीप्रतिबन्धकतायां निवेशस्याधिक्येन लाघवानवकाशात् । मन्मते 'राजस्वत्वाभाववान् पुरुषः' इत्यादिबाधकाभावनिवेशेनैव तादृशनिश्चयकाले प्रत्यक्षाभ्युपपत्तेस्तदभावानिवेशात् । 茹 भावव्याप्यवताज्ञानस्य च प्रतिबन्धकत्वं सर्वसंमतं यथा वह्निमानिति ज्ञानं प्रति वह्यभावनिश्चयस्य बयभावव्याप्यजलवत्ता निश्चयस्य च प्रतिबन्धकत्वमस्ति तथा संसर्गतामते 'राज्ञः पुरुषः' इति वाक्यजन्यम् ' स्वत्वसंबन्धेन राजवान् पुरुषः ' इतिशाब्दबोधं प्रति स्वत्वसंबन्धावच्छिन्नप्रतियोगिताकरा जाभावनिश्चयस्य तथा स्वत्वसंबन्धावच्छिन्नप्रतियोगिता करा जाभावव्याप्यंशजस्वत्वाभा “ यस्य च प्रतिबन्धकत्वमस्त्येव यत्र स्वत्वसंबन्धेन पुरुषादौ राजा वर्तते तत्र राजस्वत्वमपि चर्तते तथा यत्र स्वत्वसंबन्धेन राजाभावो वर्तते तत्र राजस्वत्वाभावोपि वर्तते एवेति समनियतत्वेन स्वत्व संबन्धेन राजाभावस्य राजस्वत्वाभावो व्याप्पोस्ति तथा च ' स्वत्वसंबन्धेन राजाभाववान पुरुषः ' इत्याकारकबाधनिश्वयामात्रस्य ' राज्ञः पुरुषः ' इतिवाक्याजायमानशाब्दसामम्यां निवेशात् ' स्वत्वसंबन्धेन राजाभाववान् पुरुषः सुन्दरः ' इति प्रत्यक्षस्य कारणाभावादेवोत्पत्त्यसंभयात शाब्दसामग्र्याः प्रतिबन्धकत्वाभावेपि • स्वत्वसंबन्धावच्छिन्नप्रतियोगिताकराजाभावव्याध्यस्वत्वाभाववान् पुरुषः ' इत्याकारकप्रत्यक्षं प्रति तु शान्दसामग्र्याः प्रतिबन्धकत्वमस्येवेत्येतत्प्रतिबन्धकत्वकल्पनापत्या गौरवमित्यर्थः । मुद्रा = रीतिः | स्वत्वसंबन्धावच्छिन्नप्रतियोगिताकराजाभाकयाप्यस्वत्वाभाववान् पुरुषः ' इति निश्वयस्य तदभावव्याप्यवत्तानिश्चयमुद्रया - स्वत्वसंबमैंने राजवस्त्वामावव्याप्य राजस्वत्वाभाववत्तानिश्चयत्त्ररूपेण तादृशवाक्यजन्य शाब्दधी विरोधितया राज्ञः पुरुषः ' इतिवाक्यजन्यशाब्दबोधविरोधत्वेन तादृशनिश्चयाभावस्य - ' स्वत्वसंबन्धारच्छिन्नप्रतियोगिताकराजाभावव्याप्यस्वत्वाभाववान् पुरुषः ' इतिनिश्चयामावस्य तथाविधसामग्रीप्रतिबन्धकतायाम् = ' राज्ञः पुरुषः ' इतिशाब्दबोधसामग्री निष्ठायां विभिन्नविषयको क्तप्रत्यक्षनिष्ठप्रतिबध्यतानिरूपित प्रतिबन्धकतायां निवेशाधिक्येन लाघवाऽसंभवादित्यन्त्रयः । ८ 2 , — एतत्प्रतिबन्धकत्वकल्पनापत्तिः प्रकारतामते नास्तीत्याह- मन्मते इति । प्रकारतामते हि राज्ञः पुरुषः " इत्यत्र : राजस्वत्ववान् पुरुषः ' इत्येष बोधो जायते एतहो च राजस्वस्वाभाववान् पुरुषः इत्येव बाधोस्ति, अस्यैव च बाधस्य तदभावव्याप्यवत्ता निश्चयमुद्रया ' राज्ञः पुरुषः' इतिशाब्दधीप्रतिबन्धकत्वं संसर्गतामते प्रदर्शितं तत्र राज्ञः पुरुषः ' इतिवाक्यजन्यस्य राजस्वत्वत्रान् पुरुषः इतिशाब्दस्य सामग्री यदा ' राजस्वत्वाभाववान् पुरुषः ' इतिबाधस्याभावेन घटिता भवति तदा शाब्दबोध एव जायते प्रत्यक्षस्य च स्वकारणाभावादेवोत्पत्तिर्न संभवतीति न तद्दारणाय शाब्दसामग्र्याः प्रतिबन्धकत्वकल्पनापत्तिः । यदा च बातू पुरुषः । इतिबाधस्य निश्चयो भवति तदा बाधाभावरूप योग्यताज्ञानस्याभावाच्छान्दवोवो न 6 राजस्व त्राभाव "Aho Shrutgyanam" Page #111 -------------------------------------------------------------------------- ________________ भेदान्वयवादः ] व्युत्पत्तिवादः। यतु 'राज्ञः पुरुषः' इत्यादौ 'राजस्वत्ववान् पुरुषः' इत्याद्यन्वयबोधोपगमें 'राजकीयं स्वत्यम्' 'राजस्वत्ववान् पुरुषः' इत्याकारकद्विविधानुमितेरेव तदतिरिताविषयकत्वेन तादृशानुमितिं प्रति प्रत्येक ताशवाक्यघटितसामग्र्याः प्रति. बन्धकत्वद्वयम् । अस्मन्मते च तादृशानुमित्योस्तथाविधवाक्यजन्यात 'राजकीयः पुरुषः' इत्येतादृशबोधादतिरिक्तविषयकतया तत्र तादृशसामग्र्याः प्रतिबन्धकत्वकल्पनं नास्ति- तथाविधानुमितितथाविधशाब्दसामय्योश्च सत्योरनुमितेरेवोजायते किं तु प्रत्यक्षाभ्युपपत्तेः प्रत्यक्षमेव जायते प्रतिबन्धकीभूतशाब्दसामन्यऽभावादिति स्वीकारेण तदभावाऽनिवेशात्-शाब्दसामन्यां ग्राह्याभावावगाहितया 'राजस्वत्वाभाववान् पुरुषः' इत्यादिबाधस्याभावस्य निवेशेपि तदभावच्याप्यवत्तामुद्रया संसर्गतावादे इस प्रकारतावाद — राजाभावव्याप्यराजस्वत्वाभाववान् पुरुषः ' इतिबाधस्याभावस्य शाब्दसामग्रीनिष्ठप्रतिबन्धकतायामनिवेशाल्लाघवम् , संसर्गतामते च प्रवेशाद् गौरवमित्यर्थः ।। पुनरपि संसर्गतावादिना प्रकारतामते प्रदर्शितं दोषमनुवदति-यत्त्विति, यथा विभिन्न विषयकप्रत्यक्षं प्रति शाब्दसामयाः प्रतिबन्धकत्वमस्ति तथा समानविषयकानुमितिं प्रत्यपि शान्दसामग्र्याः प्रतिबन्धकत्वमस्ति विभिन्न विषयकानुमितेश्च शाब्दबोधप्रतिबन्धकत्वमस्तीत्युभयमतसिद्धम् । तत्र प्रकारतामते ' राज्ञः:पुरुषः । इतिवाक्यात् ' राजनिरूपितस्वत्ववान् पुरुषः । इतिशाब्दबोधो जायते तत्स्वीकारे, यदा ‘राजकीयं स्वत्वम् ' ' राजस्वत्ववान् पुरुषः । इत्याकारकानुमितिद्वयं प्राप्नुयात् तदा ' राज्ञः पुरुषः । इत्येतद्वाक्यघटकस्य 'राज्ञः । इतिभागस्य 'राजकीयं स्वत्वम् । इत्येवार्थः, प्रथमानुमितिरपि “राजकीयं स्वत्वम् । इत्येतद्रूपेत्युभयोः समानविषयत्वम् , ' राजस्वत्ववान् पुरुषः ' इति शान्दबोधस्तत्समानविषयैव द्वितीयानुमिति - 'राजस्वत्ववान् पुरुषः । इति तथा चोक्तद्विविधानुमितेरेव=उक्तानुमितिद्वयस्थापि तदतिरिक्ताविषयकत्वेन-उक्तशाब्दबोधसमानविषयकत्वेन तादृशानुमितिं प्रति प्रत्येकम्-उक्तद्विविधानुरिति प्रत्येव तादृशवाक्यघटितसामग्र्याः= राज्ञः पुरुषः । इत्याकारकवाक्यघटकसामन्याः प्रतिबन्धकत्वयं कल्पनीयं प्रतिबध्यभेदेन प्रतिबन्धकुताभेदादित्यर्थः । अस्मन्मते इति- संसर्गतामते च “ राज्ञः पुरुषः ' इतिवाक्यात् — राजस्वत्यवान् पुरुषः । इति शाब्दबोध एव न जायते येनोक्तानुमितिद्वयस्य समान विषयत्वं स्यात्तेन च शाब्दसामग्र्याः प्रतिबन्धकत्वद्वयं कल्पनीयं स्यात किं तु — स्वत्वसंबन्धेन राजवान् पुरुषः । इत्येव शाब्दबोधो जायते तदेवोक्तम्- 'राजकीयः पुरुषः । इति, अस्य शाब्दबोधस्योक्तानुमितिद्वयस्य चातिरिक्तविषयकतया विभिन्न विषयकत्वेनोंक्तानुमितिद्वयं प्रति शाब्दबोधसामग्र्याः प्रतिबन्धकत्वकल्पनापत्तिर्नास्तीत लाघवम् । उक्तानुमितिद्वयस्य ' राजकीयः पुरुषः । इतिशाब्दबोधस्य च विभिन्नविषयकत्वेनानुमितिद्वयस्य शान्दबोधस्य च सामन्यां सत्यामनुमितिरेवोत्पद्यते इति कथं शान्दसामग्र्याः प्रतिबन्धकत्वं स्यात, यदि शाम्दसामग्या अत्र प्रतिबन्धकत्वं स्यात्तदा कथमनुमितिद्वयमुत्पद्यतेत्याह- तथाविधेति । "Aho Shrutgyanam" Page #112 -------------------------------------------------------------------------- ________________ ( १०० ) सादर्श: [ प्रथमाकारके त्पत्तेः अपि तु 'राजकीयः पुरुषः' इत्याकारकस्वत्व संसर्ग के कविधातुमितिं प्रत्येव तादृशसामय्याः प्रतिबन्धकत्वमेकं कल्पनीयमिति लाघवमिति । तदप्यकिंचित्करम् - भवन्मते यत्र याहशानुमितिः स्वीक्रियते अस्मन्मते पि तत्र तादृशानुमितेः स्वीकरणीयतयाऽनुमितौ शाब्दसामय्याः प्रतिबन्धकत्वसाम्यात् उपदर्शितस्थले भवद्भिरनुमितिः स्वीक्रियते. अस्माभिरापे स्वीक्रियते कुतः प्रतिबन्धकताद्वय कल्पनमिति । भवतापि तादृशशाब्दं प्रति तादृशानुमितिद्वयसामग्रीद्वयस्य प्रतिबन्धकताया वाच्यतया साम्याच्च । “ किमिदानीं संसर्गतावादेऽनुमितिं प्रति शाब्दसामय्याः प्रतिबन्धकत्वं नास्त्येवेत्याशङ्क्याहaft विति, संसर्गतामते ' राज्ञः पुरुषः ' इतिवाक्यात् ' राजकीयः पुरुषः ' इत्येत्र शाब्दबोधो जायते तासमानविषया च राजकीयः पुरुषः' इत्येकेवानुमितिः संभवत्येता रौकानुमिति प्रत्येकमेव शाब्दसामग्र्याः प्रतिबन्धकत्वं कल्पनीयम्, न तु प्रकारतामते इव उक्तरीत्या प्रतिबन्धकताद्वयं कल्पनीयमिति संसर्गतामते लाघवनियर्थः । " राज प्रकारतावादी परिहरति- तदपीति, यत्र संतर्गतावादिनाऽनुमितिः स्त्रीपिते न शाब्दबोरतन प्रकारतावादिनाप्यनुमितिरेवः स्वीक्रियते इत्युभयमतें प्रतिवध्यप्रतिबन्धकमात्रः समान एवेत्यर्थः । एतदेव सष्टयति- उपदर्शितेति । उपदर्शितस्थळे= ' राजकीयं स्वत्वम् ! स्वत्वान् पुरुषः' इति स्थले । यद्युक्तानुमितिद्वयस्योत्पत्तिर्न स्त्रीक्रियेत तदानुमितिद्वयप्रतिबन्धे सति शाब्दसामय्याः प्रतिबन्धकत्वकल्पनापत्तिः स्यादपि नैवमस्ति तन्त्रोक्तानुमित्युत्पत्तेः स्वीकारादेवेत्याह-- कुत इति । ननु किंचिद्विचार्य दोषः परिहर्तव्यः - ' राजकीयं स्वत्वम् ! ( राजस्वत्ववान् पुरुषः ' इत्यनुमितिद्वयस्य ' राज्ञः पुरुषः । इतिवाक्यजन्यस्य ' राजस्वत्ववान् पुरुषः । इतिशब्दबोधरूप च समानविषयत्वान्नानुमितिः स्त्रीकर्तुं शक्यते शाब्दसानय्याः समान विषयकानुमिति प्रति प्रतिबन्धकत्वादित्याशय यवार्थनुत्तरमाह - भवतापीति यथात्र मन्मते शाब्दसामग्र्यां प्रतिबन्धकताद्वयस्य कल्पनावत्तिरुका तथा तव संसर्गतामते राज्ञः पुरुषः इतिवाक्यजन्यस्य स्वत्वसंबन्धेन राजन् पुरुषः ' इति शाब्दबोत्रस्य ' राजकीयं स्वत्वम् ' राजस्वत्ववान् पुरुषः' इत्युक्तानुमितिद्रस्य च विभिन्नविषयत्वात् शाब्दबोधं प्रति उक्ता• तुम यस्य यत्सामग्रीद्वयं तस्य प्रतिमन्वलानीयमिति प्रतिबन्धकत्वद्वयकल्पना पत्तिस्तव मतेप्यस्त्येवेति तत्र मम च सम्यमेव - विनिविपयशाब्दबोधं प्रत्यनुमितेः प्रतिबन्धकत्वस्योम - यवादसिद्धत्वादित्यर्थः । 2 ८ ई < यच संसर्गतावादिनोक्तम् - यथा इति राज्ञः पुरुषः ' इत्यत्र स्वत्वसंवन्धेन राजान् पुरुषः संसर्गकमेदान्त्रयवस्तथा ' राजपुरुषः ' इत्यत्रापि ' स्वयसंबन्धेन राजवान् पुरुषः । इति संसर्गकन्यो एव स्वीकार्यो न तु राजपदस्य राजसंबन्धिनि लक्षणां स्वीकृत्य 1 राजसंबन्ध्यमिव: पुरुष: दूर 15मेदान्वयः ( पू. ८४ ) इति तत्परिहरति प्रकारतावादी - " Aho Shrutgyanam" ८ ८ ८ Page #113 -------------------------------------------------------------------------- ________________ भेदान्वयवादः } व्युत्पत्तिवादः । ( १०१ ) एवम् 'राजपुरुषः " इत्यादिसमासवाक्यात् स्वत्वसंसर्गकशाब्दबोधस्वीकारे तादृश शाब्दबोधसामय्याः स्वत्वसंसर्गेण राजविशिष्टपुरुषतात्पर्यज्ञानादिघटिताया भिन्नविषयकप्रत्यक्षादिकं प्रति प्रतिबन्धकत्वाधिक्येन गौरवात् तत्र राजसंबन्धिमकारका भेदान्वयबोध स्वीकार एवोचितः । न च भवन्मतेपि तादृशाभेदान्वयबोधसामय्याः प्रतिबन्धकताधिक्येन गौरवमिति वाच्यम्, राजपदस्य राजसंबन्धिनि स्वारतिकलक्षणाग्रहदशायामभेदसंबन्धेन राजसंबन्धिविशिष्टपुरुषे तात्पर्यग्रहस भवन्मतेपि कर्मधारयत्वेनाभिमतात् तथाविधसमासवाक्यात् तादृशशाब्दबोधस्वीकारस्यावश्यकतया तादृशसामग्रीप्रतिबन्धकताया उभयमतसिद्धत्वात् । य - 'दधि पश्य' इत्यादी उप्तद्वितीयाविभक्तिस्मरणेन दधिकर्मकदर्शनबोधएवमिति, राजपुरुषः' इतिसमासे ' सत्वसंवन्धेन राजत्रान् पुरुषः इत्येवं स्वत्वसंसर्गकभेदrarararatniरे तादृशशाब्दबोधसामम्या:= ' 7 राजपुरुषः इति राजपदाव्यवहितोतरपुरुषपदसमभिव्याहारसामय्याः " स्वत्व संबन्धेन राजत्रान् पुरुषः ' इत्येवं स्वत्वसंसर्गेण राजविशिष्टो यः पुरुषस्तद्विषयकतात्यर्यज्ञानादिवटिताया विभिन्नविषयकप्रत्यक्षं प्रति प्रतिबन्धकत्वकल्पनापत्त्या गौरवम् । विभिन्न विषयकप्रत्यक्षं प्रति शाब्दसामय्याः प्रतिबन्धकत्वस्योभय वादिसिद्धत्वात् । तस्मादेतद्गौरवपरिहाराय तत्र = ' राजपुरुषः ' इतिसगते राजपदस्य राजसंबन्धिनि लक्षणां स्वीकृत्य ' राजसंबन्ध्यभिन्नः पुरुषः इत्येवं राज संबन्धिप्रकारकाऽभेदान्वय बोध एवोचित इत्यर्थः । ननु विभिन्न विषयकप्र यक्षं प्रति शाब्दसामान्याः प्रतिबन्धकत्वेन भवन्मतेपि = प्रकारतावादेपि तादृशाभेदान्वयबोधसामग्र्या :-' (: राजपुरुषः इत्यत्र • राजसंबन्ध्यभिन्नः पुरुषः इत्येवं राजसंबन्धिप्रकारका भेदान्वयबोधसामग्र्या अभेदसंबन्धेन राजसंबन्धिविशिष्ट पुरुषविषयक तात्पर्यज्ञानादिघटिताया विभिन्नविषयकप्रत्यक्ष प्रति प्रतिबन्धकताकल्पनापत्त्या गौरवमस्त्येवेत्याशङ्कयाहन चेति । परिहारहेतुमाह-- राजपदस्येति, , राजपुरुषः इत्यत्र त्वया मेदान्वये स्वीकृतेपि यदा कस्य चिद् राजपदस्य राजसंबन्धिनि स्वारसिकलक्षाग्रहेणाऽमेदसंबन्धेन राजसंबन्धिविशिष्ट - पुरुषे तात्पर्यग्रहो भवति तदात्र त्वया राजपुरुषः ' इत्यत्र कर्मधारयत्वम् ( राजसंबन्धी चासौ पुरुष इति ) स्वीकृत्य तथाविधसमासवाक्यात् = ' राजपुरुषः इतिसमासवाक्यात् तादृशशाब्दबोधस्य = ' राजसंबन्ध्यभिन्नः पुरुषः ' इत्यऽभेदान्वयबोधस्य स्वीकार्यत्वात् ' राजपुरुषः ' इत्यत्रामेदान्वयबोध सामग्र्या विभिन्नविषयकप्रत्यक्षं प्रति प्रतिबन्धकत्वं यथा मम मते तथा तव मतेपि प्राप्तमेव किं तु तव मते ' राजपुरुषः " इत्यत्र भेदान्वयबोधसामग्र्या अपि विभिन्नविषयकप्रत्यक्षं प्रति प्रतिबन्धकत्वकल्पनं कर्तव्यं तदेवाधिक गौरवमित्यर्थः । L पुनः परिहाराय संसर्गतावादिवचनमनुवदति - यत्त्विति, दधि पश्य ' इत्यत्र प्रकारता - ८ “ "Aho Shrutgyanam" 2 " Page #114 -------------------------------------------------------------------------- ________________ ( १०२ ) सादर्श: [ प्रथमाकारके " वत् 'राजपुरुषः' इत्यादावपि उप्तषष्ठीविभक्तिस्मरणेन राजसंबन्धप्रकारकभेदान्वयबोधनिर्वाहे राजसंबन्धिनि निरूढलक्षणां स्वीकृत्याभेदान्वयबोधोपगमो नि. रर्थकः न च षष्ठीतत्पुरुषादिस्थलेपि कुप्तविभक्तिस्मरणे एव चेदन्वयबोधः ? तदा 'ऋद्धस्य राजमातङ्गाः' इत्यादिप्रयोगापत्तिः- तत्र मातङ्गादौ राजादीनामन्वयबोधोपपत्तये राजादिपदोत्तरषष्ठ्चादिविभक्त्यनुसंधानस्यावश्यकत्वेन समानविभक्तिकतया राजादौ ऋद्धादिपदार्थस्याऽभेदान्वयबोधसंभवादिति वाच्यम्, यतस्तत्र ऋद्धराजादीनामभेदान्वयबोधानुपपत्त्या नाभियुक्तानामप्रयोगः अपि तु समासाऽघटकपद सापेक्षतया राजपदस्याऽसामर्थ्याऽतिदेशात् समासाऽसाधुतेपि दधिमदोत्तरं लुप्तविभक्तेः स्मरणं यथा भवति तेन च 'दधिकर्मकं दर्शनम्' इति भेदान्वयबोrer भवति दनः स्वकर्मकत्वसंबन्धेन धात्वर्थे दर्शनेऽन्ययस्वीकारात् तथा 6 राजपुरुष:' इत्यश्राप लुप्तषष्ठी विभक्तिस्मरणेन राजसंबन्धप्रकारक भेदान्वयबोध निर्वाहे = ' राजसंबन्धवान् = राजनिरूपितस्त्ववान् पुरुषः ' इत्येवं राजसंबन्धप्रकारकस्य मेदान्वयबोधस्य राज्ञः पुरुषः ' इत्यव निर्वाहे संभवति सति राजपदस्य राजसंबन्धिनि लक्षणां स्वीकृत्या मेदान्वयबोध स्वीकासे व्यर्थः । एवं हि 'राज्ञः पुरुषः L " 'राजपुरुषः' इति समासाऽसमासवाक्ययोरेकगत्या लाघवमपि स्यादित्यर्थः । ननु L राजपुरुषः ' इत्यत्रापि यदि लुप्तषष्ठीस्मरणे सत्येवान्वयबोधः स्यात् तदात्र राजपदस्य स्मृतिविषयीभूतषष्ठयन्तत्यप्राप्त्या यथा ' ऋद्धस्य राज्ञो मातङ्गाः' इति प्रयोगो भवति तथा क्तेन ' राजपुरुषः ' इत्यत्रेव तत्र = ' राजमातङ्गाः ' इत्यत्रापि ' स्वत्वसंबन्धेन राजवन्तो मातङ्गाः ' इत्येवं मातङ्गेषु राजान्वयबोधोपपत्तये राजपदोत्तरं लुप्तषष्ट्या अनुसंधाने कृते राजपदस्य षष्ठन्तत्वं प्राप्तमिति ' ऋद्धस्य ' . 'राज्ञः इतिपदयोः समानविभक्तिकत्वापत्त्या 'नीलो घटः इत्यत्रैवात्रापि राजपदार्थे ऋद्धपदार्थस्याऽभेदान्वयः संभवतीति 'ऋद्धस्य राजमातङ्गाः ' इति प्रयोगः स्यादेव तस्मात् समासे लुप्तविभक्तिस्मरणं न युक्तं लुप्तविभक्तेरस्मरणे च ' राजमाताः इत्यत्रापि राजपदस्य षष्ठयन्सत्वाभावेन : समानविभक्तिकत्वाभावाद् ऋद्धपदार्थराजपदार्थयोरभेदान्वयाऽसंभवात् ' ऋद्धस्य राजमातङ्गाः ' इति प्रयोगापत्तिर्नास्ति तथा च ' राजपुरुषः " इत्यत्रापि लुप्तषष्ठीस्मरणं न युक्तमित्याशङ्क्याह- न चेति । संसर्गतावादी परिहारहेतुमाह-- यत इति । तत्र = 'ऋद्धस्य राजमातङ्गाः ' इत्यत्र यदि ऋद्धराजपदार्थयोरभेदान्वयः संभवेत्तदा 'ऋद्धस्य राजमातङ्गाः ' इति प्रयोगः स्यादेवात्र च ऋद्धराजपदार्थयोरमेदान्वयबोधो नैव संभवतीत्यमेदान्वयबोधानुपपत्तिमुद्दिश्याऽभियुक्तानाम् = प्रामाणिक वृद्धानाम् ऋद्धस्य राजमातङ्गाः इतिप्रयोगस्य परिहारो नास्ति येन खदुक्तरीत्या ऋद्धराजपदार्थयोरभेदान्वयापत्त्या लुप्तषष्ठी - स्मरणं न स्यात् । ऋद्धस्य राजमातङ्गाः' इत्यप्रयोगे हेतुमाह- अपि त्विति - " समर्थः पदविधिः ” इत्यत्र समर्थः समर्थेन सह समस्यते इतिनियमेन " सापेक्षमसमर्थवद् भवति " इति नियमेन च 裘 ऋद्धस्य राजमातङ्गाः ' इत्यपि प्रयोगः स्यात् । अत्र हेतुमाह- तत्रेति, त्वन्मतेनो , 6 ८ S ऋद्धस्थं राजमातङ्गाः ' इत्यत्र राजपदस्य समासाघटक ऋद्धपदसापेक्षतया समर्थ "Aho Shrutgyanam" Page #115 -------------------------------------------------------------------------- ________________ मेदान्ववादः ] व्युत्पत्तिवादः । ( १०३ ) त्वेन । तत्सापेक्षत्वं च तदर्थान्वितस्वार्थपरत्वम्, स्वार्थश्व - स्वीयनृत्तिग्रहविशेष्यः । अत एव 'शरैः शातितपत्र: ' 'चैत्रस्य दासभार्या' इत्यादौ न समस्यमानशातितदासपदादेः सापेक्षता - तदर्थैकदेशशातनदासत्वादावेव शरकरणकत्वचैत्र निरूपितत्वादीनामन्वयात् । तदर्थान्वितेत्यत्राऽभेदान्वयो वा निवेशनीय इतेि । 66 “ मावा मातङ्गपदेन समास एव न संभवतीति ' ऋद्धस्य राजमातङ्गाः ' इत्यत्र 'राजमातङ्गाः " इतिसमासस्याऽसाधुस्वं स्यादित्यभिप्रायेणैवाभियुक्तानाम् ' ऋद्धस्य राजमातङ्गाः ' इतिप्रयोगपरिहारोऽस्तीत्यर्थः । किं वा सविशेषणानां वृत्तिर्न " इति नियमेन समासाघटकपदार्थस्य विशेपणत्वे तद्विशेष्यवाचकपदस्य पदान्तरेण समासो न भवतीति नियमेन ऋद्धस्य राजमातङ्गाः " इति प्रयोगाभावो विज्ञेयः । समासाघटकपदसापेक्षत्वं निरूपयति - तरसापेक्षत्वमिति । तत्सापेक्षत्वम्=विशेषणसापेक्षत्वम् । तदर्थान्वितस्वार्थपरत्वम् = विशेषणान्वितस्वार्थबोधकत्वम्, यथा स्य राजमातङ्गाः' इत्यत्र राजपदस्य ऋद्धपदार्थान्वितराजपदार्थबोधकत्वात्सापेक्षत्वं सापेक्षत्वादसमर्थत्वमसमर्थत्वात्समासासाधुत्वम् । स्वार्थपदार्थमाह-स्वार्थश्चेति । स्वीयेति - स्वनिष्ठवृत्तिग्रहविशेष्यः स्वार्थ इत्यर्थः यथा स्वं राजपदं तन्निष्ठा या वृत्ती राजा राजपदशक्य इति तादृशवृत्तिमहे विशेष्यतया भासमानत्वाद् राजपदस्य राजपदार्थः स्वार्थ: । अत एवेति- अत एव = समासघटकपदस्या समासाऽघटकपदवाच्यपदार्थान्वितस्वार्थपरत्वे सापेक्षत्वादेव । तथा च . ऋद्धस्य राजमातङ्गाः इत्यत्र समासघटकराजपदस्य स्वीयवृत्तिग्रह विशेष्यभूतराजपदार्थवाचकस्य समासाऽघटक (ऋद्ध) पदवाच्यार्थान्वितराजपदार्थपरत्वेन सापेक्षत्वात् समासासाधुत्वम् । शरैः शातितपत्रः इत्यत्र ..समासघटक शातितपदस्य सापेक्षत्वं नास्ति शातितपदस्य शरकरणकत्वरूपार्थान्वितस्वार्थपरत्वाभावात, तथा ' चैत्रस्य दासमार्या ' इत्यत्रापि समासघटकदा सपदस्य सापेक्षत्वं नास्ति - चत्रनिरूपितत्वरूपार्थान्वितस्वार्थपरत्वाभावात् तथा च नात्र समासानुपपत्तिरित्यर्थः । उक्ते हेतुमाह - तदर्थेति । तदर्थैकदेशे = शातितपदार्थैकदेशे शातने दासपदार्थैकदशदासत्वे चैव शरकरणकत्वस्य चैत्रनिरूपितत्वस्य चान्वयात् । विनिगमनान्तरमाह- तदर्थान्वितेति एवं हि- अमेदान्वयस्वार्थपरत्वं सापेक्षत्वमिति लब्धम् - समासाऽघटकपदवाच्यार्थेन सहाऽभेदसंवन्धेनान्वितस्वार्थबोधकत्वं सापेक्षत्वमित्यर्थः । तथा च " ऋद्धस्य राजमातङ्गाः ' इत्यत्र राजपदार्थर्द्धपदार्थयोरभेदान्यनबोधे तात्पर्यसत्त्वात् सापेक्षत्वं तेन च समासा साधुत्वम् । शरैः शातितपत्र: ' इत्यत्र तु समासाघटकपदवाच्यार्थेन शरेण समासघटकशातितपदार्थस्य नामेदान्वये तात्पर्य किं तु शराणां शातितपदार्थे स्वकरणकशातन फलशालिश्वेन भेदसंबन्धेनान्वये तात्पर्यमिति नात्र सापेक्षत्वापत्तिर्येन समासाऽसाधुत्वं स्यात् ' चैत्रस्य दासभार्या ' इत्यत्र च समासा घटक चैत्रपदार्थस्य समासघटकदासपदार्थे स्वनिरूपितस्वत्वरूपभेद संबन्धेनान्त्रय इति न समासानुपपत्तिरित्यर्थः । > C " Aho Shrutgyanam" 6 " Page #116 -------------------------------------------------------------------------- ________________ (१०४) सादर्शः [प्रथमाकारकेतदसत्- स्वारसिकलक्षणाग्रहस्थलानुरोधेन तादृशप्समभिव्याहारज्ञानादेस्तथाविधबोधजनकतायाः क्लप्तत्वात् तत्र निरूढलक्षणास्वीकारे गौरवाभावात् । यत्र राजपदम्य राजसंवन्धिनि स्वारसिकलक्षणाग्रहस्तत्र तादृशबोधस्योभयमतसिद्धतया तादृशसमाभिव्याहारज्ञानस्य राजसंबन्ध्यभिन्नपुरुषबोधे। कारणतायाः क्लप्तत्वात् तयैव निर्वाहेण सर्वत्र लुप्त विभक्तिस्मरणकल्पने मानाभावात् । अत्र कृष्णभट्टो यथा- “ तदुक्तम्- “ सविशेषणानां वृत्तिर्न वृत्तस्य विशेषगयोगो न" इति, विशेषणसहितानां विशेष्यागामेव वृत्तिन लुप्त विशेषणानां विशेष्याणामपि तेन सविशेषणानां मातङ्गानां राजरूपविशेपगेन सह समास उपपन्नः । एवं वृत्तस्य विशेषणस्य विशेषणयोगो नेत्यर्थस्तेन 'सुन्दरा राजमताङ्गाः' इत्यत्र सुन्दरविशेषणस्य राजमातङ्गे विशेष्येऽन्वयः। समासघटकेत्येतदमित्रायकमेव । ऋविशेषणयुक्तस्य विशेषगस्य राज्ञः समाररूपा वृत्तिर्न, एवं च वृत्तस्य=समस्तस्य राज्ञो विशेषगस्य ऋतस्येति विपणयोगोपि नेति तदर्थः । तत्सापेक्षत्वं तदर्था न्वतस्वार्थपरत्वम्-- समासाऽघटकऋद्धपदार्थान्वितो यः स्वार्थो राजपदार्थस्तत्परं तात्पर्य यस्य तत् तदर्थान्वितस्वार्थपरं राजपदं तत्त्वं राजपदस्ति, स्वार्थश्च स्वीयवृत्तिग्रहविशेष्य:-स्वं राजपदं तच्छक्तिग्रहो ' राजा राजपदशक्यः । इत्याकारकस्तद्विशेष्यो राजा तदर्थानि तः स्वार्थो राजपदार्थः स च राजपदशक्तिग्रहविशेष्य इत्यर्थकरणादेव । " " शरैः शातितपत्रश्चैत्रस्य दासभार्येत्यादौ न समस्यमानशातितदासपदादेः सापेक्षता तदर्थे कदेशशातनदासत्वादाव शरकरणकत्वचत्रनिरूपितत्वादीनामन्वयादिति मूलम्-तत्यपदं समासाऽघटकं तृतीयापदं तदर्थः शरकरण. करवं तदन्वितस्वार्थः शातितपदशक्तिग्रहविशेष्यं शातनकर्म पत्रादिकं न भवति किं तु शातितपदार्थैकदेशशातनक्रियैव भवति शरकरणकत्ववती या शासन क्रिया तत्कर्म पत्रं यस्येत्यर्थात् । एवम् ' चैत्रस्य दासभर्या ' इत्यत्र तत्पदं समासाऽघटक चैत्रस्येति षष्टीपदं तदर्थों निरूपितत्वं तदन्वितः स्वार्थो दासपदशक्तिमहविशेष्यो दासो न भवति कि तु दासपदार्थैकदेशः सेवारूपचैत्रनिरूपित्तत्ववदासत्वं तद्वती भार्येत्यर्थात. तेन न समस्यमानशातितदासपदादः समासाऽघटकशरितिचैत्रस्येतिपदसापेक्षत्वं येनाऽसमर्थत्वात् समासो न स्यादित्यर्थः ।। इति । प्रकारतावादी परिहरति-- तदसदिति, यदा 'राजपुरुषः' इत्यत्र कस्य चिट् राजपदस्य राजसंबन्धिनि स्वारसिकलक्षणाग्रहो भवति तदा तादृशसमभिव्याहारज्ञानादेः राजपदाव्यवहितो. 'तरपुरुषपदसमभिव्याहारज्ञानस्य तथाविधशाब्दबोधजनकतायाः= 'राजसंबन्ध्यभिन्नः पुरुषः । इति बोधजनकताया उभयमतक्लप्तत्वात् तत्र-राजसंबन्धिनि राजयदस्य निरूढलक्षणास्वीकारे गौरवाभावात्- स्वारसिकलक्षणास्वीकारस्य गले पतितत्त्वादित्यर्थः । उक्तमेव विशदयतियत्रेति । तत्र-स्वारसिकलक्षणाग्रहस्थले । तादृशबोधस्य 'राजसंबन्ध्यभिन्नः पुरुषः । इति बोधस्य । तादृशसमभिव्याहारज्ञानस्य-राजपदाव्यवहितोत्तरपुरुषपदसममिव्याहारज्ञानस्य । तयैव= लक्षणयैव । सर्वत्र' दधि पश्य ' इत्यत्रेव 'राजपुरुषः । इत्यादौ लुप्तविभक्तिकल्पने मानाभावात्, युक्त्यभावाचेत्यर्थः । "Aho Shrutgyanam" Page #117 -------------------------------------------------------------------------- ________________ भेदान्वयवादः ] व्युत्पत्तिवादः। (१०५) न च स्वारसिकलक्षणाग्रहस्थले तत्र तादृशान्वयत्रोधस्य भयवादितिद्वत्वेपि निरूढलक्षणामत संबन्धितात्पर्यस्यानादित्वकल्पनागोरवम्. अनादितात्पयविषयी. भूतार्थतिष्ठलगाया एव निरूढलक्षणात्वादिति वाच्यम्, 'राजगुरुषः' इत्यादिवाक्यजन्यशाब्दबोधात् पूर्व नियमतो लुप्तविभक्तिस्मरणकल्पनापेक्षया तात्पर्य स्थाऽनादित्वकल्पनायां गौरवावरहादिति । __न चैवम्- 'दधि पश्यति' इत्यादावपि दध्यादिपदस्य दधिकर्मकादी लक्षणां स्वीकृत्य धात्वर्थन समं तस्याऽभेदान्वयबोधोपपादनसंभवात् तत्राये लुप्तविभक्तिस्मरणकल्पनमनुचितामति वाच्यम् , दध्यादिपदस्य दधिकर्मकादी लक्षणायहदशायामापे तस्य द्वितीयेतरविभक्त्यन्तत्वभ्रमदशायःम् 'दधिकर्नकः पश्यति' 'दधिकर्मकेण पश्यति' इत्यादाविवोक्तस्थलेपि दधिकर्मकदर्शनान्वयबोधानुदयात् । भवन्मते 'दधिकर्मकः पश्यति ' इत्यत्र 'दधि पश्य त ' इतिस्थलीयदधिपदोत्तरपश्यतिपदत्वरूपाकाङ्क्षाज्ञानादिघटितसामग्रोसत्त्वाद् दधिर्भकदर्श नन्वऽनादितात्पर्यवती टक्षणा हि निरूढलक्षणेत्युच्यते ' राजपुरुषः । इत्यत्र च निरूढलक्षणास्वीकारे राजसंबन्धिनि राजपदस्यानादितात्पर्यकल्पनेन किं वा तात्पर्यस्यानादित्य कल्पनेन गौरव स्यात्. स्वारसिकलक्षगास्थले तु तात्पर्यस्यानादित्वकल्पना नास्तीति गौरवाभावात् स्वारसिकलक्षणादृष्टान्तेन निरूढलक्षणास्वीकारो नोचित इत्याशझ्याह-- न चेति । परिहारहेतुमाहराजेति, 'राजपुरुषः । इत्यादौ राजसंबन्धिनि राजपदस्याऽनादितात्पर्यकल्पना त्वकदैव कर्तव्या न वारं वारं लुप्तविभक्तिस्मरणं तु प्रतिवाक्यश्रवणं कर्तव्यमिति लुप्तविभक्तिस्मरणकल्पनायामेवाधिक गौरवमित्यर्थः । ननु यदि 'राजपुरुषः ' इत्यादी लक्षणां स्वीकृत्योक्तरीत्या लुप्तविभक्तिस्मरणं न स्वीक्रियते तदा 'दधि पश्यति' इत्यादावपि लुप्तविभक्तिस्मरणं न कर्तव्यं किं तु दध्यादिपदस्य दधिकर्मकादौ लक्षणा स्वीकर्तव्या तस्य दधिकर्मकस्य धात्वर्थेन दर्शनेन सह — दधिकर्मकं दर्शनम् । इत्येवमभेदान्वयस्य संभवेनाभेदान्वयबोधसंभवादित्याशङ्क्याह- न चेति । परिहारहेतुमाहदध्यादीति । तस्य दधिरदस्य । ' दधि पश्यति ' इत्यत्र दधिपदस्य दधिकर्मके लक्षणाग्रहदशायामपि यदा कस्यचित् दधीतिपदे प्रथमाविभक्त्यन्तत्वस्य तृतीयाविभक्त्यन्तत्वस्य वा भ्रमो जायते तदा दधिकर्मकस्य धात्वर्थेनाऽभेदान्वयबोधासंभवात् ' दधिकर्मकः पश्यति' 'दधिकर्मकेण पश्यति । इत्येव बोधो भवति न त्वमेदान्वयबोधस्तथोक्तस्थलेपि- 'दधि पश्यति ' इत्यत्र दधिपदे द्वितीयेतरविभक्त्यन्तत्वभ्रमाभावदशायामप्यऽभेदसंबन्धेन दधिकर्मकदर्शनान्वयबोधो न संभवति विनिगमनाविरहादिति हेतोरभेदान्वयबोधं प्रति द्वितीयान्तदधिपदोत्तरपश्यतिपदसमभिव्याहारस्य कारणत्वं वक्तव्यं तथा च लुप्तविभक्तिस्मरणमावश्यकमेव । एतदेवोपपादयति दोषान्तरं प्रदर्शयन्-भवन्मत इति । किं च भवन्मते लुप्तविभक्तिस्मरणास्वीकारे ह्यऽमेदान्वयबोधं प्रति द्वितीया "Aho Shrutgyanam' Page #118 -------------------------------------------------------------------------- ________________ (१०६) सादर्श: [ प्रथमाकारकेनान्वयस्यापत्तद्धितीयान्तदध्यादिपदत्वावच्छिन्नधर्मिकतादृशधात्वादिसमभिन्याहारज्ञानस्य तादृशान्वयबोधे हेतुताया आवश्यकत्वात् , 'दधि पश्यति' इत्यादौ लप्तद्वितीयानुसंधानस्यावश्यकत्वात् ।। राजसंबन्धिपुरुषाद्यन्वयबोधे च राजादिपदाऽव्यवहितोत्तरपुरुषादिपदत्वप्रकारकज्ञानस्य हेतुतायाः स्वारसिकलक्षणाग्रहस्थलानुरोधेनावश्यकल्पनीयतया 'राजपुरुषः' इत्यादौ राजादिपदस्य तृतीयाधन्तत्वभ्रमदशायां राजसंबन्धिपुरुपाद्यन्वयबोधापत्त्यऽसंभवात् तृतीयादिविभक्त्या व्यवधानात् । दधि पश्यति' इत्यादौ दधिपदाव्यवहितोत्तरत्वप्रकारकधातुपदज्ञानस्य हेतुताया अक्लसत्वात् । 'पश्यति दधि ' 'पश्यति चैत्रो दधि' इत्यादावपि दधिकर्मकदर्शनान्वयबोधात् वादृशज्ञानहेतुताया अशक्यकल्पनीयत्वाच्चेति । न्सदधिपदोत्तरपश्यतिपदसमभिव्याहारज्ञानस्य तु हेतुता न वक्तुं शक्यते लुप्तद्वितीयानुसंधानापत्तेः, तस्मादऽभेदान्वयबोधं प्रति दधिपदोत्तरपश्यतिपदसमभिव्याहारज्ञानस्य कारणत्वं वक्तव्यं तत्तु यथा ' दधि पश्यति' इत्यत्रास्ति तथा ' दधिकर्मकः पश्यति । इत्यत्राप्यस्त्येवेति 'दधिकर्मकः पश्यति ' इत्यत्राप्यभेदान्चयापत्तिः प्राप्ता तद्वारणाय द्वितीयान्तदधिपदोत्तरपश्यतिपदसम-- भिन्याहारज्ञानस्याऽभेदान्वयबोधं प्रति कारणत्वं वक्तव्यं तथा च ' दधि पश्यति' इत्यादौ लुप्तद्वितीयादिस्मरणं प्राप्तमेवेत्यर्थः । तादृशान्वयबोधे-अभेदान्वयबोधे । __ ननु ' दधि पश्यति ' इत्यत्रेय ' राजपुरुषः । इत्यत्रापि लुप्तविभक्तिस्मरणं कथं न स्वीक्रियते ? इत्याशङ्कय ' राजपुरुषः । इत्यस्य वैषम्यमुपपादयति- राजसंबन्धीति, राजपदस्य राजसंबन्धिनि स्वारसिकलक्षणाग्रहस्थलानुरोधेन 'राजपुरुषः' इत्यत्र राजसंबन्धिपुरुषयोरमेदान्वयबोध प्रति राजपदाव्यवहितोत्तरपुरुषपदसमभिव्याहारज्ञानस्य कारणत्वमस्तीति तस्य 'राजपुरुषः । इत्यत्र सत्त्वादऽभेदान्वयबोधो जायते, 'राजपुरुषः ' इत्यत्र राजपदस्य तृती. याद्यन्तत्वभ्रमदशायां च भ्रमविषयीभूततृतीयादीनां राजपदाने स्मरणेन तेन तृतीयादिना व्यवधानात् राजपदाव्यवहितोत्तरपुरुषपदसममिव्याहारज्ञानस्याभावादऽमेदान्वयबोधापत्तिर्नास्तीति नातिप्रसङ्गो न वा 'राजपुरुषः । इत्यत्र लुप्तविभक्तिस्मरणापेक्षेत्यर्थः । नन्वेवम् 'दधि पश्यति' इत्यादावस्यभेदान्वयबोधं प्रति दधिपदाव्यवहितोत्तरपश्यतिपदसमभिन्याहारस्य कारणत्वं वक्ष्याम इति 'दधिकर्मकः पश्यति । इत्यत्र मध्ये कर्मकपदेन व्यवधानात्कारणामावान्नामेदान्वयबोधापत्तिरित्याशङ्कयाह- दधि पश्यतीति । 'पश्यति दधि । 'पश्यति चत्रो दधि ' इत्यादी दधिपदाव्यवहितोत्तरपश्यतिपदसमभिव्याहाराभावेण्यऽभेदान्वयबोधस्वीकारादभेदान्वयबोधं प्रति तादृशज्ञानहेतुताया: दधिपदाव्यवहितोत्तरपश्यतिपदसमभिव्याहारज्ञानस्य हेतुत्वं नैव वक्तुं शक्यते इति द्वितीयान्तदधिपदसमभिव्याहारसहकृतपश्यतिपदसमभिव्याहारज्ञानस्य हेतुत्वं वक्तव्यं "Aho Shrutgyanam" Page #119 -------------------------------------------------------------------------- ________________ भेदान्वयवादः ] व्युत्पत्तिवादः । ( १०७ ) ' तण्डुलं पचति ' इत्यादौ, तण्डुलादिपदस्यैव तण्डुलादिकर्मके लक्षणा विभक्तिस्तु साधुत्वार्था । एवम्- राज्ञः पुरुषः ' इत्यादावपि राजादिपदस्य संबन्ध्यादौ लक्षणा विभक्तिः साधुत्वार्था । तत्तद्विभक्त्यन्तसमभिव्याहारस्य तत्तल्लाक्षणिकार्थबोधनियामकत्वान्नातिप्रसङ्गः । विभक्तेरेवं प्रकृत्यर्थविशेषितस्वायें लक्षणेति तु न संभवति - विभक्तेः कुत्रापि शक्तेरक्लृप्ततया तत्र शक्यसंबन्धरूपलक्षणाया असंभवात् । ' तण्डुलः प्रमेयः' इत्यादौ विभक्तयर्थाऽमिश्रितस्यैव प्रकृत्यर्थस्य भानात् प्रकृतिशक्तेः स्वार्थे क्लृप्ततया तत्र लक्षणासंभवादिति तु चिन्तनीयम् । ८ तथा च लुप्तद्वितीयादिस्मरणमावश्यक मेवेत्यसमासस्थले लुप्तविभक्तिस्मरणं भवति समासस्थले च न भवतीति स्वीकार्यमित्यर्थः । " पुनः पूर्वपक्षिमतमनुवदति-- तण्डुलमिति । यदुच्यते- 'तण्डुलं पचति' इत्यत्र तण्डुलपदस्य तण्डुलकर्मके लक्षणया मेदान्वयबोधः संभवति 'तण्डुलकर्मकः पाकः' इति, विभक्तिस्तु साधुत्वार्था निरर्थकैवेति तच्चिन्तनीयम् । तथा यदुच्यते यथा - 'राजपुरुषः' इत्यत्र राजपदस्य राजसंबविनि लक्षणां स्वीकृत्याभेदान्वयबोधः स्वीक्रियते तथा राज्ञः पुरुषः ' इत्यत्रापि राजपदस्य राजसंबन्धिनि लक्षणां स्वीकृत्याभेदान्वयबोध एव स्वीकार्यो न तु ङस्पदोपस्थितस्वत्वद्वारा मेदान्वयः - विभक्तेः साधुत्वार्थत्वेन निरर्थकत्वादिति तदपि चिन्तनीयमित्यन्वयः । नन्वेवं तण्डुलादिपदस्यैव तण्डुलकर्मके लक्षणास्वीकारे विभक्तेश्व निरर्थकत्व स्वीकारे ' तण्डुलः पचति । इत्यादावपि तण्डुलादिपदस्य तण्डुलकर्मके लक्षणापत्त्या मेदान्वयबोधापत्तिः स्या विश्याशङ्कयाह- तत्तद्विभत्तयन्तेति विभक्तेर्निरर्थकत्वेपि स्वरूपेण स्थितिसंभवाद् द्वितीयातण्डुलपदस्यैव तण्डुलकर्मके लक्षणास्वीकारात् तण्डुलकर्मकाभेदाश्वयबोधं प्रति द्वितीयासमभिव्याहारज्ञानस्य कारणत्वान्नातिप्रसङ्गः = ' तण्डुलः पचति । इत्यत्र नाभेदान्वयबोधापत्तिरित्यर्थः । ननु प्रकृतेः किमर्थं लक्षणा स्वीक्रियते ? विभक्तेरेव प्रकृत्यर्थविशेषितस्वार्थे= तण्डुलकर्मकादो लक्षणा किं न स्यादित्याशङ्कयाह - विभक्तेरेवेति । परिहारहेतुमाह - विभक्तेरिति, यदि विभक्तेः कचिदप्यर्थे शक्तिः स्यात्तदा विभक्तिशक्यस्य सत्त्वात् शक्यसंबन्धरूपा लक्षणापि कचिदर्थे विभक्तेः स्यात् नं चैवमस्ति - विभक्तेः कचिदप्यर्थे शक्तेरक्लृप्तः स्यात् । तत्र=विभक्तौ । ननु ' तण्डुलं पचति ' इत्यत्र विभक्तिप्रकृत्योरुभयोरपि सत्त्वात् तण्डुलकर्मके प्रकृतिभूततण्डुलपदस्यैव लक्षणा न विभक्तेरित्यत्र विनिगमनाविरह इत्याशङ्क्य विनिगमनामाह - तण्डुल इति, तण्डुलः प्रमेयः ' इत्यत्र तव मते प्रथमायाः प्रातिपदिकमात्रार्थकत्वात् तदर्थस्तु कर्मत्वादिः कोपि न संभवति विभक्त्यर्थामिश्रितस्तण्डुलपदार्थस्तु भासते एवेति तत्र प्रकृतिशक्तेरवश्यं स्वीकर्तव्यत्वात् प्रकृतेरेव तण्डुलकर्मकादो लक्षणास्वीकार उचितो न विभक्तेरिस्यर्थः । तत्र=प्रकृतौ । स्वार्थे तण्डुलपदार्थादौ । " "Aho Shrutgyanam" Page #120 -------------------------------------------------------------------------- ________________ (१०८) [ प्रथमाकारके - राजादिपदस्य राजसंबन्ध्यादौ शक्तत्वभ्रमदशायामिव तदर्थलक्षणाग्रहदशायामापे 'राजसंबन्धिसंबन्धी पुरुषः' इत्याद्यन्वयबोधस्य सर्वजनानामनुभवसिद्धत्वात् । 'पवति चैत्रः' इत्यादावपि कृतिसंबन्धेन पाकादेश्चैत्राद्यंशे विशेषणत्वोपगमे 'चैत्रों न पचति' इत्यादावन्वयबोधानुपपतिर्द्रष्टव्या - कृतिसंबन्धस्यापि वृत्त्यनियाँमकतया तत्संबन्धावच्छिन्नप्रतियोगिताकाभावस्याप्रसिद्ध्या तद्बोधनासंभवात् । अथैवमपि 'चैत्रो जानाति' इत्यादौ चैत्रायंशे ज्ञानादेराश्रयता संबन्धेनान्वय सादर्श: " ८ यत् ( ८३ पृ.) " अथैतादृशरोत्यापत्तिवारणेपि " इत्यादिना C राज्ञः पुरुषः ' इत्यत्र 'विभक्तेः संबन्धवाचकत्वं न स्वीकार्यमित्युक्तं तत् परिहरति- राजादिपदस्येति, राज्ञः पुरुषः " . इत्यत्र राजपदस्य राजनि वस्तुतः शक्तत्वेपि यदा राजसंबन्धिनि शक्तत्वभ्रमः स्यात्तदा यथा 'राजसंबन्धिसंबन्धीपुरुषः' इत्येव बोधो भवति तथा राजपदस्य राजसंबन्धिनि लक्षणाग्रहदशायामपि 'राजसंन्यसंबन्धी ( राजसंबन्धिसंबन्धवान् ) पुरुषः 'इत्यन्वयबोधः सर्वानुभवसिद्ध एव तत्र राजपदस्य राजसंबन्धी अर्थः षष्ट्या एव संबन्धरूपोर्थो भासते इति न विभक्तेर्निरर्थकत्वमित्यर्थः । यत् ( ८८ पृ.) एवम् ' पचति चैत्र: ' इत्यादावपि कृतिसंबन्धेन पाकादेश्चैत्राद्यंशेऽन्वयबोधस्वीकार उचितः " इत्युक्तम्, तत्परिहरति- पचतीति । नञऽसत्त्वे य एव संबन्धः प्रकारतावच्छेदको भवति नञ्सत्त्वे स एव संबन्धः प्रतियोगितावच्छेदको भवतीति " प्रतियोभावान्वयौ तुल्ययोगक्षेमौ ” इत्यत्र व्युत्पादितं तथा च ८ पचति चैत्रः' इत्यत्र कृतिसंब“न्धेन पाकस्य चैत्रे प्रकारत्वोपगमे ' चैत्रो न पचति ' इति नञ्घटितवाक्यस्थले शाब्दबोधानुपपत्तिः स्याद् यतः ' चैत्रो न पचति ' इत्यत्र प्रतियोगितावच्छेदक संबन्धत्वं कृते , 看 न संभवति कृतिरूपसंबन्धस्य वृत्त्य नियामकतया प्रतियोगितावच्छेदकसंबन्धत्वासंभवात्, तत्संबन्धावच्छिन्न=कृतिसंबन्धावच्छिन्नप्रतियोगिताका भावस्याप्रसिद्धत्वेन नत्रा तद्बोधनासंभवातू = कृतिसंबन्धावच्छिन्नप्रतियोगिताकाभावबोधनासंभवादिति न पचति चैत्रः' इत्यत्र कृतिसंबन्धेन पाकादेश्चैत्रादावन्वयः संभवतीत्यर्थः किं तु पाकस्यानुकूलत्वसंबन्धेन वा निरूपितसंबन्धेन वा कृतान्त्रयस्तादृश कृतेश्चाश्रयतासंबन्धेन चैत्रादावन्वयः स्वीकार्यः, आश्रयतासंबन्धस्य च वृत्तिनियामकत्वेन प्रतियोगितावच्छेदकत्वात् ' चैत्रो न पचति ' इत्यत्रान्वयबोधानु-पपत्तिर्नास्ति - आश्रयतासंबन्धेन कृत्यभावस्य प्रत्येतुं शक्यत्वात् । आख्यातस्यापि कृत्यर्थकत्वानाऽऽनर्थक्यमित्यर्थः । 66 C नन्वेवमपि=कृति संबन्धस्य वृत्त्यनियामकतया • न पचति चैत्रः । इत्यत्र शाब्दबोधानुपपयाssख्यातस्य कृत्यर्थकतया सार्थक्योपपादनेपि आश्रयतासंबन्धस्य वृत्तिनियामकत्वेन चैत्रो न जानाति ' इत्यादौ ' आश्रयतासंबन्धावच्छिन्नप्रतियोगिताकज्ञानाभाववांश्चैत्रः ' इतिबोधसंभवादाख्यातस्याश्रयत्वार्थकत्वकल्पनं निर्युक्तिकमित्याशङ्कते - अथैवमपीति । ११५ इति चेदित्यन्तं "Aho Shrutgyanam" Page #121 -------------------------------------------------------------------------- ________________ भेदान्वयवादः ] व्युत्पत्तिवादः । (१०९) बोधोपमै क्षतिविरहः । आश्रयतासंवन्वस्याभावप्रतियोगितावच्छेदकतया 'न जानाति चैत्रः' इत्यादावाश्रयतासंबन्धावच्छिन्नप्रतियोगिताकज्ञानाद्यभावस्यैव भानसंभवात् । तथा च तत्राख्यातस्याश्रयत्वार्थकत्वं निर्युक्तिकम् । न च धात्वर्यज्ञानादेराश्रयतः संबन्धेन चैत्रादिरूपप्रातिपदिकार्थे साक्षात् प्रकारत्वोपराने 'ज्ञानं चैत्रः' इत्यादावपि तथान्वयबोधापत्तिरिति वाच्यम्, ताहशान्वयबोधे आख्यातान्तधातुसमभिव्याहारज्ञानस्य हेतुत्वात् । भवतोप्याश्रयaartaara meशसमभिव्याहारज्ञानस्य हेतुताया आवश्यकत्वात् । यतु - 'पचति चैत्र:' इत्यादौ 'पाककृतिमांचैत्रः ' इत्याकारकाख्यातार्थ- शङ्काप्रयः । क्षतिविरहः = ' न जानाति चैत्रः इत्यत्रान्वयबोधानुपपत्तिर्नास्ति-आश्रयतासंबन्धेन चैत्रे ज्ञानाभावस्य प्रत्येतुं शक्यत्वात्, आश्रयतासंबन्धस्य वृत्तिनियामकत्वेनाभावीयप्रतियोगितावच्छेदकसंबन्धत्वोपपत्तेः । तत्र = ' चैत्रो जानाति इत्यादौ । आश्रयतायाः संसर्गत्वाश्रयणादितिभावः । • ननु यदि ' चैत्रो जानाति ' इत्यत्र धात्वर्थज्ञानस्य चैत्रे आश्रयतासंवन्धेन साक्षादेवान्वयः स्थात्तदा ज्ञानं चैत्रः ' इत्यत्रापि तथान्वयबोधापत्ति. = संसर्गविधयाऽऽकाङ्क्षादिवटेन मासमाज्ञानस्य चैत्रे साक्षादेवान्त्रयः स्यान्न चैतदिष्टमित्याख्यातस्याश्रयत्वार्थकत्वं स्वीकार्य तथा चाश्रयत्वोपस्थापकस्याख्यातस्य ' ज्ञानं चैत्र: ' इत्यत्राभावादाश्रयतासंबन्धेन चैत्रे धात्वर्यज्ञानस्यान्चयापत्तिर्नास्तीत्याशङ्क्याह- न चेति । परिहारहेतुमाह - तादृशेति । तादृशान्त्रययीधे=आश्रयतासंबन्धे यबोधे आख्यातान्तधातुपदसमभिव्याहारज्ञानस्य कारणत्वात् L ज्ञानं चैत्र: ' इत्यत्र चाख्यातान्तधातुपदसमभिव्याहाराभावान्नाश्रयतासंबन्धेन चैत्रे धात्वर्थज्ञानस्यान्ययापत्तिरित्यर्थः । भवतः = प्रकारतावादिनोप्याऽऽश्रयताप्रकारकबोधे-'ज्ञानाश्रयत्ववांश्चैत्रः इति बोधे तादृशाभिव्याहारज्ञानस्य = जानाति चैत्र: ' इत्याकारकाख्यातैकवचनान्तज्ञायातुसमभिव्याहृतप्रथमैकवचनान्त चैत्रपदज्ञानस्य हेतुताया आवश्यकत्वात्, अन्यथा 'ज्ञानं 'चैत्रः' इत्यत्राश्रयतोपस्थापकाख्याताभावेनाश्रयतासंवन्धप्रकारकान्वयवोवस्य वारणे कृतेपि 'जानन्ति चैत्रः इत्यत्राश्रयतायकारकः ज्ञानाश्रयत्व श्वित्रः ' इत्यन्वयबोधापत्तिः स्यादेवाश्रयतोपस्या करणावातस्य सत्त्वात् तद्वारणार्थं तवाप्युक्तरीत्योक्तसमभिव्याहारज्ञानस्य हेतुत्वस्वीकारे आवश्यके आख्यातस्याश्रयत्वार्थकत्वकल्पनं निर्युक्तिकमेव उक्तसमभिव्याहारज्ञानेनैव कारणीभूतेन सर्वाऽनिष्टनिवारण संभवादित्यर्थः । -- C 6 " पुनरपि जानाति ' इत्यादावाख्यातस्य सार्थकतामुपपादयति- यत्त्विति ( तदप्यरादिवन्तः) । ' पचति चैत्र: ' इतिवाक्यात् ' पाककृतिमचित्र:' इत्याकारकः शाब्दबोधो जायते अत्र चैत्रे कृतिः प्रकारतया मासने प्रकारतया भानं च पदेनोपस्थितस्यैव महतीत्यवारयाते "Aho Shrutgyanam" Page #122 -------------------------------------------------------------------------- ________________ ( ११० ) सादर्श: [ प्रथमाकार के प्रकार कशाब्दबोधोत्पत्त्या तत्राख्यातजन्य कृत्युपस्थितेर्हेतुत्वकल्पनमावश्यकम्, तया च तत्तदर्थविशेषान् निवेश्यात्मनिष्ठप्रत्यासत्या पदार्थोपस्थितेर्हेतुत्वकल्पने शक्यलक्ष्य सहस्त्रार्थभेदेनाख्यातजन्योपस्थितेः कारणता बाहुल्यमित्यर्थविशेषाननिवेश्य धात्वर्थप्रकार कान्वयबोधं प्रति प्रत्ययजन्योपस्थितेः समानविशेष्यतामत्यासत्यैव हेतुत्वमुपेयते तथा च तादृशकारणबाधेन चैत्रादेर्धात्वर्थज्ञानविशेष्यतया चैत्रो जानाति ' इत्यादौ भानं न संभवति । • 'पचति इत्यत्राश्रयता 'कृतेरुपस्थितिः स्वीकार्या कृत्युपस्थितेश्च शाब्दबोधं प्रति हेतुत्वमत्रश्यं स्वीकार्यमन्यथात्र कृते: प्रकारत्वं न स्यात्, तथा च शाब्दबोधोपस्थित्यो स्थलमेदेन भिन्नत्वाद् आत्मनिष्ठप्रत्यासत्त्या हेतुत्वे हि ' पचति ' इत्यत्र पाककृत्युपस्थितित्वेन कारणता ' जानाति ' इत्यत्राश्रयत्वोपस्थितिस्पेनकारणता ' नश्यति' इत्यत्र नाशप्रतियोगित्वोपस्थितित्वेन कारणतेत्येवं तत्तदर्थविशेष (पाककृत्यादि प्रवेशः स्यादिति तत्तदर्थविशेषान्निवेश्यात्मनिष्ठप्रत्यासत्त्या पदार्थोपस्थितेर्हेतुत्वे इत्यादावाख्यातजन्यकृत्याद्युपस्थितेर्हेतुत्वं प्राप्तं तत्राख्यातस्याप्यनेके शक्यार्था लक्ष्यार्था भवन्तीति शक्यलक्ष्य सहस्रा (अनेका) र्थभेदेन तत्तद्विषयकाख्यातजन्योपस्थितेरपि भेदात् कारणतावाहुल्यम्===अनन्तकार्यकारणभावकल्पनेन गौरवं स्याद् यथा - ' पचति इत्यत्र पाककृतिप्रकार कशाब्दबोधं प्रत्याऽऽख्यातजन्यकृत्युपस्थितेः कारणत्वम् ' जानाति का र कशाब्दबोधं प्रत्याऽऽख्यातजन्याश्रयत्वोपस्थितेः कारणत्वमित्याऽऽत्मनिष्ठप्रत्यासत्त्या न कारणत्वमुपस्थिते: स्वीकार्य किं तु विषयनिष्ठप्रत्यासत्त्या तथा चोक्तरीत्याऽख्यातोपस्थिताख्यातार्थकृत्यादिप्रवेशस्यापेक्षाभावेन कारणताबाहुल्यं न स्यात् तथाचार्थविशेषानऽ निवेश्य ' धात्वर्थकरकान्वयबोधं प्रति समानविशेष्यताप्रत्यासत्त्या प्रत्ययजन्योपस्थितेः कारणत्वम् ' इत्येवमनु · गत एकः कार्यकारणभाव: स्त्रीक्रियते 'पचति' इत्यादौ च अनुकूलतासंबन्धेन पाकवती कृतिः : इत्येवं धात्वर्य प्रकारकाकृतिविशेष्यक एव शाब्दबोधः स्वीक्रियते. अत्र च धात्वर्थः । पाकः कृतौ प्रकारः कृतौ च विशेष्यता वर्तते तादृशकृतिनिष्ठविशेष्यता संबन्धेन शाब्दबोध आख्यातरूपप्रत्ययजन्यकृतिविषयको पस्थितिश्च कृतौ वर्तते एव कृतेः प्रत्ययेनोपस्थितत्वाद्विशेष्यत्वाचेत्यर्थः । तथा च धात्वर्थप्रकारकान्वयबोधं प्रति प्रत्ययजन्योपस्थितेः कारणत्वस्वीकारे च तादृश'कारणबाधेन = 'चैत्रो जानाति' इत्यत्र चैत्रस्य प्रत्ययेनोपस्थित्यभावात् चैत्रे समान विशेष्यता संबन्धेनोपस्थित्यभावेन धात्वर्थज्ञानप्रकारक चैत्र विशेष्यकबोधासंभवात् चैत्रादेर्धात्वर्थज्ञानविशेष्यतया भा न संभवतीति जानाति ' इत्यत्राख्यातस्याश्रयत्वार्थकत्वं स्वीकार्यम् अथ च ' पचति इत्यत्र यथा ' अनुकूलतासंबन्धेन पाकवती कृतिः ' इत्येवमाख्यातार्थकृतिविशेष्यकबोधो जायते तथा “चैत्रो जानाति ' इत्यत्रापि ' स्वरूपसंबन्धेन चत्रनिष्ठा निरूपितत्वसंबन्धेन ज्ञानवत्याऽऽश्रयता' इत्येवमाख्यातार्थाश्रयता विशेष्यकधात्वर्थप्रकारकः शाब्दबोधः स्वीकार्य इति 'पचति । इत्यादाविव ' जानाति इत्यादावप्याख्यातस्य सार्थकत्वं प्राप्तमेवेत्यर्थः । अत्र चाश्रयताया विशे C "Aho Shrutgyanam" Page #123 -------------------------------------------------------------------------- ________________ मेदान्वपत्रादः ] व्युत्पत्तिवादः । ( १११ ) यदि च धातुत्वप्रत्ययत्वादीनामनुगतानां दुर्निर्वचतया नैतादृशानुगत कार्यकारणभावकल्पनं संभवतीति मन्यते ? तदापि यत्र ज्ञाधातोरेव पाकादौ लक्षणा तत्र ' जानाति ' इत्यादिवाक्यात् पाककृत्यादिप्रकारकान्वयबोधोत्पत्त्या ज्ञाधात्वर्थप्रकारकान्वयबोधे तदव्यवहितोत्तरतिप्त्वादिप्रकारकज्ञानजन्योपस्थितेः समानविशेष्यत्वप्रत्यासत्त्या हेतुतायास्तत्र कल्पनीयतया तादृशकारणबाधात् 'चैत्रो जानाति ' इत्यादौ चैत्रादेर्ज्ञानविशेष्यतया भानानुपपत्तिर्दुवरैिवेति । *यत्वेन विशेष्यता संबन्धेनाख्यातरूपप्रत्ययजन्योपस्थितिरप्याश्रयतायां वर्तत ( आश्रयताया आख्यातप्रत्ययेनोपस्थितत्वात् ) शाब्दबोधोपि वर्तते एव शाब्दबोधेप्याश्रयताया एव विशेव्यत्यात्. ) इत्येषैव समानविशेष्यताप्रत्यासत्तिः धात्वर्थो ज्ञानं चाश्रयतायामेव प्रकार इति ' धात्वर्थप्रकारकान्वयबोधं प्रति प्रत्ययजन्योपस्थितेः समानविशेष्यतासंबन्धेन कारणत्वम् ' इति कार्यकारणभावोप्युपपन्नः, आख्यातस्य ' जानाति ' इत्यादी सार्थकत्वमप्युपपन्नमित्यर्थः । यदि चेति - ननु यदि धातुत्वप्रत्ययत्वादीनामनुगतत्वेन निर्वचनमुपपद्येत तदा 'धात्वर्थप्र कारकान्वयबोधं प्रति प्रत्ययजन्योपस्थितेः कारणत्वम् ' इति कार्यकारणभावोप्युपपद्येत नैवमस्तीति नोक्त कार्यकारणभावकल्पनं संभवतीति. ( यदि मन्यते ? ) उक्तकार्यकारणभावानुपपत्त्या धात्वप्रकारकान्वयata प्रत्ययजन्योपस्थितेरकारणत्वात् ' जानाति इत्यत्राख्यातप्रत्ययेनाश्रयतोपस्थितेरपेक्षाभावादनुपस्थितस्य च प्रकारत्वविशेष्यत्वे न संभवत इत्याश्रयताविशेष्यकशाब्दबोधं त्यक्त्वा ' चैत्रो जानाति ' इत्यत्र ' माश्रयतासंबन्धेन ज्ञानवश्चित्र ' इत्येवं चैत्रविशेष्यक एव बोधः स्वीकार्यो न स्वाश्रयताविशेष्यक इत्युक्तबोधे आश्रयतायाः संसर्गत्वेन मानेन प्रकारतया विशे यावा मानाभावात् तत्राख्यातस्य वृत्तिकल्पनं व्यर्थमेवेति ' जानाति ' इत्यादावाख्यातस्य निरर्थकत्वमेव : आश्रयतासंबन्धेन ज्ञानमश्चैित्रः ' इत्यत्राश्रयतायाः संसर्गमात्रत्वेन संसर्गस्याकाङ्क्षाबलेन मानसंभवादाख्यातेन तदुपस्थितेरपेक्षैव नास्ति येनात्राख्यातस्याश्रयतार्थकत्वं कल्पनीयं स्यादिति यदि मन्यते इत्यर्थः । एवमाक्षिप्य पुनरपि ' जानाति " इत्यादावाख्यातस्य सार्थक्यमुपपादयति- तदापीति । तदापि=धातुत्वप्रत्ययत्वादीनामननुगततया धात्वर्थप्रकारकान्वयबोधे प्रत्ययजन्योपस्थितेरका - रणत्वेपि यत्र ज्ञाधातोः पाके लक्षणा तत्र ' जानाति ' : इतिवाक्यात् अनुकूलता संबन्धेन पाकविशिष्टकृतिमांश्चैत्रः ' इत्येवं पाककृतिप्रकारकान्वयबोधोत्पत्त्या ज्ञाधात्वर्थप्रकारकान्वयबोधे= कृतिनिष्ठविशेष्यता निरूपितज्ञाधात्वर्थप्रकारताकान्वयबोधं प्रति ज्ञाधात्त्रऽन्यवहितोत्तरतिप्त्वादिप्रकारकतिबादिज्ञानजन्यतिबर्थ कृतिविशेष्यको पस्थितेः समानविशेष्यताप्रत्यासत्यास्तत्र लक्षणास्थळे देतुता कल्पनीया ज्ञाधातुत्व तिष्यादीनामनुगततया च नैतत्कार्यकारणभावकल्पने काचिदनुपपत्तिरित्यर्थः । तथा च-- ज्ञाधातुत्वतिप्त्वादीनामनुगततयोक्तलक्षणास्थले इव मुख्यार्थज्ञानपराधातुप्रयोगस्थलेपि ज्ञाधात्वर्थज्ञानप्रकारकान्वयबोधे ज्ञाधात्वव्यवहितोत्तर तिप्त्वादिप्रकारकतिवादिज्ञानजन्योपस्थिते: समान विशेष्यताप्रत्यासत्त्या हेतुत्वम् । इत्येवं कार्यकारणभावस्य C "Aho Shrutgyanam" “ L Page #124 -------------------------------------------------------------------------- ________________ (११२) सादर्श: [ प्रथमाकारकेतदप्यसत्- प्रत्य गतार्थविशेष्यकशान्दबोधे व्यभिचारवारणाय तादृशोपस्थितिवैशिष्टयस्य तादृशोपस्थितिजन्यतावच्छेदककोटावऽवश्यं निवेशनीयतया त. दनुत्तरशाब्दबोधे चैत्रादेर्शानादिभिशेष्यतया भाने तादृशकारणवावस्याकिंचित्क. रत्वात् तादृशानुपूर्वीघटकादिधातुजन्यज्ञानाद्युपस्थितिचैत्रादिरूपावशेष्योपस्थिसंभवेन स्वीकर्तव्यत्यातू चैत्रे च तादृशकारणबाधात् तिपूजन्योपस्थितेरसत्वात् चत्रस्य तिबर्थवाभावात् चैत्रस्य ज्ञान वशेष्यतया मानानुपपत्तिस्तदवस्थेव. मुख्यार्थ प्रयोगस्थलेऽन्यादृशकार्यकारणभावाश्रयणे गौत्वात् । यतश्चोक्तरीत्या चैत्रे. विशेष्यतासंबन्धेन प्रत्यय( तिम् )जन्योपस्थितेरसत्त्वेन चैत्रस्य धात्वर्थनिष्टप्रकारतानिरूपितविशेष्यता न संभवति तिर्यस्य च संभवत्यातः 'जानाति । इत्यादानाख्यातस्याश्रयत्वार्थकत्वं स्त्रीकार्य तथा च ' जानाति' इत्यत्राख्यातेनाश्रयताया उपस्थितो तस्यामाश्रयतायां विशेग्यतासत्त्वेन तादृशविशेष्यतासंबन्धेनोपस्थितिरप्यस्ति शाब्दबोधोप्यतीत्युक्त कार्यकारणभावोप्युपपन्नः 'निरूपितरूसंबन्धेन ज्ञानवत्याश्रयता' इत्येवं धात्वर्थप्रकारकाख्यातार्थाश्रयताविशेष्यकश्च शाब्दबोधः स्वीकार्य इति ‘पचति ' इत्यादाविव ' जानाति , इत्यादायप्याख्यातस्य सार्थक्यं प्राप्तमति सर्व सुस्थमित्यर्थः ।। ___ आख्यातम्य निरर्थकत्वप्रतिपादनाय संसर्गतावादी 'जानाति ' इत्यादी धात्वर्थज्ञानप्रकारकचैत्रविशेष्यको प्रतिपिपादयषुरुक्तं परिहरति- तप्यसदिति । 'ज्ञाधात्वर्थप्रकारकान्ययबोधं प्रति ज्ञाधात्वव्यवहितोत्तरतिप्त्वादिप्रकारकज्ञानजन्योपस्थितेः समानविशेष्यताप्रत्यासत्या हेतुत्वम् । इत्येवमुक्तरीत्या सामान्यतः कार्यकारणभावो न संभवति- 'जानन् ज्ञाता ' इत्यादौ ज्ञाधात्वर्थज्ञानप्रकारकचैत्रविशेष्यको बोधो विशेष्यतासंबन्धेन शत्राद्यर्थे चैत्ररूपाश्रये जायते चैत्रस्य प्रत्ययार्थत्वेन विशेष्यत्वात् तत्र चैत्रे तिज्ञानजन्योपस्थितिस्तु नारयेव 'जानन् ' इत्यादौ तिबो ऽभावादिति व्यभिचारः प्राप्त इति तादृशव्यभिचारधारणाय तादृशोपस्थितिवैशिष्टयस्य ( कारणाव्यहितोत्तरत्वस्य ) तादृशोपस्थितिजन्यतावच्छेदककोटौ ( कार्यतावच्छेदककोटौ । निवेशः कर्तव्यो यथा- ज्ञाधातोः पाकादौ लक्षणास्थले 'आख्यातार्थकृत्युपस्थित्यव्यवहितोत्तरत्वविशिष्टबाधात्वर्थपाकादिप्रकारकशाब्दबोधत्वावच्छिन्नं प्रति ज्ञाधातूत्तरवर्तमानाख्यातजन्यकृत्युपस्थितिः कारणम् । इयेवं विशिष्य कार्यकारणभावो वक्तव्यत्तथा च 'जानन् ' इत्यादिवाक्यजन्यबोधे न व्यभिचार आख्यातार्यकृत्यु स्थित्युत्तरत्वाभावाद् आख्यातजन्यकृत्युपस्थितिजन्यवाभावाच्च, एवम् 'जानाति चैत्रः । इत्यत्र ' आश्रयतासंबन्धेन ज्ञानवांश्चत्रः । इत्याकार तदनुत्तरशाब्दबोधे= तिरज्ञानजन्यकृत्युपस्थित्यनुत्तरशाब्दबोधे चैत्रस्य ज्ञानविशेष्यतया माने तादृशकारणबाधस्प= शाधातूत्तरतिपक्षानजन्योपस्थितिरूपकारणबाधस्याऽमिचित्करत्वात- तिप्रज्ञानजन्योपस्थितेस्तिबर्थकृतिविशेष्यकशाब्दबोध प्रति कारणत्वेपि चत्रविशेष्यकशाब्दबोधं प्रति कारणत्वमेव नास्ति पेनात्र चैत्रस्य तिपोपस्थिर भावे झापालथज्ञाननियतया भानं न सात् किं तु सादृश= चत्रो जानाति ' इत्यानीपटवामाधाजन्य ज्ञानोपस्थिति रूपविशेप्योपस्थितिकोन्यताकनादिघटि "Aho Shrutgyanam" Page #125 -------------------------------------------------------------------------- ________________ भेदान्वयवादः ] व्युत्पत्तिवादः। ( ११३) तियोग्यताज्ञानादिघटितसामग्या आश्रयतासंसर्गकशाब्दबोधजनने बाधकाभावात् । न चैतन्मते आश्रयतासंबन्धेन ज्ञानादिप्रकारकशाब्दबोधे ताशयोग्यताज्ञानहेतुत्वान्तरकल्पनाधिक्यम् , आश्रयतासंबन्धेन ज्ञानविशिष्टचैत्रादितात्पर्यकात् तसामघ्या ' आश्रयतासंबन्धेन ज्ञानवांश्चैत्रः । इत्येवमाश्रयतासंसर्गकबोधो बाधकामावाजायते एव. अत्र च चैत्रादेोधात्वर्थज्ञानविशेष्यतया भानं भवत्येवेत्येवं चैत्रस्य धात्वर्थज्ञानविशेष्यतया मानसंभवेनाश्रयतायाः संसर्गतया भानसंभवे तत्राख्यातस्य वृत्तिकल्पनं व्यर्थमेव अन्यथाश्रयताया आख्यातार्थत्वे तदुपस्थितिकल्पनापत्या गौरवं स्यादिति 'जानाति' इत्यादावाख्यातं निरर्थकमेवेत्यर्थः । नन्चाख्यातस्याश्रयतार्यकत्ये आश्रयतायाश्च प्रकारत्वे यथा ज्ञाधातोः पाकादौ लक्षणादशायां ज्ञाधात्वर्थनिष्ठप्रकारतानिरूपितज्ञाधातूत्तरवर्तमानतिबर्थनिष्ठविशेष्यताकयोग्यताज्ञानस्य ज्ञाधात्वर्थप्रकारकशाब्दबोधं प्रति हेतुत्वमस्ति तथा तस्यैव योग्यताज्ञानस्य मुख्यार्थपरवाक्यजन्यशाब्दबोधेपि कारणत्वमस्ति, लक्षगास्थले ज्ञाधात्वर्थः पाकः तियर्थश्च कृतिः मुख्यार्थपरप्रयोगस्थले च धास्वों ज्ञानं तित्रर्यश्चाश्रयतेत्यन्यदेतत् तथोभयत्र कार्यकारणभायोप्येकविध एव- धात्वर्थप्रकारकतिबर्थविशेष्यककार्यकारणभावस्थाश्रयणात् । तव संसर्गतात्रादिनस्तु मते नैयं संभवति किं तु ज्ञाधातोः पाकादौ लक्षणादशायामाख्यातस्य कृत्यर्थकत्वाश्रयणेन तत्र ' जानाति ' इत्यत्राख्यातार्थकृतिप्रकारकयोग्यताज्ञानस्य 'पाकानुकूलकृतिमांश्चैत्रः । इतिशाब्दबोधे हेतुत्वम् , मुख्यार्थपरे ' जानाति ' इति प्रयोगे च 'आश्रयतासंबन्धेन ज्ञानवांश्चैत्रः' इत्याकारकाऽऽश्रयतासंबधेन ज्ञानप्रकारकशाब्दबोधे तादृश-आश्रयतासंबन्धेन ज्ञानप्रकारकयोग्यताज्ञानस्य हेतुत्यमाख्यातस्यात्र निरर्थकत्वाश्रयणाद् आश्रयतायाश्च संसर्गस्थाश्रयणादित्येकस्मिन्नेव जानाति' इतिप्रयोगस्थले द्विविधयोग्यताज्ञानस्य हेतुत्वापत्त्या तत्राश्रयतासंसर्गकयोग्यताज्ञानस्य यद्धेतुत्वकल्पनं तदधिकमित्याशङ्कते- न चेति । एतन्मते-संसर्गतावादे । ननु नाश्रयतासंसर्गकयोग्यताज्ञानस्य हेतुत्वकल्पनमधिकं यतः- यदा ' आश्रयतासंबन्धन ज्ञानविशिश्चैत्रोस्ति तमानय । इत्येवं केनचिदुक्तं तत्र तत्पदस्य बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने शक्तत्वेन आश्रयतासंबन्धेन ज्ञानविशिष्टचैत्रबोधकत्वात् तत्र ताशवोधं प्रत्या श्रयतासंसर्गकज्ञानप्रकारकयोग्यताज्ञानस्य हेतुत्वं क्लुप्तमस्ति तथा यदा केनचित् 'मया मणिघण्ट इत्युक्ते लया आश्रयतासंबन्धेन ज्ञानविशिष्टश्चैत्रो बोद्धव्यः' इति संकेतः कृतस्तदा तस्य मणिघण्टशब्दस्याश्रयतासंसर्गकज्ञानप्रकारकचैत्रविशेष्यकशान्दबोधजनकत्वात्तत्राश्रयतासंसगेकज्ञानप्रकारकयोग्यताज्ञानस्य हेतुत्वं सर्वमतक्लुप्तमेवति तेनैव योग्यताज्ञानेन 'जानाति । इति मुख्यार्थपरप्रयो स्थस्टेप्याश्रयतासंसर्गकज्ञानप्रकारक जायमानशा बोधं प्रति हेतुत्वस्य निर्वाहेण न नवीनहेतुत्वकल्पनापतिरित्याशझ्याह- आश्रयतासंबन्धेनेति । आश्रयतासंबन्धेन "Aho Shrutgyanam" Page #126 -------------------------------------------------------------------------- ________________ ( ११४ ) सादर्श: [ प्रथमाकार के “ 9 6 सर्वनाम्नः सांकेतिक शब्दान्तरादा तादृशसंबन्धेनः ज्ञानादिप्रकार कचैत्रादिविशेष्यकशाब्दबोधस्य सर्वमते एव प्रसिद्धावपि तादृशशाब्दबोधे पदार्थान्तरभाननैयत्येन तमिश्रित योग्यताज्ञानस्य तत्र हेतुताया आवश्यकत्वात् ज्ञानादिविशिष्टचैत्रादिमात्रविषयक योग्यताज्ञानस्य ज्ञानादिविशिष्टचैत्रादिविषयकशाब्दबोधे हेतुतायाः कुत्राप्यक्लप्तत्वादिति वाच्यम्, भवन्मतेपि ज्ञानाश्रयताप्रकारकचैत्रादिविशेष्यज्ञानविशिष्टचैत्रादितात्पर्यकात् सर्वनाम्नः सांकेतिकशब्दान्तराद्वा तादृश संबन्धेन=आश्रयता संबन्धेन ज्ञानादिप्रकारक चैत्रादिविशेष्यकशाब्दबोधस्य सर्वमते एव प्रसिद्धावपि तत्र यादृशयोग्यताज्ञानस्य हेतुत्वं नात्र तादृशयोग्यताज्ञानेन निवाहो यतः- शाब्दबोधे ह्यपरपदार्थवैशिष्ट्यं तदन्यपदार्थे भासते इति नियमः अपरपदार्थवैशिष्ट्यमानं विना पदार्थस्य शाब्दबोधविषयत्वमेव न भवति किं तूपस्थितिमात्रविषयत्वं भवतीति तादृशशाब्दबोधे= आश्रयतासंबन्धेन ज्ञानादिविशिष्टतात्पर्यकात् सर्वनाम्नः सांकेतिकशब्दान्तराद्वा जायमाने शाब्दबोधे पदार्थान्तरभाननैयत्येन = ' सः तम् ' मणिघण्ट : ' इत्यादावाऽश्रयतासंबन्धेन ज्ञानविशिष्टचैत्रस्तु पदार्थ एवेति तस्मिन् तद्बोधक सर्वनामादिपदोत्तरवर्तमानविभक्त्यर्थे कत्वादेवैशिष्ट्यस्य मानमवश्यं स्वीकार्यम् - आश्रयतासंबन्धेन ज्ञानविशिष्टचैत्र एकः ' इति तथा चात्र त्वेकत्ववैशिष्ट्यं योग्यताज्ञाने भासते इति तन्मिश्रम् = एकत्वविषयकं यद् योग्यताज्ञानं तस्यैव हेतुत्वमस्ति । जानाति ' इति मुख्यार्थपरप्रयोगजन्यशाब्दबोधे स्वेकत्वविषयक योग्यताज्ञानस्य हेतुत्वं नास्ति शुद्धचैत्रमात्रस्य पदार्थत्वेन तत्र वाववैशिष्ट्रस्य भासमानत्वादिति जानाति । इतिमुख्यार्थपरप्रयोगजन्यशाब्दबोधं प्रयुक्तरीत्या यदाश्रयतासंसर्गकयोग्यताज्ञानस्य हेतुत्वं तदधिकमेव संसर्गतावादे इत्यर्थ: 1 नवाश्रयुतासंबन्धेन ज्ञानविशिष्ट चत्रादितात्पर्यकात् सर्वनाम्नः सांकेतिकशब्दान्तराद्वा जाय-माने उक्त शाब्दबोधे नैकत्वादिविशिष्टविषयक योग्यताज्ञानस्य हेतुत्वं किं तु ज्ञानविशिष्टचैत्रमात्रविषयक योग्यताज्ञानस्य हेतुत्वं वक्ष्यामस्तथा च तेनैव योग्यताज्ञानेन ' जानाति इतिमुख्यार्थपरप्रयोगजन्यशाब्दबोधस्यापि निर्वाहो भविष्यतीत्याशङ्क्याह- ज्ञानादिविशिष्ट चैत्रादिमात्रेति । ज्ञनादिविशिष्ट चैत्रादिविषयकशाब्दबोधं प्रति पदार्थान्तरेकत्वादिवैशिष्ट्य शून्यज्ञानादिविशिष्टचैत्रायेकपदार्थमात्रविषयक योग्यताज्ञानस्य कचिदपि लोके हेतुत्वं क्लृप्तं नास्ति येन तेनैव 'जानाति' इत्यत्र निर्वाहः स्यादिति ' जानाति ' इतिमुख्यार्थपरप्रयोगजन्यशाब्दबोधे आश्रयतासंसर्गकयोग्यताज्ञानस्य यद्धेतुत्वकल्पनं तदुक्तरीत्याधिकमेवेत्यर्थः । तथा च ' जानाति ' इत्यत्राख्यातस्याश्रयत्वार्थकत्वं स्वीक्रियतामितिभावः । परिहारहेतुमाह- भवन्मतेपीति । भवन्मते 'जानाति इत्यादावाख्यातस्याश्रयत्वार्थकत्वम तेपि ज्ञाधातोः पाकादौ लक्षणास्थले तु पाकानुकूलकृतिप्रकारकयोग्यताज्ञानस्य हेतुत्वं स्त्रीकार्य तेन च योग्यताज्ञनेन ' जानाति इत्यादी गुरूपार्थस्थले आख्यातस्याश्रयत्वार्थवत्वाश्रयणे निर्वाहाभावाद् यथा मन्मने आश्रयतासंसर्गक योग्यताज्ञानस्य हेतुत्वकल्पनमधिकं तथा तव मतेपि "Aho Shrutgyanam" Page #127 -------------------------------------------------------------------------- ________________ भेदान्वयवादः ] व्युत्पत्तिवादः । ( ११५ ) कशाब्दबोधे तथाविधयोग्यताज्ञानहेतुताया आधिक्यात् । आश्रयता संसर्गकज्ञानीयकारणतावच्छेदकस्य तदीयसंसर्गविषयताघटिततत्प्रकारकज्ञानत्वरूपकारणतावच्छेदकापेक्षया लघुशरीरतयाऽऽश्रयतायाः संसर्गतामतस्यैव लघुत्वात् । न च यत्राश्रयत्वे ज्ञाधातुसमभिव्याहृताख्यातस्य शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र ज्ञानाश्रयताप्रकार कशाब्दबोधस्योभय मतसिद्धतया तत्र ताहशयोग्यताज्ञानहेतुत्वमुभयमतसिद्धमेवेति वाच्यम्, आश्रयतायाः संसर्गतावादिना. तत्राप्याश्रयताप्रकारकबोधस्यानभ्युपगन्तव्यत्वादितिचेत् ?, ज्ञानाश्रयताप्रकारक चैत्रादिविशेष्यकशाब्दबोधं प्रति तथाविध- ज्ञानाश्रयताप्रकारक चैत्रादिविशेव्यकयोग्यताज्ञानस्य हेतुत्वकल्पनमधिकमस्त्येवेति तव मम चात्र साम्यमेवेत्यर्थः । स्वसंसर्गतावादे लाघवं प्रदर्शयति- आश्रयतेति, आश्रयतासंसर्गकज्ञानं शाब्दबोधस्तदीयं यत्कारणतावच्छेदकं योग्यताज्ञानस्यावच्छेदकम् / योग्यताज्ञानत्वं किं वा संसर्गभूताश्रयत्वादिविषयकत्वम् ) तस्य तदीयसंसर्ग=आश्रयतासंसर्गविषयताघटितं यत् तत्प्रकारकज्ञानम् - आश्रयताप्रकार कशाब्दबोधस्तस्य यद् योग्यताज्ञानत्वरूपमाश्रयताप्रतियोगिकसंसर्ग विषयकत्वं रूपं वा कारणतावच्छेदकं तदपेक्षया लघुशरीरतया=लघुभूतत्वेन = आश्रयतायाः संसर्गतामतस्यैव लघुत्वात् आश्रयतायाः संसर्गव्ये एव लाघवादित्यन्वयः । आश्रयतासंसर्गकयोग्यताज्ञाने हि 'ज्ञानं चैत्र आश्रयता' इति त्रयो विषया:ज्ञानस्य प्रकारत्वात् चैत्रस्य विशेष्यत्वाद् आश्रयताया उभयसंसर्गत्वात् । आश्रयताप्रकारकयोग्यताज्ञाने हि 'ज्ञानं चैत्रः आश्रयता. आश्रयतायाश्च स्वरूपसंबन्ध:, ज्ञानस्य निरूपितत्वसंबन्ध:' इति पञ्च विषयाः - ज्ञानस्य निरूपितत्व संबन्धेनाश्रयतायामन्वय स्तादृशाश्रयतायाश्च स्वरूपसंबन्धेन चैत्रेऽन्वयः 'ज्ञानाश्रयतावांश्चैत्रः' इतिबोध: । प्रकारीभूताया आश्रयतायाः संबन्धान्तरं विना चैत्रे - ऽन्वयानुपपत्तेरिति प्रकारतावादापेक्षया संसर्गतावादे लाघवम् एवमुपस्थितावपि लाघवगौरवे ज्ञा-तव्ये इति भावः । तदेवोक्तम्- तदीयेति- प्रकारीभूताश्रयताया यः संसर्गः स्वरूपसंबन्धस्तद्विष यताघटितमित्यर्थः प्रकारतामते योग्यताज्ञानस्य आश्रयतासंसर्ग / आश्रयतायाः स्वरूपसंबन्ध ) विषयकत्वाद् आश्रयतासंसर्गविषयताघटितत्वम् । किं वात्र ज्ञानपदाभ्यां योग्यताज्ञानमेव ग्राह्यम् | ननु यत्त्वया भवन्मते " इत्यादिनाश्रयताप्रकारकयोग्यताज्ञानस्य हेतुताधिक्यं मे प्रदर्शितं नन्नास्ति यतः यत्र ज्ञाधातूत्तरवर्तमानाख्यातस्य कस्यचित् पुंस आश्रयत्वे शक्तिभ्रमः स्वारति. कलक्षणाग्रहो वा स्यात् तत्र ज्ञानाश्रयताप्रकारक एव शाब्दबोधो जायते स च तादृश-आश्रयताप्रकारक योग्यताज्ञानेनैव जायते इत्युभयमतसिद्धमेव तथा चाश्रयताप्रकारकयोग्यताज्ञानस्यात्र हेतु सिद्धमेवेति तेनैवाश्रयताप्रकारक योग्यताज्ञानेन ' जानाति ' इतिमुख्यार्थ पर प्रयोगाज्जायमानाश्रयताप्रकार कशाब्दबोधस्यापि निर्वाहो भविष्यतीत्याशङ्क्याह-- न चेति । परिहारहेतुं हठेनाह - आश्रयताया इति । तत्रापि आख्यातस्याश्रयत्वे शक्तिभ्रमथेपि तथा स्वारतिकलक्षणास्थलेपि संसर्गात्रादिनाश्रयताप्रकारकबोधो न स्वीक्रियते किं वाश्रयतासंसर्गक एव बोधः 66 "Aho Shrutgyanam" Page #128 -------------------------------------------------------------------------- ________________ ( ११६ ) सादर्श: [ प्रथमाकारके सत्यम् - एतदभिप्रायेणैव 'जानाति' इत्यादावाख्यातस्य निरर्थकता मणिकार उरीचकार । तत्राश्रयत्वे निरूढलक्षणामभ्युपगच्छतां दीधितिकाराणां पुनरेष आशयः - पत्र ज्ञाधातोर्ज्ञानाश्रयत्वे शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र चैत्रायंशे वावर्थैकदेशस्य ज्ञानादेरन्वयानुपपत्त्या स्वरूपसंबन्धेन ज्ञानाश्रयताप्रकारकचैत्रादिविशेष्यकान्वयबोध एव तत्र मणिकृता स्वीकरणीयः । तथा च तत्र ज्ञानाश्रयतापकारकशब्दबोधे तत्प्रकारकयोग्यताज्ञानहेतुताया: क्लृप्तत्वादाऽऽश्रयतासंसकशाब्दबोधे तादृशयोग्यताज्ञानहेतुता कल्पनमधिकमेव मणिकृन्मते । स्वीक्रियते इति नोमयमतसिद्धः शक्तिभ्रमादावण्याश्रयताप्रकार कशाब्दबोधो येनोक्तरीत्या प्रकारतावादे आश्रयताप्रकारकयोग्यताज्ञानस्य हेतुत्वकल्पनमधिकं न स्यात् तत्प्रयुक्तं गौरवं च न स्यादित्यर्थः । यथा कस्यचिन्मते विभक्त्यर्थः कर्मत्वमपि संसर्ग एव कर्मतासंबन्धेनौदनवान् पाक: ' इति बोधस्वीकारात् यथा च 'राज्ञः पुरुषः इत्यत्र पष्ठयर्थस्वत्वमपि संसर्ग एव ' स्वत्वसंबन्धेन राजवान् पुरुषः इतिबोधस्वीकारात् तथा ' जानाति इत्यादावाख्यातार्थ आश्रयतापि संसर्ग एव न तु प्रकार: ' माश्रयतासंबन्धेन ज्ञानवांचैत्रः ' इति च बोधः स्वीक्रियते, अनुपस्थितस्य प्रकारत्वासंभवेप्युपस्थितस्य संसर्गत्वे बाधकाभावादाख्यातेन शक्त्योपस्थितस्याप्याश्रयत्वस्य संसर्गत्वमेव प्रकारत्वे हि तत्संसर्गभानावश्यंभावाद् गौरवं स्यादिति भावः । जानाति' इत्यादावाश्रयत्वस्य संसर्गतयैव भानं भवति न प्रकारतयेत्यत्र चिन्तामणिकारं प्रमाणयति - सत्यमिति । एतदभिप्रायेणैवेति- यद्याश्रयतायाः प्रकारत्वं स्यात्तदा पदादनुपस्थि• तस्य प्रकारत्वासंमवेनाख्यातस्याश्रयत्वे शक्तिर्वा लक्षणा वा स्वीक्रियेत तथा चाश्रयत्वोपस्थापकावादाख्यातस्य ' जानाति इत्यादी सार्थक्यं स्यादपि नैवमस्ति आश्रपत्यस्य संसर्गत्वस्वीकारात् संसर्गतया भानं च पदादनुपस्थितस्यापि संभवतीत्याश्रयत्वे आख्यातस्य वृत्तिकल्पनापेक्षाभावादाख्यातस्य ' जानाति इत्यादौ निरर्थकत्वमेवेत्यर्थः । दीधितिकारेण त्वाश्रयत्वस्य प्रकारत्वं स्वीकृत्य ' जानाति इत्यादावाख्यातस्याश्रयत्वे निरूढलक्षणा ( अनादितात्पर्यवती लक्षणा ) स्वीकृतेत्याह--तत्रेति । तत्र= ' जानाति ' इत्यादौ । दीधितिकाराशयं वर्णयतियत्रेति, यदा हि कस्यचित् ' जानाति ' इत्यत्र प्रकृतिमात्रज्ञाधातोरेव ज्ञानाश्रयत्वे शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा जातस्तत्र ज्ञानाश्रयत्वं धात्वर्थस्तदेकदेश एवं ज्ञानमिति धात्वचैकदेशस्य ज्ञानस्य चैत्रेऽन्वयो न संभवति - " एकत्र विशेषणत्वेनान्वितस्यान्यत्र विशेषणत्वेनान्वयाऽयोगात् " इति नियमेनोक्तस्थले आश्रयत्वे विशेषणतयान्वितस्य ज्ञानस्य चैत्रादावन्वयासंभवात् तेन च ' आश्रयतासंबन्धेन ज्ञानवांश्चैत्रः ' इतिशाब्दबोधासंभवात् तत्र स्वरूपसंबन्धेन ज्ञानाश्रयत्वप्रकारक चैत्रादिविशेष्यक एव ' ज्ञानाश्रयत्ववश्चैित्रः इति बोधः संसर्गतावादिनापि मणिकारेण स्वीकर्तव्यः, तथा चोक्तस्थले ज्ञाधातोरेव ज्ञानाश्रयत्वे शक्तिभ्रमस्थले स्वारसिकलक्षगाहस्थले चोक्तरीत्या ज्ञानाश्रयत्वप्रकारक शाब्दबोधं प्रति तत्प्रकारक ज्ञानाश्रयत्वप्रकारकयो " ८ " 7 " Aho Shrutgyanam" Page #129 -------------------------------------------------------------------------- ________________ भेदान्वयवादः] व्युत्पत्तिवादः। (११७) न च दीधितिकृन्मते तादृशयोग्यताज्ञानहेतुत्वाकल्पनलाघवोप ‘जानाति इत्याद्यानुपूर्वीज्ञानघटितज्ञाधातुशक्तिज्ञामजन्यज्ञानोपस्थितिघटितशान्दसामन्या भिन्नविषयकप्रत्यक्ष प्रति प्रतिबन्धकतायामाख्यातजन्याश्रयत्वोपस्थिते निवेशस्याधिक्याद् गौरवमिति वाच्यम्, भवन्मतोप ' ज्ञानाश्रयत्वाभाववांश्चैत्रः सुन्दरः' इत्यादिविशिष्टवैशिष्टयावगाहिप्रत्यक्षे 'जानाति चैत्र' इत्याद्यानुपूर्वीज्ञानघटितज्ञाधातुजन्यज्ञानोपस्थितिघटितसामग्याः प्रतिबन्धकताधिक्येन गौरवात् । __ मन्मते च तादृशसामथ्या विरोधिज्ञानाश्रयत्वाभाववत्तानिश्चयवटिततया ग्यताज्ञानस्य हेतुता स्वीकरणीया. अन्यत्राश्रयत्वसंसर्गकशाब्दबोचं प्रति तादृशः आश्रयतासंसर्गकयोग्यताज्ञानस्य च हेतुता स्वीकार्येति द्विविधकार्यकारणभावकल्पनापत्त्या संसर्गतावादे गौरवम् । प्रकारतावादे तु ज्ञानाश्रयत्वप्रकारकयोग्यताज्ञानस्यैव हेतुत्वमित्येककार्यकारणभाक्कल्पदेन लाघवमित्यर्थः । ___ ननु दीधितिकृन्मते=आश्रयत्वस्य प्रकारताचादे तादृश-आश्रयत्वसंसर्गकयोग्यताज्ञानस्य हेतुत्वकल्पनापत्तिर्यद्यपि नास्ति सर्वत्राश्रयत्वप्रकारकयोग्यताज्ञानस्यैव हेतुत्वात्तेनैव च ज्ञाधातो. र्ज्ञानाश्रयत्वे शक्तिश्रमस्थले स्वारसिकलक्षणाग्रहस्थले च निर्वाहादिति लाघवमस्ति तथापि विभिनविषयकप्रत्यक्ष प्रति शाब्दसामग्र्याः प्रतिबन्धकत्वं सर्वसंमतमस्ति तत्र 'जानाति ' इत्यादा. वाऽऽश्रयत्वस्य प्रकारत्वे आश्रयत्वस्याख्यातेनोपस्थितिः स्वीकार्या तथा चात्र जानातीत्यानुपूर्वीज्ञानघटिता तथा ज्ञाधातुशक्तिज्ञानजन्यज्ञानोपस्थितिघटिता या शाब्दसामग्री तस्याः प्रतिबन्धकत्व प्राप्ते तादृशप्रतिबन्धकतायामाख्यातजन्याश्रयत्वोपस्थितेनिवेशस्य-बाख्यातजन्याअपलोपस्थितेरपि प्रतिबन्धकत्वं कल्पनीयमिति गौरवम् । संसर्गतावादे चारयातस्यात्र निरर्थकत्वादाश्रयत्वस्य च संसर्गविधया भानादाख्यातजन्याश्रयत्वोपस्थितिरेव न भवति येन तस्याः प्रतिबन्धकत्वकल्पनापत्तिः स्यात्. तथा चाऽऽश्रयत्वोपस्थितेः प्रतिबन्धकत्वकल्पनापत्त्यऽभावात्संसर्गतावादे लाघवमित्याशक्याह- न चेति । प्रतिबन्धा परिहारहेतुमाह- भक्मतेऽफीति । भवन्मते-भाश्रयत्वस्य संसर्गतामतेपि । संसर्गतामते हि ' जानाति चैत्रः । इतिवाक्येन * आश्रयतासंबन्धेन ज्ञानवांश्चैत्रः । इत्येव बोधो जायते विशिष्टवैशिष्ट्यावगाहिप्रत्यक्षं च 'ज्ञानाश्रयत्वाभाववांश्चैत्रः सुन्दरः ' इति. अत्र च ज्ञानाश्रयत्वाभावश्चैत्रे विशेषणं न तु ज्ञानाभाव इत्युलसान्दबोधप्रत्यक्षयोः परस्परं विरोधाभावात् विभिन्न विषयकत्वाच्चोभयप्रयोजकसामग्र्योर्युगपदापत्तिः संभवतीत्युक्तविशिष्टवैशिष्ट्यावगाहिप्रत्यक्ष प्रति — जानाति चैत्रः । इतिशाब्दबोधसामच्या ज्ञाधातुजन्यज्ञानोपस्थितिघटितायाः प्रतिवन्धकताकल्पनाधिक्येन गौरवमित्यर्थः । ज्ञाना. अश्वत्वाभावविशिष्ट चैत्रे सुन्दरत्ववैशिष्ट्यमिति प्रत्यक्षस्य विशिष्टवैशिष्टयावगाहित्वम् । प्रकारतावादी स्वमते उक्तगौरवाभावमुपपादयति- मन्मत इति । 'जानाति । इत्यकारूपातस्याश्रयत्वार्थकत्वादाश्रयत्वस्य प्रकारत्वस्वीकाराम · जानाति चैत्रः । इतिवाक्येन ' ज्ञानाश्र "Aho Shrutgyanam" Page #130 -------------------------------------------------------------------------- ________________ सादर्श: [ प्रथमाकार के ( ११८ ) तथाविधविशिष्टवैशिष्ट्यबोध सामय्यास्तादृशशाब्दसामग्र्या समं युगपदऽवस्थानासंभवेन तादृशप्रतिबन्धकत्वकल्पनाविरहादित्यधिकं दर्शितदिशाऽवसेयम् ॥ अथैवंरीत्या ' भूतले न घट: ' इत्यादौ घटादिपदस्य घटप्रतियोगि कादौ तदुतरसुब्विभक्तेरेव वा प्रतियोगितायां लक्षणामभ्युपेत्य तत्र 'घटप्रतियोगि काभावो भूतलवृत्तिः ' इत्याद्याकारकप्रतियोगिताप्रकार कशाब्दबोधोपगम एव समुचितः, तथा सति तथाविधसमभिव्याहारज्ञानवटितसामय्याः : वटप्रतियोगि कत्वाभावयत्ववांत्र: ' इति बोधो जायते इति शाब्दबोधे चैत्रे ज्ञानाश्रयत्वस्य विशेषणत्वाद् उक्तविशिवैशिष्ट्या वगाहिप्रत्यक्षे च चैत्रे ज्ञानाश्रयत्वाभावस्य विशेषणत्वात् शाब्दबोधप्रत्यक्षयोः परस्परं विरोधः प्राप्त इति शाब्दबोधप्रत्यक्षसामग्र्योर्युगपदेवस्थानमेव न संभवति येनैकसामग्र्याः प्रतिबन्धकत्वकल्पनापत्तिः स्यात् L तथा च तादृशसामग्र्याः जानाति चैत्रः इति शाब्दबोधीयसामय्या ज्ञानाश्रयत्वप्रकारकयोग्यताज्ञानघटिताया: 'यो विरोधी ज्ञानाश्रयत्वाभा ववत्ता निश्चयस्तेन तथाविध= उक्तविशिष्टवैशिष्ट्या वगाहिप्रत्यक्षसामाग्र्याः घटिततया तस्याः प्रत्यक्षसामग्र्यास्तादृश=उक्तशाब्दबोधसामग्र्या सहावस्थानमेव न संभवति, अर्थात् ज्ञानाश्रयत्वाभाववत्ताया निश्चयेनोक्तप्रत्यक्षमेव भवति शाब्दबोधश्च ज्ञानाश्रयत्व निश्चयरूपस्वकारणाभावात्स्वयमेवानुत्पन्नं तिष्ठतीति न प्रतिबन्धकत्वकल्पनाधिक्य मित्यर्थः । प्रकृतवादविस्तरमुपसंहरतिइश्यधिकमिति, वादग्रन्थानां दिक्प्रदर्शकत्वादधिकमेवमेव प्रदर्शितरीत्या स्वयं कल्पनीयमित्यर्थः ॥ एवंरीत्या यथा ' जानाति ' इत्यादावाख्यातार्थाश्रयत्वप्रकारक बोधः स्वीकृतस्तथा भूतले न चट:' इत्यादावपि प्रतियोगिताप्रकारक एव शाब्दबोधः स्वीकर्तव्य इत्यन्वयः । प्रतियोगिताप्रकार शाब्दबोधप्रकारमाह- - भूतल इति । ' भूतले न घटः इत्यत्र घटपदस्य घटप्रतियोगिके क्षणा तेन अर्थाभावेन चाभेदान्वयेन सप्तम्यन्तभूतलपदस्य च भूतलवृत्तित्वार्थपरत्वेन 'घटप्रतियोगि काभावो भूतलवृत्तिः ' इतिशाब्दबोधो जायते, किं चात्र घटपदस्य घट एवार्थस्तदुत्तर= घटपदोत्तरवर्तमानविभक्तेरेव प्रतियोगितायां लक्षणा तत्र घटस्याssधेयत्वसंबन्धेन प्रतियोगितायां प्रतियोगितायाश्च निरूपकत्वसंबन्धेन नञर्थाभावे भेदान्वयः घटत्वावच्छिन्न प्रतियोगिताकाभावो भूतलवृत्ति: ' इति शाब्दबोधः । अत्र चाभावे प्रतियोगिता प्रकारतया भासते इति प्रतियोगिताप्रकारकः शाब्दबोधः । एवंरूपप्रतियोगिताप्रकार कशाब्दबोधस्वीकारस्योपयोगमाह- तथा सतीति, प्रतियोगिताप्रकार कशाब्दबोधस्वीकारे सति तथाविध= ' भूतले न घट:' इत्याकारकसमभिव्याहारज्ञानघटितशाब्दसामग्र्याः ' घटप्रतियोगि कत्वाभाववानऽभावः प्रमेय: ' इति विशिष्टशिष्टावगाहिप्रत्यक्षं प्रति प्रतिबन्धकत्वकल्पनापत्तिर्नास्ति तथा हि- प्रतियोगिताप्रकार कशाब्दबोधस्वीकारे ' भूतले न घट: ' इति वाक्यात् 'घटप्रतियोगिकाभावो भूतलवृत्तिः , इति शाब्दबोधो जायते तत्र प्रतियोगिता प्रकारः, " घटप्रतियोगिकश्वाभाववानभावः प्रमेयः ' इति प्रत्यक्षे चाभावे घटप्रतियोगिकत्वाभावः प्रकार इति प्रत्यक्षशाब्दबोधयोः परस्परं विरोधे , , - " Aho Shrutgyanam" ५ Page #131 -------------------------------------------------------------------------- ________________ भेदान्वयवादः व्युत्पत्तिवादः। (११९) वानभावः प्रमेयः' इत्यादिविशिष्टवैशिष्टयबोधं प्रति प्रतिबन्धकत्वाकल्पनेन लाघ. वादित्युक्तनियमे निपातातिरिक्तत्वविशेषणवैयर्यमिति चेत् ?, न, ‘भूतले न घटा ' इत्यादौ घटाद्यभावे भूतलाद्यन्वितसप्तम्यर्थाधेयत्वस्येव तात्पर्यवशाद् घटादौ सप्तम्यन्तार्थभूतलादिवृत्तित्वाभावस्यान्वयबोधोप्यनुभव. प्राप्ते उक्तशाब्दबोधस्य च ' घटप्रतियोगिकत्वाभाववानभावः । इत्येवं बाधस्तादृशबाधस्यामावस्य 'घटप्रतियोगिकत्वाभावाभाववानभावः । इत्येवमुक्तशाब्दसामग्र्या निश्चये जाते प्रत्यक्षं विशेषणज्ञानरूपस्वकारणाभावात् स्वयमेव नोत्पद्यते इति न शाब्दसामग्र्याः प्रतिबन्धकस्वकल्पनापत्तिः । तथा चैतल्लाघवार्थ प्रतियोगिताप्रकारकशाब्दबोधे स्वीकृतेऽत्र घटप्रतियोगिकेतिघटनामार्थेन नर्थाभावेन च परस्परमभेदान्वये जाते निपातातिरिक्तनामार्थयोरभेदेनैवान्वयो भवति निपातार्थनिपातातिरिक्तनामार्थयोस्तु भेदान्वयोपि भवतीतिनियमस्य तदर्थं निपातातिरिक्तत्वविशेषणस्य चस्पेक्षा नास्त्येव- उक्तरीत्या निपातार्थरूपनअर्थाभावस्य नामार्थस्य घटस्य चाभेदान्वयस्य प्रदर्शितत्वादित्यर्थः । अयं भावः- उक्तनियमे निपातातिरिक्तत्वविशेषणस्य निपातार्थनिपातातिरितनामर्थयोर्भेदान्वय एव फलमस्ति तत्रोक्तरीत्या निपातार्थनिपातातिरिक्तनामार्थयोरभेदान्वये संभवति सति भेदान्वयप्रतिपादनं निष्फलमेव किं च निपातातिरिक्तनामार्थयोरभेदान्वयो निपाता. थेनिपातातिरिक्तनामार्थयोश्च भेदान्त्रय इतिवैषम्ये गौरवमपीति तदर्थ निपातातिरिक्तत्वविशेषणमपि व्यर्थमेव निरातातिरिक्तत्वविशेषणाभावे हि निपाताथनिपातातिरिक्तनामार्थयोरभेदान्वयः प्राप्नोति सच प्रदर्शित- एव, एवम् 'चन्द्र इव मुखम् ' इत्यत्रापि चन्द्रपदस्य चन्द्रप्रतियोगिके लक्षणया बन्द्रप्रतियोगिकं यत्सादृश्यं तद्वन्मुखमित्येवं निपातार्थसादृश्यस्य निपातातिरिक्त मामार्थचन्द्रस्य चामेदान्वयो द्रष्टव्यः, एवमन्यत्राप्यूह्यमिति । उक्तनियमेनिपातातिरिक्तनामार्थयोः (६८) इतिनियमे । प्राचीनमते तु प्रतियोगितायाः प्रकारत्वानभ्युपगमात् 'भूतले न घटः' इतिवाक्यात् 'प्रतियोगितासंबन्धेन घटवानऽभावः ' इति शाब्दबोधो जायते इत्यऽभावे घट एक प्रकार उक्तप्रत्यक्षे चाभावे घटप्रतियोगिकत्वाभावः प्रकारो न तु घटाभावो येनोक्तशाब्दबोधप्रत्यक्षयोर्विरोधः स्यात् . विरोधाभावे चोभयसामग्र्योर्युगपदवस्थानसंभवात् प्रत्यक्षस्य विभिन्न विषयकत्वाच तत्प्रति शाब्दसामग्र्याः प्रतिवन्धकत्वकल्पनापत्त्या गौरवं स्यादेवेति प्रतियोगिताप्रकारक एव शाब्दबोधः समुचित इत्यर्थः । ___ उक्तं परिहरति-- नेति । परिहारहेतुमाह- भूतल इति । भूतलाद्यन्वित: भूतलनिरूपितो य: सप्तम्यर्थ आधेयत्वम्=वृत्तित्वम् ( भूतलवृत्तित्वम् ) तस्येव. यथोक्तरीत्या — भूतले न घटः ' इत्यत्र घटाभावे भूतलवृत्तित्वस्यान्वयः- 'घटप्रतियोगिकामावो भूतलवृत्तिः । इत्येवमस्ति तथा तात्पर्यवशाद् घटादी सप्तम्यर्थो यदं भूतलवृत्तित्वं तदभावस्याप्यन्वयबोधः 'घटो भूतलवृत्तित्वाभाववान् ' इत्येवं बोधोऽनुभवसिद्ध एवेति कथं प्रतियोगिताप्रकारक एव शाब्दबोधः सर्वत्र "Aho Shrutgyanam" Page #132 -------------------------------------------------------------------------- ________________ (१२०) साद [ प्रथमाकारकेसिद्धः, अन्यथा-- सादृशवाक्यजन्यस्याऽप्रामाण्यज्ञानानास्कन्दितबोधस्य 'भूतले घटः । इत्यादिवाक्यजन्यघटादिविशेष्यकभूतलाद्याधेयत्वप्रकारकबोधविरोधिवायाः सर्वानुभवसिद्धाया अनुपपत्तेः । नञ्पदं विना यत्र धर्मिणि यस्य विशेपणतया भानं यादृशसमभिव्याहाराद् भवति ताशसमभिव्याहारस्थले नसते तत्र धर्मिणि तदभावः प्रतीयते इत्यनुभवाऽफ्लापप्रताच । एवं च नर्थाभावेऽनुयोगितया घटायन्वयबोधोपपत्तये निपातातिरिक्तत्वविशेषणमावश्यकम् । स्वीक्रियेत । विपक्षे बाधकमाह- अन्पधेति । अन्यथा- ‘भूतले न घटः । इतिवाक्यात् 'घटो भूतलवृत्तित्वाभाववान् । इत्येवं घटविशेष्यकभूतलवृत्तित्वाभावप्रकारकशाब्दबोधानङ्गीकारे त्वदुक्तरीत्या ताशवाक्यजन्यस्य= भूतले न घटः । इतिवाक्यजन्यस्य बोधस्य ' भूतले घटः ' इतिवाक्यजन्यस्य च बोधस्य परस्परं सर्वानुभवसिद्धो विरोधो नोपपद्येत, अयं भावः-- प्रतियोगिताप्रकारकशाब्दबोधस्वीकर्तृमते उक्तरीत्या - भूतले न घटः ' इतिवाक्यात् ‘बटप्रतियोगिकाभावो भूतलवृत्तिः । इत्येवं भूतलवृत्तित्वप्रकारकप्रतियोगिताप्रकारकाभावविशेष्यक एव शाब्दबोधो जायते ‘भूतले घटः । इतिवाक्याच भूतलवृत्तित्वप्रकारकघटविशेष्यकशाब्दबोचो जायते तयोश्च परस्परं विरोधो नोपपद्यते- न हि घटाभावविशेष्यकं भूतलवृत्तित्यप्रकारकं प्रतियोगि. ताप्रकारकं च ज्ञान घटविशेष्यकभूतलवृत्तित्वप्रकारकज्ञानं विरुणद्धि ग्राह्याभावानवगाहित्वात् किं घटविशेष्यकभूतलवृत्तित्वप्रकारकज्ञानं घटविशेष्यकभूतलवृत्तित्वाभावप्रकारकमेव ज्ञानं विरुगद्धि तस्मात् — भूतले घटः ' 'भूतले न घटः । इत्युभयवाक्यजन्यशाब्दबोधयोः परस्परं सर्वानुभवसिद्धविरोधस्योपपत्तये · भूतले न घटः' इतिषाक्यात् 'घटो भूतलवृत्तित्वाभाववान् ' इत्येवं घटे ससम्यन्तार्थभूलवृत्तिस्वाभावस्यान्व्यः स्त्रीकर्तव्य एव. अन्यथा-- नञ्पदं विनेत्यादिसर्गनुभवापलापश्च स्यात् । नञ्पदमिति- नरुपदं विना यादृशसमभिव्याहारात्= भूतले घटः । इतिसमभिव्याहारात् यत्र धर्मिणि-घटे यस्य भूतलवृत्तिरवस्य विशेषणतया भानं भवति तादृशसमभिव्याहारस्थले नसत्त्वे ' भूतले न घटः ' इत्यत्र तत्र धर्मिणि-घटे तदभावः भूतलवृत्ति. साभावः प्रतीयते इति सर्वानुभव : "प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ" इत्यनेनोक्तः तथा च 'भूतले घटः । इत्यस्माद् ‘भूतलवृत्तित्ववान् घटः । इतिबोधो जायते इति भूतले न घटः' इत्यस्मात् 'भूतलवृत्तित्वाभावधान् घटः' इतिशाब्दबोधः स्वीकर्तव्य एव. अत्र भूतलवृत्तिस्वाभावेऽनुयोगित्वरूपेण घटस्यान्वयोस्ति- घटस्यैवात्र भूतलवृत्तित्वाभावानुयोगित्वात् । अनुयोगितारूपेण चान्मयो भेदान्वय एव भेदेन च नामार्धयोरन्वयो न भक्तीत्यत्र नअर्थे भूतलवृत्तित्वाभावे घटस्याप्यनुयोगित्वेन रूपेण भेदान्वयो न स्यादिति तदुपपत्तये, उक्तनियमे निपातातिरिक्तत्वविशेषणं देयमेव तथा च निपातातिरिक्तनामार्थयो देनान्वयासंभवेपि निपातार्थनिपातातिरिक्तनामार्थयोस्तु भेदेनान्वयः संभवतीति नो निपातत्वात् तदर्थस्याभावस्य घटस्य च भेदेनाप्यन्ययो न विरुद्ध इत्लाइ- एवं चेति । "Aho Shrutgyanam" Page #133 -------------------------------------------------------------------------- ________________ भेदान्वयवादः ] व्युत्पत्तिवादः । ( १२१ ) एवम् ' न पचति चैत्रः ' ' चैत्रस्य न धनम्' इत्यादौ पाककृतिचैत्रस्वत्वाद्यभावस्य नञर्थस्य चैत्र - धनादावन्वयबोधोपपत्तये च तदावश्यकम् । न चोक्तस्थलेषु नत्रोऽभाववल्लाक्षणिकतयाऽभाववता सममनुयोगिनोऽभेदाबोध एव तत्रोपेथते इति वाच्यम्, तथा सति सर्वत्राभाववत एव नञथतया मुख्यार्थपरनजो दुर्लभत्वापत्तेः । अभावस्य भेदान्वयोपगमेपि कार्यकारणभावकल्पनाधिक्यविरहेणाभाववति लक्षणाऽनौचित्यात् । अभाववतोऽभेदान्वयबो एवमिति - यथोक्तस्थले नञर्थाभावस्य घटस्य च भेदेनान्ययोपपत्त्यथमुक्त नियमे निपाता'तिरिक्तत्व विशेषणमावश्यकमेवम् ' न पचति चैत्रः ' इत्यत्र नञर्थस्य पाककृत्यभावस्य चत्रे विशेष्यत्वादिलक्षणभेद संबन्धेनान्वयोपपत्त्यर्थम् ' चैत्रस्य न धनम् ' इत्यत्र नञर्थस्य चैत्रस्वत्वाभा वस्य धने मेदसंबन्धेनान्वयोपपत्त्यर्थं च तत् = निपातातिरिक्तत्वविशेष गमावश्यकम् । अन्यधात्र antar चत्रादौ भेदेनान्वयो न भवेदित्यर्थः । 9 ननु यद्युक्तस्थलेषूक्तरीत्या भेदेनैवान्वयः संभवेन्नामेदेन तदोक्तनियमे निपातातिरिक्तत्वविशेषमावश्यकं स्यादपि नैवमस्ति किं तुक्तस्थलेषु नमोऽभाववति लक्षणा तेनाभाववता चानुयोगिनोमेदान्यपि संभवति यथा- ' भूतले न घट: ' इत्यत्र घटाभाववदभिन्नं भूतलम्. न पचति चैत्र: ' इत्यत्र पाककृत्यभाववदभिन्नश्चैत्रः. ' चैत्रस्य न धनम् इत्यत्र चैत्रस्वत्वाभाववदभिन्नं धनमित्येवमभेदान्वयबोधो भविष्यतीत्याशङ्क्याह-न चेति । परिहारहेतुमाह- तथा सतीति, एवं हि सर्वत्र नञोऽभाववति लक्षणापत्त्या नञः स्वमुख्यार्थाभावबोधकत्वं कचिदपि नोपलम्येत विनिगमनाविरहात् सर्वत्रैव लक्षणाप्रसङ्गात् । मुख्यार्थाभावे च लक्षणापि न स्यात् लक्षणाया: शक्यसंबन्धरूपत्वात् । नञश्वोक्तस्थलेष्वभावबोधकत्वे स्वीकृते उक्तानुपपत्त्या उक्तनियमे निपातातिरिक्तत्वविशेषणमावश्यकमित्यर्थः । ननुक्तस्थलेषु सर्वत्रैव वाऽभावस्य भेदान्वयोपगमे नञोऽभावार्थकत्वं स्वीकार्य तथा च नत्रSभाववति लक्षणाऽनङ्गीकारेणाऽभावपरत्वाश्रयणे नञ्पदघटितवाक्यस्थले नञाऽभावस्योपस्थितिः स्वीकार्य तादृशनञ्पदजन्याभावोपस्थितेरपि शाब्दबोधं प्रति कारणत्वापत्त्या कार्यकारणभावकल्पनाधिक्येन गौरवं स्यात्, मन्मते च नञोऽभाववति लाक्षणिकतयाऽभावोपस्थितेरपेक्षैव नास्ति येनाभावोपस्थितेः कारणत्वं स्यादिति न तादृशं गौरवमित्याशङ्क्याह- अभावस्येति, अभावस्य दान्योपगमाथ नञोऽभावार्थकत्वस्वीकारेपि कार्यकारणभावकल्पनायामाधिक्यं नास्त्येव यतः -- नत्रोऽभावार्थकत्व स्वीकारे यथा नञ्पदघटितवाक्यजन्यशाब्दबोधं प्रति नञ्पदजन्याऽभावोपस्थिते: कारणत्वमस्ति तथा नञोऽभाववति लक्षणास्वीकारे नञ्पदजन्याभाववदुपस्थितेः कारणत्वमस्त्येवेन्युमयमते कार्यकारणभावे साम्यमेव नाधिक्यमिति न नञोऽभाववति लक्षणास्वीकारः समुचित इत्यर्थः । विपक्षे बाधकमाह - अभाववत इति, नत्रोऽभाववति लक्षणास्वीकारे तस्याभाववतोऽनुयो "Aho Shrutgyanam" Page #134 -------------------------------------------------------------------------- ________________ ( १२२ ) सादर्श: [ प्रथमाकारके घोपगमे ' भूतले घट: ' इत्यादिवाक्यजन्यबोधे ' भूतले न घटः ' इत्यादिवाक्यजन्यबोधस्याऽविरोधितापत्तेश्व. लाघवात् स्वरूपसंबन्धेन ग्राह्याभावनिश्वयस्यैव विशिष्टबुद्धिविरोधित्वात् न त्वभेदसंसर्गकग्राह्याभावाश्रयप्रकारकनिश्चयस्येति । 'नीलो घट: ' इत्यादौ विशेषणविभक्तेरभेदार्थकत्वमतेपि यद्यप्युक्तरीत्या लाव संभवति तथापि तत्रापि न नो विद्वेष इति दिक् ॥ गिपदार्थेनाभेदान्वयस्वीकारे ' भूतले घटः ' भूतले न घटः ' इतिवाक्यजन्यशाब्दबोधयोर्यः खलु सर्वानुभवसिद्धो विरोधः स नोपपद्येत. यतः - • भूतले घटः ' इति वाक्यात् भूतलवृत्तिर्घट : ' इति बोधो जायते. नञोऽभाववति लक्षणया 'भूतलेन घट:' इत्यस्माच्च' घटाभावव-दभिन्नं भूतलम् ' इति बोधो जायते इति प्रथमवाक्येन घटे भूतलवृत्तित्वस्य द्वितीयवाक्येन च भूतले घटाभाववदभिन्नत्वस्य बोधनात् परस्परं न विरोध उपपद्यते । घटे भूतलवृत्तित्वबोधस्य घटे भूतलवृत्तित्वाभावबोधेनैव प्रतिपक्षिणा विरोधसंभवात् । स्वयमपि विरुद्धाविरुद्धस्वरूपमाह - लाघवादिति, अन्यप्रकारेण विरोधस्वीकारे गौरवालाघवात् ' भूतले घटः ' इत्यत्र ग्राह्यं यद् भूतलवृत्तित्वं स्वरूपसंबन्धेन=अभावीयविशेषणतासंबन्धेन तदभावनिश्चयस्य= भूतलवृत्तित्वाभा - वनिश्वयस्यैव=घटो भूतलवृत्तित्वाभाववानित्यस्यैव बोधस्य विशिष्टबुद्धिविरोधित्वात् घटो भूतलवृत्तिरित्येवं घटे भूतलवृत्तित्वलक्षणा या विशिष्टबुद्धिस्तां प्रति विरोधित्वमुपपद्यते, न त्वऽभेदसंसर्गकग्राह्याभावाश्रयप्रकारकनिश्चयस्य नाम ग्राह्याभावो यो भूतलवृत्तिर्घटाभावस्तदाश्रयो यत् घटाभाववद् अमेदसंबन्धेन यस्तत्प्रकारकनिश्वयः - घटाभाववदभिन्नं भूतलमिति तस्य तु विरोधित्व atreen इत्यर्थः । नीलो घट इति, अत्र कृष्णंमट्टो यथा- यथा राजस्वत्वाभाववान् पुरुषः सुन्दरः ? इति प्रत्यक्षं प्रति षष्ठी स्वत्वार्थिकेति नव्यमते ' राज्ञः पुरुषः ' इति शाब्दसामय्याः प्रतिबन्धकत्वं न कल्प्यते - ' राजस्वत्वाभाववान् पुरुषः ' इतिविशेष्यतावच्छेदकप्रकारक निर्णयः (निश्चयः) प्रत्यक्ष कारणं स एव निर्णयः शाब्दबोधे बाधः तादृशवाधाभावः शाब्दबोधे कारणं तथा च बाधतदभावयोर्युगपदवस्थानासंभवात् सामग्र्योर्मेलनं न संभवतीति न शाब्दसामग्री प्रत्यक्षे प्रतिबन्धिका तथा - ' नीलाभेदाभाववान् घटः प्रमेयः' इति प्रत्यक्षेपि नीलाभेदाभाववान् घटः । इति विशेष्यतावच्छेदकप्रकारक निर्णयः कारणं स एव च 'नीलो घटः ' इतिवाक्यजन्ये f नीलाभेदवान् घटः इतिशाब्दबोधे बाधः तस्य बावस्याभावः शाब्दबोधे कारणमिति प्रत्यक्षशाब्दसामयो बचतदभावघटितयोर्योगपद्यासंभवात् न शाब्दसामग्री प्रत्यक्ष प्रतिबन्धिकेत्युक्तरीत्येत्यर्थः । तथा च 'नीलो घटः इत्यत्रापि विशेषण विभक्तिरभेदबोधकतया षष्ठीवत्सार्थिकेत्यर्थः : । इष्टापत्त्या समाधत्ते - तथापि तत्रापि न नो विद्वेष इति दिगिति, तथापि प्रतिबध्यप्रतिबन्धकभावस्थले उक्तरीत्या लाघवसंभवेपि तत्रापि = प्रतिबन्धकतालाघवलभ्ये विशेषण विभवत्यभेदार्थकत्वेपि नः-अभेदसंसर्गतावादिनामस्माकं युक्तिबलाद्वस्तुसिद्धौ न विद्वेष इति भावः । इति व्युत्पत्तिवादे नामार्थान्वयबोधविवरणम् " इति ॥ ६ " 66 G "Aho Shrutgyanam" " Page #135 -------------------------------------------------------------------------- ________________ प्रत्ययविचारारम्भः ] व्युत्पत्तिवादः । (१२३) प्रत्ययाश्च विभक्तिकृत्तद्धितादिभेदेन नानाविधाः । विभाक्तिश्च सुतिङ्भेदेन द्विविधा । सुब्बिभक्तयः प्रथमाद्वितीयादयः सप्त । तत्र प्रथमार्थः प्रकृत्यर्थे विशेषणविधयाऽन्वयिनी संख्येव, अत एव यत्र विशेष्यवाचकसमानविभक्तिकपदं निपातपदं वा नास्ति तत्र प्रथमान्तार्थस्य विशेष्यभासकसामग्यऽभावादसौ मुख्यविशेष्यतयैव भासते । संख्यावाचकानां चैकवचन द्विवचनबहुवचनानामेकत्वत्वदित्वत्वबहुत्वत्वावच्छिन्नेषु शक्तिः । शक्तता च सुत्वौत्वजस्त्वादिना न तु स्वादितिबादिसाधारणैकवचनत्वादिना-एकवचनत्वादे१र्वचत्वात् । न चैकत्वादिवाचकत्वं तत्-वाचकतायाः शक्ततारूपत्वे आत्माश्रयप्रसङ्गात् , बोधकता पूर्व प्रत्ययजन्योपस्थितेः शाब्दबोधं प्रति कारणत्वमुक्तमिति संप्रति प्रत्ययं निरूपयति-प्रत्ययाश्चेति । स्पष्टीयं ग्रन्थः । प्रथमं प्रथमाविभक्त्यर्थमाह- तत्रेति । प्रथमया कर्मत्यादीनां बोधो न भवतीति संग्ल्यैव प्रथमार्थः । सा च संख्या प्रकृत्यर्थे विशेषणं भवतीत्यर्थः । “संख्यैवेत्येवकारेण संख्यातिरिक्तार्थव्यवच्छेदः, अन्यथा' तण्डुलं पचति ' इत्यत्र द्वितीयार्थ एकत्वं कर्मत्वं च तत्र ' एकत्वविशिष्टतण्डुलनिष्ठा कर्मता ' इति बोधाद् यथैकत्वं प्रकार एव न तु विशेष्यं तथा, संख्यातिरिक्तार्थस्वीकारे तस्यैव विशेष्यतया भानं स्यान्न त्वेकत्वस्य, घटः' इत्यत्र नीलादिपदान्तराऽसमभिव्याहारे ‘घटवृत्त्य कत्वम् ' इत्येवानुभूयते न तु 'एकत्ववान् घटः' इति तथा सति घटस्वादिधदेकत्वस्यापि प्रकृत्यथत्वं स्यादिति प्रथमा निरर्थकैव स्यादिति वैयाकरणमतप्रवेश इति भावः" इति कृष्णभट्टाः । प्रथमार्थस्य संख्यायाः शाब्दबोधे विशेष्यत्वेपि प्रकृत्यर्थे नीलादिवदऽन्वयित्वाकम्-विशेषणविधयेति । अत एव संख्यामात्रस्यैव प्रथमार्थत्वादेव । 'नीलो घटः' इत्यत्र शष्यवाचकसमानविभक्तिकं नीलपदमस्तीति का एक विशेष्यतया भासते। 'चन्द्र इव मुखम् ' इत्यत्र इवेतिनिपातस्य सादृश्यार्थकस्य सत्त्वात् चन्द्रप्रतियोगिकसादृश्यविशेष्यतया किं वा चन्द्रविशेष्यतया मुखमेव भासते न प्रथमार्थः संख्या । 'घळ ' इत्यत्र च प्रथमान्तार्थस्य=वटस्योक्तविशेष्यमासकसामग्र्यऽभावादसौ-प्रथमार्थः संख्यैव मुख्यविशेष्यतया मासते- 'घटवृत्त्येकस्वम् ' 'घटौ' इत्यत्र ' घटवृत्ति द्वित्वम् ' ' घटाः ' इत्यत्र ‘घटवृत्ति बहुत्वम् ' इति बोधोदयात् । शक्ततेति-सुइत्येकवचनस्यैकत्वं शक्यमित्येकत्वे एकवचनसुपदस्थ शक्तिः शक्ततावच्छेदकं च सुत्वमेव नैकवचनत्वम्, एवं द्वित्वे औइतिद्विवचनपदं शक्तं शक्ततावच्छेदकमौत्वमेव न द्विवचनत्वम् , बहुत्वे जसितिबहुवचनपदं शक्तं शक्ततावच्छेदकं च जस्वमेव न तु बहुवचनत्वमित्यन्वयः । एकवचनत्वादेः शक्ततावच्छेदकत्वाऽसंभवे हेतुमाह- एकवचनत्वादरिति । नन्वेकत्यादिवाचकत्वमेव तत्-एकवचनत्वादि ज्ञेयमित्याशझ्याह- न चेति । परिहारमाह- वाचकताया इति, 'एकत्ववाचकत्वमेकवचनत्वम्' इत्यत्र या वाचकता सा यदि शक्ततारूपा गृह्यते तदा 'केन रूपेण शक्तता ' इति निरूपणे किं वा शक्ततावच्छेदकनिरूपणे शक्तताज्ञानापेक्षा प्रात्यात्माश्रयदोषापत्तिः । यदि च वाचकतात्र बोधकतारूपा गृह्यते तदा शक्तिश्रमेण औइ "Aho Shrutgyanam" Page #136 -------------------------------------------------------------------------- ________________ १२४ ) सादर्श: [ प्रथमाकारके रूपत्वे शक्तिभ्रमेण द्विवचनादीनामप्येकत्वबोधकतयाऽविप्रसक्तत्वात् । न चैकवचनत्वादिकं जातिविशेषः- सुत्वादिना साङ्कर्यात् । LL न च शक्तिसंबन्धेनैकवचनादिपदवत्रं तत् तादृशाज्ञानदशायां च सुत्वादिना शक्तिभ्रमादेव शाब्दबोधः, एकवचनादिशब्दस्य पदद्वयात्मकतमा तादृशसमुदायशक्तेरेवाप्रसिद्धिरिति तु नाशङ्कनीयम् एकं वक्तीत्यादिव्युत्पत्त्या एकवचनादिशब्दस्य स्वादिबोधकत्वे एकादिशब्देपि तादृशव्यवहारापत्तेः । एकवचनादिशब्दस्य स्वाद रूढिस्वीकारस्यावश्यकत्वादिति वाच्यम्, ग्रन्थकारीयसङ्केतेनैवोपपत्तावेकवचनादिपदे शक्तेरप्रामाणिकत्वात् । तान्येकवचनद्विवचन च्यादिद्विवचनस्याप्येकत्वबोधकत्वेन द्विवचनस्याप्येकवचनत्वं स्यादित्यन्वयः । साङ्कर्यादिति--सुगपघटकपदे त्वमस्त्येकवचनत्वं नास्ति अमूविभक्तावेकवचनत्वमस्ति सुत्वं नास्ति सुत्वमेकवचनत्वं च सुविभक्तात्रस्तीति साङ्कर्यम् । सुप्त्वादिनेति पाठे तु सुप्त्वं सुब्बहुवचनेष्वस्ति तत्रैकवचनत्वं नास्ति, एकवचनत्वं च तिडेकवचनेष्वस्ति तत्र सुप्त्वं नास्ति सुप्त्वमेकवचनत्वं च सुबे - कवचनेष्वस्तीति साङ्कर्यं विज्ञेयम् । शङ्कते - न चेति । अयमर्थ:- एकत्वादिबोधकं स्वादिकं तादृशस्वादिबोधकं चैकवचनादिपदम् - " तान्येकवचन" इत्यादिसङ्केतात् तत्रैकवचनादिपद निष्ठायाः शक्तेर्निरूपकत्वं स्वादिष्वऽस्तीति तादृशनिरूपकत्वसंबन्धेन स्वादिषु शक्तिर्वर्तत इति तादृशशक्तिसंबन्धेन स्वादिष्वेकवचनादिपदं वर्तते इति तादृशं शक्तिसंबन्धेनैकवचनादिपदवत्त्वमेवैकत्वादिनिरूपितशक्तताया अवच्छेदकं न तु सुत्वादिकमित्यर्थः । किं वा तत्पदेनात्रोक्तैकवचनत्वं प्राह्मं तच शक्ततावच्छेदकमेव । नन्चेतादृशशक्ततावच्छेदकज्ञानामाये स्वादिनैकत्वादिबोधो न स्यादित्याशङ्क्याह- तादृशेति, उक्तंशक्ततावच्छेदकाऽज्ञानदशायामपि स्वादीनां सुत्वादिरूपेणैकत्वादिषु : शक्तिभ्रमः संभवतीति नादृशशक्तिभ्रमादेवैकत्वादिबोधः संभवतीत्यर्थः । नन्वेकस्मिन्नर्थे एकस्य पदस्व शक्तिर्भवति न नेकपदानामत एव वाक्यस्य वाक्यार्थे शक्तिर्न स्वीक्रियते तथा च एकवचनम् ' इतिपदं पदद्वयात्मकमस्तीति तादृशपदसमुदायस्य शक्तिरेव प्रसिद्धा नास्ति यस्या उक्तरूपेण संबन्धत्वं स्यादित्याशङ्क्याह-- एकवचनादिशब्दस्येति, एकवचनादिशब्दानां स्वादिबोधकत्वस्य प्रसिद्धत्वात् स्वादिषु शक्तिरस्त्येव तत्रापि रूढयैव बोधकत्वं स्वीकार्य यदि चैकवचनादिपदस्यैकं बक्तीति व्युत्पत्त्या स्वादिबोधकत्वं स्यात्तदैकशब्दस्याप्येकत्वबोधकत्वेन ' एकं वक्ति ' इतियोना 27 6 "Aho Shrutgyanam" वत्त्वात् किं वा स्त्रादिबोधकैकवचनपद घटकत्वात् स्वादिबोधकत्वमापद्येत तस्मादेकवचनादिपदस्य स्वादिषु रूढिरेवास्तीति स्वीकार्य स्वादिष्वेकपदस्य तु रूढिर्नास्त्येवेत्यभिप्रायेणाहएकमिति । तादृशव्यवहारापत्तेः स्वादिवाचकत्वव्यवहारापत्तेः । परिहारमाह- प्रन्धकारीयेति, एकवचनादिपदं स्वादिबोधकमिति पाणिनिसङ्केत एव न तु शक्तिः शक्तेरीश्वरेच्छारूपत्वात्. पाणिनिसङ्केतेनाप्येकवचनादिपदानां स्वादिबोधकत्वमुपपद्यते एवेति तत्र शक्तिस्वीकारो व्यर्थ Page #137 -------------------------------------------------------------------------- ________________ एकवचनस्वादिपरिष्कारः] व्युत्पत्तिवादः । (१२५) इत्यादिपाणिनिसूत्रस्य तदीयसकेतग्रहपरतयाप्युपपत्तेः । न हि " यू स्याख्यौ नदी " इत्यनुशासनात् ख्याख्येदूदन्तादिशब्दे नद्यादिपदस्य शाक्तः सिद्धयति, किं तु तदीयसङ्केत एव । अत एव नद्यादिसंज्ञाऽऽधुनिकसङ्केतशालित्वात् पारिभापिक्येव न त्वौपाधिकी। __ अथैवमपि पाणिनिसङ्केत्तंसंवन्धेन तादृशपदवत्वमेवैकत्वादिशक्ततावच्छेदकमस्त्विति चेत्?, न । तादृशसङ्केतस्य केन रूपेण संबन्धता?, संकेतत्वेनेति चेत्?, तर्हि कस्यचित् धूस एकवचनपदात् स्वौजसादिबोद्धव्य इत्याकारकसंकेतस्यापि संभवादतिप्रसक्तिर्दुवारैव । पाणिनिसंकेतत्वेनेतिचेत् ?, तर्हि व्याकरणप्रणेतुः पुरुषान्सरस्थापि ताशसंकेतस्य सभवाव तदीयसङ्केतसंबन्धेन तत्पदवत्त्वस्य. डित्थादिपदात् स्वौजसादिबोधव्य इत्याकारकपुरुषसंकेतसंबन्धेन डित्यादिपदवत्त्वस्थ का विनिगमनाविरहेण शक्ततावच्छेदकताप्रसङ्गस्तथा चागत्या आनुपूर्वीविशेष एव शक्ततावच्छेदक इति । एवेत्यर्थः । न हीति- यथा- “ यूरुपाख्यौ नदी" इत्यत्र स्याख्येदूदन्तादिशब्देषु नदीपदस्य पाणिनिसंकेत एव न तु शक्तिस्तथैकवचनादिपदस्यापि स्वादिषु पाणिनिसंकेत एच न तु शक्तिरित्यर्थः । उक्त विनिगमनामाह- अत एवेति, नद्यादिसंज्ञा पाणिनिकृताधुनिकसंकेतशालिवात् परिभाषिक्येव न स्वौपाधिकी उपाधिभूतं घटत्वादिकं प्रवृत्तिनिमित्तं कृत्वा प्रवृत्ता संज्ञा औपाविकी भवति प्रथा घटे घट इति नद्यां च नदीति नह्येत्रमीदूदन्तशब्देषु नदीत्वं वर्तते येन नदीसंज्ञा औपाधिकी स्यात्, एवं प्रकृतेप्येकवचनादिपदं स्वादिषु पारिभाषिकमेवेति शक्तेरभावान्नोक्तं युक्तमित्यर्थः । शक्तिर्नास्त्येव यस्याः संबन्धत्वं स्थादिति यावत् । ___ ननु " तान्येकवचनशिवचन " इति संकेतेन 'एकवचनपदशक्यं सुअमादिकम् , द्विवचनपदशक्यं औइत्यादिकम् , बहुवचनपदशक्यं जसादिकम् ' इति बोध्यते तथा च निरूपकत्वसंबन्धेन पाणिन्युक्तसंकेतः सुअमादिषु वर्तते तादृशस्केतसंबन्धेन च सुअमादिषु एकवचनपदं वर्तते इति सुअमादीनामेकवचनपदवत्त्वं प्राप्तमिति तादृशपदवत्त्वमेव एकवचनपदवत्त्वमेव सुअमादिषु या एकत्वनिरूपिता शक्तता तादृशशक्तताया अवच्छेदकं ज्ञेयम्, एवम्- औइत्यत्र पाणिनिसंकेतसंबन्धेन द्विवचनपदवत्त्वं द्वित्वशक्ततावच्छेदकम्, जसादौ च बहुवचनपदवत्त्वं बहुत्वशक्ततावच्छेदकमित्याशङ्कते- अथेति । परिहरति- नेति । परिहारमुपपादयति-तादृशेति । ताहशसंकेतस्य-पाणिनिसंकेतस्य । यदि पाणिनिसंकेतस्यात्र केवलं संकेतत्वरूपेणैव संबन्यता तदा केनचित्पुरुषेण ' एकपचनपदात् स्वौजसादिबोद्धव्यः । इति संकेते कृते तादृशसंकेतसंबन्धेन एकवचनपदवत्त्वं ओजसादिनिष्ठाया द्वित्वबहुस्वशक्तताया अपि अवच्छेदकं स्यादित्यतिप्रसङ्गः स्यात् । यदि च पाणिनीसंकेतस्य पाणिनिसंकेतत्वेनैव संबन्धात्वं सदा चन्द्रादीनामपि व्याकरगप्रणेतृत्लेन चन्द्रादिसंकेतसंबन्धेनेकवचनपदवत्वस्याष्येकत्वादिशक्ततावच्छेदकत्वं स्यात् तथा "Aho Shrutgyanam" Page #138 -------------------------------------------------------------------------- ________________ र. १२६ ) सादर्श: [ प्रथमाकारके - यत्तु संख्यापि प्रकृतेरर्थः, एकवचनादिकं चैकत्वाद्यर्थे तात्पर्यग्राहकमेव, न चैवमेकप्रकृत्युपस्थाप्ययोरर्थयोः परस्परमन्वये आकाङ्क्षाविरहाद् घटादावेकत्वाव्यन्वयानुपपत्तिः, अन्यथा हर्यादिपदादुपस्थितयोरश्वसूर्ययोराधाराधेयभावेनान्वयापत्तिः, घटादिपदस्यैकत्वादिविशिष्टघटादौ च न शक्तिसंभवः 'घटरूपं पश्य इत्यादी संख्यानवच्छिन्नघटादेरेवाऽऽन्वयबोधादितिवाच्यम्, आकाङ्क्षावैचित्रयादेकप्रकृत्युपस्थाप्ययोरपि घटैकत्वयोः परस्परमन्वय संभवात् । अत एव खण्ड- शक्तयैवकारापस्थाप्ययोरन्ययोगव्यवच्छेदाद्योः परस्परमन्वयबोधः । केनचित् ' डित्थपदात् स्वौजसादिर्बोद्धव्यः' इति संकेते कृते तादृशसंकेतसंबन्धेन डित्थपदवत्वस्याप्येकत्वादिशक्ततावच्छेदकत्वं स्यादिति विनिगमनाविरहः कस्य शक्ततावच्छेदकत्वं स्वीकामिति निश्वयो न स्यादित्यगत्याऽऽनुपूर्वीविशेषः = सुत्वौत्वजस्त्वादिकमेव शक्ततावच्छेदकमिति स्वीकार्यमित्यर्थः । यत्तु केनचिदर्धवैयाकरणेनोक्तम्- ' प्रथमाविभक्तत्यर्थः संख्यापि 'घटः ' इत्यादौ प्रकृतेवार्थो न तु विभक्तेः, न चापि विभक्तेः सर्वथा नैरर्थक्यम् ? एकवचनादीनामेकत्यादी तात्पग्राहकत्वेन सार्थक्यात् ' इति तदनुवदति- यत्त्विति । ननु संख्याया अपि प्रकृत्यर्थत्वे छटः' इत्यादी घटपदेनैव संख्याया घटस्य चोपस्थितिः स्यादित्येकप्रकृत्युपस्थाप्यत्वाद् घटादौ संख्याया अन्वयो न स्यात्तादृशाकाङ्क्षाविरहादित्याशङ्कते - न चेति । विपक्षे बाधकमाहअन्यथेति । अन्यथा == एक प्रकृत्युपस्थाप्ययोरपि परस्परमन्वये हरिपदेनोपस्थितयोरश्वसूर्ययोरप्याधाराधेयभावेनान्वयः स्यात् न चैवं भवतीत्यर्थः । ननु यथैकघटपदेनोपस्थितयोरपि घटटटस्वयोः परस्परमन्यो भवति तथात्राप्येक ( घटपदरूप ) प्रकृत्युपस्थितयो र्घटैकत्वयोः परस्परमन्वयो भविष्यतीत्याशङ्क्याह - घटादिपदस्येति । तत्र घटपदस्य घटत्वविशिष्टे एवं घंटे शक्तिरस्तीति संभवत्यन्वयः, अत्रत्वेकत्वविशिष्ट घटे घटपदस्य शक्तिर्न संभवति, अन्यथा एकत्वावच्छिन्नस्यैव घटस्य सर्वत्र बोधः स्यान्न त्वेकत्वानवच्छिन्नस्य, भवति च संख्याऽनवच्छिन्नस्थापि चटस्य ' घटरूपं पश्य ' इत्यादौ बोधः, 'घटरूपम् ' इत्यादी रूपे एव संख्यान्वयस्य प्रतीयमानत्वादित्याह - घटरूपमिति । परिहारहेतुमाह - आकाङ्क्षति । आकाङ्क्षावैचित्र्यात् =शभक्तिवैचित्र्यात् ( अत्राकाङ्क्षापदं शक्तिपरमेवात्र ज्ञेयम् ) अत एव = आकाङ्क्षा ( शक्ति ) वैचि=यादेकप्रकृत्युपस्थाप्ययोरर्थयोः परस्परमन्वय संभवादेव एकेनाप्येवकारपदेन खण्डशक्त्योपस्थितयोरन्ययोगव्यवच्छेदयोः परस्परमन्वयो भवत्येव तत्रान्ययोगप्रतियोगिकस्य व्यवच्छेदस्य = अभावस्य प्रतीयमानत्वेन स्वप्रतियोगिकत्वसंबन्धेन व्यवच्छेदेऽन्ययोगस्यान्वयो भवति । तथा प्रकृतेपि संख्यायां घटादौ च घटादिपदानां खण्डशक्तिस्वीकारेण परस्परमन्वय संभवान्न का - चिदनुपपत्तिरित्यर्थः । 4 " "Aho Shrutgyanam" Page #139 -------------------------------------------------------------------------- ________________ संख्यावाचकविचार: ] व्युत्पत्तिवादः । ( १२७ ) न चैवं कर्मत्वादिकमपि प्रकृत्यर्थ पवास्तु किं तत्र द्वितीयादिशक्त्येतिवाच्यम्, नामार्थधात्वर्थयोः साक्षाद्भेदान्वयबोधस्याव्युत्पन्नतया कर्मत्वादेर्नामार्थत्वे सेन समं धात्वर्थान्वयाऽसंभवात् । न च संख्यायाः प्रातिपदिकार्थत्वे सति तात्पर्यज्ञाने विनैव शक्तिभ्रमं लक्षणाग्रहं च द्विवचनाद्यन्तपदादेकत्वादिबोधसंभवात् एकत्वादितात्पर्येणैकवचनान्तस्येव द्विवचनान्तस्यापि पदस्य स्वारसिकप्रयोगापत्तिरिति वाच्यम्, अनादितात्पयेस्यैव स्वारसिकप्रयोग मूलत्वात् एकवचनाद्यन्तपदस्यैवैकत्वादावनादितात्पर्योपगमेनातिप्रसङ्गविरहात् । द्वयेकयोर्द्विवचनैकवचने " इत्याद्यनुशासनं च ताहशतात्पर्यग्राहकमेवेति वैयाकरणमतम् । ፡፡ तदसत् - अनन्तानां प्रकृत्यानुपूर्वीणां शक्ततावच्छेदकत्वाषेक्षयाऽल्पतरविभयाद्यानुपूर्वीणामेकत्वादिशक्ततावच्छेदकत्वस्यैवोचितत्वात् । ननु यथा संख्या प्रकृत्यर्थस्तथा कर्मत्वादिकमपि ' घटं करोति' इत्यादौ प्रकृत्यर्थ एव भवतु द्वितीयादिविभक्तिश्च तात्पर्यग्राहिका भविष्यतीत्याशङ्क्याह- न चैवमिति । परिहारहे - तुमाह- नामार्थेति, नामार्थधात्वर्थयोः साक्षाद् भेदेनान्वयो न भवतीति कर्मत्वादेरपि प्रकृत्यर्थवेन नामार्थस्खे प्राप्ते तेन कर्मत्वादिना सह धात्वर्थस्य साक्षाद् भेदेनान्त्रयो न स्यादिति न कर्मस्वादीनां प्रकृत्यर्थत्वं स्वीकर्तुं शक्यते - कर्मत्वादेर्धात्वर्थेन सह साक्षाद्भेदान्वयस्यैवेष्टत्वात् कर्मत्वादेर्द्वितीयाद्यर्थत्वस्वीकारे तु प्रत्ययार्थधात्वर्थयोः साक्षाद् भेदान्वयस्येष्टत्वात् निरूपकत्वसंबन्धेन कर्मत्वादेर्धात्वर्थेन सह साक्षाद् भेदान्त्रयः संभवति । संख्यायाः प्रातिपदिकार्थत्वे = प्रकृत्यर्थत्व स्वीकारे शक्तिभ्रमं लक्षणाग्रहं च विनैव 'घटो इतिपदमेकत्वविशिष्टं बोधयत्विति तात्पर्यज्ञाने सति द्विवचनाद्यन्तपदादेकत्वादिबोधसंभवादेकत्वादितात्पर्येणैकवचनान्तस्येव द्विवचनान्तस्यापि पदस्य प्रयोगः स्यादेव प्रकृतेरेवैकत्वादिसंख्याबोधकत्व - स्वीकारात् तादृशप्रकृतेश्च द्विवचनान्त प्रयोगेपि सत्त्वादित्याशङ्कयाह - न चेति । संख्याया विभक्त्यत्वे तु द्विवचनान्तप्रयोगे एकत्वबोध कैकवचनस्याभावान्न द्विवचनान्तपदेनैकत्वबोधापत्तिः, एकतात्पर्येण द्विवचनान्तप्रयोगापत्तिर्वेति भावः । परिहारहेतुमाह- अनादीति, अनादितात्पर्ये सत्येव स्वारसिकप्रयोगो भवति, एकत्वादौ चैकवचनाद्यन्तपदस्यैवानादितात्पर्यस्वीकारेण नैकत्वतापर्येण द्विवचनान्तपदप्रयोगापत्तिरिति नातिप्रसङ्ग इति संख्यायाः प्रकृत्यर्थत्वस्वीकारेपि न दोष इत्यर्थः । नन्वेकवचनान्तपदस्यैवैकत्वादावनादितात्पर्यमस्ति न द्विवचनाद्यन्तपदस्येत्यत्र किं मानमित्याशङ्कयाह- द्वषेकयोरिति । तादृशतात्पर्यग्राहकम् = अनादितात्पर्यग्राहकम् । यत्वित्यादिनोक्तं वैयाकरणमतं निराचष्टे- तदसदिति, संख्यायाः प्रकृत्यर्थत्वे प्रकृतेरेव · संख्यायां शक्तत्वं स्यादिति घटपटादिप्रकृत्यानुपूर्वीणामनन्तानां शक्ततावच्छेदकत्वं स्यादिति महद् गौरवं स्यात् तस्मात् सुत्लोवजस्त्वादिरूपाणां विभक्त्यानुपूर्वीणामेव लाघवाच्छक्ततावच्छेदकत्वं युक्तं विभक्त्यानुपूर्वीणामत्यतरत्वादिति विभक्तेरेव संख्यार्थकत्वं न प्रकृतेरित्यर्थः । "Aho Shrutgyanam" Page #140 -------------------------------------------------------------------------- ________________ ( १२८ ) सादर्श: [ प्रथम कारके न च प्रातिपदिकत्वमेव शक्ततावच्छेदकं न तु घटपदत्वादिकमिति न शक्त्यानन्त्यमिति वाच्यम् प्रातिपदिकस्वस्थ दुर्वचत्वात् । तदज्ञानेष्येकत्वादिज्ञानस्थाssनुभविकत्वात् । पदत्वेन वर्णत्वेन वा शक्तत्वे विभक्तेरपि तद्वाचकतासिद्धेः । एकत्वादिशाब्दबोधात् पूर्वं वर्णत्वाद्युपस्थितेरप्यनावश्यकत्वाच्च । फलानुरोधेन तत्कल्पने च कल्पनागौरवात् । एवमानुपूर्वीभिन्नधर्मस्य वाचकतावच्छेदकत्वे घटपदं सुपदं च न संख्यावाचकमिति विपरीतनिश्चयकालेपि तादृशधर्मावच्छिन्नस्य वाचकताग्रहसंभवाद् घटः ' इत्यादौ संख्याया बोधापत्तिः । · मनु यदि घटादिकमेकत्वादिशक्ततावच्छेदकं स्यात्तदा घटादिपदस्वरूपाऽऽनुपूर्वीणानन्तत्वादनन्तशक्ततावच्छेदकस्वीकारापत्तिः स्यादपि नैवमस्ति किं तु प्रातिपदिकत्वमेव शक्तता - बच्छेदकम् प्रातिपदिकत्वं च प्रकृतिभूताखिलपदेष्वेकमेवेति न शक्ततावच्छेदकानन्त्यं न वा शक्त्यानन्त्यम् - प्रातिपदिकस्यैव संख्यायां शक्तिस्वीकारादित्याशङ्क्याह- न चेति । परिहारहेतुमाह - प्रातिपदिकत्वस्येति, प्रकृतिभूतसकलपदसाधारणस्य प्रातिपदिकत्वस्य निरूपयितुमा - क्यत्वादित्यर्थः । किं च यदि प्रातिपदिकत्वमेकत्वादिशक्ततावच्छेदकं स्यात्तदा 'घटपदं प्रातिपदिकम् ' इत्येवं प्रातिपदिकत्वज्ञानं विनैकत्वबांधो न स्यात् न चैवमस्ति किं तु तदज्ञानेपि = प्रातिपदिकत्वाज्ञाप्येकत्वविषयक बोधो भवत्येवेति न प्रातिपदिकत्वमेकत्वादिशक्ततावच्छेदकमित्याह-- तदज्ञानेपीति । यदि च संख्यायां पदस्य शक्तिः शक्ततावच्छेदकं च पदत्वम्. किं वा संख्यायां वर्णस्य शक्तिः शक्ततावच्छेदकं च वर्णत्वमित्युच्यते तदा विभक्तेरपि पदरूपत्वाद्वर्णरूपनाव तद्वाचकता संख्यावाचकत्वं प्रातमेवेलाह- पदस्येनेति । यदि पदस्थं का वर्णत्वं वा शक्ततावच्छेदकं स्यात्तदा एकत्वादिसंख्याशाब्दबोधात्पूर्वं वर्णत्वात्युपस्थितेरप्यपेक्षा स्याद् न चैवमस्ति वर्णत्वाद्युपस्थितिं विनाप्येकत्वबोधसंभवादिति न वर्णत्वादिकं शक्ततावच्छेदकमिन्याह- एकत्वादीति । फलानुरोधेनेति- शक्ततावच्छेदकोपस्थितिं विना शक्यार्थबोधो न भवतौति नियममाश्रित्य यदेकत्वशाब्दबोधे फलरूपे जाते तत्पूर्वं हेतुभूतायाः शक्ततावच्छेदकरना - खुपस्थितेः कल्पना क्रियेत तदा गौरवं स्यादेव - लोके वर्णत्वायुपस्थितिमन्तरेणैवैकत्वादिबोधस्य श्रसिद्धत्वादित्यर्थः । 5 दोषान्तरमाह - एवमिति, सुखाद्यानुपुर्वीभिन्नस्य धर्मस्य प्रातिपदिकत्वादेर्ययेकत्वादिसंख्यानिरूपितशक्ततावच्छेदकत्वं स्यात्तदा 'घटपदं सुपदं च न संख्यावाचकम् इत्याकारकबाधनिवकालेपि तादृशधर्मावच्छिन्नस्य प्रातिपदिकत्वादिधर्मावच्छिन्नस्य संख्यावाचकत्वप्रहस्य संभवात् 'घटः ' इत्यादी संख्याया बोचः स्यादेव - घटपदं सुपदं च न संख्यावाचकम् ' इति ज्ञानेन घटपदपदयोः संख्यावाचकत्वग्रह प्रतिबन्धेपि प्रातिपदिकस्य संख्यावाचकत्वग्रहप्रतिबन्वासंभवात् । न च ' त्रपदं सुपदं च न संख्यावाचकम् ' इति ज्ञाने सति 'घटः ' इत्पादो "Aho Shrutgyanam" Page #141 -------------------------------------------------------------------------- ________________ संख्यावाचकविचार: ] व्युत्पत्तिवादः । अथ विभक्तीनां सार्थकतामते प्रकृतिविभक्त्योरेकवाक्यताविरहनिश्चयदशायां विभक्त्युपस्थाप्यैकत्वादेः प्रकृत्यर्थेऽन्वयबोधवारणाय तयोः समभिव्याहारज्ञानस्य घटादिविशेष्य के कत्वान्वयबोधं प्रति कारणत्वमधिकं कल्पनीयम् । एकपदोप स्थापितयोर्धटेकत्वाद्योरन्वयबोधोपगमे च न समभिव्याहारज्ञानस्य तत्र हेतुता कल्प्यते इति लाघवात् प्रकृत्याद्यानुपूर्वीणां संख्यावाचकतावच्छेदकत्वमुपेयते इति चेत् ?, न, आकाङ्क्षाविचारे समभिव्याहाराकाङ्क्षाज्ञानस्य हेतुताया निराकृतत्वात् । संख्याबोधो भवतीति न त्वाद्यानुपूर्वीभिन्नधर्मस्य प्रातिपदिकत्वादेः शक्ततावच्छेदकत्वं किं तु त्वादेरेवेत्यर्थः । 6 ननु यदि विभक्तेरेव संख्यार्थत्वं स्यात्तदा प्रकृतिविभक्त्योरेकवाक्यताविरहनिश्चयदशायां नाम यदा घट: ' इत्यत्र घटपदेन घटोपस्थितिर्जाता पट: इति पटपदोत्तरसुत्रिभक्त्या चैकवोपस्थितिर्जाता तदा प्रकृतिविभक्त्योरेकवाक्यत्वं नास्तीत्येकवाक्यत्वाभावेपि विभक्त्युपस्थितैकस्वस्य प्रकृत्यर्थे = प्रातिपदिकार्थे घटेऽन्वयः स्यादेव बाधकाभावाद् विभिन्नपदोपस्थितयोः परस्परमन्वयस्य लोकप्रसिद्धत्वात् न चैवं प्रकृतिविभक्त्योरेकवाक्यताविरहे पटपदोत्तर विभक्त्यर्थसंवाया घटादावन्वयो भवतीति तादृशान्वयबोधवारणाय तयोः = प्रकृतिविभक्त्योः समभिव्याहारज्ञानस्य=' घटः' इत्येवं घटपदोत्तर सुत्वरूप समभिव्याहाराकाङ्क्षाज्ञानस्य घटविशेष्यकैकत्वान्वयबोधं प्रति कारणत्वमधिकं कल्पनीयम्, तथा विभक्तिज्ञानजन्यैकत्वोपस्थितेरपि कारणत्वं कल्पनीयं स्यादित्याऽऽशङ्कते - अथेति । स्वमते लाघबमाह-- एकेति विभक्तेः संख्यार्थत्वास्त्री कारेण प्रकृतेरेव संख्यार्थत्वस्वीकारे तु घटपदेनैव घटेकत्वयोरुपस्थितिर्भवतीति तयोरन्वयबोधोपसेव तत्र-- घटविशेष्य के कत्वान्वयबोधे समभि याहारज्ञानस्य = घटपदोत्तर सुत्वरूपसमभिव्याहारज्ञानस्य हेतुता कल्प्यते - घटपदेनैव घटैकत्वयोरुपस्थितिस्वीकारात् विभक्तेः संख्यार्थत्वाभावाच्च संख्याप्रकारकान्वयबोधं प्रति विभक्तिसमभिव्याहारस्याऽकारणत्वादिति संख्ययाः प्रकृत्यर्थत्वे एतादृशलाघवात् प्रकृतेरेव संख्यावाचकत्वं प्रकृत्यानुपूर्व्या एव च संख्पानिरूपितशक्ततावच्छेद करवं स्वीक्रियते । अत्र च मते विभक्तिज्ञानजन्यैकत्वादिसंख्योपस्थित प्यपेक्षा नात्येव प्रकृत्वैव संख्योपस्थितेः संभवादित्यर्थः । परिहरति- नेति । परिहारहेतुमाह- --आक क्षेति, अत्र-- यत्पदार्थस्य यत्पदार्थेन सहान्वयत्रोधो विवक्षितस्तयोः पदयोः परस्परसमभिव्याहार आकाङ्क्षति तात्यगर्भाऽऽकाङ्क्षा सा च तात्पर्यघटितेति तात्पर्यज्ञानकारणतयैव शाब्दबोध निर्वाहे घट इत्यादी खटपदोत्तरसुत्वरूप समभिव्याहा गक झाज्ञानहेतुताया निराकृतत्वादित्यर्थः " इति कृष्णभट्टाः । एकपदोपस्थापितयोः = घटाद्यैकपदोपस्थापितयोः । Ex नन्वेवमपि तात्पर्यज्ञानस्य कारणत्वमाश्रित्य समभिव्याहाररूपाचा क्षात्रः नस्य कारणत्वास्वीकारेपि विभक्तेः संख्यार्थकत्वे घटादिविशेष्यक संख्याप्रकारकान्वयबोध प्रति प्रकृतिधर्मिकस्य = " ( १२९ ) "Aho Shrutgyanam" " Page #142 -------------------------------------------------------------------------- ________________ ( १३० ) सादर्श: [ प्रथमा कारके अथैवमपि विभक्तेः संख्यार्थकत्वे विनिगमनाविरहेण प्रकृतिधर्मिकस्य विभ क्तिर्धार्मिकस्य च संख्या प्रकारकान्वयबोध परत्वज्ञानस्य हेतुता कल्पनीया, विभ क्तकत्वमते तु विभक्तितात्पर्यविरहेण प्रकृतिधर्मिकमेव तात्पर्यज्ञानं तादृशान्वयबोधहेतुरिति लाघवमिति चेत् ?, न- विभक्तः संख्यावाचकताविरहेपि प्रकृ तिविभक्त्योरानुपूर्वीज्ञानस्य तादृशान्वयबोधहेतुताया निर्विभक्तिकादिपदज्ञानादन्वयबोधवारणायावश्यकल्पनायतया संख्यावाचकमकृतेरिव तदवाचकविभक्तेरपि संख्यान्वयबोधकत्वप्रकारकेच्छाविषयत्वरूपतादृशबोधपरत्वसंभवेन विभ क्तिधर्मिकतज्ज्ञानहेतुताया विनिगमनाविरहेणाऽऽवश्यकत्वात् । अथ स्वादीनां संख्यावाचकत्वकल्पनापेक्षया प्रकृतेस्तत्र लक्षणैवोचिता शविभक्तिसमभिव्याहृता प्रकृतिः संख्याप्रकारकान्वयबोधपरा इत्यस्य विभक्तिधर्मिकस्य=प्रकृतिमन्याता विभक्तिः संख्याप्रकारकान्वयबोधपरेत्यस्य च तात्पर्यज्ञानस्य विनिगमनाविरहेण हेतुता प्राप्तति द्विविधतात्पर्यज्ञानस्य कारणत्वं कल्पनीयमिति गौरवं स्यादित्याशङ्कते - अथेति । स्वमते लाघवमाह-विभक्तेरिति । द्योतकत्वमते= संख्या तु प्रकृत्यर्थ एवं विभक्तेस्तात्पर्यग्राहकत्वंमिति मतं तु विभक्तितात्पर्यविरहेण = विभक्तिः संख्याप्रकारकान्वयबोधं जनयतु इत्याकारकतात्पर्यस्य विभक्ता ( विभक्तिविषयकस्य भावात् केवलं प्रकृतिधर्मिकस्यैव प्रकृतिः संख्याप्रकारकान्वयबोधं जयतु इत्यस्यैवैकस्य तात्पर्यज्ञानस्य घटादिविशेष्यकसंख्याप्रकारकान्वयबोधं प्रति हेतुत्वमस्तीति लाघवमित्यर्थः । परिहरति- नेति, यदि प्रकृतिविभक्त्योः 'घटः इत्येवमव्यवहितानुपूर्वीज्ञानस्य घटादिविशेष्य कसंख्याप्रकारकान्वयबोधं प्रति हेतुत्वं न स्यात्तदा घटरूपम् ' इत्यादी निर्विभक्तिकं यद् घटपदं तज्ज्ञानादपि घटे संख्यान्वयस्य बोधः स्यादेव बाध - काभावात् न चैत्रं भवतीति निर्विभक्तिकपदज्ञानात्संख्यान्वयबोधवारणाय प्रकृतिविभक्त्योरव्यवहितानुपूर्वीज्ञानस्य हेतुता विभक्तेः संख्यावाचकत्वास्वीकारेपि कल्पनीया तथा च संख्यावाचकप्रकृतेरिव तदवाचक= संख्यावाचकविभक्तेरपि प्रकृतिसमभिव्याहृता विभक्तिः संख्याप्रकारकानवमं बोधयतु इत्याकारिका या संख्यान्वयबोधकत्वप्रकारकेच्छा तादृशेच्छाविषयत्वरूपं यत्तादृशबोधपरत्वम् = संख्याप्रकारकबोधपरत्वं तत्संभवेन विभक्तिधर्मिकतज्ज्ञानहेतुतायाः = विभक्तिवर्मिकस्थ संख्याप्रकारकान्वयबोधतात्पर्यज्ञानस्य हेतुताया विनिगमनाविरहेणावश्यं कल्पनीयत्वात् तंव मयुक्तलाघवं न संभवतीति तव मम चात्र साम्यमेवेत्यर्थः । किं वा प्रकृतिधर्मिकस्येत्यस्य स्वादिविभक्तिपदाव्यवहितपूर्ववर्तिघटादिपदत्वज्ञानस्य विभक्तिधर्मिकस्येत्यस्य च घटादिपदाव्यवहितोत्तरवर्तिस्यादिविभक्तिपदत्वज्ञानस्येत्यर्थः । संख्या प्रकार कान्वयबोधं प्रति विनिगमनाविरहादेताशोभयविधतात्पर्यज्ञानस्य कारणत्वापत्तिः प्रतिपादितैव । , ननु स्वादीनामपि संख्यावाचकत्वं न युक्तं तथा प्रकृतेरपि संख्यावाचकत्वं न युक्तं किं तु संख्यामा प्रकृतेर्लक्षणैव स्वीकार्येत्याशङ्कते - अथेति । नन्वेवम् घट: ' इत्यादौ पदेन 6 "Aho Shrutgyanam" Page #143 -------------------------------------------------------------------------- ________________ - संख्यावाचकविचारः ] व्युत्पत्तिवादः । ( १३१ ) क्यलक्ष्ययोः परस्परमन्ययोपगमे क्षतिविरहात्, प्रथमाविभक्तेः कुत्रापि शक्तेरक्ल- सतया तस्याः शक्यसंबन्धरूपा लक्षणा न संभवति, द्वितीयादेः कर्मत्वादौ शक्तत्वेपि तादृशविभक्तेस्तत्समभिव्याहतप्रकृतेर्वा संख्यायां लक्षणेत्यत्र विनिगमकं दुर्लभम् । न चैकत्वाद्यन्वयबोधे घटपदादिज्ञानजन्योपस्थितित्वेनाऽनन्तहेतुता कल्पनमपेक्ष्य स्वादिपदज्ञानजन्यतदुपस्थितित्वेन कतिपयहेतुताकल्पनायां लाघवात् कतिपयशक्तिकल्पने गौरवमकिंचित्करम, सामान्यतः पदवृत्तिज्ञानजन्यतदुपस्थि शक्त्या घटोपस्थितिर्लक्षणया: चैकत्वोपस्थितिः स्यात्तत्र शक्यलक्ष्ययोर्घटैकत्वयोः कथं परस्पर-मन्वयः स्यात् एकेन घटपदेनैककाले व्यापारद्रयासंभवेन शक्त्या घटस्य लक्षणया चैकत्वस्योपस्थितैरसंभवादित्याशङ्क्याह - शक्येति, ८ यथा गङ्गायां घोष:' इत्यनेन ' गङ्गातीरे बोष: - इति बोधस्वीकारे गङ्गापदेन शक्त्या प्रवाहस्य लक्षणया च तीरस्योपस्थितिर्जायते तथात्रापि - शक्त्या वस्य लक्षणया चैकत्वस्योपस्थितिसंभवाद् कत्वयोः परस्परान्वये न काप्यनुप* पत्तिर्न वा कापि क्षतिरित्यर्थः । ननु संख्यायां प्रकृतेर्लक्षणास्वीकारापेक्षया विभक्तेरेव लक्षणा किं - न स्यादित्याशङ्क्याह-- प्रथमाविमक्तेरिति । नन्वेवं द्वितीयादेस्तु कर्मत्यादौ शक्तिरस्तीति संख्यायां शक्यसंबन्धरूपा लक्षणा संभवत्येवेति ' घटं करोति' इत्यादौ विभक्तेरेव संख्यायां -लक्षणा स्वीकार्य न तु प्रकृतेरित्याशङ्क्याह- द्वितीयादेरिति द्वितीयादेः कर्मत्वादौ शक्ति- रस्ति प्रकृतेरपि प्रकृत्यर्थे शक्तिरस्तीति प्रकृतित्रिभक्त्योरुभयोरपि संख्यायां शक्यसंवन्धरूपा 'लक्षणा संभवत्येवेति द्वितीयादिविभक्तेरेव संख्यायां लक्षणा स्यात् किं वा द्वितीयादिप्रकृतेरेव • संख्यायां लक्षणा स्यादित्यत्र विनिगमकं किमपि नोपलभ्यते इत्यर्थः । तादृशविभक्तेः द्वितीयादिविभक्तेः । तत्समभिव्याहृतप्रकृतेः द्वितीयादिविभक्तिसमभिव्याहृतप्रकृतेः । यथप्युक्तरीत्या द्वितीयाद्यन्तप्रयोगस्थले संख्यायां विमक्तेर्वा प्रकृतेर्वा लक्षणेत्यत्र विनिगमकं दुर्लभं तथापि प्रथमान्तप्रयोगस्थले संख्यायां प्रकृतेरेव लक्षणाया उक्तरीत्या समाश्रयणाद् द्वितीयायन्तप्रयोगस्थ - प्रकृतेरेव संख्यायां लक्षणा स्वीकार्या, अन्यथा प्रथमान्तप्रयोगस्थले संख्यायां प्रकृतलक्षणा द्वितीयाद्यन्तप्रयोगस्थले च संख्यायां विभक्तेर्लक्षणेति वैषम्यं स्यादित्यवधेयम् । ननु संख्यायां प्रकृतेर्लक्षणास्वीकारे प्रकृतीनां घटपटादिपदानामनन्तत्वेनैकत्वादिसंख्याप्रका- रकान्यबोधं प्रति 'घटः' इत्यत्र घटपदजन्यैकत्वोपस्थितेः कारणता 'पटः' इत्यत्र च पटपदजन्यैकत्वोपस्थितः कारणतेत्यनन्तकार्य कारण मात्र कल्पनापत्त्या महद् गौरवं स्यादिति तदपेक्षया लाघवार्थ विभक्तेरेत्र संख्यार्थकत्वं स्वीकार्य तथा च प्रकृतीनामपेक्षया स्वादिविभक्तीना मल्पत्वाद् एकत्वादिसंख्याप्रकारकान्वयबोधं प्रति स्वादिविभक्तिपदजन्यैकत्वादिसंख्योपस्थितेः कारणत्वाभाव लाघवं स्यात् एवं हि यद्यपि संख्यायां प्रथमाविभक्तेः शक्ति कल्लनप्रयुक्तं गौरवमस्ति तथापि लक्षणयाउनन्त प्रकृतिजन्याऽनन्तसंख्योपस्थितीनां कारणत्वस्वीकारापेक्षया संख्यायां विभक्तिशक्तिकल्पनप्रयुक्तं गौरवमर्किचित्करम्= तुच्छमेवास्तीति विभक्तेरेव संख्यायां शक्तिरेव स्वीकर्तव्येत्याशङ्कते - न चेति । "Aho Shrutgyanam" Page #144 -------------------------------------------------------------------------- ________________ (१३२) सादर्श: [ प्रथमाकारकेतित्वेनैककरणताकल्पनं तु न सम्यक् निर्विभक्तिककुम्भपदादितः संख्योपस्थिती तदगृहीतवृत्तिकघटादिपदे तत्तद्विभत्तयन्तत्वज्ञानवतः पुंसो घटादौ संख्यान्वयबोधप्रसङ्गाद् , घटपदादिज्ञानजन्यैकत्वाद्युपस्थितित्वेनैकत्वादिविषयकशाब्दबोधहेतुतां कल्पयित्वा विभक्तिघटादिपदानुपूर्वीज्ञानताशोपस्थित्योः परस्परसहकारेण फलजनकताया अवश्याभ्युपेयत्वादिति वाच्यम्, घटादिपदस्यैकत्वादी लक्षणानन्चेकत्वादिसंख्याप्रकारकान्वयबोधं प्रति 'घटः । इत्यत्र धटपदजन्यैकत्वोपस्थितेः कारणता.. 'पट: ' इत्यत्र पटपदजन्यैकत्वोपस्थितेः कारणतेत्येवं न वक्ष्यामो येन तत्तत्पदनिवेशेनानन्तकारणताकल्पनं स्यात्, किं तु सामान्यतः पदवृत्तिज्ञानजन्यतदुपस्थितित्वेन पदनिष्ठसंख्या विषयकवृत्तिज्ञानजन्यसंख्योपस्थितेः ( लक्षणावृत्त्या प्रकृतिभूतपदजन्यसंख्योपस्थितेः ) कारणंतेत्येवमेककारणतामेव कल्पयाम इति नोक्तगौरवम्, पदवृत्तिज्ञानजन्यसंख्योपस्थितित्वं च घटादिसकलपदजन्यसंख्योपस्थितावस्त्येवेति प्रकृतेरेव संख्यायां लक्षणान विभक्तेः शक्तिरित्याशङ्कयाहसामान्यत इति । अस्य परिहारमाह- निर्विभक्तिकेति, एवं सामान्यतः पदजन्यसंख्योपस्थितेः संख्याप्रकारकशाब्दबोधं प्रति कारणत्वस्वीकारे यदा कस्यचित् पुंसः 'कुम्भरूपम् ' इत्यत्र निर्विभक्तिककुम्भपदात्संख्योपस्थितिर्जाता तदगृहीतवृत्तिकघटादिपदे- धटः । इत्यत्र घटपदस्य च संख्यायां लक्षणाग्रहो न जातः किं तु विभक्त्यन्तत्वमात्रज्ञानं जातं तदा कुम्भपदादु। पस्थितसंख्याया अपि घटेऽन्वयबोधः स्यादेव संख्योपस्थितेः घटपदेनाजातवेपि कुम्भपदेन जातत्वात् सामान्यतः पदजन्यसंख्योपस्थितेरेव कारणत्वस्वीकारात्, न च कुम्भपदादुपस्थितसंख्यायः घटादावन्वयो भवतीत्यर्थः । तथा चोक्तदोषवारणाय घटविशेष्यकसंख्याप्रकारकशाब्दबोधं प्रति घटपदजन्यैकत्वादिसंख्योपस्थितेः कारणत्वं कल्पनीयं तत्रापि 'घटरूपम् । इत्यादौ घटपदेन सं. ख्योपस्थितौ तादृशसंख्याया घटेऽन्वयबोधवारणाय विभक्तिघटादिपदानुपूर्वीज्ञानतादृशोपस्थित्यो:अव्यवधानेन घटपदविभक्तिपदानुपूर्वीज्ञानजन्ययोः (विभक्तयन्तघटादिपदज्ञानजन्ययोः . तादृशोपस्थित्योः प्रकृत्यर्थघटादिविषयकसंख्याविषयकोरस्थित्योः परस्परसहकारेण फलज नकताय :घटादिविशेष्यकसंख्याप्रकारकशाब्दबोधजनकतायाः स्वीकार्यत्वात् तत्र विभक्तिज्ञानस्यापि प्रविटत्वाल्लाघवात् संख्याया विभक्त्यर्थत्वमेवोक्तरीत्या युक्तं न प्रकृत्यर्थत्वमित्याह- घटपदादीति । 'प्रकृत्यर्थोपस्थिति विनापि संख्याप्रकारकशाब्दबोधो न संभवति संख्योपस्थिति विनापि न सभवतीत्युक्तम्- परस्परसहकारेणेति ।। न चेत्यादिना शङ्कितं परिहरति- घटादिपदस्येति, त्वया टेकत्वादिसंख्यान्वयबोधे घटादिपदज्ञानजन्यसंख्योपस्थितेः कारणत्वे संख्योपस्थापकप्रकृतिभूतघटादिपदानामनातत्वेन तजन्यसख्योपस्थितीनामप्यनन्तत्वादनन्तकारणताकल्पनप्रयुक्तं संख्यायाः प्रकृत्यर्थत्वस्वीकारे गौरवं प्रदर्शितं तन्नृतनं नास्ति यतः- घटपदस्यैकत्वादी लक्षणाग्रहसत्त्वे ‘घटः प्रमेयः । इति वा "Aho Shrutgyanam" Page #145 -------------------------------------------------------------------------- ________________ संख्यावाचकविचारः ] व्युत्पत्तिवादः । ( १३३ ) ग्रहसत्त्वे 'घटः प्रमेयः' इत्यादिवाक्यात् ' एकत्वं प्रमेयम् ' इत्याद्यन्वयवोंधस्य सर्वसंमतता तदनुरोधेनैकत्वादिविषयकशाब्दबोधे घटादिपदजन्यैकत्वायुपस्थितित्वेन हेतुतायाः सर्वसंमतत्वात् । मैवम्- यादृशयादृशपदानां लक्षणयैकत्वादिशाब्दधीजनकत्वं नोभयवादिसिद्धं - तादृशानन्त पदज्ञानजन्यैकत्वाद्युपस्थितीनां तच्छान्दहेतुत्वकल्पनं प्रकृतेः संख्या-वाचकतावादिनामधिकमिति तत्कल्पनापेक्षया चाल्पतरस्वादिपदजन्यैकत्वाद्यपस्थितिहेतुता कल्पन एव लाघवम् । 4 एतेन - संख्याविशेषावच्छिन्न घटादिर्लक्षणया प्रकृतेरर्थो न तु संख्या विभक्त्यर्थः शाब्दबोधे विभक्तिजन्यसंख्योपस्थितिहेतुता कल्पनाधिक्येन गौर-वात्। घटादिपदस्यैकत्वादिविशिष्टघटादौ लक्षणाग्रहदशायां सर्वमत एव तज्जन्यक्यात् ' एकत्वं प्रमेयम्' इत्याकारकशाब्दबोधः सर्वसंमत एव तत्र लक्षणया घटपदेनैवैकत्वस्योपस्थितिर्भवतीति घटपदजन्यैकत्वोपस्थितेः कारणत्वमपि सर्वैः स्वीकर्तव्यमिति तदनुरोधेन =यथा -तत्र घटपदजन्यैकत्वोपस्थितेः कारणत्वं तथान्यत्र 'घट:' इत्यादी घटपदस्य घटे शक्तिग्रहदशाया-मप्येकत्वादिसंख्याविषयकशाब्दबोधे घटपदजन्यैकत्वादिसंख्योपस्थितेः कारणत्वं युक्तमेवेति न नूतनं घटपदजन्य संख्योपस्थितेः कारणत्वकल्पनमस्ति येन गौरवं स्यादिति संख्यायाः प्रकृत्यर्थस्वमेव युक्तमित्यर्थः । प्रत्युतोक्तलक्षणाग्रहस्थले घटपदजन्यसंख्योपस्थितेः कारणत्वमन्यत्र विभ क्तिजन्यसंख्योपस्थितेः कारणत्वमिति द्विविधकार्यकारणभावकल्पनप्रयुक्तं गौरवं संख्याया विभक्त्यर्थत्वस्वीकारे एवास्तीत्यभिप्रायः । घटपदस्यैकत्वे लक्षणाग्रहसत्त्वे घटपदेनैकत्वस्यैवोपस्थितिर्भवति प्रमेयपदेन च प्रमेयस्येति 'घटः प्रमेयः ' इतिवाक्यात् ' एकत्वं प्रमेयम् इति - शाब्दबोधो जायत इत्युक्तम्- घटादिपदस्येति । अथेत्यादिनोक्तं लक्षणावादं परिहरति- मैवमिति, येषां पदानां लक्षणयैकत्वादिसंख्यावि'षयकशाब्दबोधजनकत्वमुभयमतसिद्धं तत्र गौरवाभावेपि येषां पदानां लक्षणयैकत्वादिशाब्दबोधजनकत्वमुभयमतसिद्धं नास्ति तेषामप्यनन्तत्वात् तज्जन्यसंख्योपस्थितीनामप्यनन्तत्वेनानन्तका - रणताकल्पनं संख्यायाः प्रकृत्यर्थत्वमधिकमेव स्यादिति तदपेक्षया लाघवात् स्वादिविभक्तीनामेव संख्यायां शक्तिः स्वीकार्या स्वादिविभक्तिपदजन्यैकत्वादिसंख्योपस्थितेरेव च लाघवार्थ संख्याविषयकशाब्दबोधं प्रति हेतुत्वं स्वीकार्यमित्यर्थः । तच्छान्दहेतुत्वकल्पनम् संख्याविषयक - शाब्दबोधहेतुत्वकल्पनम् । एतेनेति - यचोक्तं घटपदस्य शुद्धघंटे शक्तिरेकत्वादिसंख्या विशिष्टे घंटे एवं प्रकृतेर्लक्षणा न तु प्रकृत्यापि लक्षणया केवलसंख्याया बोधो जायते न वा संख्या विभक्त्यर्थः- संख्याया विभक्त्यर्थत्वे संख्या प्रकार कशाब्दबोधं प्रति विभक्तिजन्यसंख्योपस्थितेरपि हेतुत्वापत्त्या गौरवं -स्मात् । यत्र विनिगमनामाह - घटादिपदस्येति, यदा कस्यचित् पुंसो वटादिपदस्यैकत्ववि "Aho Shrutgyanam" 7 Page #146 -------------------------------------------------------------------------- ________________ 'सादर्श: [ प्रथम कारके ( १३४ ) विशिष्टविषयको पस्थित्या विशिष्टविषयकशाब्दधीजननात् तथाविधोपस्थितिहेतुतायाः सर्वानुमतत्वात् । पदान्तरासमभिव्याहतात् 'घट: ' इत्यादिपदादेकत्वादिविशिष्टघटादिशाब्दबोधस्त्वलीक एव तद्विषयकस्मरणस्य तत्रोपगमात् तथा. चोक्तम् - " सर्वं हि वाक्यं क्रियायां परिसमाप्यते " इत्यपि निरस्तम् । यादृशपदानां लक्षणयैकत्वादिविशिष्टस्वार्थबोधहेतुत्वं नोभयवादिसिद्धं तादृशानन्तपदजन्य विशिष्टोपस्थितीनां शाब्दधीहेतुताकल्पनमपेक्ष्य विभक्तिजन्यसंख्योपस्थितीनामल्पानां तत्कल्पने लाघवात् । इदं पुनरिहावधेयम् - विभक्तेः संख्याबोधकत्वे समानविषयकानुमित्यादिकं प्रति शाब्दसामग्रीप्रतिबन्धकतायां या प्रातिपदिकजन्या घटाद्युपस्थितिर्या च शिष्टादौ लक्षणाग्रहो जातस्तदा सर्वैरेव तज्जन्यविशिष्टविषयको पस्थित्या घटपद अन्यैकत्ववि-शिष्टघट विषय कोपस्थित्या विशिष्टविषयकशाब्दधीजननात् = एकत्वविशिष्टघट विषयकशाब्दबोधोत्पत्तेः स्वीकृतत्वात् नैकत्वविशिष्टपदार्थविषयको पस्थितिशाब्दबोधयोः कार्यकारणभावो नूतनः कल्प्यते इत्येकत्वादिसंख्याविशिष्टे घटादिपदानां सर्वानुमतलक्षणाग्रहस्थले इवान्यत्रापि घटादिपद्रादेकत्वादिसंख्या विशिष्टघटादिविषयको पस्थितिशाब्दबोधयोः संभवात् सर्वैः स्वीकर्तव्यत्वाच ! नमु शाब्दबोधे ह्येकपदार्थेऽपरपदार्थस्य संसर्गो भासते इति नियमोस्ति तत्र संख्याया विभक्त्यश्रवे घट: ' इत्यत्र घटपदार्थे विभक्त्यर्थसंख्यायाः संसर्गभानेन शाब्दबोध उपपद्यते तब मते शिष्ट घटो घटपदस्यार्थो विभक्तिश्च निरर्थकेवेति ' घट:' इत्यत्र पदार्थान्तरसंसर्गभानाभावाच्छाब्दबोधो न स्यादित्याशङ्क्याह- पदान्तरेति, 'घटः' इत्येकपदादेकत्वविशिष्टघटविभयको पस्थितिरेव भवति न तु शाब्दबोधोपीत्यर्थः । अत्र प्रमाणमाह- सर्वमिति । क्रियायां परिसमाप्यते = क्रियाविशेष्यक एव शाब्दबोधो भवतीति 'अस्ति इत्यादिक्रियापदसहितादेव वाक्याच्छान्दबोधो जायते न तु घटः इत्याद्येकपदादित्यर्थः । इत्येवं निरसनीयमतमनूचं निरसति- इत्यपि निरस्तमिति । निरस्तत्यं उक्तहेतुं स्मारयति - यादृशेति । पदानामनन्तस्वमैकत्वादिसंख्या विशिष्टऽगृहीतवृत्तिकपदानामप्यनन्तत्वात् तज्जन्यैकत्वादिसंख्याविशिष्टविषयको - पस्थितीनां संख्याविशिष्टविषयकशाब्दबोधं प्रति हेतुत्वकल्पनापेक्षयाऽल्पानां विभक्तिजन्यसंख्योपस्थितीनां तत्कल्पने==संख्याप्रकार कशाब्दबोधहेतुत्वकल्पने लाघवादित्यर्थः । अत्र एतेन मैवमित्यायुक्तेन इत्यपि = संख्याविशेषावच्छिन्नत्याद्युक्तमपि निरस्तमित्यन्वयः । L उक्ते विभक्तेः संख्याबोधकत्वमते गौरवदोषं प्रदर्शयति- इदमित्यादिना, विभिन्नविषयकप्रत्यक्षं प्रति समानविषयकानुमितिं प्रति च शाब्दबोधसामय्याः प्रतिबन्धकत्वं भवति विभक्तेः संख्याबोधकत्वस्वीकारे च संख्याप्रकारकशाब्दबोधसामग्रयां प्रातिपदिक = प्रकृतिभूतघटादिपदजन्यबंष्टाद्युपस्थितेर्विभक्तिजन्यसंख्योपस्थितेश्च प्रवेशादुपस्थितिद्वयस्य प्रतिबन्धकत्वं प्राप्तं किं चोतोपस्थित्योः परस्परं विशेष्यविशेषणभावे विनिगमनाविरहाद् बटपदजन्यघटोपस्थिति विशिष्टविभक्ति 9 "Aho Shrutgyanam" Page #147 -------------------------------------------------------------------------- ________________ संख्यावाचकविचारः] व्युत्पत्तिवादः। विभक्तिजन्या संख्योपस्थितिः प्रवेश्या तयोश्च मिथो विशेष्यविशेषणभावे विनिगमनाविरहात् प्रतिबन्धकताबाहुल्यम् । प्रकृतेविशिष्टलाक्षणिकत्वे तु तदुभयस्थलीयविशिष्टविषयकोपस्थितिरेकैव सामग्र्यामन्तर्भवतीति लाघवम् । न च विशिष्टविषयकोपस्थितेरप्येकत्वादिप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन घटादिविशेष्यतानिरूपितैकत्वादिविषयताशालित्वेन वा प्रवेश इति विनिगमनाविरहात्साम्यमिति वाच्यम् , भवन्मते योग्यताज्ञानघटोपस्थित्येकत्वो. पस्थितीनां तिसृणां विशेष्यविशेषणभावे विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकमावषट्कम् । मन्मते तत्र योग्यताज्ञाने विशिष्टविषयकोपस्थिते. प्रत्येक जग्यसंख्योपस्थितेः प्रतिबन्धकत्वं तथा विभक्तिजन्यसंख्योपस्थितिविशिष्टघटपदजन्यघटोपस्थिनेरसि प्रतिबन्धकस्वमित्येवं बहुविधोपस्थितीनां प्रतिबन्धकत्वकल्पनया गौरवं स्यादेवेत्यर्थः । प्रकृतेरेव संख्याविशिष्टप्रकृत्यर्थघटादौ लक्षणास्वीकारे तु तदुभयस्थलीयविशिष्टविषयकोपस्थिति:-उक्तधदादिप्रकृत्यर्थविषयकसंख्याविषयकोभयोपस्थितिस्थानीया संख्याविशिष्टप्रकृत्यर्थविषयकोपस्थितिरेकैवास्तीति तस्या एकस्या एव विशिष्टोपस्थितेः संख्याप्रकारकशाब्दबोधसामग्र्यामन्तर्भावात् तस्या एकस्या एवं समानविषयकानुमित्यादिकं प्रति प्रतिबन्धकश्वकल्पनाल्लाघवमित्याहप्रकृतरिति । ननु प्रकृत्या संख्याविशिष्टविषयकोपस्थितेरपि लक्षणया स्वीकारे तादृशोपस्थितेरप्येकत्वादिसंख्याप्रकारकघटादिविशेष्यकत्वेन घटादिविशेष्यकसंख्याप्रकारकत्वेन च द्वैविध्यात् तादशोभयोरुपरिसरयोः प्रतिबन्धकताकल्पनापत्त्या पूर्वोक्तमतेन साम्यमेवेत्याशङ्क्याहन चेति । परिहारहेतुमाह- भवन्मते इति, भवन्मते संख्याया विभक्त्यर्थत्वमते शाब्दबोधसामन्यां योग्यताज्ञानस्य घटपदजन्यघटोपस्थितेर्विभक्तिजन्यैकत्वादिसंख्योपस्थितेश्च प्रवेशात तेषां त्रयाणां विशेष्यविशेषणभावे विनिगमनाविरहाच षट् प्रतिबन्ध्यप्रतिबन्धकमावा भवन्ति यथा- १ योग्यताज्ञानविशिष्टा बा घटोपस्थितिस्तादृशघटोपस्थितिविशिष्टेकत्वोपस्थितेः प्रतिबन्धकत्वम् , २ योग्यताज्ञानविशिष्टा या एकत्वोपस्थितिस्तादृशैकत्वोपस्थितिविशिष्टघटोपस्थितेः प्रतिबन्धकत्वम् , ३ घटोपस्थितिविशिष्टं यद् योग्यताज्ञानं तादृशयोग्यताज्ञानविशिष्टैकत्वोपस्थितेः प्रतिबन्धकत्वम्,४घटोपस्थितिविशिष्टा या एकत्वोपस्थितिस्तादशैकत्वोपस्थिंतिविशिष्टयोग्यताज्ञानस्य प्रतिबन्धकत्वम,५.एकत्वोपस्थितिविशिष्टा या घटोपस्थितिस्तादृशघटोपस्थितिविशिष्टयोग्यताज्ञानस्य प्रतिबन्धकत्वम् , ६ एकवोपस्थितिविशिष्टं यद् योग्यताज्ञानं ताशयोग्यताज्ञानविशिष्टघटोपस्थितेश्च प्रतिबन्धकत्वमिति । स्वमते लाधवमाह- मन्मते इति, मन्मते प्रकृतेः संख्याविशिष्टप्रकृत्यर्थे लक्षणास्वीकारेण शाब्दबोधसामयां योग्यताज्ञानस्य प्रकृतिभूतपदजन्यसंख्याविशिष्टप्रकृत्यर्थविषयकोपस्थितेचकस्या एव प्रवेशात् तयोर्द्वयोर्विशेष्यविशेषणभावे विनिगमनाविरहाच प्रत्येकं दर्शितोभयरूपेण संख्य "Aho Shrutgyanam" Page #148 -------------------------------------------------------------------------- ________________ ( १३६ ) सादर्श: [ प्रथमाकारके -- दर्शितोभयरूपेण वैशिष्ट्यं निवेश्य तदुभयम्. प्रत्येकं तादृशरूपद्रयावच्छिन्नायामुपस्थितौ योग्यताज्ञानस्य वैशिष्ट्यं निवेश्य च द्वयमिति तच्चतुष्टयमात्रमितिरी त्याऽस्माकमल्पतरतत्कल्पने महालाघवम् । तादृशरीत्यैव च ' प्रणमति ' इत्यादौ प्रकर्षविशिष्टनतिर्धातूनामेवार्थः, प्रादयो द्योतका एव न तु प्रकर्षादिवाचका इति सर्वानुमतः पन्थाः परिष्कर्तुं शक्यते, अन्यथा - अनन्तधातुजन्यप्रकर्षादिविशिष्टतत्तत्स्वार्थोपस्थितीनां शाब्दधीजनकतामपेक्ष्य कतिपयोपसर्गाधीनप्रकर्षाद्युपस्थितीनां तज्जनकताकल्पने लाघवात् स्वादीनामिव प्रादीनामपि वाचकता निराबाधा सिद्धयेतेति । संख्यायाश्च प्रकृत्यर्थे पर्याप्तिसंबन्धेनैव विशेषणत्वं न तु समवायादिना, तथा शिष्टप्रकृत्यर्थोपस्थितेर्य द्रुपद्वयं प्रदर्शितं तस्य प्रत्येकस्य योग्यताज्ञाने वैशिष्ट्य निवेशेन तदुभयम्= प्रतिबन्धकताद्वयम्, तथा प्रत्येकं तादृशरूपद्वयावच्छिन्नायामुपस्थितौ = या द्विविधरूपा संख्याविशिष्टार्थोपस्थितिः प्रदर्शिता तस्याः प्रत्येकरूपे योग्यताज्ञानस्य वैशिष्ट्यनिवेशेन च द्वयम् = प्रतिबन्धकत्वद्वयमिति मिलित्वा तच्चतुष्टयम् = प्रतिबन्धकत्वचतुष्टयमिति अल्पतरतत्कल्पने= भवदपेक्षयाऽल्पसंख्याक प्रतिबन्धकत्वकल्पनापत्त्या महालाघवम् । यथा - १ एकत्वादिप्रकारतानिरूपितघटादिविशेष्यको पस्थितिविशिष्टयोग्यताज्ञानस्य, २ घटादिविशेष्यतानिरूपितैकत्वादिप्रकारताकोपस्थितिविशिष्ट योग्यताज्ञानस्य ३ योग्यताज्ञानविशिष्टकत्वादिप्रकारतानिरूपितघटादिविशेष्यको पस्थितेः, ४ योग्यताज्ञानविशिष्टघटादिविशेष्यतानिरूपितैकत्वादिप्रकारताकोपस्थितेश्च प्रतिबन्धकत्वमिति । उक्तन्यायं प्रादिष्वतिदिशति- तादृशरीत्यैवेति, ' प्रणमति ' इत्यादी लक्षणया प्रकर्षविशिष्टेव तिर्वा एव प्रादीनां प्रकर्षादिद्योतकत्वम् = प्रकर्षादितात्पर्यमात्र ग्राहकत्वमेव न तु प्रकर्षादिवाचकत्वमिति मतमप्युक्तरीत्या परिष्कर्तुं शक्यते । प्रादीनां प्रकर्षादिवाचकत्वे शाब्दबोधसामग्र्यां प्रादिजन्यप्रकर्षाद्युपस्थितेः प्रवेशात् तस्याश्च विभिन्न विषयकप्रत्यक्ष प्रति समानविषयका - नुमिति प्रति च प्रतिबन्धकत्वे योग्यताज्ञानेन सह विशेष्यविशेषणभावविनिगमनाविरहाच प्रतिबध्यप्रतिबन्धकभावसंख्याधिक्यापत्त्या गौरवं स्यादिति धातोरेव प्रकर्षादिविशिष्टधात्वर्थे लक्षणा युक्तेत्यर्थः । विपक्षे बाधकमाह- अन्यथेति, यद्युक्तलाघवं न स्वीक्रियेत तदा धातूनामनन्तत्वेन प्रकर्षादिविशिष्टधात्वर्थविषयकानन्तोपस्थितीनां शाब्दबोधकारणत्वापेक्षया कतिपयोपसर्गाणामेव प्रकर्षादिवाचकत्वमाश्रित्य प्रादिजन्यप्रकर्षाद्युपस्थितीनां प्रकर्षादिप्रकारकशाब्दबोधकारणता कल्पने लाघवात् स्वादिविभक्तीनां संख्यावाचकत्वमित्र प्राद्युपसर्गाणामपि प्रकर्षादिवाचकत्वं निराबाधं सिद्धयेदेवेत्यर्थः । संख्यायाः प्रकृत्यर्थे=संख्येयपदार्थे समवायस्तु वृत्तिनियामक एव संबन्ध इति संख्येये संख्या गुणरूपत्वात्समवायेनैव वर्तते शाब्दबोधे च भासमान विशेष्य विशेषणभावावच्छेदकस्तु पर्याप्ति " Aho Shrutgyanam" Page #149 -------------------------------------------------------------------------- ________________ संख्यासंबन्धविचारः ] व्युत्पत्तिवादः । ( १३७ ) सति - एकव्यक्तिबोध परादाकाशशब्दादपि द्विवचनबहुवचनायापत्तेः- तत्तदर्थयोद्वित्वबहुत्वयोः समवायादिनाऽऽकाशाद्यन्वययोग्यत्वात् । न च पर्याप्तेः संसर्गत्वेपि तद्दोषतादवस्थ्यम्- घटाकाशादौ द्वित्वादेः पर्याप्तिसत्त्वे प्रत्येकमाकाशादौ तत्पर्याप्तिर्नास्तीति वक्तुमशक्यत्वात् प्रत्येकस्योभयानतिरिक्तत्वादिति वाच्यम्, उद्देश्यतावच्छेदकव्याप्यत्व विशिष्ट पर्याप्तेरेव संसर्गतोपगमात्, आकाशत्वादिव्याप्यताया द्वित्वादिपर्याप्ताव सत्त्वेनातिप्रसङ्गविरहात् । संबन्ध एवेत्यभिप्रायेणाह - संख्यायाश्चेति | तथासति-संख्यायाः प्रकृत्यर्थे समवायेन विशेघणत्वे सति समवायस्यैकत्वेन द्वित्वबहुत्वसमवायस्याप्याकाशे सत्त्वात् तेन समवायेन च तत्तदयोर्द्वत्वबहुत्वयोरप्याकाशेऽन्वय संभवादेकव्यक्तिविषयकबोधजनकादप्याकाशपदाद् द्विवचनबहुच चनयोरापत्तिः स्यादिति न समवायादिना संख्याया विशेषणत्वं किं तु पर्याप्तिसंबन्धेनैव, द्वित्वनहुत्त्रपर्याप्तेश्चानेकव्यक्तिकपदार्थेष्वेव सत्त्वेनाकाशेऽभावात्तादृशपर्याप्तिसंबन्धेन द्वित्वबहुत्वयोरप्याकाशेऽसंमवान्नाऽऽकाशपदाद् द्विवचनबहुवचनापत्तिः, एकलपर्याप्तेश्च सत्त्वादेकवचनं भवत्येवेत्यर्थः । तत्तदर्थयोरिति - संख्यायाः प्रकृत्यर्थत्वमते प्रकृत्यर्थभूतयोः संख्याया विभक्त्यर्थत्वमते विभक्त्यर्थभूतयोरित्यर्थः । किं वा द्विवचनबहुवचनार्थयोर्घटाकाशादिगत द्वित्वबहुत्वयोरित्यर्थः । न च वायौ रूपसमवाये सत्यपि रूपाभावेन रूपवत्त्वप्रसक्त्यऽभाववदाकाशेपि द्वित्वसमवाये सत्यपि द्वित्वाभावेन द्विवचनाद्यापत्त्यभाव इति वाच्यम्, घटाकाशोभयगतद्वित्वस्याकाशेपि सत्त्वादेव | ननु संख्यायाः प्रकृत्यर्थे पर्याप्तिसंबन्धेनापि विशेषणत्वोपगमे तदोषतादवस्थ्यम् = आकाशपदाद् द्विवचनबहुवचनयोरापत्तिरस्त्येव यतः -- घटाकाशोभयपदार्थे द्वित्वपर्याप्तिरस्त्येव प्रत्येकमाकाशादौ घटाकाशाद्युभयभेदाभावेन प्रत्येकस्योभयानतिरिक्तत्वात् प्रत्येकमाकाशादौ तत्पर्यातिः द्वित्वपर्याप्तिर्नास्तीति वक्तुमशक्यत्वादित्याशङ्क्याह - न चेति । घटपटोभयस्य प्रत्येकरूपत्वमेव प्रत्येकं त्यक्त्वा घटपटोमयस्वरूपासंभवादित्युभयस्मिन् प्रत्येकस्य भेदो न स्वीकियते प्रत्येकं तूभयभेदः स्वीक्रियते-- प्रत्येकस्योभयस्वरूपत्वाभावादन्यथा प्रत्येकेनाप्युभयकार्यापत्तिः स्यादिति सिद्धांत इति अत्र यत् " प्रत्येकस्योमयानतिरिक्तत्वात्" इत्यनेन प्रत्येकस्योभयानतिरिक्तत्वस्य = उभयस्वरूपत्वस्य प्रतिपादनद्वारा प्रत्येकस्योभयाभिन्नत्वं प्रतिपादितं तद् यद्यपि सिद्धान्तविरुद्धमेव सिद्धान्ते प्रत्येकस्योभय स्वरूपत्वाभावात्तथाप्यस्य शङ्काग्रन्थत्वान्न दोषः । सिद्धान्तानुकूलं कथंचिदेतद्वाक्यव्याख्यान संभवेपि शङ्काग्रन्थसमन्वयो न स्यात् । परिहारहेतुमाहउद्देश्यतेति यथा आकाशम् ' इत्यत्रोद्देश्यतावच्छेदकं यदाकाशत्वं तद्व्याप्यत्वविशिष्टा तद्व्याया या पर्याप्तिस्तस्या एव संबन्धत्वस्वीकाराद् आकाशत्वव्याप्या चैकत्वपर्याप्तिरेव न द्वित्वपर्याप्तिर्यतः - व्यापत्वं हि व्यापकाभाववदऽवृत्तित्वं द्वित्वपर्याप्तिस्त्वाऽऽकाशत्वाभाववति घटादावप्यस्त्येवेति तस्याः संबन्धत्वाभावान्नाकाशपदाद् द्विवचनबहुवचनयोरापत्तिरित्यर्थः, एतदेवाह - आकाशलादीति । द्वित्वादिपर्याप्तावाकाशत्वव्याप्यताया अभावान्न तस्याः संबन्धत्वम् । अतिप्रसङ्गविरहात् = 6 "Aho Shrutgyanam" Page #150 -------------------------------------------------------------------------- ________________ ( १३८ ) सादर्श: [ प्रथमाकार के वैशिष्ट्यं च वैज्ञानिक न तु वास्तवं तेन यत्र योग्यताभ्रमजन्यः ' अत्राकाशों इत्यादिवाक्यजन्यद्वित्वादिप्रकारकाऽऽकाशादिशाब्दबोधस्तत्र विशिष्टसंसर्गामसिद्धावपि न क्षतिः - द्वित्वादिपर्याप्तावन्यत्र प्रसिद्धस्याकाशत्वादिव्याप्यत्वस्य भ्रान्तस्तत्रोपगमात् प्रकारतायां भ्रमस्य सर्वानुभवसिद्धत्वेपि संबन्धतावच्छेदकांशे भ्रमत्वस्यान्यत्रोपपादितत्वात् । न च प्रकृत्यर्थतावच्छेदके एव व्यापकतासंबन्धेन द्वित्वान्वयधीः किं नोपेद्वित्वादिपर्याप्तेराकाशेऽसत्त्वेनाकाशपदाद् द्विवचनाद्यापत्तिर्नास्तीत्यर्थः । अत्र पर्याप्ता बुद्देश्यताव - च्छेदकव्याप्यत्ववैशिष्ट्यं च वैज्ञानिकमेव न तु वास्तवं विवक्षितम्, वैशिष्ट्यस्य ज्ञानमात्रमपेक्ष्यत इत्याह- वैशिष्ट्यं चेति । तथा चाऽऽकाशे वस्तुतो विशिष्टसंसर्गाप्रसिद्धावपि उद्देश्यतावच्छेदकव्याप्यत्वविशिष्ट द्वित्वपर्याप्तेः संबन्धभूताया असत्त्वेपि यदि कस्यचित् पुंस आकाशे द्वित्वभ्रान्तिः स्यात्तदा द्वित्वपर्याप्तावप्युद्देश्यतावच्छेदकाकाशत्वव्याप्यत्य वैशिष्टयस्य भ्रमसत्त्वेन ' अत्राकाशौ ' इति द्विवचनान्तप्रयोगसंभवात् न क्षति:-' अत्राकाशौ ' इति प्रयोगस्यानुपपत्तिर्नास्ति, यदि चात्र वैशिष्ट्यं वास्तवं विवक्षितं स्यात्तदा वस्तुतो द्वित्वपर्याप्त वाकाशत्वव्याप्यत्ववैशिष्टयस्याभावात् ' अत्राकाशौ ' इति प्रयोगो भ्रान्त्यापि न स्यादेवेत्यर्थः । ननु कचित् प्रसिद्धस्यैषान्यत्र अमो भवतीति कथं द्वित्वपर्याप्ताषाकाशत्वव्याप्यत्वस्य भ्रम इत्याशङ्क्याह- द्वित्वादीति । अन्यत्र - शब्दादौ प्रसिद्धस्याकाशत्वव्याप्यत्वस्य तत्र ' अत्राकाशौ ' इतिवाक्यस्थले द्वित्वपर्यातौ आन्तेः स्वीकारादित्यर्थः । ननु प्रकारांशे भ्रमो भवति न तु संबन्धांशे पर्याप्तिश्चात्र संबन्ध एवेति कथं तत्र भ्रमः स्यादित्याशङ्क्याह- प्रकारतायामिति । प्रकारतायां भ्रमस्य शुक्तिरजतादि -- स्थले शुक्तौ रजतत्वमसदपि प्रकारतया मासते इति सर्वानुभवसिद्धत्वेपि संबन्धताषच्छेदकांशेपि मो भवतीत्यन्यत्रोपपादितम् । अत्र नन्यत्राकाशावित्यत्राकाशे द्वित्वं प्रकारतया भासते तत्र संबन्धः पर्याप्तिस्तत्राकाशत्वव्याप्यत्वमसदपि भासते संबन्धतावच्छेदकांशे भ्रमत्वं न तु द्वित्वरूपप्रकारांशे संबन्धतावच्छेदकांशे च भ्रमत्वस्यानङ्गीकारादित्यत आह- संबन्धतावच्छेदकांशे च मत्वस्यान्यत्रोपपादितत्वादिति, पर्याप्तिः संबन्धस्तत्राकाशत्वव्याप्यत्वं विशेषणं संबन्धतावच्छेदकं तत्राकाशत्वव्याप्यत्वाभाववत्पर्याप्तौ चाकाशत्वव्याप्यत्वं प्रकारतयाऽवच्छेदक इति संबन्धता - बच्छेदकांशे भ्रमत्वस्यान्यत्रोपपादितत्वादित्यर्थः । परस्परविशेषणविशेष्यभावापन्नेष्वेव संसर्गता - स्वीकारात् तादृशप्रकारतामादायैव भ्रमत्वमुपपादनीयमित्याद्यन्यत्र स्थितम् ।" इति कृष्णभट्टा : ननु संख्यायाः व्यापकतासंबन्धेन प्रकृत्यर्थतावच्छेद के एवान्वयः स्वीक्रियतां तथा च यत्र यत्र घटादौ संख्या वर्तते तत्र तत्र प्रकृत्यर्थतावच्छेदक घटत्वादेरपि सत्त्वात् प्रकृत्यर्थतावच्छेद के व्यापकत्वमस्त्येवेति तेन संबन्धेन प्रकृत्यर्थतावच्छेदके संख्यान्वयो नानुपपन्नः, द्वित्वपर्याप्तावाssकाशत्वव्याप्यत्ववैशिष्ट्यस्याभावाद् यथा ' आकाशौ ' इतिप्रयोगवारणं पर्याप्तेः संबन्धले संभचति तथा व्यापकता संबन्धेन द्वित्वस्य प्रकृत्यर्थतावच्छेदके आकाशत्वेप्यन्वयस्वीकारे संभवत्येक ८८ "Aho Shrutgyanam" Page #151 -------------------------------------------------------------------------- ________________ संख्यासंबन्धविचारः] व्युत्पत्तिवादः। यत इति वाच्यम्, 'घटौ ' इत्यादी घटत्वादीनां स्वरूपत एवोपस्थिततया बत्रोक्तान्वयबोधस्याऽसंभवात् । स्वव्यापकीभूतोद्देश्यतावच्छेदकवत्त्वरूपपरम्पराया एव प्रकृत्यर्थे द्वित्वादेः संबन्धतास्वीकारे च व्यापकतारूपसंबन्धतावच्छेदकांश भ्रमत्वस्यावश्यकतया उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेः संवन्धतोपेक्षाया निर्वाजत्वात् । • अथात्र व्याप्तिापकसामानाधिकरण्यरूपैव वाच्या न तु तद्वदन्यावृत्तित्वद्वित्वव्यापकताया आकाशत्वेऽभावात्तेन संबन्धेनाकाशत्वे द्वित्वासंभवादिति विनिगमनाविरहेणाशझ्याह- न चेति । परिहारहेतुमाह- घटाविति, पदार्थान्तरनिष्ठप्रकारसानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रत्यऽन्वयितावच्छेदकरूपेणोपस्थितिः कारणमिति नियमात् 'घटौ । इत्यादी घटत्वादेः स्वरूपेणोपस्थितत्वेनाऽन्वयित्तावच्छेदक( घटत्वत्वादि रूपेणो, पस्थित्यभावातत्र द्वित्वादिसंख्यान्वयो न संभवतीति न प्रकृत्यर्थतावच्छेदके केनापि संबन्धेन संख्यान्वयः स्वीकर्तुं शक्यते इति उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिसंबन्धेन प्रकृत्यर्थे एवोक्तरीत्या संख्यान्वयो युक्त इत्यर्थः । ननूक्तोद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेः संबन्धलं त्यक्त्वा स्वव्यापकीभूतोदेश्यतावच्छेदकवत्त्वस्यैव संबन्धत्वं स्वीकार्य तथा च स्वं संख्या तद्ब्यापकीभूतं यदुद्देश्यतावच्छेदकं घटत्वादि तद्वत्त्वं प्रकृत्यर्थे घटादावस्त्येवेति तेन संबन्धेन घटादौ द्वित्वादिसंख्यान्वये न काचिदनुपपत्तिः, 'आकाशौ ' इत्यत्र स्वपदेन द्वित्वं ग्राह्य द्वित्वव्यापकता चोद्देश्यतावच्छेदके आकाशस्वे नास्तीति स्वव्यापकतावच्छेदकवत्त्वसंबन्धेनाकाशे द्वित्वाभावात् 'आकाशौ ' इतिप्रयोगापत्तिरपि नास्त्येवेत्याशङ्कयाह- स्वव्यापकीति । उत्तरमाह-- मापकतारूपेति, एवमपि भ्रान्त्या ' अत्राकाशौ ' इतिप्रयोगोपपत्त्यर्थ उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तः संबन्धत्वे यथोक्तरीत्या द्वित्वपर्याप्तौ आकाशत्वव्याप्यत्वनमः स्वीक्रियते तथा स्कव्यापकीभूतोद्देश्यतावच्छेदकवत्त्वस्य संबन्धत्वेप्याऽऽकाश द्वित्वव्यापकत्वनमः स्वीकर्तव्य एवेति विशेषाभावाद् उद्देश्यतावच्छेदकव्याप्यत्वविशिष्ट पर्याप्तेः संबन्धत्वपरित्यागे कारण नास्त्येव, न च विनिगमनाविरहः- " आचार्याः कृत्वा न निवर्तन्ते " इत्यस्यैव विनिगमकत्वादित्यर्थः स्वव्यापकीभूतोद्देश्यतावच्छेदकवत्त्वं संबन्ध इत्यस्य स्वनिरूपितव्यापकताश्रयीभूतोद्देश्यतावच्छेदकवत्त्वं संबन्ध इत्यर्थ एतत्संबन्धस्वरूपे च व्यापकता प्रविष्टास्तीति सा व्यापकता संबन्धतावच्छे. दिका जाता. स्वपदेन च द्विस्वादिसंख्या ग्राह्या. आकाशत्वे च द्वित्वव्यापकताया असत्त्वेपि यद् द्वित्वव्यापकताज्ञानं तद् अम एव ' आकाशी' इत्यत्रेत्यवधेयम् । । ननु संबन्धभूता योद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिस्तत्र व्याप्यत्वस्य प्रवेशोस्ति व्याप्यत्वं हिन्याप्त्याश्रयत्वमेवेति व्याप्तेरपि पर्याप्तौ प्रवेशः प्राप्तो व्याप्तिश्च द्विविधाऽस्ति व्यापकसामानाधिकरण्यरूपा तद्वदन्यावृत्तित्वरूपा-व्यापकवदन्यावृत्तित्वरूपा च, तत्र तद्वदन्यावृत्तित्वरूपा व्याप्तिस्त्र न ग्रहीतुं शक्यते यतः 'दौ प्रमेयौ ' इत्यत्रोद्देश्यतावच्छेदकं प्रमेयरकं तक केवलान्वयि तथा "Aho Shrutgyanam" Page #152 -------------------------------------------------------------------------- ________________ (१४०) सादर्स: [ प्रथमाकारकेरूपा-केवलान्वयिधर्मस्य प्रकृत्यर्थतावच्छेदकता यत्र तत्राप्रसिद्धः, एवं चोद्देश्य तावच्छेदकव्याप्तिविशिष्टपर्याप्त्यऽपेक्षया लघोः स्वव्यापकतादृशधर्मवत्वस्यैव संबन्धत्वमुचितमिति चेत् ?, तर्हि 'आकाशो न द्वौ ' इत्यादिवाक्यजन्यशाब्दबो: धदशायामपि ' आकाशौ ' इत्यादिवाक्याद् द्वित्वबोधापत्तिः, तथा हि-' आकाशो न दौ' इत्यादितो द्वित्वावच्छिन्नभेदः प्रतीयते स च न स्वव्यापकाssकाशत्ववत्त्वादिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकः-- तादृशसंबन्धेन द्वित्ववतोऽप्रसिद्धः. अपि तु पर्याप्तिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताक एव तत्काले च पर्याप्तिसंबन्धेन द्वित्वविशिष्टबुद्धिरेव प्रतिबध्यते न तुक्तपरम्परासंबन्धेन तद्विशिष्टबुद्धिरपीति । चावपर्याप्तौ प्रमेयत्वाभाववदऽवृत्तित्वमपेक्ष्यते तच्च न संभवति प्रमेयत्वाभावस्याप्रसिद्धत्वादिति व्यातिरत्र व्यापकसामानाधिकरण्यरूपैव ग्राह्या. 'द्वौ प्रमेयो' इत्यत्राप्युद्देश्यतावच्छेदकं यत्प्रमेयत्वं तत्सामानाधिकरण्यं तु द्वित्वपर्याप्तावस्त्येवेति न कोपि दोषः, किं त्वेवमुद्देश्यतावच्छेदकरूपं यद् व्यापकं तादृशव्यापकसामानाधिकरण्यविशिष्टायाः पर्याप्तेः संबन्धत्व प्राप्तं तत्र च व्यापकत्वस्य ब्यापकसामानाधिकरण्यस्य च प्रवेशेन गौरवात् तादशपर्याप्त्यपेक्षया लघुभूतस्य स्वव्यापकतादृशधर्मवत्त्वस्थ स्वव्यापीभूतोद्देश्यतावच्छेदकवत्त्वस्यैव संबन्धत्वमुचितम्, अत्र व्यापकत्वस्य प्रवेशेपि व्यापकसामानाधिकरण्यप्रवेशाभावेन लाघवादित्याशङ्कते-अथेति । स्वं संख्या। परिहरतितीति, स्व(संख्या) व्यापकीभूतोद्देश्यतावच्छेदकवत्त्वसंबन्धेन प्रकृत्यर्थे संख्याया अन्ययस्वीकारे 'आकाशो न द्वौ ' इतिवाक्यजन्यशाब्दबोधे सत्यपि 'आकाशौ ' इतिवाक्येनाकाशे द्वित्वान्वयबोधोऽनिष्ट आपद्येत । एतदेवोपपादयति- तथाहीति, 'आकाशो न द्वौ ' इत्यत्राकाशशब्दद्विशब्दयोः समानविभक्तिकत्वाद् द्वित्वावच्छिन्नप्रतियोगिताकभेदः प्रतीयते, स च भेदो न स्त्र(संख्या)व्यापकाकाशत्ववत्त्वसंवन्धावच्छिन्न प्रतियोगितावच्छेदकताक इति न स्वव्यापकाकाशत्ववत्त्वसंबन्धेन द्वित्वावच्छिन्नभेदः प्रतीयते । अत्र हेतुमाह- तादृशसंबन्धेनेति, यथा संयोगसंबन्धेन घटवतो भूतलस्य प्रसिद्धत्वात् संयोगसंबन्धेन घटाभावः प्रत्येतुं शक्यते तथा यदि तादृशसंबन्धेन-स्व (द्वित्व ) व्यापकीभूताकाशत्ववत्त्वसंबन्धेन द्वित्ववान् प्रसिद्धः स्यात्तदा तादशसंबन्धेन द्वित्वावच्छिन्नभेद: प्रत्येतुं शक्येतापि नैवमस्ति, आकाशत्वे द्वित्वव्यापकत्वस्यैवाभावादित्यर्थः, किं तु 'आकाशो न द्वौ' इत्यत्र पर्याप्तिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताक:उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिसंबन्धेन द्वित्वावच्छिन्नभेदः प्रतीयते उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिसंबन्धेन द्वित्ववतो घटादेः प्रसिद्धत्वात् , अत्रापि शब्दे उद्देश्यतावच्छेदकीभूताकाशत्वव्याप्यत्वस्य सत्त्वादेवेत्यर्थः । तथा च यथा संयोगसंबन्धेन घटाभावज्ञानकाले संयोगेनैव घटवत्त्वज्ञान प्रतिबन्धो भवति न तु समवायादिनापि तथा प्रकृतेपि 'आकाशो न द्वौ । इत्यत्र तत्काले उक्तपर्याप्तिसंबन्धेन द्वित्वावच्छिन्नभेदप्रतीतिकाले उक्तपर्याप्तिसंबन्धेनैव द्वित्वनि "Aho Shrutgyanam" Page #153 -------------------------------------------------------------------------- ________________ संख्यासंबन्धविचारः ] व्युत्पत्तिवादः । अथ 'आकाशो न द्वौ ' इत्यादी केवलपर्याप्तिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकभेदो नञा बोधयितुं न शक्यते - आकाशेप्युक्तयुक्त्या द्वित्वपर्याप्तेः सत्त्वेन तत्र तेन संबन्धेन तद्वद्भेदस्य वक्तुमशक्यत्वात्, आकाशत्वव्याप्यपर्या प्तिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकद्वित्वादिमद्वेदश्वाऽप्रसिद्ध एवेति चेत् ? न - द्वित्वादिपर्याप्तेरुभयादिवृत्तिधर्मेणैवाऽवच्छेदात्, तदनवच्छेदकै कमात्रवृत्तिधर्मावच्छेदेन तद्वदभेदस्य तेन संबन्धेन द्वित्वादिमद्भेदस्य च तद्वति वृत्तौ बाधकाभावात् । ( १४१ ) शिष्टबुद्धेः=द्वित्ववत्त्वबुद्धेः प्रतिबन्धः संभवति न तूक्तपरम्परासंबन्धेन = स्वव्यापकीभूतोद्देश्यतावच्छेदकवत्त्वसंबन्धेनापि तद्विशिष्टबुद्धे: -- द्वित्ववत्त्वबुद्धेः प्रतिबन्धः संभवतीति यथा संयोगेन घटाभावज्ञाने सत्यपि समवायेन घटवत्त्वज्ञानं जायते एव बाधकाभावात्तथात्रापि ' आकाशो न द्वौ ?. इतियाक्याद् उक्तपर्याप्तिसंबन्धेन द्वित्वावच्छिन्नमेदज्ञानकालेपि स्वव्यापकीभूतोद्देश्यतावच्छेदक : संबन्धेन 'आकाशौ' इत्यत्राकाशे द्वित्वान्ययबोधः स्यादेव बाधकाभावादित्याह- अपि विति । ननु पर्याप्तेः केवलपर्याप्तित्वरूपेण संबन्धत्वमुच्यते किं वाऽऽकाशत्वव्याप्यपर्याप्तित्वेन रूपेण संबन्धत्वमुच्यत इत्याशङ्कते - अथेति । यदि केवलपर्याप्सित्वरूपमात्रेण पर्याप्तेः संबन्धत्वं तदा आकाशेपयुक्तयुक्तया = घटाकाशोभयगतद्वित्वस्याऽऽकाशेपि सत्त्वात् प्रत्येकस्योभयानतिरिक्तत्वात् तत्र द्वित्ववत्याकाशे तेन संबन्धेन केवलपर्याप्तिसंबन्धेन तद्वद्भेदस्य = द्वित्ववद्भेदस्य ( द्वित्वावच्छिन्नभेदस्य ) वक्तुमशक्यत्वात् ' आकाशो न द्वौ ' इत्यत्र केवलपर्याप्तिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकभेदः = केवलपर्याप्तिसंबन्धेन द्वित्वावच्छिन्नमेदो नत्र बोधयितुं नैव शक्येत सामान्यतः पर्याप्तिसंबन्धेन घटाकाशोभयगत द्वित्वस्याकाशेपि सत्त्वादवत्याह- केवलेति । द्वितीयदल -' मुद्दिशति - आकाशत्वेति, केवलाकाशे द्वित्वं नास्त्येवेति द्वित्वपर्याप्तावाकाशत्वव्याप्यत्वं नास्तीत्याकाशत्वव्याप्यपर्याप्तेः संबन्धस्वमपि न संभवति तथा चाऽऽकाशत्वव्याप्यपर्याप्तिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकद्वित्वादिमभेदश्च = आकाशत्वव्याप्यपर्याप्तिसंबन्धेन द्वित्वावच्छिन्नभेदश्चाऽप्रसिद्ध एव यद्याकाशत्वव्याप्यपर्याप्तिसंबन्धेन द्वित्ववत्त्वं प्रसिद्धं स्यात्तदाऽऽकाशत्व व्याप्यपर्याप्तिसंबन्धेन द्वित्वावच्छिन्नमेदोनि प्रसिद्धः स्यात् नैवमस्ति द्वित्वपर्याप्तावाऽऽकाशत्वव्याप्यत्वाभावेनाऽलोकाया आकाशत्वव्याप्यपर्याप्तेः संवन्धत्वासंभवादित्याऽऽकाशे द्वित्वावच्छिन्नमेदबोधनस्याऽसंभवात् ' आकाशो न द्वौ ' इतिप्रयोगोऽमूलक एवेत्यर्थः । परिहरति- नेति । द्वित्वपर्याप्तेरुभयादिवृत्तिधर्मेणैवावच्छेदादिति - उभयवृत्तिधर्म उभयत्वमेव द्वित्वपर्याप्तेरवच्छेदकं भवतीत्युभयत्वावच्छेदेन द्वित्वावच्छिन्नभेदस्य विरोधोस्ति- द्वित्वपर्याध्यवच्छेदको भयत्ववति घटपटद्वये द्वित्वस्यैव सत्त्वेन द्वित्वावच्छिन्नमेदस्यासंभवात् । एकमात्रवृत्तिधर्मस्त्वाऽऽकाशत्वादि द्वित्वपर्यातेरवच्छेदकमेव न भवतीति तदनवच्छेदकैकमात्रवृत्तिधर्मावच्छेदेन = तस्या द्वित्वपर्याप्तेरनवच्छेदको य आकाशद्व्वादिरूप एकमात्रवृत्तिधर्मस्तदवच्छेदेन तद्वद्भेदस्य द्वित्वादिपर्याप्तिवद्भेदस्य = उभयभेदस्य (प्रत्ये "Aho Shrutgyanam" Page #154 -------------------------------------------------------------------------- ________________ (१४२) सादर्शः [ प्रथमाकारकेन चैवम्- 'घटपटौ न द्वौ ' इतिप्रयोग आफ्धेत-घटपटयोरपि प्रत्येकं द्वित्वाचच्छिन्नभेदसत्त्वादिति वाच्यम् , द्विवचनाद्युपस्थापितद्वित्वावच्छेदेनैव द्वित्वावच्छिनभेदस्य बाधेन तादृशप्रयोगाभावोपपत्तेः । नञा व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदश्वोद्देश्यतावच्छेदकावच्छेदेनैव बोध्यते इतिव्युत्पत्विसामानाधिकरण्येन तदबाधस्याकिंचित्करत्वात् । कस्योभयस्वरूपत्वाभावेन प्रत्येकमुभयभेदस्य स्वीकारात् ) तेन संबन्धेन पर्याप्रिसंबन्धेन द्वित्वादिमद्भेदस्य-द्वित्वावच्छिन्नभेदस्य च तद्वति एकमात्रवृत्त्याकाशत्वादिधर्मवत्याकाशादौ वृत्तौ सत्त्वे बाधकामावादित्यन्वयः । तथा चाकाशवस्यैकमात्रवृत्तित्वेन द्वित्वपर्याप्त्यवच्छेदकत्वामावादाकाशस्वावच्छेदेनाकाशे द्वित्वात्रन्सिलभेदस्य वृत्तित्वे बाधकाभावात् ' भाकाशो न द्वौ ' इति प्रयोग उपपद्यते । ‘बटपटौ न द्वौ' इति प्रयोगस्तु न भवति घटपटोभये द्वित्वपर्याप्यवच्छेदकस्यो. भयत्वस्य सत्त्वेन तत्र द्वित्वावच्छिन्नभेदस्यासत्त्वादित्यर्थः । नन्वेवम् द्वित्वपर्याप्तेरुभयत्वादिव्यासज्यवृत्तिधर्मावच्छेदेनैव स्वीकारे यथा ' आकाशो न द्वौ' इति प्रयोगो भवति तथा ' वटपटौ न द्वौ ' इत्यपि प्रयोगः स्यादेव प्रत्येक घटे च पटे चोभयवाभावेन द्वित्वपर्यावरभासद् द्वित्वस्याभावेन द्वित्वावच्छिन्नमेदस्य सत्वात- द्वित्वपर्याप्तिं विना तादशपर्याप्तिसंबन्धेन द्वित्वस्यासंभवादित्याशङ्कयाह-- न चेसि । परिहारमाह- .निवचनेति, वटपटौ ' इत्यत्र द्विवचनेन यद् द्वित्वमुपस्थितं भवति तस्य चटपटयोरन्वयात् तादृशद्वित्वावच्छेदेन घटपटयोरुभयोत्विावच्छिन्नभेदस्यासंभवात् ( द्वित्वस्यैव सत्त्वात् । तादृशप्रयोगाभाषः= -घटपढौ न द्वौ ' इतिप्रयोगाभाव उपपद्यते । घटपटोभयत्वावच्छेदेन द्वित्वपर्याप्तेः सत्त्वेन ता. शपर्याप्तिसंबन्धेन घटपटोभयस्मिद्वित्वस्यैव सत्त्वात् द्वित्वावच्छिन्नप्रतियोगिताकभेदो न संभवतीति यावत् । प्रत्येकं घटपटयोर्द्वित्वाभावेन द्वित्वावच्छिन्नमेदस्य सत्त्वेपि घटपटद्वये तु द्वित्वसत्त्वेन द्वित्वावच्छिन्नभेदस्यासत्त्वात् नत्रा घटपटद्वये द्वित्वावच्छिन्नभेदस्य स्वार्थस्य बोधनमेव न संभवति येन 'घटपटौ न द्वौ' इति प्रयोग आपद्यतेत्याह- नति, व्यासयवृत्तिधर्मो द्वित्वोभयत्वादिस्तेन व्यासज्यवृत्तिधर्मेण उभयत्वेन द्वित्वेन वाऽवच्छिन्ना प्रतियोगिता यस्यैवंभूतभेदस्य द्वित्वावच्छिनमेदस्य नार्थस्य ना उद्देश्यतावच्छेदकावच्छेदेनैव प्रतीतिर्भवति, 'वटपटौ न द्वौ' इत्यत्र चोहेश्यतावच्छेदकम् ‘घटपटौ । इति द्विवचनोपस्याप्यं द्वित्वमिति घटपटौ न द्वौ ' इत्यत्र द्वित्वाबच्छेदेन घटपटोभयस्मिन्नेव नभा द्वित्वावच्छिन्नभेदो बोधनीयस्तत्तु न संभवति-धटपटोभयस्मिन् द्वित्वस्यैव सत्त्वेन द्वित्वमेदस्य बाधितत्वात् , द्वित्वसामानाधिकरण्येन घटवृत्तिद्वित्वसामानाधिकरण्येन पटवृत्तिद्वित्वसामानाधिकरण्येन च तदऽवाधस्य द्विस्वावच्छिन्नभेदाऽबाधस्य-द्वित्वावच्छिन्नमेदसत्त्वस्याकिंचित्करत्वात्-प्रयोगापादकत्वाभावात् ' वटपटौ न द्वौ ' इति प्रयोगापत्ति ल्येव । अयं भावः- 'घटपटौ' इत्यत्र घटपटद्वये वर्तमानं द्वित्वं प्रत्येकं वटे च पटे चापि वर्तते एवं अन्यथा प्रत्येकं घटपटयोईित्वाभावे घटपटद्वयेपि द्वित्वं न म्यादेव समुदायवृत्तिधर्मस्य प्रत्येकम "Aho Shrutgyanam" Page #155 -------------------------------------------------------------------------- ________________ संख्यासंबन्धविचारः व्युत्पत्तिवादः। न च घटत्वादेरतिप्रसक्तत्तया द्वित्वादिपर्याप्तेरऽनवच्छेदकत्वात् तदवच्छेदेन द्वित्ववद्भेदस्य भवतामप्यनुमतत्वात् प्रकृत्यर्थगतैकत्वाविवक्षायाम् ‘घटो न द्रौ' इत्यादिप्रयोगापत्तिरिति वाच्यम् , ताशप्रयोगाभावे घटत्वादेर्दित्वपर्याप्तरिव द्वित्वादिमद्भेदस्याप्यनुयोगितावच्छेदकताया अप्रामाणिकत्वाद, प्रतियोगिताव च्छेदकाऽनवच्छेदकताया भेदावच्छेदकतानियतत्वासिद्धेः। प्यावश्यकत्वात् तत्र प्रत्येक घटपटयोर्वर्तमानद्वित्वसामानाधिकरण्येन प्रत्येक घटपटयोप्सज्यकृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदस्य-द्वित्वावच्छिन्नभेदस्य सत्त्वेपि- प्रत्येकं घटपटयोत्विस्याभावात् ) वटपटद्वये तु द्वित्वावच्छिनभेदो नास्त्येव द्वित्वस्यैव सत्त्वात् नना द्वित्वभेदश्वोद्देश्यतावच्छेदकावच्छेदेनैव उभयत्वावच्छेदेन घटपटोभयस्मिन्नेव बोधयितुं शक्यते न तु प्रत्येकम् . उभयस्मिश्च द्वित्वावच्छिन्नभेदस्यासत्त्वात् ' घटपटी न द्वौ' इतिप्रयोगस्यापत्तिर्नास्त्येव- द्वित्वावच्छि. नभेदमत्त्वे एव न द्वौ ' इतिप्रयोगस्य संभवात् । द्वित्वसामानाधिकरण्येन प्रत्येक घटपटयोxिस्वावच्छिन्नभेदसत्वेपि द्वित्वावच्छेदेन घटपटोभयस्मिन् द्वित्वसत्त्वेन द्वित्वावच्छिन्नभेदाभावसत्ले बाधकामावात् । ___ ननु द्वित्वपर्याप्तिस्तु ‘बटपटौ ' इत्यत्र घटपटोभयत्रैव वर्तते घटत्वं तु द्वित्वपर्याप्त्यनधिकरणेष्वपि बहुषु घटेषु वर्तते इत्यतिप्रसक्तं अतिप्रसक्तधर्मस्यावच्छेदकत्वास्वीकाराद् द्वित्वपर्याप्तेघटत्यमनवच्छेदकमेवेति तदवच्छेदेन-द्वित्वपर्यास्यनवच्छेदकीभूतघटत्वावच्छेदेन यत्र यत्र घटत्वं वर्तते तत्र तत्र द्वित्वपर्याप्तेरभावात् तादृशपर्याप्तिसंबन्धेन द्वित्वस्याप्यसत्त्वेन द्वित्ववद्भेदस्य-द्वित्वाचन्छिनभेदस्य सत्त्वात् भवतामध्यनुमतत्वात् प्रकृत्यर्थगतैकत्वस्याविवक्षायाम् ‘घटो न द्वौ ! इतिप्रयोगः स्यादेवेत्याशङ्क्याह- न चेति । प्रकृत्यर्थगतैकत्वस्य विवक्षायां स्वेकत्वविशिष्ट घटे द्वित्वाभावेन द्वित्वावच्छिन्नभेदस्य विवक्षितत्वात् 'घटो न द्वौ' इतिप्रयोगस्येष्टत्वादुक्तम्एकत्वाविवक्षायामिति । प्रकृत्यर्थगतैकत्वाविवक्षायां तु 'वटो न द्वौ' इति प्रयोगो नेष्ट:- द्वित्वसंमवेन द्वित्ववभेदासंभवादित्यर्थः । परिहरति- तादृशेति, तादृशप्रयोगाभावे-प्रकृत्यर्थगतैकत्वाविवक्षायाम् 'घटो न द्वौ' इतिप्रयोगाभावे घटत्वादेईित्वपर्याप्त्यनुयोगितावच्छेदकत्वस्याप्रामाणिकत्वस्येव द्वित्ववद्भेदा (द्वित्वावच्छिन्नभेदा ) नुयोगितावच्छेदकत्वस्याप्रामाणिकत्वस्यैव , हेतुत्वा. दित्यन्वयः । यथोक्तरीत्यातिप्रसक्तत्वेन चटत्वं द्वित्वपर्याप्त्यवच्छेदकत्वाभावेन द्वित्वपर्याप्यनुयोगितावच्छेदकं नास्ति तथा द्वित्वावच्छिन्नभेदानुयोगितावच्छेदकमपि नास्त्येव-- 'घटपटी द्वौ। इत्यत्र द्वित्वसत्त्वेन द्वित्वावच्छिन्नभेदाभावेपि घटत्वस्य सत्त्वेनातिप्रसक्तत्वात् तथा च घटस्य द्वित्वावच्छिन्नभेदानुयोगितावच्छेदकत्वाभावेन घटत्वावच्छेदेन द्वित्वावच्छिन्नभेदप्रसस्यऽसंभवात “घटो न द्वौ । इतिप्रयोगापत्तिरेकत्वाऽविवक्षायां नास्ति, एकत्वविवक्षामां त्वेकत्वस्य द्वित्वावच्छिनभेदानुयोगितावच्छेदकत्वसंभवेन तादृशैकत्वावच्छेदेनैकस्मिन् घटे द्वित्वावच्छिन्नभेदसंभवादेक घटमुद्दिश्य 'घटो न द्वौ ' इतिप्रयोग उपपद्यते, न चैवमेकत्वाविवक्षायामेकत्वस्य द्वित्वावच्छि P- 47 "Aho Shrutgyanam" Page #156 -------------------------------------------------------------------------- ________________ ( १४४ ) सादर्श: [ प्रथमा कारके - अस्तु वाऽतिप्रसक्तोऽपि वटत्वादिर्द्वित्व पर्याप्तैरवच्छेदकः 'घटौ ' इत्यादिप्रतीतिबलात् । 6 " वस्तुतस्तु घटत्वादेः प्रत्येकं द्वित्वपर्यात्यनवच्छेदकत्वेपि द्वित्वपर्याप्तित्वावच्छिनानतिप्रसक्ततया तदवच्छिन्नावच्छेदकत्वमव्याहतमेव । अभेदानुयोगितावच्छेदकत्वं संभवति येनैकत्वाऽविवक्षायामपि घटो न द्वौ ' इतिप्रयोग आपद्येतेत्यर्थः । ननु ' यद् मेदीयप्रतियोगितावच्छेदका नवच्छेदकं भवति तद् भेदावच्छेदकं भवति' इति नियमस्ति यथा ' घटो न पटः इत्यत्र पटभेदस्य प्रतियोगितावच्छेदकं पटत्वं प्रतियोगितावच्छेदकावच्छेदकं पटत्वत्वं भवति घटत्वं तु प्रतियोगितावच्छेदकानवच्छेदकमेवेति तद् घटत्वं पटदयावच्छेदकं भवत्येव - घटे पटमेदस्य घटत्वस्य च सत्त्वात् सामानाधिकरण्येन घटत्वस्य पट - भेदावच्छेदकत्वात् । एवम् - द्वित्ववद्भेदस्य ( द्वित्वावच्छिन्नभेदस्य ) प्रतियोगी द्वित्ववान् प्रतियोगिता द्वित्ववति प्रतियोगितावच्छेदकं द्वित्यवति वर्तमानं द्वित्वं प्रतियोगितावच्छेदकावच्छेदकं द्वित्वत्वं घटत्वं तु प्रतियोगितावच्छेदकानवच्छेदकमेवेति तद् घटत्वं द्वित्ववद्भेदस्यावच्छेदकं स्यादेव तथा च घटे द्वित्ववद्भेदस्य प्राप्त्या एकत्वाविवक्षायामपि 'घटो न द्वौ ' इति प्रयोगः स्यादेव न द्वौ ' इत्यस्य द्वित्वद्भेदबोधकत्वादित्याशङ्कयाह- प्रतियोगितावच्छेदकेति, भेदस्य प्रतियोगितावच्छेदकानवच्छेदकं घटत्वादिकं मेदस्यावच्छेदकं भवत्येवेति नियतं नास्त्येव - अस्वीकारात्, अन्यथा- एकत्वाविवक्षायामपि त्वदुक्तरीत्या 'घटो न द्वौ ' इति प्रयोगः स्यादेव, न चैवं प्रयोगो भवतीति नोक्तनियमः स्वीक्रियते तथा चोक्तनियमास्वीकारे घटत्वस्य द्वित्ववद्भेदावच्छेदकत्वाप्राप्तौ घटत्वावच्छेदेन द्वित्ववदेदाप्रसक्त्या 'घटो न द्वौ ' इतिप्रयोगापत्तिर्नास्येवेत्यर्थः । C अतिप्रसक्तधर्मस्यावच्छेदकत्वं स्वीकृत्याप्याह- अस्तु वेति, न्यूनवृत्तिधर्मस्यावच्छेदकत्वाभावेप्यऽतिप्रसक्तधर्मस्यावच्छेदकत्वस्वीकारेणोक्तरीत्यातिप्रसक्तस्यापि घटत्वस्य द्वित्वपर्याप्त्यवच्छेदकत्व - स्वीकाराद् द्वित्वावच्छेदकत्वमेव प्राप्तमिति द्वित्वावच्छेदकस्य घटत्वस्य द्वित्ववद्भेदावच्छेदकत्वासंभवात् ' घटो न द्वौ ' इतिप्रयोगापत्तिर्नास्त्येव - एकत्वाविवक्षायां घंटे द्वित्वान्यस्वीकारेण द्वित्वबद्धेदासंभवादित्यर्थः । यद्यतिप्रसक्तस्थापि घटत्वस्य द्वित्वपर्याप्त्यवच्छेदकत्वं न स्यात्तदा 'घटौ ' इत्येवं घटव'वच्छेदेन घंटे द्विवचनोपस्थाप्यद्वित्वस्यान्वयो न स्यादिति 'घटौ ' इतिप्रतीतिबलादेवातिप्रमक्तस्यापि घटत्वस्य द्वित्वपर्याप्त्यवच्छेदकत्वं स्वीक्रियत इत्याह- बटाविति । घटत्वस्य द्विपर्याप्त्यतिप्रसक्तत्वमेव नास्ति येन द्वित्वपर्याप्त्यवच्छेदकत्वं न स्यादित्याहवस्तुतस्विति, द्वित्वपर्याप्तितत्तद्व्यक्तीनां भिन्नत्वाद् या द्वित्वपर्याप्तिव्यक्तिरेतद्घटपटद्वये - स्ति सान्यघटपटये नास्ति घटत्वं तु तत्राप्यस्त्येवेति चालनीन्यायेन प्रत्येकं द्वित्वपर्याप्तीनामू द्वित्वया तत तद्व्यक्तीनाम् ( द्वित्वपर्या सतत्तद्व्यक्त्यपेक्षया ) घटत्वस्यातिप्ररुक्ततयाऽनवच्छेदकत्वेपि द्वित्वपर्याप्तित्वावच्छिन्नानतिप्रसक्ततया = यत्र यत्र घटत्वं तत्र तत्र कस्या अपि द्वित्वपर्यातितेः सत्त्वात् सर्वासां च द्वित्वपर्यातीनां द्वित्वपर्याप्तित्वेन रूपेणैकत्वाद् घटत्वावच्छेदेन "Aho Shrutgyanam" Page #157 -------------------------------------------------------------------------- ________________ सख्यासंबन्धविचारः ] व्युत्पत्तिवादः। ( १४५) अथ पर्याप्त्याख्यविलक्षणसंबन्ध एवाऽप्रामाणिकस्तत्कथं तत्संबन्धता ? 'आकाशो न द्रौ' इति प्रतीतिस्तु समवायसंबन्धावच्छिन्नप्रतियोगितावच्छे. दकताकद्वित्वावच्छिन्नभेदविषयिकवाऽऽस्ताम्- आकाशादौ द्वित्वसमवायसत्त्वेपि द्वित्वादेरेवोभयादिवृत्तिधर्ममात्रावच्छिन्नत्वोपगमात् तदनवच्छेदकाऽऽकाशत्वाद्यवच्छेदेन समवायसंबन्धेन तद्वतो भेदस्य वृत्तौ बाधकाभावादिति चेत्?, नद्वित्वपर्याप्तित्वावच्छिन्नाभावस्याऽसत्त्वाद् द्वित्वपर्याप्तित्वावच्छिन्नातिप्रसक्तत्वं नास्त्येव घटत्वाधिकरणे कस्या अपि द्वित्वपर्याप्तेः सत्त्वादेवेति तदवच्छिन्नावच्छेदकल्बम् द्वित्वपर्याप्तित्वावच्छि. नावच्छेदकत्वं घटत्वस्याऽव्याहतमेव तथा च घटत्वस्य द्वित्वपर्याप्त्यवच्छेदकत्वेन द्वित्वावच्छे. दकत्वमपि प्राप्तमिति घटत्यावच्छेदेन द्वित्वस्यैव सत्त्वाद् द्वित्ववद्भेदस्यासत्त्वाच्चैकत्वाविवक्षायाम् ' घटो न द्वौ' इति प्रयोगापत्तिर्नास्त्येवेत्यर्थः । __ ननु पर्याप्तिरूपः कोपि संबन्ध एव प्रामाणिको नास्ति येन तत्संबन्धता तस्याः पर्याप्तेः संबन्धता स्यात् किं वा तस्याः पर्याप्तेः संबन्धो यस्मिन् स तत्संबन्धः शाब्दबोधः तत्संबन्धता=पर्याप्तिसंबन्धविषयतेत्यर्थः, अलीकभूतपर्याप्त्याख्यसंबन्धविषयता शाब्दबोधे कथं स्यादित्याशङ्कते- अथेति । ननु यदि पर्याप्तेः संख्यासंबन्धत्वं न स्यात्तदा पर्याप्तिसंबन्धेनाकाशादौ द्वित्वादिवभेदप्रतीतिरपि न स्यादिति 'आकाशो न द्वौ ' इत्यादिप्रतीतिरपि न स्यादित्याश क्याह- आकाश इति, समवाय एव संख्यासंबन्धः 'आकाशो न द्वौ' इत्यत्रापि समवायसंबन्धेनैवाकाशे द्वित्ववभेदः प्रतीयते न पर्याप्तिसंबन्धेनेत्यर्थः। समवायसंबन्धावच्छिन्ना द्वित्वनिष्ठा प्रतियोगितावच्छेदकता यस्य स समवायसबन्धावच्छिन्नप्रतियोगितावच्छेदकताको द्वित्वावच्छिन्नभेदस्तद्विषयवेत्यन्वयः । द्वित्वावच्छिन्नभेदस्य द्वित्वावच्छिन्नः द्वित्ववान् प्रतियोगी, प्रतियोगिता द्वित्ववति. प्रतियोगितावच्छेदकं द्वित्वमिति प्रतियोगितावच्छेदकता द्वित्वे द्वित्वं च द्वित्ववति समवायेन वर्तते इति स समवायोपि घटे संयोग इव द्वित्वे वर्तते इति प्रतियोगितावच्छेदकता समवायसंबन्धावच्छिन्ना जातेति ' आकाशो न द्वौ ' इत्यत्राकाशे समवायसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकस्यैव द्वित्वावच्छिन्नभेदस्य प्रतीतिर्जायते न तु पर्याप्तिसंबन्धावच्छिन्न प्रतियोगितावच्छेदकताकस्येत्यर्थः । ननु यदि समवाय एव संख्यासंबन्धस्तदा समवायस्यैकत्वेन छटपटोभयस्मिन् वर्तमानस्य द्वित्वसमवायस्याकाशेपि सत्त्वात् ' आकाशो न द्वौ ' इत्येवमाकाशे द्वित्वबद्भेदः कथं प्रतीयेतेत्याशझ्याह-आकाशादाविति, यथा वायौ रूपसमवायसत्त्वेपि रूपाभावाद्रूपवत्ताबुद्धिर्न जायते तथा समवायस्यैकत्वेनाकाशे द्वित्वसमवायसत्त्वेपि द्विग्वस्योभयवृत्त्युभयत्वधर्मपात्रावश्छन्नत्योपगमेनोभयत्वावच्छेदेनैव सत्त्वात् तदनवच्छेदक=द्वित्वानवच्छेदकाकाशपत्वावच्छेदेन समवायेन द्वित्वस्याऽपत्ताचाकाशत्वावच्छेदेनाकाशे तद्वतो भेदस्य द्वित्वावच्छिन्नमेदस्य वृत्तौ सत्तो बाधकाभावात् 'आकाशो न द्वौ ' इत्येवमाकाशे द्विरवावच्छिन्नभेदप्रतीतौ न काप्यनुपपत्तरित्यर्थः । परिहरति-नेति, 'भाकाशौ ' इति वाक्यजन्यशाब्दबोधोऽनिष्टत्वादप्रा "Aho Shrutgyanam Page #158 -------------------------------------------------------------------------- ________________ ( १४६) सादा [प्रथमाकारके'आकाशौ' इत्यादिवाक्यजन्यशाब्दबोधस्थाप्रमात्वानुपपत्यैव ताशसंबन्धसिद्धेः । तादृशबुद्धः समवायविषयकत्वे प्रमात्वनिराकरणस्याशक्यत्वात् । उद्देश्यतावच्छेदकव्याप्तिविशिष्टसमवायस्य संसर्गतोपगमे ? 'घटौ' इत्यादिवाक्यस्याप्यऽप्रमाणतापत्तिः- समवायस्यैक्येन घटादिनिष्ठस्य द्वित्वादिसमवायस्य पटादावपि सत्त्वेन घटत्वाद्यव्याप्यत्वात् । माणिक एव तस्याप्रमात्वं च समवायस्य संख्यासंबन्धत्वस्वीकारे न संभवतीति तस्याऽप्रमात्वोपपादनार्थमेव तादृशसंबन्धसिद्धेः पर्याप्तिसंबन्धः सिद्धयंतीत्यर्थः । विपक्षे बाधकमाह-तादृशेति, तादृशबुद्धेः= आकाशौ , इत्यादिवाक्यजन्यबोधस्य समवायविषयकत्ये यदि संख्यासंबन्धः समवायः स्यात्तदा धटाकाशगतद्वित्वस्य द्वित्वसमवायस्य चाकाशे सत्वादेवं ' आकाशौ । इतिवाक्यजन्यस्याकाशानुयोगिकद्वित्वविषयकशाब्दबोधस्याप्रामाण्यं न स्यादेव । पर्याप्तेः संबन्धरवे तु द्वित्वपर्याप्तेः घटाकाशोभयस्मिन्नेव सत्त्वेन केवलाकाशेऽभावात् तादृशपर्याप्तिसंबन्धेनाकाशे द्वित्वस्यासंभवाद् ‘आकाशौ । इतिवाक्यजन्यशाब्दबोधस्याऽप्रामाण्यं सूपपादमेवेत्यर्थः । अत्र " यधपि समवायेनाकाशे द्वित्वं नाकाशत्वावच्छेदेन किं तु घटाकाशोमयत्वावच्छेदेनैवेति पर्याप्त्यऽनङ्गीकारेपि 'आकाशौ ' इति धियोऽप्रमात्वं सूपपादं तथापि तत्संबन्धावच्छेदकस्य तदवच्छे. दकतानियमात् प्रकृते च द्वित्वसमवायावच्छेदकस्याकाशत्वस्य द्वित्वावच्छेदकत्वनियमादाकाशवावच्छेदेन द्वित्वसमवायोस्ति द्वित्वं चास्तीति 'आकाशौ ' इतिप्रतीतेः प्रमात्वं स्यादतः आकाशत्वानवच्छेद्यः कश्चिद् द्वित्वसंबन्धोऽन्चेष्टव्यः स च पर्यातिनामास्तु इति द्वित्वपर्याप्त्यऽनवच्छेदकाकाशत्वावच्छेदेन पर्याप्तिसंबन्धेन द्वित्वावगाहिनी 'भाकाशौ ' इतिप्रतीतिरप्रमैवेति पर्याप्तिसंबन्धोऽवश्यमङ्गीकरणीयः " इति कृष्णंभट्टाः । - ननु न शुद्धसमवायस्य संबन्धस्वं येन 'आकाशौ' इतिवाक्यजन्यशाब्दबोधस्याप्रमात्वं न स्यात् किं तूद्देश्यतावच्छेदकव्याप्ति विशिष्टसमवायस्य संबन्धत्वमुच्यते व्याप्तिश्च तदभाववदवृत्तित्वं तथा चोदेश्यतावच्छेदकाभाववदऽवृत्तिसमवायस्य संबन्धत्वं प्राप्तं समवायस्य चकत्वात् 'आकाशौ । इत्यत्रोद्देश्यतावच्छेदकं यदाकाशत्वं तदभाववति घटादावपि वृत्तित्वात् समत्राये उद्देश्तावच्छेदकव्याप्यत्वमेव नास्तीत्याऽऽकाशत्वव्याप्तिविशिष्टसमवायेनाऽऽकाशे द्वित्वासंभवात् ' आकाशो' इतिप्रतीतेः कथं प्रमात्वं स्यादित्याशङ्याह- उद्देश्यतावच्छेदकेति । अत्र दोषाह- घटाविति, उद्देश्यतावच्छेदकव्याप्तिविशिष्टसमवायस्य संबन्यत्वस्वीकारे - आकाशौ । इत्यादिपतातेरप्रामाण्यवत् 'घटौ ' इत्यादिप्रतीतेरप्यप्रामाण्यं स्यात् 'घटौ ' इत्यत्रोदेश्यतावच्छे कं घटत्वं घटत्वव्याप्यत्वं च द्वित्वसमवाये नास्त्येव- द्वित्वसमवायस्य घटवाभाववत पटादावरि त्वादिति घटत्व पाप्यसमवायस्यालोकत्येन तेन संबन्धन घटेप द्वित्वासंभवात् 'घटौ । इतिवाक्यजन्यशाब्दबोधस्याप्यत्रामाण्यं स्यात् तत्तु नेटमियर्थः । द्वित्वसमवायस्य घटत्वाच्याप्यवं स्वयमेवोपपादयति- समवायस्यैक्येनेति । "Aho Shrutgyanam" Page #159 -------------------------------------------------------------------------- ________________ संख्यासंबन्धविचारः ] व्युत्पत्तिवादः । ( १४७ ) . न चोद्देश्यतावच्छेदकव्याप्यद्वित्वादिसमवायत्वेनैव संबन्धतास्तु द्वित्वादिसघट मवायस्य घटत्वाद्यव्याप्यत्वेपि द्वित्वादेस्तद्व्याप्यतया न इत्यादे- रप्रमाणतेति वाच्यम्, एवं सति तथाविधद्वित्वादेरेव लाघवेन द्वित्वादिसंबन्धतौचित्यात् । " अथास्त्वेवमेव तावतापि पर्याप्तिसंबन्धस्य विलयादिति चेत् ?, न- - द्वित्वादिस्वरूपस्यैव द्वित्वादिपर्याप्तितयाऽभिमतसिद्धेः । उक्तं च दीधितिकृता- " पर्यामिश्व ' अयमेको घट इमौ द्वौ ' इत्यादिप्रतीतिसाक्षिकः स्वरूपसंबन्धविशेषः " ननुदेश्यतावच्छेदकव्याप्यं यद् द्रिस्वं तादृशद्वित्वसमवायस्यैव संबन्धत्वमुच्यते तथा च द्विल समवायस्यैकत्वेन घटत्वाभाववति पटादी वृत्तित्वेन घटत्वव्याप्यत्वेपि द्वित्वस्य तु घटत्वव्याप्यत्वं संभवत्येव द्वित्वव्यक्तीनामधिकरणभेदेन भिन्नत्वात् प्रत्येक घटद्विकवृत्तिद्वित्वव्यक्तीनां घटत्वव्याप्य स्वात् तथा च घटत्वव्याप्यद्वित्वस्य घटे सत्त्वात् समवायस्याप्येकत्वेन घटे सत्त्वात् 'घटो' इति प्रतीतेः प्रमात्वेनाप्रामाण्यं न संभवति, आकाशे च समवायस्यैकत्वेन सत्त्वेपि द्वित्वे आकाशत्वव्यायत्वाभावेन तादृशद्वित्वासंभवात् ' आकाशौ ' इतिप्रतीतेः प्रमात्वं न संभवतीत्याशङ्क्याहन चैति । परिहारहेतुमाह - एवं सतीति, एवं सति = उद्देश्यतावच्छेदकव्याप्यत्वस्य द्वित्वविशेषणत्वे संति, उद्देश्यतावच्छेदकव्याप्यद्वित्वसमवायस्य संबन्धत्वापेक्षया लाववात् तथाविधद्वित्वादेः =उद्देश्यतावच्छेदकव्याप्यद्वित्वस्यैव ( अर्थात् स्वरूपस्यैव ) द्वित्वसंबन्धत्यं युक्तं प्रथमसंबन्धस्वरूपे समवायप्रवेशेन गौरवाद् उद्देश्यतावच्छेदकव्याप्यद्वित्वस्य च संबन्धत्वे समवायाप्रवेशेन लाघवात्, तथा च घंटे द्वित्वसंबन्धभूतस्य घटत्वव्याप्यद्वित्वस्य सत्त्वात् ' घटौ ' इतिप्रतीतेर्नाऽप्रमात्वं आकाशे द्वित्वाभावादाकाशत्वव्याप्यत्वस्य च द्वित्वेऽभावाद् द्वित्वसंवन्धभूतस्याऽऽकाशत्वव्याप्यद्वित्वस्यालीकत्वेनाकाशेऽसंभवात् ' आकाशौ ' इतिप्रतीतेरप्रमात्वं सूपपादमेवेत्यर्थः । नन्वस्त्येवमेव उद्देश्यतावच्छेदकव्याप्यद्वित्वस्यैव ( स्वरूपस्यैव ) संबन्धत्वमस्तु तावतापि= उद्देश्यतावच्छेदकव्याप्यद्वित्वस्य संबन्धत्वस्वीकारेणापि पर्यातस्तु संबन्धत्वं नष्टमेवेत्यभ्युपगम्य शङ्कते - अथेति । परिहरति- नेति । द्वित्वादीति उद्देश्यतावच्छेदकस्यद्विस्वरूपैक द्वित्वपर्याप्तिरस्ति द्वित्वस्वरूपस्य संबन्धत्वे स्वीकृते च पर्याप्तः संबन्धवं स्वीकृतमेवेति सिद्धं नः समीहितमित्यर्थः । ननु द्वित्वस्वरूपस्य द्वित्वपर्याप्तिवं कथं स्यादित्याशङ्क्त्र प्रमाणमाहकृकं चेति, ' अयमेको घट इमौ द्वौ इतिप्रतीतिसाक्षिकः स्वरूपसंबन्धविशेषः' अयमेको घटः ' इत्यत्रैकत्वस्वरूपमेवैकत्वपर्याप्तिः ' इमौ द्वौ ' इत्यत्र द्वित्वस्वरूपमेव द्विलसित्रा घटा: ' इत्यत्र बहुत्वस्वरूपमेव बहुत्वपर्याप्तिः, तथा च घट: इत्यादावेकवादान स्वरूरेव पर्याप्तिरूपेण वडादौ प्रतीयमानस्यादेकत्वादिस्त्ररूप विकलादिपर्याप्तति वर्थः । यदा व समवायस्य नानात्वं स्वीक्रियते तदा द्वित्वा देवाय एवं द्वित्यादिपर्याप्तनं तु द्विस्यादस्वरूप पर्याप्तिः द्वित्वादिसमवायातिरिक्तपदार्थो वा पर्याप्तिः, सनवायस्य नानात्वेन द्वयादित वाप . • "Aho Shrutgyanam" Page #160 -------------------------------------------------------------------------- ________________ सादर्श: [प्रथमाकारके इति । समवायस्य नानात्वमते च द्वित्वादिसमवाय एव तत्पर्याप्तिर्न तु स्वरूपमतिरिक्तपदार्थों वेत्यन्यदेतत् ।। - यत्तु 'आकाशं न दे ' इत्यादिप्रतीतिवत् ' आकाशं न द्वित्ववत्' इतिप्र• तीतेः प्रमात्वस्य वारणाय समवायेन द्वित्वादिमद्भेद आकाशत्वावच्छेदेन न द्वित्वादिसंबन्धत्वस्वीकारे 'आकाशौ । इतिप्रतीतेरप्रमात्वस्य 'घटौ। इतिप्रतीतेः प्रमात्वस्य च सूपपादत्वात् तथा हि समवायस्य नानात्वेन द्वित्वसमवायस्याकाशेऽसत्त्वात् समवायेन द्वित्वस्याप्यसत्ताच 'आकाशौ' इतिप्रतीतेराकाशानुयोगिकद्वित्वावगाहिन्या अप्रमात्वमेव, घटे च द्वित्वसमवायद्वित्वयोः सत्त्वात् 'घटौ' इतिप्रतीतेर्घटानुयोगिकद्वित्वावगाहिन्याः प्रमात्वमेवेत्यभिप्रायेणाह- समवायस्येति । अन्यदेतत् अत्रैतद्विचारापेक्षा नास्तीत्यर्थः । . पर्यायाख्यसंबन्धसिद्धयर्थमन्योक्तयुक्त्यन्तरं परिहारायानुवदति- यत्त्विति । आकाशद्वयाभावेन 'आकाशं न द्वे ' इतिप्रतीतिर्भवति तस्याः प्रमात्वमपीष्टमस्ति, घटाकाशोभयगतद्वित्वस्याकाशेपि सत्त्वेन तेन द्वित्वेनाकाशस्यापि द्वित्ववत्त्वात् 'आकाशं न द्वित्ववत् । इतिप्रतीतिर्न भवति तस्याः प्रमात्वमपीष्टं नास्तीति सिद्धान्तः । किं च “आकाशं न द्वे, इत्यनेनापि द्वित्वावच्छिन्नभेदः ( द्वित्ववन्नेतिभेदः ) प्रतिपाद्यते तथा ' आकाशं न द्वित्ववत् । इत्यनेनापि द्वित्वावच्छिन्नभेद एव प्रतिपाद्यते इति प्रतीयते इत्युभयोरपि वाक्ययोस्तजन्यप्रतीत्योश्च साम्यमेव.! तत्र यदि द्वित्वसंबन्धः समवाय एव स्यात्तदा समवायस्यैकत्वेन द्वित्वसमवायस्याप्याकाशे सत्त्वाद् घटाकाशोभयगतद्वित्वस्याप्याकाशेपि सत्त्वादेवाकाशे 'आकाश द्वित्ववन' इत्याकारकस्य द्वित्वावच्छिन्नभेदस्याऽसत्त्वाद् द्वित्वावच्छिन्नभेदबोधकस्य ' आकाशं न द्वित्ववत् ' इतिवाक्यस्य यथा ह्यऽप्रामाण्यं स्यात् ( असद्बोधकत्वात् ) तथा ' आकाशं न द्वे ' इतिवाक्यस्याप्यमामाण्यं स्यादेव- उभयोर्वाक्ययोः समानार्थत्वात्, न च ' आकाशं न द्वे' इत्यस्याऽप्रामाण्यमिष्टम्, स्वयमप्येतद्वदति-- तथा चेत्यादिना । यदि चैतद्दोषपरिहाराय पर्याप्तेरेव द्वित्वसंबन्धत्वं स्वीक्रियते तदा घटाकाशोभयगतद्वित्वस्याकाशे सत्त्वेपि संबन्धभूता घटाकाशोभयगतद्वित्यपयोप्तिस्तु घटाकाशोभयस्मिन्नेव संभवति न तु केवलाकाशेपीति ताशपर्याप्तिसंबन्धेनाकाशे द्वित्वाभावेन द्वित्वावच्छिन्नभेदस्यापि (द्वित्ववन्नेतिभेदस्यापि ) सत्त्वात् तद्बोधकस्य ‘आकाशं न द्वे ' इति वाक्यस्य यथा हि प्रामाण्यं स्यात्तथा आकाशं न द्विरववत् । इतिवाक्यस्य तज्जन्यप्रतीतेश्चापि प्रामाण्यं स्यादेव- उभयोर्वाक्ययोस्तजन्यप्रतीत्योश्च विशेषाभावात् ( द्वित्वावच्छिन्नभेदंविषयकत्वेन समानत्वात् ) । न च 'आकाशं न द्वित्ववत् ' इतिप्रतीतेः प्रमात्वमिष्टमिति तस्याः प्रमात्वस्य वारणाय 'आकाशं न द्वित्ववत् ' इत्यत्राकाशे समवायेन द्वित्वादिमद्भेदःद्वित्वावच्छिन्नभेदो न स्वीकर्तव्यस्तथा च ' आकाशं न द्वित्ववत् । इतिवाक्यस्याकाशे समवायेन द्वित्वावच्छिन्नभेदबोधकत्वस्वीकाराद् आकाशे च द्वित्वसमवायस्य घटाकाशोभयगतद्वित्वस्यापि च सत्त्वेन समवायेन द्वित्वावच्छिन्नभेदस्याऽसत्वादऽसतो द्वित्वावच्छिन्नभेदस्थ बोधकत्वादप्रामाण्य "Aho Shrutgyanam" Page #161 -------------------------------------------------------------------------- ________________ संख्यासंबन्धविचार : ] व्युत्पत्तिवादः । ( १४९ ) , स्वीकर्तव्यः तथा च पर्याप्तेरविलक्षणत्वे ' आकाशं न द्वे' इत्यादिप्रतीतेरप्यsप्रमात्वापत्तिरिति तन्न - ' आकाशं न द्वित्ववत् ' इतिमतीतौ द्वित्वसमवायाव - च्छिन्नभेद एव विषयो मतुपा संबन्ध्युल्लेखात् न तु द्वित्वावच्छिन्नभेदः, एवं चाकाशत्वाद्यवच्छेदेन द्वित्वाद्यवच्छिन्नभेद एव स्वीकर्तव्यो न तु तत्संबन्धावच्छिन्नभेद इति ' आकाशं न द्वे ' इतिप्रतीतेरप्रमात्वस्य ' आकाशं न द्वित्ववत्' इति प्रतीतेर्वा प्रमात्वस्य न प्रसङ्ग इति । मुपपद्यते । घटाकाशोभयगत द्वित्वस्याकाशे सत्त्वेपि द्वित्वपर्याप्तर्घटाकाशोभयत्रैव संभवात् केवलाकाशे चासंभवात् पर्याप्तिसंबन्धेन केवलाकाशे द्वित्वस्यासंभवेन द्वित्वावच्छिन्नभेदस्य स्वीकारात् तादृशद्वित्वावच्छिन्नभेदस्य सतो बोधकत्वात् ' आकाशं न द्वे ' इतिवाक्यस्य प्रामाण्यमप्युपपद्यते इति संबन्धमेदेनोमयप्रतीत्योः प्रामाण्याऽप्रामाण्ययोर्व्यवस्था संभवतीत्यर्थः । अत्र ' आकारां न द्वे' इतिप्रतीतिवदिति व्यतिरेकी दृष्टान्तस्तथा च यथा ' आकाशं न द्वे ' इतिप्रतीतेः प्रमात्वं तथा ' आकाशं न द्वित्ववत् इतिप्रतीतेरापद्यमानप्रमात्वस्य वारणायेत्यन्वयः । यदि च पर्याप्तिर्द्वित्वस्वरूपा वा द्वित्वसमवायस्वरूपा वा स्यात्तद्विलक्षणा न स्यात्तदा समवायस्यैकत्वेन घटाकाशोभयगत द्वित्वसमवायस्याप्याकाशे सत्त्वाद् घटाकाशोभयगत द्वित्वस्यापि चाकाशे सत्त्वादेव ' आकाशं न द्वे ' इतिप्रतीतेरसंभवादप्रमात्वं स्यादेव द्वित्वाद् द्वित्वसमवायाच विलक्षणायाः पर्याप्तेद्वित्वसंबन्धत्वे तु घटाकाशोभयगतद्वित्वस्याकाशे सत्त्वेपि घटाका - शोभयगतद्वित्वपर्याप्तेस्तूभयत्वावच्छेदेनैव संभवेन केवलाकाशेऽसंभवात् संबन्धाभावे संबन्धिप्रतीत्यसंभवाचाकाशे द्वित्वप्रतीतिर्न संभवतीति आकाश न द्वे ' इति द्वित्वावच्छिन्नभेदप्रतीतिस्तस्याः प्रमात्वं च संभवत्येवेति पर्याप्त्याख्यसंबन्धोऽवश्यं स्त्रीकर्तव्य इत्याह- तथा चेति । तथा च समवायेन द्वित्वादिमभेदस्या का शत्यावच्छेदेना स्वीकारे पर्याप्तेश्चाविलक्षण रूप आकाशं न 'हे' इत्यादिप्रतीतेरप्यऽप्रमात्वमापद्येत न चैतदिष्टमित्यर्थः । 6 , 6 परिहरति-- तन्नेति, द्वित्वात् द्वित्वसमवायाच विलक्षणायाः पर्याप्तेः संबन्धत्वस्वीकारं विनापि समवायस्यैव द्वित्वसंबन्धत्वस्वीकारेण ' आकाशं न द्वे' इतिप्रतीतेः प्रमात्वम् ' आकाश न द्वित्ववत् ' इतिप्रतीतेरप्रमात्वं चोपपादयितुं शक्यते इति भावः, तथा हि- ' आकाशं न द्वित्ववत् ' इत्यत्र मतुपः संबन्ध्युपस्थापकत्वाद् द्वित्वसमवायवतः संबन्धिनो भेदो विषयोस्तिआकाश द्वित्वसमवायवद्भिन्नम् ( आकाशं द्विश्वसमवाययन्त्र ) इति, न त्वत्र न द्वित्ववत् ' इत्यनेन द्वित्वावच्छिन्नभेद: ( द्वित्ववन्नेतिभेदः ) प्रतिपाद्यते, 'आकाशं न द्वे ' इत्यत्र च द्वित्वावच्छिन्नभेद एव विषयः, उक्तप्रतीत्योः प्रमात्वाप्रमात्वयोरुपपत्यर्थं चाकाशत्वावच्छेदेनाकाशे द्वित्वावच्छिन्नभेदस्तु स्वीक्रियते तत्संबन्धावच्छिन्नभेद:- द्वित्वसमवायावच्छिन्नभेदः ( आकाश द्विश्वसमवायवद्भिन्नम् = द्वित्वसमवायवन्नेतिभेदः ) तु न स्वीक्रियते, तथा चाकाशे समवायेन द्वित्वावच्छिन्नभेदस्य स्वीकारात् तद्बोधकस्य' आकाशं न द्वे ' इतिवाक्यस्य तज्जन्यप्रतीतेश्व "Aho Shrutgyanam" Page #162 -------------------------------------------------------------------------- ________________ (१५०) जादर्श: [ प्रथमाकारकेअथोद्देश्यतावच्छेदकव्याप्यपर्याप्तदित्वसंबन्धत्वे 'धवखदिरौ छिनत्ति : इत्यादावुद्देश्यतावच्छेदकीभूतधवत्वखदिरत्वव्याप्यं द्वित्वादिद्वयमेव प्रत्येतव्यं न तु धवखदिरादिपर्याप्तद्वित्वादिकं तथा चैकैकवखदिरादितात्पर्येण तथाप्रयोगानुपपत्तिरिति द्वित्वान्वयितावच्छेदकमऽपेक्षाबुद्धिविशेषविषयत्वादिरूपमुभयादिनिष्टं साहित्यं द्वन्द्वसमासार्थों वाच्यस्तथा च मीमांसकमतप्रवेश इति चेत?, न- यत्रैप्रामाण्यमुपपद्यते एथेति न तदर्थं पर्याप्तिसंबन्धस्वीकारापेक्षा । आकाशे द्वित्वसमवायावच्छिन्नभेदस्य चास्वीकारात् तद्बोधकस्य 'आकाशं न द्वित्वंवत् ' इतिवाक्यस्य तज्जन्यप्रतीतेश्चाऽप्रामाण्यमप्युपपद्यते, द्वित्वसमवायस्यैकत्वादाकाशत्वावच्छेदेनापि सत्त्वेनाकाशस्य द्वित्वसमवायवत्त्वादेव. द्वित्वसमवायवद्मिन्नत्वाभावाद् द्वित्वसमवायबद्भेदबोधकस्य ' आकाशं न द्वित्ववत् । इतियाक्यस्य सजन्यप्रतीतेश्च प्रामाण्यप्रसक्तेर्न संभवः । तथा च विलक्षणपर्याप्तेः संबन्धत्वास्वीकारेपि 'आकाशं न द्वे' इतिप्रतीतेरप्रमात्वप्रसङ्गो नास्त्येव प्रमात्वस्यैवोपपादितत्वात्, ' आकाश न द्वित्ववत् ' इतिप्रतीतेश्च प्रमात्वप्रसङ्गोपि नास्त्येव- अप्रमात्वस्यैवोपपादितत्वादिति सर्व सुस्थमिति न द्वित्वाद् द्वित्वसमवायाच विलक्षणायाः पर्याप्तेः संबन्धत्वस्वीकारापेक्षेत्यर्थः । ___ ननु त्वया “ उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेरेव संसर्गतोपगमात् (पृ. १३७ ) । इत्यनेनोदेश्यतावच्छेदकव्याप्यपर्याप्तेविसंबन्धत्वमुक्तं तत्रोदेश्यतावच्छेदकव्याप्यपर्याप्तेविसंबन्धस्वे ' धवखदिरौ छिनत्ति ' इत्यत्रोदेश्यतावच्छेदकं धवत्वं च खदिरत्वं चेति धवत्वव्याप्यपर्याप्तिसंबन्धेनैकस्य द्वित्वस्य धवेऽम्वयो भविष्यति खदिरत्वव्याप्यपर्याप्तिसंबन्धेन चापरस्य द्वित्वस्य खदिरेऽन्वयो भविष्यतीति 'धवखदिरौ' इत्यत्र प्रकारतया द्वित्वद्वयस्य भान प्राप्तं धवत्वखदिरत्वयोरुभयोरेवोद्देश्यतावच्छेदकत्वेन साम्याद् धवत्वव्याप्यपर्याप्तिसंबन्धेन धवातिरिक्त खदिरादौ द्वित्वान्या संभवात् खदिरत्वव्याप्यपर्याप्तिसंबन्धेन ध खदिरातिरिक्ते धवादी द्वित्वान्चयासंभवाच्च न धवखदिरोभयपर्याप्तमेकं द्वित्वं प्रत्येतुं शक्यते युक्यभावात् , तथा चैकैकवखदिरादितात्पर्येण तथाप्रयोगस्य= धवखदिरौ' इतिप्रयोगस्योपपतिन स्यादेव किं तु धवद्वयखदिरद्वयतात्पर्येणैव ' धवखदिरौ' इति प्रयोगो भविष्यति- उक्तयुक्त्या द्वित्वस्य प्रत्येकं धवखदिरयोः प्रतीत्यापत्तेः, न चैवमस्ति किं त्वेकैकधवखदिरतात्पर्येणैव ' धवखदिरौ' इति प्रयोग इष्ट इति तदुपपत्त्यर्थ यदि द्विवचनार्थस्य द्वित्वस्यान्वयितावच्छेदकस्वरूपं तथा — इमौ द्वौ ' इत्याकारकापेक्षाबुद्धिविशेषविषयत्वरूपं ( साहित्यस्यापेक्षाबुद्धिविषयत्वादेव ) धवखदिरोभयपदार्थनिष्ठं यत् साहित्यं ( एकक्रियान्वयित्वरूपम् ) तदेव 'धवखदिरौ । इत्यादौ द्वन्द्वसमासार्धः स्वीकर्तव्यः एवं हि द्वित्वान्वयितावच्छेदकत्वादुदेश्यतावच्छेदकं साहित्यमेवेति प्राप्तं साहित्यं च धवखदिरोभयपर्याप्तमेव न तु प्रत्येकं धवखदिरयोरित्युद्देश्यतावच्छेदकीभूतसाहित्यव्याप्यपर्याप्तिसंबन्धेन द्वित्वस्य धवखदिरोभये एवाऽन्वयसंभवादेकै कवखदिरतात्पर्येण धवखदिरौ' इतिप्रयोगोपपत्तरेकमेवोभयगतं द्वित्वं प्रतीतं भविष्यति न द्वित्वन्यप्रतीत्यापत्तिरित्युच्यते तदा मीमांसकमतप्रवेशः स्यादित्याशङ्कते- अथेति । परिहरति-नेति "Aho Shrutgyanam" Page #163 -------------------------------------------------------------------------- ________________ संख्यासंबन्धविचारः ] व्युत्पत्तिवादः । कधर्मस्य द्वित्वाद्युद्देश्यतावच्छेदकता तत्रैवोद्देश्यतावच्छेदकव्याप्तिविशिष्टपर्याप्तेः संसर्गतानियमः । यत्र धर्मद्वयादेस्तथात्वं तत्र केवला पर्याप्तिः समवाय एव वा संसर्ग इत्युपगमाद् विनैव साहित्यस्यान्वयितावच्छेदकतामेकैकतात्पर्येण ' धवखदिरौ ' इत्यादिप्रयोगोपपत्तेः । न चैवमेकैकधवख दिरादितात्पर्येण 'धवौ' ' खदिरौ ' इत्यादिप्रयोगापत्तिः नाशवाक्यद्वयविषयक समूहालम्बनजन्यसमूहालम्बनशाब्दबोधस्य नानाधर्मानच्छिन्नोद्देश्यताकतया शुद्धपर्याप्तेरपि संसर्गतयाऽवगाहनसंभवादिति वाच्यम्, यत्र नानाधर्मावच्छिन्न विशेष्यतानिरूपिता एकैव द्वित्वादिप्रकारता तत्रैव शुद्धायाः पर्याप्तेः समवायस्य वा संसर्गतथा भानात् । 'धवौ' 'खदिरौ' इत्यादिनानावाक्य ( १५१ ) I यत्रेति । यत्रैकस्यैव धर्मस्य द्वित्वोद्देश्यतावच्छेदकत्वं भवति तत्रैवोद्देश्यतावच्छेदकव्याप्यपर्याप्तोर्टस्वसंबन्धत्वं स्वीक्रियते यथा 'घटौ ' इत्यादौ यत्र च ' धवखदिरौ ' इत्यादौ धर्मद्वयस्य तथा. त्वम् = उद्देश्यतावच्छेदकत्वं भवति तत्र तु शुद्धपर्याप्तेः समवायस्य वा द्वित्वसंबन्धत्वं स्वीक्रियते न नूद्देश्यतावच्छेदकन्याप्यपर्याप्तेः तत्र द्वित्वपर्याप्तावुद्देश्यतावच्छेदकव्याप्यत्वस्यासंभवात् तथा हिउद्देश्यतावच्छेदकं ह्यत्र धवत्वं खदिरखं च व्याप्यत्वं च तद्वदन्यावृत्तित्वं द्वित्वपर्याप्तेश्चात्र धवत्ववदन्यस्मिन् खदिरेपि सत्त्वान्न धवत्वव्याप्यत्वं तथा खदिरत्ववदन्यस्मिन् धपि सत्त्रान्न खदरत्वव्याप्यत्वमिति ' धवखदिरौ ' इत्यादौ शुद्धाया एव पर्याप्तेः समवायस्य वा द्वित्वादिसंबन्धवं स्वीक्रियते तथा च 'घटौ ' इत्यत्रोद्देश्यतावच्छेदकीभूतस्य घटरवस्यैकत्वात् तद्व्याप्यपर्याप्तिसंबन्धेन घटये एकस्यैव द्वित्वस्यान्वयः प्रतीतिश्च संभवति, ' धवखदिरौ ' इत्यत्र च घवत्यखदिरयोभयस्योद्देश्यतावच्छेदकत्वाद् द्वित्वसंबन्धभूतपर्याप्तावुद्देश्यतावच्छेदकव्याप्यत्वविशेषणराहित्याच. साहित्यस्य द्वित्वान्वयितावच्छेदकत्वाश्रयणं विनापि केवलपर्याप्तिसंबन्धेन वा समत्रायसंबन्धेन बैकस्य द्वित्वस्य धवखदिरयोरुभयोरन्वये विरोधाभावादेकैकधवखदिर तात्पर्येण 'ववखदिरौ इतिप्रयोगे न काचिदनुपपत्तिर्न वा मीमांसकमतप्रवेश इत्यर्थः । ननु यत्रोद्देश्यता नानाधर्मावच्छिन्ना स्यादर्थाद् उद्देश्यतावच्छेदकं धर्मद्वयं धर्मत्रयादिकं वा स्या चत्र यदि शुद्धपर्याप्तेर्द्वित्यसंबन्धत्वं स्वीक्रियते तदा तादृशवाक्यद्वय = ' धवौ ' ' खदिरौ ' इत्येतादृशवाक्यद्वयविषयकेन समूहालम्बनेन = समूहालम्बनात्मकश्रावणप्रत्यक्षेणजन्यो यो धवविशेष्यकखदिरविशेष्यकशाब्दबोधस्तस्मिन् उद्देश्यतावच्छेदकत्वेन यत्रत्त्रखदिरवैतद्धर्मद्वयस्य भानाद् द्वित्वसंबन्धत्वं शुद्धपर्याप्तेः प्राप्तं तथा च तादृशशुद्धपर्याप्तिसंबन्धेन प्रत्येकं धवखदिरयोर्द्वित्वान्वयसंवादेकधवैकखदिरतात्पर्येणापि ' धवौ ' ' खदिरौ ' इतिप्रयोगः स्यादेव प्रत्येकं धवादौ द्वित्वस्य तत्संबन्धभूतपर्याप्तेश्च सत्त्वादेव न चैतदिष्टमित्याशङ्क्याह- न चैवमिति । परिहारमाहयत्रेति, यत्र नानाधर्मावच्छिन्नविशेष्यतानिरूपिता एका द्वित्वादिनिष्ठा प्रकारता भवति तत्रैव शुद्धायाः ( उद्देश्यतावच्छेदकव्याप्यत्वविशेषणरहितायाः ) पर्याप्तेः समवायस्य वा द्वित्वादिसं "Aho Shrutgyanam" Page #164 -------------------------------------------------------------------------- ________________ (१५२) सार्शः [प्रथमाकारकेजन्यसमूहालम्बनशाब्दबोधे विशेष्यंताभेदेन प्रकारताभेदादुद्देश्यतावच्छेदकधवत्वादिव्याप्तिविशिष्टपर्याप्तः संसर्गतानियमेनैकैकवरखदिरादितात्पर्येण तथाप्रयोगासंभवात् । ‘धवखदिरौ , इत्यादिसमासोत्तरद्विवचनन धवत्वखदिरत्वाद्यवच्छिन्ननानाविशेष्यतानिरूपितैकद्वित्वादिप्रकारताशालिज्ञानमेव जन्यते- तादृशवाक्यजन्य बन्धत्वं स्वीक्रियते यथा- 'धवखदिरौ ' इत्यत्र धवत्वखदिरत्वरूपनाना ( उभय ) धर्मावच्छिन्ना या धवखदिरनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता एका द्वित्वनिष्ठा प्रकारतास्तीति तत्र शुद्धपर्याप्तेः समवायस्य वा संबन्धत्वं स्वीक्रियते ( शेषं पूर्ववत् ) ' धवौ । 'खदिरौ , इत्यत्र तु एतादृशवाक्यद्वयजन्यसमूहालम्बनात्मकशाब्दबोधे धबे : धवपदोत्तरद्विवचनार्थद्वित्वनिरूपिता विशेष्यता पृथग् भासते खदिरे च खदिरपदोत्तरवर्तमानद्विवचनार्थद्वित्वनिरूपिता विशेष्यता पृथग् भासते विशेष्यताभेदेन च धवनिष्ठविशेष्यतानिरूपिता एकद्वित्वनिष्ठा प्रकारता भिन्नास्ति खदिरनिष्ठविशेष्यतानिरूपिताऽपरद्वित्वनिष्टा प्रकारता भिन्नास्तीति प्रकारताया अनेकत्वेनैकवाभावान्नात्र शुद्धपर्याप्तेः समवायस्य वा द्वित्वसंबन्धत्वं स्वीक्रियते किं तूद्देश्यतावच्छेदकव्याप्यपर्याप्तख संबन्धत्वं स्वीक्रियते तथा च 'धवौ । 'खदिरौ' इत्यादिनानावाक्यजन्यसमूहालम्बनशाब्दबोधे धवत्वमप्युद्देश्यतावच्छेदकमस्ति खदिरत्वमप्युद्देश्यतावच्छेदकमस्ति धवत्वव्याप्यद्वित्वपर्याप्तिश्च धवद्वये एव संभवति न त्वेकस्मिन् धवे इत्येकस्मिन् धवे धवद्वयगतद्वित्वस्य संभवेपि संबन्धभूताया द्वित्वपर्याप्तरसंभवात् संबन्धाभावे च संबन्धि (द्वित्व ) प्रतीत्यसंभवादेकवतात्पर्येण धवौ' इति प्रयोगापत्तिर्नास्त्येव, एवमेकखदिरतात्पर्येण · खदिशै । इतिप्रयोगापत्तिर्नास्त्येवेत्येकैकधवखदिरादितात्पर्येण तथाप्रयोगासंभवात् = धवौ' 'खदिरौ' इतिप्रयोगासंभवान्न कोपि दोष इत्यर्थः। धवद्वये च द्वित्वमप्यस्ति धवत्वव्याप्यद्वित्वपर्याप्तिरप्यस्त्येवेति धवद्वयतात्पर्येण धवौ । इति प्रयोग उपपद्यते । एवम् ‘घटौ' इत्यादावपि बोध्यम् । धवखदिरोभयस्मिंश्च द्वित्वमप्यस्ति द्वित्वपर्याप्तित्विसमवायो वा द्वित्वसंबन्धोप्यस्त्येवेत्येकैकधवखदिरतात्पर्येण धवखदिरौ ' इतिप्रपोगोप्युपपद्यते, धवखदिरोभयगतद्वित्वस्य प्रत्येक धवखदिरयोः सत्त्वेपि द्वित्वपर्याप्तेरसत्वान प्रत्येकं द्वित्वप्रतीतिसंभवः । किं वा द्वित्वस्यैव प्रत्येकं पर्याप्तत्वाभावान्न प्रत्येकं द्वित्वप्रतीतिसंभव इत्यवधेयम् । यदुक्तम्- " यत्र नानाधर्मावच्छिन्नविशेष्यतानिरूपिता एकैवद्वित्वादिप्रकारता तत्रैव शुद्धायाः पर्याप्तेः समवायस्य वा संसर्गतया भानात् " इति, तत्र नानाधर्मावच्छिन्नविशेष्यतानिरूपिता एका द्वित्वनिष्ठाप्रकारता कास्तीति जिज्ञासायामाह- धवखदिराविति, ' धवखदिरौ' इत्यत्र धचे पृथग् विशेष्यतास्ति खदिरे च पृथग विशेष्यतास्ति तादृशविशेष्यताद्वयनिरूपिता प्रकारता तु द्विवचनार्थकद्वित्वनिष्ठा एकैवास्तीत्यर्थः । भत्र हेतुमाह- तादृशेति, समूहालम्बनात्मकबोधे एव विशेष्यताभेदेन प्रकारताभेदो भवति यथा ' धवौ , ' खदिरौ' इत्यत्र । तादृशवाक्य="धव "Aho Shrutgyanam" Page #165 -------------------------------------------------------------------------- ________________ संख्यासंबन्धविचारः ] व्युत्पत्तिवादः । ( १५३ ) बोधस्य समूहालम्बनाऽनात्मकतया विशेष्यताभेदेन प्रकारताभेदाभावात् । यथा हि समूहालम्बनानात्मके ' खड्गी चैत्रः कुण्डली ' इत्याकारकनानाविशेषणकैकविशेष्यकज्ञाने नानाप्रकारतानिरूपिता एका विशेष्यता तथा तथाविधे ' धवखदिरौ ' इत्याद्याकारके नानाविशेष्यकैकविशेषण कज्ञाने विशेष्यताभेदेप्यभिन्नैव द्वित्वादिप्रकारता, अन्यथा - समूहालम्बनतस्तद्वैलक्षण्यानुपपत्तेः समासघटकधवखदिरादिपदानामेकवाक्यतानुपपत्तेश्च तत्प्रयोज्यविषयतया साक्षात् परम्परया वा निरूपिता या विषयता तत्मयोजकत्वस्यैव तदेकवाक्यतापदार्थत्वात् । " • C खदिरौ ' इत्येतादृशवाक्यजन्यशाब्दबोधस्तु न समूहालम्बनात्मक इत्यत्र विशेष्यतामेदेपि प्रका रताभेदो न भवतीत्यर्थः । अत्र दृष्टान्तमाह-- यथा हीति, यथा ' खड्गी कुण्डली चैत्र: ' इत्यादी समूहालम्बनाऽनात्मके बोधे नानाखड्गकुण्डलादिनिष्ठानां प्रकारतानां भेदेपि विशेष्यताभेदो न भवति किं त्वेकैव चैत्रनिष्ठा विशेष्यता भासते तथा तथाविधे = समूहालम्बनानात्मके 'धवखदिरौ ' इत्याकारकवाक्यजन्यबोधेपि विशेष्यताभेदेपि प्रकारताभेदो न भवति किं त्वेकैवैकद्वित्वनिष्ठा प्रकारता भासते इत्यर्थः । विपक्षे बाधकमाह - अन्यथेति, यदि 'धवौ ' खदिरौ ' इत्याकारकसमूहालम्बनात्मक बोधे इव धवखदिरौ ' इतिबोधेपि विशेष्यतामेदेन प्रकारताभेदः स्यात्तदा धवौ ' ' खदिरौ ' इतिसमूहालम्बनात्मकस्य धवखदिरौ इतिसमूहालम्बनानात्मकस्य च बोधस्य परस्परं किमपि वैलक्षण्यं न स्यादित्यर्थः । धत्रखदिरौ ' इत्यत्र विशेष्यतामेदेपि प्रकारताभेदाभावे हेत्वन्तरमाह- समासेति यद्यत्र विशेष्यतामेदेन प्रकारताभेदोपि स्यात्तदा धवखदिरपदयोः परस्परमेकवाक्यता न स्यात्, एकवाक्यताभावे च समासोपि न स्यादित्यर्थः । विशेष्यताभेदेन प्रकारताया भेदे एकवाक्यता कथं न भवतीति जिज्ञासायामेकवाक्यतास्वरूपमाह - तत्प्रयोज्येति, तथा हि- ' राजपुरुषः ' इत्यत्र राजपदप्रयोज्यप्रकारताख्यविषयतया साक्षान्निरूपिता या पुरुषनिष्ठा विशेष्यताख्या विषयता = शाब्दबोधीयविषयता तत्प्रयोजकत्वं पुरुषपदेस्ति, एवं पुरुषपदप्रयोज्य विशेष्यताख्यविष तया साक्षान्निरूपिता या राजनिष्ठा प्रकारताख्यविषयता तत्प्रयोजकत्वं राजपदेस्तीत्येता योग्यप्रयोजकभावरूपैकवाक्यतायाः सत्त्वात्समासो जातः, तत्राप्यत्र राजनिष्ठप्रकारतायाः पुरुषनिष्ठविशेष्यतायाश्च साक्षादेव परस्परं निरूप्यनिरूपकभावो विज्ञेयः । ' श्रवखदिरौ ' इत्यत्र च धवपदप्रयोज्यविशेष्यताख्यविषयतानिरूपिता खदिरपदप्रयोज्य विशेष्यताख्यविषयतानिरूपिता ant द्विवचनोपस्थापितद्वित्वनिष्ठा प्रकारतास्तीति तादृशप्रकारतारूपपरम्परया वा द्वित्वरूपपरम्परया वा वखदिरोभयनिष्ठविशेष्यतयोर्निरूप्यनिरूपकभावोस्ति न तु धवः खदिरे वा खदि वे वा विशेषणमस्ति येन साक्षान्निरूप्यनिरूपकभावः स्यात् किं तु धवखदिरयोरेकस्मिन् द्विस्वेऽन्वयोस्त्येतादृशपारम्परिक प्रयोज्यप्रयोजकभावरूपैकवाक्यतायाः सत्त्वादत्र समासो जात यद्यत्र धनिष्ठविशेष्यता निरूपिता द्वित्वनिष्ठा प्रकारता भिन्ना स्यात् खदिरनिष्ठ विशेष्यतानिरूपित 2 " Aho Shrutgyanam" C Page #166 -------------------------------------------------------------------------- ________________ (१५४) सादर्शः [ प्रथमाकारके न चैतादृशैकवाक्यताविरहेपि क्षतिविरह:- तथा सति समासस्यैवानुपपत्तेः । 'अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यताम् ' इत्यादौ , राजपुरुषपदादीनां समासवारणाय समर्थपदयोरेव समासानुशासनात्, सामर्थ्यस्य च निरुक्तैकवाक्यतारूपत्वात् । च द्वित्वनिष्टा प्रकारता भिन्ना स्यात्तदा तादृशप्रकारतयोः परम्परावाभावात् परम्परयाप्युक्तप्रयोज्यप्रयोजकमावो न स्यादित्येकवाक्यताया असत्त्वात् समासो न स्यादेव. भवति च समास इति धवखदिरोभयनिष्ठविशेष्यताद्वयनिरूपिता द्वित्वनिष्ठा एकैव प्रकारतास्तीति स्वीकार्यम् । तादृशद्वित्वनिष्ठप्रकारताया एकत्वे तु तादृशुपकारतापपरस्पस्याव्यतरपद्प्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्वमन्यतरपदस्य संभवतीति संभवत्येकवाक्यसेत्यर्थः ।। .. मन व 'धखदिरौ' इत्यत्र तत्प्रयोज्या धवपदप्रयोज्या या धवपदज्ञानजन्यधवपदार्थोपस्थितिजन्यधवखदिरावितिशाब्दबोधनिरूपितधवपदार्थनिष्ठविशेष्यता तया परम्परया निरूपिता या द्वित्वनिष्ठा प्रकारताख्यविषयता तत्प्रयोजकत्वस्य खदिरपदनिष्ठस्यैव तदेकवाक्यतापदार्थत्वात्= धवपदैकवाक्यतापदार्थत्वात्, धवपदजन्यधवोपस्थितिजन्यधवखदिरशाब्दबोधनिरूपितधवनिष्ठविशेष्यतानिरूपितद्वित्वनिष्ठप्रकारतानिरूपितशाब्दबोधीयखदिरनिष्ठविशेष्यताशालिशाब्दधोजनकखदिरोपस्थितिजनकत्वं खदिरपदे इति धवपदैकवाक्यतापन्नं खदिरपदमेवेत्येवंरीत्या खदिस्पदैकवाक्यतापने धवपदमिति परस्परं धवखदिरपदयोरेकवाक्यत्वमित्यर्थः । एवम्- 'राजपुरुषः । इत्यत्र राजसंबन्धी प्रकारः पुरुषो विशेष्यस्तत्र तत्प्रयोज्या-राजपदप्रयोज्या या राजपदजन्यराजसंबन्ध्युपस्थितिजन्यशाब्दबोधीयराजसंबन्धिनिष्ठा प्रकारताख्यविषयता तन्निरूपिता या पुरुषनिष्ठा विशेष्यताख्या साक्षाद्विषयता तत्प्रयोजकत्वम् तन्निरूपकशाब्दबोधजनकपदार्थोपर स्थितिजनकत्वरूपमेकवाक्यत्वं पुरुषपदे, एवं पुरुषपदप्रयोज्या पुरुषपदजन्यपदार्थोपस्थितिजन्यप्रक्दबोधनिरूपिता पुरुषनिष्ठविशेष्यताख्य विषयता तन्निरूपिता या राजसंबन्धिनिष्ठा प्रकारता द्वित्वपेनकत्वम्- तन्निरूपकशाब्दबोधजनकपदार्थोपस्थितिजनकत्वरूपमेकवाक्यत्वं राजपदे । प्रपोगन्यज्ञाननिरूपितत्वेन तत्पदप्रयोज्यत्वव्यवहारो विषयतायामिति बोध्यमित्यर्थः ।" इति कृष्णभट्टाः। ___ ननु ' धवखदिरौ ' इत्यत्रोक्तस्वरूपैकवाक्यता मा भवतु विशेष्यताभेदेन प्रकारताभेदं तु स्वीकरिष्याम एव इत्याशझ्याह- न चेति । परिहारमाह- तथा सतीति, विशेष्यताभेदेन प्रकारताभेदस्वीकारे उक्तैकवाक्यता न भविष्यति तथा सति-उक्तस्वरूपैकवाक्यताय “एक्वे च ' धक्खदिरौ' इति समासो न भविष्यतीत्यत्रोक्तंकवाक्यता स्वीकार्या. एक पृथतार्थं च विशेष्यताभेदेष्यभिन्नैव द्वित्वनिष्ठा प्रकारता स्वीकार्येत्यर्थः । उक्तैकवाक्यत्वाभावे द्विसानुपपत्तौ प्रमाणमाह- अयमेतीति, यद्युक्तकवाक्यता समासे कारणं न स्यात्तदा विअयमेति पुत्रो राज्ञः पुरुषोऽपसार्यताम् । इत्यत्रापि राजपदपुरुषपदयोः समासो "Aho Shrutgyanam" Page #167 -------------------------------------------------------------------------- ________________ संख्यासंबन्धविचार: ] व्युत्पत्तिवादः । ( १५५ ) "" समर्थः < < 'जलपृथिव्योः स्नेहगन्धौ' इत्यादितोपि न 'जले स्नेहः पृथिव्यां गन्धः" इत्याकारकसमूहालम्बनबोधः किंतु तद्विलक्षणो द्वित्वादिनिष्ठैकमकारतानिरूपितजलत्वपृभवेद् न च भवतीत्यत्र राजपदपुरुषपदयोः समासवारणाय समर्थानामेव पदानाम् पदविधिः " इत्यनेन समासानुशासनं कृतं सामर्थ्य चोक्तैकवाक्यतारूपमेवेति समासकारणत्वेनोक्तैकवाक्यतायाः स्वीकार आवश्यक एवेत्यन्वयः । सापेक्ष समर्थवद्भवति " इतिव्युस्पत्त्या अयमेति ' इतिवाक्यघटकराजपदपुरुषपदयोः समासे कृते तादृशराजपदस्य समासा - घटक पुत्र पदसापेक्षत्वेन पुरुषपदस्य च समासाघटकापसार्यतापदसापेक्षत्वेनाऽसमर्थत्वात्तयोः समासस्याऽसाधुत्वं स्यादिति तयोः समासापत्तिर्नास्ति, अन्यथा ऋद्धस्य राजमातङ्गाः ' इत्यपि स्यात्, तत्रापि राजपदस्य समासाघटक ऋद्धपदसापेक्षत्वेनाऽसामर्थ्यात्समासाऽसाधुत्वम् । अत्र च राजपदजन्य पदार्थोपस्थितिजन्यशाब्द निरूपितराज निष्ठप्रकारताख्यविषयतानिरूपितसंबन्धनिष्ठविशेष्यत्वाभिन्नप्रकारतानिरूपितशाब्दबोधीय पुत्र निष्ठविशेष्यताशालिशाब्दबोधजनकपुत्रोपस्थितिजनकत्वरूपैकवाक्यत्वं पुत्रपदे एव न तु पुरुषपदेस्तीतिभावः । " इतिकृष्णंमट्टाः । तथा च अयमेति ' इत्युक्तवाक्यघटकराजपद पुरुषपदयोरुक्तैकवाक्यत्वाभावादेव न समासापत्तिरित्यर्थः । एवम् ' धवखदिरौ ' इत्यत्राप्युक्तद्वित्वनिष्ठप्रकारताया मेदे धवखदिरपदयोरुक्तैकवाक्यत्वाभावापत्त्या समासो न स्यादेव प्रकारताया एकत्वे तुक्तरीत्या तादृशैकप्रकारता परम्परया ह्येकवाक्यत्वसंभवात् संभवति समासः । ननु यथा ' धव खदिरौ r ( 2 ८ ८८ इत्यत्र वाक्यद्वयसत्त्वात्समूहालम्बनात्मको बोधस्तथा जलपृथिव्योः स्नेहगन्धौ ' इत्यत्रापि वाक्यद्वयसत्त्वात् ' जले स्नेहः पृथिव्यां गन्धः ' इत्याकारकसमूहालम्बनात्मक एव बोधो भविष्यतीत्याशङ्कयाह - जलेति । अत्रत्यसमूहालम्बनानात्मक् नोवस्थ स्वरूममाह- किं त्विति । तद्विलक्षण:-समूहाळम्बन विलक्षणः । जलपृथिव्योः इत्र सप्तम्यर्थ आधेयत्वं द्विवचनार्थश्च द्वित्वं तच्च द्वित्वं जलपृथिव्युभयनिष्ठमेकमेव, द्वित्वे प्रका रता वर्तते, जलपृथिव्योश्च द्वित्वनिष्ठप्रकारता निरूपित विशेष्यतापि वर्तते सप्तम्यर्थाधेयत्वनिष्ठविशेष्यतानिरूपितप्रकारतापि वर्तते, आधेयत्वेपि जलपृथिवीनिष्ठप्रकारतानिरूपितविशेष्यतापि वर्तते स्नेहगन्धनिष्ठविशेष्यतानिरूपितप्रकारतापि वर्तते स्नेहगन्धौ इत्यत्र च द्वित्वनिष्ठप्रकारता स्नेहगन्धनिष्ठविशेष्यतानिरूपिता ज्ञेया, स्नेहगन्धोमयस्य धर्मितावच्छेदकमपि द्वित्वं उभयवृत्तित्वात् गन्धत्वादेरुभयवृत्तित्वाभावादितिपदार्थ:, तथा च जलनिष्ठविशेष्यतानिरूपिता पृथि - वो निष्ठविशेष्यतानिरूपिता चैकद्वित्वनिष्ठा एकैव प्रकारतास्ति न तु विशेष्यताभेदेन प्रकारतामेदस्तथा स्नेहनिष्ठविशेष्यतानिरूपिता गन्धनिष्ठविशेष्यतानिरूपिताच द्वित्वनिष्ठा एकैव प्रकारता न तु विशेष्यतामेदेन प्रकारताभेदोस्ति येनात्रत्यबोधस्य समूहालम्बनात्मकत्वं स्यात् तथा चोक • Santa: देव 'जलपृथिव्यो:' इति 'स्नेहगन्धौ' इति च समासोपि जात इति भावः । वाक्यार्थबोधमाह - द्वित्वेति, द्वित्वनिष्ठप्रकारतानिरूपित जलपृथिव्युभयवृत्तिविशेष्यता साहशविशेयतासमानाधिकरणप्रकारता निरूपिताऽऽघे यत्वनिष्ठविशेष्यता तादृशविशेष्यता समानाधिकरणप्रका 6 "Aho Shrutgyanam" ८ Page #168 -------------------------------------------------------------------------- ________________ (१५६) सादर्शः [प्रथमाकारके-- थिवीत्वाद्यवच्छिन्नविशेष्यतात्मकप्रकारताद्वयनिरूपिताधेयत्वप्रकारतानिरूपितं य. द्धर्मितावच्छेदकद्वित्वादिनिष्टंकप्रकारतानिरूपकं स्नेहत्वगन्धवाद्यवच्छिन्नविशेव्यताइयं तद्वानिति, अतो न कुत्राप्येकवाक्यताभङ्गः। . 'चैत्रो मैत्रश्च गच्छतः' इत्यादावाख्यातार्थद्वित्वादिप्रकारेण भासमाने चैत्रमैत्रोभयादौ गमनाश्रयत्वाद्यन्वयेन निरुक्तैकवाक्यतासंभवेपि समासविधेर्विभाषाभिकारीयत्वादसमासः। तत्र विशेष्यताभेदभिन्नाद्वित्वनिष्ठप्रकारताव्यप्रतियोगी समूहालम्बनात्मकबोध इति तु न सम्यक् तथा सत्युक्तयुक्त्या एकैकचैत्रमैत्रादितात्पर्येण तथाप्रयोगानुपपत्तेः । रतानिरूपित तथा स्नेहगन्धपदोत्तरद्विवचनार्थद्वित्वनिष्ठप्रकारतानिरूपकं स्नेहगन्धोभयवृत्तिविशेष्यताद्वयं यत्तद्वान् बोधो जायते इति न कुत्रापि समासे उक्तैकवाक्यताया भङ्गः अभाव: (व्यभिचारः येनोक्तैकवाक्यतायाः समासं प्रति कारणत्वं न स्यात्, तथाचोक्तैकवाक्यतायाः समासकारणत्वे सिद्धे ‘धवखदिरौ ' इत्यादौ विशेष्यताभेदेन प्रकारताभेदस्वीकारे उक्तैकवाक्यता न स्याद् एकवाक्यताया भभावे च समासोपि न स्यादित्याह- अत इति । अत्र च "जल. पृथिव्योः स्नेहगन्धावित्यत्र सप्तम्यर्थो द्वित्वमाधेयत्वं च तथा च जलपृथिवीवृत्तिद्वित्वादिनिष्ठैकप्रकारतानिरूपितं यजलत्वावच्छिन्नपृथिवीत्वावच्छिन्नविशेष्यताद्वयात्मकप्रकारताद्वयं तनिरूपिता या सप्तम्यर्थाधेयत्वनिष्ठविशेष्यतारूपप्रकारता तन्निरूपितं यद्धर्मितावच्छेदकं द्वित्वादिनिटैकप्रकारतानिरूपकं स्नेहत्वावच्छिन्नगन्धत्वावच्छिन्नविशेष्यताद्वयं तद्वान् स्नेहो गन्धश्चेति बोधः, द्वौ स्नेहगन्धौ जलपृथिव्युभयवर्तिनौ इतिबोधाकारः" इतिकृष्णंभट्टाः । निर्नु यदि यत्र विशेष्यताभेदेन प्रकारताभेदो न भवति तत्रोक्तैकवाक्यतायाः सत्त्वेन समासो भवति यथा 'धवखदिरौ' इत्यत्रेतिनियमस्तदा 'चैत्रो मैत्रश्च गच्छतः' इत्यत्रापि चैत्रमैत्रनिष्ठविशेष्यत्वयोर्मेदेपि धातूत्तरद्विवचनार्थद्वित्वनिष्ठा प्रकारतात्वेकैयास्ति न तु भिन्नेति चैत्रनिष्ठविशेष्यतानिरूपितद्वित्वनिष्ठप्रकारतानिरूपितमैत्रनिष्ठविशेष्यतायाः सत्त्वाद् द्वित्वद्वारा चैत्रमैत्रयोः परस्परं प्रयोज्यप्रयोजकभावापन्नविषयताशालित्वेन 'धवखदिरौ । इत्यत्रेव · चैत्रो मैत्रश्च गच्छतः । इत्यत्र कथं न समासः ? समासकारणीभूताया उक्तैकवाक्यतायाः सत्त्वादेवेत्याशक्याह- चैत्रो मैत्रश्चेति, यद्यप्यत्रास्त्येकवाक्यता तथापि समासविधेर्वैकल्पिकत्वादेव नात्र समासः । एकवाक्यतायाः सत्त्वाच्च 'चैत्रमैत्री गच्छतः' इतिसमासोप्येकपक्षे भवत्येवेत्यर्थः । द्वित्वादिप्रकारेणेति- द्वित्वं प्रकारोऽत्रेति बहुव्रीहिसमासेन द्वित्वस्यैव चैत्रमैत्रोभयप्रकारत्वं ज्ञेयम् । ननु यत्र विशेष्यताभेदेपि प्रकारताभेदो न भवति तत्रोक्तैकवाक्यतायाः सत्त्वात्समासो भवत्येवेति नियमस्तादृशनियमपरिरक्षणाय च तत्र='चैत्रो मैत्रश्च गच्छतः' इत्यत्र विशेष्यताभेदेन द्वित्वनिष्ठप्रकारतापि भिन्नैव स्वीकार्या यथा- चैत्रनिष्ठविशेष्यतानिरूपिता द्वित्वनिष्ठा प्रकारता मिन्ना मैत्रनिष्ठविशेष्यतानिरूपिता च द्वित्वनिष्ठा प्रकारता भिन्नेति प्रकारताया अभेदो नास्त्येव "Aho Shrutgyanam" Page #169 -------------------------------------------------------------------------- ________________ संख्याऽनुयोगिविचारः ] व्युत्पत्तिवादः । (१५७) आख्यातोपस्थापित द्वित्वादिकं चोभयादिरूपान्वयितावच्छेदकावच्छिन्ने एवान्वेतीति व्युत्पत्तिः, तेनोक्तमयोगदर्शनात् क्रियापदस्य विशेष्यवाचकपदसमानवचनकत्वाऽनियमपि घटद्वयादितात्पर्येण 'घटस्तिष्ठतः '. इत्यादयो न प्रयोगाः । एकवचनान्तं क्रियापदं च तादृशविशेष्यवाचकपदप्रयोगे एव साधुअतः 'घटास्तिष्ठति ' इत्यादयो न प्रयोगाः। अथैकघटादिव्यक्तरेतद्देशवृत्तितादशायाम् अत्र घटौ स्तः घटाः सन्तिः। येनात्रोक्तैकवाक्यता प्राप्नुयात् तया च समासः प्राप्नुयादित्याशझ्याह- तत्रेति । प्रतियोगी संबन्धी ( तद्वान् ) तद्विषयक इतियावत्, ‘प्रतियोगी नाम निरूपकः । इत्यपि केचित्,' चैत्रो मैत्रश्च गच्छतः' इत्यत्र विशेष्यताभेदेन भिन्ना या द्वित्वनिष्ठा प्रकारता तादृशप्रकारताद्वयविषयक: समूहालम्बनात्मक एव बोधो जायते इत्यर्थः । परिहरति- तथासतीति, तथासति विशेष्यताभेदेन द्वित्वनिष्ठप्रकारताया भेदे सति, उक्तयुक्त्या= अथोद्देश्यतावच्छेदकव्याप्यपर्याप्तेः (१५० पृ.) इत्युक्तयुक्ता । यद्यत्र विशेष्यताभेदेन द्वित्वनिष्ठा प्रकारतापि भिन्ना स्यात्तदा चैत्रमैत्रोभयविशेषणतर्यक द्वित्वं न प्रतीयेत किं तु चैत्रविशेषगतया पृथग् द्वित्वं प्रतीयेत मैत्रविशेषेणतया च पृथग द्विस्वं प्रतीयेत तथा च चैत्रद्वयमैत्रद्वयतात्पर्येणैव ' चैत्रो मैत्रश्च गच्छतः । इति प्रयोगः स्याद् एकैकचैत्रमैत्रतात्पर्येण च तथा प्रयोगो न स्यात् तत्तु नेष्टमित्यर्थः । तथाप्रयोगानुपपत्तेः'चैत्रो मैत्रश्च गच्छतः । इतिप्रयोगानुपपत्तेः । आख्यातेति- 'चत्रो मैत्रश्च गच्छतः ' इत्यादावाऽऽख्यातद्विवचनोपस्थितं द्वित्वं चैत्रनमैत्रत्वरूपं यदुभयं तदन्वयितावच्छेदकम् धर्मितावच्छेदकं यदुभयत्वं चपदोपस्थाप्यं साहित्यं वा तद्वच्छिन्ने चैत्रमैत्रद्वये एवान्वेतीति नियमः । “ तेन " इत्यस्य " धटस्तिष्ठत; इत्याल्यो न प्रयोगाः " इत्यनेनान्वयः । उक्तप्रयोगदर्शनात्- चैत्रो मैत्रश्च गच्छतः । इतिप्रयोगदर्शनात् । अत्र च विशेष्यवाचकचैत्रमैत्रपदयोरेकवचनान्तत्वेपि क्रियापदस्य द्विवचनान्तत्वेन क्रियापदस्य विशेष्यवाचकपदसमानवचनकत्वाऽनियमेपि घटद्वयतात्पर्येण 'घटस्तिष्ठतः' इत्यादयो न प्रयोगा भवन्ति, ' तिष्ठतः ' इत्याख्यातोपस्थाप्यद्वित्वस्य घटद्वये एवान्चयसंभवात् ' घटः ' इत्येकवचनान्तघटपदस्य घटद्वयानुपस्थापकवादित्यर्थः । एकवचनान्तक्रियापदम् तिष्ठति । इत्यादिक च तादृश-एकवचनान्तविशेष्यवाचकघटादिपदस्य प्रयोगे एव साधु भवतीति 'धटास्तिष्ठति' इत्यादयोपि न प्रयोगा भवन्ति । आख्यातोपस्थापितैकत्वस्यकव्यक्तावेवान्वयसंभवात् । नन्वेतदेशे घटद्वयसत्त्वे 'अत्र घटौ स्तः' इति प्रयोगो भवति तत्कस्य हेतोः घटत्वव्याप्य, पर्याप्तिसंबन्धेन घटद्वये द्वित्वस्यापि सत्त्वात् क्रियापदबोध्यस्यैतद्देशवृत्तित्वाश्रयत्वस्यापि सत्त्वाद् एतद्देशवृत्तित्वं घटेस्तीति तदाश्रयत्वमस्त्येव तथा चैतद्देशे एकपटसत्त्वेपि 'अत्र घटौ स्तः अत्र घटाः सन्ति' इत्यादिप्रयोगः स्यादेष वर्तमाने एकस्मिन्नपि घटे स्वरूपसंबन्धेनेतद्देशवृत्तित्वाश्रयत्वस्यापि सत्त्वादेव घटत्वव्याप्यपर्याप्तिसंबन्धेन च द्वित्वस्यापि सत्त्वादेव, देशान्तरस्थे एतदेशस्थे चः घटे "Aho Shrutgyanam" Page #170 -------------------------------------------------------------------------- ________________ सादर्श: ( १५८ ) [ प्रथमाकारके इति कथं न प्रयोगाः ? घटादौ घटत्वादिव्याप्तिविशिष्टपर्याप्ति संबन्धेन द्वित्वादेः -स्वरूपादिसंबन्धेनैतदेशवृत्तित्वाश्रयत्वादेश्व सत्त्वात् । न च द्वित्वेनोपस्थितयोर्द्वयोरेव व्यक्तयोरेवं बहुत्वेनोपस्थितासु बहुषु व्यक्तिषु विधेयान्वयाद् व्यक्तयन्तरेष्वेत देश वृत्तित्वाश्रयत्वादिवाधान तादृशप्रयोग इति वाच्यम्, व्यक्त्यन्तरेऽयोग्यतया तादृशविधेयानवगाहिन एकघटे तदवगाहिनो बोधस्योत्पत्तौ बाधकाभावात् तथातात्पर्येण तथाप्रयोगस्य दुर्वारत्वात् । न च व्यासज्यवृत्तिधर्मो यत्रान्वयितावच्छेदकस्तत्र यावत्स्वन्वयितावच्छेदकस्य पर्याप्तिस्तावतामेव पदार्थान्तरेणान्वय इतिव्युत्पत्तिस्तन्निर्वाहाय च ताहमिलित्वा द्वित्वमस्त्येवेति तादृशोभयगत द्वित्वस्य प्रत्येकमपि घटे बाधाऽभावादित्याशङ्कते - अथेति । एवम् ' अत्र घटाः सन्ति' इतिप्रयोगापत्तिर्बहुत्वसत्त्वेन विज्ञेया । . ननु 'अत्र घटौ स्तः' इत्यत्र द्वित्वेनोपस्थित वटव्यक्तिद्वये एवं विधेयस्य= एतद्देशवृत्तित्वाश्रयत्वस्थान्वयः स्वीक्रियते तथा चात्रैकघटव्यक्तेरेव सत्त्वाद् या खलु द्वितीया घटव्यक्तिर्देशान्तरे वर्तते तस्यामेतद्देशवृत्तित्वाश्रयत्वस्याभावादेव अर्थात् द्वित्वाश्रयीभूतै कव्यक्तावे तदेशवृत्तित्वाश्रयत्वस्य सत्त्वंपि द्विज्वाश्रयीभूतव्यक्तिद्वये एतदेशवृत्तित्वाश्रयत्वस्य बाधादेवैकघटसत्त्वदशायां तादृशप्रयोगः = ' अत्र घटौ स्तः' इति प्रयोगो न भवतीत्याशङ्क्याह-- न चेति । एवं भत्र 'घटाः सन्ति' इत्यादावपि बोध्यम् । द्वित्वेन बहुत्वेनेति तृतीयार्थः प्रकारत्वं द्वित्वप्रकारतया बहुत्वप्रकारतयेत्यर्थः । परिहारहेतुमाहव्यक्त्यन्तरेति, यथा ह्येकस्मिन् घटे नीलत्वाभावेप्यन्यस्मिन् नीलत्वसत्त्वे बाधो न भवति तथा प्रकृतेपि देशान्तरवृत्तिघटे एतद्देशवृत्तित्वाश्रयत्वस्य बाधेप्येतद्देशवृत्तिघटे त्वेतदेशवृत्तित्वाश्रयत्वस्य विधेयस्यान्वये बाधो न संभवतीत्येकघटसत्त्वदशायामपि 'अत्र घटौ स्तः' इति प्रयोगः स्यादेवेन्यर्थः व्यक्त्यन्तरे==देशान्तरवृत्तिघटव्यक्तौ । देशान्तरवृत्तिव्यक्तौ चैतदेशवृत्तित्वाश्रयत्वस्य योग्यता नास्ति विरोधात् । तादृशविधेयानवगाहिनः = एतद्देशवृत्तित्वाश्रयत्वरूपविधेयानवगाहिनोपि, एकघटे = एतदेशवृत्तिघटे, तदवगाहिनः = एतद्देशवृत्तित्वाश्रयत्वरूपविधेयावगाहिनो बोधस्योत्पत्तौ बाधकाभावात् तगत पर्येण = एतदेशवर्तमानैकमात्रघटे एतद्देशवृत्तित्वाश्रयत्वबोधनता सर्वेग तथा प्रयोगम्य = अत्र पटौ स्तः' इत्यादिप्रयोगस्य दुर्वारत्वादित्यन्वयः । मनु यत्र व्यायवृत्तिधर्मो द्विवादिकं धर्मिताषच्छेदकं भवति तत्र यावतीषु व्यक्तिषु तस्म व्यासज्यवृत्तिधर्मितावच्छे : कस्थान्त्रयो भवति तावद्द्व्यक्तिष्वेव पदार्थान्तरस्यान्ययो भवति यथा * नीलो घटौ इत्यत्र धर्मितावच्छेदकस्य व्यासज्यवृत्ति वर्मस्य द्वित्वस्य घटद्वषेऽन्वयो भवतीति पदार्थान्तरस्य नीलस्ये घटये एवान्वयो भवति न त्वेकस्मिन् घटे इति नियम एतादृशनियमनिहाय च तादृशर्माच्छिन्ने = व्यासज्यवृत्तिद्वित्वादिधर्मावच्छिन्ने, इतरान्वयबोधस्य = एतदेशवृत्तत्वाश्रयत्रान्यबो जनकसामन्याः=अत्रेति नप्तम्यन्तसमभिव्याहृद्विवचनान्तव:पद , ज्ञानजन्यपदार्थोपस्थितिवादनयोग्यताज्ञानादिसामप्रया उमयत्व बच्छिनत्र स्वाश्रस्त्वरूपपदार्थान्तरन्ययबुदिश्यमेव जन्यतावच्छेदकं हाय व्यासज्यवृत्ति द्ववादिधर्मावच्छिने घटादिया य विशेष्य नदे शवृद्धि वक्रयम्, अर्थात नेयमानवइतरपदार्थस्य = एतद्देश तत्वाश्रय "Aho Shrutgyanam" Page #171 -------------------------------------------------------------------------- ________________ संख्याऽनुयोगि विचार : ] व्युत्पत्तिवादः । शर्मावच्छिने इतरान्वयबोधजनकसामध्या उभयादिविषयकपदार्थान्तरान्वयबुद्धित्वमेव जन्यतावच्छेदकं वक्तव्यमिति द्वित्वादिनैकघटादिमात्रविषय केतदेशवृत्तित्वाद्यन्वयबोधो न संभवतीति न तादृशबोधतात्पर्येण तादृशप्रयोगापत्तिरिति वाच्यम्, योग्यताभ्रमेण ' आकाशावत्र स्तः ' इत्यादिवाक्याद् द्वित्वादिनैकव्यक्तिमात्रविषयक पदार्थान्तरान्वयबोधात् तादृशव्युत्पत्तेस्तन्निर्वाहककार्यकारणभावस्य च कल्पनाऽसंभवात् । ( १५९ ) " तु वास्तद्विषयको यो बोधस्तज्जनकसामय्या योग्यताज्ञानादिरूपया व्यासज्यवृत्तिद्वित्वादिधर्मावच्छिन्नघटद्वयादावेव पदार्थान्तरान्वयविषयको बोधो जायते इति स्वीकर्तव्यं तथा च व्यासज्यवृत्तिद्वित्वादिधर्मावच्छिन्ने इतरांन्वयबोधजनकसामग्र्या द्वित्वादिनैकघटविषयक एतद्देशवृत्तित्वाश्रयत्वान्वयबोधो न संभवति, अर्थात् एकघटव्यक्तौ उभयवृत्तिद्वित्वस्य सत्त्वेप्येतद्देशवृत्तित्वाश्रयवस्यान्ययो न संभवति - एकघटव्यक्तौ द्वित्वस्य पर्याप्त्यभावाद् द्विपर्याप्तिस्तु घटद्वये एवास्तीति एवैतद्देशवृत्तित्वाश्रयत्वस्थान्वयः अत्र घटौ स्तः ' इत्यत्र संभवतीति न तादृशतात्पर्येण= एतदेशवर्तमानैकमात्रघटे एतद्देशवृत्तित्वाश्रयत्वबोधनतात्पर्येण एतदेशे एकमात्रघट सत्त्वदशायामितियावत् तथाप्रयोगापत्तिः = ' अत्र घटौ स्तः ' इतिप्रयोगापत्तिरित्याशङ्क्याह - न चेति । अत्र च " द्वित्यादिनैकघटादिमात्र विषय कैतं देशवृत्तित्वाद्यन्वयबोधो न संभवतीति- उभयत्वावच्छिन्नघटद्वयविशेष्यकैतदेशवृत्तित्वप्रकारकान्वयबुद्धित्वरूपमुक्तसामग्री कार्यतावच्छेदक मुभयत्वा नोभयविशेष्यकैतदेशवृत्तित्वप्रकारिकायाम् अत्र घटौ स्तः ' इत्याकारकबुद्धावेवास्ति न ' अत्रे घटौ स्तः' इत्याकारकद्वित्व विशिष्ट कघटमात्र विषयकैतदेशवृत्तित्व प्रकार कान्वयबोधेस्त्यत उक्तसामग्रीबलात् कार्यतावच्छेदकानाक्रान्त द्वित्वविशिष्टे कघटमात्र विषय कैतदेशवृत्तित्वप्रकारको बोध पादयितुं न शक्यते इति तादृशंबोधतात्पर्येण द्वित्वं विशिष्टैक घटमात्रविशेष्य के तदेशवृत्तित्वप्रकारकबोधः ' अत्र घटौ स्तः इति वाक्याज्जायतामिति तात्पर्येण न तादृशप्रयोगापत्तिः= अत्र घटौ स्तः' इतिप्रयोगापत्तिः " इति कृष्णंभङ्काः । परिहरति-- योग्यताभ्रमेणेति, आकाशौ द्वौ ' इत्याकारकभ्रमे जाते यदा योग्यताभ्रमेण ' अत्राकाशौ स्तु:' इतिवाक्यमुच्चायेते तदाऽन्वयितावच्छेदकव्यासज्यवृत्तिद्वित्वस्याऽऽकाशपदोत्तरद्विवचनार्थस्य पर्याप्तिस्तु व्यक्तिद्वये एव संभवति नाकाकव्यक्ती. आकाशस्य चैकैव व्यक्तिरिति तत्राका शैकव्यक्तावप्येतदेशवृत्तित्वाश्रयत्वरूपपदार्थान्तरस्यान्वयो भवतीत्युक्तव्युत्पत्तौ व्यभिचारः प्राप्त इति तादृशव्युत्पत्तेः =" व्या"संवृत्तिधर्मो यत्रान्त्रयितावच्छेदकस्तत्र यावत्स्वन्वयितावच्छेदकस्य पर्याप्तिस्तावतामेव पदार्थान्तरेणान्वयः " इतिव्युत्पत्तेः कल्पना न संभवति, तथोक्तव्युत्पत्तिनिर्वाहक कार्य कारणभावस्य =-= व्यासज्यवृत्तिर्मागच्छने इतरपदार्थान्वयबोधजनक सामग्र्या व्यासज्य वृत्ति द्वित्वादिधर्मपर्याप्त्याश्र भूद् (सकल) व्यक्तिष्वेव इतर पदार्थान्वय विषयको धो जायते न त्येकव्यक्ताविति कार्यकारणभावस्यापि कल्पना न सभवति - ' अत्राकाशौ स्तः ? इत्यत्र व्यभिचारात्, अत्र व्यासज्यचिद्वि 7 " Aho Shrutgyanam" Page #172 -------------------------------------------------------------------------- ________________ (१६०) सादर्श: [प्रथमाकारके__ यत्तु द्वित्वाद्यवच्छिन्नोद्देश्यताकबुद्धावुद्देश्यतावच्छेदकव्यापकता नियमतो विधेयसंसर्गे भासते इतिव्युत्पत्तिः, यत्र चौद्देश्यतावच्छेदकविशिष्टाधिकरणाप्रसिद्ध्या तव्यापकत्वमप्रसिद्धं तत्रापि खण्डशः प्रसिद्धानां तत्तद्घटकपदार्थानां विशेष्यविशेषणभावापन्नानां भानसंभवान्न 'पीतशखावत्र ' इत्यादौ तादृश स्वस्यान्वयितावच्छेदकावेपि द्वित्वपर्याप्त्यऽनाश्रयीभूतायामप्याकाशैकव्यक्तावेतद्देशवृत्तित्वाश्रयत्वरूपपदार्थान्तरस्यान्वयादित्यर्थः । तथा च प्रकृतेपि द्वित्वपर्याप्त्यऽनाश्रयीभूतायामप्येकघटव्यक्तावेतद्देशवृत्तित्वाश्रयत्वरूपपदार्थान्तरस्यान्वयसंभवाद् एतदेशे एकघटव्यक्तिदशायामपि ' अत्र घटौ स्तः , ' अत्र घटाः सन्ति ' इति प्रयोगः स्यादेव बाधकाभावादिति भावः । द्वित्वादिनेति तृतीयार्थः प्रकारत्वम् , द्वित्वप्रकारकैकव्यक्तिमात्रविषयक इत्यर्थः ।। एकघढव्यक्तिदशायाम् ' अत्रं घटौ स्तः । इतिप्रयोगस्याप्रामाण्योपपादकं मतान्तरं परिहारायानुवदति- यत्त्विति, यस्मिन् वोधे उद्देश्यता द्वित्वावच्छिन्ना भवति तस्मिन् बोधे नियमेनोद्देश्यतावच्छेदकव्यापकता विधेयसंसर्गे भासते इति नियमः, यथा 'नीलो घटौ ' इत्युक्ते घटस्वसमानाधिकरणद्वित्वव्यापकता विधेयस्य नीलत्वस्य संसर्गे समवाये भासते तथा च ' अत्र घटौ स्त. ' इत्यत्रापि घटत्वसमानाधिकरणद्वित्वव्यापकत्वं विधेयसंसर्गे-एतद्देशवृत्तित्वाश्रयत्वरूपविधेयस्य संसर्गे स्वरूपसंबन्धे भासते ( आश्रयत्वस्य स्वरूपसंबन्धैन वर्तमानत्वात् ) इति यत्र पौतद्देशविद्यमानघटद्वये घटत्वसमानाधिकरणद्वित्वमस्ति तत्रैतद्देश विद्यमानघटद्वये एतद्देशवृत्तित्वाश्रयत्वस्य स्वरूपसंबन्धोपि वर्तते अर्थात् स्वरूपसंबन्धेनैतदेशवृत्तित्वाश्रयत्वमपि वर्तत ए तथाचैकघटादिव्यक्तिमात्राधिकरणपरस्य एतद्देशे एकघटव्यक्तिदशायामेकघटव्यक्तावेतद्देशवृत्तित्वाश्रयत्वबोधनपरस्य ' अत्र घटौ स्तः । इतिवाक्यस्याऽप्रामाण्यं सुघटमेव स्पष्टमेवास्ति, अप्रामाण्ये हेतुमाह- उद्देश्यतावच्छेदकेति, 'अत्र घटौ स्तः ' इति वाक्येनोक्तव्युत्पत्त्या यत्र यत्र घटत्वासमानाधिकरणं द्वित्वं तत्र तत्रैतदेशवृत्तित्वाश्रयत्वस्य संसर्ग इति प्रतिपाद्यते एतदेशे चक एवं घटो न तु वटद्वयं घटत्वसमानाधिकरणद्वित्वं च देशान्तरस्थद्वितीयघटेप्यस्ति तत्रैतदेशवृत्तिलश्रयत्वसंबन्धो नास्त्येवेति विधेयसंसर्गे घटत्वसमानाधिकरणद्वित्वव्यापकताया बाधेन बाधितार्थप्रतिपादकत्वाद् एतद्देशे एकघटव्यक्तिदशायाम् ' अत्र घटौ स्तः । इतिवाक्यस्य प्रामाण्यापत्तिर्नास्त्ये. चेत्यथः । ननु 'अत्र पीतराखौ स्तः' इत्यादौ द्वित्वसमानाधिकरणं पीतशङ्खस्वमुद्देश्यतावच्छेदकमेव प्रसिद्धं नास्ति येनैतद्देशवृत्तित्वाश्रयत्वादिविधेयसंसर्गे तद्व्यापकता स्यादिति व्यमिचारानैषा व्युत्पत्तिः स्वीकतुं शक्यते येनैकघटव्यक्तिदशायाम् ' अत्र घटौ स्तः । इतिवाक्यस्याऽप्रामाण्यमुक्तरीत्या सुघर्ट स्यादित्याशयोक्तम्- यत्र चेति, उद्देश्यतावच्छेदकं यद्वित्वसमानाधिकरणपीतशङ्खत्वं तद्विशिष्टस्याधिकरणभूतस्य पीतशङ्खस्याऽप्रसिद्धत्वेनोद्देश्यतावच्छेदकस्याप्यप्रसिद्धया तद्व्यापकत्वम्-उद्देश्यतावच्छेदकव्यापकत्वमप्रसिद्धं यत्र तत्रापि तदूघटकपदार्थानाम् व्यापकताघटकपदार्थानां पीतत्वशङ्खत्वादीनां खण्डशः प्रसिद्धानाम्-यथा पीतत्वं पटादौ "Aho Shrutgyanam" Page #173 -------------------------------------------------------------------------- ________________ पदार्थान्तरान्वयविचारः] व्युत्पत्तिवादः । (१६१) व्युत्पत्तिभङ्गः, एवं चैकघटादिव्यक्तिमात्राधिकरणपरस्य 'अत्र घटौ स्तः'इत्यादिवाक्यस्याप्रामाण्यं सुघटमेव-उद्देश्यतावच्छेदकीभूतघटमात्रवृत्तिद्वित्वव्यापकतावास्तादृशवाक्यप्रतिपाद्याया विधेयसंसर्गे बाधादिति । ___ तदपि तुच्छम्- 'अत्र घटौ स्तः' इत्यादौ द्वित्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकत्वस्य द्वित्ववद्घटनिष्ठाभावप्रतियोगितानवच्छेदकवस्वस्य च तदधिकरणावृत्तिघटादिनिष्ठाभावप्रतियोगितावच्छेदकीभूते तत्तद्विधेयसंसर्गे बाधाद् घटदयाधिकरणपरतादृशवाक्यस्याप्यप्रामाण्यापत्तेः । तत्तद्वित्वपसिद्धं शङ्खत्वं शुक्लशखे प्रसिद्धमिति तेषाम् 'पीतशखौ ' इत्यत्रापि विशेष्यविशेषणमावेन मानसंभवात् न 'पीतशङ्खावत्र स्तः ' इत्यत्रोक्तव्युत्पत्तेर्व्यभिचारस्तथा च ' अत्र पीतशखौ स्तः । इत्यत्रापि शङ्खद्वयसत्त्वे विधेयसंसर्गे उद्देश्यतावच्छेदकव्यापकता भासते एव । ज्ञानमिदं भ्रमात्मकमित्यन्यदेतत् किं वात्र व्यापकताभानमपि भ्रमात्मकमेवास्तु. उक्तव्युत्पत्तेः भ्रमप्रमासाचारणत्वादित्यर्थः। - परिहरति- तदपीति, एवं ह्येतद्देशे घटद्वयसत्त्वेपि घटद्वयाधिकरणपरतादृशवाक्यस्य= अत्र घटी स्तः । इतिवाक्यस्य यदिष्टं प्रामाण्यं तन्न स्यादित्यन्वयः । तथा हि- व्यापकत्वं द्विविधं भवति भेदटितमऽत्यन्ताभावघटितं च, तत्र भेदघटितं हि तत्समानाधिकरणान्योन्सधानातियोगितानवच्छेदकत्वं व्यापकत्वं ज्ञेयं यथा- धूमसमानाधिकरणो यो जलादिमान्नेत्याकारकोऽन्योन्यामावस्तत्प्रतियोगी जलादिमान् प्रतियोगितावच्छेदकत्वं जलादी प्राप्तं न तु वही धूमाधिकरणे वह्निमान्नेतिभेदस्याऽसंभवाद् धूमाधिकरणस्य वह्निमत्त्वादेव तथा च वह्नौ धूमसमानाधिकरणभेदप्रतियोगितानवच्छेदकत्वरूपं व्यापकत्वं प्राप्तम् , अत्यन्ताभावघटितं च व्यापकत्वम्- तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकवत्त्वं ज्ञेयं यथा- धूमसमानाधिकरणो यः पर्वते जलं नेत्यन्ताभावस्तत्प्रतियोगि जलं प्रतियोगितावच्छेदकं यजलत्वं तद्वत्त्वं जले प्राप्तं वह्नित्वं च तादृशाभावप्रतियोगितानवच्छेदकमेव तद्वत्त्वं वह्नौ प्राप्तमिति वहिधूमव्यापकः । प्रकृते च ' अत्र घटौ स्तः । इत्यत्र विधेयसंसर्गे- एतद्देशवृत्तित्वाश्रयत्वस्य विधेयस्य संसर्गे स्वरूपसंबन्धे उद्देश्यतावच्छेदकव्यापकत्वम्-घटत्वसमानाधिकरणद्वित्वव्यापकत्वं त्वदुक्तव्युत्पत्त्याऽपेक्षितमस्ति तन्न संभवति. तथा हि तदधिकरणावृत्तिघटायन्तरनिष्ठाभावप्रतियोगितावच्छेदकीभूते इति- एतदधिकरणावृत्ति यद् घटद्वयं तस्मिन् एतद्देशवृत्तित्वाश्रयत्वसंसर्गवन्नेति भेदो वर्तते एव तादृशान्योन्याभावप्रतियोगी ह्येतद्देशवृत्तित्वाश्रयत्वसंसर्गवदेव तादृशान्योन्याभाषप्रतियोगितावच्छेदकं चैतदेशवृत्तित्वाश्रयत्वसंसर्ग एवेति तदधिकरणावृत्तिघटाद्यन्तरनिष्ठाभाव ( भेद ) प्रतियोगितावच्छेदकीभूते तत्तद्विधेयसंसर्गे भेदघटितं यद् द्वित्वसमानाधिकरणाभाव ( भेद ) प्रतियोगितानवच्छेद-. कत्वं व्यापकत्वं तदपि नास्ति यतः- एतद्देशावृत्तिघटद्वयेपि द्वित्वं तु वर्तते एतद्देशवृत्तित्वाश्रयत्व. ससर्गवत्त्वं तु न वर्तते इत्येतदेशावृत्तिघटद्वये य एतद्देशवृत्तित्वाश्रयत्वसंसर्गवन्नेतिभेदस्तादृशभेदप्र. "Aho Shrutgyanam" Page #174 -------------------------------------------------------------------------- ________________ ( १६२ ) सादर्श: [ प्रथमाकारके - समानाधिकरणाभावप्रतियोगितानवच्छेदकत्वस्य ततद्विधेयसंसगांशे भानोपगमस्तु न संभवति तत्तद्वित्वत्वेनानुपस्थितेः । न च तदवच्छिन्नस्य संसर्गतथा भाने तेन रूपेणोपस्थितेनऽपेक्षेति वाच्यम्, तत्संसर्गावच्छिन्नतत्प्रकारतानिरूपिततत्तद्विशेष्यताशालिशाब्दबोध परमित्याकार तियोगितावच्छेदकत्वमेवोक्तरीत्या विधेयस्यैतदेशवृत्तित्वाश्रयत्वस्य संसर्गे प्राप्तं न तूक्तं व्यापकत्वरूपं तादृशसंसर्गवन्नेतिभेदप्रतियोगितानवच्छेदकत्वम् । एवमत्यन्ताभावघटितं यद् द्वित्ववद्घट निष्ठाभावप्रतियोगिता नवच्छेदकवत्त्वं व्यापकत्वं तदपि नास्ति यतः - एतदेशावृत्तिघटद्वये द्वित्वं तु वर्तते एतदेशवृत्तित्वाश्रयत्वसंसर्गस्तु न वर्तत इत्येतदेशावृत्तिघटद्वये य एतद्देशवृत्तित्वाश्रयत्वसंसस्याभावस्तादृशाभावप्रतियोगितावच्छेदकं यत् तादृशसंसर्गत्वं तद्वत्त्वमेव तादृशे विधेयसंसर्गे प्राप्तं नक्तं व्यापकत्वरूपं द्वित्ववद्यटनिष्ठामात्र प्रतियोगितानवच्छेदकवत्त्वमिति विधेयसंसर्गे उक्तस्य द्विविधस्यापि व्यापकत्वस्य बाधाद् बाधितार्थबोधकत्वाद् घटद्वयाधिकरणपरस्य घटद्वयाधिकरबोधकस्यापि ( घटद्वयसत्तादशायामपि ) तादृशवाक्यस्य = ' अत्र घटौ स्तः ' इतिवाक्यस्याSप्रामाण्यं स्यादित्यर्थः । ननु न घटत्वसमानाधिकरणद्विखमात्र ( यावद्वित्व ) व्यापकत्वं विधेयसंसर्गे उच्यते येनैतद्देशावृत्तिघटद्वये द्विश्वसत्त्वेप्येतद्देशवृत्तित्वाश्रयत्वसंसर्गस्याऽसत्त्वेनाऽव्यापकत्वं स्यात् किं तु तत्तद्विखसमानाधिकरणाभाव ( भेद ) प्रतियोगितानवच्छेदकत्वरूपं तत्तद्वित्वव्यापकत्वमुच्यते. अस्ति चेतदेशवृत्तिघटयनिष्ठतद्वित्वव्यापकत्वं विधेयसंसर्गे द्वित्ववत्येतद्देशवृतिघटद्वये एतद्देशवृत्तित्वाश्रयत्वसंसर्गस्य स्वरूपसंबन्धस्य सत्त्वात् तथा च घटद्वयसत्तादशायाम् अत्र घटौ स्तः ' इतिवाक्यस्य नाऽप्रामाण्यापत्तिरित्याशङ्क्याह- तत्सद् द्वित्वेति । न संभवतीन्यत्र हेतुमाह - तत्तद्वित्वत्वेनेति, ' अत्र घटौ स्तः ' इत्यादौ द्विवचनेन द्वित्वस्य सामान्यतो द्वित्वत्वेनैव रूपेणोपस्थितिर्भवति न तु तद्द्द्वित्वत्वेन रूपेण येन स्वदीयेनाऽनेन निवेशेनोक्तम् अत्र घटौ स्तः ' इत्यस्याप्रामाण्यं परिहृतं स्यादित्यर्थः । कृष्णभट्टमहाशयानामभिप्रायस्तु तेषामैन टीकायां द्रष्टव्यः । 6 मनु संसर्गस्य संसर्गघटकपदार्थानां चोपस्थितेरपेक्षा न भवति अत्र च विधेषसंसर्गे एव ब्यापकत्वभानमुक्तं विधेयसंसर्गश्चात्र तदुद्वित्वव्यापकीभूतै तदेशवृत्तित्वाश्रयत्वसंसर्गः ( स्वरूपसंबन्धः ) एवेति तदवच्छिन्नस्य=तद्वित्वत्वावच्छिन्नस्य तदुद्वित्वस्य संसर्गतया=संसर्गघटकतया माने स्वीकृते तेन रूपेण तद्वित्वत्वेन रूपेणोपस्थितेरपेक्षत्र नास्ति येन तद्वित्वत्वेन रूपेणोपस्थिन्यभावाद् विधेयसंसर्गस्य तद्वित्वव्यापकत्वेन भानं न स्यादित्याशङ्क्याह-- न चेति । परिहारमाहतसंसर्गेति, तत्संसर्गावच्छिन्ना = तद्वित्वव्यापकैतद्देशवृत्तित्वाश्रयत्वस्य स्त्ररूप संसर्गेणावच्छिन्ना या नरप्रकारता = एतद्देशवृत्तित्वाश्रयत्वनिष्ठा प्रकारता तन्निरूपिता या तत्तद्विशेष्यता = घटादिनिष्ठ विशेष्यता तच्छालिशाब्दबोधपरम् ' अत्र घटौ स्तः ' इति वाक्यमित्या कारकतात्पर्यज्ञाने उक्त , "Aho Shrutgyanam" Page #175 -------------------------------------------------------------------------- ________________ पदार्थान्तरान्वयविचारः] व्युत्पत्तिवादः । (१६३) कतात्पर्यज्ञाने संसर्गस्य विशेषणतया तद्भाननिर्वाहाय संसर्गघटकोपस्थितेरपि शाब्दबोधात् प्रागावश्यकत्वात् । प्रकृतसंसर्गेणैकपदार्थविशिष्टापरपदार्थबोधपरत्वज्ञानस्य प्रकृतवाक्यार्थविषयकतया प्रागसंभवेनोपदर्शिततात्पर्यज्ञानस्यैव शाब्दधीहेतुत्वोपगमात् . एवं वाक्यार्थघटकसंसर्गस्थाननुगमे 'घटौ स्तः ' इत्यादौ वाक्यभेदप्रसङ्गाच्च । संसर्गो विशेषणत्वेनैव भासते प्रकारतावच्छेदकत्वादिति तद्भाननिर्वाहाय=उक्तसंसर्गमानस्य निर्वाहार्थ संसर्गघटकोपस्थितेः संसर्गघटकस्य तद्वित्वादेरप्युपस्थिते: शाब्दबोधात् पूर्वमावश्यकत्वात् ( उपस्थितिं विना विशेषणीभूतसंसर्गघटकतद्वित्वादेर्भानासंभवात् ) 'अत्र घटौ स्तः' इत्यत्र च द्विवचनेन द्वित्वस्य तद्वित्वत्वेनोपस्थितेरभावाद् न तद्वित्वव्यापकत्वस्यैतद्देशवृत्तित्वाश्रयत्वसंसग मानं संभवति किं तु द्वित्वत्वेनोपस्थितद्वित्वव्यापकत्वस्यैव. द्वित्वव्यापकत्वं तु विधेयसंसर्गे नास्त्ये. वेति प्रतिपादितमेवेति घटद्वयदशायामपि “अत्र घटौ स्तः' इतिवाक्यस्याप्रामाण्यं तदवस्थमेवेस्पर्थः । ननु यद्युक्ततात्पर्यज्ञानस्यात्र शाब्दबोधकारणत्वं स्यात्तदोक्ततात्पर्यज्ञाने उक्तसंसर्गस्य प्रकारतावच्छेदकतया विशेषणत्वेन तस्य तद्घटकतद्वित्वादिपदार्थानां च भाननिर्वाहायोपस्थितेरपेक्षा स्यात् तथा च द्वित्वस्य तद्वित्वत्वेन रूपेणोपस्थिस्यभावात् तद्वित्वव्यापकत्वभानं विधेयसंसर्गे न स्यादपि न चैवमस्ति- उक्ततात्पर्यज्ञानस्य कारणत्वास्वीकारात् किं तु प्रकृतिसता तद्वित्वव्यापकैतद्देशवृत्तित्वाश्रयत्वीयस्वरूपसंसर्गेण एकपदार्थविशिष्टः एतद्देशवृत्तित्वविशिष्टो योऽपरपदार्थः बटादिस्तबोधनपरम् 'अत्र घटौ स्तः । इति वाक्यमित्याकारकतात्पर्यज्ञानस्यैकात्र शाब्दबोधकारणत्वं स्वीक्रियते अस्मिंश्च तात्पर्यज्ञाने नोक्तसंसर्गस्थ किंचिदवच्छेदकतया प्रवेशो येनावच्छेदकत्वेन विशेषणत्वप्रात्या तस्य तद्धटकतद्वित्वादेश्च मानार्थमुपस्थितेरपेक्षा स्यात्, तथा चोक्तसंसर्गघटकतद्वित्वस्य तद्वित्वत्येनोपस्थित्यभावेपि तद्व्यापकत्वस्य भाने न काप्यनुपपत्तिः ( शेषं पूर्ववत् इत्याशङ्कयाह- प्रकृतेति, प्रकृतसंसर्गेणेत्याधुक्ततात्पर्यज्ञानं हि प्रकृतवाक्यार्थविषयकमेव= 'अत्र घटौः स्तः । इति वाक्यार्थबोधस्वरूपमेवेत्यस्य तात्पर्यज्ञानस्य शाब्दबोधात् प्रागऽसंभवेन कारणत्वं न संभवतीत्युपदर्शितं यत् तत्संसर्गावच्छिन्नतत्प्रकारतानिरूपिततत्तद्विशेष्यताशालिशाब्दबोधपरमेतद्वाक्यमित्याकारकं तात्पर्यज्ञानं तस्यैवात्र शाब्दबोधकारणत्वं स्वीकार्य तत्र चोक्तसंसर्गस्य प्रकारतावच्छेदकतया विशेषणत्वेन तस्य तद्घटकतद्वित्वादीनां च भानायोपस्थितेरावश्यकत्वात् तद्वित्वत्वेन तद्वित्वस्योपस्थितेरभावाच्च न विधेयसंसर्गे तद्वित्वव्यापकत्वभानं संभवति. उपस्थितिश्च द्वित्वत्वेन द्वित्वसामान्यस्यास्ति द्वित्वमात्रव्यापकत्वं च विधेयसंसर्गे नास्त्येवेति प्रदर्शितमेवेति घटद्वयदशायामपि ' अत्र घटौ स्तः । इत्यस्याप्रामाण्यं तदवस्थमेवेत्यर्थः । तद्वित्वस्य संसर्गघटकत्वे दोषान्तरमप्याह-एवमिति, संसर्गमेदे वाक्यभेदनियमो स्ति. अत्र च तद्वित्वं संसर्गघटकम्, द्वित्वं चापेक्षाबुद्धिजन्यमपेक्षाबुद्धिनाशनाश्यं च बुद्धिश्च तृतीयक्षणे नश्यत्येवेति तथा सह तत्तद्वित्वानामपि नाशेन तद्घटित. "Aho Shrutgyanam" Page #176 -------------------------------------------------------------------------- ________________ ( १६४ ) सादर्श: [ प्रथमाकारके अत्रोच्यते - व्यासज्यवृत्तिधर्मावच्छिन्नोद्देश्यताकशाब्दबुद्धौ स्वव्याप्यतादृशधर्मवस्वमपि विधेयसंसर्गतया भासते इति व्युत्पत्तिः । व्याप्यत्वं च तद्वदन्यावृतित्वं व्यतिरकिविधेयस्थले । तादृशधर्मवत्त्वं । चोद्देश्यतावच्छेदकताघटकसंबन्धेन बोध्यम् । संसर्गस्यापि नाशे प्राप्ते भिन्नभिन्नसंसर्गाणां च संसर्गत्वे प्राप्ते संसर्गभेदाद्वाक्यभेदप्रसङ्ग इत्यर्थः । वाक्यार्थज्ञानभेदे व वाक्यभेद इत्युच्यते वाक्यार्थज्ञानं च संसर्गज्ञानमेव संसर्गज्ञानं चात्र संसर्गघटकतत्तद्वित्वानां मेदेन संसर्गभेदात् प्रतितृतीयक्षणं भिन्नं भिन्नं स्यादेवेति भावः । अत्र - वाक्यार्थघटकसंसर्गस्याननुगमे ' अत्र घटौ स्तः इत्यादी वाक्यभेदप्रसङ्गाचेति- एतद्देशवृत्तित्वं प्रकारो द्वौ घटौ विशेष्यौ तत्तद्वित्वव्यापकेत देशवृत्तित्वीय स्वरूपमेतद्देशवृत्तित्व संबन्धस्तत्र तसद्वित्वं तत्तदपेक्षा बुद्धिजन्यमपेक्षा बुद्धिनाशनाश्यं चेति, नानाविधसंसर्गभेद एव वाक्यभेदनियामकः, संसर्गज्ञानं वाक्यार्थज्ञानं शाब्दबोध इत्येते पर्यायशब्दाः " इति कृष्णभट्टाः । द्वित्वसामान्यस्य संसर्गघटकत्वे तु तस्य द्वित्वत्वेन रूपेणानुगमसंभवात् तद्द्घटितसंसर्गस्याप्यनुगमः संभवत्येव । तत्तद्वित्वव्यक्तीनां त्वनुगमो नैव संभवतीत्यर्थः । L < अथेत्यादिना (पृ. १५७ ) आशङ्कितस्योत्तरमारभते - अत्रोच्यते इत्यादिना । व्यासज्य - वृत्तिद्वित्वादिनाऽवच्छिन्ना उद्देश्यता यस्थामेतादृशशाब्दबुद्धी, यथा- अत्र घटौ स्तः इत्यत्र घटनिष्ठोद्देश्यता व्यासज्यवृत्तिद्वित्वेनावच्छिन्नास्तीत्येतादृशवाक्यजन्यशाब्दबोधे, स्वव्याप्येत्यत्र स्वम्=विधेयम्, तथा चैतद्देशवृत्तित्वाश्रयत्वलक्षण विधेयव्याप्यो यस्तादृशधर्मः = व्यासज्यवृत्तिधर्मो द्वित्वं तद्वत्त्वमपि विधेयस्य ( एतद्देशवृत्तित्वाश्रयत्वरूपविधेयस्य ) संसर्गतया भासते इति व्युत्पत्तिः, व्याप्यत्वं चात्र व्यतिरेकि विधेयस्थले ( अत्यन्ताभावप्रतियोगिविधेयकस्थले ) तद्वदन्यावृत्तित्वरूपं बोध्यम्, तादृशधर्मवत्त्वम् = विधेयव्याप्यव्यासज्यवृत्तिद्वित्वादिधर्मवत्त्वं चोद्देश्यतावच्छेदकताघटकसंबन्धेन = उद्देश्यतावच्छेदकघटत्वादिव्याप्यपर्याप्तिसंबन्धेन बोध्यम्, तथा च अत्र घटौ स्तः' इत्यत्रैतद्देशवृत्तित्वाश्रयत्वरूपविधेयस्य यथा स्वरूपसंबन्धेनान्वयो भवति तथा एतद्देशवृत्तित्वाश्रयत्वव्याप्यद्वित्वयत्त्यसंबन्धेनाप्यन्ययो भवतीति प्राप्तम्, संबन्धभूतं द्वित्ववत्त्वमपि उद्देश्यतावच्छेदकघटत्वव्याप्यपर्याप्तिसंबन्धेन बोध्यमित्यर्थः । एतदेशे घटद्वयसत्त्वे तादृशघटद्वये घटत्वव्याप्यपर्याप्तिसंबन्धेन द्वित्ववत्त्वं ( द्वित्वं ) वर्तत एवेति तादृशद्वित्ववत्त्वसंबन्धेन घटद्वये एव विधेयस्यैतद्देशवृत्तित्वाश्रयत्वस्यान्वयः संभवति न त्वेकस्मिन् घटे तत्रोक्तसंबन्धेन संबन्धभूतद्वित्ववत्त्वस्यासंभवादिति घटद्वयसत्ये ' अत्र घटौ स्तः ' इति प्रयोग उपपद्यते । एतद्देशवर्तमानघटद्वयवृत्ति द्वित्वं चात्र विधेयव्याप्यमेव एतद्वित्वस्यैतद्देशवृत्तित्वाश्रयत्वरूपविधेयाभावयति देशान्तरस्थघटेऽसत्त्वाद् विधेयवत्येतद्देशवृत्तिघटद्वये एव सत्त्वाचेति बोध्यम् । एतद्देशे एकघटसत्त्वे च वर्तमानैकघटे उद्देश्यतावच्छेदक घटत्वव्याप्यपर्याप्तिसंबन्धेन विधेयव्याप्यद्वित्ववत्त्वस्याभाबाद् घटत्वव्याप्यपर्याप्तिसंबन्धावच्छिन्नविधेयव्याप्यद्वित्ववत्त्वसंबन्धेनैतद्देशवृत्तित्वाश्रयत्वरूपविधे 26 " "Aho Shrutgyanam" Page #177 -------------------------------------------------------------------------- ________________ . : : पदार्थान्तरान्वयविचारः] व्युत्पत्तिवादः। (१६५) 'अत्र घटौ स्तः' इत्यादावेतद्देशवर्तमानत्वादिरूपविधेयस्य तद्वदन्यावृत्तित्वरूपव्याप्तिमञ्चैतदेशस्यैकघटादिव्यक्तिमात्राधिकरणत्वे घटपटादिनिष्ठदित्वमेव, घटत्वव्याप्यपर्याप्तिरूपोद्देश्यतावच्छेदकताघटकसंबन्धावच्छिन्नतद्वत्वं च घादौ यस्याप्यन्वयो न संभवति- संबन्धाभावे संबन्ध्यन्वयासंभवादित्येकघटसत्त्वे 'भत्र घटौ स्तः । इतिवाक्यस्य प्रामाण्यं नोपपद्यते, यद्यप्येतद्देशस्थघटे देशान्तरस्थघटे च मिलित्वा घटत्वन्याप्यपर्याप्तिसंबन्धेनैकं द्वित्वमस्त्येव तथापि तद् द्वित्वं विधेयव्याप्यं नास्ति-एतद्देशवृत्तित्वाश्रयत्वरूपविधेयाभाववाति देशान्तरस्थघटेपि तस्य सत्त्वादिति न तद् द्वित्वं संबन्धघटकत्वेन ग्राह्यम् । एकघटसत्त्वदशायां तत्र विधेयव्याप्यं द्वित्वं नैवोपलब्धुं शक्यते येन तद्वत्त्वसंबन्धेनैकघटे विधेयान्वयः स्यादिति यावत् । एतदेशे एकघटैकपटसत्त्वेपि ' अत्र घटौ स्तः ' इति प्रयोगो न संभक्तीत्याह- अन्न घटौ स्तः । इत्यादिना । एतद्देशस्यैकघटादिव्यक्तिमात्राधिकरणत्वे एतद्देशे एकघटैकपटसत्त्वे. मात्रपदेन द्वितीयघटव्यक्तिनिरासः, एतद्देशवर्तमानत्वादिरूपविधेयस्य एतद्देशवृत्तित्वाश्रयत्वरूपविधेयस्य, तद्वदन्यावृत्तित्वरूपव्याप्तिमच्च-व्याप्यं च धटपटोभयनिष्ठमेव द्वित्वं न तु घटद्वयनिष्ट द्वित्वं घटद्वयनिष्ठद्वित्वस्यैतद्देशवृत्तित्वाश्रयत्वरूपविधेयाभाववति देशान्तरस्थघटेपि सत्त्वेन विधेयव्याप्यस्त्राभावात् . तथा चैकघटैकपटसत्त्वदशायां बटादौ घटत्वव्याप्यपर्याप्तिरूपोद्देश्यतावच्छेदकताघटकसंबन्धावच्छिन्नतद्वत्त्वम्-घटत्वव्याप्यपर्याप्तिरूपो य उद्देश्यतावच्छेदकताघटकसंबन्धस्तदवच्छिन्नतद्वत्त्वम् अर्थात्- उद्देश्यतावच्छेदकघटत्वव्याप्यपर्याप्तिसंबन्धेन तद्वत्त्वम्-विधेयच्याध्यद्वित्ववत्त्वं बाधितमेव ( विधेयव्याप्यद्वित्वस्यात्र घटत्वपटत्वोभयव्याप्यपर्याप्तिसंबन्धेनैव सवात् ) इति न तादृशवाक्यस्य= अत्र घटौ स्तः । इतिवाक्यस्य प्रामाण्यसित्पन्क्या। अर्थात् ' अत्र घटौ स्तः ' इत्यादि व्यासज्यवृत्तिधर्मावच्छिन्नोद्देश्यताकशाब्दबोधस्थले विधेयव्याप्यव्यासज्यवृत्तिद्वित्ववत्वसंबन्धेन विधेयान्वयो भवतीति स्वीकृतम्, तथा चैतद्देशे एकपटैकपटसत्त्वदशायामेतदेशवृत्तित्वाश्रयत्वरूपविधेयव्याप्यद्वित्ववत्त्वरूपो विधेयसंबन्धो घटपटोमयस्मिनेवास्ति ( इति 'अत्र घटपटौ स्तः । इतिवाक्यस्य प्रामाण्यमुपपद्यते) न त्वेकस्मिन्- घटे. पटेन सहवर्तमानकस्मिन्नेतद्घटे घटपटोभयगतविधेयव्याप्यद्वित्वस्य घटत्वपटत्वोभयव्याप्यपर्यातिसंबन्धेन सत्त्वेपि घटत्वव्याप्यपर्याप्तिसंबन्धेनाऽसत्त्वात्, यच्च द्वित्वम् एतद्देशस्थे देशान्तरस्थे च मिलित्वा घटद्रयेस्ति तस्यैतदेशवृत्तित्वाश्रयत्वरूपविधेयव्याप्यत्वं नास्ति- एतद्देशवृत्तित्वाश्रयत्वरूपविधेयामावति देशान्तरस्थघटेपि सत्त्वात् , ता चात्र पटेन सह वर्तमानेकघटे घटत्वव्यापक पुर्याप्तिसंबन्धेन विधेयव्याप्यद्वित्ववत्त्वस्य संसर्गभूतस्याऽभावात् तादृशसंसर्गेणैतदेशवृत्तित्वाश्रयस्वरूपविधेयस्यान्वयोपि न संभवति ( संबन्धाभावे संबन्ध्यन्वयाभावस्थावश्यंभावात् ) इत्येक टैकपटसत्त्वेपि अत्र घटौ स्तः । इतिप्रयोगस्यापत्ति स्त्येवेत्यर्थः । घटपटोमयसत्त्वे ' र पटौ स्तः । इतिवाक्यस्य प्रामाण्यनिरासाथ तादृशधर्मवत्त्वम् विधेयव्याप्यव्यासज्यवृत्तिद्वित्वा "Aho Shrutgyanam" Page #178 -------------------------------------------------------------------------- ________________ ( १६६ ) सादर्श: [ प्रथमाकारकेबाधितमिति न तादृशवाक्यस्य प्रामाण्यम् । अधिकरणस्य घटद्वयादिमत्त्वे च घटत्वादिव्याप्यं द्वित्वमेव तथेति घटत्वादिव्याप्यपर्याप्तिसंबन्धन तद्वत्वं घटादाasबाधितमिति तादृशवाक्यस्य प्रामाण्यं निर्वहति । haatratefaधेयकस्थले च द्वित्वत्वाद्यवच्छिन्नव्यापकत्वमेव संसर्गघटकम् केवलान्वियिनि तादृशव्यापकताया अक्षतत्वात्, न तु तचद्वित्वत्वावच्छिन्नव्यापकत्वमिति न पूर्वोक्तदोषावकाशः । दिधर्मवत्त्वम् उद्देश्यतावच्छेद कव्याप्यपर्याप्तिसंबन्धेनोक्तं तथा च 'अत्र घटौ स्तः' इत्यत्रोद्देश्यता - वच्छेदकं घटत्वमेव घटत्वव्याप्यपर्याप्तिसंबन्धेन चात्र घंटे विधेयव्याप्यं द्वित्वं नास्तीति विधेयव्याप्य द्वित्ववत्त्व संबन्धेन विधेयान्ययासंभवात् 'अत्र घटौ स्तः' इतिवाक्यस्य प्रामाण्यापत्तिर्नास्त्येव, अन्यथा संबन्धान्तरेणात्र विधेयव्याप्यद्वित्ववत्त्वस्यैकघटेपि संभवात् प्रामाण्यापत्तिः स्यादेवेत्यवधेयम् । यच्च घटद्वयनिष्ठं द्वित्वं घटत्वव्याप्यं तन्न विधेयव्याप्यम् - विधेयाभाववति देशान्तरस्थघटेपि सत्त्वात् यच्च घटपटोमयनिष्ठं द्वित्वं विधेयव्याप्यं तन्न घटत्वव्याप्यं घटत्वाभाववति टेपि सत्त्वादितिसार : एतदेशे घटद्वयसत्त्वे ' ra घटौ स्तः इतिवाक्यस्य प्रामाण्यमुपपादयतिअधिकरणस्येति, पूर्वमेवेदं व्याख्यातम् । तथा= एतदेशवृत्तित्वाश्रयत्वरूप विधेयव्याप्तिमत् ( विधेयव्यावमित्यर्थः ), तदच्चम् विवेयव्याप्यवित्तम्, पटद्वये विधेयव्याप्यद्वित्ववत्त्वं घटत्वव्याप्यपयोप्तिसंबन्धेनास्त्येवेति तादृशद्वित्ववत्त्वसंबन्धेन विधेयान्वयोपपत्त्या ' अत्र घटौ स्तः इतिवाक्यस्य प्रामाण्यमुपपद्यते इति सारः । एवकारो भिन्नक्रम इति 'घटत्वादिव्याप्यमेव द्वित्यं तथा", इत्यन्वयः । - " "Aho Shrutgyanam" ननु 'घटो प्रमेयौ ' इत्यादिकेवलान्वयिविधेयकस्थले विधेयव्याप्यत्वं तद्वदन्यावृत्तित्वं यदुक्तं तन्न संभवति -- केवलान्वयिवदन्यस्याऽप्रसिद्धेरित्याशङ्क्याह- केवलान्वयीति, केवलान्वयिविधेयकस्थले विधेयव्याप्यत्वं संसर्गप्रविष्टं नास्ति किं तु द्वित्वत्वावच्छिन्नव्यापकत्वम् - द्वित्वनिष्टव्याप्यस्वनिरूपितं केवलान्वयिप्रमेयत्वादिरूपविधेयनिष्ठं व्यापकत्वमेव संसर्गघटकं ज्ञेयं केवलान्वयिनि प्रमेयत्वादौ व्यापकत्वं चाक्षतमेवेत्यन्वयः, अर्थात्- ' वटौ प्रमेयौ ' इत्यत्र स्वनिष्ठव्यापकतानि - रूपकोद्देश्यतावच्छेदकाश्रयत्वसंबन्धेन विधेयस्य प्रमेयत्वस्यान्वयो भवतीति स्वीकृतम्, स्वं प्रमे ' यत्वं तन्निष्टव्यापकतानिरूपकं यदुद्देश्यतावच्छेदकं प्रमेयत्वव्याप्यं द्वित्वं तदाश्रयत्वम्= तद्वत्त्वं टद्वये एवास्तीति तादृशद्वित्ववत्त्वसंबन्धेन घटद्वये एवात्र प्रमेयत्वस्यान्वयः संभवतीति ' अत्र बटौ प्रमेयौ ' इतिवाक्यस्य वटद्वयसत्त्वे एव प्रामाण्यमुपपद्यते, संबन्धभूतं व्यापकतानिरूपकद्वित्वयत्त्वं चोद्देश्यतावच्छेदकव्याप्यपर्याप्तिसंबन्धेन बोध्यं तेनैकघटैकपटदशायां यद् व्यापकता निरूपकं घटपटोभयगतं द्वित्वं तत्तूद्देश्यतावच्छेदकघटत्वव्याप्यपर्याप्तिसंबन्धेन नास्ति तस्य घटत्वपटनोभयव्याप्यपर्याप्तिसंबन्धेन वर्तमानत्वात् यच्च एतदेशस्थे देशान्तरस्थे च घटद्वये मिलित्वा बटत्वव्याप्यपर्याप्तिसंबन्धेन द्वित्वमस्ति तत्तक्तव्यापकताया निरूपकमेव नास्ति - अत्र प्रमेयत्व - Page #179 -------------------------------------------------------------------------- ________________ पदार्थान्तरान्वयविचारः ] व्युत्पत्तिवादः । ( १६७ ) 'घटावानयति चैत्रः' इत्यादौ चैत्रकर्तृकानयन कर्मत्वादिव्याप्य द्वित्वादिमनिष्ठनिरूपकता का वेयत्वादिसंबन्धेन कर्मत्वादौ घटादेरन्वयो व्युत्पन्नस्तेन चैत्रादावेकादिव्यक्तिमात्राऽऽनयनकर्तृत्वेन तादृशप्रयोगः । द्वित्वादिमत्त्वं च प्रकारतावच्छेदकीभूतघटत्वादिव्याप्यपर्याप्तिसंबन्धेन बोध्यं तेन चैत्रस्य पटादिसहितकघटादिव्यक्तयानयन कर्तृत्वेपि न तादृशप्रयोगः । एवमन्यत्राप्यूहनीयम् । निष्टव्यापकताया एतदेशवृत्तिपदार्थद्वयवृत्तिद्वित्वनिरूपितत्वादिति न देशान्तरस्थघटव्यासक्तद्वित्ववत्संबन्धे विधेयान्वयः संभवतीत्येक घटसत्त्वदशायाम् ' अत्र घटौ प्रमेयौ ' इतिवाक्यस्य प्रामाण्यापत्तिर्नास्त्येवेत्यर्थः । नन्वत्र द्वित्वपदेन तत्तद्वित्वव्यक्तीनां ग्रहणे " एत्रम् १६३ पृ. " इत्यादिनोक्तोवाक्यभेदप्रसङ्गः स्यादित्याशङ्क्याह- न व्विति द्विश्वपदेन सामान्यतो द्वित्वत्वावच्छिन्नस्यैव ग्रहणात् तत्तद्वित्वव्यक्तीनां चाऽग्रहणात् पूर्वोक्तस्य ( १६३ ) वाक्यभेदप्रसङ्ग - रूपदोषस्य प्रसक्तिर्नास्तीत्यर्थः । # घटावानयतीति- 'घटावानयति चैत्रः' इत्यत्र चैत्रकर्तृकानयनकर्मत्वमेव विधेयं विशेष्यं च तच्चानयनकर्मत्वं घटाधेयमस्तीति तत्राधेयत्वं वर्तते तथा चात्र चैत्रकर्तृकानयनकर्मत्वव्याप्यं यद्वित्वं तादृशद्वित्ववन्निष्ठनिरूपकता काधेयत्वसंबन्धेन = तादृशद्वित्ववद् यद् घटद्वयं तन्निष्ठा याऽऽधारता तन्निरूपिता या कर्मत्वनिष्ठाऽधेयता तादृशाधेयतारूपसंबन्धेन चैत्रकर्तृकानयनकर्मतायां घटादेरन्वयो व्युत्पन्न इति चैत्रकर्तृकैकघटानयनदशायाम् ' घडावानयति चैत्र: ' इतिवाक्यस्य प्रामाण्यप्रसङ्गो मास्ति-तादृशैऋघटे संबन्धघटकस्य चैत्रकर्तृकानयनकर्मत्वव्याप्यद्वित्वस्याभावात् एकघटकर्मका• नयनकर्मता निष्ठाधेयतायां विवक्षितस्यानयनकर्मत्वव्याप्यद्वित्ववन्निष्ठाधारतानिरूपितत्वस्याभावाच कर्मतायां संबन्धभूतस्यानयनकर्मत्वव्याप्यद्वित्ववन्निष्ठाभारतानिरूपिताधेयत्वस्याभावान्न तेन संबन्धेन घटान्वयः संभवति, यचैतदेशस्ये देशान्तरस्थे च घटद्वये मिलित्वा द्वित्वमस्ति तत्त्वाऽऽनयaahraanteमेव नास्ति - आनयनकर्मत्वाभाववति देशान्तरस्थघटेपि सत्त्वात् । घटद्वयानयनदशायां तु घटयनिष्ठं द्वित्वमाऽऽनयनकर्मत्वव्याप्यमस्ति तादृशद्वित्ववद् यद् घटद्वयं तन्निष्ठाधारता - निरूपिताधेयता चानयनकर्मतायां वर्तते इति तादृशाधेयतासंबन्धेन कर्मतायां घटद्वयस्थान्वयः संभवतीति' घटावानयति ' इति प्रयोगस्य प्रामाण्यमुपपद्यते इत्यर्थः । तादृशप्रयोगः = ' घटावानयति ' इति प्रयोगः, भवतीति शेषः । किं चात्र द्वित्ववत्त्वं प्रकारतावच्छेदको भूतघटत्वव्याप्यपर्याप्तिसंबन्धेन बोध्यं तथा च घटावानयति ' इत्यत्र प्रकारतावच्छेदकं घटत्वमेवेति घटद्वयानयनदशायामेव घटत्वव्याप्यपर्याप्तिसंबन्धेन द्वित्ववत्त्वोपपत्त्या घटावानयति इति प्रयोग उपपद्यते, एकटे कपटानयनदशायां प्रकारतावच्छेदकं घटत्वपटत्वोभयमेव न केवलघटत्वमिति टवव्याप्यपर्याप्तिसंबन्धेन द्वित्ववत्त्वाभावान्न' घटावानयति इति प्रयोगस्य प्रामाण्यापत्तिः किं तु 'घटपटावानयति ' इति प्रयोगस्यैव प्रामाण्यं स्यादित्याह - द्वित्वादिमत्त्वं चेति । अत्र कर्मतायां घटस्याऽन्वयाद् घटः प्रकारो घटत्वं प्रकारतावच्छेदकम् । अत्र- एवमन्यत्रापि= . "Aho Shrutgyanam" ८८ Page #180 -------------------------------------------------------------------------- ________________ ( १६८ सादर्श: [ प्रथमाकारकेयत्रानेकवृत्तिधर्मो द्वित्वान्वयितावच्छेदकतया भासते तत्रोभयादिनैव समं पदार्थान्तरस्यान्वयः । यत्रैकमात्रवृत्तिस्तथा तत्रैकेनापि, व्युत्पत्तिभेदावलम्बनात कार्यकारणभाववैचित्र्याच्च सर्व समनसमित्यपि वदन्ति । अथ घटादिव्यक्तिभेदेनाऽऽनयनकर्मता भिन्नति प्रतिसंदधानस्य पुंसः 'घटावानयात' इतिवाक्याच्छाब्दबोधानुपपत्ति:- तस्य कर्मतात्त्वावच्छेदेनाऽऽधेयता'घटानाऽऽनयति । इति बहुवचनान्तप्रयोगेपि चैत्रकर्मकानयनकर्मतादिव्याप्यबहुत्वादिमन्निष्ठनिरूपकताकाधेयत्वादिसंबन्धेन कर्मताया, तादृशप्रकारता बोध्येत्यप्यूहनीयमित्यर्थः । " इति कृष्णभट्टाः। ____ मतान्तरमाह- यत्रेति, यथा ' अत्र घटौ स्तः ' इत्यत्राऽनेकवृत्तिधर्मो घटत्वमेव द्वित्वान्वयितावच्छेदकमस्तीत्यत्रोमयेनैव घटद्वयेनैव पदार्थान्तरस्य-एतद्देशवृत्तित्वाश्रयत्वस्यान्वयः स्त्रीकर्तव्य इत्येकघटसत्त्वदशायाम् ‘भत्र घटौ स्तः । इतिप्रयोगापत्तिर्नास्ति वर्तमानकघटे एतद्देशवृत्तित्वाश्रयत्वस्यान्वयास्त्रीकारात् । एकपटैकपटसत्त्वदशायां च द्विस्वान्वयितावच्छेदकं घटत्वपटत्वोभयमेव न केवलघटत्वमिति न तत्रापि केवलवटेनतद्देशवृत्तित्वाश्रयत्वान्श्योपपत्तिर्येन ' अत्र घटौ स्तः । इतिवाक्यस्य प्रामाण्यं स्यादित्यर्थः । यत्र चैकमात्रवृत्ति आकाशत्वादिकं तथा द्वित्वान्बयितावच्छेदकतया भासते तत्रैकेनाप्याकाशादिना पदार्थान्तरस्य एतद्देशवृत्तित्वाश्रयत्वस्यान्वयः स्वीक्रियते यथा ' अत्राकाशौ स्तः । इत्यत्र, तथा चात्रकेनैवाकाशेन पदार्थान्तरान्वयावीकारादेकाकाशबोधकस्य ' अत्राकाशः ' इतिवाक्यस्यैव प्रामाण्यं स्यात् न तु ‘भत्राकाशौ ' इत्यस्यापीत्याऽऽह- यत्रै केति । व्युत्पत्तिभेदावलम्बनात= उत्तनियमस्वीकारात् । कार्यकारणभाववैचित्र्यादिति-अत्र . " द्वित्वविशिष्टघटद्वयविशेष्यकैतद्देशवृतित्वादिरूपेतरपदार्थान्वयबुद्धित्वावमिमं प्रतिः अत्रेत्यादिसप्तम्यन्तपदसमभिव्याहृतद्विवचनान्तघटपदज्ञानत्येन कारणता, एक्माकाशावत्रेत्यत्र अत्रेतिसमभिव्याहृतद्विवचनान्ताकाशपदज्ञानत्वेन कारणता इति कार्यकारणभाववैचित्र्यात् सर्व समञ्जसम्- एकघटसत्त्वे ' अत्र घटौ ' इत्यापत्तिर्न, 'अत्राकाशौ' इतिप्रयोगोषि, सर्व समञ्जसं सर्वकार्यनिर्वाहः, वदन्तीत्यनेन ' अत्राकाशौ स्तः' इति प्रयोगो न भवति तनिहाय व्युत्पत्त्यङ्गीकारकार्यकारणभावकल्पनमसमञ्जसमेवेत्यस्वरसः सूचितः " इति कृष्णभट्टाः। ननु ' घटावानयति चैत्र: ' इत्यत्र यदेकस्यामानयनकर्मतायां घटद्वयस्यान्वय उक्तस्तन्न संभवति यतः- आनयनकर्मत्वं ह्येतदेशसंयोगाश्रयत्वमेव तत्र संयोगस्य स्वाश्रयीभूतव्यक्तिभेदेन भिन्नत्वात् ( नानात्वात् ) संयोगाश्रयत्वमपि घटादिव्यक्तिभेदेन भिनमेवेति प्राप्तं तथा च चैत्रकर्तृकघटद्वयानयनदशायामपि तद्घटवृत्त्यानयनकर्मत्वे तस्यैवैकस्य घटस्यान्वयः संभवति न घटद्वयस्यापि- घटद्वये एकाया आनयनकर्मताया अभावात्- आश्रयीभूतव्यक्तिभेदेनानयनकर्मताया भिन्नत्वादिति प्रतिसंदधानस्य ज्ञानवतः पुंसः 'घटावानयति । इतिवाक्यात् शाब्दबोधा. नुपपत्तिः= घटद्वयप्रकारकैककर्मताविशेष्यकशाब्दबोधस्यानुपपत्तिरित्याशङ्कते- अथेति, उक्त "Aho Shrutgyanam" Page #181 -------------------------------------------------------------------------- ________________ पदार्था तरान्वयविचारः] व्युत्पत्तिवादः । (१६९) संसर्गविच्छिन्न प्रतियोगिताकस्य : द्वित्वाद्यवच्छिन्नघटाद्यभावस्य निश्चयसंभवातू, तस्य द्वित्वादिना तादृशसंसर्गकघटादिविशिष्टधीविरोधित्वादिति चेत्?, न-उभयत्वाद्यवच्छिन्नाभाववत्ताज्ञानमुभयत्वावच्छिन्ननिरूपिताधेयतासंसर्गावगाहिंज्ञानमेव प्रतिबध्नाति न तु केवलं विशेष्ये विशेषणमितिरीत्या जायमानमुभयत्वादिविशिमुपपादयति- तस्येति । तस्य-रक्तपुरुषस्य कर्मतात्वावच्छेदेन कर्मतावावच्छिन्नकर्मतायां भाधेयतासंसर्गात्रच्छिन्नप्रतियोगिताकस्यः-आधेयतासंबन्धावच्छिन्ना प्रतियोगिता यस्यैवंभूतस्य द्वित्वाधवच्छिन्नघटाद्यभावस्य निश्चयसंभवात् अर्थात् पूर्वोक्ताधेयतासंबन्धेन घटद्वयाभावस्य (विषयत्वं षष्टयर्थः) निश्चयसंभवात्-निश्चयसत्त्वात् तस्य उक्तनिश्चयस्य द्वित्वादिना तादृशसंसर्गकवटादिविशिष्टधीविरोधित्वात् उक्ताधेयतासंसर्गेण द्वित्वविशिष्टघटप्रकारककर्मताविशेष्यकधीविरोधित्वात् ( आधेयतासंबन्धेन द्वित्वविशिष्टघटद्वयस्यैककर्मतायामन्वयज्ञानविरोधित्वात् ) इत्यन्वयः । यदि घटद्वये आनयनकर्मस्वमेकमेव स्यात्तदा घटद्वयस्यैकानयनकर्मत्वेऽन्वयः स्यादपि न चैवमस्ति घटव्यक्तिभेदेनानयनकर्मत्वस्य मिन्नत्वात् तथा चोक्ताधेयतासंसर्गेण कर्मतायां घटद्वयस्याभावनिश्वये जाते तादृशनिश्चयस्याधेयतासंबन्धेन कर्मतायां घटद्वयान्वयज्ञान विरोधित्वात् तादृशनिश्चयवतः पुरुषस्य 'घटावानयति' इतिवाक्याद् द्वित्व विशिष्टघटप्रकारकैककर्मताविशेष्यकशाब्दबोधो न संभवतीतिभावः। परिहरति- नेति । उभयत्वावच्छिन्नाभाववत्ताज्ञानम् उक्तस्वरूपमाधेयतासंबन्धेनैककर्मता घटद्वयान्वयो न संभवतीत्याकारकं निश्चयात्मकं ज्ञानम् उभयत्वावच्छिन्ननिरूपिताधेयतासंसर्गाववगाहिज्ञानमेव घटद्वयनिरूपिता यैकानयनकर्मतानिष्ठा एकाधेयता तादृशाधेयतासंबन्धेनानयनकर्मतायां घटद्वयान्वयज्ञानमेव प्रतिबध्नाति प्रथमे निश्चयात्मके प्रतिबन्धकज्ञाने , भानयमकर्षक निष्ठाथेयतायां घटद्वयनिरूपितत्वाभात्रस्य विषयत्वेन द्वितीये प्रतिबध्यज्ञाने आनयनकर्मतानिष्ठाधेयतायां घटद्वयनिरूपितत्वस्य च विषयत्वेन परस्परं विरोधात्,- उक्तोभयत्वावच्छिन्नाभाघवत्ताज्ञानमपि केवलं विशेष्ये विशेषणमितिरीत्या जायमानमुभयत्वविशिष्टज्ञानं तु न प्रतिबध्नाति परस्परं विरोधाभावात् । __ अयं भावः-प्रतिबन्धके आधेयतासंबन्धेनाऽऽनयनकर्मतायामुभयत्वावच्छिन्नघटद्वयाभावविषयकज्ञाने उभयत्वं न केवलं घटविशेषणमात्रं किं त्वानयनकर्मतानिष्ठायताया निरूपिका या घट यनिष्टाऽऽधारता तादृशाधारतावच्छेदकमप्यस्तीति एतादृशज्ञानेन यस्मिन् ज्ञाने उभयत्वं संबन्धभूताधेयतानिरूपकाधारताया अवच्छेदकं स्यात् तादृशज्ञानस्यैव प्रतिबन्धः संभवति, तथा च उभयत्वावच्छिन्ननिरूपिताधेयतासंसर्गावगाहि ज्ञानं हि 'उभयत्वावच्छिन्नघटद्वयनिष्ठाधारतानिखपिता याऽऽनयनकर्मतानिष्ठाऽऽधेयता तादृशाधेयतासंबन्धेन घटद्वयवती आनयनकर्मता' इति ज्ञानमेव अत्र च ज्ञाने उभयत्वं संबन्धभूताधेयतानिरूपकाधारताया अवच्छेदकत्वेन भासते इत्युक्तोभयत्वावच्छिन्नाभाववत्ताज्ञानं होतद् उभयत्वावच्छिन्ननिरूपिताधेयतासंसर्गावगाहिज्ञानमेव "Aho Shrutgyanam" Page #182 -------------------------------------------------------------------------- ________________ ( १७० ) सादशैं: [ प्रथमाकारके -- ष्टज्ञानम्, अतो विशेषदर्शिनां तादृशवाक्याद् दोषायत्तमाधेयत्वांशे उभयत्वाद्यवच्छिन्ननिरूपितत्वावगाहिभ्रमात्मकज्ञानं न भवत्येव अपि तु तदंशे तदनवगादि प्रमात्मकं ज्ञानमिति । उभयत्वावच्छिन्ननिरूपिताधेयत्वं चोभयादिवृत्तावेकस्मिन् धर्मे एव न तु प्रत्येकमात्रवृत्ताविति कर्मत्वांशे तादृशाधेयत्वावगाहिज्ञानस्य भ्रमत्वमित्यवधेयम् । प्रतिबध्नाति न तु यस्मिन् ज्ञाने उभयत्वं केवलं विशेष्ये घटद्वये विशेषणमात्रं स्यात्तादृशज्ञानमपि -' घटावानयति चैत्रः ' इतिवाक्यजन्यशाब्दज्ञाने चोभयत्वं घटद्वयस्य विशेषणमात्रमेव न तु संबन्धभूताधेयतानिरूपकाधारताया अवच्छेदकत्वेनापि भासते ( येन प्रतिबध्यत्वं स्यात् ) 'घटावानयति' इतिवाक्येनानयनकर्मता घटद्वयनिष्ठा एकैवेति प्रतिपादनाभावात्, घटद्वयनिष्ठानयनकर्मताया ऐक्ये आनयनकर्मतानिष्ठाधेयता एका स्यात्तदा तादृशैकाधेयतानिरूपिका घटद्वयनिष्ठा एकैवाधारता स्यादिति तादृशाधारतावच्छेदकमुभयत्वं स्यादपि न चैवमस्ति व्यक्तिभेदेनानयनकर्मताया भिन्नत्वात् तस्मादुक्तप्रतिबन्ध कज्ञानेन 'घटावानयति' इतिवाक्याज्जायमानस्योभयत्व( द्वित्व ) विशिष्टघटप्रकार कानयन कर्मताविशेष्यकज्ञानस्य प्रतिबन्धो न भवतीत्यर्थः । स्त्रनिष्ठानयनकर्मतायामेव प्रत्येकघटस्य प्रकारतया मानस्वीकारात् प्रत्येकघटस्यापि द्वित्वविशिष्टत्वाच द्वित्वविशिष्टघटद्वयस्यैकानयनकर्मतायामन्वयास्वीकाराच । अत इति - यतो व्यक्तिमेदेनानयनकर्मता भिन्नास्त्यतस्तादृशानयनकर्मतानिष्ठाधेयतापि भिन्नास्ति न तु घटद्वयनिरूपिता ( घटयनिष्ठाधारतानिरूपिता ) एकैवाधेयतास्तीति विशेषदशिनां किं वाऽऽनयनकर्मत्वमुभयत्वावच्छिन्ननिरूपिताधेयत्वाभाववदिति विशेषनिश्चयवतां पुंसां - तादृशवाक्यात् =' घटावानयति इतिवाक्याद् आधेयत्वांशे दोषायत्तम् = दोषाधीनमुभयत्वावच्छिन्न ( घटद्वय ) निरूपितत्वावगाहि भ्रमात्मकं ज्ञानं नैव भवति ( आधेयताया घटद्वयनिरूपितत्वाभावाद् घटद्वयनिरूपितत्वज्ञानं भ्रमात्मकमेव स्यात् ) अपि तु तदंशे - आधेयत्वांशे तदनवगाहि=उभयत्वावच्छिन्न ( घटद्रय ) निरूपितत्वानवगाहि प्रमात्मकमेव ज्ञानं भवतीत्यर्थः । तथा च प्रतिबन्धकत्वेनाभिमतमपि ज्ञानमाऽऽधेयत्वाशे उभयत्वावच्छिन्ननिरूपितत्वाभावावगाह्येव 'घटावानयति' इतिवाक्यजन्यमपि ज्ञानमाऽऽधेयत्वांशे उमयत्वावच्छिन्ननिरूपितत्वानवगाह्येवेति परस्परं साम्येन विरोधाभावात् प्रतिबध्यप्रतिबन्धकभायो नैव संभवतीति यावत् । ननूक्ताधेयतायामुभयत्वावच्छिन्ननिरूपितत्वावगाहिज्ञानस्य कथं भ्रमत्वमित्याशङ्क्याह- उभयत्वावच्छिन्नेति यः खलु धर्मो घटद्वये एक एव व्यासज्यवृत्त्या वर्तेत तस्मिन् धर्मे याऽऽधेयता सैवोभयत्वावच्छिन्ननिरूपिता भवति यथा द्वित्वनिष्ठाऽऽधेयता द्वित्वं घटद्वये एकमेवेति द्वित्वनिष्ठाऽऽधेयता घटद्वयनिरूपिता = घटद्वयनिष्ठाधारता निरूपिता भवति न तु प्रत्येकवृतिधर्मनिष्ठाऽऽधेयता उभयत्वावच्छिन्ननिरूपिता भवति किं तु प्रत्येकमात्रनिरूपितेव भवति यथा ' नीलो घटौ ' इत्यत्र नीलस्वगुणस्य घटव्यक्तिभेदेन भिन्नत्वेन प्रत्येकवृत्तित्वाद् नीलत्वनिष्ठाधेयता न घटद्वयनिरूपिता "Aho Shrutgyanam" Page #183 -------------------------------------------------------------------------- ________________ संख्यान्वयविचारः ] व्युत्पत्तिवादः । ( १७१ ) संख्याश्च प्रकृत्यर्थतावच्छेदकगताः कचित् प्रतीयन्ते यथा 'संपन्नौ व्रीहियवी' इत्यादौ, एतत्तत्त्वं प्रागेवाभिहितम् । विरुद्धसंख्यावच्छिन्नवाचकशतादिपदोत्तरविभक्त्युपस्थाप्या संख्या प्रकृत्यर्थतावच्छेदकसंख्यायामेवान्वेति यथा-' शतमेकम्' 'द्वे शते' ' त्रीणि शतानि' इत्यत्रभवति किं तु प्रत्येकनिरूपितैव तथा ' घटावानयति' इत्यत्रापि घटव्यक्तिभेदेनानयनकर्मत्वस्य निषाद् आनयनकर्मत्वनिष्ठाधेयतापि प्रत्येकनिरूपिता भिन्नैव न तूभयत्वावच्छिन्न ( घटद्वय ) निरूपिता भवतीत्यानयनकर्मत्वं तादृशाधेयतावगाहिज्ञानस्य = उभयत्वावच्छिन्न निरूपिताधेयता वर्तते इत्यवगाहिज्ञानस्य भ्रमत्वमेवेत्यर्थः । 'अत्र वटौ स्तः ' 'वटावानयति' इत्यादी प्रकृत्यर्थघटादिगतैव संख्या प्रतीयते, कचिच्च प्रकृव्यर्थे संख्यान्वयबाधे सति प्रकृत्यर्थतावच्छेदकगतैवसंख्या प्रतीयते यथा 'संपन्नौ व्रीहियवौ' इत्यत्र संपन्नानेकत्रीहियवेषु द्विवचनार्थद्वित्वसंख्यान्वयस्य बाधात् प्रकृत्यर्थतावच्छेदकीभूतयोहित्वत्वयोरन्ययो भवति - त्रीहित्ययवत्वजातिमन्तौ संपन्नावित्यर्थ इत्याशयेनाह - संख्याचेति । एतत्तत्त्वं=प्रकृत्यर्थतावच्छेद के संख्यान्वयतत्त्वं प्रागेव ' संपन्नो व्रीहि:' ( पृ०७ ) इत्यत्र प्रदर्शितम् । तथा चात्रापि स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसंबन्धेन द्वित्वस्य प्रकृत्यर्थभूतव्रीहियवयोरप्यन्वयः संभवतीत्यादिकं तत्रैव द्रष्टव्यम् | कचिच्च प्रकृत्यर्थतावच्छेदकसंख्यायामेव विभक्त्यर्थ संख्या अन्वेतीत्याह - विरुद्धेति, शतादि - पदोत्तरविभक्त्युपस्थाप्या या संख्या तद्विरुद्धसंख्यावच्छिन्नवाचकं यच्छतादिपदं तदुत्तरवर्तमानविमत्युपस्थाप्येत्यन्वयः । यथा- 'शतमेकम्' इत्यत्र शतपदं शतत्वसंख्यावच्छिन्नवाचकं शतपदोत्तर प्राप्त प्रथमैकवचनं चैकत्ववाचकम् एकत्वसंख्यायाः शतत्वसंख्यायाश्च परस्परं विरोधाच्छतत्वसंख्यावच्छिन्ने एकत्वसंख्याऽन्वयासंभवात् प्रकृत्यर्थतावच्छेदकीभूतशतत्वसंख्यायां विभक्त्यर्थेकरवस्यान्वयो भवति - अत्र शतत्वस्यैकत्वात् 'एकत्वविशिष्टं शतत्वम्' इत्यर्थः । 'एकमू इतिपदं चोक्तैकत्वस्यानुवादकं बोध्यम्. एकत्वस्य स्पष्टप्रतिपत्त्यर्थं चैकपदप्रयोगः । यत्र शतत्व - व्यक्ती द्वे भवतस्तत्र द्विवचनं भवति यथा- 'द्वे शते' इति 'द्वित्वविशिष्टं शतस्त्वम्' इत्यर्थः । एवम् ' त्रीणि शतानि' इत्यादि । यद्यप्यत्र शतत्वसंख्यापि बहुत्वरूपा बहुवचनार्थभूतापि बहुत्वसंख्येति तयोर्बहुवत्वेन रूपेण विरोधो नास्ति तथापि त्रिशब्दसामानाधिकरण्यादत्र शतशब्दोसरबहुवचनं त्रित्वसंख्योपस्थापकमेव त्रित्वसंख्यायाः शतस्त्वसंख्यायाश्च परस्परं विरोधाच्छतत्वसंख्यावच्छिने त्रित्वसंख्यान्वयासंभवात् प्रकृत्यर्थतावच्छेदकतत्वे एव शतशब्दोत्तरबहुवचनार्थमित्वसंख्याया अन्वयः - त्रिवविशिष्टं शतत्वमिति । 'त्रिशतं गावः' इत्यादौ तु एकत्वविशिष्टतत्वकावच्छिन्ना गाव:" इतिवाक्यार्थः । शतादिशब्दानां शक्तिस्तु शतत्वादिसंख्यावच्छिन्ने संख्येये एव । न च शतत्वादिसंख्यायामेकत्वद्वित्वादिसंख्यान्ययासंभवः - गुणे गुणानङ्गीकारादिति वाच्यम्, अत्रेकत्वद्वित्वादीनामपेक्षाबुद्धिविषयत्वरूपत्वेन शतत्वादिसंख्यायामन्त्रये विरोधा "Aho Shrutgyanam" Page #184 -------------------------------------------------------------------------- ________________ सादर्श: [ प्रथमाकारके - शतत्वादावेकत्वद्वित्वबहुत्वानामन्वयः । अत एव चैकशतद्विशततात्पर्येण न ' शतानि ' इति प्रयोगः -- तत्र प्रकृत्यर्थस्य शतस्य बहुत्वाद्यन्वययोग्यत्वेपि प्रकृत्यर्थतावच्छेदकशतत्वांशे बहुत्वाद्यन्वये एव बहुवचनस्ये साकाङ्क्षत्वात् तत्र च योग्यताविरहात् । न चैकशतेपि नानापुरुषीयापेक्षाबुद्धिजन्यनानाशतत्व संभवादेकशवनिष्ठशतत्वेपि Magaraatग्यताsतैवेति वाच्यम्, परस्परसमानाधिकरणद्वयाऽवृत्ति बहुत्वस्यैव शतादिपदोत्तरबहुवचनार्थत्वात् तादृशबहुत्वस्य चैकशतादिवृत्तिनानाशतत्वादौ भावात् । एकादिपदं चानुवादकमपि सन्न व्यर्थम् - " संभेदे नान्यतरवैयर्थ्यम्” इति न्यायादिति विभावनीयम् । अत एव = विरुद्धसंख्यावच्छिन्नवाचकशतादिपदोत्तरविभक्त्युपस्थाप्या च संख्या प्रकृत्यर्थतावच्छेदकसंख्यायामेवान्वेतीति नियमस्वीकारादेव । तत्र - एकशततात्पर्येण द्विशततात्पर्येण वा कृते ' शतानि ' इति प्रयोगे । तत्र = शतत्वे । एकशततात्पर्येण वा द्विशततात्पर्येण वा 'शतानि ' इतिप्रयोगकाले प्रकृत्यर्थे शतत्वसंख्या विशिष्ट बहुत्वमस्तीति बहुवचनार्थबहुत्वान्वययोग्यताप्यति यद्यपि तथापि तत्रान्वय स्वीकारो नास्ति यत्र च प्रकृत्यर्थतावच्छेदकीभूततत्वे शतपदोत्तरबहुवचनार्थबहुत्वस्यान्वय इष्टस्तत्र शतत्वे तदानीं बहुत्वाऽभावाद बहुत्वान्यययोग्यता नास्तिएकशतविषयक तात्पर्ये सति शतत्वव्यक्तेरेकत्वविशिष्टत्वाद् द्विशतविषयकतात्पर्ये च सति द्वित्वविशिष्टत्वादित्यर्थः । एकशतद्विशततात्पर्येण ' शतानि ' इतिप्रयोगो न भवतीति विनिगमनायाः सादेव विरुद्धसंख्यावमिवाचके श्याद्युक्तनियमः स्वीक्रियते अन्यथा बहुवचनार्थ बहुत्वस्य शतत्वसंख्याव - च्छिन्नप्रकृत्यर्थेऽन्वयसंभवे एकशतद्विशततात्पर्येणापि ' शतानि इतिप्रयोगः स्याद्न चैतदिष्टम ननु तत्वादिसंख्या ह्यपेक्षाबुद्धिजन्येव भवति अपेक्षाबुद्धिश्च पुरुषभेदेन भिन्नेत्येकस्मिन्नपि शते देवदत्तयज्ञदत्तादिनानापुरुषीयापेक्षा बुद्धिभिर्नानाशतत्वोत्पत्त्या एकशतद्विशततात्पर्यकालेप्येकशतादौ नानाशतत्वसंभवात् तादृशनानाशतत्येषु बहुत्वसत्त्वेन बहुवचनार्थ बहुत्वान्वय योग्यतायाः संभवाद् एकशतद्विशततात्पर्यकालेपि ' शतानि ' इति प्रयोगः कथं न स्यादित्याशङ्कते म चेति । परिहारमाह-- परस्परेति, नानापुरुषीयापेक्षाबुद्धिजन्यनानाशतत्वानि परस्परं समानाधिकरणान्येव भवन्ति - एकस्मिन्नेव शते वर्तमानत्वात् शतादिपदोत्तरबहुवचनार्थभूतबहुत्वं च परस्परसमानाधिकरणद्वयाऽवृत्ति बहुत्वमेव भवति यथा बहुशततात्पर्ये सति ' शतानि ' इत्यन शतत्रये पृथक् पृथक शते शतत्वं वर्तते इत्येतादृशशतत्वानि परस्परं व्यधिकरणान्येवेति तत्र शत त्रयगतशतत्वत्रये यद् बहुत्वं तत् परस्परसमानाधिकरणम् = एतत्तृतीयशतत्वसमानाधिकरणं यच्छतत्वद्वयं तद्वृत्तिन भवति तादृशबहुत्वस्य परस्पराऽसमानाधिकरणशतत्वेषु वर्तमानत्वाद् एतादृशं परस्पराऽसमानाधिकरणशतत्वेषु वर्तमानमेव बहुत्वं च शतपदोत्तरबहुवचनार्थ इति तस्य बहुततात्पर्ये सत्येव शतत्वेष्वन्वयः संभवति न त्वेकशतद्विशततात्पर्ये सत्यपि तादृशबहुत्वस्य = ( १७२ ) " Aho Shrutgyanam" Page #185 -------------------------------------------------------------------------- ________________ शतादिशब्दार्थविचारः] व्युत्पत्तिवादः। बाधात् । अथ वा तत्रापि बहुत्वमेव बहुवचनार्थः, परस्परसमानाधिकरणद्या. त्तिपर्याप्तिरेवाकाङ्क्षानिरूपकः संबन्धः । __ यत्तु द्वे शते'' त्रीणि शतानि इत्यादौ संख्यैव शतादिशब्दार्थो न त संख्ये यम, संख्येयस्य तदर्थत्वे "विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः" इत्यपरस्पराऽसमानाधिकरणशतत्वेषु वर्तमानस्य बहुवचनार्थभूतबहुत्वस्य एकशतवृत्त्यपेक्षाबुद्धिजन्योक्तनानाशतत्वेषु बाधात् , तस्मादेकशतद्विशततात्पर्येण 'शतानि' इति प्रयोगापत्तिर्नास्त्येवेत्यर्थः । एकस्मिन्नेव शते यदा नानापुरुषीयापेक्षाबुद्धिभि नाशतत्वान्युत्पद्यन्ते तत्र तादृशनानाशतत्वेषु वर्तमानं बहुत्वं परस्परसमानाधिकरणम्-बहुत्वाश्रयीभूततृतीयशतत्वसमानाधिकरण यच्छतत्वद्वयं तद्वत्त्येव भवति तत्र बहुत्वाश्रयीभूतसकलशतत्वानामेकस्मिन्नेत्र शते वर्तमानत्वेन समानाधिकरणत्वात्, न चैतादृशं परस्परसमानाधिकरणनानाशतत्वेषु वर्तमानं बहुत्वं बहुवच-. नार्थो भवति येनैकशतगतनानाशतत्वान्याश्रित्यैकशतद्विशततात्पर्येणापि 'शतानि । इति प्रयोगः स्यादित्यर्थः । पक्षान्तरमाह-अध वेति । यथान्यत्र सर्वत्र बहुत्वमेव बहुवचनार्थस्तथा तत्रापि शतानि' इत्यत्रापि परस्परसमानाधिकरणद्वयावृत्तित्वविशेषणरहितमेव बहुत्वं बहुवचनार्थ इत्यत्र बहुत्वस्य परस्परसमानाधिकरणद्वयावृत्तिपर्याप्तिः संबन्ध इत्युच्यते तथा च बहुशततात्पर्ये सति 'शतानि , इतिप्रयोगो भवति-- तत्र बहुत्वाश्रयीभूतशतत्वत्रयस्य पृथक् पृथक् शते वर्तमानत्वेन समानाधिकरणलाभावात् . परस्परसमानाधिकरणम्-तृतीयशतत्वसमानाधिकरणं यच्छतत्वद्वयं तदऽवृत्तिर्या बहुत्वपर्याप्तिस्तादशपर्याप्तिसंबन्धेन बहुवचनार्थबहुत्वस्य शतत्वत्रये वर्तमानत्वात् . बहुत्वपर्याप्तेबंगतत्वेष्वेव संभवादित्यर्थः । एकशतद्विशतविषयकतात्पर्ये च सत्येकशवगतनानापुरुषीयाने, क्षाबुद्धिजन्यनानाशतत्येषु बहुत्यस्य परस्परसमानाधिकरणद्वयातिपर्याप्तिसंबन्धेन वृत्तित्वं न संभवति यत:- एकशतगतनानापुरुषीयापेक्षाबुद्धिजन्यनानाशतत्वानामेकशतगतत्वेन समानाधिकरणत्वात् तेषु वर्तमानस्य बहुत्वस्य बहुत्वाश्रयीभूततृतीयशतत्वसमानाधिकरणशतत्वद्वयेपि पर्याप्तिरस्त्येवेति तत्र बहुत्वं परस्परसमानाधिकरणद्वय ( शतत्वद्वय ) वृत्तिपर्याप्तिसंबन्धेनैव वर्तते न चैतादृशपर्याप्तिसंबन्धेन बहुत्वमिष्टमिति नैकशतद्विशतविषयकतात्पर्येण 'शतानि । इति प्रयोगापत्तिः । 'परिहाराय मतान्तरमनुवदति- यत्तिति, 'शतानि' इत्यत्र शतादिशब्दानां संख्येयवाचकवे शतत्वादेः संख्येयपदार्थतावच्छेदकत्वं प्राप्तं तत्र शतत्वादौ शतपदोत्तरबहुवचनाद्यर्थबहुत्वा. देरन्वये च " प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वम् " इतिनियमस्य परित्यागः स्थादेवकृत्यर्थभूतसंख्येये समन्वयाभावात् संख्येयार्थावच्छेदकीभूते शतत्वादावन्वयात्, तथा शतादिशब्दानां संख्येषवाचकत्वे " विशल्याद्याः " इत्यनुशासनेनैकवचनान्तत्वं प्रतिपाद्यते 'द्वे शते' त्रीणि शतानि' इत्यत्र तु द्विवचनान्तो बहुवचनान्तश्च प्रयोगोस्तीत्युक्तानुशासनविरोधोपि संख्ये "Aho Shrutgyanam" Page #186 -------------------------------------------------------------------------- ________________ ( १७४) सादर्श: [प्रथमाकारकेनुशासनविरोधाद् द्विवचनादिसाधुतानुपपत्तेः 'गवां शतानि' इत्यादी षष्ठयर्थान्वयानुपपत्तेश्च । न चाभेदः षष्ठ्यर्थः- तथा सति 'ब्राह्मणा दश' इत्यत्र ब्राह्मणानां दश' इत्यपि स्यात् । अस्माकं चादशतः संख्याः संख्येये वर्तन्ते. अतः परं संख्याने संख्येये च इत्यनुशासनाद् दशादिशब्दानां शतादिशब्दवत् संख्यायवाचकत्वेऽत्र प्राप्तः, उक्तानुशासनविरोधादेव शतादिशब्दस्य संख्येयवाचकत्वे 'द्वे शते ' त्रीणि शतानि ' इत्यादौ द्विवचनादेः साधुत्वानुफ्पत्तिरपि प्राप्ता, तथा शतादिशब्दानां संख्येयवाचकत्वे ' गवां शतानि , इत्यादी गोपदोत्तरषष्टयर्थस्यान्वयानुपपत्तिरप्यस्ति- षष्ठ्यर्थस्य भेदसंबन्धस्य कचिदप्यन्वयो न संभवति- यथा ' घटस्य नीलः' इत्यत्र 'घटवृत्तिर्नीलः ' इति बोधो जायते तथात्र 'गोवृत्तीनि शतसंख्येयानि ' इत्यपि बोधो नोपपद्यते तस्मात शतादिशब्दा न संख्येयवाचकाः किं तु संख्यावाचका एवेति स्वीकार्यम् , संख्यावाचकत्वे तु शतादिपदोत्तरबहुवचनाद्यर्थबहुत्वादेः प्रकृत्यर्थशतादिसंख्यायामेवान्च्यात् “प्रत्ययानां प्रकृत्यान्वितस्त्रार्थबोधकत्वम् " इति नियमरक्षापि भवति, तथा संख्यावाचकत्वे " संख्यायां द्विबहुत्वे स्तः " इत्यनेन द्विवचनान्तत्वबहुवचनान्तत्वयोरपि बोधनात् द्वे शते'' त्रीणि शतानि । इत्यत्रानुशासनविरोधोपि नास्तीति द्विवचनादिसाधुतानुपपत्तिरपि नास्ति, ' गवां शतानि ' इत्यत्र षष्ठयर्थान्धयानुपपत्तिरपि नास्ति 'घटस्य नीलः' इत्यत्र 'घटवृत्तिर्नीलः' इतिबोधवदत्रापि 'गोवृत्तीनि बनि शतत्वानि ' इतिबोध उपपद्यते संख्यायाः संख्येयपदार्थवृत्तित्वे विरोधाभावादित्यर्थः । ननु ' गवां शतानि ' इत्यत्राभेद एव षष्ठ्यर्थस्तथा च शतशब्दस्य संख्येयपरत्वे ' गवाभिन्नानि शतसंख्येयानि ' इतिवाक्यार्थबोधो भविष्यतीत्याशङ्कयाह- न चेति । परिहारमाह- तथा सतीति, यद्यमेदोपि षष्ठयर्थः स्यात्तदा 'ब्रह्मणा दश' (दशसंख्याका ब्राह्मणाः ) इत्यस्य स्थाने ' ब्रह्मणानां दश' इत्यपि प्रयोगः स्यात्-अभेदबोधसंभवात् , न च 'ब्राह्मणानां दश' इतिप्रयोगो भवतीति नाऽभेदः षष्ठ्यर्थस्तथा च शतादिशब्दानां संख्येयवास्वकत्वे गवां शतानि' इत्यादौ षष्ठयर्थान्धयानुपपत्तिस्तदवस्थेति संख्यैव शतादिशब्दार्थ इत्यर्थः। स्वमतमाह- अस्माकं चेति, " संख्येये ह्यादश त्रिषु " इत्यनुशासनाद् आदशतः एकमारभ्याष्टादशपर्यन्ताः संख्यावाचकाः शब्दाः संख्येयवाचका एव यथा ' एकः पटो द्वौ पटौ दश ब्रामणा भष्टादश गाव: ' इति तथा च दशशब्दस्य संख्येयपरत्वेनाऽभेदबोधनार्थम् ' ब्राह्मणा दश । इत्येव प्रयोगो भवति न तु 'ब्राह्मणानां दश ' इत्यपि-अभेदबोधासंभवात् । अतः परम्-अष्टादशसंख्यातः परं एकोनविंशत्यादिसंख्यावाचकाः शब्दा: संख्यावाचकाः संख्येयवाचकाश्च भवंति तत्र संख्येयवाचका यथा- 'एकोनविंशतिः पटाः ' 'शतं गावः ' इत्यादि, संख्यावाचका यथा 'पटानामेकोनविंशतिः ''गवां शतम् ' इत्यादि, तथा च शतादिशब्दवत= यथा शतादिशब्दानाम् "विशयाद्याः" इत्यनुशासनेन संख्यानार्थकत्वम्-संख्यावाचकस्वमस्ति तथा दशादिशब्दानाम् एकमारभ्याष्टादशपर्यन्तसंख्यावाचकानां दशादिशब्दानाम "Aho Shrutgyanam" Page #187 -------------------------------------------------------------------------- ________________ जातादिशब्दार्थ विचार: ] व्युत्पत्तिवादः । ( १७५) नार्थकत्वाभावात् । दशत्वादिसंख्यायाः पदार्थतावच्छेदकत्वेन तत्र षष्ठयर्थसं-बन्धान्वथासंभवेन न तथाप्रयोग इति । तदसत् - ' गवां शतानि' इत्यादौ संख्यायाः प्राधान्येन शतादिशब्दवाच्यत्वे गवां शतं दद्यात्' इत्यादौ शतादिपदार्थस्य संख्याया दानादिकर्मत्वान्वयायोग्यतया प्रामाण्यानुपपत्तिः, ' गवां शतं शुलम्' इत्यादी संख्यायां शुक्लाद्यमेदान्वययोग्यताविरहात् तदनुपपत्तिश्च तस्माद् दशादिशब्दा इव विंशतिशत सहस्वादिशब्दा अप संख्यावच्छिन्नवाचका एव न तु धर्मिविशेषणतानापन्नसंख्यावाचकाः । - € “ संख्येये ह्यादश त्रिषु " इत्यनुशासनात्संख्येयमात्रवाचकत्वेन संख्यानार्थकत्वाभावात् = संख्यावाचकत्वमेव नास्ति येन 'ब्राह्मणानां विंशतिः ' इतिवत् ' ब्राह्मणानां दश ' इत्यपि प्रयोगः स्यात् । दशादिशब्दानां संख्यावाचकत्वे " पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन ” इति व्युत्पत्तर्विरोधमप्याह- दशत्वादीति, दशादिशब्दानां संख्यावाचकत्वे संख्यायाश्च पदार्थतावच्छेदकत्वेन पदार्थत्वाभावात् तत्र षष्ठ्यर्थस्य वृत्तित्वस्य दशत्वसंख्यायामन्वयो न संभवतीतिहेतोरपि तथा=' ब्राह्मणानां दश' इति प्रयोगो न भवति ब्राह्मणानां विंशति: ' इत्यादौ तु " विंशत्याद्याः " इत्यनुशासन बलाद् विवशम् " पदार्थः पदार्थेनान्वेति " इतिव्युत्पत्तेः संकोचं कृत्वा पदार्थतावच्छेदकीभूतविंशतित्वादिसंख्यायां षष्ठयर्थान्वयः स्वीक्रियते यथा- ब्राह्मणवृत्तिविंशतित्वम्' इति, एवमेव ' गवां शतानि ' इत्यस्यापि ' गोवृत्तीनि शतत्वानि इत्येवार्थस्तथा च सिद्धम् - 'द्वे शते ' ' त्रीणि शतानि' इत्यादौ संख्यैव शतादिशब्दार्थ इत्यर्थः । # ፡ परिहरति- तदसदिति, यदुक्तम् ' द्वे शते ' ' त्रीणि शतानि ' इत्यादी संख्यैव शतादिशब्दार्थो न तु संख्येयमिति तन्न युक्तं एवं हि ' गवां शतानि ' इत्यत्रापि शतशब्दवाच्या प्राधान्येन संख्यैव स्यात् तथा च गवां शतं दद्यात् ' इत्यत्रापि शतशब्दवाच्या संख्यैव स्यात् संख्यायाश्च दानकर्मत्वं न संभवतीति शतसंख्याया दानकर्मत्वेऽन्वययोग्यताया असंभवाद् भसंभवितार्थबोधकत्वात् ' गवां शतं दद्यात् ' इत्यस्याप्रामाण्यं स्यात् एवम् ' गवां शतं शुक्लम् ' इत्यत्रापि शतशब्दवाच्या संख्यैव स्यात् संख्यायाश्च शुक्लगुणवत्त्वं शुक्लत्वगुणेनाभेदो वा न संभबतीति ' गवां शतं शुक्लम्' इति वाक्यस्यापि तदनुपपत्तिः प्रामाण्यानुपपत्तिः, तस्माद् यथा दशा दिशन्दाः संख्यावच्छिन्नसंख्येयवाचकास्तथा: शतादिशब्दा अपि संख्यावच्छिन्नसंख्येययाचका एव न तु प्राधान्येन संख्यावाचकास्तथा च ' गवां शतं दद्यात्' इत्यत्र शतशब्दस्य संख्येयवाचकत्वे प्राप्ते संख्येयस्य च दानकर्मत्वयोग्यत्वान्न प्रामाण्यानुपपत्तिः, तथा L गवां शतं शुकम् ' इत्यत्रापि शतशब्दस्य संख्येयवाचकत्वे प्राप्ते संख्येयस्य च शुक्लत्वगुणेनाऽन्वययोग्यत्वेन शुक्लपदार्थेनाभेदान्वययोग्यत्वान्न प्रामाण्यानुपपत्तिरित्यर्थः । धर्मिविशेषणतानापन्नेति - यथा घटादिशब्दानां घटाद्यवच्छेदकीभूतघटत्वादिवाचकत्वमपि भवति - घटादिवाचकत्वाद "Aho Shrutgyanam" ८ Page #188 -------------------------------------------------------------------------- ________________ ( १७६ ) स्वार्थैकदेशेपिं संख्यायां स्वप्रकृतिकविभक्त्यर्थसंख्यान्वयसाकाङ्क्षतयाऽन्यप्रकृतिकषष्ठ्यर्थ संबन्धान्वयसाकाङ्क्षतया च तेषां संख्यानार्थकतामवादों न तु दशादिशब्दानां तथात्वं दशादिब्राह्मणतात्पर्येण ' ब्राह्मणानां दश ' इत्यादिप्रयोगविरहादिति तेषां संख्येयमात्रवाचिताप्रवाद इति, “विंशत्याद्याः सदैकत्वे सादश: & { प्रथमाकार के घटादिपदार्थानां घटत्वादिविशिष्टत्वात् तथा विंशत्यादिसंख्याशब्दानामपि संख्या विशिष्टसंख्येयवाचकत्वमेवेति संख्येयरूपधर्मिविशेषणतापन्नसंख्यावाचकत्वमपि प्राप्तमेवेत्येव युक्तं न तु धर्मिविशेषणताडनापन्न संख्यावाचकत्वम् = केवलं संख्यामात्रवाचकत्वमित्यर्थः । ननु यदि 'गवां शतानि ' ' गवां शतं दद्यात्' इत्यादी शतादिशब्दानां संख्येयवाचकत्वमेव न च संख्यावाचकत्वं तदा सर्वत्र संख्येयवाचकत्वमेव स्यात्तथा च शतादिशब्दानां संख्यायाचकत्वं कथमुच्यते जनैः तथा दशादिशब्दानां केवलं संख्येयमात्रवाचकत्वं न संख्यावाचकत्वमित्यपि कथमुच्यते? इत्याशङ्क्य शतादिशब्दानां संख्यावाचकत्वप्रवादमुपपादयति - स्वार्थेकेति । दशादिशब्दानां संख्येयमात्रवाचकत्वप्रवादं चोपपादयति-दशादिब्राह्मणेति । ' एकं शतम्" इत्यत्र स्वार्थैकदेशे = स्वार्थैकदेशभूतायां संख्यायाम् = शतत्वसंख्यायां स्वप्रकृतिकविभक्त्यर्थसंख्यान्वयसाकाङ्क्षतया = स्वं शतंशब्दस्तत्प्रकृतिकविभक्तिः शतपदोत्तरप्रथमा विभक्तिस्तदर्थ भूतैकत्वसंख्याया अन्यये साकाङ्क्षतया ( एकं शतस्वमितिबोधात् ) तेषाम् = शतादिशब्दानां संख्यानार्थकताप्रवादः =संख्यावाचकत्वप्रवादोस्ति-शतादिपदोत्तरविभक्तयर्थभूतसंख्यायाः शतत्वादिसं ख्यायामन्वयस्वीकारादित्यर्थ एतच्च पूर्वमेव 'विरुद्ध संख्यावच्छिन्नवाचक' (पृ. १७१ ) इत्यादि - नोक्तम्, तथा स्वार्थैकदेशसंख्यायां शतत्वादौ अन्यप्रकृतिकषष्ठयर्थसंबन्धान्वयसाकाङ्क्षतया = 'गवां शतम्' इत्यत्रान्यप्रकृतिका = गोपदप्रकृतिका या गवामिति गोपदोत्तरषष्ठी तदर्थो यो वृत्तित्वसंबन्धस्तस्यान्वये साकाङ्क्षतया च तेषां शतादिशब्दानां संख्यानार्थकताप्रवादोस्ति-- गर्वा शतम् 6 इत्यत्र गोवृत्तिशतत्वम् = गोवृत्तित्वाश्रयतावच्छतत्वमतिबोवोदयात् 6 षष्ठयर्थवृत्तित्वस्य शतत्वादावन्वय स्वीकारात् संख्यावाचकत्वप्रवाद एव, संख्येयवाचकत्वं तु युक्तमेव 'गवां शतं दद्यात् ' इत्यादिप्रयोगात् । दशादिशब्दानां च तथात्वम् = स्वप्रकृतिकविभक्त्यर्थसंख्यान्वयसाकाङ्क्षत्वं तथाऽन्यप्रकृतिकषष्ठ्यर्यसंबन्धान्वय साकाङ्क्षत्वं च नास्तीति दशपदोत्तरविभक्त्यर्थसंख्यायास्तथा ब्रह्माणपदाद्युत्तरषष्ठ्यर्थ वृत्तित्वस्य दशत्वसंख्यायामन्वयासंभवान्न दशादिशब्दानां संख्यानार्थकताप्रवाद इत्यर्थः । दशादिशब्दानां संख्येयमात्रवाचिताप्रवादकारणमाह- दशादिब्राह्मणेति, यदि दशादिशब्दानामपि संख्यावाचकत्वं स्यात्तदा ब्राह्मणानां शतम् ' इतिवत् 'ब्राह्मणानां दश' इत्यपि प्रयोगः स्याद् न चैवं प्रयोगो मवतीति न दशादिशब्दानां संख्यावाचकत्वं किं तु ब्राह्मणा दश ' इत्येव प्रयोगो भवतीति तेषाम् = दशादिशब्दानां संख्येयमात्रवाचितापवादोस्ति, वस्तुतस्तु सर्वेषामेव दशादिशब्दानां "Aho Shrutgyanam" Page #189 -------------------------------------------------------------------------- ________________ निरर्थकैकवचनादिविचारः ] व्युत्पत्तिवादः । सर्वा: संख्येय संख्ययोः । संख्पार्थे द्विबहुत्वे स्तः तात्पर्यग्राहकम् । 59 ( १७७ ) इत्यनुशासनमप्युक्तार्थे एकद्विबहुशब्दोतरेकवचनद्विवचनबहुवचनानि च न संख्याबोधकानि - उद्देइयतावच्छेदकविधेययोरैक्येनैकत्वाद्यन्वये आकाङ्क्षाविरहादिति तदुत्तरं प्रथमाविभक्तिः प्रयोगसाधुतामात्राय । " Aho Shrutgyanam" K नित्यबहुवचनान्ताऽवादिशब्दपरं प्रथमाबहुवचनमपि क्वचिन्निरर्थकमेव - यंत्रशतादिशब्दानां च संख्यावच्छिन्नवाचकत्वमेवास्ति तत्र 'ब्राह्मणा दश' इत्यादौ दशादिशब्दोत्तरविभक्त्यर्थसंख्यायाः प्रकृत्यर्थे दशादावेवान्वयो भवति न तु दशत्वादावित्येव दशादिशब्दानां संख्येयवाचकत्वम्, विभक्त्यर्थ संख्याया दशत्वादावन्वयासंभवादेव 'ब्राह्मणानां दश' इति प्रयोगो न भवति, शतत्वादात्रन्त्रयसंभवादेव ' ब्राह्मणानां शतम् ' इतिप्रयोगस्तु भवति । शतादिशन्दोत्तरविभक्त्यर्थ संख्यायास्तु प्रकृत्यर्थतावच्छेदकशतत्वादावप्यन्वयो भवतीत्येव शतादिशब्दाना संख्यानार्थकता वस्तुतस्तु संख्यावच्छिन्नबोधकत्वमेव, तत्रापि यत्र शतादिशब्दोत्तरविभक्त्यर्थसंख्यायाः शतत्वादिसंख्यायामन्वयस्तत्र वचनत्रयमेव भवति यथा ' गवां शतं शते शतानि इति, यत्र च प्रकृत्यर्थे एवान्वयस्तत्रैकवचनमेव यथा शतं गाव: ' इति विवेकः । अत्रामरकोशं प्रमाणयति-- विंशत्याद्येति । उक्तार्थे= विंशत्यादिशब्दोत्तर विभक्त्यर्थ संख्यायाः प्रकृत्यर्थे विंशत्यादावन्वये विंशत्यादिशब्दानामेकवचनान्तत्वं प्रकृत्यर्थतावच्छेदके विंशतित्वादावन्वये च वचनत्रयान्तत्वमेव यथायोग्यं भवतीत्यमरवाक्यस्यार्थ एतदेवोक्तम्- संख्यार्थे इति । अत्र च "" उक्तार्थे तात्पर्यग्राहकमिति - विंशत्याद्याः संख्या: ( संख्याशब्दाः ) संख्येयसंख्ययोर्वाचका इति नार्थः किं तु संख्येयसंख्यान्यतर विशेष्य के कत्वादिरूपविभक्त्यर्थप्रकारकान्वयबोधपरा इत्येवानुशासनार्थ:- ' शतं गावः गर्वा शतम् । इत्युभयविधप्रयोगदर्शनात् संख्येयमात्रविशेष्यकशतत्वादिप्रकारकबोधपगः शतादिसंख्यावाचकशब्दाः सदैकत्वे वर्तन्ते शतं ब्राह्मणाः इतिप्रयोगदर्शनात् संख्यायाम् = शतत्वादिसंख्या विशेष्यकशतादिपदोत्तरेकवचन द्विवचनबद्ध्रुवचनार्थैकत्वद्वित्वबहुत्वप्रकारक बोधपराः शतादिसंख्यावाचकाः शब्दा एकवचनान्ता द्विवचनान्ता बहुवचनान्ता भपोत्यर्थः - ' गवां शतं शते शतानि' इतिप्रयोगात् एकं शतत्वं द्वे शतत्वे त्रीणि शतत्वानीत्यर्थादिति " इति कृष्णभट्टा: । एकेति - एकशब्दोत्तरमेकवचनं द्विशब्दोत्तरं द्विवचनं बहुशब्दोत्तरं च बहुवचनं संख्याबोधकं न भवति संख्याबोधकत्वे ह्येकमित्यत्रोद्देश्यतावच्छेदकमप्येकत्वं विधेयमप्येकत्वमेव द्वावित्यत्र द्वित्वमेव स्यादू बहव इत्यत्र बहुत्वमेव स्यात्तथा चोद्देश्यतावच्छेदकविधेययोरैक्ये जाते एकत्वादेः प्र स्पर्थेनान्वये आकाङ्क्षा न संभवतीति न संख्याबोधकत्वं किं तु साधुत्वार्थस्वमेव, एतच्च पूर्वमेव ( पृ. ६४ ) " एवमुद्देश्यतावच्छेदकविधेययोरैक्येन" इत्यत्र प्रतिपादितम् । नित्येति- यथा एकद्विबहुशब्देभ्यो जायमाना प्रथमा विभक्तिर्निरर्थकैव तथा नित्यबहुवच १२ Page #190 -------------------------------------------------------------------------- ________________ ( १७८ ) सादर्श: [ प्रथमाकारके hoपक्तिमात्रतात्पर्येण तादृशशब्दः प्रयुज्यते तत्र बहुत्वान्वये योग्यताविरहात् । यत्तु तद्गतगुणादिसाधारणबहुत्वस्य तत्रान्वय इति, तन्न शोभनम् प्रकृत्यर्थतावच्छेदकव्याप्यपर्याप्तिसंबन्धेनैवाऽनेक वृत्ति संख्यान्वयस्य व्युत्पन्नतया तादृशसंबन्धेन तथाविधबहुत्वान्वये योग्यताविरहात् । अन्यथा - उदासीनघटपटादिसाधारण बहुत्वस्याप्यन्वय संभवेन तद्गतगुणादिसाधारण बहुत्वानुधावनस्याडकेचित्करत्वात् । नान्ताऽबादिशब्दोत्तरवर्तमानमपि प्रथमाबहुवचनं क्वचिन्निरर्थकमेव यत्रैकजलव्यक्तितात्पर्येण < आपः ' इत्युच्यते तत्र प्रकृत्यर्थभूतैकजलव्यक्तौ बहुवचनार्थबहुत्वस्यान्वयासंभवादित्यर्थः । तादृशशब्दः आपः इतिशब्दः । आदिपदेन नित्यबहुवचनान्तदारादिपदं ग्राह्यम् । ननु आपः ' इत्यत्रैका जलव्यक्तिरनेकाश्च जलगतमाधुर्यादिगुणव्यक्तय इति मिलित्वा तत्र बहुत्वमस्येवेति तत्र प्रथमा बहुवचनार्थ बहुत्वस्यान्वये न योग्यताविरह इति नात्रादिशब्दोत्तर प्रथमाबहुवचनं निरर्थकमित्याशङ्कते - यत्विति । परिहरति- तन्नेति । परिहारहेतुमाह-प्रकृत्यर्थेति, अनेकवृत्तिसंख्यान्वयस्य = द्वित्वबहुत्वादिसंख्याया अन्वयस्तु प्रकृत्यर्थतावच्छेदक उद्देश्य-तावच्छेदकव्याप्यपर्याप्तिसंबन्धेनेत्र भत्रतीति पूर्वम् ( पृ० १३७ ) " उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तरेव संसगंतो वगमात् " इत्यनेन प्रतिपादितम् ' आपः ' इत्यत्र प्रकृत्यर्थता ( उद्देपता ) वच्छेदकं जलत्वमेव तथा च जलत्वव्याप्यत्र हुत्वपर्याप्तिर्जले एव संभवति न तु जलगत•गुणेष्वपीति तादृशसंबन्धेन जलस्त्रव्याप्यपर्याप्तिसंबन्धेन तथाविधबहुत्वान्वये = जलत्वव्याप्यपर्या. तिबहुलस्यामध्ये जलगत गुगानां योग्यता नास्ति - जलीयगुणेषु जलत्वाऽभावादिति नाऽपूशब्दोत्तरप्रथमात्रहुवचनार्थ दुवस्य जलेन सह जलीयगुणेष्वन्वयः संभवति येन प्रथमा-बहुवचनस्य निरर्थकत्वं न स्यादित्यर्थः । अन्यथा = यदि ' आपः इत्यत्र जलगतगुणवृत्तिसंख्यामादाय बहुत्वान्वयो युक्तः सात्तदा जलसमीपवर्तिघटपटादिवृत्तिसंख्यामादायापि घटपटादिसाधारगस्यापि बहुलस्य जलेऽन्त्रयसंभवाज्जलगतगुणादिसाधारणबहुखपर्यन्तानुधावनमपि · 6 सार्थमेव स्यात् न च आप: " इत्यन्त्र जले घटपटादिसाधारण बहुत्वस्यान्वयो युक्तस्तथा जलीयगुणसाधार गबहुत्वस्याप्यन्वयो न युक्त इति प्रथमाबहुवचनं निरर्थकमेवेत्यर्थः । एवम् दाराः इत्यादावपि बोध्यम् । C 6 > ननु आपः ' इत्यत्र न जलत्वमात्रावच्छिन्नः प्रकृत्यर्थो येन जलवव्याप्यायप्तिः संबन्धत्वेन तादृशसंबन्धेन जलीयगुणेषु बहुत्ान्वयोपपत्तिर्न स्यात् किं तु अजहत्स्वार्थलक्षणया= स्वार्थं जलमत्यक्त्वैव जल जलगतगुणो नयसाधारणो यस्तृशामकत्वादिरूपो धर्मस्तदवच्छिन्न एव प्रकृत्यर्थस्तथा च प्रकृत्यर्थ नावच्छेदक तृट्शामकत्वं तादृशतृट्शामकत्वव्याप्यबद्दुत्वपर्याप्तेर्जले इव जलगुणेष्वपि सत्व तृट्शामकत्वव्याप्यपर्याप्तिसंबन्वेन बहुत्वस्य जलजलगतगुणसाधारण्येना "Aho Shrutgyanam" ८ Page #191 -------------------------------------------------------------------------- ________________ ख्यातस्य संख्यार्थतावि ० ] व्युत्पत्तिवादः । ( १७९ ) अथाऽजहत्स्वार्थ लक्षणया गुणादिसाधारणधर्मावच्छिन्न एव प्रकृत्यर्थं इति चेत्, तर्हि बहुत्वेन भासमानेषु गुणादिष्वपि पदार्थान्तरान्वयः स्यात् तथा च 'आपो द्रव्याणि ' ' द्वारा अत्र गृहे सन्ति' इत्यादिवाक्यानामप्रमाणतापत्तिः- गुणादिषु द्रव्याभेदगृहवृत्तितादेर्बाधात् मुख्यार्थमात्रपरताहशशब्दानां बहुवचनान्ततानुपपत्तिश्चेति न किंचिदेतत् । अवादिपदार्थे एकत्वद्वित्वान्वय योग्यतासत्त्वेऽप्यसाधुत्वादेव तदुत्तरमेकवचनं न प्रयुज्यते इतिध्येयम् । 6 6 आख्यातैकवचनस्य संख्यार्थकत्वे विवदन्ते निष्कर्षानुसारिणः- ' वटोस्ति' न्वये न काचिदनुपपत्तिरिति न प्रथमाबहुवचनं निरर्थकमित्याशङ्कते - अथेति । परिहरतितति, एवं हि ' अनेकवृत्तिसंख्याया यावत्स्वन्वयो भवति तावत्स्यैव पदार्थान्तरस्यान्वयो भवति यथा अत्र वटौ स्तः' इत्यत्र द्वित्वाधिकरणघटद्वये एवैतदेशवृत्तित्वस्यान्वयो भवति इति पूर्वोक्त १५८ ) नियमेनात्रापि आशे द्रव्याणि इत्यत्र बहुत्वेन भासमानेषु बहुत्याधिकरणत्वेन भासमानेषु जलीयगुणेष्वपि द्रव्याभेदरूपपदार्थान्तरस्यान्वयः स्याद् न च द्रव्यगुणयोरभेदः संभवतीति जलगुणेषु द्रव्याभेदस्य बाधात् = बाधितत्वात् बाधितार्थप्रतिपादकत्वात् ' आपो द्रव्याणि इत्यस्याप्रामाण्यं स्यात् एवम्- दारा अत्र गृहे सन्तिं ' इत्यत्रापि बहुत्वाधिकरणत्वेन भासमानेषु दारगुणेष्वप्येतद्गृहवृत्तित्वरूपपदार्थान्तरस्यान्वयः स्यात् न च दारगुणेष्वेतद्गृहवृत्तित्वमस्तीति गृहवृत्तितादेर्बाधाद् बाधितार्थप्रतिपादकत्वात् ' दारा अत्र गृहे सन्ति ' इतिवाक्यस्याऽप्रामाण्यं स्याद् न च ' आपो द्रव्याणि दारा अत्र गृहे सन्ति इत्यादिवाक्यानामप्रामाण्यमिष्टमिति नात्र गुणादिसाधारणधर्माबल्छिन्नः प्रकृत्यर्थः किं तु जलत्वावच्छिन्नो दारत्वावच्छिन्नश्चेत्येकजलव्यक्तौ बहुत्वान्वयासंभवात् 'आपः ' इत्यत्र बहुवचनं निरर्थकमेवेत्यर्थः । एवम् ' दारा: ' इत्यत्रापि बोध्यम् । दोषान्तरमाह - मुख्यार्थेति, यदि 'आप' इत्यत्र बहुवचनार्थबहुत्वस्य गुणादिसाधारण्येनैवान्वयः स्यात्तदा गुणादिसहितजलबोधनतात्पर्ये सति बहुवचनोपपत्तावपि केवलजलमात्रप्रतिपादनतात्पर्ये सति मुख्यार्थपराणाम् = जलादिमात्रार्थप्रतिपादकानां तादृशशब्दानाम् = अबादिशब्दानां बहुवचनान्तत्वं नोपपद्येत - बहुत्वाश्रयीभूतजलीयगुणेषु तदानीं तात्पर्याभावादिति नेदं मतं शोभन मित्यर्थः । सिद्धान्तमाह- अबादीति, एकजलव्यक्तावेकत्वस्य जलव्यक्तिद्वये द्वित्वस्य चान्वययोग्यतायाः सत्त्वेनाऽबादिशब्दोत्तरमेकवचन द्विवचनयोः प्रयोगे यद्यप्यनुपपत्तिर्नास्ति तथापि असाधुत्वात् तदुत्तरम् - अबादिशब्दोत्तरमेकवचनं द्विवचनं च न प्रयुज्यते किं तु बहुवचनमेत्र, एवं दारपदेपि बोध्यम् । तथा चानुशासनम् - "आपः स्त्री भूम्नि" इति "भूम्नि दाराः" इति च । 最 " आख्यातेति निष्कर्ष:- सिद्धान्तः । घटोस्ति ' इत्यत्रैकत्वविशिष्टघटस्य बोधो भवतीति घ एकान्यार्थमेकत्वोपस्थितेरपेक्षास्तीत्येकत्वसंख्यार्थ कत्वमाख्यातैकवचनस्य वा स्वीकर्तव्यं "Aho Shrutgyanam" Page #192 -------------------------------------------------------------------------- ________________ सादर्श: [ प्रथमाकारकेइत्यादौ सुबेकवचनादेव संख्याबोधसंभवात् 'चैत्रेण दृष्टो घटः' इत्यादिस्थलानुरोधेन तस्य तद्बोधकताया आवश्यकत्वात् । न चैकवचनत्वेनाऽनुगतेनैकत्वशक्तत्वात् तिडेकवचनस्याप्येकत्ववाचकत्वमक्षतमिति वाच्यम्, एकवचनत्वस्यैकत्वशक्ततावच्छेदकतायाः प्रागेव निराकृतत्वात् । अस्तु वा तेन रूपेण तिडेकवचनस्याप्येकत्वे शक्तिस्तथापि तज्जन्यैकत्वोपस्थितेः शाब्दबोधोपयोगित्वे मानाभाव:- न हि सामान्यत एकवचनज्ञानजन्योपस्थितित्वेन तच्छाब्दबोधहेतुता संभवति तथा सत्येकत्वेऽगृहीतसुपदवृत्तिकस्य पुंस: सुपदप्रकृतिघटादिपदोपस्थाप्यघटादो पटादिपदोत्तराऽमादिपदोपस्थाप्यैकत्वाद्यन्वयबोधप्रसङ्गात्, किं तु सुपदत्वादिप्रकारकज्ञानजन्यतदुपस्थितित्वादिनैव तथा घटपदोत्तरप्रथमैकवचनस्य वा स्वीकर्तव्यमिति संशये ' चैत्रेण दृष्टो घटः ' इत्यत्राख्यातं तु नास्त्येव यस्य घटविशेषणीभूतैकत्वोपस्थापकत्वं स्यादिति तस्य-सुबेकवचनस्य ( प्रथमैकवचनस्य ) तद्बोधकताया:एकत्वसंख्याबोधकताया आवश्यकत्वात् “घटोस्ति । इत्यत्रापि सुबेकवचनस्यैवैकत्वबोधकत्वं युक्तं न त्वाख्यातैकवचनस्येत्यर्थः । 'चैत्रो मैत्रश्च गच्छतः' इत्यत्र चैत्रमैत्रयोविशेषणीभूतद्वित्वोपस्थापकं सुद्विवचनं तु नास्तीत्यत्राख्यातद्विचनस्यैव द्वित्वोपस्थापकत्वा. त्सार्थक्यमेव तथा 'चैत्रो मैत्रो देवदत्तश्च गच्छन्ति' इत्यत्राख्यातबहुवचनस्यैव बहुत्वोपस्थापकत्वात्सार्थक्यमेवेत्याऽऽख्यातेकवचनस्यैव संख्यार्थकत्वे विवादो न तु द्विवचनबहुवचनयोरितिभावः । ननु वाचकत्वं हि शक्त्यधीनमस्ति शक्तिश्च वाच्यवाचकयोरनुगतरूपाधीनास्ति यथा घटस्य घटत्वरूपेण वाच्यत्वं घटपदस्थ च घटपदत्वेन रूपेण वाचकत्वं तथाऽऽख्यातैकवचनस्याप्यऽनुगतेनैकवचनत्वरूपेणैकत्वे शक्तत्वं संभवतीति कथं नैकत्ववाचकत्वं स्यादित्याशङ्कयाह-न चेति । परिहरति- एकवचनत्वस्येति, एकवचनत्वस्य निरूपयितुमशक्यत्वादेव शक्ततावच्छेदकत्वं प्रागेव= ( पृ० १२३)" एकवचनत्वादेर्वचत्वात् " इत्यादिना निराकृतम्, नथा चाव्यातैकवचनं निरर्थकमेवेत्यर्थः ।। __ अभ्युपगम्याह- अस्तु वेति, तेन रूपेण एकवचनत्वेन रूपेणाख्यातेकवचनस्यैकत्वे शक्तिसत्त्वेपि तजन्यैकत्वोपस्थितेः आख्यातैकवचन ज्ञानजन्येकत्वोपस्थितेरेकत्वप्रकारककादिविशेष्यकशाब्दबोधोपयोगिन्वं न संभवतीत्यन्धयः । उक्तमुपपादयति- न हीति, यदि सामान्यत एकवचनज्ञानजन्यैकत्योपस्थितेस्तच्छाब्दबोधहेतुता एकत्वप्रकारकशाब्दबोधहेतुत्वं स्यात्तदा येन पुरुषेण सुपदस्यैकत्वे शक्तिर्न गृहीता तस्य 'घटोस्ति । 'पटं पश्य , इत्याकारकवाक्यद्वयश्रवणकाले धटपदोपस्थापितघटे पटपदोत्तराऽम्पंदोपस्थाप्यैकत्वस्याप्यन्वयबोधः स्यादेव- एकत्वोपस्थितेरेकवचनज्ञानजन्यत्वात्- अम्पदस्याप्येकवचनत्वात् , न चैवं पटपदोत्तराऽम्पदोपस्थितैकत्वस्य घटेऽन्वयो भवति किं तु · घटोस्ति । इत्यादौ स्वन्तघटपदोपस्थितघटे सुपदत्वादिप्रकारकज्ञानजन्यतदुपस्थितत्वादिनैव नाम सुपदत्वप्रकारकम् सुपदविषयकं यद् एकत्वं सुपदवाच्य "Aho Shrutgyanam' Page #193 -------------------------------------------------------------------------- ________________ आख्यातस्य संख्यार्थतावि० ] व्युत्पत्तिवादः । सति घटादिपदोत्तरसुपदत्वादिरूपानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानघटितायां घटादावेकत्वान्वयबोधस्य सामग्र्यां सुपदत्वादिप्रकारकधीजन्योपस्थितरेवान्तर्भावात तादृशापत्तेरनवकाशात् । एवं च तिबादिपदत्वमकारकज्ञानजन्योपस्थितित्वेन तच्छाब्दबोधहेतुत्वे मानाभाव इति । ___ यत्तु तिवादेः संख्यानभिधायकत्वे 'चैत्रः पचति तण्डुलम् ' ' चैत्रेण पच्यते तण्डुलः ' इत्यादौ कर्तृकर्मवाचकपदात् तृतीयाद्वितीययोरापत्तिः- कर्तृमित्याकारकं शक्तिज्ञानं तादृशशक्तिज्ञानजन्या या एकत्वोपस्थितिस्तादशोपस्थितित्वेनैव रूपेणैकत्योपस्थितेरेकत्वप्रकारकशाब्दबोधं प्रति हेतुता संभवति अर्थात् स्वन्तघटपदोपस्थितघटविशेष्यकैकत्वप्रकारकबोधं प्रति सुपदज्ञानजन्यैकत्वोपस्थितेरेव हेतुतास्ति स्वन्तघटपदोपस्थितघटे सुपदोपस्थितस्यैवैकत्वस्यान्वयस्वीकारात्, तथा सति तथा च घटादौ-स्वन्तघटपदोपस्थितघटे एकत्वान्वयबोधस्य या घटादिपदोत्तरसुपदत्वादिरूपानुपूर्वी विशेषरूपाकाङ्क्षाज्ञानवटिता सामग्री शाब्दबोधसामग्री तस्या सुपदत्वादिप्रकारकधीजन्यैकत्वोपस्थितेरैवान्तर्भावात्= स्वन्तघटपदोपस्थितघटविशेष्यकैकत्वप्रकारकशाब्दबोधं प्रति सुपदज्ञानजन्यकल्लोपस्थितेः कारणत्वमित्येवं कार्यकारणभावस्वीकारात् स्वन्तघटपदोपस्थितघटे सुपदोपस्थितैकत्वस्यैवान्वयो भविष्यति न त्वऽम्पदोपस्थितैकत्वस्यापीति न तादृशापत्तेः सुपदप्रकृतिघटादिपदोपस्थाप्यघटादौ पटादिपदोत्तराऽमादिपदोपस्थाप्यकत्वाद्यन्वयबोधापत्तेरवकाश इत्यर्थः । एवमिति- यदा हि स्वन्तघटपदोपस्थितघटे सुपदोपस्थितैकत्वस्यैवान्चयो भवतीति नियम; स्वीकृतस्तदा यथा स्वन्तधटपदोपस्थित. घटे अम्पदोपस्थितकत्वस्यान्वयो न भवत्येवमाऽऽख्यातैकवचनोपस्थितैकत्वस्याप्यन्चयो न भवतीति तिबादि ( आख्यात ) पदत्वप्रकारकज्ञान ( शक्तिज्ञान) जन्योपस्थितित्वेन रूपेणैक-स्वोपस्थितेस्तच्छाब्दबोधहेतुत्वे एकत्वप्रकारकशाब्दबोधहेतुत्वे प्रमाण नास्त्येव, तथा चाख्यातेकवचनस्यैकवचनत्वेन रूपेणकत्वे शक्तिस्वीकारेप्याख्यातेकवचनोपस्थितेकत्वस्थ घटादावन्वयो न भवतीत्याख्यातेकवचनस्य निरर्थकत्वमेव प्राप्तम्- आख्यातेकवचनोपस्थितैकत्वस्योपयोगाभावादित्यर्थः । यत्त्विति- आख्यातेकवचनस्य यद्येकत्वसंख्याभिधायकत्वं ( वाचकत्वम् ) न स्यात्तदा नैयायिकमते लकारस्य कर्तृकर्मवाचकत्वमपि नास्ति येन तदनभिधानस्य कऽनभिधानस्य कर्तृबाचकपदात् तृतीयानियामकत्वं स्याद् यथा-" चैत्रेण पच्यते । इत्यत्र तथा कर्मानभिधानस्य कर्मवाचकपदाद् द्वितीयानियामकत्वं स्याद् यथा-' तण्डुलं पचति । इत्यत्र, किं तु नैयायिकमते कर्तृकर्मगतसंख्यानभिधानस्यैव तृतीयाद्वितीयानियामकत्वमस्तीति कर्तृगतसंख्याया अनभिधान-आख्यातवाच्यसंख्यायाः कर्तरि अनन्वये हि " कर्तृकरणयोस्तृतीया " इतिसूत्रेण कर्तृवाचकपदात्तृतीया भवति यथा- 'चैत्रेण पच्यते तण्डुलः ' इति अत्राख्यातवाच्यसंख्यायाः कर्मभूततण्डुले एवान्वयो न तु कर्तृभूतचैत्रेपीति चैत्रपदात्तृतीया प्राप्ता, एवं कर्मगतसंख्याया "Aho Shrutgyanam" Page #194 -------------------------------------------------------------------------- ________________ ( १८२ ) सादर्श: [ प्रथमाकारके - कर्मगत संख्याया अनभिधाने "कर्तृकरणयोस्तृतीया" इति " कर्मणि द्वितीया"" इतिसूत्राभ्यां तयोरनुशासनात् । नैयायिकमते लकारस्य कर्तृकर्माऽवाचकतया वंदनभिधानस्य द्वितीया तृतीयानियामकत्वासंभवात् । C न च कर्त्रादिगतसंख्यानभिधानमेव कथं कर्त्रादिवाचकपदोत्तरतृतीयादिनियामकम् ' चैत्रेण पच्यते तण्डुलः ' इत्यादिस्थलोपे लकारस्य चैत्रादिगतसंख्याभिधायकत्वाद् एकत्वत्वादिना एकत्वादिसामान्य स्यैवैकवचनाद्यभिधेयत्वादिति वाच्यम्, यतस्तद्गतसंख्यानभिधायकत्वं प्रकृते न तद्गतसंख्यानिष्ठवृत्त्य - अनभिधाने=आख्यातवास्यसंख्यायाः : कर्मण्यऽनन्वये हि " कर्मणि द्वितीया " इतिसूत्रेण कर्मवाचकपदाद् द्वितीया भवति यथा- तण्डुलं पचति चैत्र: ' इति अत्राख्यातवाच्यसंख्यायाः कर्तृभूत चैत्रे एवान्त्रयो न तु कर्मभूततण्डुपीति तण्डुलपदाद् द्वितीया प्राप्ता. इत्येवं प्राप्ते यदि तिबादेः = भाख्यातैकवचनस्य संख्याभिधायकत्वं न स्यात्तदा ' चैत्रः पचति ' इत्यत्र कर्तृगतसंख्यानमिधानस्य तृतीयाप्रयोजकस्य सत्त्वात् चैत्रपदात्तृतीया प्राप्नुयात् न चात्र चैत्रपदात् तृतीया भवति ' चैत्रः पचति ' इत्यस्यैव साधुत्यात् 4 चैत्रेण पचति' इत्यस्याऽसाधुत्वाच्च, तथा चैत्रेण पच्यते तण्डुलः ' इत्यत्र कर्मगतसंख्यानभिधानस्य द्वितीयाप्रयोजकस्य सत्त्वात् तण्डुलपदाद् द्वितीया प्राप्नुयात् न चात्र तण्डुलपदाद् द्वितीया भवति तण्डुलः पच्यते इत्यस्यासाधुत्वादिति तित्रादेः संख्यावाचकव इत्यस्यैव साधुत्वात् ५ 'तण्डुलं प L " स्वीकार्य तथा च ' चैत्रः पचति ' इत्मत्राख्यातस्य कर्तृगतसंख्यावाचकत्वान्न तृतीया प्राप्ति:, ' तण्डुलः पच्यते ' इत्यत्र चाख्यातस्य कर्मगतसंख्यावाचकत्वान्न द्वितीयापत्तिरित्यर्थः । ' ननु कर्तृगतसंख्यानभिधानमपि न कर्तृवाचकपदात्तृतीयानियामकं तथा कर्मगत संख्यानभिधानं च न कर्मवाचकपदाद् द्वितीयानियामकं संभवति अन्यथा यथा ' चैत्रः पचति ' इत्यन्त्राख्यातस्य कर्तृगतसंख्याभिधायकत्वमस्ति तथा चैत्रेण पच्यते तण्डुलः ' इत्यत्राप्याख्यातस्य कर्तृगतसंख्याभिधायकत्वं स्यादेव - उभयत्राख्यातस्य समानरूपत्वेन विशेषाभावादिति ' चैत्रेण पच्यते ' इत्यत्राख्यातस्य कर्तृगतसंख्याभिधायकत्वे प्राप्ते चैत्रपदात् तृतीया न स्यात् - भवति चात्र कर्तृगतसंख्यानमिचानेऽसत्यपि तृतीयेति न कर्तृगतसंख्यानभिधानं तृतीयाप्रयोजकम्, तथा ' तण्डुलं पचति इत्यत्राख्यातस्य कर्मगतसंख्याभिधायकत्वात् कर्मगतसंख्यानमिधाने असत्यपि द्वितीया भवतीति न कर्मगतसंख्यानभिधानं द्वितीयाप्रयोजक मित्यभिप्रायेणाशङ्कते— न चेति । आख्यातस्य संख्याभिधायकत्वे हेतुमाह-- एकत्वत्वादिनेति, सामान्यरूपेणैकत्वस्यैकववनवाच्यत्वे प्राप्ते सुबे कवचनस्यैकत्ववाचकत्वमस्त्याऽऽख्यातैकवचनस्यैकत्ववाचकत्वं नास्तीत्यत्र नियामकाभावादित्यर्थः । परिहरति- यत इति, प्रकृते = तण्डुलं पचति 'चैत्रेण पच्यते # इत्यादौ तद्गत ( कर्तृकर्मगत ) संख्यानभिधायकत्वं न तद्गतसंख्यानिष्ठवृत्त्यनिरूपकत्वम् = संबम्यविशेषेण कर्तुकर्मगत संख्या निष्ठा या वृत्तिः = शक्तिस्तदऽनिरूपकत्वं यत आख्यातैकवचनस्य "Aho Shrutgyanam" · Page #195 -------------------------------------------------------------------------- ________________ ख्यातस्य संख्यार्थतावि० 1 व्युत्पत्तिवादः । ( १८३ ) निरूपकत्वम् अपि तु तद्विशेष्य कसंख्याप्रकारकशाब्दबोधाऽननुकूलत्वमेव तथा च कर्त्रादिविशेष्यक संख्यान्वयबोधाजनकलकारादिसमभिव्याहृतकर्त्रादिवाचकपदात् तृतीयादयो भवन्तीत्यत्रैतदनुशासनतात्पर्यम् । $ चैत्रेण पच्यते ' तण्डुलः इत्यादी चैत्रादिविशेष्यकसंख्यान्वयबोधकत्वं नाख्यातस्य, आख्यातार्थभावनाया यत्रान्वय स्तद्विशेष्यक संख्यान्वयबोधस्यैवाख्यातेन जननात् तादृशभावनान्वयबोधे विशेष्यश्च प्रथमान्तपदोपस्थाप्य एव । कर्तृगतकर्मगतसंख्यानिष्ठवृत्तिनिरूपकत्व पेवास्तीति उक्तरूपाऽनिरूपकत्वरूपसंख्यानभिधानस्याख्यातेऽभावात् कर्तृपदात्तृतीया कर्मपदाद् द्वितीया च न स्यादेव भवति च तृतीया द्वितीयेति तद्गतसंख्यानभिधायकत्वं हि तद्विशेष्यकसंख्याप्रकार कशाब्दबोधाननुकूलत्वमेवेति ( शाब्दबोधाजनकत्वमेव ) उच्यते तथा च इतिसूत्रस्य ' कर्तृविशेष्यकसंख्याप्रकारकबोधाऽजनकलकारेण सह समभिव्याहृत कर्तृवाचकपदात् तृतीया भवति इत्यर्थस्तथा च ' चैत्रेण पच्यतेः' इत्यत्र लकारेण = लकारस्थानीयतिपा कर्तृविशेष्य कसंख्याप्रकारक - बोधो न जन्यते किं तु कर्मविशेष्यकसंख्याप्रकारक एवं बोधो जन्यते इत्येतादृशलकारसममिव्याहृत कर्तृवाचक चैत्रपदात्तृतीया भवति, एवम् " कर्मणि द्वितीया " इतिसूत्रस्य 'कर्मविशेष्यकसंख्याप्रकारकबोधाजनकलकारेण सह समभिव्याहृत कर्मवाचकपदाद् द्वितीया भवति इत्यर्थस्तथा च ' तण्डुलं पचति' इत्यत्र लकारेण = लकारस्थानीयतिपा ' कर्मविशेष्य कसंख्याप्रकारकबोधो न जन्यते किं तु कर्तृविशेष्य कसंख्याप्रकारक एव बोधो जन्यत इत्येतादृशलकारसमभिब्याहृतकर्मवाचकतण्डुलपदाद् द्वितीया भवतीति सर्वे समञ्जसं तस्मादाख्यातैकवचनस्यापि संख्यावाचकत्वं युक्तमेवेत्यर्थः । संख्यानिष्ठवृत्तीति यदुक्तं तत्र वृत्तेर्वाच्यनिष्टत्वं शक्तिवादेऽस्मदीतट्टीकायां वा द्रष्टव्यम् । किं चार्थविशेष्यकशक्तेराश्रयत्वसंबन्धेनार्थनिष्ठत्वं भवतीति तथात्रापि बोध्यम्, पदविशेष्यकशक्तेश्चार्थनिष्ठत्वं शक्तिवादोक्तपरम्परासंबन्धेन बोध्यम् । एतदनुशासनस्य = " कर्तृकरणयोस्तृतीया " कर्मणि द्वितीया " इत्यनुशासनद्वयस्य । 'कर्त्रादिविशेषषकसंख्यान्वयबोधाजन कलकारादिसमभिव्याहृत कर्तृवाचकपदात् तृतीया भवति' इत्यनेनानुशासनतात्पर्येण किं प्राप्तमित्याह- चैत्रेणेति, 'चैत्रेण पच्यते तण्डुलः' इत्यत्राख्यातस्य कर्मभूततण्डुलविशेष्यक संख्याप्रकारकान्वयबोधजनकत्वादेव कर्तृभूतचेत्रविशेष्यकसंख्या प्रकारकावयबोधजनकत्वं नास्तीत्यत्र कर्तृविशेष्यक संख्यान्वयबोधाऽजनकलकारेण सह चैत्रपदं सम• मिव्याहृतमस्तीति चैत्रपदात्तृतीया प्राप्ता । अत्राख्यातस्य चैत्रविशेष्यक संख्शन्वयाऽबोधकत्वे हेतु - माह - आख्यातार्थेति, आख्यातार्थ भावनाया यत्रान्वयो भवति तद्विशेष्यक संख्यान्वयबोध एवाख्यातेन जन्यते " भावनान्वयिनि संख्यान्वयः " इतिनियमात् तादृशभावनान्वयबोधे आख्यातार्थ भावनान्वयबोधे च प्रथमान्तपदोपस्थाप्य एवं विशेष्यो भवति तस्मात् प्रथमान्तपदोपस्थाप्ये 17 :: ' कर्तृकरणयोस्तृतीया "Aho Shrutgyanam" 39 Page #196 -------------------------------------------------------------------------- ________________ ( १८४ ) सादर्श: [ प्रथमा कारके - चैत्रः पचति तण्डुलम् इत्यादौ चैत्रादिः साक्षादेव भावनाविशेष्यः । चैत्रेण पच्यते तण्डुलः ' इत्यादौ तु परम्परया, चैत्रादिनिष्ठ भावनाजन्यफलशाली तण्डुल इत्याकारकबोधस्यैव तत्रोदयात् । तस्मात्तिवादेरपि संख्याबोधकत्वमावश्यकमिति । 6 तन्न विचारसहम् - तथा हि कर्त्रादिनिष्ठसंख्यान्वयबोधान नुकूलत्वं यदि तादृशबोधोपधायकज्ञानविषयत्वाभाववत्त्वं तदा यादृशतिवादिज्ञानेन सहकार्य - न्तरविरहात् तादृशबोधो न जनितस्तयोगे तृतीयाद्यापत्तिः । यादे च तादृशएव भावनायाः संख्यायाश्चान्वयो जायते इति चैत्रेण पच्यते तण्डुलः इत्यत्र प्रथमान्ततण्डुलपोपस्थाप्यतण्डुलस्यैव विशेष्यत्वात् तत्रैव भावनायाः संख्यायाश्चान्वयो जायते इत्याख्यातेनात्र तण्डुलविशेष्यक संख्यान्वयबोधजननात् चैत्रविशेष्यकसंख्यान्वयबोधाऽजननाच्च चैत्रपदात् तृतीया प्राप्तेत्यर्थः । एवम् ' चैत्रः पचति तण्डुलम् ' इत्यत्र प्रथमान्त चैत्रपदोपस्थाप्यस्वात् चैत्रस्यैव विशेष्यत्वमिति तत्रैव भावनायाः संख्यायाश्चान्वय इत्यन्त्राख्यातेन चैत्रविशेष्यकसंख्यान्वयबोधजननात् तण्डुलविशेष्यकसंख्यान्वयबोधाऽजननाच्च तण्डुलपदाद् द्वितीया जीती ननु ' तण्डुलः पच्यते ' इत्यत्र तण्डुलस्य कथं भावनाविशेष्यत्वं येन तत्र संख्यान्वयः स्यादित्याशङ्कयाह - चैत्र इति, 'चैत्रः पचति ' इत्यत्र चैत्रत्य तु साक्षादेव भावनाविशेष्यत्यमस्ति - साक्षादेव भावनाश्रयत्वात्, ' चैत्रेण पच्यते तण्डुलः ' इत्यत्र तण्डुलस्य तु परपरये भावनाविशेष्यत्वम्- भावनायाः साक्षात्संबन्धेन चेतननिष्ठत्वनियमात् । तण्डुलस्य. परम्परया भावना विशेष्यत्वे शाब्दबोधस्वरूपमाह - चैत्रादीति, चैत्रनिष्ठभावनाजन्यफलशालित्वमेवात्र तण्डुलस्य भावनाविशेष्यत्वमस्तीत्यर्थः किं वा तण्डुलस्य स्वजन्यफलश भावनाश्रयत्वाद् भावनाविशेष्यत्वं विज्ञेयम्, स्वं भावना | उपसंहरति-तस्मादिति यस्मात्तिबादेः संख्यानभिधायकत्वे उक्तरीत्या तृतीयाद्वितीययोर्व्यवस्था नोपपद्यते तस्मात् तिबादेः =भाख्यातैकवचनस्यापि संख्याबोधकत्वमवश्यं स्वीकार्यमित्यर्थः । L , 3 इ • 7 यत्वित्यादिना प्रतिपादितं परिहरति- तन्नेति । कर्त्रादिनिष्ठसंख्यान्वयबोधाननुकूलत्वमितितृतीयाप्रयोजकं कर्तृविशेष्यक संख्या प्रकार कशाब्दबोधाननुकूलत्वं यदुक्तं तत् किं स्वरूपम् ? यदि तादृशबोधोपधायकज्ञानविषयत्वाभाववत्त्वम् = अर्थात् तादृशबोध: कर्तृ विशेष्यकसंख्याप्रकारकबोधः, तादृशबोधोपधायकम् कर्तृविशेष्यकसंख्याप्रकारक बोधरूपफलजनकं यज्ज्ञानं तिब्बि षयकज्ञानं तादृशज्ञानविषयत्वाभाववत्त्वमेव यदि कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधाननुकूलत्वं सदा यथा ' चैत्रेण पच्यते ! इत्यत्र चैत्रविशेष्यकसंख्याप्रकार कत्रोधस्तिज्ञानेन न जन्यते इति चैत्रविशेष्यक संख्याप्रकारकबोधजनकज्ञानविषयत्वाभाववत्त्वं तिपोस्तीति चैत्रपदात् तृतीया भवति तथा यदा तिब्ज्ञानेन ' चैत्रः पचति ' इत्यत्र सहकार्यन्तरविरहात् = ' तिबेकवचनमेकत्वे शक्तम् ' इत्याकारकशक्तिज्ञानादिलक्षणसहकारिविरहात् तादृशबोध: - चैत्रविशेष्यक संख्याप्रकार "Aho Shrutgyanam" Page #197 -------------------------------------------------------------------------- ________________ आख्यातस्य संख्यार्थताविवादः] व्युत्पत्तिवादः । ( १८५) बोधस्वरूपयोग्यज्ञानविषयत्वाभावस्तदा यगादिसमभिव्याहतात्मनेपदादिज्ञानस्यापि तादृशबोधस्वरूपयोग्यत्वात् । तत्स्वरूपयोग्यज्ञानाविषयतिबाख्यातस्यैवाऽप्रसिद्ध। अथ कादिविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकविषयित्वानिरूपकत्वमेव तादृशबोधाननुकूलत्वम् ' चैत्रः पचति ' इत्याकबोधो न जनितस्तदा तद्योगे एतादृशतिब्योगे • चैत्र: पचति । इत्यत्र चैत्रपदाद् तृतीयापत्तिः स्यादेव- यतोत्र तिज्ञानेन चैत्रविशेष्यकसंख्याप्रकारकबोधो न जनित इति तिपश्चैत्रवि. शेष्यकसंख्याप्रकारकबोधाजनकज्ञानविषयत्वात् चैत्रविशेष्यकसंख्याप्रकारकबोधोपधायकज्ञानविषयत्वाभाववत्त्वमस्त्येव, शक्तिज्ञान विना बोधो न जायते इति तस्य सहकारित्वं तदुक्तम्-“शक्तिधीः सहकारिणी" इति । संख्याप्रकारकज्ञानं तिप्पदज्ञानेन जन्यते इति तिप्पदबामविषयत्वं विध तदुक्तम्- " पदज्ञानं तु करणम्" इति, 'चैत्रः पचति ' इत्यत्र उक्तसहकारिसत्त्वे तु चैत्रविशेष्यकसंख्याप्रकारकबोधस्तिज्ञानेन जन्यते इति तिपश्चैत्रविशेष्यकसंख्याप्रकारकबोधोपधायक बोधरूपफलजनक ) ज्ञानविषयत्वं विज्ञेयम् । द्वितीयकरुपमाह- यदि चेति, तादृशबोधस्वरूपयोग्यज्ञानविषयत्वाभावः = कर्तृ विशेष्यकसंख्याप्रकारकबोधजननविषयकस्वरूपयोग्यताविशिष्टज्ञानविषयत्वाभाववत्त्वमेव यदि कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधाननुकूलत्वं तदा यक्समभिव्याहतात्मनेपद ( ते ) ज्ञानस्यापि तादृशबोधस्वरूपयोग्यत्वात् कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधजननानुकूलस्वरूपयोग्यतालक्षणकारणताविशिष्टत्वाद् यक्सममिव्याहृतात्मनेपदस्य चैतादृशज्ञानविषयत्वादेवाऽत्मनेपदे तादृशबोधस्वरूपयोग्यज्ञानविषयत्वाभाववत्त्वस्य तृतीयाप्रयोजकस्याऽभानाद 'चैत्रेण पच्यते' इत्यत्रापि चैत्रपदात् तृतीया. न स्यादेपेत्यर्थः । संख्यामकारकशाब्दबोधजनकतावच्छेदकं हि एकवचनत्वं वा तित्वं वा वाच्यं तत्तु यक्समभिव्याहृतात्मनेपदेप्यस्त्येवेति तद्विषयकज्ञाने संख्याप्रकारकशाब्दबोधजननानुकूलस्वरूपयोग्यता त्वस्त्येव यमादिसमभिव्याहाररूपप्रतिबन्धकवशात् शाब्दबोधरूपं फलं न जन्यते इतिभावः । उक्ते हेतुमाह-- तत्स्वरूपेति,कादिविशेष्यकसंख्याप्रकारकशाब्दबोधजननानुकूलस्वरूपयोग्यता विशिष्टज्ञानाविषयस्तिबाख्यातमेव प्र. सिद्ध नास्ति येन तादृशबोधस्वरूपयोग्यज्ञानाविषयत्वं तृतीयाप्रयोजकं स्यादित्याक्षेपः । " ताहशबोधस्वरूपयोग्यत्वात् " इत्यस्याने ' चैत्रेण पच्यते इत्यादावपि तृतीया न स्यात् तण्डुलं पचवस्यादावपि द्वितीया न स्यात् ' इतिपाठशेषः । __ अथेति- ननु कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधाननुकूलत्वं न उक्ततादृशबोधोपधायकज्ञानविषयत्वाभाववत्त्वं वा उक्ततादृशबोधस्वरूपयोग्यज्ञानविषयत्वाभाववत्त्वं वा येनोक्तरीत्या 'चैत्र: पचति । इत्यत्र तृतीयापत्तिः स्यात्तथा ' चैत्रेण पच्यते' इत्यत्र तृतीयानुपपत्तिः स्यात, किंतु तादृशबोधाननुकूलत्वम् कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधाननुकूलत्वं हि कादिविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकविषयित्वानिरूपकत्वमित्युच्यते. यथा "Aho Shrutgyanam" Page #198 -------------------------------------------------------------------------- ________________ (१८६) सादर्श: [प्रथमाकारकेदिवाक्यघटकतिबादिविषयिता चैत्रादिविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नज. न्यतानिरूपितजनकतावच्छेदिका- तादृशान्वयबुद्धित्वावच्छिन्नं प्रति चैत्रादिपदसमभिव्याहृततिवादिपदज्ञानस्य हेतुत्वात् । 'चैत्रेण पच्यते तण्डुलः ' इत्यादिवाक्यघटकतादिपदविषयितां च न तादृशी- चैत्रादिपदसमभिव्याहृतताह शपदज्ञानत्वेन तादृशबुद्धित्वावच्छिन्नं प्रत्यहेतुत्वात् । 'चैत्रः पचति । इत्यत्र कर्तृविशेष्यकसंख्यान्वयबुद्धिः ( शाब्दबोधः ) तिबज्ञानेन जन्यते एतादृशबुद्धौ बुद्धित्वमप्यस्ति जन्यताप्यस्तीत्येतादृशबुद्धित्वावच्छिन्ना या एतादृशबुद्धिनिष्ठा जन्यता तादृशजन्यतानिरूपिता या तिबज्ञाननिष्ठा जनकता तादृशजनकतावच्छेदकं यद्विषयित्वं तिब्ज्ञाने जनकताया विषयित्वस्य च सत्त्वात् जनकताया अवच्छेदकं विषयित्वं जातं तादृशविषयित्वस्य निरूपकत्वं तित्रि वर्तते ज्ञानविषयस्यैव ज्ञानीयवियितानिरूपकत्वादिति अत्र चैतादृशतिज्ञानस्यैव कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधजनकत्वमस्तीति नात्र तृतीयायाः प्राप्तिः, एतादृशविषयित्वानिरूपकत्वं च ' चैत्रेण पच्यते । इत्यत्रात्मनेपदेऽस्त्येवेति तत्र कर्तृवाचकपदात् तृतीया प्राप्तेति न कोपि दोष इत्यर्थः । एतदेव स्वयमप्याह- चैत्र इत्यादिना, चैत्रः पचति । इत्यादिवाक्यवटकं यत् तिप्पदं ताशतिप्पदनिष्ठविषयतानिरूपिता या तिप्पदज्ञाननिष्ठा विषयिता साऽत्र चैत्रविशेष्यकसंख्यान्वयबुद्धि : संख्याप्रकारकबुद्धि ) त्यावच्छिन्नजन्यतानिरूपिता या तिप्पदज्ञाननिष्ठा जनकता तस्या अवच्छेदिकास्ति. एतादृशजनकतावच्छेदकोभूतविषयितायाश्चात्र तिबि निरूपकत्वमेवास्ति नाऽनिरूपकत्वमिति न चैत्रपदात्तृतीयापत्तिरित्यर्थः, उक्ततिबादिविषयिताया उक्तजनकतावच्छेदकत्वे हेतुमाह- तादृशेति, यतः- तादृशान्वयबुद्धित्वावच्छिन्नम् चैत्रविशेष्य-: कसंख्याप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति चैत्रादिपदसमभिव्याततिबादिपदज्ञानस्य हेतुत्वमस्ति. अतः उक्तशाब्दबोधजनकतिबादिविषयकज्ञाननिष्ठ जनकताया तिबादिज्ञाननिष्ठा विपयितात्रावच्छेदिका जातेत्यर्थः । चत्रेणेति- 'चत्रेण पच्यते तण्डुलः' इतिवाक्यघटकं यदात्मनेपदं ते इति पदं तनिष्ठविषयतानिरूपिता या तेपदविषयकज्ञाननिष्ठा विषयिता सा तु तादृशी-चैत्रविशेष्यकसंख्याप्रकारकशाब्दबुद्धित्वावच्छिन्नजन्यतानिरूपिता या तेपदज्ञाननिष्ठा जनकता तादृशजनकताया अवच्छेदिका न- अत्र चैत्रविशेष्यकसंख्याप्रकारकबोधस्याऽजायमानत्वेन तेपदज्ञाने चैत्रविशेष्यक: संख्याप्रकारकबोधजनकतैव नास्ति येन तेपदज्ञाननिष्ठा विषयिता जनकतावच्छेदिका स्यात्. तथा चोक्तजनकतावच्छेदकविषयिताया निरूपकत्वम् 'चैत्रः पचति । इतिवाक्यघटकतिवि वर्तते अनिरूपकत्वं च ' चैत्रेग पच्यते ' इतिवाक्यघटकात्मनेपदे वर्तते इत्यत्र चैत्रपदात्तृतीया प्राप्ता. अत्र तेपदज्ञानस्य कर्मविशेष्यकसंख्याप्रकारकशाब्दबोधजनकत्वादित्यर्थः । न तादृशीत्यत्र हेतुमाह- चैत्रादीति, ' चैत्रेण पच्यते । इत्यत्र चैत्रादिपदसमभिव्याहृततादृशपदज्ञानत्वेनचत्रपदसमभिव्याहृतात्मनेपदज्ञानस्य तादृशबुद्धिवावच्छिन्नम्:-चैत्रविशेष्यकसंख्याप्रकारकशान्दबुद्धित्वावच्छिन्नं प्रत्यऽहेतुत्वात् । यद्यत्र तेपदज्ञानस्य हेतुत्वं • स्यात्तदा तेपदज्ञाननिष्ठविवक्षित "Aho Shrutgyanam" Page #199 -------------------------------------------------------------------------- ________________ आख्यातस्य संख्यार्थताविवादः ] व्युत्पत्तिवादः । (१८७ ) L न च चैत्रः पचत ' इत्यादी चैत्रविशेष्यकाख्यातार्थ संख्यान्वयबोधोत्पत्त्या चैत्रादिपदसमभिव्याहततादिपदज्ञानत्वेन तादृशान्वयबुद्धित्वावच्छिन्नegasadaति 'चैत्रेण पच्यते ' इत्यादिवाक्यघटकीभूततादिपदविषयितापि तादृश्येवेति वाच्यम्, 'चैत्रेण पवेत ' चैत्रः पच्यते ' इत्यादिवाक्याच्चैत्रादिविशेष्यकस्य भावनायाः संख्यायाश्चान्वयबोधस्यानुदयात् । तद्विशेष्यकतदुभयान्वयबोधे प्रथमान्त चैत्रादिपदसमभिव्याहृतशबादिविकरणोत्तरतत्तदाख्यातपदज्ञानत्वेन हेतुत्वात् ' चैत्रेण पच्यते तण्डुलः ' इत्यादिवाक्यघटकतादीनां जनकतायास्तेपदज्ञाननिष्ठा विषयिता अवच्छेदिका स्यादपि तथाच तादृशजनकतावच्छेदकीभूतविषयिताया निरूपकत्वमात्मनेपदे प्राप्नुयादित्यत्र तृतीयानुपपत्तिः स्यादपि न चैत्रमस्तीत्यर्थः । , ननु ' चैत्रः पचते ' इत्यत्रात्मनेपदज्ञानेनापि चैत्र विशेष्यकाख्यातार्थ भूतसंख्याप्रकारकशादबोधो जायत एवेति चैत्रादिपदसमभिव्याहृततादिपद ( आत्मनेपद ) ज्ञानस्य तादृशान्वयबुद्धित्वावच्छिन्नहेतुता-चैत्रविशेष्य कसंख्या प्रकार कशाब्दबोधहेतुताऽस्त्येवेति 'चैत्रेण पच्यते ' इत्यादि -- वाक्यघटकीभूततादिपदविषयिता = इत्यादिवाक्यघटकात्मनेपद निष्ठविषयतानिरूपिता याऽऽत्मनेपदज्ञाननिष्ठा विषयिता सापि तादृश्येव - चैत्रविशेष्यकसंख्याप्रकार कशाब्दबुद्धित्वावच्छिन्न जन्यतानिरूपितजनकतावच्छेदिकैवेति तादृशजनकतावच्छेदकीभूतविषयिताया निरूपकत्वमेवात्रात्मनेपदे प्राप्तं नाऽनिरूपकत्वम्-उक्तशाब्दबोध जनकात्मनेपदज्ञाननिष्ठ विषयितायास्तद्विषयीभूतात्मनेपदनिरूपितत्वादेवेति ' चैत्रेण पच्यते ' इत्यत्र तृतीया न स्यादेवेत्याशङ्कते - न चेति । परिहरतिचैत्रेणेति । यदि चैत्रादिपदसमभिव्याहृतात्मनेपदज्ञानस्य चैत्रविशेष्यक संख्याप्रकारकशाब्दबोध 'वजनः कत्वं स्यात्तदा 'चैत्रेण पचते' 'चैत्रः पच्यते' इत्यादिवाक्यादपि चैत्रविशेष्यको भावनाप्रकारकःसंख्याप्रकारकश्च शाब्दबोधः स्यादेव - अत्रापि चैत्रपदसमभिव्याहृतात्मनेपदज्ञानस्य सत्त्वात्, न चैत्रं भवति तस्मान्न चैत्रविशेष्यकाख्यातार्थसंख्यामकारकशाब्दबोधं प्रति चैत्रपदसमभिव्याहृतात्मनेपदमात्रज्ञानस्य हेतुत्वं किं तु प्रथमान्तचैत्रपदसमभिव्याहृतं शबादिविकरणोत्तरं च यत् तत्तदाख्यातपदम् = आत्मनेपदं वा परस्मैपदं वा तज्ज्ञानस्य हेतुत्वमस्ति तथा च ' चैत्रः पचति ' ' चैत्रः पचते ' इत्यादावाख्यातस्य शत्रादिविकरणोत्तरत्वात् तादृशाख्यातज्ञानेन चैत्रविशेष्यकसंख्या प्रकार कशाब्दबोधो जायते, 'चैत्रेण पच्यते' इत्यत्र चात्मनेपदस्य यगुत्तरत्वेन शचादिविकरयोत्तरत्वाभावान्नैतादृशात्मनेपदज्ञानेन चैत्रविशेष्य कसंख्याप्रकारकशाब्दबोधो जायते इति नोकतादिपदविषयिता=आत्मनेपदज्ञाननिष्ठविषयितापि तादृशी चैत्र विशेष्य कसंख्याप्रकारकशाब्दबुद्वित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदिका येनात्र तृतीयानुपपत्तिः स्यादित्यर्थः, तद्विशेष्यकतदुभयान्वयबोधे = चैत्रादिकर्तृविशेष्यकभावनाप्रकारकसंख्या प्रकारक बोधे । स्वयमपि व्यतिरेकमाह - चैत्रेणेति । तादीनाम् = आत्मनेपदस्य । तादृशसमभिव्याहारादिशून्यतया = शबा दिविकरणसमभिव्याहारशून्यतया । तद्विषयिताया: ' चैत्रेण पच्यते इत्यत्रात्मनेपदज्ञाननिष्ठविषयि "Aho Shrutgyanam" Page #200 -------------------------------------------------------------------------- ________________ (१८८) सादर्शः [प्रथमाकारकेतादृशसमभिव्याहारादिशून्यतया तद्विषयिताया अतादृशत्वात् । _ 'चैत्रः पक्ष्यते ' इत्यादितः तण्डुलः पक्ष्यते' इत्यादितश्च चैत्रतण्डुलादिविशेष्यकसंख्यान्वयबोधोत्पत्त्या 'चैत्रः पक्ष्यते तण्डुलः' इत्यत्रोभयविशेष्यकसंख्यान्वयबोधीपयिकतादृशसमभिव्याहारज्ञान विषयितायाः पक्ष्यते' इत्यादौ सत्त्वेन कर्तृकर्मणोस्तृतीयाद्वितीययोरप्रसक्तावपि न तादृशवाक्यं व्युत्पन्नाः प्रयुञ्जते- कर्तरि साक्षात् कर्मणि च दर्शितपरम्परया युगपद्भावनाविशेषणकातायाः । अताशत्वात् चैत्रादिविशेष्यकसंख्याप्रकारकबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकताऽनवच्छेदकत्वात् । तथा च 'चैत्रेण पच्यते । इत्यत्रोक्तजनकतावच्छेदकीभूतविषयिताया आत्मनेपदेऽनिरूपकत्वमेवोक्तरीत्यास्तीति न तृतीयानुपपत्ति:-शबादिविकरणोत्तराख्याते एवो. क्तविषयितानिरूपकत्वस्य संभवादित्यर्थः ।। ___ प्रसङ्गेनाह-चैत्र इति, 'चैत्रः पक्ष्यते ' इति कर्तरि लूटः प्रयोगः, अत्र प्रथमान्तचैत्रपदसममिव्याहृतं स्यविकरणोत्तरात्मनेपदाख्यातमस्तीति चैत्रविशेष्यकसंख्याप्रकारकबोधो जायते, तण्डुलः पक्ष्यते । इति कर्मणि लुटः प्रयोग इतियविकरणोत्तराख्यातज्ञानेन कर्मविशेष्यकसंख्याप्रकारकबोधो जायते अत्र च प्रथमान्ततण्डुलपदसमभिव्याहृतं यविकरणोत्तरात्मनेपदाख्यातमस्तीति तण्डुलविशेष्यकसंख्याप्रकारकबोधो जायते तथा च पक्ष्यते ' इत्याकारकपदसमभिव्याहारे चैत्रविशेष्यकसंख्याप्रकारकबोधस्य तथा तण्डुलविशेष्यकसंख्याप्रकारकबोधस्य च योग्यतास्त्येवेत्युभयविशेष्यकसंख्याप्रकारकशाब्दबोधार्थम् — चैत्र पक्ष्यते तण्डुलः । इतिप्रयोगः स्थादेव-उभयविशेष्यकसंख्यान्वयबोधौपयिकं यत्समभिव्याहारज्ञानम् प्रथमान्तचैत्रतण्डुलपदसममिव्याहतपक्ष्यतेपदसमभिव्याहारज्ञानं तादृशसमभिन्याहारज्ञाननिष्ठाविषयिता निरूपकत्वसंबन्धेन तेइत्यात्मनेपदेऽत्र वर्तते एव विषयस्य ज्ञाननिष्ठविषयितानिरूपकत्वेन ज्ञाननिष्ठविषयिताया निरूपकत्वसंबन्धेन विषये सत्त्वादत्रोक्तसमभिव्याहारज्ञानं तेइत्यात्मनेपदविषयकमेवेति उक्तसमभिव्याहारज्ञाननिष्ठाविषयिता तेइत्यात्मनेपदे वर्तते तथा चात्राख्याते चैत्रविशेष्यकसंख्याप्रकारकशाब्दबोधजनकज्ञाननिष्ठजनकतावच्छेदिकीभूतविषयिताया निरूपकत्वमेवास्ति न तु तृतीयाप्रयोजकमनिरूपकत्वमिति न चैत्रपदादत्र तृतीयाप्रसक्तिः, तथा प्रथमान्ततण्डुलपदसमभिव्याहूतपक्ष्यतेपदज्ञानस्य तण्डुलविशेष्यकसंख्याप्रकारकशाब्दबोधजनकत्वादत्राख्याते तण्डुलविशेष्यकसंख्याप्रकारकशाब्दबोधजनकोक्तज्ञाननिष्ठ जनकतावच्छेदकीभूतविषयिताया अपि निरूपकत्वमेवास्ति न तु द्वितीयाप्रयोजकमनिरूपकत्वमिति न तण्डुलपदादत्र द्वितीयाप्रसक्तिः. इत्येवंरीत्योभयविशेष्यकसंख्यान्वयबोधार्थम् ' चैत्रः पक्ष्यते तण्डुलः । इतिप्रयोगस्य साधुत्वेपि प्राप्ते नैता. दृशवाक्यं व्युत्पन्नाः प्रयुञ्जते--- पक्ष्यते । इत्यस्य कर्तरि लूटः प्रयोगत्वे तण्डुलपदाद् द्वितीया स्यादेवेति प्रथमान्ततण्डुलपदस्यात्राऽसाधुत्वात. कर्मणि लुटः प्रयोगत्वे च चैत्रपदात्तृतीया स्यादेवेति प्रथमान्तचैत्रपदस्याऽसाधुत्वादित्यर्थः । 'चैत्रः पक्ष्यते तण्डुलः' इतिवाक्यस्याऽप्रयोगे "Aho Shrutgyanam" Page #201 -------------------------------------------------------------------------- ________________ आख्यातस्य संख्यार्थताचित्रादः ] व्युत्पत्तिवादः । ( १८९ ) न्वयबोधजनकताया आख्यातस्याञ्युत्पन्नतया तादृशवाक्यादुभय विशेष्यकान्वयबोधाsसंभवात् । न चाकाङ्क्षायोग्यतादिसत्त्वात् कथं न तादृशान्वयबोध इतिवाच्यम्, अमत्यैकविधान्वयबोधेऽन्यविधान्वयबोधसामग्र्यास्तघटकतात्पर्यज्ञानस्य वा प्रतिब न्धकत्वोपगमात् । ८ न च ' चैत्रेण तण्डुलः पक्ष्यते ' चैत्रस्तण्डुलं पक्ष्यते ' इत्यादिवाक्यद्वय - विषयकसमूहालम्बनदशायामप्युभयविधान्वयबोधानुपपत्तिरिति वाच्यम्, ताह शेकविधान्वयबोधे तादृशान्यविधान्वयबोधपरत्वेनाऽगृह्यमाणतथाविधाख्यातध स्वयमपि हेतुमाह-- कर्तरीति, कर्तरि साक्षात् समवायसंबन्धेन भावनाविशेषणकान्वयबोधं कर्मणि च दर्शितपरम्परया चैत्रनिष्टभावनाप्रयोज्यव्यापारजन्यफलशायिपरम्परया भावनाविशेषणकान्वयबोधं युगपत्= एककाले जनयितुमाख्यातस्य सामर्थ्यमेव नास्ति - एककाले एकमात्र विशेष्यकभावनाप्रकारकसंख्याप्रकार कत्रोधजननसमर्थत्वादित्येक का सादृशवाक्यात् = 'चैत्रः पक्ष्यते . तण्डुलः' इतिवाक्यात् कर्तृकर्मो भय विशेष्य कशाब्दबोधसंभवादित्यर्थः । तथा च कर्तृविशेष्यकशादबोधस्येष्टत्वे 'चैत्रः पक्ष्यते तण्डुलम् इत्येव स्यात् कर्मविशेष्यकशाब्दबोधस्येष्टत्वे च 'चैत्रेण पक्ष्यते तण्डुलः' इत्येव स्यादिति । ननु " यत्पदेन विना यस्याऽननुभावकता भवेत् आकाङ्क्षा " इति कर्तृविशेष्यकस्य कर्मविशेष्यकस्य च बोवस्य ' पक्ष्यते । इतिपदमाकाङ्क्षा सापि ' चैत्रः पक्ष्यते तण्डुलः इत्यत्रास्ति तथा कर्तृकर्मणोर्विशेष्यत्वस्य योग्यताप्यत्रास्त्येवेति कथं न तादृशान्वयबोध: - चैत्र"डुलोमयविशेष्यकभावनाप्रकारकसंख्या प्रकार कशाब्दबोधः स्यात् आकाङ्क्षायोग्यता दिज्ञानयैव शाब्दबोधकारणत्वात् कारणे सति कार्यावश्यभावादित्याशङ्कते न चेति । परिहरतिअगत्येति, एकेन वाक्येनैकविशेष्यकबोध एव जायते इति सिद्धस्य गतिश्चिन्तनीया " इतियानागत्या एकविधान्वयबोधे- एक विशेष्यकशाब्दबोधं प्रत्यऽन्यविशेष्यकशाब्दबोधसामग्र्या वा तादृशसामग्रीघटक तात्पर्यज्ञानस्य वा प्रतिबन्धकत्वं करूप्यते तथा च कर्मविशेष्यकसंख्यान्वयतात्पर्ये सति कर्तृविशेष्य कसंख्याप्रकार कशाब्दबोधस्यापत्तिर्नास्ति कर्तृविशेष्यकसंख्यान्वयत्तापर्ये च सति कर्मविशेष्यक संख्या प्रकार कशाब्दबोधस्थापत्तिर्नास्तीति नैककाले एकस्माद् वाक्यादुभय विशेष्यकशाब्दबोधापत्तिरित्यर्थः । <6 ' चैत्र ननु यद्युक्तरीत्या एकविशेष्यकशाब्दबोधं प्रत्यपर विशेष्यकशाब्दबोधस्य प्रतिबन्धकत्वादेककाले एकविशेष्यक एव शाब्दबोधो जायते नोमयविशेष्यकस्तदा ' चैत्रेण तण्डुलः पक्ष्यते ' स्तण्डुले पक्ष्यते ' इतिवाक्यद्वयेनापि समूहालम्बनात्मक चैत्र तण्डुलोमयविशेष्यकः शाब्दबोधो न स्यादेव इष्टश्चात्रोभयविशेष्यकः शाब्दबोध इत्याशङ्कते - न चेति । परिहरति- तादृशैक्रेति, तादृशेकविधान्वयबोधे= कर्तृकर्मणोर्मध्ये एकविशेष्यकाख्यातार्थप्रकारकशाब्दबोधं प्रति ता "Aho Shrutgyanam" Page #202 -------------------------------------------------------------------------- ________________ सादर्श: [ प्रथमाकार के -- र्मिकप्रकृतान्वयबोधपरत्वज्ञानस्य हेतुतया ' चैत्रः पक्ष्यते तण्डुलः इत्येकवाक्यात् तादृशद्विविधान्वयबोधवारणस्य दर्शितवाक्यद्वयात् तदुपपादनस्य च शक्यत्वात् । न च निरुक्तसंख्यानभिधानस्य तृतीयाद्वितीयानियामकत्वे 'चैत्रेण स्वं दृश्यते' 'चैत्रः स्वं पश्यति' इत्यादौ तृतीयाद्वितीययोरनुपपत्तिः - कर्त्रादिविशेष्यक संख्याप्रकारकान्वयबोधौपयिकाऽऽकाङ्क्षाज्ञानीयविषयित्व निरूपकत्वस्य तत्राख्याते सत्त्वाशाभ्यविधान्वयबोधपरत्वेनाऽगृह्यमाणतथाविधाख्यातधर्मिकप्रकृतान्ययबोधपरत्वज्ञानस्य हेतुत्वमस्ति पक्ष्यते ' इतिपदघटितवाक्यात् कर्तृविशेष्यकाख्यातार्थप्रकारकशाब्दबोधं प्रति यस्तादशान्यविधान्वयबोधः = आख्यातार्थप्रकारककर्मविशेष्य कशाब्दबोधस्तत्परत्वेना गृह्यमाणं यत्तथाविधाख्यातम् = ' पक्ष्यते ' इतिपदघटकाऽऽख्यातं तादृशाख्पातधर्मिकम् = तादृशाख्यातविशेष्यकम् ( आख्यातविषयकम् ) यत् प्रकृतान्वयबोध ( कर्तृविशेष्यकाख्यातार्थप्रकारकबोध ) परत्वज्ञानम्=कर्तृविशेष्यकाख्यातार्थप्रकार कशाब्दबोधपरमिदमाख्यातमिति ज्ञानं तादृशज्ञानस्य हेतुत्वमस्ति तथा च ' चैत्रः पक्ष्यते तण्डुलः इत्यत्रैकविशेष्यकबोधकाले आख्यातस्यापरविशेष्यकबोधपरत्वेनाऽगृह्यमाणत्वमस्त्येवेति एकविशेष्यक एवैकवाक्याद्वोघो जायते न तूमयविशेष्यक इति तादृशविधान्वयबोधवारणस्य = आख्यातार्थप्रकारकोभयविशेष्यकबोधवारणस्य शक्यस्वात् । दर्शितवाक्यद्वयात् = ' चैत्रेण तण्डुलः पक्ष्यते ' ' चैत्रस्तण्डुलं पक्ष्यते ' इतिवाक्यद्वयात् तदुपपादनस्य=आख्यातार्थप्रकारकचैत्रतण्डुलोमयविशेष्यकबोधोपपादनस्य च शक्यत्वात् एतद्वाक्यद्वयविषयक समूहालम्बनात्मक बोधदशायां चैत्रविशेष्य काऽऽख्यातार्थाऽन्वय बोवपरत्वेन वा तण्डुलविशेयाख्यातार्थान्वयबोधपरत्वेन वा ' पक्ष्यते ' इत्याख्यातस्यागृह्यमाणत्वमेकमात्रविशेष्यकबोधप्रयोजकं नास्ति किं तूभयविशेष्यकाख्यातार्थान्वयबोधपरत्वेन गृह्यमाणत्वमेवास्तीति दोमयविशे*यकाख्यातार्थप्रकार कशाब्दबोधस्यानुपपत्तिरित्यर्थः । नतु निरुक्तसंख्यानभिधानस्य = यदि कर्तृविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकीभूतविषयिताया अनिरूपकत्वं कर्तृपदात्तृतीयाप्रयोजकम् तथा कर्मविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेद की भूतविषयिताया अनिरूपकत्वं च ( उक्तैतादृशसंख्यानभिधानं ) कर्मवाचकपदाद् द्वितीयाप्रयोजकम् ( १८५ पृ० उक्तम् ) तदा ' चैत्रेग स्वं दृश्यते ' इत्यत्राऽऽख्यातार्थसंख्यायाः स्वपदार्थेऽन्ययोस्तीति स्वपदार्थविदोष्यकसंख्याप्रकारकबोधो जायते स्वपदार्थश्चात्र चैत्र एव न त्वन्य इति संख्यायाः स्वपदार्थेऽन्वयेन चैत्रे एवान्वयो जातस्तथा च चैत्रविशेष्यकसंख्याप्रकारक एव बोधो जायते इति प्राप्तं तत्र चैत्र विशेष्यकसंख्याप्रकारकबोधौपयिकम् = बोधजनकं यदाकाङ्क्षाज्ञानं तन्निष्ठा या जनकतावच्छेदकी भूतविषयिता तादृशविषयिताया निरूपकत्वमेवात्राऽऽख्यातेस्ति (आख्यातस्यैव विषयत्वेनोक्तविषयितानिरूपकस्त्रात् ) न खनिरूपकत्वं तृतीयाप्रयोजकमिति चैत्रपदात्तृतीयानुपपत्ति: यथा १९० ) 6 " " Aho Shrutgyanam" ? J Page #203 -------------------------------------------------------------------------- ________________ -आख्यातस्य संख्यार्थता विवाद: ] व्युत्पत्तिवादः । ( १९१ . दितिवाच्यम्, कर्त्रादिपरयत्पदाख्यातपदयोः समभिव्याहारः संख्यान्वयबुद्धित्वावच्छिन्नप्रयोजकविषयित्वा निरूपकस्तत्पदोत्तरं तृतीयाविभक्तिरित्येवं नियमोपगमेन प्रथमस्थले चैत्रपरस्वपदाख्यातपदयोर्द्वितीये च तत्परचैत्राख्यातपदयोः समभिव्याहारस्यैव तद्विशेष्य कसंख्यान्वयबोधप्रयोजकतया क्रमेण चैत्रपदस्वपदाभ्यां तृतीयाद्वितीययोरनुपपत्त्यनवकाशादिति चेत् , - तत्प्रयोजकाभावात्- अर्थात् ' चैत्रेण स्वं दृश्यते ' इत्यत्राख्यातार्थसंख्याया: स्वपदार्थेनान्वयो न चैत्रेति चैत्रपदात्तृतीया प्राप्तेत्युच्यते तत्र स्वपदार्थोपि चैत्र एवेत्याख्यातार्थसंख्यायाः स्वपदार्थेनान्वये चैत्रेणैवान्वयो जात इति तृतीया न स्यात् । तथा 'चैत्रः स्वं पश्यति' इत्यत्राख्यातार्थसंख्यायाश्चैत्रेणान्वयोस्तीति चैत्रविशेष्यकसंख्याप्रकारकबोधो जायते चैत्र एव चात्र स्वपदार्थ इति संख्यायायाश्चैत्रेऽन्वयेन स्त्रपदार्थे एवान्वयो जातः--अत्र चैत्रपदार्थस्वपदार्थयोरभेदात् तथा चात्र खपदार्थविशेष्यकसंख्या प्रकारक एवं बोधो जायते इति प्राप्तं तत्र स्वपदार्थविशेष्य कसंख्याप्रकारकबोधौपयिकं यदाकाङ्क्षाज्ञानं तन्निष्ठा या उक्तबोधीयजनकताया अवच्छेदकीभूता विषपिता तादृशविषयिताया अन्त्राख्याते निरूपकत्वमेवास्ति न तु द्वितीयाप्रयोजकमनिरूपकत्वमिति स्वपदाद् द्वितीयानुपपत्तिः- द्वितीयाप्रयोजकाभावात्, अर्थात् ' चैत्रः स्वं पश्यति' इत्यत्रा - ख्यातार्थसंख्यायाश्चेत्रेणैवान्वयो न स्वपदार्थेनेति स्वपदाद् द्वितीया जातेत्युच्यते तत्र चैत्रपदास्वपदार्थयोरभेदाच्चैत्रेणान्वये स्वपदार्थेनान्वयो जात एवेति स्वपदाद् द्वितीया न स्यादित्याशते - न चेति । परिहरति- कर्त्रादीति, कर्तृबोधकस्य यस्य पदस्याख्यातपदस्य च समभिव्याहारः संख्याप्रकारकशाब्दबोधप्रयोजकं यज्ज्ञानं तन्निष्ठविषयिताया अनिरूपकस्तस्मात् पदात् तृतीया मवतीति नियमस्तथा च प्रथमस्थले = ' चैत्रेण स्वं दृश्यते ' इत्यत्र चैत्रपरं यत्स्वपदं तादृशस्त्रपदाख्यातपदयोः समभिव्याहारे स्वपदार्थविशेष्यक संख्याप्रकारक शाब्दबोधस्यैव प्रयोजकतया स्वपदार्थविशेष्यकसंख्या प्रकार कशाब्दबोधप्रयोजकै तादृशसमभिव्याहारविषयकज्ञाननिष्ठविषयिताया एव निरूपकत्वमस्ति चैत्रविशेष्यक संख्याप्रकार कशाब्दबोधजनकज्ञाननिष्ठविषयितायास्त्वनिरूपकत्वमेवास्तीति चैत्रपदात्तृतीयाया अनुपपत्तिर्नास्ति, तथा - कर्मबोधकस्य यस्य पदस्याख्यातपदस्य च समभिव्याहारः संख्याप्रकार कशाब्दबोच प्रयोजकज्ञाननिष्ठविषयिताया अनिरूपकस्तस्मात् पदाद् द्वितीया भवतीति नियमस्तथा च द्वितीये = ' चैत्रः स्वं पश्यति इतिस्थले कर्तृभ्रं यचैत्रपदं तादृशचैत्रपदाख्यातपदयोः समभिव्याहारस्य चैत्रविशेष्यकसंख्याप्रकारकशाब्दबोधस्यैव प्रयोजकतया चैत्रविशेष्यक संख्याप्रकार कशाब्दबोधप्रयोजकै तादृश समभिव्याहारविषयकज्ञाननिष्ठविषयितया एव चैत्रपदाख्यातपदसमभिव्याहारे निरूपकत्वमस्ति स्वपदार्थविशेष्यक संख्याप्रकार कशाखादाद् द्वितीया नुपपत्तिर्नास्तीत्यर्थः । ब्दबोधजनकसमभिव्याहारज्ञाननिष्ठविषयितायास्त्वनिरूपकत्वमेवास्तीति " Aho Shrutgyanam" Page #204 -------------------------------------------------------------------------- ________________ ( १९२ ) · सादर्श: [ प्रथमाकारक AS 77 इत्याद्यनुशा 1 न-- . अनभिहिते " इत्यधिकारे कर्तृकरणयोस्तृतीया सनस्य किं प्रयोजनमितिवक्तव्यम् । ' चैत्रः पचति तण्डुलः पच्यते ' इत्यादौ चैत्रतण्डुलपदाभ्यां तृतीयाद्वितीययोरप्रयोग इति चेत् ? तत् किं मणिमन्त्रादिन्यायेन तादृशानुशासनस्य तथाविधप्रयोगविरोधिता येन तदभावस्तत्प्रयुक्तः स्यात् न चैवं संभवति । ' पचति ' ' पच्यते ' इत्यादिक्रियायोगे कर्तृकर्मवाचकपदानन्तर तृतीयाद्वितीययोरसाधुत्वस्य तत्कर्तृत्व तत्कर्मत्वादिबोधौपयिकाकाङ्क्षादिरहितत्वादिरूपस्य प्रतिपत्तिः प्रयोजनं तस्येति चेत् ?, तर्हि - उक्तनियम 64 66 अथेत्यादिना प्रतिपादितं परिहरति- नेति । " अनभिहिते " इत्यधिकारे " कर्तृकरणयोस्तृतीया " " कर्मणि द्वितीया " इत्यनुशासनयो: पाठस्य प्रयोजनं पृच्छति - अनभिहितेति । " अवमिहिते 1.7 इत्यधिकारे उक्तसूत्रयोः पाठेन कर्त्तुरनभिधाने तृतीया भवति यथा - 'चैत्रेण “पयते ' इत्यत्र - आख्यातस्य कर्माभिधायकत्वात् ' चैत्रः पचति ' इत्यत्र तृतीया न भवतिआख्यातस्य कर्त्रेऽभिधायकत्वात्, तथा 'तण्डुलं पचति ' इत्यत्र द्वितीया भवति -- आख्यातस्य कर्मानभिधायकत्वात् ' तण्डुलः पच्यते " इत्यत्र द्वितीया न भवति- आख्यातस्य कर्माभिधायकत्वादित्येव प्रयोजनमित्युत्तरमाशङ्कते - चैत्र इति । उत्तरमाह तदिति, यदि मणिमन्त्रादिरीत्या तादृशानुशासनस्य = " कर्तृकरणयोस्तृतीया "" कर्मणि द्वितीया " इत्यनुशासनद्वयस्य ताथाविधप्रयोगविरोधिता = ' चैत्रेण पचति । 33 ८ C तण्डुलं पच्यते ' इतिप्रयोगविरोधिता स्यात्तदा चैत्रेण पचति ? " तण्डुलं पच्यते ' इत्यादिप्रयोगाणामुच्चारणमेवाशक्यं स्यात् न चैवमस्तीस्यर्थः । तदभाव:-' चैत्रेण पचति ' तण्डुलं पच्यते इतिप्रयोगाभावः । तत्प्रयुक्तः = "कर्तृक'रणयोस्तृतीया " कर्मणि द्वितीया " त्यनुशासनप्रयुक्तः । ननु पचति ' इतिक्रियायोगे कर्तृवाचक चैत्रादिपदानन्तरं तृतीयाया असाधुत्वज्ञानमेव " अनभिहिते " इत्यधिकारे तस्य = कर्तृकरणयोः इत्यनुशासनस्य प्रयोजनं तथा चासाधुत्वात् ' चैत्रेण पचति' इति प्रयोगो 33 न भवति किं तु ' चैत्रः पचति ' इति प्रयोगो भवति, तथा यो चकतण्डुलादिपदानन्तरं द्वितीयाया असाधुत्वज्ञानमेव S पच्यते ' इतिक्रियायोगे कर्मअनभिहिते- " इत्यधिकारे तस्य कर्मणि द्वितीया " इत्यनुशासनस्य प्रयोजनं तथा चाऽसाधुत्वात् ' तण्डुलं पच्यते ' इति प्रयोगो न भवति किं तु ' तण्डुलः पच्यते ' इत्येत्र प्रयोगो भवतीत्याह - पचतीति । असाधुत्वस्वरूपमाह-तत्कर्तृत्वेति, अत्र च " तत्कर्तृत्वकर्मत्वादीति - पचतीत्यत्र पाककर्तृत्वबोधौपयिकाकाङ्क्षा प्रथमायामेवास्ति तृतीयायां तु पाककर्तृत्वादिबोधौपयिकाकाङ्क्षारहितत्वमस्ति तदेवाऽसाधुत्वम् ' चैत्रः पचति' इति प्रयोगादिति भावः, एवम्- 'पच्यते ' इत्यत्र पाककर्मत्वबोधौपयिकाकाङ्क्षा प्रथमायामेवास्ति 'चैत्रेण तण्डुलः पच्यते' इतिप्रयोगात् द्वितीयायां तु पाककर्मत्वबोधौपयिकाकाङ्क्षाराहित्यरूपमसाधुत्वमस्ति ' तण्डुलं पच्यते ' इत्यप्रयोगात् " इति कृष्णभट्टाः । उत्तरमाह - सर्होति, उक्तानुशासनद्वयस्य उक्तनियमपरतयापि कर्तृपरयत्पदाख्यातपदयोः समभिव्याहारः " Aho Shrutgyanam" L : Page #205 -------------------------------------------------------------------------- ________________ द्वितीयातृतीयाप्रयोजकस्वरूपम् ] व्युत्पत्तिवादः । (१९३) परतयापि न ततस्तल्लाभः। प्रथमान्तचैत्रतण्डुलादिपदतत्तदाख्यातपदयोः समभिव्याहारस्यैव चैत्रतण्डुलादिविशेष्यकतत्तदाख्यातार्थसंख्यान्वयबोधप्रयोजकतया 'चैत्रेण पचति ' ' तण्डुलं पच्यते ' इत्यादिवाक्यघटकचैत्रतण्डुलादिपदतिबा. दिपदयोः समभिव्याहारस्याऽतथात्वेन तद्बटकतृतीयाद्वितीययों: साधुत्वस्योक्तसंख्यान्वयबुद्धित्वावच्छिन्नप्रयोजकविषयित्वानिरूपकस्तत्वदोत्तरं तृतीया तथा कर्मपरयत्पदाख्यातपदयोः सममिव्याहारः संख्यान्वयबुद्धित्वावच्छिन्नप्रयोजकविषयित्वानिरूपकस्तत्पदोत्तरं द्वितीया भवतीति नियमपरतयापि न तत:=" कर्तृकरणयोः" इत्यनुशासनात् तल्लाभः= पति , इतिक्रियायोगे कर्तृवाचकपदात्तृतीयाया असाधुत्वलाभस्तथा “कर्मणि द्वितीया " इत्यनुशासनात् ' पच्यते । इतिक्रियायोगे कर्मवाचकपदाद् द्वितीयाया असाधुत्वलाभ इत्यन्वयः । उक्ताऽसाधुत्वालाममुपपादयति- प्रथमान्तेति, प्रथमान्तचैत्रपदपचतीत्याख्यातपदयोरेव समभिव्याहा. रस्य चैत्रविशेष्यकतत्तदाख्यातार्थसंख्याप्रकारकशाब्दबोधप्रयोजकत्वमस्ति तथा प्रथमान्ततण्डुलप. दपच्यतेइत्याख्यातपदयोरेव समभिव्याहारस्य. तण्डुलविशेष्यकतत्तदाख्यातार्थसंख्याप्रकारकशाब्दबोधप्रयोजकत्वमस्तीति — चैत्रः पचति , ' तण्डुलः पच्यते ' इत्यत्र चैत्रतण्डुलपदाभ्यां प्रथमैव भवति न तृतीया द्वितीये, बोधस्य यद्विशेष्यकत्वमिष्टं भवति तद्वाचकपदात् प्रथमैवेति नियमात्, 'चैत्रेण पचति ।' तण्डुलं पच्यते ' इत्यादिवाक्यघटकचैत्रतण्डुलादिपदतत्तदाख्यातपदयोः समभिव्याहारस्य अतथात्वेन चैत्रतण्डुलविशेष्यकतत्तदाख्यातार्थसंख्याप्रकारका वयबोधाऽप्रयोजकत्वेन च ' चैत्रेण पचति ' ' तण्डुलं पच्यते । इत्येतद्वाक्यघटकतृतीयाद्वितीययोः साधुत्वस्योक्तनियमाऽन्यवच्छेद्यत्वादित्यन्वयः, अयं भाव:- उक्ततात्पर्येण हि यादृशचैत्रपदारुपातपदयोः समभिव्याहारश्चैत्रविशेष्यकसंख्याप्रकारकशाब्दबोधाऽप्रयोजको भवति तादृशचैत्रपदात्तुतीया भवति तथा यादृशतण्डुलपदाख्यातपदयोः समभिव्याहारस्तण्डुलविशेश्यकसंख्याप्रकारकशाब्दबोधाऽप्रयोजको भवति तादृशतण्डुलपदाद् द्वितीया भवति यथा- 'चैत्रेण पच्यते । 'तण्डुलं पचति ' इति लभ्यते, तथा च 'चैत्रेण पचति । इत्येतत्समभिव्याहारस्यापि चैत्रविशेष्यकसंख्याप्रकारकशाब्दबोधाप्रयोजकत्वादत्र चैत्रपदात्तृतीया स्यादेव एतादृशतृतीयायाः साधुत्वं च नोक्ततात्पर्यनियमव्यवच्छेद्यं भविष्यति-उक्ततात्पर्यनियमेनैवात्र तृतीयायाः प्राप्तत्वात् , तथा ' तण्डुलं पच्यते' इत्येतत्समभिव्याहारस्यापि तण्डुलविशेष्यकसंख्याप्रकारकशाब्दबोधायोजकत्वादत्र तण्डुलपदाद् द्वितीया स्यादेव एतद्वितीयायाः साधुत्वं च नोक्ततात्पर्य'नयमव्यवच्छेचं भविष्यति- उक्ततात्पर्यनियमेनैवात्र द्वितीयायाः प्राप्तत्वादिति । उक्तं च कृष्णभट्टैरपि- " कीदिपरयत्पदाख्यातपदयोः समभिव्याहारः संख्यान्वयबुद्धित्वावच्छिन्नप्रयोजकविषयित्वानिरूपकस्तत्पदोत्तरं तृतीयादि विभक्तिरितिनियमवाक्यात् 'चैत्रेण पचति ' इत्यत्र कर्तरि तृतीया न साध्वी ' तण्डुलं पच्यते । इत्यत्र कर्मणि द्वितीया न साध्वीत्यर्थो न प्रतीयते इति मावः" "Aho Shrutgyanam" Page #206 -------------------------------------------------------------------------- ________________ सादर्श: ( १९४ ) [ प्रथमाकारके - नियमाऽव्यवच्छेद्यत्वात् तस्मान्मुख्यभाक्तसाधारणकर्तृत्वकर्मत्वयोः कर्तृकर्मबाचकपदसमभिव्याहतलकृत्तद्धितसमासैरनभिधानमेव तृतीयाद्वितीयानियामकम्, शिरोमणिभिरप्यत्रैव निर्भरो विहितः । लादीनां तदनभिधायकत्वं च न तदवाचकत्वं तन्निष्ठवृत्त्यनिरूपकत्वं वाआत्मनेपदस्याप्याख्यातत्वेन लत्वादिना वा कर्तृत्वादिनिष्ठशक्तिलक्षणानिरूपकत्वात्, कर्तृत्वानभिधाय काख्यातस्यैवाप्रसिद्धेः । ८ खण्डूकः तच्छाब्दबोधौपयिकाकाङ्क्षाशून्यत्वमेव तत् 'चैत्रेण पच्यते तण्डुलः' इत्यादाइति । उपसंहरति- तस्मादिति, कर्तृकर्मगतसंख्यामभिधानस्य तृतीयाद्वितीयानियामकत्वासंभबात् कर्तृकर्मवाचकपदसमभिव्याहृत कृत्तद्धितसमासैर्मुख्यभाक्तसाधारणकर्तृत्व कर्मत्वयोरेवाऽनभिधानं तृतीयद्वितीययोर्नियामकमित्येव युक्तं तथा च ' पचति' इत्यन्न लकारेण कर्तृत्वाभिधानात् कर्तृपदात् तृतीया न भवति किं तु प्रथमैव यथा-- चैत्रः पचति" इति ' पच्यते ' इत्यत्र लकारेण कर्तृत्वानभिधानात् तृतीया भवति यथा - ' चैत्रेण पच्यते ' इति, तथा ' पच्यते ' इत्यत्र ककारेण कर्मत्वाभिधानात् कर्मवाचकपदाद् द्वितीया न भवति किं तु प्रथमेव यथाबच्यते ' इति, ' पचति ' इत्यत्र लकारेण कर्मत्वानभिधानात् कर्मवाचकपदाद् द्वितीया भवति यथा - ' तण्डुलं पचति ' इति, एवं च ' चैत्रेण पचति ' इतिप्रयोगस्य प्राप्तिर्नास्त्येवतृतीयाप्रयोजकस्यात्राख्याते कर्तृत्वानभिधानस्याभावात्, तथा ' तण्डुलं पच्यते ' इतिप्रयोगस्यापि प्राप्तिर्नास्त्येव - द्वितीयाप्रयोजकस्यात्राख्याते कर्मत्वानभिधानस्याभावादिति सर्वं समञ्जसम् । भत्र शिरोमणि प्रमाणयति- शिरोमणिभिरिति । ' चैत्रः पचति ' इत्यत्र मुख्यं कर्तृत्वम्, “ जानाति ' इत्यत्र भाक्त गौणं कर्तृत्वम्, ' तण्डुलः पच्यते ' इत्यत्र मुख्यं कर्मत्वम्, " ज्ञायते घटः ' इत्यादौ गौणं कर्मत्वमितिबोध्यम् । कर्तरि तिङ् - ' पचति इति कर्मणितिङ् ' पच्यते ' इति, कर्तरिकृत ' कर्ता कटान् ' इति तृच् कर्मणि कृत् ' लक्ष्म्या सेवित: ' इति क्तः, कर्तरि तद्धितम् - 'पक्षिणो हन्ति पाक्षिकः ' इति ष्ठक्, कर्मणि तद्धितम् - * शतेन क्रीतः शत्यः' इति यत् कर्तरि समासः - ' कृतं विश्वमनेनेति कृतविश्वो हरिः' इति, कर्मणि समासः -' प्राप्त आनन्दो यं स प्राप्तानन्दः' इति, कर्तरिप्रत्ययस्थले कर्मत्वानभिधानं कर्मणि प्रत्ययस्थले कर्तृत्वानभिधानं बोध्यम् । लादीनां तदनभिधायकत्वम् = कर्तृत्वकर्मत्वानभिधायकत्वं च न तदवाचकत्वम् - कर्तृत्वाद्यनभिधाय काख्यातस्यैवाप्रसिद्धेः न वा तन्निष्ठवृत्त्यनिरूपकत्वम् = कर्तृत्वादिनिष्ठवृत्त्यनिरूपकत्वम्-आत्मनेपदस्याप्याख्यातत्वेन रूपेण लत्वादिरूपेण वा कर्तृत्वादिनिष्ठशक्तिलक्षणारूपवृत्तिनिरूपकत्वादेव, अर्थविशेष्यकवृत्तिस्वीकारपक्षे वृत्तेराश्रयतासंबन्धेनार्थनिष्ठाया अर्थवाचकपदनिरूपितत्वादेवेत्यर्थः । तदनभिधायकत्वमाह - तच्छाब्दबोधेति, अस्य " इत्यपि न" इत्यनेनान्वयः । तच्छाब्दबोधौपयि " Aho Shrutgyanam" Page #207 -------------------------------------------------------------------------- ________________ द्वितीया तृतीयाप्रयोजकस्व ० ] व्युत्पत्तिवादः । ( १९६ ) वाख्यातस्य कर्तृत्वादिवाचकत्वेपि तच्छाब्दबोधौपयिकाकाङ्क्षाराहित्यं तत्राक्षतमेव- चैत्रादिपदोत्तर तृतीययैव कर्तृत्वबोधनसंभवात् तत्र तादृशाकाङ्क्षाया अकल्पनात, इत्यपिन- 'चैत्रेण पक्ष्यते' इत्यादौ तृतीयानुपपत्तेः, ' पक्ष्यते चैत्रः" इत्यादितश्चैत्रादौ पाककृतेः केवलात् ' पक्ष्यते ' इत्यादितश्च मुख्यविशेष्यतया तस्य बोधात् तादृशाख्यातधात्वोरानुपूर्वीविशेषाकाङ्क्षायाः कृतिबोधौपयिकत्वात् । काकाङ्क्षाशून्यत्वमेव=कर्तृविशेष्यकाख्यातार्थसंख्याप्रकारकशब्दबोधजनका काङ्क्षाशून्यत्वमेव कर्तृत्वानभिधायकत्वं तथा च 'चैत्रेण पच्यते तण्डुलः' इत्यत्राख्यातस्य कर्मविशेष्यक संख्याप्रकारकशाब्दबोधजनकाकाङ्क्षावत्त्वेन तच्छाब्दबोधौपयिकाकाङ्क्षाराहित्यम् = कर्तृविशेष्यकाख्यातार्थसंख्याप्रकारकशाब्दबोधजनकाकाङ्क्षाशून्यत्वं तत्र = 'पध्यते' इत्याख्यातेऽक्षतमेवेति न तृतीयाया अनुपपत्तिः । ननु यद्येतादृशाकाङ्क्षाशून्यत्वेनाख्यातस्थात्र कर्तृविशेष्यकबोधजनकत्वं न स्यात्तदा चैत्रस्य कर्तृत्वमपि न ज्ञातं स्यान्न चैवमस्तीत्याशङ्क्याह- 'चैत्रादीति, 'चैत्रेण पच्यते ' इत्यत्र न चैत्रस्य कर्तृत्वमाख्यातेन प्रतिपाद्यते किं तु चैत्रपदोत्तरतृतीययैवेति तृतीयया कर्तृत्वबोधनसंभवात्तत्र=' पच्यते ' इत्याख्याते तादृशाकाङ्क्षायाः कर्तृविशेष्यक संख्याप्रकारकबोधजनकाकाङ्क्षाया अकल्पनात् = कल्पनापेक्षाभावादित्यर्थः । यदा ह्याख्यातस्याख्यातत्वेन रूपेण वा लत्यादिना रूपेण वा कर्तृत्वादिवाचकत्वमस्ति तदा ' पच्यते ' इत्याख्यातस्यापि कर्तृत्वादिवाचकत्वमक्षतमेव शक्ततावच्छेदकरूपेणाख्यातत्वेन लत्वादिना वा समाक्रान्तत्वादित्युक्तम्- कर्तृत्वादिवाचकत्वेपीति । एवं कर्मविशेष्यक संख्याप्रकार कशाब्दबोध जनकाकाङ्क्षाशून्यत्वमेव कर्मत्वानभिधायकत्वं तदेव द्विसी. याप्रयोजकम्. यथा 'तण्डुलं पचति' इत्यत्राख्यातेस्ति । तच्छाब्दबोधेत्याद्युक्तं परिहरति-इत्य नति, एवं हि 'चैत्रेण पक्ष्यते' इत्यत्र तृतीया न स्यात्- 'पक्ष्यते' इति यथा कर्मणि लुटा भवति तथा कर्तर्यपि लुटा भवतीति पक्ष्यते ' इत्याख्याते कर्तृविशेष्यक संख्याप्रकारकशाब्दबोधजनकाकाङ्क्षायाः सत्त्वेन तृतीयाप्रयोजकं कर्तृविशेष्य कसंख्याप्रकारकशाब्दबोधजनकाकाङ्क्षाशून्यत्वं नास्तीति तृतीयानुपपत्तिरित्यर्थः । ' पक्ष्यते ' इत्याख्यातस्य कर्तृविशेष्यकसंख्याप्रकारकशाब्दबोधजनकाकाङ्क्षावत्त्वमुपपादयति- पक्ष्यते चैत्र इत्यादिना, ' पक्ष्यते चैत्रः' इत्यत्र कृतिश्चैत्रे प्रकारीभूय भासते इति चैत्रविशेष्यक कृतिप्रकारको बोधो जायते, केवलात् चैत्रपदर हितात् ' पक्ष्यते ' इतिपदाच्च मुख्यविशेष्यतया तस्याः = पाककृतेर्बोधो जायते कृतिश्च कर्तृत्वमेवेति कर्तृत्वविशेष्यकबोधस्य जायमानत्वात् तादृशाख्यातधात्वोः = ' पक्ष्यते ' इत्याख्यातुधाखोरानुपूर्वीविशेषाकाङ्क्षायाः = पक्ष्यते इत्यत्र वर्तमानाकाङ्क्षायाः कृतिबोधौपयिकत्वात्= कृतिविशेष्यकबोधजनकत्वात्. ' पक्ष्यते ' इत्याख्याते कर्तृविशेष्यक संख्याप्रकारकशाब्दबोधौपयिकाकाङ्क्षायाः सत्त्वेनैतादृशाकाङ्क्षाशून्यत्वरूपं कर्तृत्वानभिधायकत्वं तृतीयाप्रयोजकं नास्तीति 'चैत्रेण पक्ष्यते ' इत्यादौ तृतीयानुपपत्तिरित्यर्थः । पाककृतेः " इत्यस्य " बोधस्त्" CL 1.1 इत्यनेनान्वयः । " " Aho Shrutgyanam" Page #208 -------------------------------------------------------------------------- ________________ ( १९६ ) सादर्श: [ प्रथमाकार के न च समभिव्याहाररूपाका क्षैव विवक्षणीया प्रकृते च प्रकृतिप्रत्यययोरानुपूर्वीरूपाकाङक्षा न तु समभिव्याहार इति नोक्तानुपपत्तिरिति वाच्यम्, तथा सति 'चैत्रेण पचति' इत्यादावपि तृतीयायाः साधुतापत्तेः- तादृशचैत्रपदाख्यातपदयोः समभिव्याहारस्य कृतिबोधानौपयिकत्वात् । 'चैत्रेण विजेष्यते मैत्रः ' treet तृतीषानुपपत्तेश्व - 'विजेष्यते मैत्रः' इत्यादितो मैत्रकृतिबोधात् तादृशाख्यातपदमैत्रपदयोः समभिव्याहारस्य कृतिबोधौपयिकत्वात् । 66 ननु तच्छाब्दबोधौपयिकाकाङ्क्षाशून्यत्वं तदनभिधायकत्वम् " इत्यत्राकाङ्क्षापदेन सममिव्याहाररूपैवाऽऽकाङ्क्षा गृह्यते न तु प्रकृतिप्रत्यययोरानुपूर्वीरूपा, तत्र प्रकृतिप्रत्यययोस्तु पूर्वापरीभावे वैपरीत्यं नैव संभवति - प्रकृत्यव्यवहितोत्तरमेव प्रत्ययसंभवाद् यथा ' पचति पचते पक्ष्यते ' इत्यादी इत्येषा पूर्वापरीभावरूपाकाङ्क्षास्ति, समभिव्याहारे तु पूर्वापरीभावस्य वैपरीत्यमपि भवति यथा--' पचति चैत्र:' इत्यपि वक्तुं शक्यते ' चैत्रः पचति ' इत्यपि वक्तुं शक्यते इति, तथा च कर्तृविशेष्यकसंख्या प्रकार कशाब्दबोधजनकसमभिव्याहाररूपाकाङ्क्षाशून्यश्वं तृतीया प्रयोजकमस्ति कर्तृविशेष्यक संख्याप्रकारक शाब्दबोधजनकसमभिव्याहारश्च प्रथमान्त चैत्रपदसमभिव्याहृताख्यातसमभिव्याहार एव. प्रकृते ' चैत्रेण पक्ष्यते ' इत्यत्र च प्रकृतिप्रत्यययोरानुपूर्वी रूपा ' पक्ष्यते ' इत्याकाङ्क्षवास्ति न तु समभिव्याहारः = प्रथमान्त चैत्रपदसमभिव्याहृताख्यातसमभिव्याहार इत्येतादृशसमभिव्याहारशून्यत्वं तृतीयाप्रयोजकम् ' चैत्रेण पक्ष्यते ' इत्यत्रास्त्येवेति नोक्तानुपपत्तिः = तृतीयानुपपत्तिरित्याशङ्कते - न चेति । परिहरति-तथा सतीति, तथा सति= यदि कर्तृविशेष्यक संख्याप्रकारकशाब्दबोध जनकसमभिव्याहारशून्यत्वमेव तृतीयाप्रयोजकं तदेतादृशसमभिव्याहारशून्यत्वं तु 'चैत्रेण पचति ' इत्यत्राप्यस्त्येव तादृश' चैत्रेण पचति ' इत्याकारकतृतीयान्तचैत्रपदाख्यातपदयोः समभिव्याहारस्य कृतिबोधानौपयिकत्वात् = कर्तृत्वबोधाजनकत्वादत्र कर्तृविशेष्यकशाब्दबोधजनकसमभिव्याहारशून्यत्वं तृतीयाप्रयोजकमस्त्येवेति तृतीयायाः साधुत्वं स्यादेव न चैतदिष्टमित्यर्थः । किं च कर्तृविशेष्यक संख्याप्रकारकशाब्दबोधजनकसमभिव्याहारशून्यत्वं यदि तृतीयाप्रयोजकं स्यात्तदा ' चैत्रेण विजेष्यते मैत्र: ' इत्यत्र तृतीयाप्रयोजकस्य तादृशसमभिव्याहारशून्यश्वस्याभावात् तृतीया न स्यात्, ' विजेष्यते मैत्र: ' इतिसमभिव्याहारात् मैत्रकृतिबोधात् = कर्तृविशेष्यकबोधस्य जायमानत्वात् तादृश= 'विजेष्यते मैत्र: ' इत्याकारकाख्यातमैत्रपदयोः समभिव्याहारस्य कृतिबोधौपयिकत्वात् कर्तृविशेष्यकबोधजनकत्वात् एतादृश ( विजेष्यते मैत्र इत्याकारक ) कर्तृविशेष्य कशाब्दबोधजनकसमभिव्याहारशून्यत्वं चैत्रेण विजेष्यते मैत्र: ' इत्यत्र नास्ति तादृशसमभिव्याहारघटितत्वादेवेति चैत्रपदात्तृतीया न स्यादित्यर्थः । ८ 'तस्मात् तच्छाब्दबोधौपयिकाकाङ्क्षाशून्यत्वं कर्तृत्वकर्मत्वानभिधायकत्वं न संभवति किं तु तत्तात्पर्यशून्यत्वम् = कर्तविशेष्य कशाब्दबोधविषयक तात्पर्यशून्यत्वमेव कर्तृत्वानभिधायकत्वं तदेव "Aho Shrutgyanam" Page #209 -------------------------------------------------------------------------- ________________ द्वितीयातृतीयाप्रयोजकस्व ० ] व्युत्पत्तिवादः। किं तु तत्तात्पर्यशून्यत्वमेव तथा च 'चैत्रेण पक्ष्यते ' इत्यादावाख्यातस्य कर्तृत्वादितात्पर्यकत्वे तृतीयाऽसाधुरेव, तथा च चैत्रेण पचति' इत्यादावाख्यातस्याऽर्थाविवक्षायां तृतीयायाः साधुत्वपि परस्मैपदस्याऽसाधुत्वान्न प्रयोगः । परस्मैपदस्यासाधुत्वं च धात्वर्थविशेष्यस्य प्रत्ययेनाऽविवक्षणे "भावकर्मणो" इतिसूत्रेणात्मनेपदनियमात् । आख्यातार्थविवक्षायां न 'चैत्रेण पचते' इत्यादिप्रयोगः- शबादिविकरणस्याऽसाधुत्वातू, कर्तृत्वतात्पर्यकसार्वधातुकयोगे एव तत्साधुत्वात् । कर्तृत्वकर्मत्वोभयतात्पयेण 'मैत्रः पक्ष्यते तण्डुलः' इत्यादयस्तु न प्रयोगाःतृतीयाप्रयोजकम्, कर्मविशेष्यकशाब्दबोधविषयकतात्पर्यशून्यत्वमेव कर्मत्वानभिधायकत्वं तदेव द्वितीयाप्रयोजकमित्याह-किं त्विति, तथा च 'पक्ष्यते' इतिप्रयोगः कर्तर्यपि लुटा भवति कर्मण्यपि लुटा भवति तत्र ' चैत्रेण पक्ष्यते ' इत्यत्राख्यातस्य कर्तविशेष्यकशाब्दबोधविषयकतात्पर्यविशिष्टत्वे तृतीयाप्रयोजकस्य कर्तृविशेष्यकशाब्दबोधविषयकतात्पर्यशून्यत्वस्याभाववत्त्वादसाधुरेव ( असाध्वेव ) तृतीया, यदा चाख्यातस्याऽत्र कर्मविशेष्यकशाब्दबोधविषयकतात्पर्यविशिष्टत्वं तदा कर्तृविशेष्यकशाब्दबोधविषयकतापर्यशून्यत्वात्तृतीया साधुरेवेत्यर्थः । * चैत्रेण पचति' इत्यत्राख्यातार्थस्य कर्तृत्वस्याविवक्षायाम् कर्तृविशेष्यकशाब्दबोधविषयकतात्पर्यस्यासत्त्वे तृतीयायाः साधुत्वसंभवेपि परस्मैपदस्य साधुत्वं न संभवतीति परस्मैपदप्रयोगो न संभवतीत्याह-तथाचेति । अत्र परस्मैपदस्य कथमसाधुत्वमित्याह-परस्मैपदस्यासाधुत्वं चेति, चैत्रेण पचति ' इत्यत्र धात्वर्थस्य पाकस्य विशेष्यभूतायाः कृतेराख्यातप्रत्ययेनाविवक्षायां भावस्य वा कर्मत्वस्य वा विवक्षा स्यादेव-आख्यातस्य निरर्थकत्वासंभवात् तत्र च "भावकर्मणोः" इतिसूत्रेगात्मनेपदं प्राप्नोतीति परस्मैपदस्याऽसाधुत्वं स्यादेवेति न ' चैत्रेण पचति ' इतिप्रयोगापत्तिस्त्र तृतीयापत्तिवेत्यर्थः । ननु यदि 'चैत्रेण पचति' इत्यत्र परस्मैपदस्यासाधुत्वमात्मनेपदप्राप्तेस्तदास्मनेपदेन 'चैत्रेग पचते' इतिप्रयोगः स्यादेव न चैतदिष्टमित्याशङ्कयाह-आख्यातार्थविवक्षायामिति, आत्मनेपदाख्याते कर्तृविशेष्यकबोधस्य कर्मविशेष्यकबोधस्य भावविशेष्यकबोधस्य च सामर्थ्यमस्त्येवेति 'चैत्रेण पचते' इत्यत्राख्यातार्थविवक्षायाम्-आख्यातार्थस्य कर्मत्वस्य भावस्य वा विशेष्यतया विवक्षायामात्मनेपदस्य साधुत्वेपि विकरणस्य शप्प्रत्ययस्य साधुत्वं न संभवति- कर्तृत्वतात्पर्यकसार्वधातुकाख्यातयोगे एव तत्साधुत्वात् शपः साधुत्वात् "कतार शपू " इत्यनुशासनात्, आख्यातार्थस्य कर्तृत्वस्य विशेष्यतया विवक्षायां चात्मनेपदस्य शपश्च साधुत्वेपि तृतीयायाः साधुत्वं न संभवति- कर्तृविशेष्यकत्वाविवक्षायामेव कर्तृविशेष्यकशान्दबोधविषयकतात्पर्यशून्यत्वस्य तृतीयाप्रयोजकत्वस्य संभवेन तृतीयायाः साधुत्वात् कर्तृविशेष्यकत्वविवक्षायां चाऽसाधुत्वादिति न 'चैत्रेण पचते ' इत्यपि प्रयोगो भवतीत्यर्थः ।। कर्तृत्वेति-कर्तृत्वकर्मत्योभयविशेष्यकशाब्दबोधतात्पर्येण — मैत्रः पश्यते तण्डुलः ' इत्यादिप्रयोगो न भवति-तदेकतरबोधे कर्तृकर्मणोर्मध्ये एकतर विशेष्यकाख्यातार्थप्रकारकशाब्दबोधे "Aho Shrutgyanam" Page #210 -------------------------------------------------------------------------- ________________ ( १९८ ) सादर्श: [ प्रथमाकारके - तदेकतरबोधेऽन्यतरपरत्वेनागृह्यमाणाख्यातधर्मिकप्रकृतान्वयबोध परत्वज्ञानस्य हेतुत्वात् | 'चैत्रेण पक्ष्यते तण्डुलः' इत्यादौ कर्तृत्वादावाख्यातस्य तात्पर्यग्रहे कर्मत्वाद्यन्वयबोधोपि न भवत्येव । अथ 'पक्कानि भुङ्क्ते चैत्रः' 'ओदनः पक्त्वा भुज्यते' इत्यादी कृता क्रमेण कर्तृत्व कर्मत्वानभिधानात् चैत्रपदौदनपदाद्युत्तरं तृतीयाद्वितीये कथं न स्याताम् । न च कृताऽनभिधानेप्याऽऽख्यातेन तदभिधानान्नाऽनभिहितत्वम् - समभिव्याहतपदाभिहितत्वसामान्याभावस्यैवाऽनभिहितपदेन विवक्षणात् समभिव्याहृतेति ह्यन्यपरत्वेन = कर्तृकर्मणोर्मध्ये ह्यन्यपरत्वेनाऽगृह्यमाणं यदाख्यातधर्मिकमाख्यातविषयकं प्रकृतान्वयबोधपरत्वज्ञानं प्रकृतशाब्दबोधपस्त्वज्ञानं तस्य हेतुत्वाद् यथात्र कर्तृविशेष्यकाख्यातार्थप्रकारकशाब्दबोधे कर्मविशेष्य कशाब्दबोधपरत्वेनागृह्यमाणं यदाख्यातं पक्ष्यते इत्याख्यातं तादृशाख्यातधर्मिकं तादृशाख्यातविषयकं यत्प्रकृतान्वयबोधपरत्वज्ञानं इदमाख्यातं कर्तु विशेष्यकबोधजनकमितिज्ञानं तस्य हेतुत्वादेक ( कर्तृ ) विशेष्यक एव बोधो जायते एवं कर्मविशेष्यक बोधपक्षेपि ज्ञेयम् - तथा च कर्तृविशेष्यकबोधविवक्षायाम् ' मैत्रः पक्ष्यते तण्डुलम् ' इत्येव भवति-भख्यातस्य कर्तृत्वाभिधायकत्वेन मैत्रपदात् प्रथमायाः कर्मत्वानभिधायकत्वेन तण्डुलपदाच द्वितीयायाः प्राप्तेः कर्मविशेष्यकबोधविवक्षायां च ' मैत्रेण पक्ष्यते तण्डुलः ' इत्येव भवति - आख्यातस्य कर्मत्वाभिधायकत्वेन तण्डुलपदातु प्रथमायाः कर्तृत्वानभिधायकत्वेन मैत्रपदाच्च तृतीयायाः प्राप्तेरित्यर्थः । फलमाह – चैत्रेणेति, 'पक्ष्यते ' इत्याख्यातस्य कर्तृत्वे तात्पर्यग्रहे कर्मत्यविशेष्यको न भवति कर्मत्वे तात्पर्यग्रहे कर्तृत्वविशेष्यकबोधो न भवति - एक विशेष्यकबोधपरत्वस्याऽपरविश्लेष्यकबोधे प्रतिबन्धकत्वादित्यर्थः । यद्यपि 'चैत्रेण पयते तण्डुलः ' इत्यत्र कर्मविशेष्यक बोध इष्ट एव तथाप्यत्राख्यातस्य कर्तृत्वे तात्पर्यग्रहे 'जाते कर्मत्वाद्यन्वयबोधः कर्मत्वप्रकारक - कर्मव्यक्तिविशेष्यकोपि बोधो न जायते - तत्प्रतिबन्धकस्य कर्तृत्वपरत्वतात्पर्यग्रहस्य सत्त्वादित्यमिप्रायेणोक्तम्-कर्तृत्वादाविति । इदं च पूर्वमपि ( १८९५. ) व्याकृतम् । , ननु यदि कर्तृत्वानभिधाने तृतीया भवति तदा ' पक्कानि फलानि भुङ्क्ते चैत्रः' इत्यत्र पक्कपदघटकक्तप्रत्ययस्य कर्मत्वाभिधायकत्वेन कर्तृत्वानभिधायकत्वादत्र चैत्रपदातृतीया कथं न स्यात् ? तथा यदि कर्मत्वानभिधाने द्वितीया भवति तदा 'ओदनः पक्त्वा भुज्यते' इत्यत्र स्वाप्रत्ययस्य कर्तृत्वाभिधायकत्वेन कर्मत्वानभिधायकत्वादत्रौदनपदाद् द्वितीया कथं न स्यादित्याशङ्कते - अथेति । ननु ' कर्तृत्वानभिधाने तृतीया कर्मश्वानभिधाने च द्वितीया' इत्यत्रानमिहितपदेन कर्तृकर्मवाचकपदसमभिव्याहृतपदाभिहितत्वसामान्याभावो विवक्षितः - अर्थात् कर्तृकर्मवाचकपदेन सह समभिव्याहृतेन केनापि पदेन यदि कर्तृत्वकर्मत्वयोरभिधानं न भवति तदा कर्तृपदात्तृतीया कर्मपदाद्वितीया भवति तथा च ' पकानि भुङ्क्ते चैत्रः ' इत्यत्र कुता=क्तप्र " Aho Shrutgyanam" Page #211 -------------------------------------------------------------------------- ________________ द्वितीयातृतीयाप्रयोजकस्व०] व्युत्पत्तिवादः । करणाच चैत्रेण गम्यते ग्रामस्तं मैत्री गच्छति' इत्यादौ न तृतीयाद्वितीययोरनुपपत्तिः- 'गच्छति' 'गम्यते' इत्याख्यातस्य तत्तत्पदासमाभिव्याहृतत्वादिति वाच्यम्, तथा सात 'भुनानेन चैत्रेण पच्यते' 'भोक्तव्यमोदनं पचति । इत्यादौ तृतीयाद्वितीययोरनुपपत्तिः कृता कर्तृत्वकर्मत्वयोरभिधानात् । - कृता तत्र भोजनकर्तृत्वतत्कर्मत्वयोरभिधानेपि पाककर्तृत्वं तत्कर्मत्वं चानभिहितमेवेति चेत् ?, तर्हि प्रकृतपि तदनभिहितमेव । त्येन कर्तत्वस्थानभिधानेप्याऽऽख्यातेनाभिधानमस्त्येवेत्यभिहितत्वसामान्याभावस्य तृतीयाप्रयोजकस्यामावाल चैत्रपदात्तृतीयापत्तिः, एवम् ' ओदनः पक्त्वा भुज्यते' इत्यत्र क्त्वाप्रत्ययेन कर्मस्वस्थानभिधानेप्याख्यातेनाभिधानमस्त्येवेत्यमिहितत्वसामान्याभावस्य द्वितीयाप्रयोजकस्याभावान मोदनपदाद्वितीयापत्तिरित्याशङ्ते-नचेति । अत्र यदि 'पदाभिहितत्वसामान्यामावस्यैवाऽनभिहि. तपदेन विवक्षणात्' इत्येवोच्येत तदा 'चैत्रेण गम्यते ग्रामः, तम् (ग्रामम् ) मैत्रो गच्छति' इत्यत्र गच्छतिपदेम कर्तृत्वस्यामिधानादनभिधानं तृतीयाप्रयोजकं नास्तीति चैत्रपदात्तृतीया न स्यात्त. था गम्यतेपदेन कर्मत्वस्याभिधानादनभिधानं द्वितीयाप्रयोजकं नास्तीति तमितितत्पदाद् द्वितीया न स्यादितिदोषपरिजिहीर्षया समभित्र्याइतेतिकृतम्-" सममिव्याहतपदाभिहितत्वसामान्यामा. बस्य " इत्येवमुक्तं तथा चात्र 'चैत्रेण गम्यते ग्रामः । इति पृथक् वाक्यम् ' तं मैत्रो गच्छति' इति च पृथक् वाक्यं तथा च गच्छतीतिपदेन कर्तृत्वस्याभिधानेपि 'गच्छति ! इत्याख्यातस्य तत्पदाऽसमभिव्याहृतत्वात्-चैत्रपदेन सह समभिव्याहाराभावात्-वाक्यान्तरघट, कत्वाद् न गच्छतीत्याख्यातकृतकर्तृत्वाभिधानमाश्रित्य चैत्रपदात्तृतीयानुपपत्तिः, तथा गम्यते इतिपदेन कर्मत्वस्याभिधानपि ' गम्यते ' इत्याख्यातस्य वाक्यान्तरघटकत्वेन तत्पदासमभिव्याहतत्वात् तत्पदेन सह सबभिव्याहाराभावाद् न गम्यतेइत्याख्यातक्त्तकर्मत्वामिधानसाश्रित्य वाक्यान्तरस्थतत्पदाद् द्वितीयानुपपत्तिरित्याह-समभिव्यातेतिकरणाचेति । परिहरति-तथा सतीति, यदि समभिव्याहतपदैः कर्तृत्वाभिधानसामान्याभावस्य तृतीयाप्रयोजकत्वमुच्यते तदा 'भुञ्जानेन चैत्रेण पच्यते ' इत्यत्रापि चैत्रपदात्ततीया न स्यादेव-अत्र पच्यतेपदेन कर्तृत्वस्यानमिधानेपि भुजानपदेन कर्तृत्वाभिधानस्य तृतीयाप्रतिबन्धकस्य सत्त्वादेव-शानचप्रत्ययस्य कर्तरि वर्तमानत्वात् । तथा यदि समभिव्याहृतपदैः कर्मत्वाभिधानसामान्याभावस्य द्वितीयाप्रयोजकत्वमुच्यते तदा ' भोक्तव्यमोदनं पचति ' इत्यत्राप्योदनपदाद् द्वितीया न स्यादेव-अत्र पचतीतिपदेन कर्मत्वस्यानभिधानेपि भोक्तव्यपदेन कर्मत्वाभिधानस्य द्वितीयाप्रतिबन्धकस्य सत्त्वादेवतव्यप्रत्ययस्य कर्मणि वर्तमानत्वादिति " सममिव्याहतपदाभिहितत्वसामान्याभावस्य ११ इत्यादि ब्युत्पादनमपि न युक्तमित्यर्थः । -- ननु — भुञ्जानेन चत्रेण पच्यते । इत्यत्र भुजानपदेन भोजनकर्तृत्वस्याभिधानपि पच्यते इति पदेन पाककर्तृत्वं त्वभिहितं नास्तीति ताशपाककर्तृत्वानभिधानमाश्रित्यैवात्र चैत्रपदात्तृतीया प्राप्ता साध्वी च. तथा ' भोक्तव्यमोदनं पचति । इत्यत्र भोक्तव्यपदेन भोजनकर्मवस्यामि "Aho Shrutgyanam" Page #212 -------------------------------------------------------------------------- ________________ (२००) सादर्श: [ प्रथमाकारकेन च प्रधानक्रियानिरूपितकर्तृत्वाद्यनभिधाने नृतीयादेः साधुतति तदुक्तम्"प्रधानशक्त्याभिधाने गुणशक्तिरभिहितवत् प्रकाशते" इति शक्तिः कर्तृत्वादिकमिति वाच्यम्, तथापि 'चैत्रेण दृश्यमानं घट मैत्रः पश्यति' इत्यादौ ज्ञानभे. धानेपि पचतीतिपदेन पाककर्मत्वं त्वमिहितं नास्तीति तादृशपाककर्मत्वानमिधानमाश्रित्यैवात्रौदनपदाद् द्वितीया प्राप्ता साध्वी चेत्याह- कृतेति । अथेतिपूर्वपक्षी समाधत्ते- तीति । प्रकृ. तेपि' पक्कानि भुङ्क्ते चैत्रः । इत्यत्रापि भुङ्क्तेइतिपदेन भोजनकर्तृत्वाभिधानपि पक्कानीतिपदेन पाककर्तृत्वं त्वभिहितं नास्ति क्तप्रत्ययस्य कर्मणि सत्त्वादिति तादृशपाककर्तृत्वानभिधानमाश्रित्य चैत्रपदात्ततीया स्यादेव तथा 'ओदनः पक्त्वा भुज्यते ' इत्यत्रापि भुज्यते इतिपदेन भोजनकर्मत्वाभिधानेपि पक्त्वेतिपदेन पाककर्मत्वं त्वभिहितं नास्ति क्वाप्रत्ययस्य कर्मण्यऽसत्त्वादिति तादृशपाककर्मत्वानभिधानमाश्रित्यौदनपदाद् द्वितीया स्यादेवत्यथेत्यायुक्तशका तदवस्थैवे. त्यर्थः । तत्=पाककर्तृत्वं पाककर्मत्वं च । - ननु प्रधानक्रियानिरूपितस्य कर्तृत्वस्यानभिधाने तृतीया कर्मत्वस्यानमिधाने च द्वितीया भवति साची च प्रधानक्रियानिरूपितस्य कर्तृत्वस्य कर्मत्वस्य चाऽभिधाने गौणक्रियानिरूपितमपि कर्तृत्वं कर्मत्वं चाऽमिहितवदेव भवति तथा प्रधानक्रियानिरूपितस्य कर्तृत्वस्य कर्मवस्य चाऽनमिधाने गौणक्रियानिरूपितमपि कर्तृत्वं कर्मत्वमऽनभिहितवदेव भवति, उक्तं च प्रधानशक्त्यभिधाने" इत्यादिना, प्रधानशक्तेः प्रधानक्रियानिरूपितस्य कर्तृत्वस्य कर्मत्वत्वाऽभिधाने सति गुणशक्तिः गौणक्रियानिरूपितमपि कर्तृत्वं कर्मत्वमऽभिहितवदेव भवतीत्यर्थः, उक्तं च हरिणा " प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिः, गुणाश्रया तत्र प्रधानमनुरुध्यते ॥ उक्तमेवोक्ततां श्राति कचिदुक्तमनुक्तताम् । अनुक्तमपि नोक्तं स्यात् कचिदेव पदान्तरैः।" इति । तथा च — पक्कानि भुक्ते चैत्रः' इत्यत्र प्रधानीभूतभोजनक्रियानिरूपितकर्तृत्वस्याभिहितत्वाद् गौणीभूतपाकक्रियानिरूपितकर्तृत्वमप्यभिहितवदेव प्रकाशते इति प्रधानीभूतभोजनक्रियानिरूपितकर्तृत्वानभिधानस्य तृतीयाप्रयोजकस्याभावान्नात्र चैत्रपदात्तृतीयापत्तिः, तथा । ओदनः पक्त्वा भुज्यते । इत्यत्र प्रधानीभूतभोजनक्रियानिरूपितकर्मत्वानभिधानस्य द्वितीयाप्रयोजकस्याभावान्नात्रौदनपदादू द्वितीयापत्तिः । ' भुञ्जानेन चैत्रेण पच्यते । इत्यत्र च प्रधानीभूतपाकक्रियानिरूपितकर्तृत्वानभिधानस्य तृतीयाप्रयोजकस्य सत्त्वान्न चैत्रपदात्ततीयानुपपत्तिः, तथा 'भोक्तव्यमोदनं पंचति' इत्यत्र प्रधानीभूतपाकक्रियानिरूपितकर्मत्वानभिधानस्य द्वितीयाप्रयोजकस्य सत्त्वान्नात्रौदनपदाद् द्वितीयानुपपत्तिरित्याशङ्कयाह-नचेति । परिहरति- तथापीति, शानभेदेपि ज्ञेयपदार्थनिष्ठकर्मत्वरूपविषयताया भदो न भवतीति'चैत्रेण दृश्यमानं घटं मैत्रः पश्यति। "Aho Shrutgyanam" Page #213 -------------------------------------------------------------------------- ________________ द्वितीयातृतीयाप्रयोजकवि० ] व्युत्पत्तिवादः । (२०१) देनविषयताभेदाभावात् चैत्रदर्शनमैत्रदर्शनोभयनिरूपितविषयत्वरूपकर्मतायाः कृताऽभिधानाद् द्वितीयानुपपत्तिः, इति चेत् ?, न, तत्तत्प्रातिपदिकार्थविशेषणत्वमात्रेण कर्तृत्वकर्मवाद्यविवक्षाया एव तदनभिधानपदार्थत्वात्, तत्तत्प्रातिपदिकार्थविशेष्यतया कर्मत्वकर्तृत्वादिविवक्षायां द्वितीयादिविभक्तेः साधुत्वमित्यर्थे तात्पर्यस्य पर्यवसितत्वात् । शेषमाख्यातार्थविचारावसरे विवेचयिष्यत इत्यलमत्राधिक्येन । . इत्यत्र मैत्रकर्तृकप्रधानीभूतदर्शनक्रियानिरूपितं विषयत्वरूपं कर्मत्वं चत्रकर्तकगु गीभूतदर्शनक्रियानिरूपितं विषयत्वरूपं कर्मत्वं च घटे एकमेव तच 'दृश्यमानम् । इतिकृताऽभिहितमेयेति प्रधानक्रियानिरूपितकर्मत्वस्यात्राभिहितत्वेनाऽनमिहितत्वं द्वितीयाप्रयोजकं नास्तीति घटपदाद् द्वितीया न स्यादेवेतिदोषः । दर्शनमपि दर्शनत्वेन रूपेणैकमेवेति विज्ञेयम् । अथेत्यादिनाशङ्कितं परिहरति- नेति, तत्तत्प्रातिपदिकार्थविशेषणत्वेन या कर्तृत्वस्याऽविवक्षा तदेव कर्तृत्वानभिधानम्, तत्तत्प्रातिपदिकार्थविशेषणत्वेन या कर्मत्वस्याविवक्षा तदेव कर्मस्वानभिधानम्, तस्मात् कर्तृत्वस्य तत्तत्प्रातिपदिकार्थस्य विशेषणत्वेनाऽविवक्षायां विशेष्यत्वेन विवक्षायां च कर्तृवाचकपदात् तृतीया भवति तथा च 'चैत्रेण पच्यते' इत्यत्र तृतीयार्थस्य कर्तृत्वस्य चैत्ररूपप्रातिपदिकार्थस्य विशेषणतया विवक्षा नास्ति किं तु विशेष्यतयैव विवक्षास्ति कर्तृत्वस्थ प्रत्ययार्थत्वेन प्रधानत्वात् " प्रकृतिप्रत्ययार्थी सहाथ ब्रूतस्तयोः प्रत्ययार्थस्य प्राधान्यम् " इति न्यायात् चैत्रपदात्तृतीया जाता साध्वी च, एवम् ‘भुञ्जानेन चैत्रेण पच्यते' 'चैत्रेण दृश्यमानम्। इत्यादिश्वपि कर्तृत्वस्य प्रातिपदिकार्थविशेष्यत्वात् तृतीयोपपत्तिईया । एवं कर्मत्वस्य तत्तत्प्रा. तिपदिकार्थस्य विशेषणत्वेनाऽविवक्षायां विशेष्यत्वेन विवक्षायां च कर्मवाचकपदाद् द्वितीया भवति यथा ' तण्डुलं पचति । इत्यत्र द्वितीयार्थस्य कर्मत्वस्य तण्डुलरूपप्रातिपदिकार्थस्य विशेषणतया विवक्षा नास्ति किं तु विशेष्यतयैव विवक्षास्ति कर्मत्वस्य प्रत्ययार्थत्वेन प्रधानत्वादिति तण्डुलपदाद् द्वितीया जाता,एवमेव 'भोक्तव्यमोदनं पचति' 'चैत्रेण दृश्यमानं घटं मैत्रः पश्यति' इत्यादिष्वपि कर्मत्वस्य प्रातिपदिकार्थविशेष्यत्वाद् द्वितीयोपपत्तिज्ञेया । 'चैत्रः पचति' 'पकानि भुङ्क्ते चैत्र, इत्यत्र चैत्रपदोत्तरप्रथमार्थो न कर्तृत्वं येन कर्तृत्वस्य प्राधान्येन विशेष्यत्वं स्यात् किं तु चैत्ररूपप्रा. तिपदिकार्थविशेषणत्वमेवास्ति कृतिमांश्चैत्र इत्याकारकबोधोदयादिति नात्र कर्तृवाचकचैत्रपदात्तृती. यापत्तिः । तथा-- 'तण्डुलः पच्यते' 'ओदनः पक्त्वा भुज्यते' इत्यादौ तण्डुलादिपदोत्तरप्रथमार्थों न कर्मत्वं येन तस्य प्राधान्येन विशेष्यत्वं स्यात् किं तु तण्डुलादिरूपप्रातिपदिकार्थविशेषणत्वमेव विक्लित्त्याश्रयस्तडुल इत्याकारकबोधोदयादिति नात्र कर्मवाचकतण्डुलादिपदाद् द्वितीयापत्तिारैत्यर्थः । उक्तमेव स्पष्टयति- तत्तत्प्रातिपदिकार्थविशेष्यतयेति, 'चत्रेण पच्यते तण्डुलः' इत्यादी 'चैत्रादिवृत्तिकृतिजन्यव्यापारजन्यविक्कित्त्याश्रयस्तडुलः' इत्याद्याकारफबोधोदयाच्चैत्रादिविशेष्यत्वेनैव कर्तृत्वम्-कृतिर्भासते इति चैत्रादिपदात्तृतीया जाता ।' तण्डुलं पचति चैत्रः' इत्यादौ "Aho Shrutgyanam" Page #214 -------------------------------------------------------------------------- ________________ ( २०२ ) सादर्श: [ प्रथमाकारके - आख्यातद्विवचनबहुवचनयोस्तु संख्याबोधकत्वमावश्यकम् - ' चैत्रो मैत्रश्वः गच्छतः ' 'चैत्रो मैत्रो देवदत्तश्च गच्छन्ति' इत्यादी "चन्द्रे. कलकः सुजने दरिद्रता विकाशलक्ष्मीः कमलेषु चञ्चला । मुखप्रसादः सवनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम् ॥” इत्यादौ च द्वित्वबहुत्वबोधकसुपोऽभावात् । न च तत्र सुबेकवचनस्यैव द्वित्वबहुत्वादी लक्षणास्त्विति वाच्यम्, आनुशासनिकातिरिक्तार्थे सुब्विभक्तेर्लक्षणाया अनभ्युपगमात्, अन्यथा 'चैत्रो मैत्रश्च गच्छतः ' इत्यादाविव च्छन्दसि लक्षणयैव स्वादिना द्वित्वादिबोधनसंभवाद् औजसादिरूपादेशि स्मृतिद्वारा द्वित्वादिबोधनिर्वाहाय छन्दसि " सुपां सुलुक् 'तण्डुलादिवृत्तिविक्लित्त्यनुकूलव्यापारानुकूलकृतिमांश्चैत्रः' इत्याद्याकारक बोधोदयात् तण्डुलादिविशेष्यत्वेनैवं विक्तित्तिर्मासते विक्लित्तिरेव चात्र कर्मत्वमिति तण्डुलादिपदाद्वितीया प्राप्नोतीत्यनुसन्धेयम् । फलस्य कर्मत्वं चाये धातुप्रकृतिकप्रत्ययार्थविचारस्थले “कर्मत्वं च धात्वर्थतावच्छेदकीभूतसंयोगविभागादिरेव" इत्यादिना वक्ष्यति । आख्यातैकवचनस्य संख्याबोधकत्वाभावेव्याख्यातद्विवचनस्य द्वित्वसंख्याबोधकत्वमाख्यातवहुवचनस्य च बहुत्वसंख्याबोधकत्वमावश्यकमेव - 'चैत्रो मैत्रश्च गच्छतः' इत्यत्र सुब्विभक्तिद्विवचनस्याभावादाख्यातद्विवचनादेव द्वित्वबोधस्वीकारावश्यंभावात् एवम् 'चैत्रो मैत्रो देवदत्तश्व गच्छन्ति' "चन्द्रे कलङ्कः" इत्यादिवाक्यघटकाख्यातबहुवचनस्यापि बहुत्वसंख्याबोधकत्वमावश्यकम् - शाब्दबोधविषयीभूतबहुत्वस्य सुपा बोधासंभवात् सुब्बिभक्तिबहुवचनस्याभावादित्याहआख्यातेति । आख्यातद्विवचनबहुवचनार्थद्वित्ववत्वयोश्च प्रातिपदिकार्थचैत्रादावन्वयो भवति क्रियायां द्विश्वसंख्यान्वयासंभवात्, चैत्रमैत्रपदोत्तर सुवेकवचनं चात्र साधुत्वमात्रार्थकत्वा चिरर्थकमेक चैत्रमै सुवचनार्थैकत्वस्य बाधितत्वेनाऽन्वयासंभवादित्यनुसंधेयम् । ननु तत्र = ' चैत्रो मैत्रश्च गच्छतः ' इत्यादौ सुबेकवचनस्यैव द्वित्वे बहुत्वे वा लक्षणास्त्वित्याऽख्यातैकवचनत्रदाख्यातद्विवचनबहुवचनयोरपि निरर्थकत्वमेव युक्तमित्याशङ्कते - न चेति । परिहरति- आनुशासनिकेति, व्याकरणे सुबेकवचनस्य द्वित्वार्थकत्वं बहुत्वार्थकत्वं च नोक्तमिति न द्वित्वबहुत्वयोर्लक्षणा स्वीकर्तुं शक्यते, शक्यार्थैकत्वेन सह द्वित्वबहुत्वयोः संबन्धासंभवादपि न तत्र लक्षणा संभवति - लक्षणाया: शक्यसंबन्धरूपत्वात् । विपक्षे बाधकमाह- अन्य - थेति, यदि सुविभक्तेरपि कचिदर्थे लक्षणा व्याकरणकर्तुरभीष्टा स्यात्तदा ऋजवः सन्तु पन्थाः " इत्यत्राऽऽदेशिभूतजस्स्मरणद्वाराऽऽदेशरूपसुबेकवचनाद् बहुत्वबोधनिर्वाहाय ' पन्थानः ' इत्यत्रत्यजतः स्थाने ' पन्थाः इत्यत्रत्यसुइत्येकवचनस्यादेशविधानं व्यर्थमेव स्यात्- 'चैत्रो मैत्रश्च गच्छतः ' इत्यादाविव ' ऋजवः सन्तु पन्थाः ' इत्यत्रापि सुबेकवचनस्य बहुत्वे लक्षणया बहुत्वार्थबोधकत्वसंभवात् व्याकरणकर्त्रा चात्र सुपां सु " इत्यादिसूत्रेण ' पन्थाः ' इत्येक 66 << - "Aho Shrutgyanam" 17 Page #215 -------------------------------------------------------------------------- ________________ सख्यान्वयकारणम् व्युत्पत्तिवादः । ( २०३ ) इत्यादिसूत्रेण औजसोंदिस्थाने स्वाद्यादेशस्य वैयर्थ्यात् । चैत्रादिपदोत्तरेकवचनस्य द्वित्वादिलाक्षणिकत्वे तदप्रकृत्यर्थमैत्रादिसाधारणंद्वित्वादिबोधस्योक्तव्युत्पत्तिविरोधेनानुपपत्तेश्च । आख्यातार्थसंख्यान्वयबोधे च समानविशेष्यकतदर्थ भावनान्वयबुद्धिसामग्री अपेक्षिता - भावनाया बाधादिग्रहकाले तात्पर्यादिग्रहशून्यकाले चोक्तस्थले द्वित्वान्वयाऽबोधात् भावनाया अविशेष्ये धात्वर्थादौ संख्यान्वयाऽबोधाच्च ताहसामय्याः संख्यान्वयबुद्धित्वावच्छिन्नं प्रति स्वातन्त्र्येण हेतुता । तदकल्पनेपि आख्यातजन्यसंख्योपस्थितियोग्यताज्ञानविशेषादिघटितसामय्या भावनानवगा > वचनस्य जस्स्थाने आदेशविधानं कृतमितिज्ञायते - सुविभक्तेर्लक्षणा न भवतीति न ' चैत्रो मैत्रश्च गच्छतः ' इत्यादावपि सुबेकवचनस्य द्वित्वबहुत्वादी लक्षणासंभव इत्यर्थः । दोषान्तरमाहचैत्रादिपदोत्तरेति, अत्र यदि चैत्रपदोत्तरैकवचनस्य द्वित्वादी लक्षणा स्यात्तदा तादृशद्वित्वस्य तदप्रकृत्यर्थे-- चैत्रपदोत्तरैकवचनस्य प्रकृत्यर्थश्चैत्र एव न तु मैत्र इति चैत्रपदोत्तरेकवचनाऽप्रकृत्यर्थमैत्रादावन्वयो न संभवति-- उक्तव्युत्पत्तिविरोधेन " प्रत्ययानां स्वप्रकृत्यर्थान्वितस्वार्थarrera " इति व्युत्पत्तिविरोधात् । किं वा चैत्रपदोत्तरेकवचनार्थद्वित्वस्योद्देश्यतावच्छेदकव्याप्यपर्याप्तिसंबन्धेनैवान्वयः स्यात् चैत्रपदोत्तरैकवचनद्वित्वस्य च चैत्रत्वमेवोद्देश्यतावच्छेदकं संभवति चैत्रत्वव्याप्यपर्याप्तिसंबन्धेन च द्वित्वस्य चैत्रद्वये एवान्वयः संभवतीत्युक्तद्वित्वान्वयव्युत्पतिविरोधाद् न चैत्रमैत्रद्वयेऽन्वयबोध उपपद्यते इत्यर्थः । चैत्रमैत्रादिसकलपदोत्तरैकवचनानां द्विवादी लक्षणायामनेकद्वित्वादिबोधापत्तिरित्यपि विज्ञेयम् । आख्यातार्थसंख्यायाः कुत्रान्वयो भवतीति जिज्ञासायामाह - आख्यातार्थेति, आख्यातार्थ संख्याप्रकार कशाब्दबोधं प्रति समानविशेष्यक = आख्यातार्थसंख्याभावनयोर्यो विशेष्यस्तद्विशेष्यकतदर्थ ( आख्यातार्थ ) भावनाप्रकारकशाब्दबोधसामग्री अपेक्षिता भवति सा च सामग्री भावनाप्रकारकतात्पर्यज्ञानयोग्यताज्ञानादिघटिता ज्ञेया तथा च यत्राख्यातार्थ भावनाया अन्ययो भवति तत्रैवाख्यातार्थसंख्याया अन्ययो भवतीति प्राप्तम् । आख्यातार्थसंख्याप्रकार कशाब्दबोधं प्रत्याssपातार्थ भावना प्रकार कशाब्दबोधसामग्र्याः कारणत्वे हेतुमाह- भावनाया इति, यदि आख्यातार्थसंख्याप्रकार कशाब्दबोधं प्रत्याख्यातार्थभावनाप्रकारकान्वयबोधसामग्री कारणं न स्यात्तदा भावनाया बाधग्रहकालेपि तथा भावनाया:=भावनाविषयकतात्पर्यादिग्रहशून्यकालेपि उक्तस्थले= ' चैत्रो मैत्रश्च गच्छतः ' इत्यादिस्थले चैत्रादावाख्यातार्थसंख्याया अन्वयः स्यादेव न चैवं भवति, तथा भावनाया अविशेष्ये धात्वर्यादावप्याख्यातार्थसंख्याया अन्ययो न भवतीत्याऽऽख्यातार्थसंख्याप्रकार शाब्दबोधं प्रति तादृशसामन्या:- आख्यातार्थ भावना प्रकार कशाब्दबोधसामग्र्याः स्वातयेण= पृथगेव हेतुत्वमस्तीत्यर्थः । विपक्षे बाधकमाह - तदकल्पनेपीति, आख्यातार्थसंख्याप्रकारकशाब्दबोधं प्रति भावनाप्रकार कशाब्दबोधसामय्या हेतुत्वाकल्पनेप्याऽऽख्यातजन्यसंख्योपस्थिति - "Aho Shrutgyanam" Page #216 -------------------------------------------------------------------------- ________________ (२०४) सादर्श: [ प्रथमाकारकेहिसंख्यान्वयबोधस्य कदाप्यजननात्, संख्यान्वयबोधसाधारणभावनान्वयबोधत्वावच्छिन्नहेतनामपि तादृशसामग्रीघटकत्वेनापत्त्यभावात् । न च ताशकारणानां भावनान्वयबुद्धित्वं संख्यान्वयबुद्धित्वं वा जन्यतावच्छेदकमुपेयत इत्यत्र विनिगमनाविरहः- संख्यामविषयीकृत्यापि भावनान्वयबोधस्यानुभवसिद्धत्वात्, द्वितीयस्य जन्यतावच्छेदकत्वाऽसंभवादितिदिक् । योग्यताज्ञानादिघटितया आख्यातार्थसंख्याप्रकारकशाब्दबोधसामथ्या भावनानवगाही ( भावनामविषयीकृत्य ) संख्याप्रकारकशाब्दबोधः कदापि न जन्यते इति विवशमाऽऽख्यातार्थसंख्या. प्रकारकशाब्दबोधं प्रति भावनाप्रकारकशाब्दबोधसामग्र्या हेतुत्वं कल्प्यते. एवं च भावनाप्रकारकशाब्दबोधसामग्र्या एव भावनाप्रकारकशाब्दबोधप्रत्याख्यातार्थसंख्याप्रकारकशाब्दबोधं प्रति च कारणत्वाल्लाघवमपि भवतीत्यर्थः । ननु यदि भावनाप्रकारकशाब्दबोधसामन्या आख्यातार्थसंख्याप्रकारकशाब्दबोध प्रति स्वातन्त्र्येण हेतुत्वमस्ति तदा तादृशसामग्र्या भावनामविषयीकत्यापि भावनानवगाह्याख्यातार्थसंख्याप्रकारकशाब्दबोधः कथं न स्यादित्याशझ्याह- संख्यान्वयबोधेति, संख्याप्रकारकशाब्दबोधसामयां भावनाप्रकारकशाब्दबोधहेतूनामपि भावनाविषयकतात्पर्यज्ञानयोग्यताज्ञानादीनां घटकत्वेनसत्त्वेन आपत्त्यऽभावात् तादृशसामग्र्या भावनामविषयीकृत्य भावनानवगाहिकेवलसंख्याप्रकारकशाब्दबोधस्यापत्तिास्तीत्यर्थः । किं या "कदाप्यजननात् " इत्युके हेतुमाह-संख्यान्वयेति । अर्थस्तु स एव विज्ञेयः ।। ननु तादृशकारणानाम् संख्यान्वयबोधसाधारणभावनान्वयबोधसामग्रीघटककारणानां भावनान्वयबुद्धिरेव जन्या न संख्यान्वयबुद्धिर्जन्येत्यत्र विनिगमनाविरहः अर्थाद् यद्येकव सामग्री संख्याप्रकारकबोधस्य भावनाप्रकारकबोधस्य च कारणं किं वा यदि भावनामविषयीकृत्य संख्याप्रकारकशाब्दबोधो न जायते तदाऽऽख्यातार्थसंख्याप्रकारकशाब्दबोधं प्रति भावनाप्रकारकशाब्दबोधसामग्रीकारणं न तु भावनाप्रकारकशाब्दबोधं प्रत्याख्यातार्थसंख्याप्रकारकशाब्दबोधसामग्रीकारणमित्यत्र विनिगमनाविरहः तथा च भावनाप्रकारकशाब्दबोधं प्रत्येवाख्यातार्थसंख्याप्रकारकशाब्दबोधसामग्री किं न कारणं स्थात् इत्याशङ्कयाह- न चेति । परिहारहेतुत्वेन विनिगमनामाहसंख्यामिति, भावनामविषयीकृत्य संख्याप्रकारकशाब्दबो यः कदापि न जायते संख्यामविषयीकृत्य तु 'चैत्रमैत्राभ्यां भूयते' इत्यादौ भावाख्यातेन भावनाप्रकारकबोधो जायते भावनाप्रकारकबोधस्य व्यापकत्वेन तत्सामग्र्या एव संख्याप्रकारकशाब्दबोधं प्रति हेतुत्वमुख्यते युक्तं चेत्यर्थः,न तु द्वितीयस्य संख्याप्रकारकशाब्दबोधत्वस्य जन्यतावच्छेदकत्वम् तादृशसामग्रीजन्यतावच्छेदकत्वं युक्तमित्याह- द्वितीयस्येति, संख्याप्रकारकशाब्दबोधसामग्र्यास्तु भावनाप्रकारकशाब्दबोधं प्रति कारणत्वं न युक्तमित्यर्थः । संख्यामविषयी कृत्यापि भावनाप्रकारकशाब्दबोधस्य जायमानत्वेन संख्याप्रकारकशाब्दबोधत्वस्य न्यूनवृत्तित्वाजन्यतानवच्छेदकत्वं विज्ञेयम् । "Aho Shrutgyanam" Page #217 -------------------------------------------------------------------------- ________________ संख्यासंबन्धोपसंहारः] व्युत्पत्तिवादः। (२०५ ___ अथ गुणादिवाचकपदोत्तरद्विवचनबहुवचनयोः कथं द्वित्वादिबोधकता ? सख्याया गुणत्वेन गुणादी बाधात् । न च तत्र स्वाश्रयसमवेतत्वादिसंबन्धन द्रव्यगतं द्वित्वादिकमेव भासते इति वाच्यम्, एकव्यक्तावपि तादृशसंबन्धेन द्वित्वादेः परिसमाप्ततया एकमात्रतात्पर्येणापिद्विवचनाद्यापत्तिारेतिचेत ?, मैवम्अपेक्षाबुद्धिविषयत्वमेव तदुत्तरद्विवचनादिना बोध्यते । तच्चैकमात्रवृत्तिधर्मस्थ प्रकृत्यर्थतावच्छेदकत्वस्थले प्रकृत्यर्थतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिसंबन्धेन ननु — रूपरसौ ' इत्यादौ गुणादिवाचकपदोत्तरवर्तमानद्विवचनबहुवचनयोत्विबहुत्वरूपसंख्याबोधकरवं कथं स्यात् संख्याया गुणत्वाद् गुणे गुणानङ्गीकाराचेत्याशङ्कते- अथेति । एक वचनस्य तु साधुत्वाथकत्वसंभवेन नैरर्थक्यमपि संभवति न तु द्विवचनबहुवचनयोः केवल साधुत्वार्थकत्वमित्येकवचनाशकां परित्यज्य द्विवचनबहुवचनविषयकमेवाशङ्कितम् । ननु स्वाश्रयसमवेतत्वसंबन्धेन स्वं द्वित्वादिस्तदाश्रयो घटादिस्तत्र समवेतत्वं गुणादावस्तीत्येतादृशसंबन्धेन द्रव्यगतमेव द्वित्वादिकं तत्र-गुणादौ भासते न तु गुणादौ वास्तवं गुणरूपं द्वित्वादिकं स्वीक्रियते इति न कोपि दोष इत्याशङ्क्याह-न चेति । परिहरति- एकव्यक्तावपीति, पर्याप्त्यादिसंबन्धेन द्वित्वस्यैकव्यक्तावऽसंभवेपि तादृशसंबन्धेनस्वाश्रयसमवेतत्वसंबन्धेन त्वेकरूपादिगुणव्यक्तावपि द्वित्वादेः परिसमाप्ततया-पर्याप्तिसंभवात् पर्याप्तत्वात एकमात्ररूपव्यक्तितात्पर्येणापि 'घटे रूपे' इत्येवं द्विवचनापत्तिः स्यादेवेति दोषः । तथास्मिन् मते 'घटे रूपरसौ । इत्यत्र रूपरसाश्रयीभूतघटे एव द्वित्वं नास्तीति कथं घटगतं द्वित्वं रूपरसयोर्भासतेत्यपिदोषः । न च रूपरसपदोसरद्विवचनार्थद्वित्वस्य घटेन्वयः घटेन्वितं च तदेव द्विरवं पुना रूपरसयोर्भासते इतिवाच्यम्, एकस्मिन् घटे द्वित्वान्वयासंभवादित्यवधेयम् । परिहरति-मैवमिति, 'अयमेको ऽयमेकः' इत्याकारकापेक्षाबुद्धेविषयत्वरूपमेव द्वित्वादिकं गुणादौ तदुत्तरद्विवचनादिना-गुणादिपदोत्तर द्विवचनादिना बोध्यन्न न तु संख्यारूपं द्वित्वादिकं येन द्विवचनाद्यर्थद्वित्वादेर्गुणादावन्वयो न स्यादित्यर्थः । तच्च अपेक्षाबुद्धिविषयत्वरूपं द्वित्वादिकम् एकमात्रवृत्तिधर्मस्य-रूपत्वादेः प्रकृत्यर्थतावच्छेदकत्वस्थले ' घटे रूपे रूपाणि ' इत्यादौ प्रकृत्यर्थतावच्छेदक ( रूपत्वादि) व्याप्यत्वविशिष्टपर्याप्तिसंबन्धेनान्वेतीति नैकरूपतात्पर्येणापि ' रूपे' इत्यादि द्विवचनापत्तिः तादृशसंबन्धेन रूपद्वये एव द्वित्वस्य संभवात् । अन्यत्र यत्रानेकवृत्तिधर्मस्य प्रकृत्यर्थतावच्छेदकत्वं यथा 'रूपरसौ ' इत्यत्राऽनेकवृत्तिरूपत्वरसत्वयोः प्रकृत्यर्थतावच्छेदकत्वमिति तत्र द्वित्वपर्याप्तौ रूपत्वव्याप्यत्वं वा रसत्वव्याप्यत्वं वा नास्त्येव-तादृशद्वित्वपर्याप्ते रूपत्वाभाववति रसे रंसेवाभाववति रूपे च सत्त्वादिति द्वित्वं शुद्धपर्याप्तिसंबन्धेन प्रकृत्यर्थेऽन्वेति, शुद्धपर्याप्तिसंबन्धेनापि द्वित्वस्य रूपरसयोरुभयोरेवान्वयसंभवात् पर्याप्तौ किंचिद्व्याप्यस्वविशेषणापेक्षा नास्ति । एकरूपव्यक्तावपि रूपरसोभयगतद्वित्वस्य शुद्धपर्याप्तिसंबन्धेनान्वयसंभवादेकरूपव्यक्तितात्पर्य "Aho Shrutgyanam" Page #218 -------------------------------------------------------------------------- ________________ सादर्श:प्रकृत्यर्थ न्वेति, अन्यत्र तुं शुद्धपर्याप्तिसंबन्धेनेति न द्वन्द्वादिस्थलोक्तदोष इति विदुषां परामर्शः। ॥ इति व्युत्पत्तिवादे प्रथमाकारकम् ॥ णापि रूपे ' इति प्रयोगः स्यात्तद्वारणाय पर्याप्तौ प्रकृत्यर्थतावच्छेदकज्याप्यत्वविशेषणापेक्षास्तोत्यादिकं सर्वमपेक्षितं यथामति पूर्वमेव प्रतिपादितं तदेवात्राप्यनुसंधेयम् । फलमाह-न द्वन्द्वादीति, 'धवखदिरौ ' इति द्वन्द्वस्थले ये दोषाः प्रदर्शितास्तेषां प्रातिर्नास्तीत्यर्थः । तथा च यथा ' घटौ' इत्यादी घटद्वये द्वित्वान्वयः प्रदर्शितस्तथैव ' रूपे, 'रसौ' इत्यादौ द्वित्वाश्वयो ज्ञेयः, यथा च 'धवखदिरौ' इत्यत्र द्वित्वान्वयः प्रदर्शितस्तथैव 'रूपरसौ' इत्यादिद्धन्दूस्थले द्वित्वान्वयो विज्ञेयः । इति शम् ।श्रीमते हयग्रीवाय नमः। ॥ इति व्युत्पत्तिवादाऽऽदर्शे प्रथमाकारकं समाप्तम् ।। "Aho Shrutgyanam" Page #219 -------------------------------------------------------------------------- ________________ अथ द्वितीया "कर्मणि द्वितीया" इत्यनुशासनात् कर्मत्वं द्वितीयार्थः, तत्र कर्मपदस्य धर्मपरत्वात् सप्तम्या वाचकतार्थकत्वात् । कर्मणश्च न तथात्वम्- कर्मणि नामार्थस्य ग्रामादेरभेदान्वयसंभवेपि धात्वर्थगमनादिना तदन्वयासंभवात् गौरवाच । कर्मत्वं च क्रियाजन्यफलशालित्वम् तत्र च क्रिया धातुत एवं लभ्यते, जन्यजनकभावस्य च विनैव पदार्थत्वं संसर्गमर्यादया भानं संभवतीति फलमात्रं कर्मप्रत्ययार्थः । || श्रीमद्धयग्रीवाय भगवते नमः ॥ " कर्मणि द्वितीया " 66 , 66 द्वितीयाविभक्त्यर्थनिरूपणमारभते - कर्मणीति, कर्मत्वं द्वितीयार्थ इत्यत्र इति सूत्रमेत्र प्रमाणमित्यर्थः । तत्र = " कर्मणि द्वितीया " इतिसूत्रे कर्मपदस्य ग्रामादिरूपकर्म - पदार्थवृत्तिकर्मत्वरूपधर्मपरत्वात् कर्मत्वं द्वितीयार्थः । गुणे शुक्लादयः पुंसि " इत्यादी * गुणवाचकाः शुक्लादयः पुंसि ' इत्यर्थस्यामीष्टत्वाद् यथा गुणे " इति सप्तम्या वाचक. - सार्थकत्वं तथात्रापि " कर्मणि " इति सप्तम्या वाचकतार्थकत्वात् " कर्मणि द्वितीया " इति - सूत्रस्य ' कर्मत्ववाचिका द्वितीया' इत्यर्थः संपन्न इत्याह- सप्तम्या इति । ननु सूत्रे कर्मपदं कर्मभूतग्रामादिपदार्थपरमेत्र किं न स्यादित्याशङ्क्याह - कर्मणश्चेति, कर्मणः कर्मभूतग्रामादिप-दार्थस्य तु न तथात्वम् = द्वितीयार्थत्वं संभवति, यदि कर्मैव द्वितीयार्थः स्यात्तदा ग्रामस्यैव कर्मस्वाद् द्वितीयार्थत्वेन प्रधानीभूततादृशकर्मपदार्थे नामार्थस्य = प्रमपदवाच्यस्य ग्रामस्य ' ग्रामं गच्छति ' इत्यत्राभेदान्वयसंभवेपि धात्वर्थगमनादिना तु तत् तस्य कर्मपदार्थस्यान्वयो न संभयति - कर्मभूतग्रामादिनिरूपितजनकत्वादेर्धात्वर्थगमनादावभावादित्यर्थः । ननु कर्मणोपि द्वितीयार्थत्वे तस्य कर्मभूतग्रामपदार्थस्य स्ववृत्तिफलजनकत्वसंबन्धेन धात्वर्थगमनादिनाऽन्वयः संभवत्येवेति ' ग्रामं गच्छति ' इत्यादौ कर्मणोपि द्वितीयार्थत्वे न कोपि दोषः स्वं कर्म तद्वृत्ति फलं संयोगस्तज्जनकत्वं धात्वर्थगमनेऽस्त्येवेत्याशङ्क्याह- गौरवाच्चेति, एवं हि गौरवं स्यादेचेति न कर्मद्वितीयार्थ: : किं तु कर्मत्वमेव तत्र कर्मत्वं हि चैत्रादिकर्तृकव्यापारजन्यसंयोगादिरूपं फल• मेव तस्य तु जनकत्वसं बंधेन साक्षादेव धात्वर्थगमनादिनाऽन्वयः संभवत्येव - ग्रामवृत्तिसंयोगजयापार इतिबोधोदयादिति न गौरवमपीति भावः । कर्मत्वस्वरूपमाह- कर्मत्वमिति । क्षेत्र = क्रिषाजन्यफलशालित्वे यः क्रियापदार्थः प्रविष्टः स धातुवाच्य एवं क्रियातज्जन्यफलयोश्च यो जन्यजनकभावः स संसर्गत्वादाकाङ्क्षाबलेनैव भासते इत्यवशिष्टं संयोगादिरूपं फलमात्रमेत्र कर्मप्रत्ययस्य द्वितीयादेरर्थ इत्यर्थः । "Aho Shrutgyanam" Page #220 -------------------------------------------------------------------------- ________________ (२०८) सादर्श:- [ द्वितीयाकारकप्रथमखण्डेन च संयोगविभागादिरूपफलमपि धातुलभ्यमेव- गमित्यजिप्रभृतीनां तदवच्छिन्नस्पन्दादिरूपव्यापारवाचकत्वादितिवाच्यम्, व्यापारमात्रस्य धात्वर्थत्वात् । फलविशेषान्वयबोधे च धातुविशेषजन्यव्यापारोपस्थितेहेतुतया 'ग्रामं त्यजति' इत्यादी धात्वर्थस्पन्दे ग्रामनिष्ठविभागजनकत्वमेव 'ग्रामं गच्छति" इत्यादौ च धात्वर्थस्पन्दे ग्राममिष्ठसंयोगजनकत्वमेव प्रतीयते न तु विपरीतम् । 'ग्रामं गच्छति' इत्यादिवञ्च 'ग्रामं स्पन्दते' इत्यादयो न प्रयोगा:-द्विती. यादेर्गम्याद्युपस्थापितस्पन्दादावेव फलान्वयबोधकत्वात्, स्पन्दिप्रभृत्युपस्थापिते तस्मिन् द्वितीयादिना फलान्वयबोधजननासंभवात्, न हि येन केन चिदु. ननु “ फलव्यापारयोर्धातुः" इति प्रमाणात् संयोगविभागादिरूपं फलमपि धातुलभ्यमेवगमित्यजिप्रभृतीनां धातूनां तदवच्छिन्नस्पन्दादिरूपव्यापारवाचकत्वात्-संयोगविभागादिफलजनकस्पन्दादिरूपव्यापारवाचकत्वात्-जनकत्वसंबन्धेन संयोगादिरूपफलविशिष्टव्यापारवाचकत्वेन संयोगादिरूपफलवाचकत्वस्यापि प्राप्तत्वात् कथं फलस्य कर्मप्रत्ययवाच्यत्वमुच्यते इत्याशङ्कतेन चेति । परिहरति-व्यापारेति, व्यापारमात्रमेव धातुवाच्यमस्ति न तु फलमपीति संयोगादिरूपफलम् 'ग्रामं गच्छति' इत्यादी कर्मप्रत्यय ( द्वितीया ) वाच्यमेवेत्यर्थः । ननु व्यापारमात्रस्य धात्वर्थत्वे फलमात्रस्य च कर्मप्रत्ययार्थत्वे 'ग्रामं त्यजति' इत्यत्रापि धात्वर्थव्यपारे संयोगजनकत्वं प्रतीयेतेति सर्वत्र सर्वप्रतीत्यापत्त्या व्यापारविशेषफल विशेषयोः प्रतीतिनियमो न स्यादित्याशङ्क्याह-फलविशेषेति, सामान्यतः फलविषयकशाब्दबोधं प्रति कर्मप्रत्ययस्य कारणत्वेपि फलविशेषविषयकशाब्दबोधं प्रति तु धातुविशेषजन्यव्यापारोपस्थितेरेव कारणत्वं ज्ञेयं तथा च 'ग्रामं त्यजति' इत्यत्र ग्रामकर्मकत्यागरूपफलविषयकशाब्दबोधं प्रति त्यजधातुजन्यस्पन्दरूपव्यापारोपस्थितेर्हेतुत्वात् त्यजधात्वर्थस्पन्दे ग्रामनिष्ठो यो विभागस्तादृशविभागरूपफलजनकत्वमेव प्रतीयते न तु विपरीतम् ग्रामनिष्ठसंयोगरूपफलजनकत्वम्' तथा 'ग्रामं गच्छति' इत्यत्र ग्रामकर्मकसंयोगरूपफलविषयकशाब्दबोधं प्रति गम्धातुजन्यस्पन्दरूपव्यापारोपस्थितेहेतुत्वाद् गम्धात्वर्थस्पन्दे ग्रामनिष्ठो यः संयोगस्तादृशसंयोगरूपफलजनकत्वमेव प्रतीयते न तु विपरीतम्-ग्रामनिष्ठविभागरूपफलजनकत्वम्, फलविशेषान्वयबोधे यदि धातुविशेषजन्यव्यापारोपस्थितेर्हेतुत्वं न स्यात्तदोक्तवैपरीत्यमपि स्यादेव= त्यधात्वर्थस्पन्दे ग्रामनिष्ठसंयोगजनकत्वं गम्धात्वर्थस्पन्दे च ग्रामनिष्ठविभागजनकत्वमपि प्रतीयेत न चैवं प्रतीयते इति “फलविशेषान्वयबोधे" इत्यादिविशेषकार्यकारणभाव आश्रीयते इत्यर्थः।। ___ ग्राममिति-द्वितीया विभक्तिर्गमधातूपस्थिते एव स्पन्दरूपव्यापारे जनकत्वसंबन्धेन संयोगरूपफलस्यान्वयबोधजननसमर्थास्ति न तु स्पन्दधातूपस्थापितेपि स्पन्दरूपव्यापारे, स्पन्दधातूपस्थापिते तस्मिन् स्पन्दरूपव्यापारे द्वितीयादिना फलान्वयस्य बोधजननासंभवादिति 'ग्राम गच्छति 'इतिवत् 'प्रामं स्पन्दते' इति प्रयोगो न भवतीत्यर्थः । उक्तमुपपादयति- न हीति । "Aho Shrutgyanam" Page #221 -------------------------------------------------------------------------- ________________ धात्वर्थविचारः ] व्युत्पत्तिवादः । ( २०९ ) पस्थापितयोरेवार्थयोः परस्परमन्वयः प्रतीयते तथा सति घटकर्मत्वादिपदोपस्थापितयेोरपि घटकर्मत्वाद्योः परस्परमन्वयबोधप्रसङ्गात्, कृञादिसमानार्थकयतधातूपस्थाप्यफले विषयितात्मक द्वितीयार्थान्वयसंभवेनं 'घटं करोति' इतिवत् 'घटं यतते' इत्यादिप्रयोगप्रसङ्गाच, अपि तु ययोर्षादृशान्वयबोधे आकाङ्क्षा तदुपस्थापितयोरेव तादृशान्वयबोधः । आकाङ्क्षा च द्वितीयादेर्गम्यादिना कृञादिना च कल्प्यते न तु तत्समानार्थकेनापि स्पन्दियतिप्रभृतिनेति । किं वा ननु गम्धात्वर्थोपि स्पन्द एव स्पन्दधास्वर्थोपि स्पन्द एवेति समानार्थकत्वात् ' ग्रामं गच्छति' इतिवत् 'ग्रामं स्पन्दते' इति प्रयोगः कथं न स्यादित्याशङ्क्याह- न हीति, न हि याभ्यां काभ्यां पदाभ्यामुपस्थितयोरर्थयोः परस्परमन्ययः प्रतीयते, तथा सति = यदि याभ्यां काभ्यां पदाभ्यामुपस्थितयोरप्यर्थयोः परस्परमन्वयः प्रतीयेत तदा 'घटः कर्मत्वम् ' इत्यत्र घटकर्मत्वपदाभ्यामुपस्थितयोरपि घटकर्मत्वयोः परस्परमन्वयबोधः स्यादेव न चैवं भवति किं तु 'घटं करोति' इत्यत्र घटपदेनोपस्थितघटस्य द्वितीयोपस्थितकर्मत्वस्य चान्वयः प्रतीयते तस्मान्न याभ्यां काम्यां पदाभ्यामुपस्थितयोरर्थयोरन्वयः प्रतीयते इति गमूधातूपस्थितस्पन्दस्य द्वितीयोपस्थितफलस्य चान्वयः संभवति न तु स्पन्दधातूपस्थितस्पन्दस्य फलस्य चेत्यर्थः । किं च यदि येन केनचिदुपस्थितयोरप्यर्थयोः परस्परमन्वयः प्रतीयेत तदा कृञादिसमानार्थकयत्यादिधातूपस्याप्यफलेपि विषयितात्मकद्वितीयार्थस्यान्वय संभवेन 'घटं करोति' इतिवत् 'घटं यतते' इत्यपि प्रयोगः स्यादेव न चैत्रं भवतीत्यर्थः । अत्र धातोः फलावच्छिन्नव्यापारवाचकत्वमतेनोक्तम्- कृत्रादिसमानार्थकयतधातूपस्थाप्यफले इति तन्मते फलावच्छिन्नव्यापारस्य धातुवाच्यत्वेन फलस्यापि धातुवाच्यत्वं प्राप्तमेव, अवच्छिन्नत्वं चात्र जनकत्वमेव फलं चात्र यत्नः, तस्मिन् यत्नरूपफले द्वितीयार्थविषयिताया आश्रयत्वेनान्वयः घटनिष्ठविषयतानिरूपित विषयिताश्रयत्वस्य यत्ने सत्त्रात् 'घटं करोति' इत्यत्र घटनिष्ठविषयतानिरूपित विषयिताश्रयी भूतकृति( यत्न ) मानिति बोधोदयात् | 'घटं यतते' इतिप्रयोगस्तु न भवतीति सिद्धान्तमाह- अपि त्विति, ययोः पदयोर्यादृशान्त्रयबोधे आकाङ्क्षा = परस्परमपेक्षा भवति ताभ्यामेव पदाभ्यामुपस्थितयोरर्थयोस्तादृशान्वयस्य बोधो जायते यथा - घटपदद्वितीयापदयोर्घटकर्मत्वबोधे आकाङ्क्षास्तीति ‘ घटम् ' इतिघटपद द्वितीयापदाभ्यामुपस्थितयोरेव घटकर्मत्वयोः परस्परमस्वयबोधो जायते, तथात्रापि द्वितीयादेर्गम्यादिनैवाकाङ्क्षति गम्धातूपस्थितस्पन्दे एव द्वितीयोपस्थितफलस्यान्वयो भवति न तु स्पन्दधातूपस्थितस्पन्दपीति न ' ग्रामं स्पन्दते ' इति प्रयोगापत्तिः । तथा द्वितीयादेः कुञादिनैवाऽकाङ्क्षेति कुञ्चातूपस्थाप्यफले र्थस्य ( विषयितायाः ) अन्वयो भवति न यतिधातूपस्थापितफलेपीति न 'घटं प्रयोगापत्तिरित्याह- आकाङ्क्षा चेति । स्पन्दियतीत्यत्र यथासंख्यमन्वयः । १४ "Aho Shrutgyanam" एव द्वितीया - यतते' इति - Page #222 -------------------------------------------------------------------------- ________________ (२१) सादर्शः- [ द्वितीयाकारकप्रथमखण्डेन चाकाक्षात्र समभिव्याहारः स च गम्यादिनेव स्पन्द्यादिनापि समान एवेति वाच्यम्, यतः- द्वितीयादेर्गभ्यादिसमभिव्याहारस्यैव फलबलादन्वयबोधौपयिकत्वमुपगम्यते न तु स्पन्दिप्रभृतिसमभिव्याहारस्येति न तस्याकाक्षात्वम्अन्वयबोधीपयिकसमभिव्याहारस्यैव तथात्वात्, अत एव समानार्थकत्वेपिगम्यादेरिव न स्पन्द्यादेः सकर्मकत्वव्यवहारः- फलान्वितव्यापारबोधकधातुत्वस्यैव तन्नियामकत्वात् । अथ धातोापारमात्रवाचित्वे 'त्यजति गच्छति ' 'त्यागो गमनम् ' इत्यादिवाक्यादविलक्षणबोधप्रसङ्गः, न हि शक्तिभ्रमाद्यऽजन्मनोस्तादृशवाक्यजन्य नन्वाकाङ्क्षा समभिव्याहार एव समभिव्याहारश्च गम्यादिनेव स्पन्द्यादिनापि नानुपपन्न इति द्वितीयार्थफलस्य संयोगादेः स्पन्दिधातूपस्थापितस्पन्दरूपव्यापारे जनकत्वसंबन्धेन कथं नान्वयः स्यादित्याशक्याह- न चेति । परिहरति- यत इति, “ ग्रामं स्पन्दते । इत्यत्र ग्रामवृत्तिसंयोगजनकत्वविशिष्टव्यापारविषयको बोधो न जायते 'ग्रामं गच्छति ' इत्यत्र च जायते इति फलबलाद् द्वितीयादेर्यो गम्यादिना समभिव्याहारस्तस्यैवोक्तशाब्दबोधकारणत्वमुपगम्यते इति तादृशस्योक्तशाब्दबोधजनकस्यैव समभिव्याहारस्याकाङ्क्षात्वं युक्तं न तु द्वितीयादेः स्पन्दिप्रभृतिधातुनापि यः समभिव्याहारस्तस्यापि- उक्तशाब्दबोधाऽजनकत्वादित्यर्थः । तस्य स्पन्दिप्रभृतिसमभिव्याहारस्य । अत्र विनिगमनामाह- अन्वयेति । तथात्वात्= आकाङ्क्षात्वात् । अत एव द्वितीयादेः स्पन्द्यादिना सह सममिव्याहरस्याकाङ्क्षात्वाऽभावादेव द्वितीयार्थफलस्य स्पन्द्याद्युपस्थापितस्पन्दादिव्यापारे; आकाङ्क्षाविरहेणान्वयासंभवादेव गमिस्पन्दिधात्वोः समानार्थकत्वेपि गम्यादेरेव सकर्मकत्वं न स्पन्द्यादेः- फलान्वितव्यापारबोधकधातोरेव सकर्मकत्वनियमात् तथा च गम्यादेः फलान्त्रित यापारबोधकत्वात्सकर्मकत्वम्, स्पन्द्यादेः फलान्वितव्यापारबोवावाभावादकर्मकलनि पर्थ इत्याह- अत एवेति । तन्नियामकलमकर्मकत्व पयहा नियामकत्यम् । एवं समानापि धमादेख सकर्मकत्वं न यत्यावरिति शेयम् । पेन ब्यापारग कर्मभूतपदार्थे किंचित् फलमुत्पद्यते तस्य फलान्वितव्यापारत्वं ज्ञेयं यथा गमनव्यापारण ग्रामे गमनकर्तृदेवदत्तस्य संयोग उत्पद्यते न चैव स्पन्द्यादिधातुबोध्यव्यापारेस्तीति तत्र फलावितत्वं नास्तीति । । ननु यदि धातोः फलवाचकत्वं न स्यात् किं तु व्यापारमात्रवाचकत्वं स्यात्तदा सर्वेषामेव धातूनां व्यापारमात्रवाचकत्वेन समानार्थकत्वं स्यात्तथा च य एव ' त्यजति ' पदाद्बोधः स्यात्स एवं गच्छति ' पदादपि बोधः स्यात्, तथा त्यागगमनपदाभ्यामपि समानार्थक एवं बोधः स्यात् , न च शक्तिभ्रमं विना कोपि त्यजतिपदजन्यबोधगच्छतिपदजन्यबोधयोरवैलक्षण्यम्तुल्यत्वं स्वीकरोति, तथा त्यागपदजन्यगमनपदजन्यबोधयोरप्यवैलक्षण्यं न कोपि स्वीकरोति, तथासति-उक्तबोधयोरवलक्षण्ये सति त्यागादितात्पर्येण गमनादिपदं व्युत्पन्ना अपि प्रयुञ्जीरन् , "Aho Shrutgyanam" Page #223 -------------------------------------------------------------------------- ________________ धाविचारः ] व्युत्पत्तिवादः । ( २११ ) ๆ बोधो वैलक्षण्यं कश्चिदभ्युपैति तथा सति त्यागादितात्पर्येण गमनादिपदं व्युत्पन्ना अपि प्रयुञ्जीरन् । न च तत्र फलविशेषावच्छिन्नव्यापारे लक्षणा स्वीक्रियते इति विलक्षणबोधोपपत्तिरिति वाच्यम्, लक्षणया विलक्षणबोधजननेपि शक्याऽविलक्षण बोधजननसंभवेन दर्शितातिप्रसङ्गस्य दुर्वारत्वात् । न च गम्यादिशक्तिज्ञानजन्यार्योपस्थित्या फलाविषयकान्वयबोधस्य कुत्रा - प्यजननात् तादृशोपस्थितिघटितसामग्रीशरीरे फलविशेषबोधकसामय्यपि निवेइयते तथा च त्यागगमनादिपदयोः शक्त्या नाऽविलक्षणबोधजनकतेति वाच्यम्, त्यजिग म्योरेकार्थवाचकतारूपपर्यायतां विपर्यस्यतो गमनादिपदात् त्यागादिपदजन्यबोधसमानाकारकबोधस्य सर्वानुभवसिद्धतया गम्यादिशक्तिज्ञानात् फला न चैवमस्ति, तस्माद्धातोः फलविशिष्टव्यापारवाचकत्वमेव युक्तं तथा च त्यागगमनादिव्यापाराणामवच्छेदकीभूतफलभेदान्नोक्तवोधयोरवैलक्षण्यापत्तिर्न वा व्युत्पन्नानां गमनादितात्पर्येण त्यागादिपदप्रयोगापत्तिरित्याशङ्कते - अथेति । ननु धातोर्व्यापारमात्रवाचकत्वेपि= व्यापारमात्रे एव शक्तिस्वकारेपि तत्र' त्यजति गच्छति ' ' त्यागो गमनम् ' इत्यादी फलविशेषविशिष्टव्यापारे लक्षणा स्वीक्रियते तथा च फलभेदात् लक्षणया तत्तद्धातुपदेन विलक्षणबोधसंभवेन नाऽविलक्षणबोधप्रसङ्ग इति न गमनादितात्पर्येण त्यागादिपदप्रयोगापत्तिरित्याशङ्क्याह- न चेति । परिहरति- लक्षणयेति । लक्षणया विलक्षणबोधसंभवेपि शक्त्याऽविलक्षणबोधसंभवेन दर्शितातिप्रसङ्गस्य=गमनादितात्पर्येण त्यागादिपदप्रयोगप्रसङ्गस्य दुर्वारत्वात् । ननु गम्यादिधातुशक्तिज्ञानेन जायमाना यार्थोपस्थितिस्तया फलाऽविषयकबोधः कदापि न जन्यते किं तु फलविषयक एव बोधो जन्यते इति शाब्दबोधजनिका या तादृशोपस्थितिघटिता सामग्री तस्याः शरीरे स्वरूपे फलविशेषबोधकसामग्र्यपि निवेश्यते तथा च फलविशेषविषयकबोधजनक सामग्रीघटितया उक्तगम्यादिशक्तिज्ञानजन्यार्थोपस्थितिघडितसामय्या त्यागगमनादिपदाभ्यां शतयापि नाऽविलक्षणत्रोपप्रसङ्ग इति न गमनादितात्पर्येण त्वादिपदयोगापत्तिरित्याशङ्कते— न चेति । परिहरति- त्यजिगम्योरिति, विपर्यस्यतः = ( भ्रमवतः ) यस्य पुरुषस्य त्यजिगम्योरेकार्थवाचकतारूपपर्यायत्वमो जातः = य एव त्यजधातोरर्थः स एव गम्धातोरव्यर्थ इति भ्रमो जातस्तस्य पुरुषस्य गमनादिपदात् त्यागादिपदजन्यबोधतुल्य एव बोधो जायते इति सर्वानुभवसिद्धमस्ति - उक्त भ्रान्तपुरुषदृष्ट्या त्यजिगम्योः समानार्थकत्वेन पर्यायरूपत्वादिति तस्य भ्रान्तस्य गम्यादिधातुशक्तिज्ञानात् फलाविषयक बोधस्यापि = फल विशेषाविषयकबोधस्यापि प्रसिद्धे :द: जायमानत्वात् शक्त्यापि त्यागगमनादिपदाभ्यामविलक्षणबोधोत्पत्तिस्तदवस्थैष । एवमेव तदृशस्य = उक्तभ्रमवतः पुंसः त्यजिगम्योः पर्यायत्वज्ञान ( भ्रम ) सत्त्वेन ' ग्रामं गच्छति : 'ग्रामं त्यजति' इत्यादिवाक्याभ्यामप्यविलक्षणबोधोदयात् फलविशेषबोधकसामय्या यद् गम्यादि. पदजन्यबोधनियामकत्वमुक्तं नाम त्यजिगमिधातुभ्यां सामान्यतो व्यापारमात्रविषयकबोधे जायमा "Aho Shrutgyanam" Page #224 -------------------------------------------------------------------------- ________________ (२१२) सादर्श:- [ द्वितीयाकारकप्रथमखण्डे-- विषयकबोधस्यापि प्रसिद्धः, एवं तादृशम्य पुंसः 'ग्रामं गच्छति , 'ग्राम त्यजति' इत्यादितोप्यविलक्षणबोधोदयात् फलविशेषबोधकसामय्या गम्यादिपदजन्यबोधनियामकताया वक्तुमशक्यत्वात् , तथा चाऽभ्रान्तस्यापि भवन्मते ततोऽविलक्षणबोधसंभवेनैकविधबोधतात्पर्येण व्युत्पन्नानां ताशप्रयोगप्रसङ्गो दुर्वार इति चेत् ?, मेपि फलविशेषबोधकसामग्रीप्रभावात् फलविशेषस्याप्युपस्थित्या त्यजतिगच्छतिपदाभ्यां विलक्षण एव बोध उत्पद्यतेत्युक्तं तदपि वक्तुं न शक्यते- अविलक्षणबोधोदयस्य प्रदर्शितत्वादित्याहविमिति । तथा चाभ्रान्तस्यापि ततः= त्यजति, गच्छति । 'त्यागः, गमनम्' इत्यादितोऽविल. क्षणबोधसंभवेनेकविधबोधतात्पर्येण व्युत्पन्नानां तादृशप्रयोगप्रसङ्गः त्यागादितात्पयेण गमनादिपदप्रयोगप्रसङ्गो दुर्वार एवेत्युपसंहरति- तथा चेति । अयं भाव:--- पूर्वपक्षिणा धातोर्व्यापारमात्रवाचित्वं स्वीकृत्यापि गम्यादिपदजन्यशाब्दबोधसा. श्रीशरीरे फलविशेषयोधिकाया द्वितीयाविभक्त्यादिसमभिव्याहारादिरूपायाः सामग्र्या निवेशेन अत्यापि गम्यादेविलक्षणबोधजनकत्वं प्रतिपादितं तत्र त्यजिगम्योः पर्यायताभ्रमाभावकाले तु ममधातुजन्यशाब्दबोधसामग्रीशरीरे संयोगरूपफलबोधकसामग्रीनिवेशेन त्यधातुजन्यशाब्दबो. असामग्रीशरीरे च विभागरूपफलबोधकसामग्रीनिवेशेन संयोगविभागादिरूपफलविशेषविषयकबोधस्यापि जायमानत्वात् त्यजिगम्योः शक्त्या विलक्षणबोधजनकत्वसंभवेपि त्यजिगम्योः पर्याबताभ्रमकाले तु नैवं संभवति किं तु त्यजूधातुजन्यशाब्दबोधसामग्रीशरीरे गम्धातुजन्यशाब्दमोधसामग्रीशरीरे चैकसमानफलबोधकसामग्र्या एव निवेश: स्यादिति ‘ग्रामं गच्छति , ' ग्राम स्यजति' इत्युभयत्रैवेकसमानफलबोधकसामग्रीविशिष्टसामत्र्या व्यापारमात्रवाचकत्यजिगमिभ्यां शक्त्या विलक्षणबोधोत्पत्तरसंभव एव, ' त्यागः' ' गमनम् । इत्यादौ तु फलबोधकद्वितीयायाः समभिव्याहाराभावेन संयोगादिरूपफलविशेषबोधकद्वितीयासमभिव्याहाररूपसामग्र्याः शाब्दबोधजनकसामग्र्यां निवेश एव नास्ति येन त्यागमनपदाभ्यां विलक्षणबोधः स्यादिति त्यागगमनप. दघटकगम्यादिशक्तिज्ञानात् फलाविषयक एव बोधः संभवति न फलविषयक इति सिद्धं तथा च 'त्यागः , 'गमनम् । इत्यादौ गम्यादिशक्तज्ञानात् फलाविषयकबोधस्याप्युक्तरीत्या जायमा. नत्वे बोधवलक्षण्यसंपादकफलोपस्थितेश्च फलोपस्थापकामावादभावे प्राप्ते त्यजिम्.म्योश्च व्यापार, मात्रवाचकत्वस्वीकारेणाऽभ्रान्तस्यापि त्यजिगमिभ्यामविलक्षणबोधावश्यम्भावाद् व्युत्पन्नानामपि स्यागादितात्पर्येण गमनादिपदप्रयोगादिप्रसङ्गः स्यादेव । एवमेव ' ग्रामं गच्छति ' 'प्राम स्यजति ' इत्यत्रापि त्यजिगम्योस्तु व्या गरमात्रवाचकत्वमेव फल विशेषबोधकसामग्र्याश्चोक्तरीत्या म्यादिधातुजन्यबोधवै लक्षयनियामकत्वं न भवतीत्यऽभ्रान्तस्यापि व्युत्पन्नस्थ त्यजिर्गामभ्यामविलक्ष गबोधावश्यम्भावात् — ग्रामं त्यजति ' इतितात्पर्य ' ग्रामं गच्छति । इतिप्रयोगातिप्रसङ्गः स्यादेवेति धातोव्योपारमात्रवाचकत्वं न युक्तमिति । "Aho Shrutgyanam' Page #225 -------------------------------------------------------------------------- ________________ धारवर्थविचारः] . न्युत्पत्तिवादः। मैवम्-कर्मप्रत्ययासमभिव्याहृतत्यागगमनादिपदस्य तत्तत्फलावच्छिन्नव्यापा. रेऽनादितात्पर्य कल्प्यते न तु केवलव्यापारे, अनादितात्पर्यमेव च स्वारसिकप्र. योगनियामकमित्येकार्थतात्पर्येण प्रामाणिकानां स्वारसिको न त्यागगमनादिपदप्रयोगः । ___ एवं त्यजिगमिप्रभृतिसमभिव्याहृतकर्मप्रत्ययस्य फलविशेष एव नियतं ताशें तात्पर्यमिति न विभागादितात्पर्येण ' ग्रामं गच्छति' इत्यादिप्रयोगः । तदर्थबोधकत्वमानं तु न तदर्थतात्पर्येण स्वारसिकप्रयोगनियामकम, तथा सति परिहरति- मैवमिति, कर्मप्रत्ययो द्वितीयादिस्तत्समभिव्याहारस्थले 'मामं गच्छति ' ' ग्रामं त्यजति । इत्यादौ तु संयोगविभागादिरूपफलबोधकद्वितीयासत्त्वादेतादृशवाक्यजन्यबोधस्थ बैलक्षण्यं स्पष्टमेव संभवति, कर्मप्रत्ययाऽसमभिव्याहृतत्यागगमनादिपदस्य द्वितीयान्तकर्मवाचकप्रामादिपदरहितस्य ' त्यजति । 'गच्छति , ' त्यागः ' ' गमनम् ' इत्यादिपदस्य तत्तत्फलावच्छिन्नव्यापारे तात्पर्य कल्प्यते यथा 'गच्छति । इतिपदघटकगम्धातोः संयोगरूपफलज. नकव्यापारे ' त्यजति । इतिपदवटकत्यज्धातोर्विभागरूपफलजनकव्यापारे एवानादितात्पर्यमस्ति न तु केवलव्यापारे-फलानवच्छिन्नव्यापारे, अनादितात्पर्यमेव च स्वारसिकप्रयोगनियामक स्तीति न प्रामाणिकानामेकार्थतात्पर्येण त्यागतात्पर्येण गमनपदप्रयोगापत्तिः, गमनतात्पर्येण वा त्यागपदप्रयोगापत्तिरित्यर्थः । यथा कौपीनशब्दस्य पापे शक्तत्वेप्यऽनादितात्पर्य पुरुषेन्द्रिया. च्छादकवस्त्रविशेषे एवास्तीति तादृशवस्त्रतात्पर्येणैव कौपीनशब्दप्रयोगो भवति न तु शक्यार्थपापतात्पर्येगापि तथात्र धातोापारमात्रशक्तत्वेप्यनादितात्पर्य फल विशेषावच्छिन्नव्यापारे एवास्तीति तादशमलविशेषावच्छिन्नव्यापारतात्पर्येणैव तत्तद्धातुपदप्रयोग उपपद्यते न तु शक्यार्थव्यापारमा तात्पर्येणापीति नोक्तप्रयोगसांकर्यापत्तिरिति भावः । एवमेव 'ग्रामं गच्छति । इत्यादौ कर्मप्रत्ययस्य द्वितीयादेर्यदि संयोगादिरूपफलविशेष तात्पर्य न स्यात् किं तु फलमात्रे तात्पर्य स्यात्तदा द्वितीयायाः संयोगविभागादिरूपानेकविधफलेषु शक्तत्वाद् द्वितीयया विभागरूपफलोपस्थितेरपि संभवाद् धातोश्च व्यापारमात्रस्योपस्थितेः संभवात् ' ग्रामं गच्छति । इत्यनेन विभागजनकव्यापारबोधस्यापि संभवाद् विभागादितात्पर्यण * ग्रामं गच्छति । इति प्रयोगः स्यादेव, यदा च गम्धातुसमभिव्याहृतकर्मप्रत्ययद्वितीयायाः फलविशेष-संयोगे एक तात्पर्य न विभागे तथा त्यधातुसमभिव्याहृतद्वितीयाया विभागरूपफले एव तात्पर्य न संयोगे तदा तु विभागादितात्पर्येण ' ग्रामं गच्छति ' इत्यादिप्रयोगापत्तिास्त्ये: वेत्याह-एवमिति । तादृशम्=अनादि । ननु यदि द्वितीयाया विभागरूपफलबोधकत्वमप्यस्ति तत्र शक्तत्वात् तदा 'ग्रामं गच्छति' इत्यत्रापि द्वितीयया विभागरूपफलोपस्थितिसंभवाद् विभागतात्पर्येण ' ग्रामं गच्छति । इतिस्वारसिकप्रयोगः कथं न स्यादित्याशझ्याह-तदर्थेति । विपक्षे बाधकमाह-तथा सतीति । तथासति-यदि तदर्थबोधकत्वमात्रं तदर्थतात्पर्येण स्वारसि. "Aho Shrutgyanam" Page #226 -------------------------------------------------------------------------- ________________ ( २१४ ) सादर्श: [ द्वितीयाकारकप्रथमखण्डे शक्तिभ्रमादिना घटपदस्यापि पटादिबोधकतया पटादितात्पर्येणापि स्वारसिकधटादिपदप्रयोगापत्तेः । नापि शक्त्या बोधकत्वं तथा - निरूङलक्षणयापि स्वारसिकपदप्रयोगात् । शक्तिभ्रमं लक्षणाज्ञानं चान्तरेण गम्यादेर्विभागादिरूपफलविशेषविशेषितस्प न्दादिबोधकत्वाऽभावनियमोऽसिद्ध एवेति तात्पर्य भ्रम सहकृतशक्तिप्रमया तादृशबौधजननेपि न क्षतिः । विना लक्षणाग्रहं भ्रमानधीनतादृशबोधो गमिप्रभृतितो न प्रयोगनियामकं स्यात्तदा शक्तिभ्रमेण घटपदस्यापि पटादिबोधकत्वात् पटेपि घटपदस्य स्वारसिप्रयोगः स्यादेव न चैवं भवतीति न तदर्थबोधकत्वमात्रं तदर्थतात्पर्येण स्वारसिकप्रयोगनियाकमित्यर्थः । ननु नात्र शक्तिभ्रमस्य प्रसङ्ग इति शक्त्या बोधकत्वं स्वारसिकप्रयोगनियामक भविष्यत्येवेति द्वितीयायाः शक्त्यैव विभागरूपफलबोधकत्वमस्त्येवेति विभागादितात्पर्येण 'ग्रामं गच्छति इति प्रयोगः स्यादेवेत्याशङ्क्याह - नापीति । तथा = स्वारसिकप्रयोगनियामकम् । बारहारहेतुमाह-निरूढेति । तस्मादमादितात्पर्यमेव स्वारसिकप्रयोगनियामकम् गम्धातुसमभिव्याहृत द्वितीयाया अनादितात्पर्ये च संयोगरूपफले एवेति न विभागतात्पर्येण ' ग्रामं गच्छति इतिप्रयोगापत्तिरित्यर्थः । निरूढलक्षणया स्वारसिकपदप्रयोगो यथा प्रवीणे कुशलेतिपदप्रयोगः । नवनादितात्पर्यस्यैव स्वारसिकप्रयोगनियामकत्वे शक्तिभ्रमं विना तथा लक्षणाज्ञानं विना गम्यादेर्विभागादिरूपफल विशेष विशेषितस्पन्दादिबोधकत्वं नास्ति किं तु शक्तिभ्रमेण वा लक्षणाज्ञानेन वैव गम्यादेर्विभागादिरूपफल विशेष विशेषित स्पन्दादिबोधकत्वमस्तीति नियमस्य भङ्गः श्वात्, अनादितात्पर्यस्य नियामकत्वेऽनादितात्पर्यभ्रमेणापि गम्यादेर्विभागादिरूपफलविशेषविशेवितस्पन्दादिबोधकत्वापत्तेरित्याशङ्क्याह-शक्तिभ्रममिति । उक्तनियमो नास्त्येवेति तात्पर्यभ्रम सहकृतशक्तिप्रमया तादृशबोधजनने गम्यादेर्विभागादिरूपफल विशेषविशेषितस्पन्द विषयकबोधजननेपि न चतिः=न किं चिन्नियमभङ्गः । द्वितीयायाः संयोगविभागादौ शक्तिरस्त्येवेति 'ग्रामं गच्छति' इत्यत्रापि द्वितीयाया यद् विभागे शक्तिज्ञानं तत्प्रमैवास्ति किं तु गम्धातुसमभिव्याह्नद्वितीयायाः संयोगे एवानादितात्पर्यमस्तीति विभागेऽनादितात्पर्यग्रहो भ्रम एवेत्युक्तम् - तात्पभ्रमसहकृतशक्तिप्रमयेति । स्वमतेन नियमस्वरूपमाह - विनेति, लक्षणाज्ञानेन वा शक्तिभ्रमेण बा तात्पर्यभ्रमेण चैव गम्यादिधातुतो विभागादिरूपफलविशेषविशेषितस्पन्दादिबोधो जायते. नान्यथेत्येव नियमोस्तीत्यर्थः । स च = उक्तनियमः । ननु यदुक्तम् -' लक्षणाग्रहं विना गमिप्रभूतिधातुभ्यो विभागादिरूपफल विशेष विशेषितस्पन्दादिरूपव्यापारबोधस्तात्पर्यभ्रमेणैव जायते' इति नियम इति, स नियमो न संभवति यतः - यस्य पुंसो गम्धातोर्विभागाद्यर्थे पूर्वपूर्वेषां तात्पर्यमस्तीति तात्पर्यभ्रमो जातस्तेन पुंसा यत्र यदा स्वकीयतात्पर्येण विभागादिविषयक स्वीयतात्पर्येण ग्रामं गच्छति' इत्यादिप्रयोगः कृतस्तत्र तदा श्रोतुर्गमधातोर्विभागाद्यर्थे पूर्वपूर्वेषां तात्पर्यमस्तीत्याकारकस्यानादितात्पर्यभ्रमस्याभावेप्युक्तवक्तुर्विभागादितात्पर्येण ' ग्रामं गच्छति' इति * "Aho Shrutgyanam" Page #227 -------------------------------------------------------------------------- ________________ धावर्थविचारः ] व्युत्पत्तिवादः । (२१५) संभवतीत्येव नियमः, स च तात्पर्यभ्रमेणैव निर्वहति । विभागाद्यर्थे पूर्वपूर्वेपा मनादितात्पर्यभ्रमवतो वक्तुः स्वकीयतात्पर्येण ग्रामं गच्छति' 'इत्यादिमयोगो यत्र तत्र श्रोतुस्तात्पर्य भ्रमासंभवेपि वक्तृतात्पर्यानादित्वभ्रम एव प्रयोगसंपादनद्वारा तदर्थशाब्दबोधप्रयोजक इति न तादृशनियमक्षतिरिति प्राचीनपथपरि ष्कारप्रकारः t नव्यास्तु-संयोगादिरूपफलविशेषावच्छिन्नस्पन्दो गम्याद्यर्थः । तद्धात्वर्थतावच्छेदकफलशालित्वमेव तद्धातुकर्मत्वं नातो गम्यादिकर्मत्वस्य पूर्वदेशादौ प्रसप्रयोगात् श्रोतुर्विभागादिविषयकशाब्दबोधो जायते एवेत्युक्तनियमस्य व्यभिचारः प्राप्त इत्याशङ्क्याह-विभागाद्यर्थेति, तत्र श्रोतुः पूर्वपूर्वेषामनादितात्पर्यभ्रमासंभवेपि उक्तवक्तृतात्पर्ये वनादित्वभ्रमत्येव तेनैव वक्तृतात्पर्यानादित्वभ्रमेण श्रोतापि विभागादितात्पर्येण ' ग्रामं गच्छति' इति प्रयोगं संपादयति ( करोति ) एतादृशवाक्याद्विभागादिरूपफलविषयक बोधोपि श्रोतुर्जा इत्यनादितात्पर्यमाभावेपि वक्तृतात्पर्यभ्रम एव ' ग्रामं गच्छति' इतिप्रयोगसंपादनद्वारा तादृशार्थबोधस्य=विभागादिविषयकशाब्दबोधस्य प्रयोजको भवति, वक्तृतात्पर्यभ्रमपि च तात्पर्यभ्रम एवेति तादृश नियमस्य = तात्पर्यभ्रमेणैव गम्यादिना विभागादिरूपफलविशेषविशेषितस्पन्दादिबोधो जायते नान्यथेति नियमस्य क्षतिः = व्यभिचारो नास्त्येव - उक्तस्थलेपि श्रोतुस्तात्पर्यभ्रमस्य सत्त्वादेवेत्यर्थः । EL नवीनमतमाह-नव्यास्त्विति, नवीनमते न केवलव्यापरवाचकत्वं धातूनां किं तु फलव्यापारयोर्धातुः " इतिवैयाकरण "तवत् संयोगादिरूपफलविशेषावच्छिन्नस्पन्दादिव्यापारवाचकत्व - मेष: गम्यादिधातूनाम्, जनकत्वसंबन्धेन संयोगादिरूपफल विशिष्टत्वमेव फल विशेषावच्छिनत्वम् तथा च गम्धातोः संयोगरूपफलावच्छिन्नस्पन्दे एवं शक्तिर्न स्पन्दमात्रे इति न विभागादितापर्येण ' ग्रामं गच्छति ' इति प्रयोगापत्तिः । एवं विभागरूपफलावच्छिन्नरूपन्दे एवं त्यजुधातोः शक्तिरिति न संयोगादितात्पर्येण ' ग्रामं त्यजति ' इति प्रयोगापत्तिरित्यर्थः । कर्मस्वस्वरूपमाह - तद्धात्वर्थेति । यदि प्रकृतधात्वर्थफलशालित्वं कर्मत्वमित्युच्येत तदा गमनेन यथोत्तरदेशसंयोग उत्पद्यते इत्युत्तरदेश संयोगस्य फलखं तथा पूर्वदेशविभागोप्युत्पद्यते एवेति पूर्वदेशविभागस्यापि गमनफलत्वं स्यादेव तथा च गमनजन्यसंयोगवत्त्वाद् यथोत्तरदेशस्य गम्यादिकर्मत्वं तथा गमनजन्य विभागरूपफलवत्त्वात् पूर्वदेशस्यापि गम्यादिकर्मत्वं स्यादेव न चैतदिष्टमिति तद्धात्वर्थतावच्छेदकफलशालिखमेव तद्धातुकर्मत्वमित्युच्यते एवं च ' ग्रामं गच्छति इत्यत्र गम्धात्वर्थतावच्छेदकं फलं संयोग एवेति तादृशसंयोगाश्रयत्वमेव गमधातुकर्मत्वमिति लेब्धम्, गमनजन्यसंयोगाश्रयत्वं तृत्तरदेशस्यैवास्तीत्युत्तर देशस्यैव गमूधातुकर्मत्वं प्राप्तं न तु पूर्वदेशस्यापि - पूर्वदेशस्य गमनजन्यसंयोगरूपफलाश्रयत्वाभावात् । पूर्वदेशस्य विभागाश्रयत्वात् त्यज् धातुकर्मत्वमेव, एवम् 'ग्रामं त्यजति' इत्यत्र धात्वर्थतावच्छेदकं फलं विभाग एवेति तादृश "Aho Shrutgyanam" Page #228 -------------------------------------------------------------------------- ________________ (२१६) सादर्श:- [द्वितीयाकारप्रथमखण्डे - ङ्गः। न वा स्पन्देः सकर्मकत्वम्-तत्र फलस्य धात्वर्थताऽनवच्छेदकत्वात् । एवं च धातोरेव फलविशेषलाभात् फलान्वयिनी वृत्तिरेव द्वितीयार्थः । न च "कर्मणि द्वितीया" इत्यनुशासनविरोधः-तस्य कर्मणि-फलनिष्ठाधेयत्वान्वयिनि प्रकृतितात्पर्ये तदुत्तरं द्वितीयेत्यर्थकत्वात् । न चैवं तस्य शक्तिग्राहकत्वानुपपत्तिःअनादितात्पर्यग्रहसंपादकत्वेन परम्परया शक्तियाहकत्वसंभवात् । न च फलस्य पदार्थंकदेशतया तत्र द्वितीयार्थवृत्तेरन्वयासंभवः-- व्युत्पत्तिवैचित्र्येण प्रकृते एक देशान्वयस्वीकारात् । विभागाश्रयस्यैव त्यधातुकर्मत्वं ज्ञेयम् । एवंरीत्या कर्मत्वलक्षणेन स्पन्देः स्पन्द्यादिधातोः सकर्मकत्वापत्तिरपि नास्ति तत्र फलस्य धात्वर्थतावच्छेदकत्वाभावादित्याह-न घेति । एवं च धातोः फलावच्छिन्नव्यापारवाचकत्वेन फलविशेषवाचकत्वमपि धातोरेव प्राप्तं न द्वितीयाया इति फलान्वयिनी संयोगादिरूपफलनिष्ठा या वृत्तिः आधेयता सैव द्वितीयार्थः, संयोगस्य ग्रामनिष्ठत्वाद् ग्रामनिरूपिताऽऽधेयता संयोगेऽस्त्येव, 'ग्रामं गच्छति' इत्यत्र 'ग्रामनिरूपिताधेयतावत्संयोगजनकव्यापारवान्' इतिबोधोदयादित्याह-एवमिति । ननु द्वितीयाया आधेयतार्थकत्वे "कर्मणि द्वितीया इतिसूनविरोधः स्यात्-अनेन सूत्रेण कर्मत्वे द्वितीया विधीयते नत्वाधेयतायामित्याशङ्क्य ह-न चेति । परिहारहेतुमाह-तस्येति, तस्य= "कर्मणि द्वितीया" इति सूत्रस्य 'यदा प्रकृतिभूतमामादिपदस्य संयोगादिरूपफलनिष्ठा याऽऽधेयता तादृशाधेयतान्वयिनि-तादृशाधेयतानिरूपके ग्रामादिपदार्थे तात्पर्य भवति तदा तदुत्तरम् ग्रामादिपदोत्तरं द्वितीया भवति' इत्यवार्थो न तु 'कर्मत्वे द्वितीया भवति' इत्यर्थ इति नास्माकं "कर्मणि द्वितीया" इत्यनुशासन विरोधोपी. त्यर्थः । सूत्रपटकस्य “ कर्मणि" इतिपदस्यार्थमाह- फलनिष्ठाधेयत्वान्वयिनीति । ननु सूत्रघरककर्मपदस्य कर्मपदार्थे कर्मत्वे वा शक्तिः संभवति न तु फलनिष्ठाधेयत्वान्वयिन्यपि किं तु तत्र तात्पर्यमात्रमेव स्यात् त्वयापि सूत्रतात्पर्यस्यैव वर्णितत्वादिति तस्य="कर्मणि द्वितीया " इति सूत्रस्य त्वदुक्तार्थपरत्वे शक्तिग्राहकत्वं न स्यादस्ति च व्याकरणस्यापि शक्तिग्राहकत्वम् "शक्तिग्रहं व्याकरणोपमान " इति प्रमाणादित्याशङ्क्याह- न चैवमिति । अनादितात्पर्यग्राहकत्वमपि शक्तिग्राहकत्वमेवास्ति किं वाऽनादितात्पर्यग्राहकत्वपरम्परया शक्तिग्राहकत्वं सूत्रस्य शेयं सूत्रधटककर्मपदस्थ च फलनिष्ठाऽऽधेयत्वाऽन्वयिन्येवानादितात्पर्यमस्ति तादृशास्यैव बोधस्य जायमानत्वादित्यभिप्रायेण परिहारहेतुमाह- अनादीति । ननु फलावच्छिन्नव्यापारस्य धात्वर्थत्वे फलस्य पदार्थैकदेशत्वं प्राप्तं तत्र च द्वितीयार्थस्य वृत्तेः-आधेयताया अन्वयो न संभवति-"पदार्थः पदार्थेनान्वेति न तु पदार्थंकदेशेन" इति व्युत्पत्तिविरोधादित्याशङ्कयाह- न चेति । परिहारहेतुमाह- व्युत्पत्तीति । धात्वदन्यत्र पदार्थस्य पदार्थंकदेशेऽन्वयो न भवति धात्वर्थस्थले तु धात्वर्थैकदेशेपि पदार्थान्तरस्यान्चयो भवतीत्येतादृशव्युत्पत्तिवैचित्र्येग पदार्थैकदेशेपि फले द्वितीयार्थाधेयत्वान्वये न कोपि विरोध इत्यर्थः । "Aho Shrutgyanam" Page #229 -------------------------------------------------------------------------- ________________ धात्वर्थविचारः ) व्युत्पत्तिवादः। (२१७) अथ ‘गमनं न स्पन्दः' इत्यादितो धात्वर्थतावच्छेदकफले स्पन्दभेदान्वयबोधसंभवेनैतादृशप्रयोगस्य वारणाय फलविशेष्यकान्वयबोधे तद्विशेष्यकवृत्तिज्ञानजन्यफलोपस्थितित्वेन हेतुत्वकल्पनस्यावश्यकत्वात् तादृशकारणबाधेन धात्वर्थतावच्छेदकफले द्वितीयार्थान्वयासंभवः। न च यादृशपदसमभिव्याहारज्ञानात् फलविशेष्यकस्पन्दभेदान्वयबोधः प्रसिइस्तादृशपदसमभिव्याहारज्ञानतादृशपदज्ञानजन्यफलाद्युपस्थितिघटितसामग्र्यास्तादृशान्वयबाधोत्पादप्रयोजिकाया असत्खेनोक्तस्थले तदापत्यऽसंभव इति वाच्यम्, यत्र गमनादिपदादेव लक्षणया शक्तिभ्रमेण वा स्वातन्त्र्येण फलो. ननु यद्युक्तरीत्या द्वितीयार्थाधेयात्वस्य धात्वर्थैकदेशेपि संयोगादिरूपफलेऽन्वयो भवति तदा 'गमनं न स्पन्दः' इत्यत्रापि गमनपदादुपस्थितो यः संयोगरूपफलावच्छिन्नव्यापारस्तादृशव्यापारैकदेशभूतसंयोगे स्पन्दभेदस्यान्वयसंभवेन 'गमनं न स्पन्दः' इत्यपि प्रयोगः स्यादेव, न चैवं प्रयोगो भवाते धात्वर्थस्य सादरूपस्वेन तत्र स्पन्दभेदासंभवादित्येतादृशप्रयोगस्य='गमनं न स्पन्दः ' इति प्रयोगस्य वारणाय फलविशेष्यकबोधं प्रति तद्विशेष्यक=फलविशेष्यकवृत्तिज्ञानजन्यफलोपस्थितेहेतुत्वं वक्तव्यं यथा 'संयोगो न स्पन्दः' इत्यत्र संयोगविशेष्यकवृत्तिज्ञानासंयोगोपस्थितिरस्तीति स्पन्दभेदप्रकारकसंयोगविशेष्यकशाब्दबोधो जायते तथा च 'गमनं न स्पन्दः' इत्यत्र गमनदेन विशेष्यतयोपस्थितिस्तु गमनरूपस्पन्दस्यैव भवति न फलस्येति न संयोगरूपफले स्पन्द भेदस्यान्वयः संभवात विशेष्यतयोपस्थितं गमनं तु स्पन्दरूपमेवेति न तत्रापि स्प-दभेदान्वयः संभवतीति 'गमनं न स्पन्दः' इतिप्रयोगो न भवति, तथा च 'ग्राम गच्छति' इत्यत्रापि संयोगरूपफलस्य विशेष्यतयोपस्थितिर्नास्तीति तादृशकारणबाधेन फलविशेष्यकबोधसपादिकायाः फलस्य विशेष्यतयोपस्थितेर्बाधेनः-असत्त्वान्नात्र धात्वर्थतावच्छेदकफले संयोगे 'द्वतीयार्थस्याधेयत्वस्यान्वयः संभवतोत्याशङ्कते- अथेति । अथेत्यत्र 'अथैवम्' इतियुक्तः पाठः । किं वा "वोवसंभवेन' इत्यत्र 'बोधासंभवेन' इतिपठितव्यम् । . ननु यादृशपदसममिव्याहारज्ञानात्-'संयोगः स्पन्दो न' इत्यत्र संयोगपदसमभिव्याहारज्ञानात् संयोगरूपले स्पन्दभेदान्वयबोधो जायते इति तादृशपद-संयोगपदसमभिव्याहारेण संयोगपदजन्यसंयोगरूपफलोपस्थित्या च घटितायाः तादृशान्वयबोधोत्पादप्रयोजिकायाः-स्पन्दभेदप्रकारकसंयोगरूपफलविशेष्यकबोधोत्पत्तिप्रयोजिकायाः सामग्र्या उक्तस्थले- 'गमनं न स्पन्दः' इत्यत्रा सत्त्वेन तदापत्त्यऽसंभवःगमनपदोपस्थितसंयोगरूपफलावच्छिन्नव्यापारैकदेशे :संयोगरूपफले स्पन्दभेदान्वयस्यापत्ति स्ति, संयोगस्य विशेष्यतयोपस्थापकसामग्रीसत्त्वे एव विशेष्य. तयोपस्थितसंयागे पदार्थान्तरान्वयसंभवादिति न 'गमनं न स्पन्दः' इति प्रयोगापत्तिरित्याशङ्कयाह- न चेति । परिहरति- यत्रेति, यदा हि 'गमनं न स्पन्दः' इत्यत्र गमनपदेन लक्षणया शक्तिभ्रमेण वा केवलसंयोगरूपफलस्यैवोपस्थितिर्भवति तत्र स्वातन्त्र्येण विशेष्यतया "Aho Shrutgyanam" Page #230 -------------------------------------------------------------------------- ________________ (२१८) सादर्शः- [ द्वितीयाकारकप्रथमखण्डेपस्थितिस्तत्र फलविशेष्यकस्पन्दभेदान्वयबोधप्रसिद्धया गमनपदसमभिव्याहार. तजन्यफलोपस्थितिघटितसामय्याः फलविशेष्यकस्पन्दत्वाद्यवच्छिन्नभेदान्वयबोधप्रयोजकताया आवश्यकत्वात् तद्भलेन शक्तिप्रमाधीनबोधेपि फलांशे स्पन्दभेदादिभानप्रसङ्गात् । एवं च फलव्यापारयोः पृथक् शक्तिस्वीकारपक्षेपि न निस्तार:-- तथात्वेपि हि 'गमनं न स्पन्दः' इत्यादौ फलांशे शक्तिप्रमया स्पन्दभेदान्वयबोधसंभवेन ताशप्रयोगापत्ते१रत्वादिति चेत् ?, न, तद्विशेष्यकवृत्तिज्ञानजन्यतदुपस्थितिजन्यतावच्छेदककोटी तादृशोपस्थिफलोपस्थितेः सत्त्वात् फले सयोगे स्पन्दभेदस्यान्वयः संभवत्येवेति तत्र फलविशेष्यकस्पन्दभेदप्रकारकशाब्दबोधस्य प्रसिद्ध्या गमनपदसमभिव्याहारेण गमनपदजन्यसंयोगरूपफलोपस्थित्या च घटितायाः सामन्याः फलविशेष्यकस्पन्दभेदप्रकारकशाब्दबोधं प्रति प्रयोजकताया: हेतुतायाः स्त्रीकारस्यावश्यकत्वात् तद्बलेन उक्तैतादृशसामग्रीबलेन शक्तिप्रमाधीनबोधेपि यत्र 'गमनं न स्पन्दः इतिवाक्यघटकगमनपदाच्छक्तिप्रमया संयोगावच्छिन्नव्यापारस्योपस्थितिर्जाता तयोपस्थित्या च शाब्दबोधो जायते तत्रापि फले संयोगे स्पन्दभेदान्वयप्रयोजिकाया उक्ताया गमनपदसमभिव्याहारगमनपदजन्यसंयोगरूपफलोपस्थितिघटितसामन्याः सत्त्वादेव फलांशे= गमनपदोपस्थितफतावच्छिन्नव्यापारकदेशभूतेपि फले स्पन्दभेदस्यान्वयबोधः स्यादेवेति — गमनं न स्पन्दः ' इतिप्रयोगोपि स्यादेव संयोगे स्पन्दभेदस्य सत्त्वादेव. न चैवं प्रयोग इष्ट इति तद्वारणाय सयोगे स्पन्दभेदान्वयबोधं प्रति शक्तिप्रमया विशेष्यतया संयोगोपस्थितेः कारणत्वं वक्तव्यं, सा च ' गमनं न स्पन्दः । इत्यत्र नास्तीति न संयोगे स्पन्दभेदान्वयापत्तिस्तथा चैवमेव 'ग्राम गच्छति । इत्यत्रापि संयोगस्य विशेष्यतयोपस्थित्यभायात्तत्रसंयोगे द्वितीयार्थाधेयत्वान्य. यासंभव इत्यर्थः । ननु गम्यादिधातोः फलव्यापारयोः पृथक् पृथक् खण्डशः शक्तिं स्वीकारण्यामस्तथा च 'ग्रामं गच्छति । इत्यत्र गम्धातुना संयोगरूपफलस्यापि व्यापारवत् स्वतन्त्र विशेष्यतयोपस्थितिर्भविष्यति न व्यापारविशेषगत्वेन येनात्र संयोगरूपफले द्वितीयार्थाधेयत्वस्यान्वयानुपपत्तिः स्यादित्याशङ्कयाह एवं चेति । एवं च एवमेव । परिहारहेतुमाह- तथात्पीति । तथात्व=फलव्यापारयोः पृथक् शक्तिस्वीकारपक्षेपि 'गमनं न सन्दः । इत्यत्रापि गमनपदाद् व्यापारवत् संयोगरूपफलस्यापि पृथक् शक्त्या विशेष्यतयोपस्थितिः स्यादेवेति विशेष्यतयोपस्थितसंयोगे स्पन्दभेदस्यान्वयसंभवेन तादृशप्रयोगस्य= गमनं न स्पन्दः । इति प्रयोगस्याऽऽपत्तिरिय स्यादिति न फलव्यापारयोर्धातूनां खण्डशक्तिस्वीकारपक्षेपि निम्तार इत्यर्थः ।। ____ अथेत्यादिना शङ्कितं परिहरति- नेति, यत्रैकविधशाब्दबोधं प्रत्यनेक विधोपस्थिः यादीनां कारणत्वं प्राप्नोति तत्र कार्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्वनिवेशस्य मर्यादास्तीति "Aho Shrutgyanam" Page #231 -------------------------------------------------------------------------- ________________ धात्वर्थ विचार:] व्युत्पत्ति वादः । त्यव्यवहितोत्तरत्वनिवेशनमावश्यकम् , विशिष्य तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेरेकैकविधबोधे नानाहेतुताया व्यवस्थापितत्वाद् एकपदाधीनतद्विषयकशा. ब्दबांधे पदान्तरवृत्तिज्ञानजन्यतदुपस्थितेयभिचारस्य प्रकारान्तरेण वारणासंभ. वात् । एवं च धात्वर्थतावच्छेदकफले द्वितीयार्थान्वयबोधेपि क्षतिविरहः- तत्रैता. दृशकारणस्य व्यभिचाराप्रसक्तेरिति वदन्ति ।। बहुधा प्रतिपादितम्, एतदेवाह- तद्विशेष्यकेति । यथा घटविशेष्यकत्रोधं प्रति घटपदजन्योपस्थितेः कारणत्वं तथा कलशपदजन्योपस्थितेरपि कारणत्वमस्त्येव किं तु घटपदजन्योपस्थिति जन्यशाब्दबोधकाले कलशपदजन्योपस्थितेरसत्त्वेन कारणत्वव्यभिचारः स्यादिति तादृशव्यभिचारस्य कार्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्वनिवेशं विना प्रकारान्तरेण वारणासंभवादित्याह-- एकपदेति, तथा च घटपदजन्योपस्थित्यव्यवहितोत्तरजायमानघटविशेष्यकशाब्दबोधं प्रति घटपदजन्योपस्थितिः कारणमित्येवं विशेषरूपेण तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेः कारणत्वं वक्तव्यम् , एकप्रकारकबोधे घटकलशादिपदजन्यनानाविधोपस्थितीनां या नानाहेतुता तस्याः प्रकारान्तरेण व्यवस्थाया असंभवादित्याह-- विशिष्येति । तथा च प्रकृतेपि संयोगविशेष्यकवृत्तिज्ञानजन्यसंयोगोपस्थित्यव्यवहितोत्तरजायमानस्योगविशेष्यकशाब्दबोधं प्रति संयोगविशेष्यकवृत्तिज्ञानजन्यसंयोगोपस्थिते; कारणत्वमित्येवं विशेषरूपेणैव कार्यकारणभावो वक्तव्यः तत्तच्छाब्दबोध प्रति तत्तद्विशेष्यकोपस्थितेरेव कारणत्वमिति यावत् तथा च यदा ' गमनं न स्पन्दः ' इत्यत्र गमनपदालक्षणया विशेष्यत्वेन संयोगोपस्थितिः स्यात्तदा तत्र विशेष्यत्वेनोपस्थितसयोगे स्पन्भेदान्वयस्य न काप्यनुपपत्तिः- एतादृशबोधं प्रति संयोगविशेष्यकोपस्थितेः कारणत्वात् तस्यान श्वात्र सत्त्वात्-- गमनपदेन लक्षणया संयोगस्य विशेष्यतयैवोपस्थितत्वात् , यदा च गमनपदासंयोगावच्छिन्नव्यापारस्यवोपस्थितिस्तदा तस्याः संयोगविशेष्यकशाब्दबोधं प्रति कारणत्वामान वान्न व्यापारकदेशे संयोगे स्पन्दभेदान्वयापत्तिः-संयोगस्थ विशेष्यतयोपस्थित्यभावादिति न 'गमनं न स्पन्दः । इतिप्रयोगापत्तिः । एवं च तत्तच्छाब्दबोधं प्रति तत्तद्विशेष्यकोपस्थिते: कारणत्वे स्वीकृते — ग्रामं गच्छति । इत्यत्र द्वितीयार्थाधेयताया व्यापारैकदेशेपि संयोगेऽन्वयोपगमे संयोगविशेष्यकद्वितीयार्थाधेयत्वप्रकारकशाब्दबोधं प्रति द्वितीयासमभिव्याहृतगमधातुजन्यसंयोगोपस्थितेः कारणत्वं प्राप्तमित्येतादृशकारणसत्वात् 'ग्रामं गच्छति । इत्यत्र व्यापरिकदेशेपि संयोगे द्वितीयार्थाधेयत्वस्यान्वये न काप्यनुपपत्तिः । स्पन्दभेदप्रकारकसंयोगविशेऽपशाब्दबोधं प्रति च संयोगविशेष्यकोपस्थितेरेव कारणत्वात् तस्याश्च 'गमनं न स्पन्दः । इत्यत्रा. भावान व्यापारैकदेशे संयोगे स्पन्दभेदान्वयापत्तिरिति न ‘गमनं न स्पन्दः' इतिप्रयोगापत्तिरित्याशयेनाह- एवं चेति । क्षतिविरहः= गमनं न स्पन्दः । इतिप्रयोगापत्तिरूपा क्षतिर्नास्तीत्यर्थः। उक्त हेतुमाह- तत्रेति, तत्र स्पन्दभेदप्रकारकसंयोगविशेष्यकशाब्दबोधे एतादृशकारणस्य गम्धातुजन्याया व्यापारैकदेशत्वेन संयोगस्योपस्थितेः कारणत्वमेव नास्ति ( संयोगविशे "Aho Shrutgyanam" Page #232 -------------------------------------------------------------------------- ________________ (२२०) सादर्शः- (द्वितीयाकारकप्रथमखण्डेअत्रेदं चिन्त्यते- व्यापारमात्रस्य धात्वर्थतायामापि सर्वानुपपत्तीनामुद्धृतत्वात फलावच्छिन्नव्यापारस्य गुरुतया तथात्वमनुचितम् । अथ फले द्वितीयादेः शक्त्यन्तरकल्पनामपेक्ष्य धातोविशिष्ट शक्तिकल्पनमेवो. चितम् । न च भवन्मतेप्याधेयत्वे द्वितीयादेः शक्त्यन्तरस्य कल्पनीयत्वात्तदंशे साम्यमिति वाच्यम् , 'ग्राममध्यास्ते ' 'ग्राममधिशेते ' ' ग्रामं संयुनक्ति' इत्यादौ द्वितीयायाः सर्वमते एवाधेयत्वबोधकतया द्वितीयादेः फलवाचकत्वमव्यकोपस्थितेरेव कारणत्वात् ) येन ' गमनं न स्पन्दः । इत्यत्र गमधातुना व्यापरिकदेशत्वेनाप्युपस्थिते संयोगे स्पन्दभेदान्वयः आपद्येत ? यदि स्पन्दभेदप्रकारकसंयोगविशेष्यकशाब्दबोधं प्रति गम्धातुजन्याया व्यापारकदेशत्वेन संयोगस्योपस्थितेः कारणत्वं स्यात्तदा 'गमनं न स्पन्दः' इत्यत्र स्पन्दभेदप्रकारकसंयोगविशेष्यकशाब्दबोधस्याऽजायमानत्वेप्येतादृशकारणस्य सत्त्वेन व्यभिचारः स्यात् ? न चैवमस्ति । किं वा तत्र=आधेयत्वप्रकारकसंयोगविशेष्यकशाब्दबोधे एतादृशकारणस्य गम्धातुजन्यसंयोगविशेष्यकोपस्थितेः कारणत्वमेव नास्ति येन 'ग्रामं गच्छति' इत्यत्र संयोगविशेष्यकोपस्थितिं विनाप्याधेयत्वप्रकारकसंयोगविशेष्यकशाब्दबोधस्य जायमानत्वेन एतादृशकारणस्य संयोगविशेष्यकोपस्थितेर्व्यभिचारः स्यादित्यर्थः प्रतीयते । इत्येवं प्राचीननवीनयोर्मतमुपपाद्य तयोः समीक्षामारभते- अत्रेदमित्यादिना, प्राचीनमतानुसारेण व्यापारमात्रस्यापि धात्वर्थत्वे न कोपि दोषः, ये च नवीनेन दोपाः प्रदर्शितास्तेप्युद्धतास्तथा च फलावच्छिन्नव्यापारस्य गुरुतया तथात्वम् धात्वर्थत्वं नोचितमित्यर्थः । व्यापारमात्रस्य धात्वर्थत्वे ये दोषा यथा प्रदर्शिता यथा चोद्धृतास्तत्सर्वं पूर्व द्वितीयाकारकग्रन्यमारभ्य द्रष्टव्यमित्यलमत्र पुनस्तत्प्रदर्शनेन । __ननु प्राचीनमतानुसारेण फले संयोगादौ द्वितीयादेः शक्तिकल्पनापेक्षया धातोरेव विशिष्टे= फलावच्छिन्नव्यापारे शक्तिकल्पनमुचितं लाघवात् . फले द्वितीयायाः पृथक् शक्तिकल्पने गौरवादित्याशङ्कते- अथेति । ननु भवन्मते नवीनमतेपि धातोरेव फलावच्छिन्नव्यापारे शक्तिस्वीकारेण फले द्वितीयायाः शक्त्यभावेप्याधेयत्वे तु शक्तिः स्त्रीक्रियते एवेति यथा मया प्राचीनेन फले द्वितीयायाः शक्तिः स्वीक्रियते तथा त्वया नवीनेनाधेयत्वे शक्तिः स्वीक्रियते एवेति साम्यमेव प्रत्युत धातोः फलावच्छिन्नव्यापारे शक्त्या गौरवमधिकमित्याशङ्कयाह- न चेति । परिहारमाह-- ग्राममिति, 'ग्राममध्यास्ते ' इत्यत्र स्थितिरूपफलं तु धात्वर्थ एव द्वितीया च सप्तम्यर्थे जातास्तीति द्वितीयाया आधेयत्वमेवार्थः-ग्रामनिरूपिताधेयतावती स्थितिरितिबोधः, 'ग्राममधिशेते । इत्यत्र शयनरूपफलं तु धात्वर्थ एव द्वितीयार्थ आधेयत्वमेव ' ग्राम संयुनकि ' इत्यत्र संयोगरूपफलं तु धात्वर्थ एव द्वितीयार्थ आधेयत्वमेव भवतीत्युक्तोदाहरणस्थलेषु सर्वमतेष्वेव द्वितीयाया आधेयत्वरूपार्थबोधकत्वात प्राचीनमते द्वितीयायाः फलवाचकत्वस्वीकारेप्याधेयत्ववाचकत्वमावश्यकमेव तथा च प्राचीनमते द्वितीयायाः फलवाचकत्वमप्याधेयत्ववाचकत्व "Aho Shrutgyanam" Page #233 -------------------------------------------------------------------------- ________________ उक्तनवीनप्राचीनमतसमीक्षा } व्युत्पत्तिवादः । (२२१) तेप्याधेयत्ववाचकताया आवश्यकत्वात् । न च द्वितीयायाः संयोगादिवाचकत्वमते आधेयत्वे तस्या लक्षणैव न तु शक्तिरिति वाच्यम्, आधेयतात्वस्याऽखण्डतया संयोगत्वादिसमशरीरत्वात् संयोगत्वाद्यवच्छिन्ने तदवच्छिन्ने वा शक्तिः कल्प्यते इत्यत्र विनिगमकासंभवात् । अस्तु वा ममाप्याधेयत्वे लक्षणैव शक्तिस्तु संख्यायामेव । यदि च द्विती. यादेः फलबोधकतामते फलेपि तस्या लक्षणैव न तु शक्तिः, शक्तिस्तु संख्यायामेव- संयोगविभागादिरूपप्रत्येकफलापेक्षया संख्यायां तत्प्रयोगप्राचुर्यस्य विनिः गमकत्वादित्युच्यते ? । तथापि तन्मते धातुजन्यशुद्धव्यापारोपस्थितेः शाब्दबोधहेतुताकल्पनमधिकम्-द्वितीयाद्यसमभिव्याहारस्थलानुरोधेन फलविशेषावच्छिमपीति गौरवं नवीनमते केवलाधेयत्ववाचकत्वमेवेति लाघवमित्यर्थः । ननु प्राचीनमते द्विती. थायाः संयोगादिरूपफले एव शक्तिः आधेयत्वे तु तस्याः द्वितीयाय। लक्षणैवेति न फलाऽऽधे. पत्वोभयवाचकत्वापत्त्या गौरवमित्याशङ्कयाह- न चेति । परिहारमाह- आधेयतात्वस्येति, पया संयोगलमखण्डो धर्मस्तथाऽऽधेयतात्वमप्यखण्ड एव धर्म इत्याऽऽधेयतात्वस्य संयोगत्वसमानत्वेन विशेषाभावात् संयोगत्वाद्यवच्छिन्ने संयोगादौ फले द्वितीयायाः शक्तिरुचिता वा तदवच्छिन्ने आधेयतात्वावच्छिन्ने आधेयत्वे वा द्वितीयायाः शक्तिरुचितेत्यत्र विनिगमकाभावाद् द्वितीयायाः फले एव शक्तिरिति नियमो न संभवति, तस्माद् द्वितीयाया अधेयत्वे एव शक्तिःउक्तोदाहरणस्थलेषु द्वितीयाया आधेयत्वबोधकतायाः सर्वमतसिद्धत्वादित्यर्थः । अखण्डेति-- बहुपदार्थाऽघटितत्वमेवाऽखण्डत्वम् । नवीन माह- अस्तु वेति, आधेयत्वे द्वितीयाया लक्षणास्वीकारेपि फले तु द्वितीयायाः शक्तिस्त्येिव किं तु संख्यायामेव शक्तिः- द्वितीयान्तप्रयोगेषु सर्वत्र द्वितीयाया एव संख्याबोधकत्वात्, फलं तु धातुलभ्यमेव- फलावच्छिन्नव्यापारे एव धातुशक्तिस्वीकारादित्यर्थः । ननु प्राचीनमतेपि द्वितीयाया यत्फलबोधकत्वं तलक्षणयैव न शक्त्येति फलेपि द्वितीयाया लक्षणैवोच्यते न शक्तिः शक्तिस्तु द्वितीयायाः संख्यायामेव स्वीक्रियते- 'ग्रामं गच्छति' इत्यत्र संयोग एव फलम् — ग्रामं त्यजति ' इत्यत्र विभाग एव फलं नत्वेकं फलं सर्वत्रास्ति यस्मिन् द्वितीयायाः शक्तिः स्वीक्रियेत संख्या तु सर्वत्रैव शाब्दबोधविषयो भवतीति संख्यायां तत्प्रयोगप्राचुर्यस्य द्वितीयाप्रयोगप्राचुर्यस्यैव संख्यायां शक्तिकल्पने विनिगमकत्वादिति फले द्वितीयाया लक्षणया द्वितीयाया एव फलबोधकत्वं न धातोरित्याशङ्क्याह-यदि चेति । उत्तरमाह-तथापीति, तथापि=फले द्वितीयाया लक्षणास्वीकारेण शक्त्यऽस्वीकारेपि तन्मतेप्राचीनमते धातुना फलानवच्छिन्नस्य शुद्धस्य केवलस्य व्यापारस्योपस्थितिर्या भवति तस्या यच्छाब्दबोधहेतुत्वं तदधि. कमेव स्याद् यतः-' त्यजति । 'गच्छति' इत्यादी द्वितीयासमभिव्याहाररहितस्थले फलबोधिकाया द्वितीयाया अभावाद् धातोरेव फलावच्छिन्नव्यापारे लक्षणा स्वीकर्तव्या तथा च धातु "Aho Shrutgyanam" Page #234 -------------------------------------------------------------------------- ________________ (२२२) सादर्श:- [ द्वितीयाकारकप्रथमखण्ड - नव्यापारे धातोर्लक्षणाया भवतामप्यावश्यकत्वाद धातुजन्यतादृशव्यापारोपस्थितिहेतुताया उभयसिद्धत्वात् । यदि च 'स्पन्दते ' इत्यादित इव शक्तिभ्रमात् 'गच्छति ' इत्यादितोपि शुद्धव्यापारबोध आनुभविक इति मन्यते ? तथापि तन्मते शाब्दबुद्धौ द्वितीयादि. जन्यफलोपस्थितेः कारणतायाः कल्पनाधिक्यं तज्जन्याधेयत्वोपस्थितिहेतुत्वकल्पनस्य चोक्तस्थलानुरोधेनोभयमत एवावश्यकत्वादितिचेत् ?, अस्तु तन्मते तादृशकारणताया आधिक्यम् । नव्यमते तु 'ग्रामं गच्छति' इत्यादिवाक्यज्ञानघटितशाब्दसामय्याः जन्यफलावच्छिन्नव्यापारोपस्थितेरपि शाब्दबोधहेतुत्वं स्वीकर्तव्यमेवेति गौरवम् । 'गच्छति । इत्यत्रापि संयोगानुकूलव्यापारस्य प्रतीयमानत्वेन धातुजन्यायास्तादृशव्यापारोपस्थितेः फलावच्छिन्नव्यापारोपस्थितेः शाब्दबोधहेतुता तव मम चेत्युभयमतसिद्धास्तीति प्राचीनमते धातुजन्योभयविधोपस्थितेः शाब्दबोधहेतुत्वकल्पनं प्राप्तमिति गौरवम, नवीनमते तु धातुजन्यफलावच्छिन्नव्यापारोपस्थितेरेकाया एव शाब्दबोधहेतुत्वकल्पनापत्तिरिति लाघवमित्यर्थः । __ननु यथा ' स्पन्दते ' इत्यत्र न किंचित्फलावच्छिन्नव्यापारस्य बोधो जायते किं तु शुद्धव्यापारस्यैव तथा शक्तिनमात् ' गच्छति । इत्यत्रापि द्वितीयारहितस्थले शुद्धव्यापारबोध एव जायते न फलावच्छिन्नव्यापारबोध इति धातुजन्यशुद्धव्यापारोपस्थितेरेवैकायाः प्राचीनमतेपि शाब्दबोधहेतुत्वमस्ति नोक्तधातुजन्यद्विविधोपस्थितेरिति नोक्तगौरवमित्याशङ्क्याह-यदि चेति । उत्तरमाह-तथापीति, तथापि धातुजन्योक्तद्विविधव्यापारोपस्थितेः शाब्दबोधहेतुत्वकल्पनापत्त्यभावेपि तन्मते-प्राचीनमते 'ग्रामं गच्छति ' इत्यत्र शाब्दबोधं प्रति यद् द्वितीयाजन्यफलोपस्थितेः कारणत्वकल्पनं ( कारणत्वं ) तदधिकमेव, यतः-उक्तस्थलानुरोधेन 'ग्राममध्यास्ते । इत्यादौ स्थित्यादिरूएफलस्य धातुनैव लभ्यत्वाद् धातोः स्थित्यर्थकत्वाद् द्वितीयागा आधेपत्वार्थकत्वमुभय ( तव मम ) मतसिद्धमेवेति तज्जन्य=द्वितीयाजन्याधेयत्वोपस्थितेस्तु शाब्दबोधहेतुत्वकल्पनमुभयमतसिद्धत्वादावश्यकमेवेति द्वितीयाजन्यफलोपस्थितेः कारणत्वकल्पनमधिकमेवेतिगौरवम् । नवीनमते त्वाधेयत्वमेव द्वितीयार्थ इति सर्वत्र द्वितीयाजन्याधेयत्वोपस्थितेरेकाया एव शाब्दबोधकारणत्वकल्पनापत्तिरिति लाघवमित्यर्थः । अथेत्यादिनारब्धामाशङ्कां परिसमापयति इति चेदिति । उत्तरमाह-अस्त्विति, तन्मते द्वितीयायाः फलबोधकत्ववादिप्राचीनमते सादृशकारणतायाः उक्तरीत्या शाब्दबोधं प्रति द्वितीयाजन्यफलोपस्थितेः कारणताया आधिक्यमस्तु तन्न दोषावहं नवीनमतस्यैव तदपेक्षयाधिकप्रदर्शयिष्यमाणगौरवग्रस्तस्यादित्यर्थः । नव्यमते स्वाभिप्रेतं गौरवं प्रदर्शयति- नव्यमते इति, शाब्दबोधसामग्र्याः समानविषयकामुमितिं प्रति प्रतिबन्धकत्वं सर्वमतसिद्धमेव, नवीनमते धातोः फलावच्छिन्नव्यापारे शक्तिरस्ति तत्र "Aho Shrutgyanam" Page #235 -------------------------------------------------------------------------- ________________ रक्तनवीनप्राचीनमतसमीक्षा] व्युत्पत्तिवादः । (२२३) समानविषयकानुमित्यादिप्रतिबन्धकतायां फलप्रकारतानिरूपितव्यापारविशेष्यताशालित्वेन धातुजन्योपस्थितेर्निवेशनीयतया तस्यास्तादृशविशेष्यताशालित्वेन व्यापारविशेष्यतानिरूपितफलप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमनाविरहात् सामग्रीमतिबन्धकताधिक्यमऽवच्छेदकगौरवं च । प्राचीनमते द्वितीयाजन्य फलोपस्थितेः सामय्यन्तनिवेशस्तु नव्यमतसिद्धतज्जन्याधेयत्वोपस्थितिनिवेशस्थलीय इति । नव्यमते ताशस्थले शाब्दबोधस्याधिकविषयतया तात्पर्यज्ञानादिकमप्यधिकविषयकमेव शाब्दधीहेतुर्भविष्यति प्रतिबन्धकसामय्यामप्यनतर्भविष्यतीति च गौरवम् । प्रामं गच्छति' इत्यादिवाक्यज्ञानघटितसामग्या या समानविषयकानुमित्यादिप्रतिबन्धकता तच्छरीरे धातुजन्योपस्थितेः फलनिष्ठप्रकारतानिरूपितव्यापारनिष्ठविशेष्यताशालित्वेन रूपेण निवेशनीयतया तत्र तस्याः धातुजन्योपस्थितेः तादृशविशेष्यताशालित्वेन फलप्रकारतानिरूपितव्यापारविशेष्यताशालित्वेन वा निवेशः कर्तव्यः व्यापारविशेष्यतानिरूपितफलप्रकारताशालित्वेन रूपेण वा निवेश: कर्तव्य इत्यत्र विनिगमनाविरहात् द्विविधरूपेणैव निवेशः स्यादिति सामग्र्या द्वैविध्येन सामग्रीनिष्ठप्रतिबन्धकताया अपि द्वैविध्यं स्यादेवेतिगौरवाधिक्यम्, अवच्छेदकगौरवं च फलावच्छिन्नव्यापारस्य धात्वर्थत्वे धात्वर्थतावच्छेदकं फलावच्छिन्नव्यापारत्वं स्यात्तच गुरु इत्यवच्छेदकगौरवम् । प्राचीनमते तु शुद्धव्यापार एव धात्वर्थ इति नोक्तरीत्या समान विषयकानुमित्यादिकं प्रति शाब्दसामग्र्या द्विविधप्रतिबन्धकत्वं न बाऽवच्छेदकगौरवं व्यापारत्वमात्रस्यैव धात्वर्थतावच्छेदकत्वादित्यर्थः । ननु प्राचीनमतेपि द्वितीयाजन्यफलोपस्थितेरपि शाब्द. सामन्यामन्तर्भावात् तादृशोपस्थितेः प्रतिबन्धकत्वेन गौरवं स्यादित्याशङ्कयाह-प्राचीनमत इति, नवीनमते यथा तजन्य-द्वितीयाजन्याधयेत्वोपस्थितेः शाब्दसामग्र्यामन्तर्भावस्तथा प्राचीनमते द्वितीयाजन्यफलोपस्थितेः शाब्दसामयामन्तर्भाव इति साम्यमेवेत्यर्थः। स्थलीयः= स्थानीयः । नवीनमते पुनगौरवमाह-नव्यमते इति, नवीनमते तादृशस्थले= 'ग्राम गच्छति' इत्यादिस्थले शाब्दबोधे व्यापारस्य फलस्याऽऽधेयत्वस्य च विषयतया भासमानत्वेन शाब्दबोधकारणीभूततात्पर्यज्ञानादिकमपि शाब्दबोधसमानविषयकत्वादधिकविषयकमेव शाब्दबोधकारणं स्यात्, तादृशमेवाधिकविषयकं तात्पर्यज्ञानादिकं समानविषयकानुमित्यादिप्रतिबन्धकीभूतायां शाब्दसामग्यामन्तर्भूतं च स्यात् तेन च प्रतिबन्धकतास्वरूपाधिक्यं स्यादिति गौरवम् । - ननु ' ग्रामं गच्छति । इत्यादौ संयोगादिरूपफलस्य द्वितीयार्थत्वे तस्य फलस्य जनकत्वसंबन्धेन धात्वर्थव्यापारेऽन्वयो भवति-ग्रामवृत्तिसंयोगजनकव्यापारवानितिबोधोदयात्, इत्येवं स्थिते ' भूमि गच्छति न महीरुहम् ( जलमितिशेषः ) ' इत्यत्र महीरुहवृत्तिसंयोगस्य जनकस्वसंबन्धेन गमनव्यापारेऽभावो वक्तव्य इत्यत्र जनकत्वसंबन्धावच्छिन्नप्रतियोगिताको महीरुह "Aho Shrutgyanam" Page #236 -------------------------------------------------------------------------- ________________ (२२४) सादर्श:- [ द्वितीयाकारकप्रथमखण्डे-- अथ फलस्य द्वितीयार्थत्वे 'भूमि गच्छति न महीरुहम् ' इत्यादौ महीरुहवृतिसंयोगादेर्जनकतासंबन्धावच्छिन्नाभाव एव नञर्थों वाच्यः स च वृत्त्यानेयामकसंबन्धस्याऽभावप्रतियोगितानवच्छेदकतया अप्रसिद्धः । नव्यमते तु द्वितीयार्थस्याधेयत्वस्य फलनिष्ठोऽभाव एव तथेति नानुपपत्तिः । न च भूमिकर्मकगमनकर्तादौ महीरुहकर्मकगमनकर्तृत्वाद्यभावः प्रतीयते इति वाच्यम्, कर्तृवाचकपदाऽसमभिव्याहारस्थले तदसंभवात् ।। न च तत्राप्याख्यातार्यान्वयबोधानुरोधेन कर्तृवाचकपदाध्याहारस्यावश्यक तयाऽध्याहृतपदोपस्थाप्यकर्तर्येव तादृशाभावो नसा बोधयिष्यते इति वाच्यम्, आख्यातार्थविशेष्यकस्याप्यन्वयबोधस्य संभवेनाऽध्याहारस्याऽनावश्यकत्वात् । वृत्तिसंयोगस्याभावो ‘नों वक्तव्यः स च जनकत्वसंबन्धावच्छिन्न प्रतियोगिताकोऽभावो प्रसिद्ध एव वृत्त्यऽनियामकस्य जनकत्वसंबन्धस्याऽभावप्रतियोगितावच्छेदकत्वाभावात्, वृत्तिनियामकस्यैव संबन्धस्याभावप्रतियोगितावच्छेदकत्वात्, अप्रसिद्धस्य च बोधो न संभवतीति प्राचीनमते ' भूमि गच्छति न महीरुहम् ' इत्यत्र वाक्यार्थबोधानुपपत्तिर्दोष इत्याशङ्कतेअथेति । नन्वत्र नवीनमते कथं वाक्यार्थबोधोपपत्तिः स्यादित्याशय नवीनमतेनात्र वाक्यार्थमोधमुपपादयति- नव्यमते इति, नवीनमते तु द्वितीयार्थ आधेयत्वमेवेति तस्याधेयत्वस्य संयो. गादिरूपफलनिष्ठोऽभाव एव तथा नअर्थ इति नात्र वाक्यार्थानुपपत्तिः- संयोगादावाऽऽधेयत्वस्याश्रयतासंबन्धेनान्वयसंभवादाऽऽश्रयतासंबन्धस्य वृत्तिनियमकत्वेनाऽभावप्रतियोगितावच्छेदक. त्वात् संयोगे आश्रयत्वसंबन्धावच्छिन्न प्रतियोगिताकाधेयत्वाभावस्थात्र प्रतीयमानत्वादित्यर्थः । ननु 'भूमि गच्छति न महीरुहम् ' इत्यत्र न जनकतासंबन्धेन संयोगाद्यभावो नर्थ उच्यते येनोक्तानुपपत्तिः स्यात् किं तु भूमिकर्मकगमनकर्तरि समवायेन महीरुहकर्मकगमनव्यापारकर्तृत्वाभाव एव नना प्रतीयते स एवात्र नार्थ इत्युच्यते समवायस्य च वृत्तिनियामकत्वेनाभावप्रतियोगितावच्छेदकत्वसंभवादित्याशङ्क्याह- न चेति । परिहारमाह- कर्तृवाचकेति, कर्तृवाचकपदसत्त्वे तेनोपस्थितकर्तरि उक्तकर्तृत्वाभावबोधनसंभवेपि कर्तृवाचकपदाभावे तदसंभवात्-उक्तगमनकर्ववाभावबोधनासंभवात्, अनुयोगिसत्त्वे ह्यभावप्रतीतेः संभवादित्यर्थः । ___ ननु तत्रापि-कर्तृवाचकपदाऽसमभिव्याहारस्थलेप्याख्यातार्थस्य व्यापारस्यवान्वयबोधोपपत्त्यर्थं कतृवाचकपदस्याध्याहारः कर्तव्य एव येनाऽध्याहृतपदोपस्थितकर्तरि व्यापारादेरन्वयः स्यात् तथा चाध्याहृतपदोपस्थितकर्तर्येव नत्रा तादृशामावः उक्तमहीरुहकर्मकगमनकर्तृत्वाभावो बोधयिष्यते इति नात्र वाक्यार्थानुपपत्तिरित्याशझ्याह- न चेति । परिहारमाह-- आख्यातार्थेति, 'भूमे. र्गमनं न महीरुहस्थ' इत्यादौ प्रथमान्तगमनपदवाच्यव्यापारविशेष्यकोपि शाब्दबोधो जायते एवेति कर्तृवाचकपदाऽसमभिव्याहारस्थले सर्वत्र कर्तृवाचकपदाध्याहारनियमस्यासंम्बात्, अनुपस्थित. करि चोक्तकर्तृत्वाभावान्चयासंभवात् , तथा च महीरुहवृत्तिसंयोगस्य जनकल्वसंबन्धावच्छिन्ना "Aho Shrutgyanam" Page #237 -------------------------------------------------------------------------- ________________ उक्तनवीनप्राचीनमतयोः समीक्षा ] व्युत्पत्तिवादः । ( २२५ ) भूमेर्गमनं न महीरुहस्य ' इत्यादौ द्वितीयासमानार्थकषष्ठ्यर्थाभाव बोधकताया आवश्यकत्वाच्च न हि तत्राप्याश्रयतासंबन्धावच्छिन्नप्रतियोगिताकगमनाभाव एव प्रतीयते इतिसम्यक्- अनुयोग्यनुपस्थितेः, नञोऽनुयोगिविनिम केणाभाबोधकताया अव्युत्पन्नत्वादितिचेत् ?, न, वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितावच्छेदकत्वे दोषः कः ? | ८ अथ जनकतादिसंबन्धावच्छिन्नप्रतियोगिताकसंयोगाद्यभावस्यातिरिक्तस्य कल्पने गौरवामेतिवेत् ?, न, तादृशाभावस्य संयोगजनकत्वाद्यभावसमनियतभाव एव नञर्थ उक्तस्पले वाच्यः स चाप्रसिद्ध एवेत्यर्थः । किं च ' भूमेर्गमनं न महीरुहस्य इत्यत्र योगे कर्मणि षष्ठी जातेति षष्ठया द्वितीयासमानार्थकत्वात् तादृशषष्ठ्यर्यस्याभावो - अवश्यं बोनीस्त्र यदि द्वितीयार्थः संयोगादिरूपमेव तदात्र संयोगाभावस्य व्यासरे जन कत्वरांन्वेनान्यये उक्तानुपपत्तिस्तदवस्यैव जनकत्वस्य वृत्त्य नियामकत्वेन भावीयप्रति योगितानवच्छेकत्वादेत्यत्र पष्ठयर्थस्याधेयत्वस्यैवाभावो वक्तव्य इति द्वितीर्थोपमेक स्यान्न फलमित्याह-भूतेति । ननु तत्र= 'भूमेर्गमनं न महीरहस्य' इत्यत्रारि नत्रा गम रामान एव प्रतीयते न षष्ठ्यर्थाभाव इत्याशङ्क्याह- न होति । उक्ते हेतुमाह-अनुयोगीति, उक्तस्वनुयोगिनो व्यापार तुलस्थितिरेव नास्ति यत्र गमनाभावत्यन्वयः स्यादित्यर्थः । अत्र त्रिनिगनकमाह - नञ इनि, अनुयोनिविनिर्माण = अनुयोगिनं विना । कस्मिंश्विःधिकरणे एक पद श्रन्ययबोधसंभवादिति भावः । ' गच्छति ' इत्यादिकर्तृवाचकपदत्तूयस्थले आखातार्थकृतविशेष्यत्वविवक्षायान् 'गमनानुकूलाकृति : ' इत्येवमाख्यातार्थ विशेष्य सान्वयबोधानुसन्धेयः.. अंधेर दिनाशङ्कितं परिहरति- नेति । तथा च वृत्त्यनियामकस्यापि जनकपसंबन्धस्थामावप्रतियोगितावच्छेदकत्वेन भूमिं गच्छति न महीरुहम् ' इत्यत्रोक्तजनकत्वसंबन्वावच्छिन्नपति योगिताक संयोगाभावप्रतीतौ न का चिदनुपपत्तिरिति प्राचीनमतेन फलस्य द्वितीयार्थत्वेपि न कोपि दोष इत्यर्थः । 1 ननु वृत्तनियामकस्य जनकत्वसंबन्धस्याभावप्रतियोगितावच्छेदकत्वस्वीकारे उक्तस्थले उक्तया जनकत्वसंबन्धावच्छिन्नप्रतियोगिता कसंयोगाभावस्थातिरिक्कत्य स्वीकारेण गौरवमेव दोष इत्याशङ्कते - अथेति । परिहरति- नेति, यत्र संयोगजनकत्वाभावस्तत्र तादृशाभावस्य =जनकस्वसंबन्धावच्छिन्न प्रतियोगिताकसंयोगाभावस्य समनियतत्वेन सत्त्वेन जनकल्यसंबन्धावच्छिन्नसंयोगाभावस्य तत्स्वरूपत्वात् = संयोगजनकत्वाभावस्वरूपत्वात् तस्य= संशेगजनकत्वाभावस्य चोभयवादिसिद्धत्वात् संयोगजनकत्वाभावस्वरूपस्य जनकत्वसंबन्धावच्छिन्नसयोगाभावस्याप्युपयवादिसिद्धत्वप्राप्तौ नातिरिक्तकल्पनास्वरूपमुक्तगौरवमित्यर्थः । ननु जनकत्वसंबन्धात्र च्छन्नप्रतियोगिता संयोगामrat सयोगजनकत्वाभावस्वरूपत्वेनाऽतिरिक्तत्वाभादेरि संयोगजनकत्वाभावीप्रतियोगितातो जनकत्वसंबन्धावच्छिन्न प्रतियोगिताकरत्यांगानावयप्रतियोगिताया एवातिरि १५ ·· "Aho Shrutgyanam" Page #238 -------------------------------------------------------------------------- ________________ (२२६) सादर्श:- [ द्वितीयाकारकप्रथमखण्डेत्वेन तत्स्वरूपत्वात् तस्य चोभयवादिसिद्धत्वात् । अतिरिक्तप्रतियोगिताकल्पने गौरवमितिचत् ?, . अस्त्वेतद् गौरवम्- उपदर्शितबहुविधलाघवेनेशगौरवस्या. ऽकिंचित्करत्वात् । ___ अथ: फलस्य द्वितीयार्थत्वे वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितावच्छेदकत्वपि द्रव्यं गच्छति न गुणम् ' इत्यादौ गुणादिनिष्ठस्य संयोगादिरूपफलस्याप्रसिद्धया नजर्यान्वयबोधानुपपत्तिरितिचेत् ?, न, तत्राधेयतासंबन्धावच्छि. अप्रतियोगिताकप्रकृत्यर्थाभावस्यैव द्वितीयार्थे फले नञा बोधनोपगमात् । 'गुणो तायाः कल्पने स्वीकारेण गौरवं स्यात् प्राचीनमते इत्याशङ्कते- अतिरिक्तति । यथा संयोगेन घटाभावस्य घटसंयोगाभावस्य चैकरूपत्वेपि संबन्धभेदात्तयोः प्रतियोगिता मिन्नव भवतिसंयोगेन धटाभावीयप्रतियोगितायाः संयोगसंबन्धस्यावच्छेदकत्वाद् घटसंयोगामावीयप्रतियोगितायाः समवायस्यावच्छेदकत्वात्तथात्राप्युक्ताभावयोः प्रतियोगितयोरवच्छेदकीभूतसंबन्धभेदेन भेदो झेपः- संयोगाभावीयप्रतियोगितावच्छेदकः, जनकत्वसंबन्धः, संयोगजनकत्वाभावीयप्रतियोगितावच्छेदकः स्वरूपसंबन्धः इति ध्येयम् । अभ्युपगम्याह- अस्त्वेतदिति। आधेयत्वस्य द्वितीयार्थत्वं फलावच्छिन्न व्यापारस्य च धात्वर्थस्वमिति नवीनमते ये दोषाः ( २२३ पृ.) प्रदर्शितास्ते प्राचीनमते न सन्तीति प्राचीनमते प्रदर्शितबहुविधलाघवेन तुलनायामादृशस्य= अतिरिक्तत्र तेगोगितास्वीकाररूपगौरवस्य तुच्छत्वादित्यर्थः । - ननु प्राचीनमतेन फलस्य संयोगादोर्द्वतीयार्थत्वे वृत्त्यनियामकस्य जनकत्वसंबन्धस्याभावीयप्रतियोगितावच्छेदकत्वे च स्वीकृतेपि तेन च ' भूमि गच्छति न महीरुहम् ' इत्यत्र 'जनकवसंबन्धावच्छिनप्रतियोगिताको यो महीरुहानुयोगिकसंयोगस्याभावस्तद्वव्यापारवजलम् । इत्याकारकान्वयबोधोपपादनेपि 'द्रव्यं गच्छति न गुणम् । इत्यादौ शाब्दबोधानुपपत्तिर्दोषोऽस्त्येव बतोऽत्र 'गुणम् । इतिद्वितीयार्थः फलरूपः संयोग एव प्राप्त इति 'जनकत्वसंबन्धावच्छिन्नप्रतियोगिताको यो गुणवृत्तिसंयोगस्याभावस्तद्वद्व्यापारवाश्चैत्रः' इत्येव शाब्दबोधो वक्तव्यः सच न संभवति गुणे संयोगरूपगुणस्य बाधाद् गुणवृत्तिसंयोगरूपफलाभावस्य नार्थत्वासंमवेन चान्वयबोधासंभवादित्याशङ्कते- अथेति । परिहरति- नेति, तत्र' द्रव्यं गच्छति न गुणम् ' इत्यत्र द्वितीयार्थे गुणपदोत्तरद्वितीयाथै फले-संयोगे आधेयत्वसंबन्धावच्छिन्नप्रतियोगिताकः प्रकृत्यर्थस्य-गुगस्याभावो नत्रा बोध्यते संयोगे चाधेयतासंबन्धेन गुणो नास्त्येव 'आधेयत्वसंबन्धावच्छिन्नप्रतियोगिताको यो गुणाभावस्तद्वान् यः संयोगस्तजनकगमनव्यापारबाश्चैत्रः । इति च शाब्दबोधः, आधेयत्वसंबन्धावच्छिनप्रतियोगिताकगुणाभाववत्संयोगजनकगमनन्यापारश्चात्र द्रव्यकर्मक एवं गमनव्यापारः संभवति न गुणकर्मक इति नात्रान्वयबोधानुपत्तिरियर्थः । गुगवृत्तिगुणत्वादौ गुणस्याधेयतासंबन्धेन वृत्तेः प्रसिद्धत्वादत्र संयोगे गुणस्याधेय. तासंबन्धनाभावो नानुपपन्नः, किं वा समवायेनेव गुणे गुणानङ्गीकारात् समवायातिरिक्ताधेयता. "Aho Shrutgyanam" Page #239 -------------------------------------------------------------------------- ________________ उक्तप्राचीननवीनमतयोःसमीक्षा ] व्युत्पत्तिवादः । ( २२७) न गुणं गच्छति' इत्यादिवाक्यस्योभयमत एवाप्रमाणत्वात् । अस्तु वा तत्राभावस्य द्विधाभानोपगमेन गुणाभाववतुफलानुकूलस्पन्दाश्रयत्वाभाववान् गुण इत्याकारक एवान्वयबोधः। परे तु वृत्त्यनियामकसंबन्धस्याऽभावप्रतियोगितानवच्छेदकत्वे तु नव्यमतेपि द्रव्यं गच्छति नाभावम् ' इत्यादी गतिविरहः, तथा हि- समवायसंबन्धावच्छिनाधेयतैव द्वितीयार्थों वाच्यः, अन्यथा कालिकादिसंबन्धावच्छिन्नग्रामादिवृत्ति दिसंबन्धेन गुणे गुणवृत्तित्वविरोधाभावादनाधेयतासंबन्धेन संयोगे गुणाभावो नानुपपन्नः, पूर्वत्र तु द्वितीयार्थसंयोगस्य गुणे समवायेनैव वृत्तित्वं वक्तव्यं तत्तु न संभवतीति "गुणादिनिष्ठस्य संयोगादिरूपफलस्याप्रसिद्धया" इत्यनेन शाब्दबोधानुपपत्तिः प्रदर्शितेतिभावः । ननु 'द्रव्यं गच्छति न गुणम् । इत्यत्राधेयत्वसंबन्धावच्छिन्नप्रतियोगिताकगुणाभाववत्संयोगजनकगमनव्यापारस्य चत्रे संभवेन शाब्दबोधे उपपन्नेपि प्राचीनमते 'गुणो न गुणं गच्छति । इत्यत्र तु शाब्दबोधानुपपत्तिरस्त्येव यतोत्रोक्तरीत्या 'आधेयत्वसंबन्धावच्छिन्नप्रतियोगिताकगुणाभाववत्संयोगजनकगमनव्यापारवान् गुणः' इत्येव शाब्दबोधो वक्तव्यः स च न संभवति गुणे व्यापाराऽसंभवात् "गुणादिनिर्गुणक्रियः " इतिसिद्धान्तादित्याशङ्क्याह- 'गुणो न गुणं गच्छति । इत्यादिवाक्यस्येति, एतद्वाक्यार्थस्य बाधितत्वादेतद्वाक्यस्याऽप्रामाण्यमेव- नवीनमतेनाप्यत्रान्वयबोधोपपत्तरसंभवादित्यर्थः । पक्षान्तरमाह-- अस्तु चेति, तत्र='गुणो न गुणं गच्छति ' इत्यत्र नत्रर्थाभावस्य द्विधा=द्विवारं मानोपगमेन ' आधेयत्वसंबन्धेन गुणाभाववद्यत्संयोगरूपं फलं तदनुकूलव्यापाराश्रयत्वाभाववान् गुणः ' इत्याकारकशाब्दबोधसंभवात् , गुणे व्यापाराश्रयत्वाभाषस्याऽबाधादित्यर्थः । एकस्यैव च नोत्र गुणाभावबोधकत्वं स्पन्दाश्रयत्वाभावबोधकत्वं चेति नज मावस्य द्विधा भानं जातम् ।। - नवीनमते दोषमाह- परे विति, वृत्त्यनियामकस्य जनकत्वादिसंबन्धस्याभावीयप्रतियोगितावच्छेदकत्वास्वीकारे तु नव्यमतेपि 'द्रव्यं गच्छति नाभावम् ' इत्यत्रान्वयबोधानुपपत्तिरेव । गतिविरहमुपपादयति-तथा हीति, नव्यमतेप्याधेयता समवायसंबन्धावच्छिन्नेव द्वितीयार्थ इति स्वीकार्य यथा ' ग्रामं गच्छति' इत्यत्र संयोगस्य समवायेन ग्रामवृत्तित्वात्ताशसंयोगे ग्रामनिरूपिताऽऽधेयताप्यस्ति प्रामानुयोगिकः समवायोप्यस्त्येवेति संयोगरूपफलनिष्ठाऽऽधेयता समवायसंबन्धावच्छिन्नास्ति । विपक्षे बाधकमाह- श्रन्यथेति, यदि समवायातिरिक्तकालिकादिसंबन्धावच्छिनाप्याधेयता द्वितीयार्थः स्यात्तदा ग्रामं त्यजत्यपि चैत्रे ग्रामत्यागकाले समवायेन चत्रसंयोगस्य ग्रामाऽवृत्तित्वेपि कालिकसंबन्धेन ग्रामे संभवादेव तादृशं कालिकसंबन्धावच्छिन्नग्रामवृत्तिसंयोगमादाय 'मामं गच्छति चैत्रः । इतिप्रयोगापत्तिरूपोतिप्रसङ्गः स्यादेव तन्निवारणार्थ समवायसंबन्धावच्छिन्नाऽऽधेयता द्वितीयार्थ इतिवक्तव्यं तथा च ग्रामत्यागकाले समवायेन चैत्रसंयोगस्य ग्रामेऽसंभवात् कालिकसंबन्धावच्छिन्नप्रामवृत्तिसंयोगवृत्त्याधेयतायाः कालिकसंबन्धावच्छिन्नत्वेन सम "Aho Shrutgyanam" Page #240 -------------------------------------------------------------------------- ________________ (२२८) सादर्श:- [द्वितीयाकारकप्रथमखण्डेसंयोगादिकमादायातिप्रसङ्गात्, तथा चाभावादिनिरूपिततथाविधाधेयत्वाद्यऽप्रसिद्ध्या तदभावबोधासंभवः । निरूपितत्वसंबन्धस्य च वृत्त्यनियामकतया समवायसंबन्धावच्छिन्नाधेयतायां तत्संबन्धावच्छिन्नप्रतियोगिताकप्रकृत्यर्थाभावबो. धो न संभवत्येवेत्याहुरिति । . अत्रोच्यते- वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितावच्छेदकत्वे आधेयत्वं वायसंबन्धावच्छिन्नत्वाभावात् समवायानच्छिन्नाधेयताया द्वितीयार्थत्वाभावाच 'ग्रामं गच्छति । इति प्रयोगापत्तिर्नास्येव, एवं स्थिते ' द्रव्यं गच्छति नाभावम् । इत्यत्राप्यभावपदोत्तरद्वितीयार्थः समवायावच्छिन्नैत्राधेयतेति वक्तव्य तत्र यदि कोपि पदार्थोऽभावे समवायसंबन्धेन स्यात्तदा तस्मि• मभावानुयोगिकप्तमवायस्य सत्त्वेन तन्निष्टा साऽभावनिरूपिताऽऽधेयता समवायसंबन्धावच्छिन्ना स्यादपि न चैवमस्ति- अभावे कस्यापि समवायेन वृत्तित्वाभावादिति अभावनिरूपितस्य तथाविधाधेयत्वस्य समवायसंबन्धाच्छन्नाधेयत्वस्याऽप्रसिद्ध्या तदभावबोधासंभवः अभावनिरूपितस्य समवायावच्छिन्नाधेयत्वस्य नाऽभावबोधासंभवः अप्रसिद्धप्रतियोगिकाभावबोधस्यास्त्री कारादि. त्याह- तथा चेति । ननु · द्रव्यं गच्छति नामावम् ' इत्यत्र नाभावनिरूपितायाः समवायसंब. न्धावच्छिन्नाधेयतायाः फलेऽभाव उच्यते येन तादृश.धेयताया अप्रसिद्धत्वात्तदभावबोधासंभवः स्थात् , किं तु समवायसंबन्धावच्छिन्नाधेयतायाम् ' अभावम् ' इति प्रकृत्यर्थाभावस्य निरूपित. त्वसंबन्धेनाऽभावान्वयबोध उच्यते इति नामावबोधासंभव:-अभावपदोत्तर द्वितीयाांधेयताया अभावनिरूपितत्वेन तस्यां निरूपितत्वसंबन्धेनाभावस्थाऽभावाभावस्य चान्वयेऽनुपपत्त्यभावादित्याशङ्कयाह- निरूपितत्वेति, स्यादेवं यदि नव्यमते वृत्त्यनियामकसंबन्धस्याप्यभावीयप्रतियोगितावच्छेदकत्वं स्यात्, न विमस्ति, तथा च निरूपितत्वसंबन्धस्य वृत्त्यनियामकतया समवायसंबन्धावच्छिन्नाधेयतयां तत्संबन्धावच्छिन्न प्रतियोगिताकस्य निरूपितत्वसंबन्धावच्छिन्न प्रतियोगिताकस्य (निरूपितत्वसंबन्धेनेतियावत् ) प्रकृयर्थाभावस्य अभावाभावस्यान्वयबोधोपि नेवान संभवतीत्यर्थः । यदि तु वृत्त्यनियामकसंबन्धस्याभावीयप्रतियोगितावच्छेदकत्वं स्वीकृतं स्यासदा त्वत्र वृत्त्यनियामकस्यापि निरूपितत्वसंबन्धस्याभावप्रतियोगितावच्छेदकत्वे प्राते अभावनिरूपुतायां समवायसंबन्धावच्छिन्नाधेयतायां तेन निरूपितत्वसंबन्धेनापि प्रकृत्यर्थाभावस्य-अमारापावस्य बोधः स्यादेव तत्र-निरूपितत्वसंबन्धावच्छिन्न प्रतियोगिताकामावाभावविशिष्टाधेयता विशिष्टसंयोगजनकगमनव्यापारवांऔर इति च बोधाकारः, एतादृशसंयोगजनकगमनन्यापारश्चात्र द्रव्यकर्मकगमनव्यापार एव भवतीति ध्येयम् ।। ___ अत्रोच्यते इति, वृत्त्यनियामकसंबन्धास्याभावीयप्रतियोगितानवच्छेदकरवे हि (२२४ पृ.) अथेत्यादिनोक्तरीत्या — भूमि गच्छति न महीरुहम् ' इत्यत्र महीरुहवृत्तिसंयोगस्य जनकतासंबन्धावच्छिन्नप्रतियोगिताकाभावबोधो न संभवति जनकत्वसंबन्धस्य वृत्त्य नियामकता दयाऽऽधेयत्वस्यैवाऽऽश्रयत्वादिसंबन्धावच्छिन्नप्रतियोगिताकफलनिष्ठाभावबोध उपपद्यते तदर्थ चाधे "Aho Shrutgyanam" Page #241 -------------------------------------------------------------------------- ________________ उक्तप्राचीननवीनमतयोःसमीक्षा] व्युत्पत्तिवादः । (२२९) संसां विभक्तेः संख्यामात्रमर्थः फलावच्छिन्नो व्यापारो धात्वर्थ इत्येवोचितम् । अस्तु च व्युत्पत्तिवैचित्र्येण नामार्थधात्वर्थयोरपि साक्षादन्वयबोधस्तथा सत्यऽतिप्रसङ्गस्य प्रागुपदर्शितप्रकारेण वारणसंभवात् । न चैतत्कल्पे :लाघवानव. काश:- फले स्वतन्त्रशक्त्यकल्पनेन सामग्रीप्रतिबन्धकतायां द्वितीयादिजन्यफलोपस्थितिधातुजन्यव्यापारोपस्थितिरित्युभयोपस्थित्यपेक्षया धातुजन्यविशिष्टविषयकोपस्थितेरेकस्या निवेशेन लाघवात् । यत्वस्य द्वितीयार्थत्यमावश्यकमेव फेन चित्पदेनोस्थिति विना ना तदभावबोधासंभवात् -पदा तु वृत्त्यनियामकस्य जनकत्वादिसंबन्धस्याप्यभावीयप्रतियोगितावच्छेदकत्वं स्वीकृतं सदा तु ' भूमि गच्छति न महीरुहम् ' ' ग्रामं न गच्छति' इत्यादौ महीरुहप्रामादिवृत्तिसंयोगादेर्जनकत्वसंबन्धेन व्यापारे नमाऽमाक्योधनसंभवादाधेयत्वस्य द्वितीयार्थत्वस्वीकारापेक्षा नास्ति संसर्गविधयापि माने दोषाभावात् प्रत्युत तत्र द्वितीयायाः शक्तिकल्पने एवं गौरवादित्यभिप्रायेणाह-वृत्त्यनियामकेति । विभक्तेः संरू पार्यकत्वं तु सर्वावस्थायां सर्वसंमतमेव । ननु पूर्वम् “ क्रियातादृशप्रातिपदिकार्थयोः (१८ पृ.) " इत्यादिना निपातातिरिक्तनामार्थधास्वर्थयोः भेदेन साक्ष दन्ययः प्रतिषिद्धस्तत्राधेवत्वस्य द्वितीपार्थत्वे प्रामस्यायत्ये आधेयत्वस्य च धात्वर्थीभूतसंयोगेऽन्वयो भवतीत्युक्तनियमपरिपालनं संभवति आधेयत्वस्य संसर्गत्वे तु ग्रामस्य नामार्थस्याधेयत्वसंबन्धेन धात्वर्थीभूतसंयोने ( संयोगावछिन्नव्यापारस्य धात्वर्थत्वेन संयोगस्य धात्वर्थत्वात् ) साक्षादेवान्ययः स्यादित्युक्तनियमभङ्गः स्यात् इत्याशक्याह-अस्तु चेति । व्युत्पत्तिवैचित्र्येण ग्रामं गच्छति । इत्यादिवाक्यजन्यबोधवैचित्र्ये ग, किं वा वृत्त्यनियामकसबन्धस्याभावप्रतियोगितावच्छेदकत्वस्वीकारवैचित्र्येण । नतु यदि ‘ग्रामं गच्छति । इत्यत्राधेयतासंबन्धेन धात्वर्थीभूतसंयोगे साक्षादेव ग्रामान्वयः स्यातदा ' ग्रामो गच्छति । इत्यपि प्रयोगः स्यात्--अत्रापि संसर्गविधयाभासमानाधेयतासंबन्धेन ग्रामस्य धात्वर्थीभूतसंयोगेऽन्वयसंभवाद् आधेयत्वस्य संसर्गत्वेन पदेन तदुपस्थित्यपेक्षाभावात्, मन्मते तु आधेयत्वं न संसर्गः किं तु प्रकार एवेति ' ग्रामो गच्छति' इत्यत्राधेयत्वोपस्थापिकाया द्वितीयाया अभावादेव नाधेयत्वसंबन्धेन ग्रामस्य धास्वर्थीभूतसंयोगेऽन्वयः संभवतीति न 'ग्रामो गच्छति । इत्यतिप्रसङ्गस्यापत्तिरित्याशङ्क्याह-तथा सतीति, तथा सति-आधेयत्वसंसर्गेण ग्रामस्य धात्वर्थीभूतसंयोगे साक्षादन्वयस्वीकारे सति, अतिप्रसङ्गस्य= प्रामो गच्छति' इतिप्रयोगापत्तः, प्रागुपदर्शितप्रकारेण-ग्रामकर्मकसंयोगानुकूलव्यापारविषयकशान्दबोधं प्रति किं वा आधेयतासंसर्गेण प्रामादेः धात्वर्थीभूतसंयोगेऽन्वयबोधं प्रति द्वितीयान्तग्रामादिपदसमभिव्याहृतगच्छतीस्यादिपदसमभिव्याहारज्ञानस्य कारणत्वान्न तादृशशाब्दबोधार्थम्-'ग्रामो गच्छति । इत्यादिप्रयोगापत्तिरित्यर्थः । ननु द्वितीयायाः फले शक्तिस्वीकारपक्षापेक्षयाऽस्मिन् मते किं नाम काघवमित्याशक्याह-न चेति । लाधवमाह-फले इति, फले द्वितीयाशक्तिस्वीकारे द्वितीयाज "Aho Shrutgyanam" Page #242 -------------------------------------------------------------------------- ________________ (२३०) सादर्श:- [द्वितीयाकारकप्रथमखण्डेवस्तुतस्तु शाब्दबुद्धरधिकविषयकत्वे 'राज्ञः पुरुषः' इत्यादौ स्वत्वादे संसर्गतानिराकरणावसरे सामग्रीप्रतिबन्धकतायां लाघवस्य दर्शितत्वाद् द्वितीबादेराधेयत्वमर्थः फलावच्छिन्नव्यापारश्च धातोरित्येव युक्तम् । कर्माख्यातस्य फलमर्थः, अन्यथा 'ग्रामो गम्यते ' इत्यादौ ग्रामादेापार• अन्यफलाश्रयत्वरूपकर्मत्वप्रतीत्यनुपपत्तेः, यादृशविशेष्यविशेषणभावापन्नयोः पदशक्यता साहशविशेष्यविशेषणभावापन्नयोरेव शाब्दबोधे भानसंभवात्. न तु विपरीतविशेष्यविशेषणभावापन्नयोः । न्यफलोपस्थितेः धातुजन्यव्यापारोपस्थितेश्च कारणत्वं प्रतिबन्धकत्वं च स्यादिति गौरवम्, फलविशिष्टव्यापारे धातुशक्तिस्वीकारे चोपस्थितिद्वयस्थाने धातुजन्यफलविशिष्टव्यापारोपस्थितेरे. कस्या एव कारणत्वं प्रतिबन्धकत्वं चेत्यस्मिन्मते लाघवमित्यर्थः । विभिन्न विषयकप्रत्यक्षं प्रति शाब्दसामग्र्याः प्रतिबन्धकत्वात् तादृशप्रतिबन्धकतायां लाघवप्राप्त्यर्थं पक्षान्तरमाह-वस्तुतस्त्विति । शाब्दबुद्धरधिकविषयकत्वे प्रत्यक्षस्य तदपेक्षया विभिन्न विषयकत्वमल्पमेव स्यादितिप्रतिबन्धकत्वमप्यऽल्पं स्यादिति लाघवम् । शाब्दबुद्धरधिकविषयकत्वसंपादनार्थ चाधेयत्वस्य द्वितीयार्थत्वं मन्तव्यं शेषं पूर्ववदेवेत्यर्थः ।। - संप्रति कर्मवाचकाख्यातप्रत्ययस्यार्थमाह-कर्मेति, 'ग्रामो गम्यते' इत्यत्रारख्यातस्य संयोगादिरूपं फलमाश्रयत्वं चार्थः धातोश्च पूर्ववदेव संयोगादिरूपफलावच्छिन्नव्यापार एवार्थ इति फलस्य द्वधा भानं भवति–संयोगानुकूलव्यापारजन्यसंयोगाश्रयो ग्राम इतिबोधात् । विपक्ष बाधकमाह-अन्यथेति, यदि कर्माख्यातस्य फलमर्थो न स्यात्तदा 'ग्रामो गम्यते ' इत्यत्र ग्रामे अत्संयोगरूपफलाश्रयत्वं प्रतीयते तन्न प्रतीयेत धातूपस्थितफलस्य व्यापारे विशेषणत्वेन ग्रामविशेषणत्वासंभवात् " एकत्र विशेषणत्वेनान्वितस्यान्यत्रविशेषणत्वेनान्वयाभावात् ". इतिन्यायादिति प्रामविशेषणीभूतसंयोगादिरूपफलोपस्थापकमाख्यातमेवेत्यर्थः । स्वाभिप्रायं प्रकटयतिमादृशेति, ग्रामवृत्तिसंयोगो ह्यत्र व्यापारविशेष्यतयैव भासते धातूपस्थितसंयोगश्च व्यापारविशेपणतया भासते इति व्यापारविशेषणत्वेन धातुपदशक्यस्य संयोगादिरूपफलस्य शाब्दबोधेपि न्यापारविशेषणत्वेनैव मानं संमवति न तु व्यापारविशेष्यत्वेनेति व्यापारविशेष्यभूतसंयोगस्याख्यातेनोपस्थितिः स्वीकार्येत्यर्थः । संयोगानुकूलव्यापारजन्यसंयोगाश्रयो ग्राम इत्यत्र पूर्वपूर्वस्य विशेषणत्वादुत्तरोत्तरस्य विशेष्यत्वादितिभावः । ___ ननु व्युत्पत्तिवैचित्र्येणैकत्र विशेषणतया भासमानस्याप्यन्यत्र विशेष्यतयां भानं संभवत्येव तथा च धातोः फले व्यापारे च खण्डशः शक्तिं स्वीकरिष्याम इति धातोः फले पृथक् शक्तिः स्वीकारात् 'ग्रामं गच्छति' इत्यादौ काख्यातसमभिव्याहारस्थले व्यापारविशेषणतया भासमानस्य संयोगादिरूपफलस्य कर्माख्यातस्थले तद्विशेष्यतया व्यापारविशेष्यतया भानं व्युत्पत्तिपैचित्र्यात्-बोधवैचित्र्यानानुपपन्नमिति फलस्व कर्माख्यातार्थत्वाभावेपि — प्रामो "Aho Shrutgyanam" Page #243 -------------------------------------------------------------------------- ________________ कर्माख्यातस्थल विचार: ] व्युत्पत्तिवादः । ( २३१ ) यत्तु फले धातोः पृथक् शक्त्युपगमाद् व्युत्पत्तिवैचित्र्येण कर्नाख्यातसम भिव्याहारस्थलें व्यापारविशेषणतया भासमानस्य फलस्य कर्माख्यातस्थले तद्विशेष्यतया भानमिति, तन्न, पृथक् शक्तिस्वीकारे शाब्दसामय्याः प्रतिबन्धकतायां विशिष्टविषयकोपस्थितिस्थले उपस्थितिद्वयनिवेशे गौरवात् । गम्यादेः संपूर्वयुजिप्रभृतिसमानार्थकता भ्रमवतामिव विशेषदर्शिनामपि 'गमनं न स्पन्दः ' इत्यादिवाक्यात् संयोगादौ स्पन्दभेदान्वयबोधापत्तेर्दर्शिताया दुर्वारत्वाच्च संयोगादिविशेष्यकवृत्तिज्ञानजन्यतदुपस्थितिघटितायास्तथाविधान्वयबोधसामय्या अक्षतत्वात्, तत्तद्धातूपस्थाप्यव्यापारांशे तत्तद्विशेषणकबोधतात्पर्यज्ञानस्य तादृ: शान्वयबोध प्रतिबन्धकताकल्पने गौरवादिति । C गम्यते ' इत्यादौ ग्रामादेर्व्यापारजन्यफकाश्रयत्वरूपकर्मत्वप्रतीत्यनुपपत्तिर्नास्त्येव धातुनैवोपस्थितस्य फलस्य व्यापारविशेष्यतया ग्रामविशेषणतया चात्र मानसंभवादित्याशङ्कते - यत्त्विति । परिहरति- तन्नेति, एवं हि धातुजन्यफलोपस्थितिधातुजन्यव्यापारोपस्थितिद्वयस्य कारणत्वेन प्रतिबन्धकत्वेन च गौरवं स्यादित्याह - पृथगिति । पृथक्शक्तिस्त्रीकारे धातोः फलेपृथक्शक्तिस्वीकारे । विशिष्टविषयकोपस्थितिः = फलावच्छिन्नव्यापारोपस्थितिः । किं च संयोगो न स्पन्दः ' इत्यत्र संयोगपदेनोपस्थितसंयोगे स्पन्दमेदान्वयो भवत्येवेति येषां गम्घातावपि संपूर्वकयुज्धातुसमानार्थकताभ्रमो जातस्तेषां दृष्ट्या गमनं न स्पन्दः ' इत्यत्रापि गमनपदेन विशेष्यतया संयोगोपस्थितेः संभवात् तादृशसंयोगे स्पन्दभेदान्वयानुपपत्त्यभावाद् यथा ' गमनं न स्पन्दः इति प्रयोगः स्यात्तथा विशेषदानाम् उक्तभ्रमरहितानामपि संप्रति धातुना पृथगुपस्थिते संयोगरूपफले स्पन्दभेदान्व संभवात् * गमनं न स्पन्दः इति प्रयोगापत्तिः स्यादेव न चैतदिष्टमिति न धातोः फले पृथक्शक्तिस्वीकारपक्षः सम्यगित्याह- गम्यादेरिति । उक्तविशेषदर्शिनां दृष्ट्या गमनं न स्पन्दः इतिप्रयोगापत्तौ हेतुमाह-संयोगेति, धातोः फळे पृथक् शक्तिस्वीकारे धातुना फलस्य पृथग् विशेष्यतयैवोपस्थितिः स्यादिति ' गमनं न स्पन्दः ' इत्यत्र स्पन्दभेदप्रकारक संयोगविशेष्यकशाब्दबोधकारणीभूतायाः संयोगविशेष्यकशक्तिज्ञानजन्यसंयोगोपस्थितिघटिताया: सामग्र्याः सत्त्वादेव सत्कार्यभूतस्य स्पन्दभेदप्रकार कसंयोगविशेष्यकशाब्दबोधस्य संभवात् ' गमनं न स्पन्दः ' इतिप्रयोगः स्यादेवेत्यर्थः । ननु ' गमनं न स्पन्दः १ इत्यत्र धातूपस्थितव्यापारे तत्तद्विशेषणक = स्पन्दभेदादीनां विशेषणत्वबोधविषयकतात्पर्यज्ञानस्थ धातूपस्थितसंयोगे स्पन्दमेदादीनां विशेषणत्वेनान्वयबोधं प्रति प्रतिबन्धकत्वं कल्पयिष्यामस्तथा चैतादृशप्रतिबन्धकस्य सत्त्वान्नात्र संयोगादौ स्पन्दभेदान्वयो भविष्यति व्यापारे च स्पन्दमेदो बाधित एवेति न गमनं न स्पन्दः ' इतिप्रयोगापत्तिरित्याशङ्क्याह-तत्तद्वातूपस्थाप्येति, एवं हि प्रतिबध्यप्रतिबन्धकभावकल्पने गौरवं स्यादित्यर्थः । तादृशान्वयबोधे = स्पन्द भेदप्रकार कसंयोगविशेष्यकशाब्दबोधे । ८ , "Aho Shrutgyanam" Page #244 -------------------------------------------------------------------------- ________________ सादर्श:- [ द्वितीयाकारकप्रथमखण्डे-- - फलस्य द्विधा भानं चेदनुभवविरुद्धं तदा पुनरनायत्या फलव्यापारयोः खण्डशः शक्तिव्यमेव धातोः स्वीकरणीयम्, आख्यातस्याश्रयत्वमेव तत्रार्थः । अधिकमग्रे वक्ष्यते ।। ___ अथ द्वितीयाया आधेयत्वार्थकत्वे व्यापार तदन्वयतात्पर्यण सप्तम्या इव द्वितीयाया आप प्रयोगापत्तिः, ' न हि गृहे पचति ' इत्यादिवत् गृहं पचति' इति कश्चित् प्रयुकते। मैवम्- धात्वर्थतावच्छेदकालांशे आधेयत्वान्वये एव तादृशद्वितीयायाः साकाक्षत्वकल्पनाद् व्यापारे तदुपस्थापिताधेयत्वान्वयाऽसंभवात् । सप्तम्यवीनाधेयत्वोपस्थितिसप्तमीसमभिव्याहारज्ञानवटिताया एव सामग्र्यारतादृशान्वयबोधनियामकत्वात् । द्वितीयासप्तम्योः समानार्थकत्वोपे व्युत्पत्तिभेदज्ञापनायैव पृथक् पृथक सूत्रेणैव तयोविधानात् । "मनु कर्माख्यातस्य फले शक्तिस्वीकारे हि 'ग्रामो गम्यते ' इत्यत्र ' संयोगानुकू टगापारजन्यसंयोगाश्रयो ग्रामः' इति बोधापत्त्या फलस्य द्विधा द्विवारं भानं सादेव न चैकस्मिन् बोधे फलस्य द्विधा भानमनुभवसिद्धमित्याशक्याह-फलस्येति । अनायत्त्या अगत्या ! तत्र कर्मरूपातस्यले । तथा च फलन्यापारयोर्धातोः खण्डशक्तिस्वीकरे फलेस्य व्यापारविशेषगवेनोपस्थित्यभावात्तादृशसंयोगादिरूपफलस्य पृथगुपस्थितस्य ग्रामे विशेषगत्व न काप्यनुपरत्तिारतिभावः । अग्रे चातुप्रकृतिकप्रत्ययार्थनिरूपणस्थले । ननु यदि द्वितीयाया आवेयत्वमर्थः स्यात्तदा तादृशाऽऽधेपत्वस्य व्यापारेऽन्वयतात्पर्येण पथा — गृहे पचति ! इतिप्रयोगो भवति तथा — गृहं पचति । इत्यपि प्रयोगः स्यात्- आधेयवार्थकत्येन द्वितीयासप्तम्योः समानार्थकत्वापत्तेः, न चैतदिष्टमित्याशङ्कते- अथेति । गृहे पचति । इत्यत्र गृहनिरूपिताधेयतावान् पाक इति बोधोदयात् सप्तम्यर्थाधे यत्वस्थ व्यारेऽन्वयो ज्ञेयः । परिहर त= मैवमिति, यदा हि धात्वर्थतावच्छेदकफले एवाधेयत्वस्पान्वयो भवति तदैव ताशद्वितीयायाः-आधेयत्वार्थकद्वितीयायाः प्रयोगो भवति यथा ' ग्रामं गच्छति ' . ' तण्डुलं पचति ' इति, तस्माद् द्वितीयोपस्थिताधेयत्वस्य व्यापारेऽन्धयासंभवात् 'गृहं पचति । इतिप्रयोगापत्तिर्नास्त्येवेत्यर्थः । सप्तम्यर्थाधेयत्वस्यैव सप्तम्योपस्थितस्य व्यापारेऽन्वयो भवती ते 'गृहे पचति । इत्येव प्रयोगो भवतीत्याह-सप्तम्यधीनेति । तादृशान्वयबोधनियामकत्वात्= व्यापारविशेष्यकाधेयत्वप्रकारकशाब्दबोधनियामकत्वात् । यद्यपि द्वितीयासप्तम्योरुभयोरप्याधेयस्वमेवार्थस्तथापि व्युत्पत्तिभेदज्ञापनायैव शाब्दबोधविशेषस्वरूपज्ञापनायैव तयोः द्वितीयासप्तम्योः पृथक् पृथक् सूत्रेण:" कर्मणि द्वितीया " " सप्तम्यधिकरणे च" इति सूत्राभ्यां विधानं कृतं तथा च यदाऽऽधेयत्वस्य धात्वर्यतावच्छेदके फलेन्क्यो भवति तदा द्वितीया भवति यथा : ग्रामं गच्छति । 'तण्डुलं पचति' इति, अत्राधेयत्वस्य धात्वर्थतावच्छेदकीभूतसंयोगविक्लिज्यादावन्वयात्, यदा चाधेयत्वस्य व्यापारे एवान्वयो भवति तदा सप्तमी भवति यथा 'गृहे "Aho Shrutgyanam" Page #245 -------------------------------------------------------------------------- ________________ पततिप्रयोगविचारः ] व्युत्पत्तिवादः। अथाधःसंयोगावच्छिन्नस्पन्दस्य पतधात्वर्थ वाद् धात्वर्थतावच्छेदकीभूतफले आधेयत्वान्वयतात्पर्येण — भूमि पतति ' इति प्रयोगापत्तिः । न च दितीयोपस्थिताधेयत्वप्रकारकफलविशेष्यकान्वयबोधे गम्यादिजन्यफलोपस्थितितत्समभिव्याहारज्ञानघटितसामग्येव प्रयोजिका न तु पतधातुजन्यतदुपस्थितिवटिता सामग्रीति नातिप्रसङ्ग इतिवाच्यम्, पतधातुनैव यत्र संयोगावच्छिन्नगमनं लक्ष. णादिनोपस्थापितं तत्र संयागे द्वितीयार्थाधेयत्वान्वयात् । ____ अत्राहुः- धातुजन्यशुद्धसंयोगावच्छिन्नस्पन्दोपस्थितेः शाब्दबोधकारणता यामऽवच्छेदकपटकसंयोगविषयतायामऽधिकरणानवच्छिन्नत्वं विशेषणं देयं पचति । इत्याह- द्वितीयासतम्पोरिति । एवकारो भिन्नक्रम इति ‘पृथक् पृथगेव ' इत्यन्वयः । * ग्रामं गच्छति ' इत्यत्र ' ग्रामवृत्तिसंयोगानुकूलव्यापारवान् । इतिबोधः, 'तण्डुलं: पचति । इत्यत्र ' तण्डुलवृत्तिविक्लित्त्यनुकूरव्यारावान् ' इतिबोधः । वृत्तरेव चाधेवत्वम् । ननु यद्युक्तरीत्या धात्वर्थतायच्छेद के फले आयत्वान्वयतात्पर्ये द्वितीया भवति तदाऽधासंयोगावच्छिन्नस्पन्द एव पतधात्वर्थोस्तीति तत्राधेयत्वस्य धात्वर्थतावच्छेदकीभूतफरेऽधःसंयोगे तात्पर्येण द्वितीयाप्राप्त्या — भूमि पतति । इत्यरि प्रयोगः स्यात्. न चैतदिष्टमित्याशङ्कतेअथेति । ननु द्वितीयोपस्थितावेयत्वप्रकारकफविशेष्यफशाब्दबोध प्रति गम्यादिधातुजन्यफलो. पस्थितिघटितायास्तथा गम्यादिसमभिव्याहारवटिताया एव सामग्र्या हेतुत्वमस्तीति ' ग्राम गच्छति । इत्यादिप्रयोगो भवति, द्वितीयोपस्थिताधेयत्वप्रकारकमलविशेष्यकशाब्दबोधं प्रति पतधातुजन्यफसोपस्थितिघटितलामय्याः कारणत्वं नास्तीति नातिप्रसङ्गः= 'भूमि पतति । इतिप्रयोगापत्तिास्त्वेत्र अर्थात् - गम्यादिधात्वर्थतावच्छेदकीभूतफले आधेयत्वान्वयतात्पर्य सत्येव द्वितीया भवति पतधात्वर्थतावच्छेदकीभूतकले आधेयत्वान्वयतात्पर्य सत्यपि द्वितीया न भवतीति न ' भूमि पतति ' इति प्रयोगापत्तिरित्याशझ्याह-- न चेति । परिहारमाह- पतधातुनेति, एवं नियमे कृले हि यत्र पतधातोः संयोगावच्छिन्नगमनव्यापारे लक्षणा भवति तत्र लक्षणयोपस्थिते धात्वर्यतावच्छेदकीभूतसंयोगरूपफले द्वितीयाधियत्वान्वयेऽनुपपत्त्यभावात् ' भूमि पतति ' इतिप्रयोग इष्ट एव स च न स्यात्, तदानीं पतधात्वर्थतावच्छेदकीभूतफले एवाधेयरवान्त्रयतात्पर्यस्य सत्त्वादित्यर्थः । ___ समाधत्ते- अत्राहुरित्यादिना । धातुजन्यशुद्धसंयोगावच्छिन्नस्पन्दोपस्थितिनिष्ठायां शाब्दबोधकारणतायाम् अवच्छेदकघटकसंयोगविषयतायाम्-धात्वर्थतावच्छेदकीभूजसंयोगनिष्ठविषयतायामधिकरणानवच्छिन्नत्वं विशेषणं देयम्, अर्थाद् धात्वर्थतावच्छेदकीभूतसंयोगो यत्राधिकरणानेवच्छिन्नो भवति तत्र तादृशसंयोगे आधेयत्वान्वयतात्पर्ये सति द्वितीया भवति यत्र च धात्वर्थतावच्छेदकीभूतसंयोगोऽधिकरणविशेषावच्छिन्नो भवति तत्र द्वितीया न भवति तथा च ग्रामं गच्छति' इत्यत्र धात्वर्थतावच्छेदकीभूतसंयोगः केनाप्यधिकरणेनावच्छिन्नो नास्तीत्ये "Aho Shrutgyanam" Page #246 -------------------------------------------------------------------------- ________________ (२३४) सादर्श:- [द्वितीयाकारकप्रथमखण्डे- : तथा च तादृशविषयताशालिसंयोगोपस्थित्यादिघटितसामग्र्या एव संयोगविशेष्यकद्वितीयोपस्थाप्याधेयत्वान्वयबोधप्रयोजकत्वोपगमान्नातिप्रसङ्गः। न चैवमपि फलावच्छिन्नव्यापारबोधकतया पतेः सकर्मकत्वव्यवहारापत्तिqारैवेति वाच्यम्, आश्रयानवच्छिन्नफलावच्छिन्नव्यापारबोधकत्वस्यैव ताहशव्यवहारनियामकत्वात् । उत्तरदेशानवच्छिन्नमेव संयोगः फलं गम्यर्थतावच्छेदकमिति नानुपपत्तिः, अत एवाग्निसंयोगावच्छिन्नक्रियानुकूलव्यापारस्य जुहोत्यर्थतया धात्वर्थतावच्छेदकसंयोगाश्रयस्थाप्यग्नेर्न तत्कर्मता- आश्रयानवच्छिन्ना. तादृशसंयोगे आधेयत्वान्चयतात्पर्येण द्वितीया जाता, पतधात्वर्थस्तु अधःसंयोगावच्छिन्न एव स्पन्द इति तत्र धात्वर्थतावच्छेदकीभूतसंयोगस्याऽधोदेशरूपाधिकरणेनावच्छिन्नत्वात् तत्र द्वितीया न भवतीति न 'भूमि पतति' इतिप्रयोगापत्तिरित्यर्थः । संयोगस्यावच्छिन्नत्वे संयोगनिष्ठशाब्दबोधविषयताया अप्यवच्छिन्नत्वं भवति- शाब्दबोधविषयताया अधोदेशावच्छिन्नत्वस्य च संयोग सत्त्वेन तयोः सामानाधिकरण्यादवच्छेद्यावच्छेदकभावस्य संभवात् , संयोगस्यानवच्छिन्नत्वे संयोगनिष्ठविषयत्ताया अप्यनवच्छिन्नत्वं ज्ञेयम् । तादृशविषयताशालिअधिकरणानवच्छिन्नविषयताशालिसंयोगस्य योपस्थितिस्तद्घटितसामग्र्या एवं द्वितीयाधियत्वप्रकारकसंयोगविशेष्यका शाब्दबोधकारणत्वमस्तीति नातिप्रसङ्गः= 'भर्मि पतति' इति प्रयोगापत्तिर्नास्त्येव, पतधात्वर्थता बच्छेदकीभूतसंयोगनिष्ठविषयताया अधोदेशावच्छिन्नत्वादित्याह- तथा चेति ।। __ नन्वेवमपि फलावच्छिन्नव्यापारबोधकत्वमेव सकर्मकत्वमित्युक्तमिति पतधातोरप्यऽधःसंयोगावच्छिन्नन्यापारबोधकत्वात्सकर्मकत्वं स्यादेव तथा च पतधात्वर्थनिरूपितकर्मत्वाश्रयबोधकपदाद् द्वितीया स्यादेवेति — भूमि पतति । इति. प्रयोगापत्तिस्तदवस्थैवेत्याशङ्कयाह- न चेति । परिहारमाह- आश्रयानवच्छिन्नेति, आश्रयविशेषानवच्छिन्नं यत् फलं तादृशफलावच्छिन्नव्यापारबोधकत्वमेव तादृशव्यवहारस्य सकर्मकस्वव्यवहारस्य नियामकमस्तीति गम्यादिधात्वर्थतावच्छेदकफलस्य संयोगस्याधिकरणविशेषेणाऽनवच्छिन्नत्वात्तादृशाधिकरणानवच्छिन्नकलावच्छिन्नयापारबोधकत्वाद् गम्यादेः सकर्मकत्वमस्ति, पतधात्वर्थतावच्छदकीभूतसंयोगरूपफलस्याऽधोदेशा. पच्छिन्नत्वेनाश्रयावच्छिन्नफलावच्छिन्नव्यापारबोधकत्वात् पतधातोः सकर्मकत्वापत्तिर्नास्तीत्यर्थः । ननु ' ग्राम गच्छति । इत्यादौ गम्धात्वर्थतावच्छेदकीभूतफलरूपसंयोगोप्युत्तरदेशावच्छिन्न एवास्ति- उत्तरदेशसंयोगानुकूलव्यापारस्यैव गम्धात्वर्थत्वादित्याशक्याह- उत्तरदेशेति, गम्धात्वघेतावच्छेदकीभूतः संयोगः शुद्धसंयोग एव नोत्तरदेशावच्छिन्नसंयोग इति न गम्यादेः सकर्मकत्वानुपपत्तिरित्यर्थः । अत एव आश्रयानवच्छिन्नफलावच्छिन्नव्यापारबोधकस्यैव धातोः सकमकत्वाद् आश्रयानवच्छिन्नफलाश्रयस्यैव कर्मत्वव्यपदेशाच, अमिरूपाश्रयेणावच्छिन्नो यः संयोगो धृतामिसंयोगस्तादृशसंयोगावच्छिन्ना तादृशसंयोगानुकूला या घृतनिष्ठा क्षरणरूपा क्रिया ताहशक्रियानुकूलो यो हवनकर्तृनिष्ठो घृतत्यागरूपो व्यापार स एव हुधात्वर्थ इति हुधात्वर्थतावच्छेदकसंयोगाश्रयत्वं यद्यप्यमेरस्ति तथाप्यनेन तस्कर्मता-जुहोतिकर्मता- अश्याश्रितस्य धात्व "Aho Shrutgyanam" Page #247 -------------------------------------------------------------------------- ________________ जुहोतिप्रयोगविचारः] व्युत्पत्तिवादः। (२३५ वच्छेदकताश्रयफलवत्त्वविरहात्. संयोगनिष्ठाया धात्वर्थतावच्छेदकताया आश्रयेणानिनाऽवच्छिन्नत्वात् ।। न चाग्निविशेषितसंयोगस्य धात्वर्थतावच्छेदकत्वे - अग्नौ घृतं जुहोति' इत्यत्रानन्वयप्रसङ्गः- उद्देश्यतावच्छेदकविधेययोरैक्यादिति वाच्यम्, तत्र संयोगनिष्ठायामुद्देश्यतायां वढेराधेयतासंसर्गेणावच्छेदकतया सप्तम्यर्थस्याग्निवृत्तित्वस्य च विधेयतया उद्देश्यतावच्छेदकविधेययोरैक्यानवकाशात् । वस्तुतस्तु तत्र वढेरनन्वयेपि न क्षतिः- व्युत्पन्नानां ताशप्रयोगस्याऽप्रामाणिकत्वात् । 'संस्कृते वह्नौ जुहुयात् ' इत्यादिस्थले च विधेयांशेऽधिकावगाहनान्नास्त्येवार्थतावच्छेदकीभूतसंयोगस्याश्रयानवच्छिन्नस्वाभावात्- आश्रयानवच्छिन्ना या संयोगनिष्ठा धात्वर्थतावच्छेदकता तादृशावच्छेदकताश्रयीभूतं यत् फलं संयोगस्तद्वत्त्वविरहादग्नेरित्याह-- अत एवेत्यादिना । संयोगस्यात्राश्रयानवच्छिन्नत्वाभावे हेतुमाह-संयोगनिष्ठाया इति । न चैव जुहोतेः सकर्मकत्वानुपपत्तिरितिशङ्क्यम्- जुहोतिधात्वर्थतावच्छेदकीभूतायाः क्षरणरूपक्रियाया आश्रयविशेषानवच्छिन्नत्वेनैव प्रतीयमानत्वात्, एतादृशक्रियाश्रयत्वेन घृतस्य जुहोतिकर्मत्वमपि नानुपपन्नमितिज्ञेयम्, तस्मात् 'घृतं जुहोति ' इतिप्रयोगो भवति 'अग्निं जुहोति ' इतिप्रयोगस्तु न भवति । ननु यद्यग्निविशेषितः अश्यवच्छिन्न एव संयोगो हुधात्वर्थतावच्छेदकस्तदा ‘अमौ घृतं जुहोति' इत्यत्रामिसंयोगस्योद्देश्यत्वादुद्देश्यतावच्छेदकत्वमग्नेरेव प्राप्तम् 'अग्नौ । इति पदेनामेरेव च विधेयत्वमस्ति घृतादीनां प्राप्तत्वादित्युद्देश्यतावच्छेदकस्य विधेयस्य चैक्ये प्राप्ते शाब्दबोधो न जायते इति पूर्वमेव ( ६४ पृ. ) प्रतिपादितमित्याशङ्कते- न चेति । अनन्वये हेतुमाह- उद्देश्येति । परिहरति- तत्रेति । तत्र= अमौ घृतं जुहोति ' इत्यत्र यद्यप्यनिसंयोगस्यैवोद्देश्यत्वादमेरेवाऽऽधेयतासंबन्धेन तादृशसंयोगे वर्तमानस्याऽऽधेयतासंसर्गेणोद्देश्यतावच्छेदकत्वं तथापि विधेयत्वममेर्नास्ति किं तु ' अनौ , इतिसप्तम्यर्थस्य वृत्तित्वस्य=अमिनिरूपिताधेयत्वस्यैव विधेयत्वमस्तीत्युद्देश्यतावच्छेदकस्य विधेयस्य च भेदान्नात्र शाब्दबोधानुपपत्तिरित्यर्थः । स्वमतमाह- वस्तुतस्त्विति, तत्र' अग्नौ घृतं जुहोति । इत्यत्रैकस्य वढेरुद्देश्यतावच्छेदकत्वेन विधयत्वेन चाऽनन्दयेपि क्षतिर्नास्ति- तादृशप्रयोगस्य=' अग्नौ घृतं जुहोति ' इति प्रयोगस्यैवाऽप्रामाणिकत्वादित्यर्थः। मीमांसकमतेन चात्र "अप्सु जुहोति " " पाणौ जुहोति " " पदे जुहोति " इत्येवं होमाधिकरणानां विविधानां प्रतीयमानत्वाद् हुधात्वर्थतावच्छेदकीभूतसंयोगावच्छेदकत्वं वहेर्नास्त्येव- उक्तोदाहरणेषु व्यभिचारादिति अधिकरणसामान्यस्यैव तादृशसंयोगावच्छेदकत्वं स्वीक्रियेते इति नामेरुद्देश्यतावच्छेदकत्वं येन शाब्दबोधानुपपत्तिः स्यादिति ज्ञेयम् । नन्वेवम् ' संस्कृते बहौ जुहुयात् ' इत्यत्राप्युक्तरीत्याऽग्नेरेवोद्देश्यतावच्छेदकत्वाद् विधेयत्वाच शाब्दबोधानुपपत्तिः स्यादित्याशङ्क्याह- संस्कृते इति, यथा. ' घटो नीलघटः । इत्यत्र विधेयांशेऽधिकावगाहि "Aho Shrutgyanam" Page #248 -------------------------------------------------------------------------- ________________ सादर्श:- [ द्वितीयाकारकप्रथमखण्डेनुपपत्तिः । घृतादेश्चाश्रयानवच्छिन्नधात्वर्थतावच्छेदकतावक्रियारूपालाश्रयत्वात् कर्मत्वोपपत्तिः। यतु धात्वर्थतावच्छेदकत्वं धातुवृत्तिग्रहविशेष्यांशे साक्षात्प्रकारत्वं तच्च क्रियायामेव न संयोगांशेऽपीति नाग्नेर्जुहोतिकर्मतापत्तिरिते, तदसत्-. 'अजां ग्रामं नयाते ' इत्यादी संयोगावच्छिन्नक्रियानुकूलव्यापारादिरूपे धात्वर्थे संयोगादेः साक्षादप्रकारतया तदाश्रयीभूतग्रामादेः कर्मत्वानुपपत्या नीवहादाकर्मशत्वव्यावातात् । शाब्दबोधस्वीकारानानुपपत्तिरित्युक्तम् ( ४१ पृ.) तथात्राप्युद्देश्यतावच्छेदकः । दुधात्वर्थतावच्छेदकसंयोगावच्छेदकः ) अग्निरेव विधेयश्च संस्कृतोमिरिति विधेयांशे संस्कृतत्वस्याधिकस्यावगाहनान्नात्र शाब्दबोधानुपपत्तिरित्यर्थः । 'अग्नौ घृतं जुहोति । इत्यादौ घृतादेः कर्मत्वमुरादयति- वृतादेरिति, आश्रयविशेषेणाऽनवच्छिन्ना या हुवात्वर्थतावच्छेदकतावती धृतनिष्ठा क्षरगरूपा क्रिया तादृशक्रियारूपालस्याश्रयत्वाद् धृतादेः कर्मत्वम् । यद्यप्यत्रैषा क्रियापि धृतरूपाश्रो गावच्छिन्नेत्र तथापि यथा ' ग्रामं गच्छति' इत्यत्र धात्वर्यतावच्छेदकसंयोगस्योत्तरदेशेनावच्छिन्नत्वेपि नोत्तरदेशावच्छिन्नत्वेन प्रतीतिः किं तु शुद्धसंयोगस्यैव धात्वर्थतावच्छेदकत्वं तथाऽत्राप्पाश्रयानवच्छिन्नाया एन क्रियाया धात्वर्थतापच्छेदकत्वमितिभावः क्षरणानुकूलव्यापारस्य हधात्वर्थयात् क्षरणक्रियाया धात्वर्थताक्च्छेदकत्वं प्राप्तम् । . ननु धात्वर्थतावच्छेदकं तदेव भवति यद् धातुविषयकशक्तिज्ञाने विशेष्यतया भासमानधात्वयस्य साक्षात् प्रकार: स्यात्तथा च 'अनौ घृतं जुहोति' इत्यत्र अग्याश्रितः संयोगो न साक्षाद्धात्वर्यतावच्छेदको येन तदाश्रयस्यामे: कर्मत्वं स्यात्- अग्न्याश्रितसंयोगस्य धात्वर्थतावच्छेदकीभूतक्रियावच्छेदकत्वात, साक्षाद्धात्वर्थतारच्छेदकावं तु घृताश्रितक्रियाया एवेति घृतस्यैव कर्मत्वमित्याशङ्कते- यत्त्विति । परिहरति- तदसदिति, यदि धात्वर्थे साक्षात्कारत्वमेव धात्वर्थतावच्छेदकत्वं स्यात् तादशसाक्षाद्धात्वर्थतावच्छेदकीभूतकलाश्रयस्यैव च कर्मत्वं स्यात्तदा : अजां ग्रामं नयति ' इत्यत्र ग्रामवृत्तिसंयोगावच्छिन्ना (जनकीभूता ) याऽऽजानिष्ठा क्रिया तादृशक्रियानुकूल ( जनक) व्यापार एवं नीधात्वयोस्तीति नीधात्वर्थे ग्रामवृत्तिसंयोगस्य साक्षाप्रकारत्वं नास्तीति तादृशसंयोगाश्रयीभूतग्रामस्य कर्मत्वं न स्यादिति नीवहादेर्द्विकर्मकत्वं न स्थादित्यर्थः । अत्र ग्रामवृत्तिसंयोगस्य धात्वर्थतावच्छेदकीभूता याऽजानिष्ठा क्रिया तदवच्छेदकत्वम्, तादृशक्रियाया एव च धात्वर्थतावच्छेदकत्वम् । __ननु धात्वर्थे साक्षात्कारत्वमेव धात्वर्थतावच्छेदकत्वं तादृशधात्वर्थतावच्छेदकीभूतफलात्रयस्यैव च प्रधानकर्मत्वं भवति यथा ' ग्रामं गच्छति । इत्यत्र ग्रामस्य 'अजां ग्रामं नयति' इत्यत्र चाऽजाया इति, तथा चात्र साक्षाद्धात्वर्थतावच्छेदकीभूतफलाश्रयत्वाभावाद् ग्रामस्थ "Aho Shrutgyanam" Page #249 -------------------------------------------------------------------------- ________________ जुहोतिकर्मविचारः व्युत्पत्तिवादः (२३७) अथात्र ग्रामादेः प्रधानकर्मत्वं नास्त्येवाऽपि तु गौणकर्मत्वमेव, अत एव तादृशकर्मत्वमाख्यातेन नाभिधीयते "प्रधानकर्मण्याख्येये लादीना कर्मणाम्" इत्यनुशासनादिति 'अजां ग्रामो नीयते' इत्यादिको न प्रयोग इतिचेत् ?, तर्हि तत्र ग्रामादेरिवात्रापि हुधात्वर्थतावच्छेदकतावच्छेदकफलशालित्वेन गौणकर्मतापत्या 'वहिं घृतं जुहोति । इतिप्रयोगापत्तिर्दुारैवेति । अस्मन्मते चाश्रयानवच्छिन्नसंयोगविषयताशालिधातुजन्योपस्थितिघटितसामय्या एव संयोगे द्वितीयार्थान्वयबोधप्रयोजकतया नैतादृशप्रयोगापत्तिरिति । प्रधानकर्मत्वं नास्त्येव किं तु गौणकर्मत्वमेव, अत एष साक्षाद्धात्वर्थतावच्छेदकीभूतफलाश्रयत्वामावादेव तादृशकर्मत्वम् गौणकर्मत्वमाख्यातेन नाभिधीयते आख्यातस्य गौगवमित्वे शक्तिर्नास्तीत्याशङ्कते-अथेति । उक्ते प्रमाणमाह-प्रधानेति, अत्र घातूनामितिशेषः । द्विकर्मणां धातूनां द्वयोः कर्मणोर्मध्ये प्रधानकर्मण्याख्येये= बोध्ये लादीनाहुः= लादयः ( आख्यातादयः) प्रधानकर्मणि शक्ताः प्रधानकर्मबोधका एवेत्यर्थः । न चैवं ह्यत्र ग्रामपदाद् द्वितीयापिन स्यादित्याशङ्यम्-ग्रामस्यापि कर्मत्वं त्वस्त्येव तद् गौणं वा स्यात् प्रधानं वा स्यादित्यन्यदेतत् " कर्मणि द्वितीया " इत्यनेन कर्मत्वमात्रे द्वितीयाभिधानात् । नन्वेवम् ' मजा ग्रामो नीयते । इत्येवमपि प्रयोगः स्यात्-प्रधानकर्मत्वमजाया एवेति तद्राचकाजाशब्दाद् द्वितीयापत्त्या ग्रामस्य च गौणकर्मत्वात्तद्वाचकग्रामपदाद् द्वितीयाऽनापत्त्येत्याशङ्कयाह-अजामिति, - अजां ग्रामो नीयते ' इति प्रयोगो न भवति-अत्र प्रधानकर्मत्वस्याख्यातेनाभिहितत्वात् प्रधानकर्मवाचकाजापदाद् द्वितीयाया अप्राप्तः, गौणकर्मत्वस्याख्यातेनाऽनभिहितत्वाद् गौणकर्मवाचकत्रामपदाद् द्वितीयायाः प्राप्तरित्यर्थः । र,था च ' अजा ग्रामं नीयते । इत्येव प्रयोगो. भवति । किं वात्र ''अत एव ' इत्येवावतरणं ज्ञेयम् । परिहरति-तीति, यदि तत्र अजां प्रामं नयति ' इत्यत्र नीधात्वर्थतावच्छेदकतावच्छेदकफलशालित्वेन ( नीधात्वर्थतावच्छेदिकायाऽजावृत्तिः क्रिया तदवच्छेदकस्संयोगस्तदाश्रयत्वेन ) ग्रामस्य गौणकर्मत्वं तदा तादृशग्रामादेरिवात्र= वह्नौ धृतं नुहोति ' इत्यत्रापि वढे धात्वर्थतावच्छेदकतावच्छेदकफलशालित्वेन (दुधात्वर्थतावच्छेदिका या. घृतनिष्टा क्षरणक्रिया तदवच्छेदको यो वह्निसंयोगस्तदाश्रयत्वेन ) गौणकर्मतापत्त्या द्वितीयाप्राप्तेः ' वर्हि घृतं जुहोति । इत्येवं प्रयोगापत्तिः स्यादेव, न चैतदिष्टमिति न धात्वर्थता. वच्छेदकतावच्छेदकफलशालित्वेन गौणकर्मत्वं युक्तमित्यर्थः । स्वगतेन समाधत्ते- अस्मदिति, मम मते तु संयोगे द्वितीयार्थाऽऽधेयत्वान्वयं प्रति धातुजन्याया आश्रयानवच्छिन्नसंयोगविषयकाया उपस्थितेः कारणत्वमस्ति अत्र च वह्नयाश्रितसंयोगस्य वद्विरूपाश्रयेणाऽवच्छिन्नत्वमेवास्तीति न तत्र द्वितीयार्थाधेयत्वान्वयः संभवतीति न तादृशसंयोगाश्रयीभूतवह्निबाचकतिपदाद् द्वितीयापत्तिरिति नैतादृशप्रयोगापत्तिा='वहिं वृतं जुहोति , इतिप्रयोगा. पत्तिरित्यर्थः । "Aho Shrutgyanam" Page #250 -------------------------------------------------------------------------- ________________ (२३८) सादर्शः- [ द्वितीयाकारकप्रथमखण्डेयत्तु अधःसंयोगावच्छिन्नस्पदो न पतत्यर्थः, अपि. तु गुरुत्वजन्यतावच्छेद कजातिविशेषावच्छिन्न एव, अत एव फलावच्छिन्नव्यापाराऽबोधकत्वान्न सकर्मकत्वमिति, तन्न-फलस्य धात्वर्थाघटकत्वे स्पन्दे एव सप्तम्यर्थान्वयस्योपगन्त. व्यतया पर्णादिनिष्ठस्य तस्य भूतलाघवृत्तितया 'भूतले पतति ' इति प्रयोगा। नुपपत्तेः । पर्णादिगतस्पन्दस्य परम्परया भूतलादिवृत्तित्वमितिचेत् १ ताह वृक्षात् पतति ' इतिवत् 'वृक्षे पतति ' इत्यपि स्यात् । अस्मन्मते चान्यत्र व्यापारे सप्तम्यर्थान्वयेप्यत्र व्युत्पत्तिवैचित्र्यादधःसंयोगरूपधात्वर्थतावच्छेदके एव तदन्वय इत्यदोषः। ___ ननु यद्यऽधस्संयोगावच्छिन्नस्पन्दः पतत्यर्थः स्यात्तदा फलावच्छिन्नव्यापारबोधकत्वसंभवात् सफर्मकत्वापत्तिशङ्का स्यादपि न चैवमस्ति किं तु गुरुत्वजन्यतावच्छेदिका या पतनत्वजातिस्तादृशजातिविशेषावच्छिन्नस्पन्दः ( पतनानुकूलस्पन्दः ) एव पतधात्वर्थोस्तीति फलावच्छिन्नव्यापाराऽबोधकत्वान सकर्मकत्वापत्तिः-धात्वर्थन्यापारावच्छेदिकाया गुरुत्वजन्यतावच्छेदकजातेः कलरूपत्वाभावादित्याशङ्कते-यत्त्विति । भाद्यपतनं गुरुत्वजन्यमेव भवतीति पतनत्वजातिगुंरुत्वजन्यतावच्छेदिका । परिहरति-तन्नेति, यद्यऽधस्संयोगावच्छिन्नस्पन्दः पतत्यर्थो न स्यात्तदा फलस्य अधः-संयोगरूपफलस्य धात्वर्थाऽघटकरवे धात्वर्थे प्रवेशाभावात् सप्तम्यर्थाधेयत्वस्याऽधःसंयोगेऽन्वयाऽसंभवात् स्पन्दे एव धात्वर्थेऽन्वयः स्वीकर्तव्यः, पतधात्वर्थस्पन्दश्च स पर्णनिष्ठ एव न भूतलनिष्ठो येन सप्तम्यर्थाधेयत्वान्वयिस्पन्दाश्रयत्वात् तादृशभूतलवाचकभूतलपदात् सतमी स्यात् यस्मिन् विभक्त्यर्थान्वयस्तदाश्रयीभूतपदार्थवाचकपदादेव तादृशविभक्तेर्जायमानस्वादिति ' भूतले पतति । इतिप्रयोगो न स्यादित्यर्थः । ननु पर्णगतस्यापि स्पन्दस्य परम्परया=पर्णद्वारा भूतलवृत्तित्वमस्त्येवेति भूतलपदात् सप्तमीप्राप्तेः “भूतले पतति । इति प्रयोगानुपपत्तिर्नास्तीत्याशङ्कते-पर्णादिगतस्येति । उत्तरमाह-तहाँति, एवं हि पर्णगतस्य स्पन्दस्य परम्परया वृक्षेपि संभवात् वृक्षपदादपि सप्तम्यापत्त्या ' वृक्षे पतति । इत्यपि प्रयोगः स्यात्, न चैतदिष्टं तस्मादधःसंयोगावच्छिन्न एव स्पन्दो पतधात्वर्थो न तु गुरुत्वजन्यतावच्छेदकजातिविशेषावच्छिन्न इत्यर्थः । स्वमतेन समाधत्ते-भस्मदिति, अन्यत्र' गृहे पचति ' इत्यादौ सप्तम्यर्धाधेयत्वस्य व्यापारेऽन्वयो भवति तादृशव्यापाराश्रयीभूतवाचकगृहपदात् सप्तमी च भवति-गृहवृत्तिापार इति बोधोदयात्, अत्र= भूतले पतति । इत्यादौ पतधातुसममिन्याहारस्थले तु सप्तम्यर्थाधेयत्वस्य धात्वर्थतावच्छेदकेऽध:संयोगरूपफले-श्वान्वयो भवतीति तादृशाधस्संयोगरूप फलाश्रयीभूतभूतलवाचकभूतलपदात् सप्तमी भवति, वृक्षपदाच सप्तमी न संभवतिवृक्षस्य तादृशाधःसंयोगरूपफलाश्रयत्वाभावादिति न 'वृक्षे पतति । इति प्रयोगापत्तिः । किं च भूतलाश्रितीभूताधःसंयोगरूपफलस्याऽधोदेशरूपाश्रयेणावच्छिन्नत्वाद् भूतलपदाद् द्वितीयाऽऽपत्तिरपि नास्त्येव- आश्रयानवच्छिन्नफलाश्रयीभूतपदार्थवाचकपदादेव द्वितीयाप्राप्तरित्यदोषः "Aho Shrutgyanam" Page #251 -------------------------------------------------------------------------- ________________ पततिकर्मविचारः] व्युत्पत्तिवादः। (२३९) अन्ये तु भूम्यादेः कर्मत्वविवक्षायाम् ' भूमि पतति' इतिप्रयोग इष्ट एव, अत एव" द्वितीयाश्रित " इत्यादिसूत्रेण — नरकं पतितः ' इत्यादिस्थले द्वितीयासमासविधानमप्युपपद्यते । धात्वर्थतावच्छेदकतावच्छेदकफले द्वितीयान्वये एवाश्रयानवच्छिन्नफलोपस्थितेरपेक्षा 'अग्निं जुहोति ' इतिवारणाय स्वीक्रियते इति वदन्ति । तदपि न शोभनम्- तथा सति भूम्यादिपदोत्तरं कदाचित् सप्तमी कदाचिद् द्वितीयेत्यत्र नियामकाभावप्रसङ्गात् । व्यापारांशे आधेयत्वविवक्षार्या सप्तमी फलांशे तद्विवक्षायां द्वितीयेत्यस्योक्तयुक्त्या फलांश एव सप्तम्यर्थान्वयस्यावश्यं स्वीकरणीयतया वक्तुमशक्यत्वादिति । अस्मन्मते कोपि दोषो नास्ति= भूमि पतति , ' वृक्षे पतति । इतिप्रयोगयोरापतिरपि नास्ति — भूतले पतति , इतिप्रयोगस्यानुपपत्तिरपि नास्तीत्यर्थः । तदन्वयःसप्तम्यर्थाधेयत्वान्वयः । ___ मतान्तरमाह- अन्ये त्यिति । अत एव भूमेः कर्मत्वविवक्षायाम् ' भूमि पतति । इतिप्रयोगस्येष्टत्वादेव । यदि पतधातुसमभिव्याहारस्थले कर्मत्वविवक्षायामपि भूम्यादीनां कर्मत्वं न स्यातदा 'नरकं पतितो नरकपतितः । इति समासविधानमपि नोपपद्येत नरकस्य कर्मत्वानुपपत्तेः । 'नन्वेवं द्वितीयार्थान्वयं प्रति धातुजन्याश्रयानवच्छिन्नफलोपस्थितेः कारणत्वमस्तीति नियमव्याघातः स्यात् , अर्थात् धात्वर्थतावच्छेदकीभूतं यदाश्रयानवच्छिन्नं संयोगादिरूपं फलं तदाश्रयीभूतपदार्थवाचकपदादेव द्वितीया भवतीति नियमोस्ति 'भूमि पतति । इत्यत्र च भूम्याश्रितसंयोगस्याऽधोदेशरूपाश्रयेणावच्छिन्नत्वात् तदाश्रयीभूतभूमिवाचकभूमिप्रदाद् द्वितीया . कथं स्यादित्याशङ्ख्याह- धात्वर्थतेति, ' अनि जुहोति । इतिप्रयोगवारणाय धात्वर्थतावच्छेदकतापच्छेदकस्यैव फलस्याश्रयानवच्छिन्नत्वेनोपस्थितेरपेक्षास्ति न तु धात्वर्थतावच्छेदकस्यापि, अन्यथा हुधात्वर्थतावच्छेदिका या क्रिया तदवच्छेदको योमिनिष्ठः संयोगस्तस्याग्निरूपाश्रयेणावच्छिन्नत्वेप्यग्निपदाद् द्वितीया स्यादेव, धात्वर्थतावच्छेदकीभूतक्रियाया आश्रयानवाच्छिन्नत्वात् , धात्वर्थताच. च्छेदकतावच्छेदकफलस्याश्रयानवच्छिन्नत्वेनोपस्थितेर्द्वितीयार्थान्वयं प्रति कारणत्वे तु ' अमिं जुहोति ' इति प्रयोगस्यापत्तिर्नास्त्येव, धात्वर्थतावच्छेदकतावच्छेदकस्यामिसंयोगरूपफलस्यामिरूपाश्रयेणावच्छिन्नस्यैवोपस्थितेर्जायमानत्वात् 'भूमि पतति । इत्यत्र तु धास्वर्थतावच्छेदक मेवाधस्संयोगरूपफलमधोदेशरूपाश्रयेणावच्छिन्नमस्तीति न तद् द्वितीयाप्राप्तिप्रतिबन्धकमिति न 'भूमि पतति ' इतिप्रयोगे काचिदनुपपत्ति:-धात्वर्थतावच्छेदकतावच्छेदकफलस्यैवाश्रयावच्छिन्नत्वेनोपस्थितस्य द्वितीयाप्रतिबन्धकत्वादित्यर्थः । परिहरति- तदपि नेति । तव मतेन ' भूमि पतति । भूमौ पतति ' इत्युभयविधस्यैव प्रयोगस्येष्टत्वाद् भूम्यादिपदोत्तरं यत् कदाचिद् द्वितीय भवति कदाचिच्च सप्तमी भवति तत्र नियामकं न स्यादेव । यदि व्यापारांशे आधेयत्वविवक्षायां सप्तमी भवतीति ' भूमौ पतति । इतिप्रयोगः स्यात् फलांशे आधेयत्वविवक्षायां द्वितीया "Aho Shrutgyanam" Page #252 -------------------------------------------------------------------------- ________________ ( २४०) सादर्श:- [द्वितीयाकारकप्रथमखण्डे'ब्राह्मणाय धनं ददाति' इत्यादौ स्वस्वत्वध्वंसविशिष्टपरस्वत्वानुकूला इच्छा धात्वर्थः, तादृशस्वत्वरूपधात्वर्थतावच्छेदकफले एव द्वितीयार्थान्वयः । उपेक्षायांमतिप्रसङ्गवारणाय परस्वत्वनिवेशः। दानं च न संप्रदानस्वत्वजनकम् . अपितु तत्स्वीकार एवेति मते तु स्वस्वत्वध्वंसानुकूलपरस्वत्वप्रकारकेच्छैव ददात्यर्थः, तत्र स्वस्वत्वध्वंतरूपफलाश्रयत्वाद् धनस्य कर्मता । 'धनं प्रतिगृह्णाति' इत्यादौ स्वस्वत्वजनकेच्छारूपस्वीकारविशेषो धातोरर्थी, स्वस्वस्वरूपफले च द्वितीयाथांधेयत्वान्वयः। 'तण्डुलं पाते' इत्यादौ रूपपरावृत्तिजनकतेजःसंयोगो धातोरर्थः । रूपादिपरावृत्तिरूपफले च तण्डुलादिवृत्तित्वान्वयः ।' ओदनं . पचति' इत्यादावोभवतीति 'भूमि पतति' इतित्रयोगः स्यादित्येव नियामकमित्युच्यते तदपि न संभवतिउक्तंयुक्त्या= २३८ पृ० । फलस्य" धात्वर्थावटकत्वे " इत्याद्युक्तयुक्त्या, अर्थात् पर्णादिनिष्टल्यापारस्थ भूतलाम लिवन भूले पतति , 'भूमौ पतति , इत्यादिः प्रयोगो न स्मादेवेति तमोकयुक्त्या सप्तम्यर्थावे त्वत्वारि फटांशे एवान्वयः स्वीकर्तव्यो न व्यापाराशे इत्याह- व्यापाराशे इत्यादिना । .... दाधात्वर्थमाह-बापति, लता जनिकच्छा दाधात्वर्थः, तादृश स्वस्वधंसविशिटपरस्परमेव धात्वर्थतावच्छेदकं फलं च तत्रैव धनपदोत्तरद्वितीयार्थाधेयत्वस्यान्वयः। धने पार दानेनोलनं वर्तते इति पर स्वत्त्वे आधेपरवं जातमिति तादृशाधेयत्वसंबन्धेन परस्व• त्वे धनं वर्तते। स्वस्वत्वामारेस्त्रोक्षापामपि भवति तद्वारणाय परस्वत्वनिवेश इत्याह- उपेक्षा. थामिति, उपेक्षायां परस्त्रत्वोत्पादिकेच्छा न भवतीत्यर्थः । मतान्तरमाह- दानं चेति, स्वश्वत्वध्वंसविशिष्ट परत्वत्वोत्पादिकेच्छा न दाधावयः किं तु स्वस्वत्वध्वंसविशिष्टपरस्वत्वस्य स्वीकार एक दाधात्वर्थ:- इष्टं धनमितः परं मैत्रह्म न ममेति । पूर्वोकमते धात्वर्थीभूतेच्छा परस्वत्वजनिकास्ति, अस्मिन्मते च परस्वत्वविषयवच्छेति परस्परं भेद इत्याह- इतिमते विति । पूर्वमते उत्पधमानपरस्वस्वरूपफलाश्रयत्वाद् धनस्य कर्मत्वम् , अस्मिन्मते तदसंभवात् स्वस्वत्वध्वंस एव फलं. सदाश्रयत्वादेव धनस्य कर्मत्वमित्याह- तोते । प्रतिग्रहधातोर्यमाह- धनमिति, स्वत्वत्वोत्यादिका येच्छा तहशेच्छारूपो यः स्वीकारः स एव प्रतिग्रहरातोर्थः । धनाद'वुत्पद्यमानं स्वत्वाना माताल छदकं फलं च तत्रैव द्विती.. यार्थाधेयत्वस्यान्वयः, स्वस्त्रत्वं धनवृत्ति, तादृशालाश्रत्यारेच धनस्य कर्मत्वमिति ।। __ पचधात्वर्थमाह- तण्डुलमिति, रूपरावृत्तिरत्र विक्तित्तव । सा रूपपरावृत्तिरेव धात्वर्थतावच्छेदकं फलं च, तत्रैव द्वितीयार्थस्य तण्डुलवृत्तिवस्यान्वयः । तादृशफलाश्रयत्वादेव तण्डुलस्य कर्मत्वम् । नतु पाकसंपन्नमेव तण्डुलमोदनपदवाच्वं भवतीत्योदनस्य पाकासंभवात् ' ओदनं पचति । इति प्रयोगस्य का गतिरित्याशङ्कयाह-ओदनमिति । अत्रोदनपदं लक्षणावृत्त्या तण्डुल "Aho Shrutgyanam" Page #253 -------------------------------------------------------------------------- ________________ द्विकर्मकधातुस्थलीयद्वितीयार्थः] व्युत्पत्तिवादः । (२४१) दनादिपदस्य तनिष्पादकतण्डुलादौ लक्षणा । अवयविनि पाकानभ्युपगमे च 'तण्डुलं पचति' इत्यादौ तण्डुलादिपदस्य तदारम्भकपरमाणुषु लक्षणा । . 'ओदनं भुङ्क्ते ' इत्यादौ गलाधोनयनं धात्वर्थः, तच्च गलाधःसंयोगावच्छि नक्रियानुकूलव्यापारः, तादृशक्रियारूपफले एव ओदनवृत्तित्वान्वयः । उक्तयुक्त्या गलाघोदेशस्य न कर्मत्वम् । एवमन्यसकर्मकधातूनामप्यर्थाः स्वयमूह्याः । 'गां दोग्धि पयः' इत्यादौ द्विकर्मकधातुसमभिव्याहृतगवादिपदोत्तरद्वितीया क्रियाजन्यफलशालित्वादन्यदेव कर्मत्वं बोधयति । कारकाधिकारीयेण अकथितं पदार्थबोधकमेवेत्यर्थः । तन्निष्पादक=ओदननिष्पादक । ननु वैशेषिकैस्त्ववयवेष्वेव पाक उच्यते इत्यऽवयविनि तण्डुले पाकासंभवात् 'तण्डुलं पचति । इत्यपि प्रयोगः कथं स्यादित्याशङ्कयाहअवयविनीति । तत्र तण्डुलपदं लक्षणावृत्त्या तण्डुलावयवबोधकमेव विज्ञेयमित्यर्थः । तदारम्भकतण्डुलारम्भक । __ भुजधात्वर्थमाह- ओदनमिति, गलाधोनयन ( प्रापण ) मेव भुजधात्वर्थः । ननु गलाधोनयनं हि गलाधःसंयोगावच्छिन्नव्यापार एव तत्र धात्वर्थतावच्छेदकसंयोगस्य गलाधोदेशेनाव. च्छिन्नत्वादाश्रयावच्छिन्नफलावच्छिन्नव्यापारबोधकत्वात् पतधातोरिव भुजधातोरपि सकर्मकत्वं न स्यादित्याशक्य गलाधोनयनपदार्थ परिष्करोति-तचेति, तत्-गलाधोनयनं हि गलाधःसंयोगावच्छिन्ना-गलाधःसंयोगजनिका या प्रासनिष्ठा क्रिया तादृशक्रियानुकूलः ( जनकः ) भोजनकर्तृनिष्ठो व्यापार एव तथा च धात्वर्थतावच्छेदकतावच्छेदकस्य संयोगस्य गलाधोदेशरूपाश्रयेणावच्छिन्नत्वेपि धात्वर्थतावच्छेदिकाया प्रासनिष्ठक्रियायास्त्वाऽऽश्रयावच्छिन्नत्वं नास्त्येवेति न सकर्मकत्वानुपपत्तिः । तादृशक्रियारूपफले एवौदनवृत्तित्वस्य द्वितीयार्थस्यान्वयः । तादृशक्रियारूपफलाश्रयत्वादेवौदनस्य कर्मत्वम् । गलाधोदेशस्य चात्रोक्तयुक्त्या=(२३४पृ.)" आश्रयानवच्छिन्नावच्छेदकताश्रयफलवत्वविरहात्" इत्याधुक्तयुक्त्या न कर्मत्वम्, अर्थात् गलाधोदेशाश्रितसंयोगस्य गलाधोदेशरूपाश्रयेणावच्छिन्नत्वात् तादृशाश्रयावच्छिन्नसंयोगरूपफलाश्रयत्वादेव गलाधोदेशस्य नात्र कर्मत्वम्-आश्रयविशेषानवच्छिन्नफलाश्रयस्यैव कर्मत्वनियमादिति । उपसंहरति-एवमिति । द्विकर्मधातूनामर्थ वक्तुमुपक्रमते-गामित्यादिना । अत्र क्षरणानुकूलव्यापारो दुधात्वर्थो विज्ञेयः । एककर्मकधातुसमभिव्याहारस्थले तु क्रियाजन्यफलशालित्वमेव कर्मत्वं द्वितीयया बोच्यते द्विकर्मधातुसमभिव्याहारस्थले — गां पयो दोन्धि ' इत्यादावपि प्रधानकर्मणः - क्षीरादेस्तु क्रियाजन्यफलशालित्वरूपमेव कर्मत्वं यथात्र क्षरणरूपफलाश्रयत्वम्, अप्रधानकर्मणो भगवादेस्तु “अकथितं च" इतिसूत्रप्रतिपाद्यं क्रियाजन्यफलशालिस्वादन्यदेव कर्मत्वं भवतीत्यर्थः । स्वाभिप्रायं प्रकटयति-कारकेति, यथा 'गां दोग्धि पयः । इत्यत्र धातुप्रतिपाद्यं यत् क्षरणं तादृशक्षरणान्वयि (क्षरणजन्य ) धर्मान्तरो विभाग एव तादृशविभागावच्छिन्नस्य ( आश्रयस्य ) "Aho Shrutgyanam" Page #254 -------------------------------------------------------------------------- ________________ (२४२) सादर्श:- [ द्वितीयाकारकप्रथमखण्डेच" इतिसूत्रेणाऽपादानत्वादिभिन्नधातुप्रतिपाद्यान्वयिधर्मान्तरावच्छिन्नस्यापि कर्मसंज्ञाऽभिधानात् । 'गवां पयो दोग्धि ' इत्यादौ धातुप्रतिपाद्यान्वयिगवादिसंबन्धो न विवक्षितः, अपि तु क्षीराद्यन्वयी स इति कर्मत्वाऽविवक्षया द्वितीयानवकाशः किं तु शैषिकी षष्ठयेवेति ।। ___ अत्र धातुप्रतिपाद्यत्वं तदर्थतावच्छेदककोटिप्रविष्टसाधारणम्-'गां दोग्धि' इत्यादौ धात्वर्थतावच्छेदककोटिप्रविष्टे एव द्वितीयान्वयात्, तथा हि-क्षरणानुकूलव्यापारो दुहेरर्थः, द्वितीयार्थश्च जनकत्वसंबन्धेन क्षरणान्वयी विभागा, विभागे चाधेयतया प्रकृत्यर्थगवादेरन्वयः, एवं च धात्वर्थतावच्छेदकक्षरणरूपफले प्रधानकर्मक्षीराद्यन्वितद्वितीयार्थवृत्त्यऽन्वय इति गोनिष्ठविभागानुकूलपयोगो फर्मत्वं ज्ञेयम्, स च विभागोऽपादानस्वादिभिन्न एवास्ति विभागस्य क्षरणे तु जनकत्वसंबन्धेनान्वयो ज्ञेयः पयोविभागस्य क्षरणजन्यत्वात् क्षरणजन्यपयोविभागश्च गत्रि समवायेन ज्ञेयः दोहनेन गोक्षीरयोविभागस्य जायमानत्वात् । तादृशविभागाश्रयत्वेन गोः कर्मत्वात्तद्वाचकपदादत्र द्वितीया जाता । ' गवां पयो दोग्धि ' इत्यत्र तु धातुप्रतिपाद्यं यत् क्षरण तादृशक्षरणान्वयिना विभागेन सह गोः संबन्धो न विवक्षितो येन तादृशविभागाश्रयत्वेन गोः कर्मत्वं स्थासद्वाचकगोपदाचात्र द्वितीया स्यात, किं तु सः धातुप्रतिपाद्यान्वयिधर्मो विभागः क्षीराबयी एव-क्षरणजन्यविमागस्य क्षीरे एवान्वयो विवक्षित इति क्षीरस्यैव कर्मत्वं क्षीरवाचकपय:पदादेव च द्वितीया जाता, तादृशविभागस्य गव्यन्वयाऽविवक्षणेन गोः कर्मत्वाविवक्षया न गोपदाद् द्वितीयापत्तिः किं तु षष्ठयेव जातेत्याह- गवामिति । धातुप्रतिपाद्यान्वयिधर्मान्तरेतिवाक्यार्थ स्पष्टयति-अत्रेति । तदर्थता धात्वर्थता । यद्यपि धातुपतिपाद्यत्वं प्राधान्येन व्यापारस्यैव भवति न धात्वर्थतावच्छेदकस्य क्षरणादेस्तथापि 'गाँ दोग्धि पयः' इत्यादौ धात्वर्थतावच्छेदके क्षरणे द्वितीयार्थविभागस्यान्थयो भवतीत्यत्र धातुप्रतिपाद्यत्वं यथा भात्वर्थस्य व्यापारस्य तथा धात्वर्थतावच्छेदकस्य क्षरणादेरपि धातुप्रतिपाद्यत्वं ज्ञेयम्, अन्यथा क्षरणस्य धातुप्रतिपाद्यत्वामावे क्षरणान्वषी यो विभागस्तदाश्रयस्य गोरुक्तरीत्या कर्मत्वं न स्यात्। धात्वर्थतावच्छेदककोटिप्रविष्टसाधारणधातुप्रतिपाद्यत्वग्रहणस्य फलमाह-गामित्यादिना । धात्वर्थतावच्छेदककोटिप्रविष्टे-क्षरणे एव गोपदोत्तरद्वितीयार्थस्य विभागस्य जनकत्वसंबन्धेनान्वयः उपपादयति-तथा हीति । क्षरणानुकूलव्यापारस-क्षीरनिष्ठं यत् क्षरणं तदनुकूलस्तजनको व्यापारः । क्षरणजन्यो यो गोक्षीरयोविभागः स जनकत्वसंबन्धेन क्षरणे वर्तते स एव विभागो गोपदोत्तरद्वितीयाविभक्त्यर्थः, तादृशविभागे चाधेयतया प्रकृत्यर्थस्य गोपदार्थस्यान्वयः स विभागो गवि वर्तते इति गौराधेयतासंबन्धेन विभागे वर्तते इत्यर्थः । पयःपदोत्तरद्वितीयार्थ तदन्वयं चाह-एवं चेति, प्रधानकर्म यत् क्षीरं तदन्वितद्वितीयार्थवृत्तेः-वृत्तित्वस्य (भाधयत्वस्य ) धात्वर्थतावच्छदकक्षरणरूपकलेऽन्वयो भवति-क्षरणस्य क्षीरवृत्तित्वात्तादृशक्षरणे आधेयतासंबन्धेन क्षीरं वर्तते इत्यर्थः । "Aho Shrutgyanam" Page #255 -------------------------------------------------------------------------- ________________ दुहधातुस्थलीयद्वितीयार्थ : ] व्युत्पत्तिवादः । ( २४३ ) निष्टक्षरणानुकूलव्यापारकर्ता मैत्र इति 'गां पयों दोग्धि मैत्रः ' इति वा क्याधीनो बोधः । न च विभागोऽपादानत्वमेवेति तद्विवक्षायां द्वितीयाऽनवकाशेति वाच्यम्, धातुवृत्तिग्रहविशेष्यान्वयिनो विभागस्यैवापादानत्वरूपत्वात्, पतति' इत्यादी स्पन्दरूपविशेष्यांशे एव पञ्चम्यर्थविभागान्वयात् । वृक्षात् पर्ण ११ वस्तुतस्तु विभागावच्छिन्नक्षरणानुकूलो व्यापारो दुह्यर्थः, गोपदोत्तरद्वितीयार्थश्च विभागान्वयिनी वृत्तिरेव । न चैवं धात्वर्थतावच्छेदकफलशालित्वरूपं कर्मत्वमेवात्रापि प्रतीयते इति न " अकथितं च इत्यस्य विषय इतिवाच्यम् धात्वर्थतावच्छेदकत्वस्य धातुवृत्तिग्रह विशेष्यांशे साक्षाद्विशेषणत्वएवं हि 'गां पयो दोग्धि मैत्र: ' इत्यस्य संपन्नं वाक्यार्थबोधस्वरूपमाह - गोनिष्ठेति, गोनिष्ठो यो गोक्षीरयोर्विभागस्तादृशविभागजनकं यत् पयोनिटं क्षरणं तादृशक्षरण जनकव्यापारकर्ता मैत्र इति वाक्यार्थबोध: । ८८ गां पयो दोग्धि ' इत्यत्र विभागाश्रयत्वं गोरुक्तं विभागश्चापादानत्वमेव अपादानत्वाश्रयवाचकपदाच अपादाने पञ्चमी " इतिसूत्रेण पञ्चमी भवति न द्वितीयेति गाम्' इति कथं स्यादित्याशङ्क्याह-न चेति । परिहारमाह- धात्विति, धातुवृत्तिज्ञाने यो विशेष्यतया भासते व्यापारस्तदन्वयी यो विभागः स एव ( व्यापारान्वितविभाग एव ) अपादानरूपो भवति यथा ' वृक्षात्पर्ण पतति ' इत्यत्र विशेष्यभूतो यः पतनरूपो व्यापारस्तत्रैव जनकत्वसंबन्धेन पञ्चम्यर्थभूतविभागस्यान्वयोस्तीति तादृशविभागाश्रयवाचकवृक्षपदात् पञ्चमी जाता । यस्तु विभागो व्यापारान्वयी न भवति किं तु धात्वर्थतावच्छेदकान्वयी भवति सोऽपादानत्वरूपो न भवति ' गां दोग्धि ' इत्यत्र च विभागो धात्वर्थतावच्छेदकक्षरणान्वय्येव न धात्वर्थभूतव्यापारान्वयीति नाऽपादानत्वरूप इति न गोपदाद् द्वितीयानुपपत्तिरित्यर्थः । L "Aho Shrutgyanam" ू स्वमतमाह-- वस्तुतस्त्विति, गोक्षीरयोर्विभागजनकं यत् क्षरणं तादृशक्षरणजनकव्यापारो दुधात्वर्थ इति विभागोपि धात्वर्थकोटिप्रविष्ट एव न गोपदोत्तरद्वितीयार्थः, गोपदोत्तरद्वितीयास्तु विभागान्वयि आधेयत्वमेव, विभागस्य गोवृत्तित्वादाधेयत्व संबन्धेन विभागे गोर्वर्तमानस्वात् । वाक्यार्थबोधस्तु पूर्ववदेव । ननु धात्वर्थतावच्छेदकफलशालित्वमेव प्रधानकर्मत्वमस्ति गां पयो दोग्धि ? इत्यत्र गोरपि धात्वर्थतावच्छेदकीभूतं यद् विभागरूपं फलं तादृशविभागाश्रयत्वात् प्रधानकर्मत्वमेव प्राप्तमिति " अकथित च" इत्यनेनाऽप्रधानकर्मत्वं कथमुच्यते इत्याशङ्क्याह-न चेति । अत्रैवकारो भिन्नक्रमः - " धावर्थतावच्छेदक फलशालित्वरूपमेव कर्मलम् इत्यन्वयः । अत्र=' गां पयो दोग्धि ' इत्यत्र । परिहारमाह - धात्वर्थतेति धात्वर्थतावच्छेदकफलशालित्वं प्रधानकर्मत्वमित्यत्र धातुपदशक्तिज्ञाने विशेष्यतया भासमानव्यापारे यत् साक्षाद्विशेषणं तदेव धात्वर्थतावच्छेदकं ग्राह्यम्, ' गां पयो दोग्धि ' इत्यत्र च गधाश्रितविभागस्य क 55 Page #256 -------------------------------------------------------------------------- ________________ (२४४) सादर्श:- द्वितीयाकारकप्रथमखण्डे-- रूपत्वात् । यत्र च क्षरणानुकूलव्यापारमात्रं धात्वर्थतमा विवक्षितं क्षरणान्वयिविभागश्च विभत्तयर्थतया तत्राऽपादानत्वबोधिका पञ्चमी । एतेन कदाचित् — गां दोग्धि पयः' कदाचिच्च 'गोभ्यो दोग्धि पयः' इत्यत्र नाऽनियमः। __ अथ वा 'गोभ्यो दोग्धि पयः' इत्यत्रापि विभागो धात्वर्थतावच्छेदककोटिप्रविष्ट एव' वृक्षादिभजते' इत्यत्रेवाऽवधित्वरूपाऽपादानत्वविवक्षायां पञ्चमी, आश्रयत्वविवक्षायां च द्वितीया । अवधित्वं चाश्रयत्वादन्यदेव स्वरूपसंबन्धविशेषः । अत्र क्षरणान्वयिनः परसमवेतत्वस्य द्वितीयार्थत्वात् पयोनिष्ठक्षरणस्य साक्षात् व्यापारे विशेषणत्वं किं तु व्यापारविशेषणीभूतक्षरणविशेषणत्वमिति न गोः प्रधानकर्मत्वं किं तु पयस एवेत्यर्थः । ननु कदाचित् 'गां दोग्धि पयः' इतिप्रयोगो भवति कदाचित् 'गोभ्यो दोग्धि पयः । इतिप्रयोगो भवति तत्र किं नियामकमित्याशङ्क्याह- यत्र चेति, तथा चोक्तरीत्या यत्र विभागावच्छिन्नक्षरणानुकूलव्यापारो दुर्थो विवक्षितोः गोपदोत्तरद्वितीयार्थश्च विभागान्वयि आधेयत्वं तत्र पञ्चम्या आधेयत्वबोधकत्वासंभवाद् तद्बोधिका गोपदाद् द्वितीया भवति यथा — गां पयो दोन्धि ' इति । यत्र च क्षरणानुकूलव्यापारमात्रं धात्वर्थः क्षरणान्वयिविभागश्च गोपदोत्तरविभक्त्यर्थो विवक्षितस्तत्र द्वितीयाया विभागरूपापादानत्वबोधकत्वासंभवात् तद्बोधिका गोपदात् पञ्चमी भवति यथा 'गोभ्यो दोग्धि पयः' इतीत्यर्थः । उपसंहरन् स्वाभिप्रायं प्रकटयति- एतेनेति, उक्त विवक्षाया एव प्रयोगभेदनियामकत्वादित्यर्थः।। __ पक्षान्तरमाह- अथ वेति, गोभ्यो दोग्धि पयः' इत्यत्रापि न क्षरणानुकूलव्यापारमात्रं धात्वर्थः किं तु विभागावच्छिन्नक्षरणानुकूलव्यापार एव धात्वर्थः, तथा च यथा ' वृक्षाद् विमजते ' इत्यत्र वृक्षस्यावधित्वरूपाऽपादानत्वाद् वृक्षपदात् पञ्चमी भवति तथा गोरवधित्वरूपाउपादानत्वविवक्षायां गोपदात् पञ्चमी भवति 'गोम्यो दोग्धि पयः । इति, गोविभागाश्रयत्वविवक्षायां गोपदाद् द्वितीया भवति- 'गां पयो दोग्धि ' इति विवेक इत्यर्थः । नन्ववधित्वं हि विभागाश्रयत्वमेवेति विभागाश्रयत्वविवक्षायां गोपदाद् द्वितीया अवधित्वरूपाइपादानत्यविवक्षायां पञ्चमीति मेदः कथमुपपद्यतेत्याशझ्याश्रयत्वापेक्षयाऽवधित्वस्य विशेषस्वरूपमाह- अवधित्वं चेति, पञ्चम्या बोध्यमानस्वरूपमेवावधित्वमिति यावत् । यथा 'ग्रामं गच्छति चैत्रः' इत्यत्र क्रियाजन्यसंयोगरूपफलस्य ग्रामे इव चैत्रेपि सत्त्वेन चैत्रस्य क्रियाजन्यफलशालित्वेपि ' चैत्रश्चैत्र गच्छति' इति प्रयोगो न भवति किं तु — ग्राम गच्छति । इत्येव प्रयोगो भवति तत्कस्य हेतोः परसमवेतक्रियाफलशालित्वस्यैव कर्मत्वनियमात् चैत्रस्य च चैत्रापेक्षया परत्वाऽभावात् तथा पयोनिष्ठक्षरणजन्यविभागरूपफलस्य गवीय पयस्यपि सत्त्वेन पयोनिष्ठक्षरणस्य गोनिष्टविभागजनकत्वमिव पयोनिष्ठविभागजनकत्वमपि यद्यप्यस्ति तथापि ' पयः पयोः दोग्धि ' इति प्रयोगो न भवति तत्कस्य हेतोः? परसमवेतक्रियाफलशालिस्वस्यैव कर्मत्वनियमात्-अत्र च पयसः भूयोपेक्षया परत्वाभावात् पयोनिष्टक्षरणक्रियाजन्यविभागाश्रयस्य पयस एवं प्रधानाप्रधानोभयक "Aho Shrutgyanam" Page #257 -------------------------------------------------------------------------- ________________ हकमोख्यातयोरर्थः ] व्युत्पत्तिवादः । ( २४५ ) ¿ पयोनिष्ठविभागजनकत्वेपि न पयः पयो दोग्धि ' इति प्रयोगः । परत्वं च विभागान्वयितावच्छेदकावच्छिन्नापेक्षया बोध्यम् । ८५ क्षीरम्' इत्यादौ क्षरणजन्यविभागाश्रयत्वरूप गवादिनिष्ठमप्रधानकर्मत्वमाख्यातार्थः- अप्रधाने दुहादीनाम् " इत्यनुशासनात् । क्षीरवृतित्वस्य धात्वर्थक्षरणे एवान्वयः, आख्यातार्थक्षरणे च धात्वर्थव्यापारान्वयः, तथा च- विभागावच्छिन्नक्षीरनिष्ठक्षरणानुकूलव्यापारजन्यक्षरणजन्य विभागाret गौरित्याकारको बोधः । अथ वा विभागक्षरणव्यापारेषु विशकलितेषु धातोः शक्तित्रयम्, विशिष्टलाभो - ऽन्वयबलात् । कर्माख्यातस्थले चाकाङ्क्षावैचित्र्येण तेषां विशेष्यविशेषणभाव 6 त्यासंभवात् कर्तृत्वकर्मत्वोभयासंभवाच्चेत्यर्थः । क्षरणान्वयिनः परसमवेतविभागस्य द्वितीयार्थत्वेन तदेकदेशपरसमवेतत्वस्यापि द्वितीयार्थत्वमेवेति ज्ञेयम् । परत्वमाह - परत्वं चेति, विभागस्यान्वयितावच्छेदकं यत् पयस्त्वादिकं तदवच्छिन्नं यत् पयआदि तदपेक्षया परत्वं ग्राह्यमित्यर्थः । कर्माख्यातान्तप्रयोगमुदाहरति- दुह्यते इति, अत्रापि विभागावच्छिन्नक्षरणानुकूलो व्यापारी दुर्थ:, क्षरणजन्यो यो विभागस्तादृशविभागाश्रयत्वरूपं गोष्टिं यदप्रधानकर्मत्वं तत् कर्माख्यातस्यार्थः, गोनिष्ठाप्रधानकर्मत्वमेवात्राख्यातार्थो न क्षीरादिनिष्ठप्रधानकर्मत्वमित्यत्र प्रमाणमाहअप्रधानेति, द्विकर्मकधातूंनां मध्ये दुहादिधातूनामप्रधानकर्मण्येव लादयः ( आख्यातप्रत्ययाः ) भवन्तीत्यर्थः, क्षीरपदोत्तरद्वितीयाया अर्थस्य वृत्तित्वस्य ( आधेयत्वस्य ) अन्वयमाह- क्षीरहतित्वस्येति, धात्वर्थ कोटिप्रविष्टं यत् क्षरणं तत् क्षीरे वर्तते इति क्षीरवृत्तित्वं धात्वर्थक्षरणेऽन्वेति उक्ताख्यातार्थ कोटिप्रविष्टं च यत् क्षरणं तादृशक्षरणे एव जन्यत्वसंबन्धेन धात्वर्थव्यापारस्यान्वयः - उक्तक्षरणस्य उक्तव्यापारजन्यत्वात् एवं च ' दुह्यते गौः क्षीरम् ' इत्यस्य परिनिष्पन बाक्यार्थबोधस्वरूपमाह - तथा चेति, विभागावच्छिन्नम् = विभागजनकं यत् क्षीरनिष्ठं क्षरणं तादृशक्षरणानुकूलः = क्षरणजनको यो व्यापारस्तादृशव्यापारजन्यं यत् क्षरणं तादृशक्षरणजन्यो मौ विभागस्तादृशविभागाश्रयो गौरितिबोधः - कर्माख्यातस्य कर्मवाचकत्वेन कर्मविशेष्यकबोधस्यैव कर्माख्यातस्थळे इष्टत्वादित्यर्थः । 7 उक्तरीत्या-" विभागावच्छिन्नक्षीरनिष्ठक्षरणानुकूलव्यापारजन्यक्षरणजन्य विभागाश्रयो गौः " इत्यत्र क्षरणविभागयोर्द्वधा मानेन गौरवमसहमान: पक्षान्तरमाह - अथ वेति, दुहधातोर्विभागे क्षरणे व्यापारे च पृथक् पृथगेव खण्डशः शक्तित्रयम्, विशिष्टलाभः = विभागावच्छिन्नक्षरणानुकूलव्यापार इत्येवं विशेष्यविशेषणमावेन विशिष्टप्रतीतिस्त्वन्वयबलात्= भाकाङ्क्षाबलाज्जायतेपादृश्याऽऽकाङ्क्षा भवति तादृश एवं विशेष्य विशेषणभावोपि भवतीत्यर्थः । तथा च करुया. तस्थळे व्यापाराश्रयस्य कर्तुरेव प्राधान्याद् विभागावच्छिन्नचरणानुकूलव्यापारवान् इत्येवं विशेष्य "Aho Shrutgyanam" Page #258 -------------------------------------------------------------------------- ________________ ( २४६ ) सादर्श: [ द्वितीयाकारकप्रथमखण्डे वैपरीत्यात्, व्यापारजन्यक्षरणजन्य विभागपर्यन्तस्य धातुत एव लाभ:, आश्रयत्वमेवाख्यातार्थः, एवं च क्षरणविभागयोर्न द्विधा भानम् । गौणकर्माऽसमभिव्याहते 4 दुह्यन्ते क्षीराणि ' इत्यादावात्मनेपदेन केवलेन धातुसहितेन वा विभागावच्छि: -नक्षरणाश्रयत्वरूपप्रधानकर्मत्वस्य बोधनेप्येकदोभयविधकर्मत्वबोधनस्यायु त्पन्नतया 'दुह्यन्ते क्षीराणि गौः' इत्यादयो न प्रयोगाः । ' पौरवं गां यावते विप्रः' इत्यादौ स्वोद्देश्यकदानेच्छा याचत्यर्थः, प्रधानकर्मगवान्वितद्वितीयार्थो विषयित्वं धात्वर्थतावच्छेदकदानेऽन्वेति । सविषयकज्ञानादिरूपविषयोपहितेच्छाबोधकधातुस्थले इच्छाविषयविषयत्वमेव प्रधानकर्मत्वम्, अत एव 'घटो जिज्ञास्यते ' इत्यादौ घटादेः सन्नन्तकर्मता । - विशेषणभाव:, कर्माख्यातस्थले ' दुह्यते गौ: क्षीरम् ' इत्यादौ तेषाम् = विभागक्षरणव्यापाराणां विशेष्य विशेषणभाववैपरीत्यं भवति यथा व्यापारजन्यक्षरणजन्यविभागाश्रयो गौरिति विभागस्यैव विशेष्यत्वम्, व्यापारजन्यक्षरणजन्यविभागाश्रयो गौरित्यत्र विभागपर्यन्तस्तु धात्वर्थ एव आख्यातार्थ आश्रयत्वमात्रमेव । विभागक्षरणव्यापारेषु विशकलितशक्तिस्वीकारस्य फलमाह - एवं चेति । यत्र च ' दुह्यन्ते क्षीराणि ' इत्यादौ प्रधानकर्मवाचकक्षीरादिपदमेव भवति अप्रधानकर्मवाचकगवादिपदं च न भवति तत्र केवलेन धातुसहितेन वात्मनेपदेन क्षीरनिष्टं यद् विभागावच्छिन्न ( जनक ) क्षरणाश्रयत्वरूपं प्रधानकर्मत्वं तस्य बोधनेपि ८८ सकृत्प्रयुक्तः शब्दः सकदर्थं गमयति " इतिन्यायात् प्रधानाऽप्रधानोभयविधकर्मत्वस्यैकदा बोधनाऽसंभवात् प्रधानकर्मवाचकपदसमभिव्याहारेऽप्रधान कर्मवाचक्रगवादिपदं न प्रयुज्यत इति ' दुह्यन्ते क्षीराणि गौः ? इतिप्रयोगो न भवतीत्याह- गौणकर्मेति । "Aho Shrutgyanam" "" याचधात्वर्थमाह- गौरवमिति, पौरवो मदुद्देश्यकं दानं करोत्वितीच्छेव याचत्यर्थः, तत्र प्रधानकर्मभूतगोपदार्थस्य दाननिश्रुविषयितानिरूपकत्वात् तादृशविषयित्वस्य द्वितीयार्थस्य निरूपकत्वसंबन्धेन गवान्वितस्याऽऽश्रयत्वसंवन्धेन धात्वर्थतावच्छेदके= याचधात्वर्थी भूतेच्छावच्छेदके दानेऽन्वय:- दानस्य प्रधानकर्मभूतगोपदार्थविषयकत्वात् । नन्विच्छाबोधकधात्वर्थस्थळे साक्षादिच्छाविषयस्यैव प्रधानकर्मत्वं युक्तं नत्वच्छावच्छेदकदानादिविषयस्येत्याशङ्क्याह- सवि षयकेति, सविषयको यो ज्ञानादिरूपो विषयस्तदुपहितेच्छाबोधकधातुस्थले = तद्विषयकेच्छाबोधकधातुस्थले इच्छाविषयविषयत्वमेव प्रधानकर्मत्वं भवति अत एव घटो जिज्ञास्यते ' इत्यत्र समन्तार्थेच्छाया विषयो यज्ज्ञानं तादृशज्ञानविषयत्वाद् वटस्य प्रधानं सन्नन्तकर्मत्वं तथा ' पौरवं गां याचते ' इत्यत्रापि धात्वर्थीभूतेच्छाया विषयो यद् दानं तादृशदानविषयत्वाद् गो प्रधानकर्मव्यमित्यर्थः । अत्र च स्वोद्देश्यक गोविषयकदानेच्छावान् विप्र इतिबोध: । ननु दानयोग्य गवादिपदार्थविषयकं दानं संभवतीति तादृशदानविषयेच्छापि याचत्यर्थः 6 Page #259 -------------------------------------------------------------------------- ________________ याचपर्थः व्युत्पत्तिवादः। (२४७) अथवं यद्वस्तुविषयकं दानमप्रसिद्धं तदस्तुरूपकर्मसमभिव्याहतधातघटि. तवचसः का गतिः ? इति चेत् ?, या गतिः 'गगनं दिक्षते' इत्यादिकस्थ भ्रान्तपुरुषीयगगनादिप्रकारकदर्शनेच्छाबोधकवाक्यस्य गगनविषयकत्वप्रकारक. दर्शनेच्छाबोधस्तत्रोत चेत् ?इहापि गोविषयिताप्रकारतानिरूपितस्वत्वेच्छानिष्ठविषयताशालीच्छाबोधः, तद्वाक्यस्य विशेषादर्शिमात्रविषयता च समा । विवेचनीयं चेदमग्रे । पौरवपदोत्तरद्वितीयायास्तु वृत्तिरेवार्थः, तस्याश्च दानेऽन्वयः, पौरवस्य तादृशदानाश्रयत्वमेवाऽप्रधानकर्मत्वम् । समवति परकीयगवादिपदार्थविषयकं तु दानमेव न संभवतीति तद्वस्तुरूपकर्मसमभिव्याहृतधातु घटितवचस:= ' परकीयां गां याचते ' इत्यादिवचनस्य का गतिः कथं वाक्यार्थबोधः स्यात्परकीयवस्तुविषयकदानेन्छाया असंभवादित्याशङ्कते- अथेति । उत्तरमाह- या गतिरिति । गगनादिप्रकारक-गगनादिविषयक । यथा गगनदर्शनासंभवेन तदिच्छाया असंभवात् — गगनं दिदृक्षते' इत्यपार्थक एव प्रयोगस्तथा 'परकीयां गां याचते' इत्यप्यऽपार्थक एव प्रयोग इत्यर्थः । ननु गमनं दिक्षते' इत्यत्र न दर्शनप्रकारत्वं गगनस्य येनासंभवः स्यात् किं तु गगनविषयकत्वस्यैव प्रकारत्वं गगनविषयकत्वं तु गगनविषयकानुमित्यादौ प्रसिद्धमेवेत्याशङ्कते- गगनेति । उत्तरमाह- इहापीति, इह परकीयां गां याचते ' इत्यत्रापि न परकीयगोर्दानेच्छाविषयत्वं येनासंभवः स्यात् किं तु गोविषयताप्रकारतानिरूपितस्वत्वेच्छानिष्ठविषयताशालीच्छाबोधो जायते तत्र स्त्रत्वेच्छानिष्ठविषयताशालीच्छा ह्युक्तरीत्या याचत्यर्थ एव यतः- 'गवि मदीयं स्वत्वमुत्पद्येत । इत्याकारा याचकाभीष्टा या पौरवेच्छा तादृशेच्छानिष्ठविषयताशालिनी तादृशेच्छानिष्पविषयितानिरूपितविषयतांवती ( तादृशेच्छाविषया )या इच्छा सा स्वोद्देश्यकदानेच्छेवेति तस्या धात्वर्थत्वं विज्ञेयम्, गोविषयिताप्रकारतानिरूपितेत्यस्य हि गोविषयकत्वप्रकारकेत्यर्थः उक्तरीत्या गोनिष्ठा या द्वितीयार्थभूता विपयिता तादृशविषयितानिष्ठप्रकारतानिरूपिता या स्वत्वेच्छानिष्ठा विषयिता तनिरूपितविषयतावतीच्छेति लब्धम् ) तथा च परकीयगोविषयकत्वमपि तद्विषयकप्रत्यक्षादौ प्रसिद्धमेवेति तस्य याचत्यर्थभूतेच्छायां प्रकारत्वं संभवतीति न काचिदनुपपत्तिः, गोविषये. कत्वप्रकारकस्वोदेश्यकदानेच्छाश्रयो विप्र इति निर्गलितः शाब्दबोधस्याकारः । अद्धा यथा "गगनं दिदृक्षते ' इतिवाक्यं विशेषदर्शी विद्वान्न प्रयुङ्क्ते तथा 'परकीयां गां याचते ' इत्यादिवाक्यमपि विशेषदर्शी न प्रयुङ्क्ते इति विशेषाऽदर्शिविषयता समा । विवेचनीयमिति- एतस्य प्रथमखण्डस्यावसाने एतद्विवेचनं द्रष्टव्यम् । पौरव गां याचते ' इत्यत्र पौरवपदोत्तरद्वितीयार्थमाह- पौरवेति, वृत्तिः आधेयत्वम् । तस्याः वृत्तः । तथा च गोविषयक पौरववृत्ति यद् दानं तादृशदानविषयकेच्छावान् विप्र इतिबोधः । गोकर्मकौरववृत्तिदानाश्रयत्वादेव पौरवस्याऽप्रधानकर्मत्वमिति । "Aho Shrutgyanam" Page #260 -------------------------------------------------------------------------- ________________ (२४८) सादर्श:- [द्वितीयाकारकप्रथमखण्डे-- नचैवमिच्छाविशेषरूपदानस्याश्रयत्वं कर्तृत्वमेवेति वाच्यम्, धातुजन्यप्रतिपत्तिविशेष्यीभूतदानाश्रयत्वस्यैव तत्कर्तृत्वरूपत्वात् । अत्र च दानस्य तादृशप्रतिपत्ताविच्छारूपधात्वर्थविशेषणत्वात् । 'चैत्रेण पौरवो गां याच्यते । इत्यादावप्युक्तक्रमेण चैत्रवृत्तीच्छाविषयगोकर्मकदानाश्रय इत्यन्वयबोधो बोध्यः । यद्यपि निरुक्तयाच्या भिवेति " दुहियाचिरुधिच्छिभिक्षिचिजाम् " इत्य त्रार्थपरभिक्ष्युपादानेनैव चरितार्थतया याचेरुपादानमनर्थकम्, तथापि याचमानः शिवं सुरान् ' इत्यादौ याचतेर्न निरुक्तभिक्षार्थकतेति तदुपादानम् । तत्र हि व्यापारजन्यत्वप्रकारकेच्छा धात्वर्थः, इच्छायां प्रधानकर्मकल्याणान्वितद्वितीयार्थविषयिताया अन्वयः, व्यापारे च सुरान्वितवृत्तित्वस्य द्वितीयार्थस्यान्वयः, तथा च सुरवृत्तिव्यापारजन्यत्वप्रकारककल्याणेच्छाश्रय इत्यन्वयबोधः । ननु पौरवस्योकेच्छाविशेषरूपदानाश्रयत्वाद् दानकर्तृत्वमेव स्यान्न तु दानकर्मत्वमित्याशझ्याह- न चेति, पूर्वोक्तरीत्या याचकाभीष्टेच्छाश्रयत्वं पौरवस्यास्त्येव तादृशेच्छैव च दानपदार्थ इच्छाश्रयस्य च ' इच्छति ' इत्यत्र कर्तृत्वं प्रसिद्रमेव । परिहारमाह- धातुजन्येति, धातुजन्यज्ञाने ( शाब्दबोधे : विशेष्यतया भासमानं यद् दानं तादृशदानाश्रयत्वमेव दानकर्तृत्वं भवति यथा : विप्राय गां ददाति ' इत्यत्र दाधातुजन्य ज्ञाने उक्तेच्छारूपं दानं विशेष्यतया भासते इति ताहशदानाश्रयस्यैव दानकर्तृत्वं भवति, अत्र=' पौरवं गां याचते ' इत्यत्र तु तादृशप्रतिपत्तौ-याच. धातुजन्यज्ञाने (शाब्दबोधे) विशेष्यतया भासमानेच्छारूपधात्वर्थे दानं विशेषणमेवेति तादृशविशेषगीभूतेच्छारूपदानाश्रयस्य पौरवस्य न दानकर्तृत्वं संभवतीति दानकर्मस्वमेवेत्यर्थः । कर्माख्यातमुदाहरति- चैत्रेणेति, उक्तक्रमेण= २४५ पृ०, 'दुह्यते गौः क्षीरम् ' इत्यत्रोक्तकर्मविशेध्यकबोध इवात्रापि चैत्रवृत्तीच्छाविषया या गौस्तादृशगोकर्मकदानस्याश्रयः पौरव इत्यन्वयबोधो विज्ञेय इत्यर्थः । यद्यपीति-- दुह्यादीनामपादानादिविशेषेर विवक्षितस्य गवादेरकथितकर्मसंज्ञाविधानार्थ यः " दुहियाचि " इत्यादिसंग्रहः कृतस्तत्र दुह्यादीनामर्थपरत्वेनैव तत्पर्यायभूतधात्वन्तरसंग्रहस्योपपनत्वाद् याचधातोमिक्षार्थकत्वेन मिक्षत्रातूपादानेनैव चरितार्थतया याचधातोहणसंभवेन यद्यपि याचेः पृथगुपादानमनर्थकमेव तथापि ' याचमानः शिवं ( कल्याणम् ) सुरान् ' इत्यत्र याचधातोभिक्षार्थकत्वाभावात् पृथगुपादानमस्ति, ' याचमानः शिवं सुरान् ' इत्यत्र याच्यमानकल्याणस्यान्नादिवद्धस्तेन सुरैर्दातुमशक्यत्वान्न याचेमिक्षार्थकत्वमित्यर्थः । अत्र शिवपदं कल्याणपरं तदेव प्रधानं कर्म सुराश्चाऽप्रधानं कर्म । अत्रत्ययाचधात्वर्थमाह- तत्रेति, याचमानपुरुवीयकल्याणविधानानुकूलो यः सुरवृत्तिव्यापारस्तादृशव्यापारजन्यत्वं कल्याणेस्तीति मुरवृत्तिव्यापारजन्यकल्याणविषयकेच्छवात्र धात्वर्थ इति धात्वर्थीभूतेच्छा व्यापारजन्यत्वप्रकारिका ज्ञेया, इच्छा कल्याणविषयास्तीति निरूपितत्वसंबन्धेन कल्याणान्वितायाः कल्याणवाचकशिवए "Aho Shrutgyanam" Page #261 -------------------------------------------------------------------------- ________________ रुणद्रयर्थःपृच्छत्यर्थश्च ] व्युत्पत्तिवादः। 'गां व्रज रुणद्धि ' इत्यादौ देशान्तरसंचारविरोधिव्यापारो धात्वर्थः, संचारविरोधित्वं संचारानुत्पादप्रयोजकत्वम्, अनुत्पादे प्रधानकर्मगोवृत्तित्वान्वयः, देशविशेषणे भेद च 'व्रजम् ' इति द्वितीयान्तार्थव्रजप्रतियोगित्वान्वयः। “रुध्यते गां व्रजः' इत्यादावन्वयबोधः स्वयमूहनीयः। __'गुरुं धर्म पृच्छति' इत्यादौ जिज्ञासाबोधकव्यापारी धात्वर्थः, बांधे गुरुवृत्तित्वस्य. जिज्ञासायां धर्मविषयकत्वस्यान्वयः ।' शिष्यं धर्म ब्रूते' इत्यत्र ज्ञानानुकूलशब्दप्रयोगो धात्वर्थः, ज्ञाने धर्मविषयकत्वस्य शिष्यवृत्तित्वस्यदोत्तरद्वितीयार्थभूताया विषयिताया इच्छायामन्धयः, कल्याणजनकव्यापारस्य सुरवृत्तित्वात् सुरपदोत्तरद्वितीयार्थस्य वृत्तित्वस्य ( भाधेयत्वस्य ; व्यापारेन्वय इत्यर्थः । वाक्यार्थबोधस्वरूपमाह-तथा चेति । आश्रयत्वं याचमानपुरुषस्य ज्ञेयम् । रुधधात्वर्थमाह-गामित्यादिना, देशान्तरसंचाराऽनुत्पत्तिप्रयोजकत्वमेव देशान्तरसंचारविरो. धित्वम् । देशान्तरसंचारानुत्पादो गव्येवेति गोपदोत्तरद्वितीयार्थस्य गोवृत्तित्वस्यानुत्पादेऽन्वयः, ब्रजादितद्देशभिन्न एव देशो देशान्तरमिति देशान्तरेस्यत्र भेदो देशविशेषणं तादृशभेदे च ब्रजपदोत्तरद्वितीयार्थस्य प्रतियोगित्वस्यान्वय इति व्रजप्रतियोगिकभेदविशिष्टदेशस्य यो गोवृत्तिः संचारानुत्पादस्तदनुकूलव्यापारवान् गोप इतिबोध इत्यर्थः । कर्माख्यातमुदाहरति-रुध्यते इति । स्वयमिति-तथा च गोपवृत्तिव्यापारप्रयोज्यो यो गोवृत्तिदेशान्तरसंचारानुत्पादस्तदेकदेशदेशान्तरनिष्ठो यो भेदस्तत्प्रतियोगित्वाश्रयो व्रज इत्यन्वयबोधः, आश्रयत्वं कर्माख्यातार्थः, कर्माख्यातप्रयोगस्थले प्रथमान्तपदार्थे फलाश्रयत्वं भवति तच्चात्राप्यस्त्येव-ब्रजप्रतियोगिकभेदाश्रयीभूतदेशान्तरसंचारविरोधिव्यापारस्यात्र धात्वर्थत्वेन देशान्तरनिष्ठभेदप्रतियोगित्वस्य धात्वर्थतावच्छेदकत्वेन फलत्वात् तादृशफलीभूतप्रतियोगित्वाश्रयत्वस्य ब्रजे स्वीकारादिति विज्ञेयम् । किं च " अप्रधाने दुहादीनां लादीनाहुर्द्विकर्मणाम् " इतिनियमेन ‘रुध्यते गां व्रजः' इत्यत्र लकारस्याऽप्रधानकर्मबोधकत्वादप्रधानकर्मभूतब जवाचकनजपदादेव प्रधमा जाता न तु प्रधानकर्मवाचकगोपदात् प्रधानकर्मत्वस्यानुक्तत्वादित्यनुसंधेयम् । पृच्छत्यर्थमाह-गुरुमिते, येन प्रश्नरूपेण व्यापारेण गुरोः स्वकीयजिज्ञासाया बोधः स्यात्तादृशो जिज्ञासाबोधको व्यापारः पृच्छत्यर्थः । जिज्ञासाविषयकबोधो गुरौ जायते इति गुरुपदोत्तरद्वितीयार्थस्य गुरुवृत्तित्वस्य बोधेऽन्ययः, जिज्ञासा चात्र धर्मविषयास्तीति जिज्ञासायां धर्मविषयकत्वस्यान्वयः, तथा च धर्मविषयकजिज्ञासाविषयकगुरुवृत्तिबोधोत्पत्त्यनुकूलव्यापारवान् शिष्य इति वाक्यार्थः । ब्रूधात्वर्थमाह-शिष्यमिति, येन शब्दप्रयोगेण शिष्यस्य धर्मविषयकज्ञानं जायेत तादृशशब्दप्रयोगो ब्रूधात्वर्थः । शिष्ये एव धर्मविषयकमेव च ज्ञानमुत्पादनीयमिति ज्ञाने धर्मएदोत्तरद्वितीयार्थस्य विषयितायाः=धर्मविषयकत्वस्यान्वयस्तथा शिष्यपदोत्तरद्वितीयार्थस्य शिष्यवृत्तित् वस्यान्वयः, तथा च धर्मविषयकशिष्यवृत्तिज्ञानोत्पत्तिप्रयोजकशब्दप्रयोगरूपव्यापारवान् गुरु "Aho Shrutgyanam" Page #262 -------------------------------------------------------------------------- ________________ ( २५० ) सादर्श:- [ द्वितीयाकारकप्रथमखण्डे चान्वय इति । तन्न चारुतरम्-तथा सति यत्र जिज्ञासाविषयक चैत्रज्ञानेच्छया प्रश्नस्ता शब्दाच सामग्रीबलेन: मैत्रस्यापि पृच्छकजिज्ञासाज्ञानं तत्र 'मैत्र पृच्छति' इतिप्रयोगस्य एवं यत्र चैत्रज्ञानेच्छया ब्रूते दैववशात्र मैत्रस्यापि ज्ञानं तत्र ' मैत्रं ब्रूते ' इतिप्रयोगस्य चापत्तेः । साक्षाद्धात्वर्थविशेषणज्ञानरूपफलाश्रयतया तत्र गुर्वादीनां प्रधानकर्मतया " अप्रधाने दुहादीनाम्" इत्यनुशासनविरोधेन. ' पृच्छयते गुरुर्धर्मम् ' 'शिष्य उच्यते धर्मम्' इत्यादिस्थले च लकारादिना तत्कर्मत्वाभिधानानुपपत्तेश्च । परं तु जिज्ञासाज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दः पृच्छतेरर्थः, ज्ञाने गुरुवृत्तित्वस्यान्वयः शब्दे च धर्मविषयकत्वस्यान्वयः, शब्दस्य च विषयता व्यापारानुबरित्यन्वयबोध इत्यर्थः । एतन्मतं दूषयति - तन्नेत्यादिना, तथा सति यदि जिज्ञासाबोधकव्यापार एव पृच्छत्यर्थस्तदा यत्र जिज्ञासाविषयज्ञानं चैत्रनामकगुरोः स्यादितीच्छया प्रश्नः कृतस्तादृशप्रइन शक्तिज्ञानादिसामग्रीबलेन चैत्रसमीपस्थ मैत्रस्यापि धर्मादिविषयक पृच्छकजिज्ञासाज्ञानं जातं तत्र मैत्रसमवेत जिज्ञासाबोध जनकव्यापारस्यापि जातत्वाद् 'चैत्रं धर्म पृच्छति' इतिवत् 'मैत्रं धर्म पृच्छति' इत्यपि प्रयोगः स्यादेचेति न जिज्ञासाबोधकव्यापारो पृच्छत्यर्थो युक्त इत्यर्थः । एवं यदि ज्ञानानु - कूलशब्दप्रयोगो ब्रूधात्वर्थस्तदा यत्र गुरुश्चैत्रस्य ज्ञानं जायेतेतीच्छया ब्रूतेऽय च तत्रस्थमैत्रस्थापि गुरुवाक्येन ज्ञानं जातं तत्र मैत्रसमवेतज्ञानजनकशब्दप्रयोगरूपव्यापारस्यापि जातस्वात् 'चैत्रं ब्रूते' इतिवत् ' मैत्रं ब्रूते' इत्यपि प्रयोगः स्यादेव न चैतदिष्टमिति न ज्ञानानुकूलशब्दप्रयोगो धात्वर्थो युक्त इत्यर्थः । उक्तमतेन कर्माख्यातस्थले दोषमाह - साक्षादिति, तत्र = 'पृच्छयते गुरुर्धर्मम्' इत्यत्र बोधे गुरुवृत्तित्वमस्ति स च बोधः "साक्षाद्धात्वर्थविशेषणं चास्ति साक्षाद्धात्वर्थविशेषणाश्रयस्य च प्रधानकर्मत्वमेव भवतीति साक्षाद्धात्वर्थविशेषणीभूतज्ञान ( बोध ) रूपफलाश्रयतया गुरोः प्रधानकर्मत्वं प्राप्तं तत्र " अप्प्रधाने दुहादीनाम् "= दुहादीनामप्रधानकर्मणि लादयो भवन्तीत्यनुशासनविरोधेनलादिना गुरोः तत्कर्मत्वाभिधानानुपपत्तेः = प्रधानकर्मत्वाभिधानं नोपपद्यते, 'शिष्य' उच्यते धर्मम्' इत्यादौ च शिष्यस्य साक्षाद्धात्वर्थविशेषणीभूतज्ञानरूपफलाश्रयतया प्रधानकर्मत्वमुक्तरीत्या प्राप्तं तत्रापि " अप्रधाने दुहादीनाम्" इत्यनुशासनविरोधेन लादिना प्रधानकर्मत्वाभिधानं नोपपद्यते इति नोक्तपृच्छत्यादिवात्वर्थनिरूपणं युक्तमित्यर्थः । स्वमतेन पृच्छत्यर्थमाह-परं त्वित्यादिना, तुपदं पूर्वपक्षव्यावर्तकमिति " परं तु" इत्यस्यो केन " तन्न शोभनम् " इत्यनेनान्वयः । जिज्ञासेति - जिज्ञासाविषयकज्ञानोद्देश्यका या प्रवृत्तिस्तादृशप्रवृत्त्यधीनशब्दः प्रश्नादिरूपः पृच्छत्यर्थः । तथा च यं प्रति प्रवृत्तिर्भविष्यति तस्यैव चैत्रादिनामकगुरोरप्रधानकर्मत्वं भविष्यति न तु तत्रस्थमैत्रादेरपीति मदीयजिज्ञासायाश्चत्रस्य ज्ञानं जायतामितीच्छया प्रश्ने कृते दैववशात् तत्रस्थमैत्रस्य पृच्छकजिज्ञासाज्ञाने जातेपि न 'मैत्रं पृच्छति' इति प्रयोगापत्तिः - मैत्रं प्रति जिज्ञासाज्ञानोदेश्यकप्रवृत्तेरभावात् । ' गुरुं धर्मे पृच्छति' इत्यत्र " Aho Shrutgyanam" Page #263 -------------------------------------------------------------------------- ________________ नयत्यर्थो वहत्यर्थश्च } व्युत्पत्तिवादः । (२५१) धिनी, ज्ञानस्य परम्परथा शब्दरूपधात्वर्थविशेषणत्वात् तदाश्रयीभूतगुरोगाणकर्मता, धर्मस्य च धात्वर्थविषयतया प्रधानकर्मता । बेञश्च ज्ञानोद्देश्यकावृत्त्यधीनशब्दोर्थः, ज्ञाने शिष्यवृत्तित्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः । 'अजां ग्रामं नयति' इत्यादौ 'ग्राम भार वहति' इत्यादौ चोत्तरदेशसंयो. गावच्छिन्नक्रियानुकूलव्यापाररूपं प्रापणं धातोरर्थः, तत्रोत्तरदेशसंयोगे ग्रामस्य गौणकर्मणः, क्रियारूपे च फलेऽजादिप्रधानकर्मणोऽन्वयः, तथा च ग्रामवृत्तिसंयोगजनकाजादिवृत्तिक्रियानुकूलव्यापारानुकूलकृतिमानित्यन्वयबोधः । 'अजा ग्राम नीयते ' ' उह्यते भारो ग्रामं चैत्रेण ' इत्यादावुत्तरदेशसंयो. गावच्छिन्नक्रियारूपं फलं कारख्यातार्थः, तत्र च धात्वर्थस्य तादृशव्यापारस्य जिज्ञासाविषयीभूतज्ञानं गुराविष्टमिति गुरुपदोत्तरद्वितीयार्थस्य दृत्तित्वस्य ज्ञानेऽन्वयः । शब्दस्यैव धात्वर्थत्वात् धर्मपदोत्तरद्वितीयार्थस्य विषयितायाः=धर्मविषयकत्वस्य धात्वर्थीभूतशब्देऽन्वयः । ज्ञानादिवच्छब्दस्य सविषयकपदार्थत्वाभावाद् धर्मे या शब्दविषयता सा शब्दानुकूलव्यापारमूलिका ज्ञेया कृतिरूपव्यापारस्य सविषयकपदार्थत्वात् शब्दोच्चारणानुकूलकृतेः शब्दद्वाराधर्मविषयकत्वसंभवादित्याह-शब्दस्येति । अत्र गुरौ जायमानस्य जिज्ञासाज्ञानस्य शब्दरूपधात्वर्थविशेषणीभूतप्रवृत्तिविशेषणीभूतोद्देश्यकत्वे विशेषणत्वमस्ति न तु साक्षाद्धात्वर्थीभूतशब्दे इति तादृशज्ञानाश्रयीभूतगुरोरप्रधानकर्मतेत्याह-ज्ञानस्येति । धात्वर्थीभूतशब्दस्य धर्मविषयकत्वेन धर्मस्य साक्षाच्छब्दविषयत्वाद् द्वितीयार्थद्वारा धर्मस्यःसाक्षाद्धात्वर्थे शब्दे एवान्वयाद्धर्मस्य प्रधानकर्मतेत्याह-धर्मस्येति । ब्रूधात्वर्थमाह-मश्चेति । 'शिष्यं धर्म ब्रूते' इत्यत्रापि ज्ञानोद्देश्यकप्रवृत्तेर्धात्वर्थ प्रवेशाद् यं शिष्यं प्रति गुरुर्वक्ति तस्यैवाप्रधानकर्मत्वं स्यान्न तु तत्रस्थान्यस्यापीति चैत्रं प्रति उपदेशे 'मैत्रं ब्रूते' इति प्रयोगापत्तिास्तीत्यर्थः । अत्र ज्ञानं शिष्ये इष्टमिति शिष्यपदोत्तरद्वितीयार्थवृत्तित्वस्य ज्ञानेऽन्वयः । अस्मिंश्च पक्षे 'पृच्छ्यते गुरुर्धर्मम् । 'शिष्य उच्यते धर्मम् ' इत्यादिकर्माख्यातस्थले गुरुशिष्यादिवृत्तित्वेन विवक्षितोक्तज्ञानस्य साक्षाद्वाधात्वर्थविशेषणत्वाभावात् तादृशज्ञानरूपफला. श्रयस्य गुरुशिष्यादेप्रधानकर्मत्वात् तवृत्त्यऽप्रधानकर्मत्वस्य लादिनाऽभिधानानुपपत्तिः पूर्वत्र प्रदर्शिता नास्तीति न काचिदनुपपत्तिः-साक्षाद् धात्वर्थविशेषणीभूतफलाश्रयस्यैव प्रधानकर्मत्वादिति भावः। नीवहधास्वोरर्थमाह-अजामित्यादिना । अत्रोत्तरदेशसंयोगानुकूल क्रियायाः साक्षाद् धात्वर्थतावच्छेदकत्वं फलत्वं च व्यापारापेक्षयाऽस्तीति तदाश्रयीभूताऽजादेः प्रधानकर्मत्वम् । प्रामस्य संयोगरूपे अजादेच क्रियारूपे फले आधेयत्वसंबन्धेनान्वयः । वाक्यार्थस्वरूपमाइतथा चेति । अजादिवृत्तिक्रिया ग्रामप्राप्त्यनुकूला क्रिया, व्यापारश्च प्रापणरूपो च्यापारः । स्पष्टमन्यत्सर्वम् । कर्माख्यातान्तं नीधातुं वहधातुं चोदाहरति- मजेत्यादिना । अत्र चाजाभारादिवृत्तिः "Aho Shrutgyanam" Page #264 -------------------------------------------------------------------------- ________________ (२५२) सादर्श:- [ द्वितीयाकारकप्रथमखण्डेजन्यतासंबन्धेन तस्य चाश्रयतासंबन्धेनाऽजाभारादिरूपप्रधानकर्मण्यऽन्वया, ग्रामादिवृत्तित्वान्वयस्तु संयोगे एव, एवं च चैत्रकृतिजन्यो यः संयोगावच्छिन्नक्रियानुकूलव्यापारस्तजन्यग्रामवृत्तिसंयोगानुकूलकर्मवानजादिरित्यन्वयबोधः। ___ न च कारकविभक्त्यर्थस्य धात्वर्थे एवान्वयनियमात् प्रत्ययोपस्थाप्यसंयोगे कथं प्रामादिवृत्तित्वान्वय इति वाच्यम् , 'भूतले घटः ' इत्यादी घटादिपदार्थेप्यधिकरणसप्तम्यर्थान्वयात् तादृशनियमाऽसिद्धेः । अस्तु वा धात्वर्थतावच्छेदकतावच्छेदकतया भासमाने संयोगे एव तदन्वयः। फलव्यापारयोः पृथक शक्तिमते चाश्रयत्वमेवात्मनेपदार्थः, संयोगावच्छिन्नप्राप्त्यनुकूला क्रियेब फलम् । तत्र-उक्तक्रियारूपफले धात्वर्थस्य तादृशव्यापारस्य उक्तक्रियारूपफल जनकस्य प्रापणरूपव्यापारस्य जन्यतासंबन्धेनान्वयः-क्रियारूपफलस्य धात्वर्थीभूतव्यापारजन्यत्वात् । तस्य-क्रियारूपफलस्य चाश्रयतासंबन्धेन प्रधानकर्मभूताजादावन्धयः । ग्रामपदोस्तरद्वितीयार्थस्य ग्रामवृत्तित्वस्य संयोगे एवान्वय इति धात्वर्थतावच्छेदकतावच्छेदकी भूतसंयोगरूपफलाश्रयत्वाद् ग्रामस्य गौणकर्मत्वम् , संयोगस्याऽजादावप्यन्वयविवक्षायामऽजादेरपि गौणकमैत्वं स्थान्न तु प्रधानकर्मत्वमित्यर्थः । वाक्यार्थस्वरूपमाह- एवं चेति । संयोगावच्छिन्न क्रियानुकूलच्यापारश्चैत्रवृत्तिप्रापणव्यापारः । कर्म क्रिया । स्पष्टमन्यत्। - ननु मामपदोत्तरद्वितीया कारकविभक्तिरस्ति कारकविभक्त्यर्थस्य च धात्वर्थे एवान्वयो भवतीत्यत्र कथं कर्माख्यातप्रत्ययोपस्थाप्ये संयोगे प्रामपदोत्तरद्वितीयार्थस्य ग्रामवृत्तित्वस्यान्वयः कृत इत्याशङ्कते-न चेति । उत्तरदेशसंयोगावच्छिन्नक्रियारूपं फलं कर्माख्यातार्थ इत्युक्तं तत्रोत्तरदेशसंयोगावच्छिन्नक्रियायाः कर्माख्यातप्रत्ययार्थत्वे तदेकदेशस्य संयोगस्यापि कर्माख्या“तप्रत्ययार्थत्वं ज्ञेयम् । ' बाणेन हतः' इत्यादौ तृतीयार्थकरणत्वादेर्धात्वर्थे 'व्यापारे एवान्वयो मवतीति दृष्टान्तः । परिहारमाह- भूतले इति, 'भूतले घटः' इत्यत्र भूतलपदोत्तराधिकरणसनम्यपि कारकविभक्तिरेव अथापि तादृशसप्तम्या अर्थस्य वृत्तित्वस्य घटे एवान्वयो भवतीति कारकविभक्त्यर्थस्य धात्वर्थे एवान्वयो भवतीति नियमो नास्तीति — अजा ग्रामं नीयते' इत्यत्रापि ग्रामपदोत्तरद्वितीयार्थवृत्तित्वस्य प्रत्ययोपस्थाप्यसंयोगेऽन्वये न काचिदनुपपत्तिरित्यर्थः । कारकविभक्त्यर्थस्य धात्वर्थे एवान्वयनियममभ्युपगम्याह- अस्तु वेति, ' अजा ग्राम नीयते । इत्यत्रो. क्तवाक्यार्थानुसारेण संयोगस्य धात्वर्थतावच्छेदकतावच्छेदकतया धात्वर्थत्वमस्त्येवेति तादृशसयोगे एव ग्रामपदोत्तरद्वितीयार्थस्य ग्रामवृत्तित्वस्यान्त्रयो ज्ञेय इत्यर्थः । कारकत्वं हि क्रियानिलपितमेव भवतीति कारकविभक्त्यर्थस्य कारकस्य धात्वर्थव्यापारे एवान्वयो युक्त इति भावः । एवकारो भिन्नक्रम इति ' धात्वर्थतावच्छेदकतावच्छेदकतयैव । इत्यन्वयः । 'अजा प्रामं नीयते । इत्यत्र मतान्तरमाह- फलेति, फले व्यापारे चोक्ते यदा धातोः पृथक् पृथगेव खण्डशः शक्तिस्तदाऽऽश्रयत्वमेवाख्यातार्थो न तुलं फलस्य धातुनधोपस्थिति पता "Aho Shrutgyanam" Page #265 -------------------------------------------------------------------------- ________________ निरूपयत्यर्थः व्युत्पत्तिवादः । ( २५३) क्रियारूपधात्वर्थ एव व्यापाररूपधात्वर्थविशेष्यतया आश्रयत्वविशेषणतया चान्वेति, तदेकदेशे संयोगे एव प्रामादिवृत्तित्वान्वयः, चैत्रीयकृतिजन्यध्यापारजन्यग्रामवृत्तिसंयोगानुकूलक्रियाश्रयोऽजादिरित्याकारको बोधः । ___ ज्ञानानुकूलशब्दश्च द्रव्यं निरूपयति' इत्यादौ धातोरर्थः, तादृशविशिष्टैकार्थस्यैकदेशे ज्ञानांशे आधेयत्वान्वयबोधने न द्वितीयायाः साकाङ्क्षता स्वीक्रियते अपि तु विषयतयाऽन्वयबोधे एवेति 'शिष्यं द्रव्यं निरूपयति' इत्यादिने प्रयोगः। ___ यत्तु धात्वर्थों ज्ञानमेव तदनुकूलव्यापारश्च णिजर्थ इति, तदसत्-धातोश्चुरा. धन्तर्गततया स्वार्थे एव णिचो विधानात्, अन्यथा — निरूपयति' इत्यस्य संभवादित्यर्थः । अत्र च मते पूर्वोक्तं संयोगावच्छिन्नक्रियारूपं फलमजादिवृत्ति धात्वर्थ एव-- तादृशफलेपि धातोरेव शक्तिस्वीकारात् स च संयोगावच्छिन्नक्रियारूपं फलं धात्वर्थो व्यापाररूपधात्वर्थे विशेष्यतयान्वेति-व्यापाररूपधात्वर्थस्य विशेषणत्वात् तत्रैतादृशफलीभूतक्रियारूपधात्वर्थस्य विशेष्यत्वात्, आख्यातार्थश्चाश्रयत्वं तत्र धात्वर्थीभूतसंयोगावच्छिन्नक्रियारूपफलं विशेषणमस्तीति स फलीभूतः संयोगावच्छिन्नक्रियारूपधात्वर्थ आश्रयत्वे विशेषणतयाऽन्वेतीत्यथः ।, वक्ष्यमाणशाब्दबोधेन पूर्वपूर्वपदार्थस्य व्यापारादेर्विशेषणत्वमवधार्यम् । “व्यापाररूपधात्वर्थवि. शेष्यतया " " आश्रयत्वविशेषणतया " इति सप्तमीसमासौ । तदेकदेशे-संयोगावच्छिन्नक्रियारूपधात्वर्थैकदेशे संयोगे ग्रामपदोत्तरद्वितीयार्थस्य ग्रामवृत्तित्वस्यान्वयः । अत्रत्यवाक्यार्थस्वरूपमाह- चैत्रीयेति । चैत्रीयकृतिजन्यव्यापारः प्रापणरूपव्यापारः, ग्रामवृत्तिसयोगानुकूलक्रिया ह्यजादिवृत्तिः क्रिया ।। ::निपूर्वकरूपधात्वर्थमाह- ज्ञानेति, येन शब्देन शिष्यस्य द्रव्यादिविषयकं ज्ञान स्यात् सादृशशब्दो धात्वर्थः । अत्र तादृशविशिष्टकार्थ: ज्ञामानुकूल (ज्ञानोत्पादक ) शब्दस्तस्यैकदेशो ज्ञानं तत्र द्वितीयाया यः खल्वाधेयस्वमर्थस्तस्यान्वयो न भवति- अर्थादत्राधेयत्वं द्वितीयार्थों नास्ति. अन्यथा ज्ञानं शिष्ये एवोत्पद्यते इति ज्ञानस्य शिष्यवृत्तित्वात् शिष्यपदोत्तरद्वितीयार्थस्य शिष्यवृत्तित्वस्य ( शिष्याधेयत्वस्य ) ज्ञानेऽन्वयसंभवात् शिष्यपदोत्तरमपि द्वितीयापत्त्या ' शिष्यं, द्रव्यं निरूपयति । इत्यपि प्रयोगः स्याद् न चैतदिष्टं तस्मादत्र न द्वितीयाया आधेयत्वान्वये साकाङ्क्षत्वम् (नात्र द्वितीयाया आधेयत्वमर्थः) अपि तु विषयतयान्वयबोधे एवात्र द्वितीयायाः साकाङ्क्षत्वम् ( अत्र विषयत्वमेव द्वितीयार्थः) तथा च ज्ञानविषयत्वं तु द्रव्ये एवास्ति न तु शिष्ये इति द्रव्यपदादेव द्वितीया प्राप्ता न शिष्यपदादपीति न 'शिष्यं द्रव्यं निरूपयति' इति प्रयोगापत्तिरित्यर्थः । द्रव्यविषयकज्ञानजनकवाक्यप्रयोगं करोतीतिशाब्दबोधः । ननु 'निरूपयति । इत्यत्र ज्ञानमात्रं धात्वर्थो ज्ञानानुकूलव्यापारस्तु णिजर्थ इति नोक्तविशिष्टं धात्वर्थ इत्याशङ्कते- यत्त्विति । परिहरति- तदसदिति, णिचः स्वार्थे एवात्रजातत्वान्न पृथग व्यापारार्थत्वं संभक्तीत्यर्थः । विपक्षे बाधकमाह- अन्यथेति, यदि निपूर्वकरूपधास्वों "Aho Shrutgyanam" Page #266 -------------------------------------------------------------------------- ________________ (२५४) सादर्श:- [ द्वितीयाकारकप्रथमखण्डे'ज्ञापयति' इत्यादिसमशीलतया 'शिष्यं ज्ञापयति ' इत्यादिवत् ' शिष्यं निरूपयति ' इंतिप्रयोगस्य दुर्वारत्वात् । 'अजां ग्रामं यापयति ' ' शिष्यं शास्त्रं ज्ञापयति ' ' ब्राह्मणमन्नं भोजयात ' ' यजमान मन्त्रं पाठयाति , 'घटं जनयति नाशयति । इत्यादौ णिच्प्रत्ययप्रकृतिभूतधात्वर्थकर्तृवाचकाजादिपदोत्तरद्वितीयाया मुख्यभाक्तसाधारणं कर्तृत्वमेवार्थ:-" गतिबुद्धि " इत्यादिसूत्रेण कर्तुः कर्मसंज्ञाविधानात् । गति. ज्ञानोत्पत्त्यादिनिरूपितं कर्तृत्वं चाश्रयत्वमेव, गलाधःसंयोगानुकूलक्रियानुकूलव्यापाररूपभोजन-कण्ठताल्वाद्यभिषातरूपपाठ-निरूपितं च तदनुकूलकृतिमत्वम् , नाशनिरूपितंच प्रतियोगित्वम् , तस्य च निरूपकतासंबन्धेन धात्वर्थेऽन्वयः। झाबमान स्यात्तदा 'शिष्यं ज्ञापयति । इतिवत् 'शिष्यं निरूपयति । इत्यपि प्रयोगः स्याद् न चैतदिष्टमिति न ज्ञानमात्रं निपूर्वकरूपधात्वर्थः किं तु ज्ञानानुकूलशब्द एव, ज्ञानानुकूलशब्दविषयत्वं च द्रव्यादावेत्र न शिष्यादाविति न 'शिष्यं निरूपयति । इतिप्रयोगापत्तिरित्यर्थः । समशीलतया-तुल्यतया, अत्र च तुल्यतापत्त्येत्यर्थः। ___ अजामिति-“ गतिबुद्धि " इत्यादिसूत्रेण गमनादिकर्तुरेव प्यन्तावस्थायां कर्मसंज्ञा विधानादन णिच्प्रत्ययस्य प्रकृतिभूतो यो यादिधातुस्तदर्थों यो गमनादिव्यापारस्तत्कर्तवाचकं यदऽजादिपदं तादृशाजादिपदोत्तरद्वितीयाया मुख्यगौणसाधारणं कर्तृत्वमेवार्थः-अजादीनामत्र गमनादिक्रियानिरूपितकर्तृत्वस्यैव सत्त्वात्.! 'अजां ग्रामं नयति , इत्यादौ तु धातोद्धिकर्मकत्वादजादीनां कर्मत्वमेवेति विवेकः । तत्र धात्वर्थानुकूलकृतिमत्वं मुख्यं कर्तृत्वम् , धात्वर्थाश्रयत्वं गौणं कर्तृत्वमिति विवेकः । स्वयमुदाहरति- गतीत्यादिना, “ अजा. ग्रामं यापयति । इत्यत्राजायां गत्यनुकूलकृतिमत्त्वमेव मुख्यं कर्तृत्वम् , “शिष्यं शास्त्रं ज्ञापयति ' इत्यत्र शिष्ये ज्ञानाश्रयत्वमेव ज्ञानकर्तृत्वम्-शिष्यो जानाति तं शिष्यं गुरुः ज्ञापयति इतिबोधात्, ‘ब्राह्मणमन्नं भोजयति ' इत्यत्र गलाधःसंयोगानुकूला या ग्रासनिष्ठा क्रिया तादृशक्रियानुकूलव्यापाररूपं यद् भोजन तहिशभोजनानुकूल कृतिमत्त्वमेव ब्राह्मणे भोजनकर्तृत्वम् , एतदपि कर्तृत्वं मुख्यम् , ' यजमानं मन्त्रं पाठयति ' इत्यत्र कण्ठताल्वाद्यभिघातजन्यो यः पाठस्तादृशपाठानुकूलकृतिमत्त्वमेव यजमानस्य कर्तृत्वम् , ' घटं जनयति ' इत्यत्रोत्पत्त्याश्रयत्वमेव घटस्य कर्तृत्वम् , 'घटं नाशयति । इत्यत्र नाशनिरूपितप्रतियोगित्वमेव घटस्य नाशक्रियाकर्तृत्वम्, घटो नश्यति तं नश्यन्तं नाशयतीति बोधोदयादित्यन्वयः । कर्तृत्वं हि धात्वर्थीभूतव्यापारनिरूपितमेव भवतीति धात्वर्थे यत्कर्तृत्वनिरूपकत्वं तादृशसंबन्धेनोक्तकर्तृत्वानां धात्वर्थेऽन्वय इत्याह-तस्येति । तस्य-उक्तरूरकर्तृवस्य । - नवीनतमाह- नव्येति, 'शिष्यं शास्त्रं ज्ञापयति ' इत्यत्र ज्ञानाश्रयत्वमेव शिष्यस्य कर्तृवमस्तीति शिष्यपदोत्तरद्वितीयार्थ आधेयत्वम् ज्ञानस्य शिष्यवृत्तित्वात् , ' ब्राह्मणमन्नं भोज "Aho Shrutgyanam" Page #267 -------------------------------------------------------------------------- ________________ णिजन्तप्रयोगविशेषाः] व्युत्पत्तिवादः । ( २५५ ) नव्यमते च यत्राश्रयत्वं कर्तृत्वं तत्राधेयत्वं द्वितीयार्थः, यत्रानुकूलकृतिमत्त्वं तंत्र कृतिजन्यत्वम्, यत्र प्रतियोगित्वम् तत्रानुयोगित्वम्, तेषां चाश्रयतासंबन्धेनैव धात्वर्थेऽन्वयः । गत्यर्थादिभ्योऽन्यत्र णिच्प्रत्ययप्रकृतिधात्वर्थकर्तृवाचकपदान द्वितीया - तादृशकर्तुः कर्मातिदेशाऽविषयत्वात् तेन ' पाचयत्योदनं सहायेन ' इत्यादय एव प्रयोगाः न तु पाचयत्योदनं सहायम् ' इत्यादयः । < केचित्तु - पाकादिकर्तुः पाकादिकर्मत्वविरहेपि ण्यन्तसमुदायस्यापि धातुत्वेन तत्कर्मतया सहायादेः ' पाचयत्योदनं सहायम्' इत्यादयः प्रयोगा अपि साधवः, अत एव अजिग्रहत्तं जनको धनुस्तत् " इत्यादयो भट्टिप्रयोगाः । गतिबु - SC << , यति ' इत्यत्रोक्तभोजनानुकूलकृतिमत्त्रमेव ब्राह्मणस्य कर्तृत्वमस्तीति ब्राह्मणपदोत्तरद्वितीयार्थः कृतिजन्यत्वमेव- भोजनव्यापारस्य ब्राह्मणकृतिजन्यत्वात् ' घटं नाशयति ' इत्यत्र नाशप्रतियो गित्वमेव घटस्य नाशकर्तृत्वमस्तीति घटपदोत्तरद्वितीयाया अनुयोगित्वमर्थस्तस्य च स्वरूपसंबन्धरूपाश्रयतासंबन्धेन वात्वर्थे नाशेऽन्वयः - नाशस्यैवात्र घटनिष्ठप्रतियोगित्वनिरूपकत्वादित्यऽनुयोगितासंबन्धेन घटविशिष्टो यो नाशस्तादृशनाशानुकूलव्यापारवानितिशाब्दबोध इत्यन्वयः । तेषाम् = आधेयत्वादिद्वितीयार्थानाम् । उक्तस्थलेषु ज्ञापयतीत्यत्र शिष्य निरूपिता द्वितीयार्थभूताधेयताऽऽश्रयतासंबन्धेन धात्वर्थे ज्ञानेस्ति, भोजयतीत्यत्र द्वितीयार्थभूतं कृतिजन्यत्यमाश्रयता संबन्धेन भोजनव्यापारे धात्वर्थे विज्ञेयम्, नाशयतीत्यत्रानुयोगिता धात्वर्थे नाशे विज्ञेया । गत्यर्थादिधातूनामेव व्यन्तावस्थायां गत्यादिकर्तृवाचकाजादिपदेभ्यो द्वितीया भवति नान्यत्रेत्याह-- गत्यर्थेति । ताशकर्तुः=ण्यन्तगत्यर्थादिधातुभिन्नपचादिधात्वर्थकर्तुः कर्मत्वविधायकानुशासनाभावाद् न ताद शकर्तृवाचकपदाद् द्वितीयापत्तिरिति न 4. पाचयत्यन्नं सहायम् इत्यादयः प्रयोगाःसहायादिपदादत्र द्वितीयाविधायकसूत्राभावात् किं तु ' पाचयत्यन्नं साहायेन ' इत्येवमेव प्रयोग इत्यर्थः । मतान्तरमाह--- केचित्विति, ' पाचयत्योदनं सहायम्' इत्यादौ पाककर्तुः सहायस्य पाकादिनिरूपित कर्मत्वाभावेपि ण्यन्तसमुदायस्यापि ' पाचयति । इत्यादेर्धातुत्वेन व्यन्तधात्वर्थनिरूपितं तु सहायादेरपि कर्मत्वमस्त्येवेति तादृशकर्मत्वमाश्रित्य द्वितीयापत्त्या 'पाचयत्योदनं सहायम्' इत्यादयोपि प्रयोगाः साधव एवेत्यर्थः । अत्र प्रमाणमाह-- श्रत एवेति, अत एव = अण्यन्तावास्थायाः सहायादेः कर्तुर्ण्यन्तावस्थायां कर्मत्वस्य सर्वत्र - साधुत्वादेव " अजिग्रहतं जनको धनुस्तत्" इत्यत्र भट्टिकारेणाऽप्यन्तावस्थायाः कर्तुस्तत्पदवाच्यस्य व्यत्तावस्थायां कर्मत्वमाश्रित्य तम् ” इति द्वितीयान्तप्रयोगः कृतः, अन्यथा ' तेन ' इति प्रयुक्तं स्यादित्यर्थः । ननु यदि सर्वत्रैवाऽप्यन्तावस्थायाः कर्तुर्ण्यन्तावस्थायां कर्मत्वं स्यात्तदा गतिबुद्धि " इत्यादिसूत्रस्य किं फलमित्याशङ्क्याह - गतिबुद्धीति, " गतिबुद्धि " इतिसूत्रम् ' गत्यर्थादिधातुयोगेऽप्यन्ता " Aho Shrutgyanam" 66 Page #268 -------------------------------------------------------------------------- ________________ ( २५६ ) सादर्श: [ द्वितीयाकारकप्रथमखण्डे - द्वि० " इत्यादिसूत्रं च नियमपरतया गत्यर्थधातुयोगे कर्तृप्रत्ययाऽसाधुत्वज्ञापकम्, तेन ' पाचयत्योदनं सदायेन ' इत्यादिवत् 'अजया ग्रामं गमयति' इत्यादयो न प्रयोगा इत्याहुः । 77 एषामयमाशयः - " हेतुमति च इत्यनुशासनाद् णिजय हेतुकर्तृत्वं त स्वतन्त्रकर्तृप्रेरणा अन्यनिष्ठ कर्तृत्वनिर्वाहकव्यापाररूपा, कर्तृत्वं कचित् प्रयत्नः क्वचिदाश्रयत्वादिकम् । यादृशधातूत्तराख्यातेन यादृशं कर्तृत्वं बोध्यते तदुत्तरणिच्प्रत्ययेन तादृशकर्तृत्वनिर्वाहकव्यापारो बोध्यते, अत एव 'पाचयति' इत्यादौ पाकादिकृतिनिर्वाहकः, ' ज्ञापयति' इत्यादौ ज्ञानाश्रयत्वनिर्वाहकः, ' नाशयति' इत्यादौ नाशप्रतियोगित्वनिर्वाहको व्यापारः प्रतीयते । निर्वाहकत्वं च स्वरूपवस्थायाः कर्तुर्ण्यन्तावस्थायां कर्मत्वमेव भवति तेन च तद्वाचकपदात् तृतीयादिः कर्तृप्रत्ययो न भवति कर्मप्रत्ययो द्वितीयैव भवति ' इति नियमपरमस्ति तस्मात् ' अजया ग्रामं गमयति इति प्रयोगो नैव भवति किं तु ' अजां ग्रामं नयति ' इत्येव प्रयोगो भवति, गत्यर्थादिधातुमिनधातुयोगे त्वऽण्यन्तावस्थायाः कर्तुर्ण्यन्तावस्थायां कर्तृत्वमपि भवति कर्मत्वमपि भवति तेन पाचयत्योदनं सहायम्' इत्यपि प्रयोगो भवति ' पाचयत्योदनं सहायेन प्रयोगो भवतीत्यर्थः । 3 इत्यपि ८ उक्तमतावलम्बिनामभिप्रायं वर्णयति - एषामित्यादिना, हेतुमति च " इतिसूत्रेण विजर्थो हेतुकतृत्वम् = प्रयोजक कर्तृत्वमिति प्रतिपाद्यते तच हेतुकर्तृत्वमन्यनिष्ठ = प्रयोज्यवृद्धनिष्ठ कर्तृत्वस्य निर्वाहिका व्यापाररूपा स्वतन्त्रकर्तुः = प्रयोजकवृद्धस्य या प्रेरणा तद्रूपमेव कर्तृत्वं च कचित् प्रयत्नः = कृतिरेव यथा ' भोजयति' इत्यादौ भोजनानुकूलकृतिमत्त्वमेव कर्तुत्वम्, कचिद कर्तृत्वं धात्वर्थाश्रयत्वमेव यथा ' ज्ञापयति' इत्यादी ज्ञानाश्रयत्वमेव कर्तृत्वम्, आदिपदात् प्रतियोगित्वमपि कर्तृत्वं यथा नाशयतीत्यत्र, तथा च प्रयोज्यवृद्धनिष्ठकर्तृत्वनिर्वाहको यः प्रयोजकवृद्धनिष्ठव्यापारः स एव हेतुकर्तृत्वं तदेव च णिजर्थ इति यादृशधातूत्तराख्यातेन यादृशं कर्तृत्वं बोध्यते तदुत्तरणिच्प्रत्ययेन तादृशकर्तृत्वनिर्वाहकव्यापारो बोध्यते यथा # भोजयति ' इत्यत्र भुजधातूत्तराख्यातेन भोजनानुकूलकृतिमत्त्वरूपं कर्तृत्वं बोध्यते इतितदुत्तरः- तादृशधातूत्तरणिच्प्रत्ययेनापि भोजनानुकूलकृतिमत्त्वरूप कर्तृत्वस्यैव निर्वाहको व्यापारों बोध्यते 'ज्ञापयति' इत्यत्र च ज्ञाधातूत्तराख्यातेन ज्ञानाश्रयत्वरूपमेव कर्तृत्वं बोध्यते इति तदुत्तरणिच्प्रत्ययेनापि ज्ञानाश्रयत्वरूपकर्तृत्वस्यैव निर्वाहको व्यापारो बोध्यते एवमेव युक्त वादित्याह - यादृशेति । उक्तं स्वयमेवोदाहरति- अत एवेति, अत एव = उक्तयादृशेत्या - दिनियमादेव । व्यापारः - णिजर्थव्यापारः । ' नाशयति' इत्यत्र नाशप्रतियोगित्वमेव नाशक तृत्वमिति पूर्वमेव (२५४५०) उक्तम् । “ तादृश कर्तृत्व निर्वाहकव्यापारः" इत्यनेन यत् प्रयोजकवृद्धव्यापारस्य प्रयोज्यवृद्धनिष्ठ कर्तृत्वनिर्वाहकत्वमुक्तं तत्र निर्वाहकत्वस्वरूपमाह - निर्वाहकत्वं चेति, " Aho Shrutgyanam" Page #269 -------------------------------------------------------------------------- ________________ णिजन्त प्रयोगविचारः 1. व्युत्पत्तिवादः । ( २५७ ) संबन्धविशेषो न तु जनकत्वम् अतो न ' नाशयति ' इत्यादावन्वयानुपपत्तिः एवं च ण्यन्तधातुप्रतिपाद्यतावच्छेदकं फलं कर्तृत्वमेव- निर्वाह्यस्यैव फलत्वात् तदाश्रयतया स्वतन्त्रस्य कर्तुः कर्मता. तादृशफल विशेषणतयाऽस्वतन्त्रकर्तृवृत्तित्वविवक्षायाम् ' पाचयत्योदनं सहायम् ' इत्यादयः प्रयोगाः । यदा तु पाकादिविशेपणतया सहायादिकर्तृत्वं विवक्षितं तदा ' पाचयत्योदनं सहायेन ' इत्यादयः । अथ यत्र चैत्रमैत्रोभयकर्तृक एक एव पाकस्तत्र चैत्रमात्रं प्रयोजयति यज्ञदत्ते मैत्रेणानं पाचयति ' इतिप्रयोगापत्तिरिति तत्रापि व्यर्थकृतावेव तृतीयान्तातच निर्वाहकत्वं स्वरूपसंबन्धविशेष एव न तु कर्तृत्वजनकत्वं निर्वाहकत्वमित्यर्थः । अस्य फलमाह - अत इति, यदि जनकत्वमेव निर्वाहकत्वं स्यात्तदा नाशयति इत्यत्र नाशप्रतियोगित्वमेव कर्तृत्वमस्ति न च नाशप्रतियोगित्वं णिजन्तकर्तृव्यापारजन्यमस्ति तस्य घटे स्वतः सिद्धत्वादेवेत्यत्र णिजन्तकर्तृव्यापारस्य नाशप्रतियोगित्वरूपकर्तृत्व निर्वाहकत्वं न स्यादिति निर्वाहकत्वं जनकत्वं किं तु स्वरूपसंबन्धविशेष एव तस्य तु ' नाशयति इत्यादावप्यनुपपत्तिर्नास्त्येवेत्यर्थः । उपसंहरति- एवं चेति, यदेव निर्वाह्यं तदेव फलं भवति निर्वाह्यं चात्र व्यन्तत्रात्वर्थता - बच्छेदकं प्रयोज्यवृद्धनिष्ठं कर्तृत्वमेवेति तदेवात्र फलमस्ति, फलाश्रयस्य च कर्मत्वं भवतीति तदाश्रयतया=फलभूतकर्तृत्वाश्रयतयाऽस्वतन्त्रस्य कर्तुः = प्रयोज्य वृद्धस्य कर्मत्वं प्राप्तं तथा च यदाऽस्वतन्त्र कर्तृवृत्तित्वं तादृश ( कर्तृत्वरूप ) फलविशेषणं भवति अर्थात् यदा सहायवृत्तिपाकानुकूलकृत्यनुकूलव्यापारवानित्येवं कर्तृत्वरूपफलस्य प्रयोज्यवृद्धवृत्तित्वेन विवक्षा भवति तदा कर्तृत्वरूपफलाश्रयत्वेन द्वितीयापत्त्या ' पाचयत्योदनं सहायम् ' इत्येवं प्रयोगो भवति, यद च सहायकर्तृकपाकानुकूल कृत्यनुकूलव्यापारवा नित्येवं सहायादिरूपप्रयोज्यवृद्धनिष्ठ कर्तृत्वं पाकादिविशेषणं भवति तदा पाकादिव्यापारविशेषणीभूतस्य कर्तृत्वस्य फलत्वासंभवात् तदाश्रयीभूतवाचकसहायपदात् तृतीयैव स्यान्न द्वितीयेति ' पाचयत्योदनं सहायेन ' इति प्रयोगो भवतीत्यर्थः । 61 अस्त्रतन्त्र कर्तृवृत्तित्वविवक्षायाम् " इति षष्ठीतत्पुरुषः - अस्वतन्त्र कर्तृवृत्तित्वस्य तादृशफलविशेषणतया विवक्षायामित्यर्थः । , ८ ननु यदुक्तम् यदा तु पाकादिविशेषणतया सहायादिकर्तृत्वं विवक्षितं तदा 'पाचयत्योदनं सहायेन ' इत्यादयः " इति तत्र यत्र चैत्रमैत्रोभयकर्तृक एक एव पाकस्तत्रोभयकर्तृकपा के उभयनिष्ठ कर्तृत्वस्य विशेषणत्वं स्यादेव निरूपकतासंबन्धेन (पाकस्य कर्तृल निरूपत्वात् ) तथा च तत्र चैत्रमात्रं प्रयोजयति यज्ञदत्ते ' मैत्रेणानं पाचयति । इत्यपि प्रयोगः स्यादेव- मैत्रनिष्ठकर्तृत्वस्यानि पाके विशेषणत्वाद् यन्निष्ठव र्तृत्वस्य पाके विशेषणत्वं तद्वाचकपदात्तृतीयायास्वया व्यवस्थापित्वाद् न च चैत्रमात्रं प्रयोजयति यज्ञदत्ते 'मैत्रणानं पाचयति ' इति प्रयोग इष्ट इयभिप्रायेणाशङ्कते - अथेति । किं च " तादृशफल विशेषणत्याऽस्वतन्त्र कर्तृवृत्तित्व विवक्षायाम् * पाचयत्योदनं सहायम्' इत्यादयः प्रयोगाः " इत्युक्तदिशा यथा ' मैत्रमन्नं पाचयति ' • १७ 66 # "Aho Shrutgyanam" Page #270 -------------------------------------------------------------------------- ________________ (२५८) सादर्श:- [द्वितीयाकारकप्रथमखण्डेर्थमैत्रादिवृत्तित्वस्याऽन्वयो वाच्य एवं च ' मैत्रं पाचयति' इत्यादिवाक्यजन्यबोधाऽवैलक्षण्याद् द्वितीयातृतीययोस्तात्पर्यभेदेन व्यवस्थाया न संगतिरिति चेत?, न, अंगत्या तत्र पाकादिविशेषणकृतेः पारतन्त्र्येण व्यापारविशेषणीभूतणिज र्थकृतावऽभेदान्वयमुपगम्योक्तातिप्रसङ्गस्य वारणीयत्वात् , पदार्थैकदेशे कृती इत्यत्र फरभूतं यत् ण्यर्थकर्तृत्वं तस्य मैत्रवृत्तित्वेन तादृशक्तत्वे मैत्रवृत्तित्वस्यान्वयः प्राप्तस्तथैव तत्रापि= मैनेगानं पाचयति । इत्यत्रापि व्यर्थकृतिः ( ण्यर्थकर्तृत्वम् ) मैत्रे वर्तते एवेति ण्यर्थकृतौ तृतीयान्तपदार्थमैत्रवृत्तित्वस्यान्वयेनोभयोरप्युक्तवाक्ययोः समानबोधजनकत्वात् ' मैत्रमन्नं पाचयति । इतिवाक्यजन्यबोधापेक्षया ' मैत्रेगानं पाचयति । इतिवाक्यजन्यबोधस्य वैलक्षण्याभांबाद् द्वितीयातृतीययोर्या तात्पर्यभेदेन विवक्षाभेदेन व्यवस्थोक्ता तस्याः संगतिर्न संभवतीत्याशनाह तत्रापीति । यर्थकृतावेवेति-अन्यनिष्ठकर्तृत्वनिर्वाहकव्यापारो णिजर्थ इत्युक्तं तत्र यज्ञदत्तादिनिष्ठण्यर्थव्यापारनिर्वाह्यं यदन्य ( मैत्रादि ) निष्ठं कर्तृत्वं तस्यापि ज्यर्थकोटिप्रविष्टत्वाद् व्यर्थत्वमेव कर्तृत्वं च कृतिरेव ण्यर्थभूतमऽन्यनिष्ठकर्तृत्वं चात्र मैत्रनिष्ठमेव मैत्रस्यात्र ज्यर्थव्यापारकर्तयज्ञदत्तापेक्षयाऽन्यत्वादिति ण्यर्थकृतौ तृतीयान्तार्थमैत्रवृत्तित्वस्यान्वयो ज्ञेय इत्यर्थः । परिहरंति- नेति, अगत्येति, पाकविशेषगीभूतकृतेः णिजर्थव्यापारविशेषणीभूतकृतावभेदान्वयस्वीकारण उक्तातिप्रसङ्गस्य-यत्रोभयकर्तृक एक एव पाकस्तत्र चैत्रमानं प्रयोजयति सति यज्ञदत्ते 'मैत्रेणानं पाचयति । इतिप्रयोगापत्तिनिवार्यते तथा हि- यत्रोभयकर्तक एक एवं पाकस्तत्र पाकविशेषणीभूता कृतिः ( कर्तृत्वम् ) तु यद्यप्युभयोरपि चैत्रमत्रयोर्वर्तते तथापि प्रेरकेण यज्ञदतन प्रेरणा तु चैत्रमात्रं प्रत्येव क्रियते न तु मैत्रं प्रत्यपि तथा च णिजों योऽन्यनिष्ठकर्तत्वमिहिकप्रैस्णारूपव्यापारस्ताहशव्यापारविशेषणीभूतों या णिजथैकृतिः सा तु चैत्र एवं वर्तते न मैत्रे तथा च चत्रवृत्तिणिजर्थकृतावेव पाकविशेषणीभूतकृतेरऽभेदान्वयः संभवतीति · चैत्रेणानं पाचयति । इत्येव प्रयोगो भवति, मैत्रे तु तादृशदशायां गिजर्थकृतिरेव नास्ति येन तस्यां पाकविशेषणीभूतकृतेरभेदान्वयः स्यादिति न चैत्रमात्रं प्रयोजयति यज्ञदत्ते 'मैत्रेणान्नं पाचयति । इति प्रयोगापत्तिरित्यर्थः । यनिष्ठणिजर्थव्यापारविशेषणीभूतकृती पाकादिकृतेरभेदान्वयः स्यातद्वैचिकैचैत्रादिपदादेव तृतीया भवस्यऽन्यत्रद्वितीयेति यावत् । अत्र च कृतिः कर्तृत्वमेव पाकविशेषणीभूता कृतिहि पाकप्रयोजिकव कृतिरस्ति तादृशकतेरेव णिजर्थव्यापारो निर्वाहक इति गिजर्थव्यापारविशेषणीभूतकृतेः पाकादिविशेषणीभूतकृतेश्चाभेदो जात इत्यभेदान्वय उक्तः । मनु " पदार्थः पदार्थेनान्चेति न तु पदार्थैकदेशेन " इतिनियमात् णिजर्थव्यापारविशेषणीभूतोक्तणिजयंकृतिः पदार्थैकदेश एवेति तत्र पाकविशेषणीभूतकृतेः कथमन्वयः स्यादित्याश झ्याह- पदार्थकदेशेति, पारतन्त्र्येण धर्मिभूतपाकद्वारा पाककृतैरपि पदार्थैकदेशभूतणिजर्थव्यापार विशेषणीभूतकृतावन्वये न कोपि दोषः- 'पाचयति ' इत्यत्र पाकानुकूला या कृतिस्ताशतिनिर्वाहकव्यापारवान् इति बोधोदयात् पायानुकूला कृतिः पाके पाको णिजयकृतौ सा "Aho Shrutgyanam" Page #271 -------------------------------------------------------------------------- ________________ णिजन्तप्रयोगविचारः घ्युत्पत्तिवादः । पाकादेखि कृतेरप्यन्वयो व्युत्पत्तिवैचित्र्यात् । वस्तुतः कर्तृत्वं व्यापारश्च प्रथगेव णिजर्थः, विशिष्टलाभोऽन्वयबलात् । __केचित्तु-- अनुकूलव्यापार एव णिजर्थः, तदन्वयिनी गमनज्ञानभोजनादिकि यैव धात्वर्थतावच्छेदकं फलम् , तत्संबन्धिनस्तादृशक्रियाकर्तुयॆन्तकर्मता, तादृशक्रियासंबन्धश्वाऽऽश्रयत्वकृतिमत्त्वाचन्यतमो ग्राह्यः. अतो गमनादिसंबन्धिकालादौ नातिप्रसङ्ग इत्याहुः । अत्र च तादृशकर्मतावाचकपदात् कदाचिद् द्वितीया कदाचिद् तृतीयेत्यत्र नियामकाभावः-तादृशपदोत्तरयोस्तयोस्तुल्यार्थकतया विवक्षाभेदरूपनियामकाभावादिति तु चिन्तनीयम् । च णिजर्थव्यापारे विशेषणमितिपरम्परा । धर्मिपारतन्त्र्येणापि पदार्थ कदेशेऽन्वयानङ्गीकारे पक्षान्तरमाह- वस्तुत इति, विशिष्टस्थाऽन्यनिष्ठकर्तृत्वनिर्वाहकव्यापारस्य णिजर्थत्वं यदुक्तं तनास्ति किं तु कर्तृत्वं ( कृतिः ) व्यापारश्च पृथगेव णिजर्थ इति णिजयंकृतेः पदार्थत्वमेव प्राप्तं न पदाथैकदेशत्वं येन तत्र पाकविशेषणीभूतकृतेरभेदान्वये उक्ते कोपि दोषः स्यादित्यर्थः । शाब्दबोधे ताशकर्तत्वविशिष्टव्यापारस्य प्रतीतिस्त्वन्धयबलात् आकाङ्क्षाबलादपि संभवत्येवेति न कर्तृत्वविशिष्टव्यापारस्य ( विशिष्टस्यान्यनिष्ठकर्तृत्वनिर्वाहकव्यापारस्य ) णिजर्थत्वं वक्तव्यमित्याह-विशिष्टेति । द्वितीयातृतीययोर्नियमस्त्विदानी पूर्वोक्तया "तादृशफलविशेषणतया" इतिरीत्यैव ज्ञेयः । णिजथै मतान्तरमाह-केचित्विति, अनुकूलव्यापार:= गमयति ' इत्यादौ गमनाथनुकूलव्यापारो णिजर्थस्तत्र गमनादिव्यापारस्तु धात्वर्थ एव पारिशेष्यादनुकूलव्यापार एव णिजर्थः, तदन्वयिनी-णिजर्थव्यापारान्वयिनी । धात्वर्थतावच्छेदकं च फलं भवति अत्र च णिजन्तधात्वर्थों गमनाद्यनुकूलव्यापार एवेति गमनादिक्रियाया धात्वर्थतावच्छेदकत्वम्-णिजन्तधात्वर्थविशेषणत्वं प्राप्तमिति — गमयति । इत्यादी णिजन्तस्य गमनादिक्रियैव फलं तत्संबन्धिनः तादृशक्रियारूपफलसंबन्धिनः ( समवायिनः) तादृशक्रियाकर्तुः गमनादिक्रियाकर्तुः 'अजां ग्रामं गमयति , इत्यादावऽजादिपदार्थस्य ण्यन्तकर्मत्वं प्राप्तम्, तादृशक्रियासंबन्धः फलीभूतगमनादिक्रियायाः संबन्धश्चाश्रयत्वादिरेव पाह्यः-अर्थात् अजादौकृतिमत्त्वसंबन्धेन फलीभूतगमनादिक्रियाया अन्वयो ज्ञेयः, अजादौ गमनाद्यनुकूलकृतिमत्त्वमस्त्येव, अन्यथा गमनादिरूपं फलं कालिकसंबन्धेन गवादावप्यस्त्येवेति गवादेरपि णिजन्तकर्मत्वं स्यात्, कृतिमत्त्वादिसंबन्धेन तु गमनादिरूपं फलं गवादी कालादौ वा नास्तीति नातिप्रसा: कालादेर्गवादेर्वा कर्मत्वापत्तिर्नास्तीत्यर्थः । 'ज्ञापयति' इत्यादी ज्ञानादेराश्रयत्वं संबन्धः शिष्यादौ ज्ञेयः । अस्मिन् मते दोषमाह-अत्र चेति, 'पाचयति' इतिणिजन्तधात्वर्थनिरूपितकर्मत्वं प्रयोज्यस्य मैत्रस्य प्राप्तं तत्र "मैत्रमन्नं पाचयति । इत्येवं ताहशकर्मतावाचकपदात् ण्यन्तधात्वर्थनिरूपितकर्मताविशिष्टवाचकमैत्रादिपदात् कदाचिद् द्वितीया भवति कदाचिच्च 'मैत्रेणान्नं पाचयति' इत्येवं तृतीया भवतीति तादृशद्वितीयातृतीययोर्नियामक किमपि नास्त्येवेति दोषः, उक्त हेतुमाह-ताशपदोत्तरेति, तादृशपदोत्तरयोः=ण्यन्तधात्वर्थनि "Aho Shrutgyanam" Page #272 -------------------------------------------------------------------------- ________________ ( २६० ) सादर्श: [ द्वितीयाकारकप्रथमखण्डे - अजा ग्रामं याप्यते चैत्रेण ' इत्यादौ चैत्रकर्तृकव्यापारनिर्वाह्य यद् ग्रामवृत्तिसंयोगानुकूलक्रियाकर्तृत्वं तदाश्रयोऽजा इतिबोधः, तत्र संयोगावच्छिन्नक्रिया धातुलभ्या, संयोगे ' ग्रामम् ' इत्यादिद्वितीयान्तार्थयामादिवृत्तित्वान्वयबलाद् ग्रामादिवृत्तिसंयोगावच्छिन्नक्रिया लभ्यते, ताहश्या णिजर्थकर्तृत्वेऽन्वयः । कर्माख्यातादिसमभिव्याहारनियन्त्रितव्युत्पत्तिबलाच्च तादृशक्रियान्वित कर्तृत्वं तृतीयान्तार्थचैत्रादिकर्तृत्वविशेषितव्यापाररूपाऽपरणिजर्थेन निर्वाह्यत्व संबन्धेन विशेषितम् अजादिरूपकर्मी भूतकर्तरि तद् विशेषणीभवदाख्यातार्थाश्रयत्वे विशेपणतया भासते । L LE रूपितकर्मताविशिष्टवाचक मैत्रादिपदोत्तरं वर्तमानयोस्तयोः द्वितीया तृतीययोस्तुल्यार्थकतया विवक्षाभेदस्यापि नियामकत्वं न संभवति, यदि तुल्यार्थकत्वं न स्यात्तदा विषक्षाभेदस्य नियामकत्वं स्यादपि न चैवमस्तीत्यर्थः । अत्र केचित्तु मते यः खलु अत्र च " इत्यादिना दोषः प्रदर्शितस्तमुद्दिश्याह भट्टाचार्य : - इति तु चिन्तनीयमिति, तथा च यथा समानार्थकयोरपि घटकलशपदयोर्विवक्षाभेदेन प्रयोगव्यवस्था तथात्रापि समानार्थकत्वेपि द्वितीयातृतीययोः प्रयोगव्यवस्था संभवत्येवेत्यर्थः । यगन्तप्रयोगमुदाहरति--अजेति, अत्र प्राप्त्यनुकूलगमनकर्तृत्वमजायाः प्रापणकर्तुत्वं च चैत्रस्य तच्चाऽजानिष्ठं प्राप्यनुकूल क्रियाकर्तृत्वं चैत्रनिष्टप्रापणव्यापारनिर्वाह्यमस्ति तदाश्रयः= तादृशकर्तृत्वाश्रयोऽजेतिवाक्यार्थबोध: । नन्वत्र कर्माख्यातस्याश्रयत्वार्थकत्वादजायाः क्रियाकर्तृस्वाश्रयत्वसंभवेपि ग्रामवृत्तिसंयोगानुकूल क्रियाकर्तृत्वाश्रयत्वं कथं प्राप्तमित्याशङ्क्याह-तत्रेति, अत्र संयोगानुकूलक्रिया तु याधात्वर्थ एवेति धातुभ्यैव ' ग्रामम् ' इतिद्वितीयान्तपदसमभिव्याहाराच्च संयोगे ग्रामवृत्तित्वस्यान्वयो जात इत्येवंरीत्या ग्रामवृत्तिसंयोगावच्छिन्नक्रिया लभ्यते ताहश्याः =प्रामवृत्तिसंयोगानुकूलक्रियाया णिजर्थ कर्तृत्वे=चैत्रनिष्ठकर्तृत्वे निर्वाहकत्वसंबन्धेनान्त्रयःकर्तृत्वं कृतिरेव चैत्रनिष्ठकृतेरेवाऽजानिष्ठतादृशक्रिया निर्वाहकत्वात्, अजायां चाश्रयत्वसंबन्धेनान्वयः, अजानिष्ठ कर्तृत्वे ( कृतौ ) च जनकत्व संबन्धेनान्वय इत्यर्थः । उक्तवाक्यार्थघटकपदार्थान् प्रतिपादयति-कर्मेति, कर्माख्यातसमभिव्याहारव्युत्पत्तिबलात्=प्रथमान्तकर्मपदार्थ विशेष्यकबोधबलात्, तादृशक्रियान्वित कर्तृत्वम्= ग्रामवृत्तिसंयोगावच्छिन्न ( जनक ) क्रियया निरूपितत्वसंबन्धेनान्वितं कर्तृत्वं तृतीयान्तार्थो यचैत्रनिष्ठं कर्तृत्वं तादृशकर्तृत्वविशेषित: - निरूपकत्व संबन्धेन चैत्रनिष्टकर्तृत्वविशिष्टो यश्चैत्रनिष्ठोऽपरणिजर्थ : प्रापणरूपव्यापारस्तेन व्यापारेण च निर्वाह्यत्वसंबन्धेन विशेषितम् = विशिष्टम् ( एतद्व्यापारस्यैवोक्तकर्तृत्व निर्वाहकत्वात् ) अजादिरूपकर्मीभूतकर्तरि = कर्माख्यातकर्मीभूते धात्वर्थकर्तरि चाऽजापदार्थे तत् = उक्तविशिष्टकर्तृत्वं विशेषणीभवत् कर्माख्यातार्थभूते आश्रयत्वे विशेषणतया भासते - एतत्कर्तृत्वविशिष्टाश्रयत्वस्याजायां सत्त्वात् आश्रयत्वे कर्तृत्वं निरूपितत्संबन्धेन विशेषणमित्यर्थः । अत्र च पूर्वम् "कर्तृत्वं "Aho Shrutgyanam" Page #273 -------------------------------------------------------------------------- ________________ णिजन्तयगन्तप्रयोगाः] व्युत्पत्तिवादः। (२६१) ये तु “ गतिबुद्धि " इत्यादिसूत्रस्य संज्ञाविधायकत्वं वर्णयन्ति तेषामयमाशयः-व्यापार एव णिजर्थस्तत्र धात्वर्थक्रियायाः स्वकर्तृत्वनिर्वाहकत्वं संसर्गः, अतो न कर्तुः कर्मत्वं सूत्रान्तरप्राप्तम् ।। ___ याप्यते ग्राममजा ' इत्यादौ च स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धेन व्यापारविशेषितो धात्वर्थः कर्तृत्वेऽन्वेति. तच्चाश्रयत्वसंबन्धेनाऽजादौ विशेषण. तया भासते, तादृशव्यापारे तृतीयान्तार्थस्य चैत्रादिकर्तृत्वस्य धात्वर्थैकदेशे संयोगादिरूपफले च द्वितीयान्तार्थस्य ग्रामवृत्तित्वस्य विशेषणतया भानम् । व्यापारश्च पृथगेव णिजर्थः" इत्युक्तत्वाद् व्यापारस्याऽपरणिजर्थत्वं ज्ञेयं कर्तृत्वस्यापि णिजथत्वादिति । चैत्रनिष्ठप्रापणव्यापारनिर्वाह्या या ग्रामवृत्तिसंयोगानुकूला क्रिया तादशक्रियानुकूलकतस्वाश्रयत्ववती अजेतिशाब्दबोधः । "गतिबुद्धि " इतिसूत्रस्य केचिद् द्वितीयाविधायकत्वं वदन्ति, केचिच्च कर्मसंज्ञाविधायकत्वमेव वदन्ति कर्मसंज्ञायां प्राप्तायाम् “ कर्मणि द्वितीया " इत्यनेन द्वितीया स्वयमेव प्रापस्या तीति, तत्र द्वितीयमतं व्याख्यातुमुपक्रमते-ये स्विति । तत्र-णिजर्थव्यापारे । 'यापयति । इत्यादी धात्वर्थक्रियायाः प्राप्त्याद्यनुकूलक्रियायाः, स्वेति-स्वं प्राप्त्याद्यनुकूल क्रिया तादृशक्रिया निरूपितकर्तृत्वनिर्वाहकत्वं णिजर्थव्यापारेऽस्तीति तेन संबन्धेन णिजर्थव्यापारे तादृशक्रियाया 'अन्वय इत्यर्थः । अत इति-यतो व्यापारमात्रं णिजर्थोऽतो धात्वर्थक्रियाकर्तुरजादेः कर्मत्वं न सूत्रान्तरमाप्तमिति “ गतिबुद्धि " इति सूत्रेण विधीयते इत्यर्थः । यदि धात्वर्थक्रियानुकूलन्या, पारो णिजर्थः स्यात्तदा धात्वर्थक्रियाया व्यापारावच्छेदकत्वेन फलत्वं स्यात् तादृशफलीभूतक्रियाश्यत्वेनैवाजादीनां कर्मत्वं प्राप्नुयात् फलाश्रयस्यैव कर्मत्वादिति " गतिबुद्धि." इतिसूत्रेण कर्मसंज्ञाविधान न स्यात्, यदा च व्यापारमानं णिजर्थस्तदा धात्वर्थक्रियाया णिजर्थव्यापारावच्छेदकत्वाभावेन फलत्वाभावात्तादृशक्रियाश्रयत्वेनाऽजादीनां कर्मत्वं न संभवतीति “गतिबुद्धि" इतिसूत्रेण तत् कर्मत्वं विधीयते इतिभावः । ___ उक्तमतेन — अजा ग्रामं याप्यते ' इत्यस्य पदार्थानाह-याप्यत इत्यादिना, स्वं णिजर्थच्यापारस्तादृशव्यापारनिर्वाह्य यदजानिष्ठं कर्तृत्वं तादृशकर्तत्वनिरूपकत्वं संबन्धभूतं धात्वर्थेअजानिष्ठप्राप्त्यनुकूलक्रियायामस्तीति स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धेन णिजर्थव्यापारो धात्वर्थे वर्तते व्यापारविशिष्टतादृशधात्वर्थस्य चाजानिष्ठकर्तृत्वे निरूपितत्वसंबन्धेनान्वयः कर्तृत्वस्यैतादृशधात्वर्थनिरूपितत्वात्, तच्च उक्तविशिष्टकर्तृत्वमाश्रयतासंबन्धेनाऽजायां विशेषणमित्यन्वयः । ताहशेति- तादृशव्यापार-उक्तधात्वर्थविशेषणीभूतणिजर्थव्यापारे तृतीयान्तार्थचैत्रनिष्ठकर्तृत्वं निरूपकत्वसंबन्धेन विशेषणमस्ति, धात्वर्थेकदेशे संयोगरूपफले च द्वितीयान्तार्थप्रामवृत्तित्वमाश्रयतासंबन्धेन विशेषणमस्तीत्यन्वयः, याधारवर्थस्य संयोगानुकूल क्रियारूपत्वासंयोगस्य धात्वर्थंकदेशत्वं विज्ञेयम् । नन्वजादावाश्रयत्वसंबन्धेन यत् कर्तृत्वं भासते तत् कस्यार्थ इत्याशङ्क्याह "Aho Shrutgyanam Page #274 -------------------------------------------------------------------------- ________________ (२६२) सादर्श:- [द्वितीयाकारकप्रथमखण्डेण्यन्तोत्तराख्यातस्यापि कर्तृत्वमेवार्थः, तत्र च तस्य वृत्तिः क्लुप्तेव, तन्चोक्तस्य धात्वर्थस्य विशेष्यतया प्रथमान्तपदार्थस्य च विशेषणतया भासते । "न च यक्समभिव्याहृताख्यातोपस्थाप्यकर्तृत्वस्यान्वयबोधोपगमे 'गम्यते चैत्रः' इत्यतोपि गमनकर्ता चैत्र इत्यन्वयबोधः स्यादिति वाच्यम्, ण्यन्तोत्तस्य. क्समभिव्याहृताख्यातस्यैव कर्तृत्वान्वयबोधनियामकत्वात् ।। अथैवमपि ' अजा याप्यते' इत्यादौ कर्तृत्वस्याख्यातबोध्यत्वे " करि शप् इत्यपवादविषयतया यकोऽसाधुतापत्तिः । न च यादृशधातूत्तरं यत् सार्वधातुकं विहितं तादृशधात्वर्थनिरूपितकर्तृत्वस्य तेन विवक्षायामेव “ कर्तरि ग्यन्तोत्तरेति, ण्यतोत्तराख्यातस्यापि कर्तृत्वमेवार्थस्तदेवाख्यातार्थभूतं कर्तृत्वमत्राऽजायामाश्रयतासंबन्धेन विशेषणतया भासते, याप्यते इति च णिजन्तयगन्तप्रयोगः । तत्र कर्तृत्वे । तस्य= ग्यन्तोत्तराख्यातस्य । तत् कर्तृत्वं चोक्तस्य-णिजर्थव्यापारविशेषितस्य धात्वर्थस्य विशेष्यतया भासते-णिजर्थव्यापारविशिष्टधात्वर्थस्य कर्तृत्वेन्वयस्थोक्तत्वात्, तदेव कर्तृत्वं प्रथमान्ताऽजादिपदार्थस्य विशेषणतया भासते-आश्रयत्वसंबन्धेन कर्तृत्वस्थाजादावन्वयस्योक्तत्वात्,' चैत्रवृत्तिकर्तृत्वनिरूपको यो णिजर्थव्यापारस्तादृशव्यापारेण स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धेन विशिष्टो मो- प्रामवृत्तिसंयोगानुकूलगमनव्यापारस्तदनुकूलकृतिमती अजा ' इतिशाब्दबोधोदयात्, चैत्रवृत्तिकर्तृत्वनिरूपकप्रापणव्यापारविशिष्टप्रामसंयोगानुकूलगमनानुकूलकृतिमती अजेति यावत् । भपिशब्दाचैत्रादिपदोत्तरतृतीयाया अपि कर्तृत्वमेवार्थस्तस्य च निरूपकत्वसंबन्धेन णिजर्थव्यापारेडक्य उक्त एवेत्यर्थः । । ननु यदि त्वदुक्तरीत्या ' याप्यते ग्राममजा' इत्यत्र यक्समभिव्याहृताख्यातोपस्थाप्यकर्तृत्वस्याजादावाश्रयत्वसंबन्धेनान्वयः स्यात्तदा 'गम्यते चैत्रः । इत्यत्रापि यक्समभिव्याहृताख्यातोपस्थाप्यकर्तृत्वस्याश्रयत्वसंबन्धेन चैत्रेऽन्वयापत्त्या — गम्यते चैत्रः । इत्यनेन ‘गमनकर्ता चैत्रः ' इति शाब्दबोधः स्यात् समत्वादित्याशङ्क्याह-न चेति, परिहारमाह–ण्यन्तो: त्तरेति, ण्यन्तोत्तरयक्समभिव्याहृताख्यातस्थले.... एका जादौ कर्तृत्वस्याश्रयत्वसंबन्धनाऽन्वयो भवतीति नियमाद् न 'गम्यते चैत्रः' इत्यत्र चैत्रे कर्तृत्वान्वयापत्तिः-अत्र णिचोऽभावादित्यर्थः । अत्र तु चैत्रस्य कर्मत्वमेव । . ननु ( २६२ पृ० ) यदुक्तम्- " ण्यन्तोत्तराख्यातस्यापि कर्तृत्वमेवार्थः " इति तत्र : अजा याप्यते ' इत्यत्रापि यगन्तयन्तोत्तराख्यातस्य कर्तत्वमेवार्थः स्यात्तथा चाख्यातस्य कर्तृत्वार्थकत्वे "कतार शा" इत्यनेन शबेव स्याद् न तु यगिति तथा चात्र वर्तमानस्य यकोउसाधुत्वं स्यादित्याशङ्कते--अथेति । ननु यादृशयादिधातूत्तरं यत्-तिङादि सार्वधातुकं ( प्रत्ययः ) विहितं स्यात् तादृशधात्वर्थनिरूपितकर्तृत्वस्य-तिङादिप्रकृतिभूतधात्वर्थनिरूपितकर्तृत्वस्य तेन तिहादिना विवक्षायामेव शबादिर्भवति यथा — भवति ' इत्यत्र "Aho Shrutgyanam" Page #275 -------------------------------------------------------------------------- ________________ णिजन्तयगन्तप्रयोगः ] व्युत्पत्तिवादः। (२६३) शप्" इत्यादेः शबादिविधायकत्वात् . प्रकृते ण्यन्तसमुदायोत्तरमेवाख्यातं तेन तदर्थनिरूपितकर्तृत्वं च न बोध्यते. अपि तु ण्यर्थविशेषितधात्वान्वितकर्तृत्वमेवेति न तादृशापवादविषयतेति वाच्यम्, कर्माख्यातस्थले विशेष्यविशेषणमाववैपरीत्येन व्यापारविशेषितक्रियाया अपि ण्यन्तधात्वर्थत्वात् ।। मैवम्- लकारसामान्यवृत्त्या यत्र कर्तृत्वं प्रतीयते तत्रैव "कर्तरि शप्" इत्यस्य शविधायकता, अत्र ( च) कर्मत्वसमशीले कर्तृत्वे आत्मनेपदत्वेन शक्तिः । वस्तुत:- फलव्यापारयोः पृथग् धात्वर्थतामते 'गच्छति' इत्यादाविव ' गम्यते' इत्यादावपि लकारेणाश्रयत्वरूपकर्तृत्वाभिधाने यगऽनुपपन्न तिप्रकृतिभूतभूधात्वर्थनिरूपितकर्तृत्वस्य विवक्षायां शप् भवति, प्रकृते= अजा याप्यते । इत्यत्र तु ण्यन्तसमुदायोत्तरमेवाख्यातमस्ति न तु केवलधातूत्तरमिति न तेन-आख्यातेन तिका तदर्थनिरूपितकर्तृत्वम् धात्वर्थनिरूपितकर्तृत्व बोध्यते किं तु स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धन ण्यर्थव्यापारविशिष्टो यो धात्वर्थस्तादृशधात्वर्थेन निरूपितत्वसंबन्धेन विशिष्ट यत् कर्तृत्वं तदेव बोध्यते इति नात्र तादृशापवादविषयता" कर्तरि शप्" इत्याद्यपवादविषयता, अत्रोक्तरीत्या शपः प्राप्तिरेव नास्ति येन यकोऽसाधुत्वं स्थादिति यावदित्याशझ्याह--- न चेति । परिहारमाह-कर्मेति, कोख्यातस्थले णिजर्थव्यापारस्यैव विशेष्यत्वं भवति कर्तर्यऽन्वयित्वात् कर्माख्यातस्थले च धात्वर्थस्यैव विशेष्यत्वं भवति कर्मण्यऽन्वयित्वादिति विशेष विशेषणभाववैपरीत्याद् विशेष्यभूतस्यैव समुदायार्थत्वाच स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धेन गिजर्थव्यापारविशिष्टायाः क्रियायाः धात्वर्थस्य ण्यन्तधात्वर्थत्वं प्राप्त तथा च ' याप्यते । इत्यत्राख्यातेन यदि प्यर्थविशेषितधात्वर्थान्वितकर्तवं बोध्यते तदा धात्वर्थक्रियानिलंपितकर्तृत्वमपि बोच्यते एथेति प्राप्तं धात्वर्थक्रियाया ण्यन्तधात्वर्थत्वादेव तथा चाख्यातप्रकृतिभूतधात्वर्थनिरूपितकर्तृत्वबोधनस्य शप्राप्तिकारणस्य सत्त्वात् शप्प्राप्त्यात्र यकोऽसाधुत्वं तदवस्थमेवेत्यर्थः ।। परिहरति-- मैवमिति, यथा ' भवति ' ' एधते' इत्यादौ: लकारसामान्यवृत्त्यैव कर्तत्वं प्रतीयते न त्वत्र लकारस्य परस्मैपदत्वेनात्मनेपदत्वेन रूपेण वा कर्तरि शक्तिरित्यत्र शब् भवति, अत्र' याप्यते । इत्यत्र तु कर्मणि यगस्तीत्यऽजावृत्तिकर्तत्वं कर्मत्वस्वरूपमेवास्तीति तादृशकतरि “भावकर्मणोः." इतिसूत्रेणात्मनेपदस्य प्राप्तत्वेनात्मनेपदत्वेनैव रूपेण लकारस्य कर्तृत्वे शक्तिरस्ति न तु लत्वेन रूपेणेति नायं शविषयो येन यकोऽसाधुत्वं स्यादित्यर्थः । स्वाभिप्रायमाह- वस्तुत इति,फलव्यापारयोर्धातोरेव शक्तिस्वीकारे लकारस्य कर्तृत्वमेवार्थः स्यादिति यथा 'गच्छति' इत्यत्र लकारं कर्तृत्वाभिधायकमिति शबेव भवति न तु यक् तथा 'गम्यते । 'याप्यते ' इत्यादावपि लकारस्य कर्तृत्वाभिधायकत्वाच्छबेव स्यादिति यगऽनुपपत्ति: स्यात् तस्मात् ‘गच्छति' इत्यादौ परस्मैपदसमभिव्याहृतंधातुना यादृशः प्रामादिवृत्तिसंयोगाद्यनुकूलचैत्रादिवृत्तिव्यापाररूपो विशिष्टोर्थः प्रतिपाद्यते तादृशविशिष्टार्थेन प्रामादिवृत्तिसंयोगाय "Aho Shrutgyanam" Page #276 -------------------------------------------------------------------------- ________________ ( २६४ ) सादर्श: [ द्वितीयाकारकप्रथमखण्डे " इति परस्मैपदसमभिव्याहृतधातुना यादृशविशिष्टोर्थः प्रत्याय्यते तादृशावेशिष्टार्थान्वित कर्तृत्वाभिधानमेव शब्विषयः एवं च प्रकृतेपि नानुपपत्तिरिति ध्येयम् । ' ग्रामो याप्यते ' अर्थो बोध्यते ' इत्यादौ भावनाविशेष्यतया ग्रामादेर्भानेपि गमनादिकर्तुः कर्मत्वविवक्षायां तस्यैवाख्यातार्थविशेष्यतथा बोधों व्युत्पन्न: - " ण्यन्ते कर्तुश्च कमणः इत्यनुशासनात्, अतो अजां ग्रामो याप्यते : शिष्यमथ बोध्यते ' इत्यादयो न प्रयोगाः । ग्रामो याप्यते अर्थो बोध्यते ' इत्यादी फलं विषयत्वादिरूपं च मुख्यभाक्तसाधारणं कर्मत्वमेवाख्यातार्थः । 4 फलव्यापारयोः पृथग् धात्वर्थतामते आश्रयत्वमेवाख्यातार्थः, धात्वर्थव्यापारनुकूलव्यापारेण धात्वर्थेन निरूपितत्वसंबन्धेन विशिष्टं यत् कर्तृत्वं तादृशकर्तृत्वस्याख्यातेनामिधाने एव शब् भवतीति प्रकृते = ' याप्यते ' ' गम्यते ' इत्यादौ चाख्यातेन 'गच्छति' इत्यादिपरस्मैपदस्थलीयकर्तृत्वसदृशकर्तृत्वं नाभिधीयते इति न शपः प्राप्तिरिति न यकोऽनुपपत्तिरित्यर्थः । ' अजां ग्रामो याप्यते ' ' शिष्यमर्थो बोध्यते ' इत्यादयः प्रयोगा न भवन्तीति प्रतिपादनार्थमाह- ग्राम इति, ' ग्रामो याप्यते ' इत्यादौ कर्माख्यातस्थले कर्मण एव ग्रामादेर्यद्यपि भावनाविशेष्यत्वमस्ति तथापि यदि गमनादिकर्तृवाचकमजादिपदं प्रयुक्तं स्यात्तदा तस्यैव = मनादिकर्तुरेव " ण्यन्ते कर्तुश्च कर्मणः " इत्यनुशासनबलादाख्यातार्थविशेष्यत्वं स्यात् - तत्रैव जायमानत्वात् । ण्यन्ते = ण्यन्तावस्थायां कर्तृभूते कर्मणि किं वा कर्मभूते कर्तरि लादयो भवन्तीत्यनुशासनार्थः । न च अजां ग्रामो याप्यते ' इत्यादौ गमनकर्तृभूताऽजाया आख्यातार्थविशेष्यत्वं संभवति तद्वाचकाऽजापदस्य प्रथमान्तत्वाभावादिति ' अजां ग्रामो याप्यते ' -इत्यादयः प्रयोगा न भवन्ति किं तु अजा ग्रामं याप्यते ' इति, तथा च अजा याप्यते ' ग्रामो याप्यते । अजा ग्रामं याप्यते ' इत्येवं प्रयोगास्तु भवन्ति, ' अजां ग्रामो याप्यते ' ८ “ C L ८ C 17 अजा ग्रामो याप्यते इत्यादयस्तु प्रयोगा न भवन्ति । एवमन्यत्रापि बोध्यम् ।' ग्रामो याप्यते इत्यादिस्थलीयाख्यातार्थमाह- ग्रामेति, विषयत्वादीत्यादिपदात् संयोगाद्याश्रयत्वं ग्राह्यं तथा च ' ग्रामो गम्यते ' इत्यत्र संयोगाश्रयत्वरूपं यत् फलम् अर्थो 'बोध्यते ' इत्यत्र च विषयत्वरूपं यत् फलं तत् कर्मत्वरूपमेत्र तदेवाख्यातार्थस्तदाश्रयत्वं ग्रामादौ ज्ञेयम् । मुख्यमाक्तसाधारणं विषयत्वादिरूपं कर्मत्वं फलमेवाख्यातार्थ इत्यन्वयः । परसमवेतक्रियाफलसंयोगादि ) शालित्वाद् ग्रामादीनां मुख्यं कर्मत्वम्, अर्थादीनां च भाक्तम् = औपचारिकं कर्मत्वं क्रियाजन्यफलशालित्वासंभवादित्यर्थः । 6 फलव्यापारयोरुभयोरपि पृथग् धात्वर्थतामते फलस्य धात्वर्थत्वमेव प्राप्तमिति पारिशेष्यादाश्रयत्वमेव ' मो याप्यते ' इत्यादावाख्यातार्थ इत्याह-- फलव्यापारयोरिति । ' ग्रामो याच्य "Aho Shrutgyanam" Page #277 -------------------------------------------------------------------------- ________________ कर्मभावयोः प्रयोगाः ] व्युत्पत्तिवादः। (२६५) विशेष्यतया तादृशाश्रयत्वविशेषणतया च धात्वर्थफलस्य भानम् । व्यर्थव्यापारस्य जन्यतासंबन्धेनैव धात्वर्थक्रियाज्ञानादिविशेषणत्वं पूर्ववदेव । 'अजां ग्रामो याप्यते ' इत्यादिकस्तु न प्रयोग:- द्वितीयया कर्मत्वबोधने धात्वर्थव्यापारविशेष्यतया ण्यर्थबोधसामय्याः प्रयोजकत्वात्, यगादिसमभिव्याहार. स्थले च धात्वर्थविशेषणतयैव ण्यर्थस्य बोधात् । ण्यन्तधातोः सकर्मकत्वे तदुत्तरभावाख्यातस्य " भावे चाकर्मकेभ्यः” इत्यनुशासनेनाऽसाधुत्वाच्च न ताशप्रयोगः । 'ग्रामो याप्यते इतिभावाख्यातप्रयोगस्त्विष्ट एव-ण्यन्तस्य इत्यादौ यानादिव्यापारजन्यसंयोगाश्रयो ग्राम इति बोधोदयाद् व्यापारः संयोगे संयो. गश्चाश्रयत्वे विशेषणविधया भासते इति धात्वर्थीभूतस्य संयोगादिरूपफलस्य व्यापारविशेष्यत्व. माख्यातार्थाऽऽश्रयत्वविशेषणत्वं च प्राप्तमित्याह- धात्वर्थेति । धात्वर्थीभूता गमनज्ञानादिरूपा यात्र क्रियास्ति सा णिजर्थव्यापारजन्यास्तीति जन्यतासंबन्धेन धात्वर्थक्रियायां णिजर्थव्यापारस्यान्वयो ज्ञेय इत्याह- ण्यर्थेति । पूर्ववदेव- । २६१पृ० ) स्वनिर्वाह्येत्यादि. नोक्तरीत्यैव । ' अर्थो बोध्यते ' इत्यत्र च व्यर्थव्यापारजन्यज्ञानजन्यविषयत्वाश्रयोऽर्थ इतिशाब्दबोधः । पूर्वोक्तं पुनः स्मारयति- . अजां ग्रामो याप्यते' इत्यादिकस्तु न प्रयोग इति । अत्र हेतुमाह- द्वितीययेति, यत्र णिजर्थव्यापारस्य धात्वर्थव्यापारविशेष्यतया बोधकसामग्री भवति तत्रैव द्वितीयया कर्मत्वबोधो भवति ( कर्मवाचकपदाद् द्वितीया भवति ) यथा - अजां ग्राम यापयति चैत्रः' इत्यत्राजावृत्तिव्यापारानुकूलव्यापारवांश्चैत्र इति बोधोदयाद् अजावृत्तिधात्वर्थव्यापारविशेष्यतया चैत्रवृत्तिणिजर्थव्यापारस्य भानं भवतीत्यत्र द्वितीयया कर्मत्वबोधो भवति ( कर्मवाचकाजापदाद् द्वितीया भवति । 'अजां ग्रामो याप्यते' इत्यत्र तु ( २६१ पृ.) उक्तरीत्या प्रत्युत णि नर्थव्यापारस्य धात्वर्थव्यापारे विशेषणत्वमेवास्ति न तु धात्वर्थव्यापारविशेष्यत्वमिति द्वितीयया कर्मत्यबोधनासंभवान द्वितीयाप्राप्तिरिति न 'अजां ग्रामो याप्यते' इत्यादिप्रयोगापत्तिरित्याह- यगादीति । 'अजां ग्रामो याप्यते ' इत्यस्याऽसाधुत्वे व्याकरणं प्रमाणयति..ण्यन्तधातोरिति," लाकर्मणि च भावे चाकर्मकेभ्यः " इतिसूत्रेण लकाराः सकर्मकधातुभ्यः कर्मणि कतरि च भवन्ति. अकर्मकधातुभ्यश्च भावे कर्तरि च भवन्तीति प्रतिपाद्यते इति सकर्मकधातुभ्यो भाये लकारा न भवन्तीति ण्यन्तसकर्मकधातुभ्योपि भावे लकारस्याऽसाधुत्वं प्राप्तम्, 'अजां ग्रामो याप्यते ' इत्यत्र च धातुः सकर्मक एवं ण्यन्त इति तदुत्तरभावाख्यातस्याप्यसाधुत्वं प्राप्तमेवेति तादृशप्रयोगः= अजां ग्रामो याप्यते ' इति प्रयोगो न भवतीत्यर्थः । ण्यन्तकर्मणो ह्यवियक्षायां तु सकर्मकण्यन्तधातूत्तरमपि भावाख्यातस्य साधुत्वमेवेत्याह- ग्राम इति, “ग्रामो याप्यते । इत्यत्र प्यन्तकर्मवाचकाऽजापदस्याऽसममिव्याहारात् सकर्मकण्यन्तयाधातूत्तरवर्तमानस्यापि भावाख्यातस्य साधुत्वमेव, ग्रामस्य तु न ण्यन्तकर्मता किं तु धात्वर्थकर्मतैव श्यन्तकर्म "Aho Shrutgyanam" Page #278 -------------------------------------------------------------------------- ________________ सादर्श: ( २६६ ) [ द्वितीयाकारकप्रथमखण्डे - कर्तृत्वकर्मत्वबोधकताया < ८ कर्मासमभिव्याहारात् । एकदा आख्यातस्याध्युत्पन्नतया 'अजा ग्रामो याप्यते इत्यादयो न प्रयोगाः । एवम् -' तण्डुलः सहायेन पाच्यते चैत्रेण ' इत्यादी धात्वर्थे सहायादिकर्तृकत्वस्य तद्विशेषणण्यर्यव्यापारे विशेषणतया च चैत्रादिकर्तृकत्वस्य तृतीयान्तार्थस्य बोधः, शेषं पूर्ववदिति दिक् । ग्रामं गच्छति ' इतिवत् ' स्वं गच्छति ' इतिप्रयोगवारणाय परसमवेतत्वमा द्वितीयार्थ इष्यते तस्य च धात्वर्थेऽन्वयः परत्वे चैकदेशेप्याऽऽकाङ्क्षावैचित्र्यात् प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः एवं च ग्रामं गच्छति चैत्रः " स्वं श्वजादीनामेव धात्वर्थकर्तृभूतानां स्यादित्यर्थः । अजा ग्रामो याप्यते इत्यस्याऽसाधुत्वं हेतुमाह - एकदेति, ' अजा ग्रामो याप्यते ' इत्यत्राख्यातेनैवैकदाऽजायाः कर्तृत्वं ग्रामस्य च कर्मत्वं बोधनीयं कर्मत्वबोधकद्वितीयाया अभावात् न चैकदैकप्रत्ययेनाख्यातादिनोभयार्थस्य कर्तृrashrat दिरूपस्य बोधनं संभवति - " सकृदुच्चरितः शब्दः सकृदर्थं गमयति " इति नियमा दित्यर्थ: । 'अजा ग्रामं याप्यते ' इत्यत्र तु प्रामस्य कर्मत्वं द्वितीयया बोध्यते इति नैकप्रत्ययस्य कर्मत्वकर्तृत्वोभयबोधकत्वापत्तिर्येनाऽसाधुत्वं स्यादित्यर्थः । तण्डुलः सहायेन पाच्यते चैत्रेण ' इत्यत्रत्यपदार्थानाह - एवमिति, अत्राख्यातस्य कर्मणि जातत्वात्तण्डुलविशेष्यक एवं बोधः, आख्यातार्थश्चाश्रयत्वं तथा च- ' चैत्रकर्तृकणिजर्थव्यापारप्रयोज्यो यः सहायकर्तृकपाकात्मकब्यापारस्तादृशव्यापारजन्यविक्त्रित्त्याश्रयस्तण्डुलः ' इति बोधोदयात् पूर्वपूर्वपदार्थस्योत्तरोत्तरपदार्थे विशेषणत्वाच धात्वर्थव्यापारे सहायकर्तृकत्वस्य विशेषणतया बोधः तद्विशेषणण्यर्थव्यापारे= arafaशेषणीभूतणिजर्थव्यापारे च तृतीयान्तार्थस्य चैत्रकर्तृकत्वस्य विशेषणतया बोधो भवति । षिम् आश्रयत्वमाख्यातार्थ इत्यादि सर्वं पूर्ववदेव विज्ञेयमित्यर्थः । 2 6 7 ग्राम निष्ठसंयोगस्य चैत्रेपि सत्त्वात् ग्रामं गच्छति ' इतिवत् ' चैत्रश्चैत्रं गच्छति ' चैत्रः स्वं गच्छति' इत्यादिप्रयोगः स्यादेवेति तद्वारणाय परसमवेतत्वमपि द्वितीयार्थ:, अर्थात् परसमवेतक्रियाफलशालित्वं कर्मत्वमिति वक्तव्यं तथा च ग्रामनिष्ठसंयोगजनक क्रियाया ग्रामान्य चैत्रसमतत्वेन मामस्य कर्मत्वापत्त्या ' ग्रामं गच्छति' इति प्रयोगो भवति चैत्रनिष्ठतादृशसंयोगजनकक्रियायाश्चैत्रे एव समवेतत्वेन चैत्रान्यसमवेतत्वाभावात् चैत्रस्य कर्मत्वानापत्त्या 'चैत्रः स्वं गच्छति' इत्यादयः प्रयोगा न भवन्तीत्याह- ग्राममिति । तस्य परसमवेतत्त्रस्य धात्वर्थे संयोगादिफलजनकक्रियायामन्त्रयः । तादृशपरत्वे च प्रकृत्यर्थस्य द्वितीयाप्रकृत्यर्थस्य ग्रामादेः प्रतियोगितया = प्रतियोगित्वरूपेण स्वप्रतियोगिकत्वसंबन्धेन चान्वयः - परत्वस्य भेदरूपत्वात् अभावे च प्रतियोगिनः स्वप्रतियोगिकत्व संबन्धेनान्वयस्य प्रतिपादितत्वादित्याह - परत्वेचेति । ननु पदार्थ : पदार्थेनान्वेति न तु पदार्थैकदेशेन " इति नियमादत्र द्वितीयार्थैकदेशे परखे प्रक्कृत्यर्थस्य कथमन्वयः स्यादित्याशङ्कयाह- एकदेशेपीति, आकाङ्क्षावैचित्र्यात= बोधवैचित्र्यादेकदेशेपि पदार्थान्तरान्वय इष्ट एवेति पूर्वं प्रतिपादितमित्यर्थः । ' ग्रामं गच्छति चैत्र: 2 ८८Page #279 -------------------------------------------------------------------------- ________________ स्वंगच्छत्तीत्यादिप्रयोगवारणम् ] व्युत्पत्तिवादः । (२६७) इत्यादी ग्रामभिन्नसमवेता ग्रामनिष्ठसंयोगजनिका या क्रिया तदाश्रयतावांश्चैत्र इत्यन्वयबोधः । स्वनिष्ठसंयोगजनकक्रियायां स्वभिन्नसमवेतत्वस्य बाधात् 'स्वमात्मानं गच्छति ' इति न प्रयोगः। यत्र चोभयकर्मभ्यां मलयोः संयोगस्तब मल्लान्तरसमवेतक्रियायाः स्वनिष्ठसंयोगजनिकायाः स्वभिन्नसमवेतत्वेपि तादृशक्रियाश्रयतायाः स्वस्मिन् बाधात् 'मल्लः स्वं गच्छति' इति न प्रयोगः। न च स्वनिष्ठसंयोगजनकस्वसमवेतक्रियायां स्वभिन्नसमवेतत्वस्याऽयोग्यतया तदऽभानेप्याबाधितं स्वनिष्ठसंयोगजनकत्वं विषयीकृत्य शाब्दबोधसंभवात् तदर्थमात्रतात्पर्येण 'वं गच्छति' इतिप्रयोगो दुर्वार एवेति वाच्यम , परसमवेतत्वांशाविषयकस्य द्वितीयाधीनफलजनकत्वबोधस्य कुत्राप्यनभ्युपगमेन तादृशबोधे तद्भासकसामय्या अप्यपेक्षणीयत्वात् । इत्यस्य वाक्यार्थमाह- एवं चेति । संयोगस्य द्विष्ठत्वेन ग्रामनिष्ठसंयोगस्य स्वनिष्ठत्वेपि तादृशस्वनिष्ठसंयोगजनकक्रियायां स्वान्यसमवेतत्वं नास्ति कर्मत्वं च स्वान्यसमवेतक्रियाजन्यसंयोगादिलशालिरवे एव भवतीति 'स्वमात्मानं गच्छति' इति प्रयोगापत्तिर्नास्तीत्युपसंहरन्नाह- स्वनिवेति । एककर्मजसंयोगस्थलीयातिप्रसङ्गं निवार्योभयकर्मजसंयोगस्थलीयातिप्रसङ्गनिवारणायाहपत्रेति, मल्लान्तरसमवेतक्रियायाः स्वनिष्ठसंयोगजनिकायाः स्वभिन्नसमवेतत्वेन तादृशक्रियाश्रयसाया: स्वनिष्ठसंयोगजनकक्रियाश्रयतायाः स्वस्मिन् बाधात् ' मल्लः स्वं गच्छति ' इति प्रयोगो म भवति--- संयोगस्योभयकर्मजत्वे स्वनिष्ठसयोगजनकक्रियाश्रयत्वं यस्मिन् स्यात् तस्यैव स्वापेक्षपा कर्मत्वसंभवाद् यथा चैत्रमैत्रोभयकर्मजसंयोगस्थले चैत्रनिष्ठसंयोगस्य मैत्रसमवेतक्रियाजन्यस्खे तादृशक्रियाश्रयत्वं मैत्रे एव स्यादिति मैत्रस्य कर्मत्वापत्त्या 'चैत्रो मैत्रं गच्छति । इति प्रयोगः संभवति, तथा' मैत्रश्चैत्रं गच्छति । इत्यपि । " स्वभिन्नसमवेतत्वेपि " इत्यत्र ' स्वभिन्नसमतत्वेन ' इति पाठो युक्तः । __ननु स्वनिष्ठसयोगजनिकायाः स्वसमवेतायाः क्रियायाः स्वस्मिन्नेव समवेतत्वेन परसमवेतत्वं न संभवतीति तत्र परसमवेतत्वस्याऽयोग्यतयाबाधात् तदभानेपिपरसमवेतत्यांशस्यामानेप्यऽबाधित यत् स्वनिष्ठसंयोगजनकत्वं तावन्मानं विषयीकृत्यापि स्वनिष्ठसंयोगजनकक्रियाश्रयतावांश्चैत्र इति शाब्दबोधसंभवात् तदर्थमात्रतात्पर्येण स्वनिष्ठसंयोगजनकत्वमात्रतात्पर्येण 'स्वं गच्छति । इति प्रयोगः स्यादेव- स्वसमवेतक्रियायाः स्वस्मिन्नपि संयोगजनकत्वात् तादृशसंयोगरूपफलशालिस्वेन स्वस्यापि कर्मवसंभवादित्याशझ्याह-न चेति । परिहास्माह- परसमवेतत्वेति, परसममेतत्वांशमविषयीकृत्य द्वितीयया कचिदपि धात्वर्थनिष्ठफलजनकत्वस्य बोधो न भवतीति तादृशबोधे द्वितीयाधीनफलजनकत्वबोधे तद्भासकसामग्या:-परसमवेतत्वांशमासकसामग्र्या अपेक्षा भवत्येव तथा च तादृशसामग्र्या परसमवेतत्वांशमाने जाते स्वस्य च स्वस्मात् परत्वाभावात् कर्मस्वानापत्त्या 'स्वं गच्छति । इति प्रयोगापत्तिर्नास्तीत्यर्थः । "Aho Shrutgyanam" Page #280 -------------------------------------------------------------------------- ________________ १२६८) सादर्शः [ द्वितीयाकारकप्रथमखण्डेअथ स्वस्यापि द्वित्वावच्छिन्नस्वभेदवत्त्वात् ' स्वं गच्छति ' इतिप्रयोगस्म दुरितया द्वितीयाप्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसंबन्धेनैव भेदेऽन्वयो वाच्यस्तथा च 'चैत्रो द्रव्यं गच्छति । 'मल्लो मलं गच्छति' इत्यादिवाक्यस्याऽप्रमाणतापत्तिः-चैत्रमल्लादिनिष्ठक्रियायाः प्रकृत्यर्थतावच्छेदकीभूतद्रव्यत्वमल्लत्वाद्यवच्छिन्नभिन्नाऽसमवेतत्वात, तत्तद्व्यक्तित्वानुपस्थितावपि शाब्दबोधोदयेन तत्तव्यक्तित्वावच्छिन्न प्रतियोगितासंबन्धेनाऽन्वयोपग द्वित्वावच्छिन्न प्रतियोगिताकभेदमादाय शङ्कते-अथेति, स्वस्य चैत्रस्य चैत्रप्रतियोगिकभेद. बत्त्वविरहेपि द्वित्वावच्छिन्नस्वभेदवत्त्वात्-चैत्रवटोभयभेदवत्त्वात् स्वस्मिन्नपि स्वभेदः प्राप्त इति स्वनिष्ठसंयोगजनकक्रियायाः स्वभिन्नस्वसमवेतत्वे प्राप्ते तादृशक्रियाजन्यसंयोगवत्त्वेन स्वस्यापि कर्मत्वापत्त्या ' स्वं गच्छति' इतिप्रयोगः स्यादेव तथा च द्वित्वावच्छिन्नस्वभेदमादाय प्राप्तस्य 'स्वं गच्छति' इतिप्रयोगस्य वारणाय परत्वरूपभेदे द्वितीयाप्रकृत्यर्थस्य ग्रामादेः प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसंबन्धेनान्चयो वाच्यः यथा 'ग्रामं गच्छति' इत्यत्र प्रकृत्यर्थतावच्छेदकं यद् ग्रामत्वं तादृशग्रामत्वावच्छिन्ना या ग्रामनिष्ठा भेदप्रतियोगिता तादृशप्रतियोगिताकत्वं भेदेस्तीति तादशप्रतियोगिताकत्वसंबन्धेन ( ग्रामस्थ ) भेदेऽन्वयो वक्तव्यस्तथा च स्वनिष्ठे द्वित्वावच्छिन्नस्वभेदे द्वित्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन स्वान्वयसंभवेपि स्वं गच्छति । इत्यत्र प्रकृत्यर्थताबच्छेदकं यत् स्वत्वं तादृशस्वत्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन भेदे स्वाऽन्वयस्तु न संभवति भेदस्य चात्र प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसंबन्धेनैत्र प्रकृत्यर्थ विशिष्टस्य ग्राह्यत्वमिति 'स्वं गच्छति' इतिप्रयोगस्य वारणे कृते चैत्रो द्रव्यं गच्छति । 'मलो मलं गच्छति । इत्यादीष्टस्य प्रयोगस्याऽप्रामाण्यं स्यादित्याह-तथा चेति । अप्रामाण्ये हेतुमाह-चैत्रमल्लादीति, उक्तरीत्या संयोगादिरूपफलजनकक्रियाया द्वितीयाप्रकृत्यर्थतावच्छेदकावच्छिन्नभिन्नसमवेतत्वमपेक्ष्यते तादृशक्रियाजन्यफलशालिन एव च कर्मत्वमिष्टम् 'चैत्रो द्रव्यं गच्छति' इत्यत्र च प्रकृत्यर्थता• चच्छेदक द्रव्यत्वं द्रव्यत्वावच्छिन्नभिन्नसमवेतत्वं च द्रव्यनिष्टसंयोगजनकक्रियायां नास्ति-ताशक्रियायाश्चैत्रे सत्त्वात् तत्र चैत्रे द्रव्यत्वस्यापि सत्तादिति 'चैत्रो द्रव्यं गच्छति' इति प्रयोगो न स्यादेव तथा मल्लनिष्ठसंयोगजनकक्रियायां मल्लत्वावच्छिन्न भिन्नसमधेतत्वं नास्ति तादृशक्रियाश्रये मल्लान्तरेपि मल्लत्वस्य सत्त्वादेवेति ' मल्लो मलं गच्छति । इत्यपि प्रयोगो न स्यादित्यर्थः । ननु चत्रे द्रव्यत्वावच्छिन्नप्रतियोगिताकभेदाभावेपि मल्ले च मल्लत्वावच्छिन्नप्रतियोगिताकभेदाभावेपि तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदस्य सत्त्वेन भेदे प्रकृत्यर्थद्रव्यादेस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसंबन्धनान्वयं वक्ष्याम इति । चैत्रो द्रव्यं गच्छति । इत्यादिप्रयोगस्य नानुपरत्तिरित्याशङ्ख्याह-तत्तव्यक्तित्वेति, द्रव्यादीनां प्रकृत्यर्थानां तद्व्यक्तित्वेन रूपेणोपस्थित्यभा. चेपि - चैत्रो द्रव्यं गच्छति । इत्यत्र शाब्दबोधो जायते एवेति भेदे द्रव्यादीनां तद्व्यक्तित्वावच्छिनप्रयोगिताकरवसंबन्धेनान्वयो न संभवति किं तु द्रव्यत्वाद्यवच्छिन्नप्रतियोगिताकत्यसंब "Aho Shrutgyanam" Page #281 -------------------------------------------------------------------------- ________________ स्वं गच्छतीत्यादिप्रयोगवारणम् ] व्युत्पत्तिवादः । ( २६९ मासंभवात् उक्तयुक्तया संबन्धघटको पस्थितेरपि शाब्दबाधेऽपेक्षितत्वात्, एकधर्मावच्छिन्नप्रतियोगिताया अन्यधर्मावच्छिन्नसंसर्गत्वे मानाभावाश्च, प्रतियोगिविशेषिताभावबुर्विशिष्टवैशिष्टयावगाहित्व नियमात्, अन्वयिताऽनवच्छेदकावच्छिन्नप्रतियोगितायाः संबन्धत्वासंभवाच्चेति चेत् ?, तर्हि क्रियान्वयिभेदप्रतियोगितावच्छेदकत्वमेव द्वितीयार्थोऽस्तु भेदे प्रकृत्यर्थस्याधेयतासंबन्धेनान्वय इति न काचिदनुपपत्तिः । वेनैवेत्युक्तमप्रामाण्यं तदवस्थमेवेत्यर्थः । ननु द्रव्यादीनां तद्द्व्यक्तित्वेन रूपेणोपस्थित्यभावेपि शाब्दबोधो भविष्यति - तद्व्यक्तित्वस्य संबन्धघटकत्वेन तदुपस्थित्यपेक्षाभावादित्याशङ्क्याह-उक्तेति, उक्तयुक्तया = १६२ पृ० ) तत्संसर्गावच्छिन्नेत्याद्युक्तयुक्तया, संसर्ग तात्पर्यज्ञानानुरोधेन संसर्गघटक पदार्थोपस्थितेरपि शाब्दबोधेऽपेक्षा भवत्येवेति तद्द्व्यक्तित्वानुपस्थितौ शाब्दबोधासंभवादित्यर्थः । तद्व्यक्तित्वेन ग्रहणासंभवे हेत्वन्तरमाह-एकेति एकपदमन्यपरं ज्ञेयम्, अत्र हि मेदे द्रव्यत्वावच्छिन्नस्यान्वये प्रतियोगितव संसर्गस्तत्रान्यधर्मावच्छिन्ना प्रतियोगिता अन्यधर्मावच्छिन्नस्य संसर्गो न भवतीति तद्व्यक्तित्वावच्छिन्नप्रतियोगितासंबन्धेन द्रव्यत्वावच्छिन्नस्य मेदे - ऽन्वयो न संभवतीत्यर्थः । अत्र प्रमाणमाह-प्रतियोगिविशेषितेति, पूर्वमेव ( २५५० ) इदं वाक्यं व्याख्यातं तथा चात्र द्रव्यत्वावच्छिन्नभेदवोधे द्रव्यत्वस्यैव भेदप्रतियोगितावच्छेदकत्वेन भानं संभवति न तु तद्व्यक्तित्वस्येत्यर्थः । उक्तमुपसंहरन्नाह - अन्वयितेति, 'चैत्रो द्रव्यं गच्छति इत्यत्र द्वितीयार्थभेदे परत्वस्वरूपे द्रव्यस्यान्वयः प्रतियोगिता संबन्धेन कर्तव्य इति अन्वयितावच्छेदकं यद्द्रव्यत्वं तदवच्छिन्नप्रतियोगिताया एव संबन्धत्वं संभवति न तु अन्वयितानक्षच्छेदकं यत् तद्व्यक्तित्वं तदवच्छिन्नाया अपि तथा च ' चैत्रौ द्रव्यं गच्छति ' इत्यत्र तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदग्रहणासंभवाद् द्रव्यत्वावच्छिन्नप्रतियोगिता कभेद एव प्रास्तादृशमेदस्तु चेत्रे नास्तीत्यप्रामाण्यं स्यादेव, एवमेव ' मल्लो मलं गच्छति' इत्यस्याप्रामाण्यं विज्ञेयमित्यर्थ: । इत्येवमाशङ्क्य परिहरति- तर्हीति, क्रियान्वयिभेदप्रतियोगितावच्छेदकत्वं द्वितीयार्थो न तु परत्वम्, क्रियान्वयिनः क्रियाश्रयस्य चैत्रादेर्भेदः क्रियान्वयिभेदः, क्रियान्वयिमेदप्रतियोगितावच्छेदकत्वस्य द्वितीयार्थभूतस्यात्र क्रियायामेवान्वयो ज्ञेयः । भेदश्च स्वनिष्ठसंयोगजनक क्रियावान्न इत्याकारको ग्राह्य एतादृशभेदप्रतियो गितावच्छेदिका च क्रियैव एतादृशभेदश्च ग्रामादौ फलशालिनि कर्मभूतपदार्थे वर्तते इति भेदे प्रकृत्यर्थस्य ग्रामादेराधेयतासंबन्धेनान्वय इत्यर्थः, परसमवेतक्रियाफलशालित्वं कर्मत्वमिति न वक्तव्यं किं तु स्वनिष्ठमेदप्रतियोगितावच्छेदक क्रियाफलशालित्वं कर्मत्वमिति वक्तव्यमिति यावत, तथा च ग्रामं गच्छति चैत्रः ' इत्यत्र स्वनिष्टसंयोगजनक क्रियावान्न इत्याकारक भेदश्चैत्रे तु नास्येव चैत्रस्य ग्रामनिष्ठसंयोगजनक क्रियाश्रयत्वादेक किं तु तादृशभेदो ग्रामे वर्तते ग्रामस्य क्रियाश्रयत्वाभावादिति ग्रामवृत्तितादृशभेदप्रतियोगी क्रियावान् चैत्र एव चैत्रनिष्ठाया भेदप्रतियोगिताया अवच्छेदिका च चैत्रनिष्ठा ग्रामवृत्तिसंयोगज · "Aho Shrutgyanam" Page #282 -------------------------------------------------------------------------- ________________ (२७०) सादर्श:- [ द्वितीयाकारकप्रथमखण्डेन चैवमपि — विहगो भूमि प्रयाति ' इतिवत् — विहगो विहगं गच्छति' इतिप्रयोगो दुर्वार:-विहगनिष्ठभूमिसंयोगजनकतक्रियाया विहगान्तरनिष्ठभेदप्रतियोगितावच्छेदकतया विहगे विहगनिष्ठभेदप्रतियोगितावच्छेदकविहगवृत्तिसंयोगजनकक्रियाश्रयत्वस्थाऽबाधितत्वादिति वाच्यम्, 'विहगो विहगं गच्छति । इत्यादौ विहगादिप्रकृत्यर्थवृत्तित्वविशिष्टसंयोगस्य क्रियायां स्वजनकत्वस्वाश्रय निका सा क्रियैव तादृशक्रियाजन्यसंयोगाश्रयत्वेन ग्रामस्य कर्मत्वसंभवात् “भामं गच्छति चैत्रः । इति प्रयोग उपपन्नः । एवं द्रव्यनिष्ठो यः स्वनिष्ठसंयोगजनकक्रियावान्न इत्याकारकभेदस्तत्प्रतियोगितावच्छेदिका या चैत्रनिष्ठा क्रिया तजन्यसंयोगाश्रयत्वेन द्रव्यस्य कर्मत्वात् । चैत्रो ज्य गच्छति' इति प्रयोगोप्युपपन्नः । एवं १मलान्तरनिष्ठसंयोगस्य २मल्लान्तरनिष्ठक्रियाजन्यत्वेन १मल्ला-. नतानियों यः स्वनिष्ठसंयोगजनकक्रियावान्न इत्याकारको भेदस्तत्प्रतियोगी २मल्लान्तर एवेति तादृशभेदप्रतियोगितावच्छेदिका या प्रतियोगिभूत२मल्लान्तरनिष्ठा क्रिया तजन्यसंयोगाश्रयत्वेन भेदानुयोगिभूत १मल्लान्तरस्थ कर्मत्वसंभवात् ' मल्लो मलं गच्छति । इत्यपि प्रयोग उपपन्नः । स्वनिष्ठसंयोगजनकक्रियावान्न इत्याकारकमेदश्चैत्रे तु न संभवति चैत्रस्य स्वनिष्ठसंयोगजनकक्रिथाश्रयत्वादेवेति स्वनिष्ठभेदप्रतियोगितावच्छेदकक्रियाजन्यफलशालित्यविरहेण चैत्रस्य कर्मस्वासभवात् । चैत्रश्चैत्रं गच्छति । 'चैत्रः स्वं गच्छति , ' चैत्रः स्वमात्मानं गच्छति । इत्यादिप्रयोगापत्तिरपि नास्तीत्याह- न काचिदिति ।। ___ ननु स्वनिष्ठसंयोगजनकक्रियावान्न इत्याकारको यो भूमिनिष्ठो भेदस्त प्रतियोगितावच्छेदिका मा संयोगजनकक्रियाश्रयीभूतविहगनिष्ठा क्रिया तजन्यसंयोगाश्रयत्वेन भूमेः कर्मत्वसंभवाद् यथा विहगो भूमि प्रयाति ' इति प्रयोगो भवति तथा 'विहगो विहगं (स्वम् ) गच्छति' इत्यपि प्रयोगः स्यादेव, विहगनिष्ठक्रियायां विहगनिष्ठो यो भूमिसंयोगस्तजनकत्वमप्यस्तिं विहगान्तरनिष्ठो यो भेदस्तादृशभेदप्रतियोग्ययमेव विहग इति विहगान्तरनिष्ठभेदप्रतियोगितावच्छेदक वमप्यस्त्येव तथा च विहगे स्वनिष्ठभेदप्रतियोगितावच्छेदकीभूतक्रियायाः फलस्य संयोगस्य सत्त्वात् कर्मत्वमपि प्राप्तं विहमनिष्ठभेदप्रतियोगितावच्छेदिकाया विहगत्तिसंयोग (भूमिसंयोग) अनिकाया कियाया आश्रयत्वमप्यस्त्येवेति विहगकर्मकगमनानुकूलव्यापारकर्तृत्वमपि प्राप्तम् उक्तक्रियाश्रयस्यैव गमनकर्तृत्वादिति एकस्यैव विहगस्य कर्तृत्वकर्मत्वोभयतात्पर्येगापि 'विहगो विहगं गच्छति । इति प्रयोगो दुर्वार एपेत्याशङ्कयाह- न चैवमिति । परिहारमाह- विहग इति । 'प्रामं गच्छति । ‘विहगो भूमि गच्छति । इत्यादी भूम्यादिप्रकृत्यर्थनिष्ठसंयोगस्य तादृशसंयोगजनकक्रियायां न केवलं स्वजनकत्वसंबन्धेनान्वय इष्टो येन 'विहगो विहगं गच्छति । इतिप्रयोगापत्तिः स्यात् किं तु स्वजनकत्वस्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वैतदुभयसंबन्धेनान्वयो भवति, स्वं संयोगः, अत्र संयोगजनकचैत्रविहगादिनिष्ठक्रियायां संयोगजनकत्वमप्यस्ति संयोगाश्रयीभूतभूम्यादिनिष्टभेदप्रतियोगितावच्छेदकत्वमप्युक्तरीत्यास्त्येवेत्येतादृशोमयसंबन्धेन भूम्यादिवृत्तित्वविशिष्टसंयोगस्य "Aho Shrutgyanam" Page #283 -------------------------------------------------------------------------- ________________ अनिष्टप्रयोगनिवारणम् ] व्युत्पत्तिवादः । ( २७१ ) निष्ठ भेदप्रतियोगितावच्छेदकत्वोभय संबन्धेनान्वयोपगमात् विहगनिष्ठक्रियायास्तद्विहग निष्ठसंयोगजनकत्वेन तज्जनकतासंवन्धेन तत्संयोगवत्त्वापे विहगवृत्तित्वविशिष्टतत्संयोगाश्रयतद्विहगनिष्ठ भेदप्रतियोगितावच्छेदकत्वाभावान्नोक्तोभय संबन्धेन विशिष्टसंयोगवत्त्वमित्यनतिप्रसङ्गात् । एवं सति परसमवेतत्वं संबन्धघटकमेव न तु द्वितीयार्थ इति चेत् ?, का क्षतिः । ६ L ' विहगो विहगेन गम्यते ' इत्यादावपि स्वजन्यत्वस्वावच्छिन्नभेदसामानाधिकरण्योभयसंबन्धेन क्रियायाः संयोगेऽन्वय इष्यते तत्तत् क्रियावच्छिन्नभेदवति विहगादिनिष्ठायां संयोगजनक क्रियायामन्वय इति तत्संभवात् ' विहगो भूमिं गच्छति ' चैत्रो ग्रामं गच्छति' इत्यादयः प्रयोगा भवन्ति, : ' विगो विहगं ( स्वं ) गच्छति इत्यत्र विहगनिष्ठक्रियायास्तद्विहग निष्ठसंयोगजनकत्वमस्त्येवेति तज्जनकतासंबन्धेन =स्व ( संयोग :) जनकस्वसंबन्धेन तत्सयोगरत्त्वेपि ( संयोगस्य स्वजनकत्वसंबन्धेन क्रियायामन्वय संभवेपि ) तस्याः क्रियाया विहगवृत्तित्वविशिष्टो यस्तत्संयोगस्तदाश्रयीभूतो यस्तद्विहगस्तनिष्ठो यो भेदस्तादृशभेदप्रतियोगितावच्छेदकत्वं नास्त्येत्र यतस्तनिष्ठ भेदस्य प्रतियोगितावच्छेदकस्तद्वृत्तिधर्मो न भवति किं तु तद्ननप्रतियोगिवृत्तिधर्म एव भवतीति तद्विहगनिष्ठभेदस्य प्रतियोगितावच्छेदिका तद्विगनिष्ठा क्रिया कथं स्यादिति तद्विगनिष्ठसंयोग जन कतद्विहगवृत्तिक्रियायां तद्विहगनिष्ठ भेदप्रतियोगितावच्छेदकत्वं नास्तीति न तादृशसंयोगस्य तत् क्रियायां स्त्राश्रयनिष्टभेदप्रतियोगितावच्छेदकत्वसंबन्धेनान्वयः संभवतीत्युक्तोभयसंबन्धेन संयोगविशिक्रियाया अलाभाद् उक्तोभ-यसंबन्धेन संयोगविशिष्ट क्रिया जन्मसंयोगाश्च पत्वमत्र विहगस्य नास्तीति न बिहगस्य कर्मत्वं किं - बोकोभयसंबन्धेन संयोगविशिष्टक्रियाश्रयत्वं विहगस्य नास्तीति न विहगस्य कर्तृत्वमिति “ विहगो विहगं गच्छति इत्यादिप्रयोगापत्तिरूपो तिप्रसङ्गो नास्तीत्यर्थः । विशिष्टसंयोगवत्त्वम् - विहगादिप्रकृत्यर्थवृत्तित्वविशिष्टसं वत्त्वम् ( क्रियायां नास्तीत्यन्वयः ) । ननु फलजनिका या स्वनिष्टभेदप्रतियोगितावच्छेदिका क्रिया सा परसमवेतक्रियैव भवति तादृशक्रियैकदेशपरसमवेतत्वस्य द्वितीयार्थत्वं यदुक्तं तदिदानीं न स्यात् स्वनिष्ठभेदप्रतियोगितावच्छेदकत्वस्यो · त्या संबन्धत्वाश्रयणेन तदूर्घटकपरसमवेतत्वस्यापि संबन्धकोटिप्रविष्टत्वादित्याशङ्कते - एवं सतीति । परिहरति- का क्षतिरिति, परसमवेतत्वस्य द्वितीयार्थत्वाभावे क्षतिर्नास्तीत्यर्थः । अन्येन विहगेन विहगान्तरं प्रत्यनुधावने तु ' विहगो विहगं गच्छति' इति प्रयोग इष्ट एव । कर्माख्यातान्तप्रयोगमुदाहरति- विहग इति । भूमिर्विहगेन गम्यते ' इत्यादावाश्रयत्वमाख्यातार्थः, विहगकर्तृकव्यापारजन्यसंयोगाश्रयो भूमिरितिबोधोदयाद् विहगनिष्ठक्रियायाः स्वजन्यत्वस्वावच्छिन्न मेदसामानाधिकरण्येतदुभयसंबन्धेन संयोगेन्वयः, स्त्रं क्रिया, संयोगे क्रियाजन्यत्वमप्यस्ति क्रियावच्छिन्नप्रतियोगिताकमेदसामानाधिकरण्यमप्यस्तीति तदुभयसंबन्धेन संयोगे क्रियान्वपः, स्वावच्छिन्नमेदपदेन पूर्वोक्त एव भूम्यादिनिष्ठः क्रियावान्न इत्याकारकः क्रियावच्छि "Aho Shrutgyanam" Page #284 -------------------------------------------------------------------------- ________________ (२७२) सादर्श:- [ द्वितीयाकारकप्रथमखण्डेभूम्यादावेव तादृशभेदसामानाधिकरण्यसंबन्धेन तत्तक्रियाविशिष्टसंयोगादिमत्वोपगमात् तत्र तत्क्रियाश्रयविहगे तद्भाधेन नातिप्रसङ्ग इतिध्येयम् । ज्ञानादिरूपसविषयकवस्त्वभिधायकधातुसमभिव्याहृतद्वितीयायाः प्राचीनमते निरूपकतासंबन्धेन धात्वर्थान्वयि विषयत्वमर्थः, तत्र प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः । वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितानवच्छेदकतया ‘घटं जानाति. पट न ' इत्यादावनुपपत्तेस्तत्र विषयित्वार्थकत्वमेव नवीना उपवर्णयन्ति तत्र च प्रकृत्यर्थस्य निरूपितत्वसंबन्धेन तस्य च धात्वर्थे आश्रयतासंबन्धेनान्वयः, नप्रतियोगिताकभेदो ग्राह्यः स च भेदः संयोगश्च भूम्यादावस्तीति संयोगे तादृशमेदसामानाधिकरण्यमप्यस्त्येव, तत्तक्रियावच्छिन्नभेदवति संयोगादिरूपफलजनकक्रियावच्छिन्नप्रतियोमिताकर्मेदवति : भूम्यादावेर तादृशभेदसामानाधिकरण्यसंबन्धेन-क्रियावच्छिन्नप्रतियोगिताकदसामानाधिकरण्यरूपसंबन्धेन तत्तक्रिया विशिष्टोक्तसंयोगादिमत्त्वोपगमात् ' भूमिविहगेन गम्यते । इत्यादिप्रयोगो भवतीत्यर्थः । तक्रियाश्रयविहगे-संयोगजनकक्रियाश्रयविहगे तु तद्बाधेन-उ. ततादृशभेदसामानाधिकरण्यसंबन्धेन तक्रियाविशिष्टतयोगादिमत्त्वबाधेन नातिप्रप्तङ्गः= विहगो विहगेन गम्यते , इत्यादिप्रयोगापत्तिर्नास्ति- विहगस्योक्ततादृशभेदप्रतियोगित्वाद् भेदाश्रयस्कमेव नास्ति येन तादृशभेदसामानाधिकरण्यसंबन्धेन क्रियाविशिष्टत्वं विहगनिष्ठसंयोगस्य स्यात् तेन ब 'विहगो विहगेन गम्यते । इत्यादिप्रयोगापत्तिः स्यादित्याह- तत्रेति । तत्र विहगो विगेन गम्यते । इत्यत्र । विहगेन स्वभिन्न विहगं प्रत्यनुधावने तु 'विहगो विहगेन गम्यते । इति प्रयोग इष्ट एव । ___ प्राचीनमतेन ज्ञादिधात्वर्थमाह- ज्ञानादीति, ज्ञानादिरूपं यत्सविषयक वस्तु अर्थस्तदभिः धायको यो ज्ञादिधातुस्तत्समभिव्याहृतायाः 'घटं जानाति ' इत्यादौ द्वितीयायाः प्राचीनमते विषयत्वमर्थः तस्य च विषयत्वस्य निरूपकतासंबन्धेन धात्वर्थज्ञानादावन्वयः- घटादिनिष्ठविषयत्वस्य ज्ञाननिरूपितत्वेन तन्निरूपकत्वं ज्ञानेस्ति, तत्र द्वितीयार्थविषयत्वे प्रकृत्यर्थस्य घटादेराधेयतासंबन्धेनान्वयः, आश्रयत्वं चाख्यातार्थ इति घटवृत्तिविषयतानिरूपकज्ञानाश्रयश्चत्र इति शाब्दबोधाकार इत्यर्थः । नवीनमतमाह- वृत्त्यनियामकेति, विषयत्वस्य द्वितीयाथत्वे तस्यो. क्तरीत्या निरूपकतासंबन्धेनैव धात्वर्थज्ञानेऽन्वयो वक्तव्यस्तथा च ‘घटं जानाति पटं न' इत्यत्र एटपदोत्तरद्वितीयार्थविषयानस्य निरूपकतासंबन्धेनैव धात्वर्थज्ञानेऽभावो वक्तव्यः-- निरूपकतासंबन्धेन पटवृत्तिविषयत्वाभाववज्ञानाश्रयश्चैत्र इति, तत्र निरूपकतासंबन्धस्य वृत्त्यनि. यामकत याऽभावीयप्रतियोगितावच्छेदकत्वं न संभवतीति न विषयत्वं द्वितीयार्थः किं तु विषयित्वमेव तत्र विषयित्वे प्रकृत्यर्थघटादेनिरूपितत्वसंबन्धेनान्वयः-- ज्ञानादिनिष्टविषयित्वस्य ज्ञानादिवि षयीभूतघटादिनिरूपितत्वात्, तस्य=विषयित्वस्य च धात्वर्थे ज्ञानादावाश्रयत्वसंबन्धेनान्वयस्तथा चा श्रयतासंबन्धस्य वृत्तिनियामकत्वेनाभावीयप्रतियोगितावच्छेदकत्वादाश्रयतासं "Aho Shrutgyanam" Page #285 -------------------------------------------------------------------------- ________________ सविषयकधातुस्थलीयद्वितीयार्थः] व्युत्पत्तिवादः । (२७३ ) घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषायित्वमेव, विषयित्वादा च द्वितीयाया लक्षणैव न तु शक्तिरिति सांप्रदायिकाः । ... वस्तुतस्तु विषयितात्वस्य संयोगत्वायपेक्षयाऽऽधेयत्वाद्यपेक्षया चाऽमुरुतया किधर्मावच्छिन्ने शक्तिः कल्प्यते इत्यत्र विनिगमकं दुर्लभम् । एकस्मिन् प्रयोगभूयस्त्वमप्यऽशक्यनिर्णयमिति तत्रापि शक्ति सिध्यतीत्यवधेयम् । 'चैत्रेण ज्ञायते घटः । इत्यादौ कर्माख्यातस्थले आख्यातेन घटादौ धात्वर्थनिरूपितविषयत्वं बोध्यते । ... चाक्षुषत्वाद्यवच्छिन्नवाचकश्यादिसमभिव्याहृतद्वितीयाया लौकिकविषयित्वं ताशक ख्यातस्य लौकिकविषयत्वमर्थः- उपनीतसौरभादिविषयकसुरभिचन्दनमित्याद्याकारकचाक्षुषादिदशायाम् 'सौरभं पश्यति ' इति 'सौरभ श्यते.' इत्याद्यप्रयोगात् । बन्धेन ज्ञाने द्वितीयार्थविषयित्वस्यामाव उपपद्यते एवेति — घटं जानाति पटं न ' इत्यत्र नोक्तानुपपत्तिः- आश्रयतासंबन्धेन पटनिरूपितविषयित्वाभाववज्ञानाश्रयश्चत्र इति बोधस्याकार इत्यर्थः । ननु घटादिनिष्ठं यज्ज्ञानादिकर्मत्वम् (विषयत्वं) तदेव द्वितीयार्थो युक्तो न तु ज्ञानादिनिष्टविषयित्वस्य घटादिपदोत्तरद्वितीयार्थत्वं युक्तं वैयधिकरण्यादित्याशक्याह- घटादीति, विषयित्वमपि निरूपकतासंबन्धेन घटादौ वर्तते एवेति घटादिनिष्ठं यज्ज्ञानादिकर्मत्वं तदिदानी ज्ञानादिविषयित्वरूपमेव विज्ञेयमित्यर्थः । द्वितीयाया विषयत्वादावेव शक्तिरिति विषयित्वादी लक्षणवेत्याह- विषयित्वादाविति । स्वाभिप्रायमाह- वस्तुतस्त्विति, किंधर्मावच्छिन्ने विषयितात्वादिकिंधर्मावछिन्ने । तथा च विषयित्वेपि द्वितीयायाः शक्तिरेवेत्यर्थः । यदि संयोगत्वाबपेक्षया विषयितात्वं गुरु स्यात्तदा गुरु. धर्मावच्छिन्नविषयित्वापेक्षया संयोगादौ द्वितीयायाः शक्तिस्वीकारे लाधवेन विषयित्वे शक्तेरनुपपत्तिः स्यादपि न चैवमस्तीतिभावः । एकस्मिन् संयोगादौ, विषयित्वसंयोगाद्यर्थेषु द्वितीयाया: समान एवं प्रयोग इत्यर्थः । अशक्यो निर्णयोऽनेनेत्यशक्यनिर्णयम् । तत्रविषयित्वेपि। ___कर्माख्यातप्रयोगमुदाहरति- चैत्रेणति, घटादौ धात्वर्थज्ञानादिनिरूपितं यद् विषयस्वं तदेव कर्माख्यातार्थ इत्यर्थः, 'चैत्रवृत्तिज्ञानविषयो घटः । इतिबोधः । 'घटं पश्यति' इत्यत्र द्वितीयाया लौकिकविषयित्वमर्थः,आख्यातस्याश्रयत्वमर्थ इति घटनिरूपितविषयिताश्रयचाक्षुषलौकिकप्रत्यक्षाश्रयश्चैत्र इतिबोधः । ज्ञानस्य लौकिकालौकिकरूपत्वेन द्वैविध्यमन्यत्र प्रतिपादितं ज्ञेयम् । 'घटो दृश्यते' इत्यत्र च तादृशकर्माख्यांतस्य चाक्षुषत्वाअवच्छिन्नवाचकदृश्यादिसमभिव्याहृतकर्माख्यातस्य लौकिकविषयत्वमर्थ इति- लौकिकचाक्षुषप्रत्यक्षनिरूपितविषयत्वाश्रयो घट इतिबोध:- विषयत्वस्य घटे आश्रयतासंबन्धेनान्वयात् । विषयित्वविष पत्वयोलौकिकत्वविशेषणस्य फलमाह- उपनीतेति, 'सुरमि चन्दनम् । इत्याकारकोपनी "Aho Shrutgyanam" Page #286 -------------------------------------------------------------------------- ________________ (२७४) सादर्श:- [द्वितीयाकारकप्रथमखण्डे- अथैवम् पुष्पं जिघ्रति ' इत्यादि प्रयोगानुपपत्तिा-घ्राणजप्रत्यक्षस्य पुष्पा. चंशे लौकिकत्वविरहात्, तादृशधातुयोगे विषयित्वादिसामान्यस्य कर्मप्रत्ययार्थवे गन्धसाक्षात्कारे उपनयमर्यादयाऽऽकाशादिभाने 'आकाशं जिघ्रति ' इतिप्रयोगप्रसङ्गेन तत्रापि लौकिकविषयिताया एव कर्मप्रत्ययार्थतयोपगन्तव्यत्वा. तसौरभादिविषयकचाक्षुषप्रत्यक्षदशायां सौरमस्य ज्ञानलक्षणप्रत्यासत्त्यैव भानं भवति न तु लौकिकप्रत्यक्षेण- सौरभस्य चाक्षुषप्रत्यक्षाऽविषयत्वादिति ' सौरभं पश्यति । 'सौरभ दृश्यते । इत्यादि प्रयोगो न भवति- अत्र द्वितीयायाश्चाक्षुषप्रत्यक्षनिष्ठलौकिकविषयित्वार्थकत्वासंभवात्. कर्माख्यातस्य च चाक्षुषप्रत्यक्षनिरूपितलौकिकविषयत्वार्थकत्वासंभवादित्यर्थः । अयं भावःयदि घदं पश्यति । इत्यत्र लौकिकविषयित्वं द्वितीयार्थो नोच्येत किं तु विषयित्वमेव द्वितीयार्थ उच्येत तदा ‘सुरभि चन्दनखण्डम् ' इत्याकारकोपनीतसौरभविषयकचाक्षुषप्रत्यक्षदशायां तादृशप्रत्यक्षेपि विषयितायाः सत्त्वात् 'सौरमं पश्यति । इतिप्रयोगः स्यादेव न चतदिष्टमिति द्वितीयार्थविषयितायां लौकिकत्वविशेषणं प्रक्षिप्तं तथा च 'सुरभि चन्दनखण्डम् ' इस्याकारकप्रत्यक्षऽलौकिकविषयितायाः सत्त्वेन लौकिकविषयिताया असत्त्वात् 'सौरभं पश्यति' इतिप्रयोगो न भवति- प्रत्यक्षे द्वितीयार्थभूताया लौकिकविषयिताया बाधात् । एवमेव 'सौरमं दृश्यते । इतिप्रयोगस्योक्तदशायां वारणार्थ लौकिकविषयत्वं कर्माख्यातार्थ इत्युक्तम्, 'सुरमि चन्दनखण्डम् । इत्याकारकोपनीतभानदशायां सौरमेऽलौकिकविषयतायाः सत्त्वेन लौकिकविषयताया बाधादिति । ननु यदि चाक्षुषत्वाद्यवच्छिन्नवाचकदृश्यादिधातुसमभिव्याहृतद्वितीयाया लौकिकविषयित्वमर्थस्तदा पुष्पं जिप्रति ' इति प्रयोगो न स्यात-घ्राणजप्रत्यक्षविषयता हि गन्धे वर्तते न तु द्रव्यरूपे पुष्पपीति पुष्पनिरूपितलौकिकविषयिताया घ्राणजप्रत्यक्ष बाधादित्याशङ्कते- अधेति, ननु तादृशधातुयोगे-चाक्षुषत्वाधवच्छिन्नवाचकघ्रादिधातुयोगे 'पुष्पं जिघ्रति , इत्यादी लौकिकालौकिकसाधारणमेव सामान्यतो विषयित्वं द्वितीयादिकर्मप्रत्ययार्थ इति 'पुष्पं जिघ्रति । इत्यत्र पुष्पपदोत्तरद्वितीयाया अलौकिकविषयित्वमेवार्थ इति नानुपपत्तिरित्याशझ्याह- ताहशेति, एवं हि ' अत्राकाशे गन्धः । इत्याकारकगन्धप्रत्यक्षे उपनयमर्यादया ज्ञानलक्षणप्रत्यासस्याऽऽकाशस्यापि भानं भवतीति ' आकाशं जिघ्रति ' इतिप्रयोगापत्तिः स्यात्- आकाशपदोत्तरद्वितीयाया अलौकिकविषयित्वार्थकत्वेनाकाशविषयकाऽलौकिकवियिताश्रयघ्राणजप्रत्यक्षस्य संभवात् , न च 'आकाशं जिघ्रति ' इतिप्रयोगो भवतीति तद्वारणाय लौकिकवियितैव द्वितीयार्थ इत्युपगन्तव्यं तथा चाकाशनिरूपितलौकिकविषयिताया घ्राणजप्रत्यक्षे बाधात् : आकाश जिघ्रति । इति प्रयोगस्तु न भविष्यत्ति किं त्वेवं तत्रापि= पुष्पं जिघ्रति ' इत्यत्रापि लौकिकविषयितैव द्वितीयार्थः स्यादिति पुष्पनिरूपितलौकिकविषयिताया प्राणजप्रत्यक्षे बाधात् “पुष्पं "Aho Shrutgyanam" Page #287 -------------------------------------------------------------------------- ________________ द्वितीया जिघ्रत्योरर्थः ] व्युत्पत्तिवादः । ( २७५ ) दिति चेत्, न - प्राधातोर्हि गन्धलौकिकप्रत्यक्षत्वं शक्यतावच्छेदकम् - "घ्रा गन्धोपादाने " इत्यनुशासनात्, तत्समभिव्याहृत द्वितीयायाश्चाधेयत्वमेवार्थस्तस्य च व्युत्पत्तिवैचित्र्येण गन्धादिरूपधात्वर्थैकदेशेनान्वयः एवं च ' पुष्पं जिघ्रति इत्यादितः पुष्पवृत्तिगन्धलौकिकप्रत्यक्षाश्रयतावानित्याकारक एव शाब्दबोधो न तु पुष्पनिरूपित लौकिकविषयिताशालिप्रत्यक्षाश्रय इत्याकारक इति नानुपपत्तिः । न चैवं सविषयार्थबोधकधातुसमभिव्याहृत कर्मप्रत्ययस्य विषयितार्थकत्वनिय मभङ्गप्रसङ्ग इति वाच्यम्, विषयानवच्छिन्नतादृशवस्त्वभिधाय कधातुसमभिव्याहकर्मप्रत्ययस्यैव तदर्थकत्वनियमात्, अस्य च गन्धात्मक विषयावच्छिन्नप्रत्थक्षवाचकतया तादृशनियमस्याऽवाधितत्वात् । जिघ्रति ' इति प्रयोगानुपपत्तिरित्युभयतः पाशारज्जुरित्यथः । परिहरति- नेति, “घ्रा गन्धोपा दाने " इत्यनुशासनाद् घ्राधातोर्गन्धविषयकलौकिकप्रत्यक्षं हि शक्यमस्ति प्राधातुसमभिव्याहतद्वितीयायाश्चाऽऽत्रेयत्वमेवार्थस्तस्य = द्वितीयार्थाधेयत्वस्य च धात्वर्थैकदेशे गन्धेऽन्वयः, तथा च 'पुष्पे गन्धो वर्तते' इति पुष्पस्य गन्धे आधेयत्वसंबन्धेनान्वय संभवात् 'पुष्पं जिप्रति' इति प्रयोग उपपद्यते, आकाशे च समवायेन गन्धासंभवात् ' आकाश जिघ्रति ' इति प्रयोगापत्तिर्नास्त्येव - आकाश निरूपिताधेयत्वस्य द्वितीयार्थस्य गन्धेऽसंभवादित्यर्थ: । ' पुष्पं जिघ्रति ? इत्यस्य स्वा भीष्टबोधस्य स्वरूपमाह एवं चेति, पुष्पवृत्तिर्यो गन्धस्तद्विषयकलौकिकप्रत्यक्षाश्रयश्चैत्र इत्यर्थः । स्वानभीष्टबोधं परिहरति- न लिति, यदि : पुष्पनिरूपितलौकिक विषयिताशालिप्रत्यक्षाश्रयः इत्याकारकबोधः “ पुष्पं जिघ्रति ' इत्यत्रेष्टः स्यात्तदोक्तरीत्या पुष्पनिरूपिता लौकिकविषयिता प्राणजप्रत्यक्षे नास्तीति ' पुष्पं जिघ्रति ? इतिप्रयोगानुपपत्तिः स्यादपि न चैवमस्तीत्यर्थः । प्राधातोर्गन्ध लौकिकप्रत्यक्षमेव शक्यमिति गन्धस्यापि धात्वर्थे प्रवेशाद् धात्वर्थैकदेशत्वमुक्तमिति । 7 ८ ननु यदि प्राधातुसमभिव्याहृतद्वितीयाया आधेयत्वमर्थस्तदा सविषयकार्थबोधकधातुसमभिव्याहृतद्वितीयादिकर्मप्रत्ययस्य विषयितैवार्थो भवतीति नियमस्य भङ्गः स्याद् प्राधातोरपि सचिषयकार्थकत्वादित्याशङ्क्याह - न चेति । परिहारमाह - विषयेति, विषयानवच्छिन्नं यत् तादृशवस्तु सविषयकार्थस्तदभिधायकधातुसमभिव्याहृतस्यैव कर्मप्रत्ययस्य तदर्थकत्वनियमात् = विषयितार्थकत्वनियमाद् यथा- घटं जानाति ' इत्यत्र ज्ञाधातुर्विषयानवच्छिन्नसविषयकार्थ ( ज्ञान ) बोधकोस्ति-ज्ञाधात्वर्थज्ञानस्य सविषयक पदार्थत्वाद् रूपगन्धादिविषयैरनवच्छिन्नत्वाचेत्यत्र घटपदोत्तरद्वितीयाया विषयित्वमर्थ :- घटनिरूपितविषयिताश्रयज्ञानवानिति बोधोदयादित्यर्थः । अस्य = प्राधातोस्तु " घ्रा गन्धोपादाने" इत्यनुशासनाद् गन्धलक्षण विषयावच्छिन्नस विषयकप्रत्यक्षप्रार्थवाचकतया ' पुष्पं जिप्रति ' इत्यादौ पुष्पादिपदोत्तरद्वितीयाया आधेयतार्थकत्वेपि तादृशनियमस्य सविषयकार्थबोधकधातु समभिव्याहृतस्य कर्मप्रत्ययस्य द्वितीयादेर्विषयितार्थकत्वनियमस्य अबाधितत्वात् = भङ्गासंभवात् तादृश नियमस्यात्राऽप्राप्तेदित्यर्वः । > " Aho Shrutgyanam" Page #288 -------------------------------------------------------------------------- ________________ (२७६ ) [ द्वितीयाकारकप्रथम खण्डे - न च प्राधातुसमभिव्याहतद्वितीयाया गन्धान्विताधेयत्वार्थकत्वे ' आमोदमुपजिघ्रति ' इत्यादेरनुपपत्तिः- गन्धविशेषरूपामोदपदार्थाऽऽधेयत्वस्य गन्धे बाघादिति वाच्यम्, विषयावच्छिन्नप्रत्यक्षार्थकप्राधातुसमभिव्याहृत द्वितीयाया एवाधेयतार्थकत्वनियमात्, तत्र विषयानवच्छिन्नस्यैव प्रत्यक्षविशेषस्य लक्षणया प्राधात्वर्थ तोपगमेन विषयिताया एव तदर्थत्वात् । वस्तुतस्तु 'पुष्पं जिघ्रति ' इत्यादौ समवायसंबन्धावच्छिन्नाधेयत्व संसर्गावच्छिन्नविषयतानिरूपितप्रकारतैव द्वितीयार्थः, तस्याश्च गन्धनिरूपितलौकिकविषयिताशालिप्रत्यक्षात्मकधात्वर्थैकदेशे विषयितायां निरूपितत्व संबन्धेनान्वयः, तेन 'इदानींतनपुष्पे गन्धः ' इत्यादिप्रत्ययस्याधेयतासंसर्गेण कालादिप्रकारकत्वेपि ... ननु यदि ' पुष्पं जिघ्रति इत्यादी पुष्पपदोत्तरद्वितीयाया प्राधातुसमभिव्याहृताया आश्रयता संबन्धेन गन्धान्वितम् ( गन्धे वर्तमानम् ) आधेयत्वमर्थस्तदा 'आमोदमुपजिघ्रति ' इत्यादि - प्रयोगो नोपपद्येत - यथा ' पुष्पं जिघ्रति ' इत्यत्र गन्धे पुष्पवृत्तित्वम् (पुष्पाधेयत्वम् ) अस्ति तथात्र गन्धस्यामोदवृत्तित्वं नोपपद्यते - आमोदस्य गन्धविशेषरूपत्वेन गन्धे गन्धासंभवाद्गुणे गुणानङ्गीकारादित्याशङ्कते - न चेति । परिहरति- विषयावच्छिन्नेति, 'पुष्पं जिघ्रति' इत्यत्र प्राधातोर्गन्धात्मक विषयावच्छिन्नम्राणजप्रत्यक्षवाचकत्वमस्तीत्यत्राधेयत्वमेव द्वितीयार्थः, तत्र = आमोदमुपजिघ्रति ' इत्यत्र तु प्राधातोर्गन्धाद्यात्मकविषयैरनवच्छिन्न एव प्राणजप्रत्यक्ष लक्ष. णास्तीति नात्र द्वितीयाया आधेयत्वार्थकत्वापत्तिः किं त्वत्र द्वितीयाया विषयित्वमेवार्थस्तथा चामोदनिरूपित विषयितायाः प्रत्यक्षे संभवानात्र काचिदनुपपत्ति: - आमोदनिरूपित्तविषयिताश्रयज्ञानवानिति बोध इत्यर्थः । तदर्थत्वात् द्वितीयार्थत्वात् । << स्वाभिप्रायं प्रकटयति- वस्तुतस्त्विति । समवायेति - द्वितीयार्थभूता चैषा प्रकारता पुष्पे विज्ञेषा सा च प्रकारता गन्धे विषयतां विनाऽनुपपन्नत्वाद् गन्धनिष्ठ विषयता निरूपितास्ति. गन्धः निष्ठा च विषयता आधेयतासंबन्धावच्छिन्ना विज्ञेया घ्रा गन्धोपादाने " इत्यनुशासनाद् धारवर्यैकदेशभूतगन्धस्य पुष्पवृत्तित्वेन गन्धे आधेयताया घ्राणजप्रत्यक्षविषयतायाश्व सत्त्वात् तयोवच्छेद्यावच्छेदकभावस्य सुस्पष्टत्वात् आधेयताप्येषा समवाय संबन्धावच्छिन्ना ग्राह्या गन्धे आधेयतायाः पुष्पानुयोगिकसमवायस्यापि च सत्त्वेन तयोरवच्छेद्यावच्छेदकभावस्यापि विस्पष्टत्वादित्यन्त्रयः, समवायसंबन्धावच्छिन्नाधेयतानिवेशेन यत्र पुष्पादौ गन्धः समवायेन भवति तादृशपुष्पादिकमुद्दिश्य 'पुष्पं जिघ्रति' इत्यादिः प्रयोगो भवति यत्र च कालादौ गन्धः समवायेन न वर्तते तादृशकालादिकमुद्दिश्य ' कालं जिव्रति ' इत्यादिप्रयोगो न भवतीति भावः । तस्या:-द्विश्रीयार्थभूतप्रकारतायाश्च गन्धनिरूपिता या गन्धप्रत्यक्षनिष्ठा लौकिकक्षियिता तादृशविषयिताशालि यद् प्राधात्वर्थभूतं प्रत्यक्षं तदेकदेशभूतायां विषयितायां निरूपितत्व संबन्धेनान्वयः, विषयिताविशिष्टप्रत्यक्षस्य धात्वर्थत्वेन विषयिताया धात्वर्यैकदेशत्वं प्राप्तं तादृशविषयितायां सादर्श: . "Aho Shrutgyanam" Page #289 -------------------------------------------------------------------------- ________________ कालं जिघ्रतीतिप्रयोगवारणम् ] व्युत्पत्तिवादः । ५ 6 ५ C तादृशप्रत्यक्षदशायां न ' कालं जिघ्रति' इत्यादिप्रयोगः - तादृशज्ञानीयगन्धादिविषयितायां कालादिप्रकारतानिरूपितत्वविरहात्, अत एव " तदाननं मृत्सुरभि क्षितीश्वरो रहः समाधाय न तृप्तिमाययौ ” इत्यादौ " आघ्रातवान् गन्धवह सुगन्धम् " इत्यादौ चोपाधिनिष्ठगन्धग्रहवात्पर्येणैव जिघ्रतेः प्रयोगात् तादृशगन्धे चाssननगन्धवहादिवृत्तित्वस्य बाधेपि न क्षतिः - तादृशगन्धस्याऽऽननाद्यवृत्तित्व' आनने गन्धः' इत्याकारकबोधीयगन्धविषयिताया आननादिप्रका पुष्प निष्ठप्रकारतानिरूपितत्वस्य सत्त्वेन तेन संबन्धेन पुष्प निष्ठप्रकारताया अन्वयः, तथा च निष्प्रकारतानिरूपितत्वं प्राधात्वर्थप्रत्यक्षनिष्टविषयितायां संभवति तद्भाणनविषयक प्रयोगो भवति यथा पुष्पं जिघ्रति गन्धं जिघ्रति ' इत्यादिः, 'कालं जिघ्रति इत्यादिश्च • प्रयोगो न भवतीति सिद्धम् । अत्र च यद्यपि इदानीन पुष्पे गन्धः 7 इत्यत्र इदानीतनकालवृत्तिः पुष्पवृत्तिश्च गन्धः ' ' इदानींतन कालवृत्तिपुष्पवृत्तिर्गन्धः ' इत्याकारकद्विविधबोधस्य यथेच्छं स्वीकारात् कालनिष्ठाधारतानिरूपिताधेयताया अपि गन्धे साक्षादपि पुष्पद्वारापि च सत्वात् इदानीतनपुष्पे गन्धः ' इत्याकारकप्रत्यक्षे गन्धे यथाssधेयतासंसर्गेण पुष्पं प्रकारस्तथाऽऽधेयतासंसर्गेण कालोपि प्रकारोस्त्येवेति ' इदानीतनपुष्पे गन्धः ' इत्याकारकप्रत्यक्षदशायाम् पुष्पं जिप्रति ' इतिवत् ' कालं जिघ्रति ' इत्यपि प्रयोगः संभवति तथापि तादृशप्रत्यक्षदशायाम् = ' इदानींतनपुष्पे गन्धः ' इत्याकारकप्रत्यक्षदशायाम् ' कालं जिप्रति इतिप्रयोगापत्तिर्नास्ति - तादृशज्ञानीयगन्वादिविषयितायाम् = प्राधात्वर्थप्रत्यक्षनिष्ठगन्धनिरूपितठौकिकविषयितायां कालादिनिष्ठप्रकारतानिरूपितत्वाभावाद् यन्निष्ठप्रकारता निरूपितवं प्राधात्वर्थप्रत्यक्ष निष्ठविषयितायां भवति तत्कर्मकस्यैव जिप्रतिप्रयोगस्य संभवादित्याह - तेनेति, तेन= द्वितीयार्थप्रकारताया उक्तरीत्या प्रत्यक्षीयविषयितायामन्वधेन किं वा समवाय निवेशेन तथा चात्र कालनिष्ठाधारतानिरूपिताधेयता गन्धनिष्ठा समवायसंबन्धावच्छिन्ना न भवति कालिकसंबन्धावच्छिन्नत्वाद् गन्धस्य काले कालिकसंबन्धेन वृत्तित्वात्, पुष्पनिष्ठाधारतानिरूपिताधेयता तु समवायावच्छिन्ना भवति समवायेनैव गन्धस्य पुष्पवृत्तित्वादित्यर्थः । नन्वेवं नियमे स्वीकृते तदाननम् " इत्यादिप्रयोगा नोपपद्येरन् - प्राधात्वर्थप्रत्यक्ष निष्ठविषयितायामाननगन्धवहादिनिष्ठप्रकारतानिरूपितत्वाऽभावात् गन्धाश्रयीभूतपुष्पमृत्तिकादिनिष्ठप्रकारतानिरूपितत्वस्यैव संभवादित्याशङ्क्याह- अत एवेति, अत एव = उक्त नियमस्वीकारादेव “ तदाननम् " इत्यादिस्थलेषु गन्धोपाधिनिष्ठस्यैव = गन्धाश्रयीभूतमृत्तिकादिनिष्ठस्यैव गन्धस्य ग्रहणतात्पर्येण जिघ्रतिप्रयोगोस्ति तादृशगन्धे= अत्रत्यगृह्यमाणगन्धे चाननगन्धवहादिवृत्तित्वस्य बाधेपि क्षतिः - जिघ्रतिप्रयोगानुपपत्तिर्नास्ति - तादृशंगन्धस्य = अत्रत्यगृह्यमाणमन्धस्य मृत्तिकादिवृत्तित्वेनाऽऽननाद्यवृत्तित्वेपि " आननं समाघ्राय " इत्यत्र ' आनने गन्धः ' इत्येव बोधः स्यात् तादृशबोधीय-गन्धविषयितायाः = प्राधात्वर्थ प्रत्यक्षनिष्ठगन्धनिरूपित विषयिताया आननादिनिष्ठप्रकारतानिरूपि , 65 C "Aho Shrutgyanam" (२७७) Page #290 -------------------------------------------------------------------------- ________________ (२७८) सादर्श:- [द्वितीयाकारकप्रथमखण्डेरतानिरूपितत्वेन वाक्यार्थाऽबाधात् । वाय्वानीतचम्पकगन्धस्य यत्र वाय्वादिवृत्तित्वेनैव ग्रहस्तत्र 'चम्पकं जिघ्रति ' इत्यादिप्रयोगो नेष्यत एव । यत्तु आधेयतामात्रं द्वितीयार्थों न तु समवायावच्छिन्नत्वविशेषितमाधेयत्वम्, तथा च मुखादिसंपृष्टमृत्तिकादिगन्धे परम्परासंबन्धेन मुखादिवृत्तित्वस्य सत्वान्न तादृशस्थलेऽनुपपत्तिरिति । तदसत्-तथा सति 'कालं जिघ्रति' इतिप्रयोगस्य दुर्वारत्वात् । तत्वेन रूपेण वाक्यार्थस्याऽबाधातू-तादृशविषयितायामाननादिनिष्टप्रकारतानिरूपितत्त्वस्यापि संभवान्नात्र जिप्रतिप्रयोगानुपपत्तिरित्यर्थः । अत्र च " तदाननम् " इत्यत्र यद्यपि मुखस्यापि पार्थिवत्वेन तस्मिन्नपि समवायेन गन्धः संभवति तथापि "मृत्सुरभि " इत्युक्त्या गृह्यमाणगन्धो मृत्समवेत एव नाननसमवेत इत्यनुपपत्तिरासीत्, "आघातवान् " इत्यत्र तु वायौ समवायेन गन्धो न भवतीत्यनुपपत्तिरासीत् सैवात्रोद्धृतेति विज्ञेयम् । किं च वाय्वानीतचम्पकगन्धस्य यत्र वायुवृत्तित्वेनैव, ग्रहस्तत्र 'चम्पकं . जिति' इति प्रयोगो न भवति किं तु 'वायुं जिघ्रति । इत्येव प्रयोगो भवतीत्याह-वाय्वानीतेति, यथाज्ञानमेव प्रयोगसंभवादित्यर्थः * पुष्पं जिघ्रति ' इत्यत्र 'समवायसंबन्धावच्छिन्नाधेयत्वसंसर्गावच्छिन्नगन्धनिष्ठविषयतानिरूपिता या पुष्पनिष्ठा प्रकारता तन्निरूपिता या गन्धनिरूपितलौकिकविषयिता तादृशविषयिताशालि, प्रत्यक्षाश्रयश्चैत्रः ' इतिशाब्दबोधः । यद्यपि काले इव वायावपि समवायेन गन्धो न वर्तते तथापि वायौ सुगन्धत्वाद्यारोपो भवतीति सुगन्धादिपदसान्निध्ये सति " आघ्रातवान् गन्धवहं सुगन्धम्" इत्यादिप्रयोगो भवति काले च सुगन्धवाद्यारोपाभावात् 'कालं जिघ्रति , इति प्रयोगो न भवतीति परमार्थः । 'आघ्रातवान् गन्धवहम् ' इत्यत्र स्वसमवायिसंयुक्तत्वसंब. न्धावच्छिन्नाधेयत्वसंसर्गावच्छिन्नविषयतानिरूपितप्रकारता द्वितीयार्थ:-गन्धस्य स्वसमवायिसंयुक्तत्वसंबन्धेन वायौ सत्त्वात् तादृशसंबन्धावच्छिन्नाधेयत्वं वायुनिरूपितं गन्धे वर्तते एव तादृशाधेयत्वसंसर्गावच्छिन्नविषयता च गन्धे प्राप्ता तन्निरूपितप्रकारता च पूर्वोक्तदिशा वायौ प्राप्ता शेषं पूर्वघदेव । स्वं गन्धस्तत्समवायी पार्थिवपरमाणुः पुष्परेणुर्वा तत्संयुक्तत्वं वायावस्तीति तेन संबन्धेन वायावपि गन्धो वर्तते इति चिन्त्यम् । ___ननु ' पुष्पं जिघ्रति । इत्यादौ समवायसंबन्धावच्छिन्नाधेयत्वं न द्वितीयार्थों वक्तव्यः अर्थाद् गन्धादीनां समवायेन यत्पुष्पादिवृत्तित्वं तस्योक्तद्वितीयार्थे प्रवेशो न कर्तव्यः द्वितीयार्थप्रविष्टाघेयत्वं समवायावच्छिन्नं न ग्राह्यमिति यावत् येन "तदाननं मृत्सुरमि" इत्यादी गन्धस्य समवायेन मृत्तिकावृत्तित्वेन मुखवृत्तित्वाभावादन्वयबोधानुपपत्तिः स्यात् किं तु आधेयत्वमात्रमेव द्वितीयार्थस्तथा च "तदाननं मृत्सुरभि” इत्यादौ परम्परासंबन्धेन स्थाश्रयाश्रयत्वसंबन्धेन (स्वंगन्धस्तदाश्रयो मृत् तदाश्रयत्वं मुखे ) मृत्तिकानिष्टगन्धस्यापि मुखादौ वर्तमानत्वेन तादृशस्थले="तदाननं मृत्सुरभि " इत्यादिस्थले न काचिदन्चयानुपपत्तिः । 'पुष्पं जिघ्रति' इत्यादौ च गन्धस्य "Aho Shrutgyanam" Page #291 -------------------------------------------------------------------------- ________________ जितेः कर्मणि प्रयोग: ] व्युत्पत्तिवादः । ( २७९ ) ' पुष्पमाघ्रायते ' इत्यादौ च निरुक्तप्रकारत्वमाख्यातार्थः, आश्रयतासंबन्धेन पुष्पाद्यन्विते तस्मिन् धात्वर्थप्रत्यक्षस्य निरूपितत्व संबन्धेन तद्विशेषणतापन्नगन्धविषयितायाश्च निरूपितत्वसंबन्धेनान्वयः । एकधर्मिविशेषणतयोपस्थितस्थ स्वातन्त्र्येणान्यविशेषणतयाऽन्वय बुद्धेरे वाऽव्युत्पन्नत्वात्, अत्र च प्रत्यक्षप/रतन्त्र्येणैव गन्धविषयिताया आख्यातार्थेऽन्वयेन व्युत्पत्तिविरोधविरहात् । अस्तु वा गन्धो लौकिकविषयिता प्रत्यक्षं च विशकलितमेव धातोरर्थः । कर्त्राख्यातादिसमभिव्याहारे गन्धविषयितायाः प्रत्यक्षविशेषणतया कर्माख्यातसाक्षात्संबन्धेनैव पुष्पवृत्तित्वमस्तीत्याशङ्कते - यत्त्विति । परिहरति-तदसदिति, तथा सति== यदि “ तदाननम् ” इत्यत्र मृत्तिकाद्वारा गन्धस्य मुखवृत्तित्वमाश्रित्य तादृशपारम्परिक वृत्तिवस्य च द्वितीयार्थत्वमाश्रित्यानुपपत्तिः परिहृयते तदा गन्धस्य कालिकसंबन्धेन कालेपि वर्तमानत्वेन तादृशकालिकवृत्तित्वस्य द्वितीयार्थत्वाश्रयणेन : कालं जिप्रति । इत्यपि प्रयोगापत्तिः स्यादेव न चैतदिष्टमिति समवायावच्छिन्नमेवाधेयत्वं द्वितीयार्थी वक्तव्यस्तथा च गन्धस्य समवायेन कालवृत्तित्वाभावान्न ' कालं जिघ्रति ' इति प्रयोगापत्तिः । तदाननम् " इत्यादिस्थलीयान्वयबोधविचारस्त्वनुपदमेव कृतः 66 कर्माख्यातप्रयोगमुदाहरति पुष्पमिति, 'पुष्पमात्रायते ' इत्यत्र निरुक्तम्==गन्धविषयितानिरूपकं प्रकारत्वम् = विषयत्वं कर्माख्यातार्थः, तस्य प्रकारत्वस्याश्रयत्वसंबन्धेन पुष्पेऽन्वयात् आश्रयता संबन्धेन पुष्पादावऽन्त्रिते तस्मिन् = भाख्यातार्थप्रकारत्वे धात्वर्थप्रत्यक्षस्य निरूपितत्वसंबन्धेनान्वयः-प्रकारत्वस्य प्रत्यक्षनिरूपितत्वात् तथा धात्वर्थप्रत्यक्षविशेषणीभूतगन्धविषयिताया अपि तादृशप्रकारत्वे एव निरूपितत्वसंबन्धेनान्त्रय इति प्रत्यक्षादिनिरूपितप्रकारता ( विषयता ) श्रयः पुष्पमिति शाब्दबोधः । ननु गन्धविषयिता हि गन्धनिरूपिता प्रत्यक्षनिष्ठा विषयितैव सा च प्रत्यक्षे विशेषणमस्तीति प्रत्यक्षविशेषणत्वेनोपस्थिताया विषयिताया निरूपितत्व संबन्धेनाख्यातार्थप्रकारत्वे कथमन्वयः स्यात् – “ एकत्र विशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वासंभवात् ” इति नियमादित्याशङ्क्याह- एकेति एकत्र विशेषणत्वेनोपस्थितस्य स्वातन्त्र्येणान्यविशेषणत्वं न भवतीति पारतन्त्र्येणान्यविशेषणत्वे न कोपि दोषः ' धनी सुखी इतिवत् उक्तस्थले च प्रत्यक्षद्वारैव गन्धनिरूपित विषयिताया आख्यातार्थेऽन्वयोस्ति न स्वातन्त्र्येणेति न कोपि दोष इत्यर्थः । धर्मिपारतन्त्र्येणाप्येकत्र विशेषणस्यान्य विशेषणत्वास्वीकारे पक्षान्तरमाह - अस्तु वेति, पूर्व प्राधातोर्विशिष्टे गन्धनिरूपितलौकिकविषयिताशालिप्रत्यक्षे शक्तिरुक्ता, इदानीं पदार्थत्रये खण्डशः शक्तिरुच्यते इत्यर्थः । एवं च ' पुष्पं जिघ्रति' इत्यादिकर्नाख्यातस्थले गन्धनिरूपितविषयितायाः प्रत्यक्षविशेषणत्वं भवति - पुष्पवृत्तिगन्धनिरूपित विषयिताश्रयप्रत्यक्षवांश्चेत्र इतिबोधात् पूर्वपूर्वस्य विशेषणत्वादिति न कश्चिद् दोषः । 'पुष्पमाघ्रायते' इत्यादिकर्माख्यातस्थले च गन्धनि • " "Aho Shrutgyanam" Page #292 -------------------------------------------------------------------------- ________________ ( २८० ) सादर्श: [ द्वितीयाकारकप्रथमखण्डे - समभिव्याहारस्थले च प्रत्यक्षविशेष्यतयाऽन्वय इति न कश्चिद् दोषः । जिघ्रत्यर्थगन्धविषयितानिरूपकत्वमेव पुष्पादिनिष्ठं जिघ्रतिकर्मत्वमिति दिकू । अथ दृश्यादिसमभिव्याहत द्वितीयाया लौकिकविषयितार्थकत्वे 'सौरभं न पश्यति इत्यादौ सौरभादिनिरूपित लौकिकविषयिताशालिचाक्षुषाद्यप्रसिद्धया आकाशं न पश्यति' इत्यादौ चाऽऽकाशादिनिरूपित्तलौकिक विषयिताया एवाप्रसिद्ध्या तादृशविषयिताशालिचाक्षुषाश्रयत्वाद्यभावरूपवाक्यार्थाऽप्रसिद्धिः । न च ' सौरभं न पश्यति' इत्यादी सौरभादिनिरूपितलौकिकविषयित्वाभावचक्षुषादौ प्रतीयते इति वाच्यम्, एवमप्याकाश। दिनिरूपित लौकिकविषयित्वाsप्रसिद्ध्या ' आकाश न पश्यति ' इत्यादावप्रतीकारात् । 4 " रूपित विषयितायाः प्रत्यक्षविशेष्यत्वं भवति - प्रत्यक्षनिष्ठगन्धनिरूपितविषयितानिरूपित विषयताश्रयः पुष्पमितिबोधात् उत्तरोत्तरस्य विशेष्यत्वात् । तथा च गन्धादौ धातोः खण्डशक्तिस्वीकारेण धातुना गन्धनिरूपितविषयितायाः प्रत्यक्ष विशेषणत्वेनोपस्थितिरेव न भवति येन प्रत्यक्षविशेषणीभूतविषयिताया उक्तरीत्या निरूपितत्व संबन्धेनाख्यातार्थप्रकारत्वेऽन्वये विरोधः स्यात् किं तु विषयिताया धातुना स्वातन्त्र्येणैवोपस्थितिरिति तस्या आख्यातार्थेऽन्वये न कोपि विरोध इत्यर्थः । पुष्पनिष्ठ जिघ्रतिकर्मत्वस्य स्वरूपमाह- जिघ्रतीति, प्रत्यक्षकर्मभूतपुष्पादिपदार्थे प्रत्यक्षनिष्ठ विषयितानिरूपकत्वं यदस्ति तदेव जिघ्रतिकर्मत्वमस्ति, जिघ्रत्यर्थभूता या गन्धनिरू. पितप्रत्यक्षनिष्ठविषयिता तन्निरूपकत्वमित्यर्थः । एवमेवान्यत्रापि कर्मत्वस्वरूपमूह्यम् । 66 C ननु यदि (२७३ पृ० . ) चाक्षुषत्वाद्यवच्छिन्नवाचकदृश्यादि ” इत्युक्तप्रकारेण घट पश्पति' इत्यादौ दृश्यादिधातुसमभिव्याहृत द्वितीयाया लौकिकविषयित्वमर्थस्तदा सौरभस्य घ्राणप्रत्यक्षविषयत्वेन चाक्षुषप्रत्यक्षविषयत्वाभावात् सौरमनिरूपिता या लौकिक विषयिता तद्विशिष्टचाक्षुपप्रत्यक्षमेव प्रसिद्धं नास्तीति 'सौरभं न पश्यति चैत्र:' इत्यत्र चैत्रे सौरमनिरूपितलौकिकविचयिताशालिचाक्षुषप्रत्यक्षाश्रयत्वाभावस्याप्यऽप्रसिद्धत्वाद् बोधनं न संभवतीत्यनुपपत्तिः तथाऽऽ - काशस्य तु केनापीन्द्रियेण लौकिकप्रत्यक्ष न भवतीत्याऽऽकाशनिरूपितलौकिक विषयितैव क्वचिदपि प्रत्यक्षे नास्तीत्याकाशनिरूपित लौकिकविषयिताया. एवाप्रसिद्धत्वात् 'आकाशं न पश्यति चैत्रः ' इत्यत्राप्याकाशनिरूपितलौकिक विषयिताशालिचाक्षुषप्रत्यक्षाश्रयत्वाभावस्याप्रसिद्धया चैत्रे बोधनं न संभवतीत्यनुपपत्तिरित्याशङ्कते - भधेति । ननु सौरभस्य प्राणजप्रत्यक्षविषयत्वात् सौरमनिरूपितलौकिक विषविता या घ्राणजप्रत्यक्षे प्रसिद्धास्ति तस्या एव ' सौरभं न पश्यति इत्यत्र चाक्षुषप्रत्यक्षेऽभावः प्रतीयते इति वक्ष्याम इति न वाक्यार्थबोधानुपपत्तिरित्याशङ्क्याह- न चेति । परिहारमाह - एवमपीति, एवंरीत्या ' सौरभं न पश्यति ' इत्यत्र वाक्यार्थबोधोपपादनेपि आकाशं न पश्यति' इत्यत्र तु वाक्यार्थबोधोपपादनं नैव संभवति- उक्तरीत्याऽऽकाश L "Aho Shrutgyanam" Page #293 -------------------------------------------------------------------------- ________________ आकाश न पश्यतीतिविचारः ] व्युत्पत्तिवादः । ( २८१ ) न च लौकिकविषयितायां निरूपितत्वसंबन्धावच्छिन्न प्रतियोगिताकाऽऽकाशाभावः प्रतीयते इति वाच्यम्, वृत्त्यनियामकसंबन्धस्य संसर्गाभावप्रतियोगितानवच्छेदकतया तादृशाभावस्याप्रसिद्धेः । एतेन निरूपकतासंबन्धेन चाक्षुषादिविष्ठलौकिकविषयिताया अभावस्तत्राकाशादौ प्रतीयते इत्यपि निरस्तम् | अन्वयबोधस्य प्रथमान्तार्थमुख्यविशेष्यकतायाः सर्वानुभवसिद्धाया भङ्गप्रसङ्गाच, चाक्षुपादिनिष्ठ लौकिकविषयितात्वावच्छिन्नस्य पदाद्वाक्याच्चानुपस्थितत्वेन तद्राभास्याकाशादौ भानासंभवाच्च । भावान्वयबोधे च लौकिक विषयिताप्रकारेण चाक्षुषादेर्भानान्नाभावान्वयबोधे चाक्षुषप्रकारेण तस्या भानम् । निरूपितलौकिक विषयितैव कचित्प्रत्यक्षे प्रसिद्धा नास्ति यस्याश्चाक्षुषप्रत्यक्षेऽभावबोधनेन वाक्याबोध उपपद्यतेत्यर्थः । ननु घटादिप्रत्यक्ष स्थळे लौकिक विषयितापि प्रसिद्धास्त्याकाशमपि प्रसिद्धमेवेति 'आकाश न पश्यति । इत्यंत्र लौकिक विषयितायां निरूपितत्वसंबन्धेनाकाशाभावः प्रतीयते इति वक्ष्याम इति न वाक्यार्थबोधानुपपत्तिरित्याशङ्क्याद - न चेति । परिहारमाह- वृत्त्यनियामकेति निरूपितत्वस्य वृत्त्यनियामकत्वात् संसर्गाभावीयप्रतियोगितावच्छेदकत्वमेव न संभवति येन निरूपितत्व संबन्धेन लौकिक विषयितायामाकाशाभावप्रतीतिः स्यादित्यर्थः । एवमेव निरूपकवसंबन्धस्यापि वृत्त्यनियामकतया निरूपकत्व संबन्धेन चाक्षुषप्रत्यक्षनिष्ठलौकिक विषयिताया अव्याकाशादावभावस्तत्र = ' आकाशं न पश्यति' इत्यादौ प्रतीयते इत्यपि वक्तुं न शक्यते इत्यभिप्रायेणाह - एतेनेति । दोषान्तरमाह - अन्वयबोधस्येति, सर्वत्र प्रथमान्तार्थमुख्यविशेष्यक एम बोधो भवतीति नियमः अत्र यदि लौकिक विषयितायामाकाशाभावस्थाखयः स्यात्तदा लौकिकविषयिताविशेष्यक एव ब्रोधः स्यात् न च लौकिक विषयिता प्रथमान्तपदार्थः, एवमेव यद्यत्राकाशे चाक्षुषलौकिकविषयित्वाभावस्यान्वयः स्यात्तदाऽऽकाशविशेष्यक एवं बोधः स्याद् न.चाकाशः प्रथमान्तपदार्थ इत्यर्थः । दोषान्तरमाह- चाक्षुषति, ' आकाशं न पश्यति । इत्यत्र लौकिक विषयित्वमात्रं द्वितीयार्थः प्रत्यक्षमात्रं च धात्वर्थ इति चाक्षुषप्रत्यक्षनिष्ठलौक्तिकविषवितायास्तु केनापि पदेन वाक्येन वोपस्थितिरेव नास्ति येनाssकाशे चाक्षुषादिनिष्ठलौकिकविषयिताया अभावस्य मानं स्यात् - उपस्थितस्यैवाभावभानसंभवादित्यर्थः | दोषान्तरमाहभावान्वयेति, ' आकाशं पश्यति' इत्यत्राकाशनिरूपित लौकिक विषयिताशालिप्रत्यक्षाश्रयश्चैत्र इति भावान्वयबोधे लौकिक विषयिताप्रकारेण चाक्षुषादेर्मानात्=चाक्षुषप्रत्यक्षे लौकिकविषयिता प्रकारतया या भासते तस्या अभावान्वयबोधेपि चाक्षुषप्रत्यक्षप्रकारत्वेनैव भानं युक्तं न तु प्रत्यक्षविशेष्यतयेति ' आकाशं न पश्यति' इत्यत्रोक्तरीत्या चाक्षुषप्रत्यक्षनिष्ठलौकिकविषयिताभाबवानाकाश इत्याकारकाऽभावान्वयबोधे न चाक्षुषकारेण तस्या मानम् = तस्था लौकिकविषयिताया विशेष्यतया चाक्षुषप्रत्यक्षस्य च प्रकारतया मानं न संभवति - " प्रतियोग्य "Aho Shrutgyanam" . Page #294 -------------------------------------------------------------------------- ________________ सादर्श: ८ ( २८२ ) [ द्वितीयाकारकप्रथमखण्डे - अस्तु वा वृत्त्यनियाम कोपि संबन्धोऽभावप्रतियोगितावच्छेदकस्तथापि निरूपि तत्वसंबन्धावच्छिन्नप्रतियोगिताकस्य विषयिताविशेषनिष्ठाकाशाद्यभावस्य भानोपगमो न संभवति तथा सति 'आकाशं पश्यति चैत्रः' इत्याकारकवाक्यजन्यबोधदशायाम् 'आकाशं न पश्यति चैत्रः' इत्यादिवाक्याच्छाब्दबोधप्रसङ्गात् । 'आकाशं पश्यति मैत्रः' इत्यादिभ्रमदशायाम् 'आकाशं न पश्यति चैत्रः' इत्यादिवाक्याच्छाब्दबोधस्य दुरपन्हवतथा लौकिकविषयितात्वसामानाधिकरण्येनैव ताशाभाव बोधकं तद्वाक्यमुपगन्तव्यम्, तादृशबोधश्च लौकिक विषयितात्व सामानाधिकरण्यमात्रेणैवाऽऽकाशादिनिरूपितत्वावगाहिदर्शितयोग्यताज्ञानाऽप्रतिबध्य एक भावान्वयौ तुल्ययोगक्षेमौ ” इतिनियमादित्यर्थः । अत्र च ' भावान्वयबोधे लौकिकविषयिता - याश्चाक्षुषादिप्रकारत्वेन भान्नाभावान्वयबोधे तस्याः ( लौकिकविषयितायाः ) चाक्षुषादिविशेपत्वेन किंवा चाक्षुषादेर्लोौकिक विषयिताप्रकारत्वेन भानं युक्तम् ' इत्येवं पाठो युक्तः । ८ L * 7 वृत्त्यनियामकस्यापि निरूपितत्वादिसंबन्धस्याभावीयप्रतियोगितावच्छेदकत्वमभ्युपगम्य दोषमाह - अस्तु वेति, विषयिताविशेषः = लौकिकविषयिता, "न च लौकिक विषयितायाम् (२८१५० ) " इत्याद्युक्तं नोपपद्यते इत्यर्थः । उक्तमुपपादयति - तथा सतीति, तथा सति = यदि आकाश न पश्यति' इत्यत्र लौकिकविपयिताय निरूपितत्व संबन्धेनाऽऽकाशाभावस्य भानं स्यात्तदा * आकाशं पश्यति चैत्र: ' इत्याकारकवाक्यजन्यबोधदशायामपि ' आकाश न पश्यति चैत्रः इत्याकारक वाक्यादुक्ताभावविषयकः शाब्दबोधः प्रसज्येतैव = ' आकाशं पश्यति चैत्रः ' आन काशं न पश्यति चैत्र: ' इत्येतद्वाक्यद्वयजन्ययोः शाब्दबोधयोः परस्परमिष्टः प्रतिबध्यप्रतित्रन्धकभावो नोपपद्येतेत्यर्थः । प्रतिबध्यप्रतिबन्धकमावानुपपत्तिमुपपादयति- ' आकाश पश्यति मैत्र: इत्यादिना, आकाशं पश्यति मैत्रः' इत्याकारकभ्रमदशायामपि आकाश न पश्यति चैत्रः इत्याकारकवाक्यान्निरूपितत्व संबन्धावच्छिन्नप्रतियोगिताकलौकिक विषयितानिष्ठोक्ताकाशाभावविषयकशाब्दबोधोत्पत्तौ किमपि प्रतिबन्धकं नास्तीति तादृशशाब्दबोधस्य दु पन्हवतया लौकिकविषयितात्वसामानाधिकरण्येनैव = कस्यांचिल्लौकिक विषयितायामेव तादृशा. भावबोधकम् = निरूपितत्वसंबन्धेनाकाशाभावबोधकं तद्वाक्यम् = ' आकाशं न पश्यति चैत्रः इतिवाक्यमुपगन्तव्यम् = चैत्रीय प्रत्यक्षमात्रनिष्ठलौकिक विषयितायामेव निरूपितत्व संबन्धेनाकाशाभावान्यथबोधकत्वात्. मैत्रीयप्रत्यक्षनिष्ठलौकिक विषयितायां निरूपितत्व संबन्धेनाकाशाभावान्वया-' ऽसंमवात्- मैत्रस्याकाशकर्मकप्रत्यक्षस्यैव भ्रमेण प्रतिपन्नत्वादिति न लौकिक विषयितात्वावच्छेदेन निरूपितत्व संबन्धावच्छिन्नप्रतियोगिताकाऽऽकाशामाचान्वयबोधः संभवतीत्यर्थः । आकाश न पश्यति चैत्रः ' इत्याकारकवाक्यजन्यबोधस्योक्तदुरपन्हवत्वं हेतुमाह- तादृशबोधश्चेति, तादृशबोधः = ' आकाशं न पश्यति चैत्र: ' इत्याकारकवाक्यजन्यो निरूपितत्वसंबन्धावच्छिन्नप्रतियोगिताकलौकिक विषयितानिष्ठाकाशाभावान्वयबोधश्व लौकिकविपयितात्वसामानाधिकरण्यमात्रेण= ८ " Aho Shrutgyanam" Page #295 -------------------------------------------------------------------------- ________________ आकाशं न पश्यतीतिविचारः] व्युत्पत्तिवादः । (२८३) नं च चैत्रीयचाक्षुषादिनिष्ठलौकिकविषयितात्वावच्छेदेनैव तादृशाभावो दर्शितवाक्येन प्रत्याय्यते इति चैत्रीयचाक्षुषादिनिष्ठलौकिकविषयितायामाऽऽकाशीयत्वाद्यवगाही 'चैत्र आकाशं पश्यति' इतिवाक्यजन्यबोधः प्रतिवध्नात्येव तादृशवाक्यजन्यधियमिति वाच्यम् , तादृशविषयितात्वेन विषयिताया अनुपस्थितेस्त. दवच्छेदेनाभावप्रत्यायनाऽसंभवात् । 'चैत्र आकाशं पश्यति' इतिवाक्यजन्यकिंचिल्लौकिकविषयितायामेवाऽऽकाशनिरूपितत्वावगाहि यद् दर्शितयोग्यताज्ञानम्= आकाशं पश्यति मैत्रः" आकाशं पश्यति चैत्रः । इत्याकारकभावान्वयबोधकवाक्यजन्यं योग्यताज्ञानं ताह. शयोग्यताज्ञानेनाऽप्रतिबध्य एव अर्थात् समानविषयकयोरेव प्रतिबध्यप्रतिबन्धकभावो भवति अत्र च ' आकाशं पश्यति चैत्रः । इत्यनेन कस्यांचिल्लौकिकविषयितायामाकाशनिरूपितत्वं प्रतिपाद्यते' आकाशं न पश्यति चैत्रः' इत्यनेनापि कस्यांचिल्लौकिकविषयितायामाकाशाभावान्वयः प्रतिपाद्यते इति समानविषयकत्वाभावान्न प्रतिबध्यप्रतिबन्धकमावस्तथा च “आकाशं पश्यति चैत्रः । इत्याकारकवाक्यजन्यबोधदशायामपि 'आकाशं न पश्यति चैत्रः' इत्याकारकवाक्यजन्यबोधप्रसङ्गो दुर्वार एवेत्यर्थः । 'आकाशं पश्यति ' इत्यत्र प्रत्यक्षनिष्ठा विषयिताऽऽकाशनिरूपितेत्युक्तम्- “आकाशादिनिरूपितत्वावगाहि" इति । यदि "आकाशादिनिरूपितत्वा. भावावगाही" इत्येवमत्र प्रथमान्तपाठस्तदासौ "तादृशबोधः" इत्यस्य विशेषणमिति विज्ञेयम् । ननु यद्यपि 'आकाशं न पश्यति चैत्रः' इतिवाक्येन लौकिकविषयितात्वाबच्छेदेनाकाशाभावो, न प्रत्याय्यते तथापि दाशतवाक्येन चत्रीयचाक्षुषप्रत्यक्षनिष्टलौकिकवियितात्वावच्छेदेन तु तादृशाभाव: निरूपितत्वसंबन्धावच्छिन्नप्रतियोगिताकाऽऽकाशाभावः प्रत्याय्यते इति चत्रीयचाक्षुषादिनिष्टलौकिकविषयितायामाकाशनिरूपितत्वावगाही 'आकाशं पश्यति चैत्रः ' इतिवाक्यजन्यबोधः तादृशवाक्यजन्यधियम्= 'आकाशं न पश्यति चैत्रः ' इतिवाक्यजन्यं निरूपितत्व. संबन्धावच्छिन्न प्रतियोगिताकचैत्रीयप्रत्यक्षनिष्ठलौकिकविषयितानुयोगिकाकाशाभाधान्वयबोधं प्रति. बनात्येव- समान विषयकत्वात् तथा च 'आकाशे पश्यति चैत्रः ' इतिवाक्यजन्यबोधदशायाम् 'आकाशं न पश्यति चैत्रः' इतिवाक्यजन्यबोधस्यापत्तिर्नास्त्येवेत्याशझ्याह- न चेति । परिहारमाह- तादृशेति,अत्र लौकिकविषयितायाश्चैत्रीयचाक्षुषादिनिष्टलौकिकविषयितात्वेन रूपेणोपस्थि. तिरेव नास्ति येन तदवच्छेदेन चैत्रीयचाक्षुषादिनिष्टलौकिकविषयितात्वावच्छेदेनाकाशाभावप्रत्यायनं संभवेत् तथा चात्र लौकिकविषयितात्वसामानाधिकरण्येनैवाकाशाभावान्वयबोधो वक्तव्यः अन्यथा 'आकाशं पश्यति मैत्रः' इतिवाक्यजन्यबोधदशायामपि 'आकाशं न पश्यति चैत्रः' इतिवा. क्यजन्यबोधो नोपपद्येत, यदा च लौकिकवियितात्वसामानाधिकरण्येनेवाकाशाभावप्रतिपादनं प्राप्त तदा समान विषयकत्वाभावेनोक्तरीत्या प्रतिबन्ध्यप्रतिबन्धकामावस्थाऽभावात् ' आकाशं पश्यति चैत्रः' इतिवाक्यजन्यबोधदशायामपि 'आकाशं न पश्यति चैत्रः ' इतिवाक्यजन्यबोधप्रसङ्गः स्यादेवेति न लौकिकविषयितायां निरूपितत्वसंबन्धेनाकाशाभावान्वयः संभवतीत्यर्थः । ' आ "Aho Shrutgyanam" Page #296 -------------------------------------------------------------------------- ________________ (२८४) सादर्श:- [ द्वितीयाकारकप्रथमखण्डेबोधे चैत्रांशे दर्शनाश्रयत्वं विशेषणं दर्शनांशे लौकिकविषयिता विशेषणमिविरीत्यैव पदार्थानां भानात् , चैत्रीयचाक्षुषादिनिष्ठविषयितात्वं नाकाशादिधर्मितावच्छेदकं किं तु शुद्धलौकिकविषयितात्वमेवेति तस्य शुद्धलौकिकविषयितात्वावच्छेदेनाकाशाद्यभावावगाहिज्ञानं प्रत्येव प्रतिबन्धकतया निरुक्तधविच्छेदेनाकाशाद्यभावावगाहिज्ञानस्य तदप्रतिबध्यत्वाच्च । एतेन तत्राकाशादिपदस्याऽकाशादिनिरूपितत्वार्थकतां स्वीकृत्य लौकिकविपयितायामाश्रयतासंबन्धावच्छिन्नप्रतियोगिताकतदभावोपगमेनापि न निस्तारः । “घट आकाशं न पश्यति ' इत्यादौ नितरामेवाऽगतिः।। काशं न पश्यति चैत्रः । इतिवाक्येन चैत्रीयचाक्षुषादिनिष्टलौकिकविषयितायामेवाकाशामावान्वयबोधमभ्युपगम्यापि प्रतिबन्ध्यप्रतिबन्धकभावाऽभावमुपपादयति-- चैत्र इत्यादिना, “चत्र आकाशे पश्यति' इत्यत्राऽऽकाशनिरूपितलौकिकविषयिताविशिष्टदर्शनाश्रयत्ववाश्चैत्र इति बोधस्तथा चात्र लौकिकविषयिता एवाकाशनिरूपितास्तीति लौकिकविषयितायामेव मासमानायां निरूपितत्वसंबन्धेनाकाशं विशेषणमस्तोत्याकाशादिधर्मितावच्छेदकम् = आकाशस्य धर्मितावच्छेदकं शुद्धम्=चत्रीयादिचाक्षुषादिनिष्ठत्वविशेषगरहितमेव लौकिकविषयितात्वम् (धर्मितावच्छेदकम् ) अस्ति न तु चैत्रीयचाक्षुषादिनिष्ठलौकिकविषयितात्वं तथा च तस्य= आकाशं पश्यति चैत्रः' इतिवाक्यजन्यबोधस्य शुद्धलौकिकविषयितायामेवाऽऽकाशाभावावगाहिज्ञानं प्रति प्रतिबन्ध कत्वं संभवति-समानविषयकत्वात् न तु चैत्रीयचाक्षुषादिनिष्ठलौकिकविषतायामाकाशाभावावगाहिज्ञानं प्रत्यपि- भिन्न विषयत्वादिति तत्-तेन='आकाशं पश्यति चैत्रः' इतिवाक्यजन्यबोधेन निरुक्तधर्मावच्छेदेन चैत्रीयचाक्षुषादिनिष्ठलौकिकविषयितात्वावच्छेदेनाकाशामावावगाहिज्ञानस्या-.. ऽप्रतिबध्यत्वात् ' आकाशं पश्यति चैत्र: ' इतिवाक्यजन्यबोधदशायाम् ' आकाशं न पश्यति. चैत्रः' इतिवाक्यजन्यबोधः प्रसज्येतेवेत्यर्थः । उक्तदोषं प्रकारान्तरेण समर्थनेप्यतिदिशति- एतेनेति, यदि तत्र='आकाशं न पश्यति चैत्रः' इत्यत्राकाशपदस्थाकाशनिरूपितत्वमर्थ इति स्वीकृष्य लौकिकविषयितायामाश्रयतासंबन्धेन तदमाव: आकाशनिरूपितत्वाभावः प्रतीयते इत्युच्येत तदापि न निस्तार:-यत एवमप्युक्तरीत्या लौ. किकविषयितात्वसामानाधिकरण्यमात्रेणैवाऽऽश्रयतासंबन्धेनाऽऽकाशनिरूपितत्वाभावान्वयो वक्तव्यो न तु लौकिकविषयितात्यावच्छेदेन तथा सति 'चैत्र आकाशं न पश्यति ' इतिवाक्यजन्यबोधदशायां लौकिकविषयितात्वावच्छेदेनाकाशनिरूपितत्वाभावान्वयबोधे प्रतिबन्धकरूपे जाते लौकिकविषयितायामाकाशनिरूपितत्वावगाही 'मैत्र आकाशं पश्यति । इतिवाक्यजन्यबोधोपि नोपपद्येत तस्मात् 'चैत्र भाकाशं न पश्यति । इत्यत्र लौकिकवियितात्वसामानाधिकरण्येनेवाश्रयतासंबन्धेनाकाशनिरूपितत्वाभावस्यान्वयबोधो घाच्य इति ' चैत्र आकाशं न पश्यति ' इत्यनेन किंचिल्लौकिकविषयितायामाकाशनिरूपितत्वाभावान्वयबोधनेपि 'चैत्र आकाशं पश्यति' इति "Aho Shrutgyanam" Page #297 -------------------------------------------------------------------------- ________________ आकाशं न पश्यतीतिविचारः ] व्युत्पत्तिवादः । यत्तु नञर्थस्य द्विधा भानोपगमेनाऽऽकाशादिनिरूपितत्वाभाववल्लौकिकविषविताशालिचाक्षुषाश्रयत्वाभाववान् घट इत्याकारकस्तत्रान्वयबोध इति, तदपि न-तथा सति 'चैत्रो घटं न पश्यति चैत्र आकाशं न पश्यति' इत्यादिवाक्यजन्यशाब्दबोधादविलक्षणबोधस्य सर्वानुभवसिद्धस्य तादृशवाक्यादनुपपत्तेः, न हि तत्रापि तादृश एव शाब्दबोधः, तथा सति चैत्रो यदा घटादिकं न पश्यत्यपितु पटादिकमेव तदा घटाद्यनिरूपितलौकिकविषयिताशालिचाक्षुषाश्रयत्वावाकयेन किंचिलौकिक विषयितायामाकाशनिरूपितत्वबोधने विरोधाभावेन प्रतिबध्यप्रतिबन्धकभावाभावात् ' आकाशं पश्यति चैत्रः । इतिवाक्यजन्यबोधदशायामपि ' आकाशं न पश्यति चैत्र: ' इतिवाक्यजन्यबोधप्रसङ्गरूपो दोषस्तदवस्थ एवेत्यर्थः । ' आकाशं न पश्यति चैत्रः " इतिवाक्यजन्यबोधस्य कथंचित्समर्थन संभवेपि दुरुद्ररं दोषान्तरमाह-घट इति, नितरामेवागतिरिति-घटे लौकिकविषयिताशालिप्रत्यक्षाश्रयत्वमेव न संभवति जडत्वादिति तादृशप्रत्यक्षाश्रयत्वाभावो नितरामेवासंभवीत्यर्थः । आकाश निरूपित लौकिक विषयिताशालिप्रत्यक्षाश्रयत्वमप्यन्यत्रः प्रसिद्धं नास्ति येन घटे तदभावबोधनमुपपद्येतेत्यर्थः । " (२८५) "Aho Shrutgyanam" ... ननु वट आकाश न पश्यति ' इत्यत्र नञर्थस्याभावस्य द्विधा मानं वक्ष्यामस्तत्रैकस्याका• शनिरूपितत्वेन सहान्वयो द्वितीयस्य चाक्षुषाश्रयत्वेनान्वयस्तथा चाकाशनिरूपितत्वाभाववल्लीकिकविषयिताशालिचाक्षुषाश्रयत्वाभाववान् घट इति वाक्यार्थबोध: संपन्नस्तत्राऽऽकाश निरूपितत्वाभाववती या लौकिकविषयिता तादृशविषयिताशालि चाक्षुषप्रत्यक्षाश्रयत्वम् ' घढं पश्यति चैत्र: ' इत्यादौ चैत्रादौ प्रसिद्धमेव तस्यात्र घटेऽभावो बोध्यते इति न काचिदनुपपत्तिरित्याशङ्कते - यत्तु इति । परिहरति-तदपि नेति, तथा सति उक्तस्थले नञर्थस्य द्विधा मानोपगमें सति, यथा चैत्रो घटं न पश्यति ' चैत्र आकाश न पश्यति' इत्यादी नत्रर्थस्यैकदैव मानोपगमेन घटनिरूपितलौकिक विषयिताशालिचाक्षुषाश्रयत्वाभावविषयक आकाश निरूपितलौकिकविषयिताशालिचाक्षुषाश्रयत्वाभावविषयकश्च बोधो भवति तादृश एव तादृशवाक्यात् = ' घट आकाशं न पश्यति' इतिवाक्याद् नञर्थस्यैकदैव मानपूर्वक आकाशनिरूपित लौकिक विषयिताशालिचाक्षुषाश्रयत्वाभावविषयको बोधः सर्वानुभवसिद्धोस्ति तन्नोपपद्येत त्वया नञर्थमानस्य द्विधा स्वीकृतत्वादित्यर्थः । तत्रापि = ' चैत्रो घटं न पश्यति ' इत्यादिस्थले तु तादृशः= नञर्थस्य द्विधामानपूर्वकः शाब्दबोधो नैव भवति येनोक्तशाब्दबोधानां नञर्थस्य द्विधामानेन साम्यं स्यादित्याह-न हीति । विपक्षे बाधकमाह - तथा सतीति, यदि 'चैत्रो घटं न पश्यति इत्यत्र नञर्थस्य द्विधा मानं स्यात् तदा यदा चैत्रो घटं न पश्यति पटं च पश्यति तदा घटायनिरूपित=घटनिरूपितत्वाभाववलौकिकविषयिताशालि यत् पटविषयकचाक्षुषं तदाश्रयवस्यैव तत्र चैत्रे सत्त्वेन तदभावस्यासंभवात् ' चैत्रो घटं न पश्यति' इतिप्रयोगो नोपप द्येत - एतद्वाक्येन नञर्थस्य द्विधा माने घटनिरूपितत्वाभाववलौकिकविषयिताशालि चाक्षुषाश्रय Page #298 -------------------------------------------------------------------------- ________________ (२८६) .. सादर्शः- द्वितीयाकारकप्रथमखण्डेमावस्य तत्र बाधात् 'चैत्रो घटं न : पश्याति' इतिप्रयोगानुपपत्तेः, यदा च भावमात्रं पश्यति तदा भावानिरूपितलौकिकविषयिताशालिचाक्षुषाश्रयत्वाभाव: सत्वात् 'भावं न पश्यति चैत्रः' इत्यादिप्रयोगापत्तेश्च ।। . एवम् 'आकाशं न पश्यति घटः' इत्यादावाऽऽकाशाद्यनिरूपितलौकिकविषयिताशालिचाक्षुषाश्रयत्वाभावस्य वाक्यार्थत्वे यदाऽऽकाशाद्यतिरिक्तपदाथविषयकचाक्षुषाश्रयत्वभ्रमो घटादौ तदाऽऽकाशाद्यनिरूपितलौकिकविषयिताशा. लिचाक्षुषाश्रयत्वनिश्चयरूपप्रतिबन्धकसत्त्वेन ताशवाक्यजन्यशाब्दबोधानुप पत्तिः । यथा ' चैत्रो वटं पश्यति ' इत्यादिनिश्चयदशायाम् ' पटं न पश्यति स्वाभाव एव चैत्रे बोधनीयस्तत्तु न संभवति-घटनिरूपितस्वाभाववलौकिकविषयिताशालिपटविषयकचाक्षुषप्रत्यक्षाश्रयत्वस्यैव चैत्रे सत्त्वादिति - चैत्रो घटं न पश्यति ' इति प्रयोगानुपपत्तिरित्यर्थः । नार्थस्य द्विधामाने दोषान्तरमाह-यदा चेति, नर्थस्य द्विधा भाने 'भावं न पश्यति चैत्रः' इत्यनेनापि भावानिरूपित भावनिरूपितत्वाभाववल्लौकिकविषयिताशालिचाक्षुषाश्रयत्वाभावांश्चैत्र इत्येव बोधः स्यादिति यदा चैत्रो भावमात्रं पश्यति तदा चैत्रे भावनिरूपितलौकिकविषयिताशालिचाक्षुपाश्रयत्वस्य सत्त्वेन भावानिरूपितलौकिकविषयिताशालिचाक्षुषाश्रयत्वस्याऽसत्त्वात् भावानिरूपितलौकिकविषयिताशालि चाक्षुषाश्रयत्वाभावबोधकस्य 'भावं न पश्यति चैत्रः । इति वाक्यस्य प्रयोगापत्तिः स्यादेव न चैतदिष्टम, तस्मादुक्तस्थले नर्थस्य द्विधाभानोपगमो न संभवतीति ‘घट भाकाशं न पश्यति ' इत्यत्र वाक्यार्थबोधानुपपत्तिस्तदेवस्थैवेत्यर्थः । ' नार्थस्य द्विधाभाने दोषान्तरमाह-एवमिति, यदि नार्थस्य द्विधा भानेन : घट आकाशं न पश्यति । इति वाक्येनाकाशनिरूपितस्वाभाववलौकिकवियिताशालिचाक्षुषाश्रयत्वाभाव एव बोध्यते तदा यदाऽऽकाशाद्यतिरिक्तपदार्थ ( पटादि ) विषयकचाक्षुषाश्रयत्वभ्रमो घटे जात स्तदाऽऽकाशानिरूपितलौकिकविषयिताशालि यदाऽऽकाशाद्यतिरिक्तपटादिपदार्थविषयकं चाक्षुअप्रत्यक्षं तदाश्रयत्वस्य घटे निश्चये जाते तादृशनिश्चयस्य चाकाशानिरूपितलौकिकवियिताशालिचाक्षुषाश्रयत्वाभावबोध प्रति प्रतिबन्धकत्वेन तादृशवाक्यजन्य:='घट आकाशं न पश्यति' इतिवाक्यजन्य आकाशानिरूपितलौकिकविषयिताशालिचाक्षुषाश्रयत्वाभावविषयकः शाब्दबोचो नोपपद्यतेति घटे आकाशाद्यतिरिक्तपदार्थविषयकचाक्षुषाश्रयत्वभ्रमदशायाम् (काले ) · घट आकाशं न पश्यति । इतिप्रयोग इष्टोपि नोपपद्यतेत्यर्थः । ननूक्तभ्रमकाले उक्तप्रयोगस्तजज्यबोधश्च नोपपद्यतां को दोष इत्याशङ्क्याह-यथेति, यथा ' चैत्रो घटं पश्यति । इतिवाक्य. जन्यशाब्दबोधविषयस्य चैत्रवृत्तिघटविषयकप्रत्यक्षस्य निश्चयदशायाम् ‘पटं न पश्यति चैत्रः । इतिवाक्यजन्यशाब्दबोधोत्पत्तिः सर्वानुभवसिद्धा-' चैत्रो घटं पश्यति , 'चैत्रः पटं न पश्यति' "Aho Shrutgyanam" Page #299 -------------------------------------------------------------------------- ________________ आकाशं न पश्यतीतिविचारः ] व्युत्पत्तिवादः । ( २८७ ) चैत्रः इत्यादिवाक्यजन्यशाब्दबोधोत्पादोऽनुभवसिद्धस्तथैवोक्तभ्रम दशायाम् ' आकाशं न पश्यति घट: ' इत्यादिवाक्यजन्यबोधोत्पादोपीति न तत्रेष्टापत्तिः (अपि) संभवति । 2 यच्चाऽलौकिकविषयिताशून्य चाक्षुषत्वाद्यवच्छेदेनाकाशादिविषयकत्व घटादिवृतित्वोभयाभाव एव 'आकाशं न पश्यति' इतिवाक्यात् प्रतीयते, उपनीताकाशादिविषयकचाक्षुषे आकाशादिविषयकत्वचैत्रादिवृत्तित्वोभयसत्त्वेन ! चैत्र आकाशं न पश्यति' इत्यादिप्रयोगानुपपत्तिः घटादौ तादृशचाक्षुषाद्याश्रयत्वभ्रमदशायाम् 'घट आकाशं न पश्यति इत्यादिवाक्याच्छाब्दबोधानुपपत्तिइतिवाक्ययोस्तज्जन्यशाब्दबोधयोश्च परस्परं विरोधाभावात् तथैवोक्तभ्रमदशायाम् = घटे आकाशातिरिक्तपदार्थविषयकचाक्षुषाश्रयत्वभ्रमदशायाम् ' आकाशं न पश्यति घटः १ इतिवाक्यजयशाब्दबोधोत्पत्तिरपि सर्वानुभवसिद्धास्ति - ' पदं पश्यति घटः ' ' आकाश न पश्यति घंटः इतिवाक्यजन्यबोधयोः परस्परं विरोधाभावादिति तत्र = ' आकाशं न पश्यति घटः ' इतिवाक्यजन्यशाब्दबोधानुपपत्ताविष्टापत्तिरपि न संभवतीत्यर्थः । ' , < नन्वऽलौकिकविषयिताशून्यचाक्षुषत्वाद्यवच्छेदेन=अलौकिक विषयिताशून्यं यच्चाक्षुषप्रत्यक्षं तस्मिन्नाssकाशविषयकत्वस्य घटवृत्तित्वस्य चाभाव एव ' आकाशं न पश्यति घट:' इति वाक्येन बोध्यते - अलौकिक विषयिताशून्य चाक्षुपप्रत्यक्षमाकाशविषय कमपि न भवति घटवृत्त्यपि न भत्रति - आकाशस्यालौकिकविषयिताशालिचाक्षुषप्रत्यक्षविषयत्वाभ्युपगमात् एवं चात्र पक्षे नञर्थस्य द्विधाभानाभावाद् नञर्थस्य द्विधाभानप्रयुक्तोक्तदोषापत्तिर्नास्तीतिप्रतिपादकमतमनुवदति - यच्चेति । अत्राभावद्वयस्य भानेष्यभावस्य द्विधा मानं तु नास्तीत्यवधार्यम् । चाक्षुषप्रत्यक्षेऽत्रालौकिक विषयिताशून्यत्वविशेषणप्रदानस्य फलमाह - उपनीतेति, यदि घट आकाशं न पश्यति' इत्यत्रालौकिकविषयिताशून्यत्वविशेषणं परित्यज्य प्रत्यक्षमात्रे आकाशविषयकत्वघटवृत्तित्वोभयाभावान्वयबोध उच्येत तदोपनीताकाशादिविषयकचाक्षुत्रे - ' तत्राकाशे पक्षी ' इत्याकारके चैत्रवृत्त्याकाशविषयका लौकिकचाक्षुपप्रत्यक्षे आकाशविषयकत्वस्य चैत्रवृत्तित्वस्य च सत्त्वेनाऽऽकाशविषयकत्व चैत्रवृत्तित्वोभयामावबोधकम् ' चैत्र आकाशं न पश्यति इतिवाक्यं नोपपद्येत, अलौकिक विषयिताशून्यत्वविशेषणसत्त्वे तूक्तोपनीताकाशादिविषयकचाक्षुपप्रत्यक्षस्याऽलौकि रुविषयिताशालित्वेन तस्मिन्नाऽऽकाशविषयकत्वाभावस्यासंभवेपि कविषयिताशून्यचाक्षुषप्रत्यक्षे . त्वाकाशविषयकत्व चैत्रवृत्तित्वो भयाभावस्यान्वयसंभवात् आकाशं न पश्यति' इति प्रयोगानुपपत्तिर्नास्ति, तथा ययऽलौकिकविषयिताशून्यत्वं विशेषणं नेस्यात्तदा यदा घडे तादृशचाक्षुषाद्याश्रयत्वभ्रमः = आकाशविषयका लौकिक ( उपनीत ) चाक्षुषप्रत्यक्षाश्रयत्वभ्रमो जातस्तदा घट आकाशं न पश्यति । इतिवाक्यजन्यस्याकाशविषयकत्वघटवृत्तित्वो भयाभावविशिष्टप्रत्यक्ष विषयकशाब्दबोधस्यानुपपत्तिः स्यात् - घंटे आकाशविष अलौक चैत्र 6 "Aho Shrutgyanam" Page #300 -------------------------------------------------------------------------- ________________ (२८८) सादर्शा- द्वितीयाकारकप्रथमखण्टेचेत्यालौकिकविषयिताशून्यत्वेन चाक्षुषादिकं विशेषितम् । आकाशविषयक चाक्षुषाापनीतभानस्यापीतरांशे लौकिकत्वात् तादृशानुपपत्तितादवस्थ्यमऽतों लौकिकत्वविशेषणमुपेक्षितम् । अत्राऽलौकिकविषयिताशून्यचाक्षुषत्वाद्यवच्छिनस्य 'घट आकाशं न पश्यति ' इत्यादौ शक्त्या धात्वर्थत्वासंभवेपि प्रकृते तस्यैव लक्षणया धात्वर्थत्वमुपेयते । विषयितासामान्यमेव च द्वितीयार्थः, आश्रयत्वं द्वित्वं निरूपकत्वं चाख्याता:, आश्रयत्वे व्युत्पत्तिवैचित्र्यात् प्रथमान्तयकालौकिकप्रत्यक्षाश्रयत्वस्यैव ज्ञानस्य सत्वात्, अलौकिकविषयिताशून्यत्वविशेषणसत्त्वे तु घटे 'आकाशविषयकालौकिकचाक्षुषप्रत्यक्षाश्रयत्वभ्रमदशायामपि (घटवृत्त्यलौकिकविषयिताशालिप्रत्यक्षे आकाशविषयकस्वसत्त्वेपि)अलौकिकविषयिताशून्यचाक्षुषप्रत्यक्षे त्वाऽऽकाशविषयकत्वं नास्तीस्याऽऽकाश विषयकत्वघटवृत्तित्वोभयाभावस्यान्वयसंभवात् तद्विषयकस्य 'घट आकाशं न पश्यति । इतिवाश्पजन्यशाब्बोधस्यानुश्पत्तिनास्तीत्यलोकिक विषयितान्यत्वं प्रत्यक्ष विशेषणमुपन्यस्तमित्यर्थः । नन्वेवं लौकिकत्वमेव विशेषणमुपन्यस्यताम् अलौकिकविषयिताशून्यं हि प्रत्यक्षं लौकिकमेव भवतीति लौकिकत्वविशेषणसत्त्वेप्युक्तरीत्यैव ' चैत्र आकाशं न पश्यति 'घट आकाशं न पश्यति । इतिप्रयोगयोरनुपपत्तिर्नास्तीत्याशझ्याह- आकाशविषयकेति, उक्तस्य 'तत्राकाशे पक्षी.' इत्याद्याकारकस्यालौकिकस्याप्युपनीताकाशादिविषयकचाक्षुषस्येतरांशे पक्ष्याचंशे लौकिकत्वात् तादृशलौकिकप्रत्यक्षे आकाशविषयकत्वं घट चैत्रादिवृत्तित्वमपि चास्त्येवेति तादृशलौकिकप्रत्यक्ष आकाशविषयकत्वचैत्रादिवृत्तित्योभयाभावान्वयस्य बाधात् तादृशानुपपत्तिः आकाशविषयात्वचैत्रादिवृत्तित्वोमयाभावविशिष्टप्रत्यक्षबोधकत्वेनाभिमतस्य ' चैत्र आकाशं न पश्यति । इत्यादिवाक्यस्य प्रयोगानुपपत्तिस्तदवस्थैव स्यादिति लौकिकत्वविशेषणं नौपन्यस्तं किं बालौकिकविषयिताशून्यत्वमेव विशेषणमुपन्यस्तम्. अलौकिकविषयिताशून्यप्रत्यक्ष चाकाशविषयकत्वघटवृत्तित्वोभयाभावान्वये उक्तरीत्या न कोपि दोष इत्यर्थः । ननु यद्यलौकिकविषयिता: शून्यस्य चाक्षुषप्रत्यक्षस्य दृश्चात्वर्थत्वं स्यात्तदा दृशधातुनाऽलौकिकविषयिताशून्यचाक्षुपप्रत्यक्षस्योपस्थितौ सत्यां तत्राकाशविषयकत्वघटवृत्तित्वोमयाभावस्यान्वयः संभवेदपि न चैवमस्ति दृश्धातोश्चाक्षुषप्रत्यक्षमात्रार्थकत्वाद् अनुपस्थितपदार्थे च पदार्थान्तरान्वयासंभवादित्याशङ्क्याह-- अत्रेति । अत्र अस्मिन्मते। प्रकृते घट आकाशं न पश्यति' इत्यत्र अस्मिन् प्रकरणे वा । तस्यैव= 'अलौकिकवियिताशून्यचाक्षुषप्रत्यक्षस्यैव । धात्वर्थत्वम्-दृशधात्वर्थत्वम् । 'घट आकाशं न पश्यति । इत्यत्रत्त्यधात्वर्थमुक्त्वा इतरपदार्थानाह- विषयितेति, विषयितासामान्यस्य द्वितीयार्थत्वे यत्र लौकिकविषयिता प्रत्यक्षे संभवेत्तत्र लौकिकविषयिताया अन्धयः, यत्र चालौकिकविषयिता संभवेत्तत्रालौकिकविषयिताया अन्वय इति लाभः । घटः पश्यति' इत्यादी प्रत्यक्षनिरूपितस्या. ऽऽश्रयत्वस्य घटेऽन्वयस्तादृशाश्रयत्वनिरूपकं चाधेयत्वमेव पदार्थान्तरनिष्ठं भवतीत्याऽऽश्रयत्वनिरूपकत्वं वृत्तित्वमेवेति प्राप्तम् । 'घट आकाशं न पश्यति' इत्यत्र च घटस्य स्वनिष्ठत्वसंबन्धेनाधे "Aho Shrutgyanam" Page #301 -------------------------------------------------------------------------- ________________ आकाशं न पश्यतीतिविचारः ] व्युत्पत्तिवादः । (२८९) पदार्यघटादेस्तस्य निरूपकत्वे विशेषणतयान्वयः, तादृशनिरूपकत्वद्वितीयान्तार्थाकाशादिविषयकत्वयोश्च प्रकारतया द्वित्वान्वयः, द्वित्वाद्यवच्छिन्नप्रतियोगिताकत्वसंबन्धेन तादृशोभयस्य नर्थाभावे तस्यान्वयितावच्छेदकनिरुक्तधर्मावच्छेदेन धात्वर्थेऽन्वयः, धात्वर्थस्य प्रकृते मुख्यविशेष्यतयैव भानम् । अथ वा स्वनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वरूपव्यापकतासंबन्धन धात्वर्थस्य तादृशोभयाभावेऽन्वयः, तस्य चाख्यातार्थनिरूपकत्वे. तस्य प्रथमातार्थपदार्थे घटादौ. घटादेः प्रतियोगितावच्छेदकघटकतया तादृशाभावनिरूप. कत्वात् , एवं चान्वयबोधस्य प्रथमान्तपदार्थमुख्यविशेष्यकत्वनियमस्यापि न क्षतिरिति । यत्वसंबन्धेन वाऽऽश्रयत्वे तस्य आश्रयत्वस्य च प्रत्यक्षनिष्ठे निरूपकत्वे तादृशनिरूपकत्वे घट विशिप्राश्रयत्वनिरूपकत्वे घटवृत्तित्वरूपे आकाशविषयकत्वे च मिलित्वा द्वित्वस्य प्रकारतयान्वयस्ताहशोमयस्य-द्वित्वावच्छिन्नस्योक्तनिरूपकत्वाकाशादिविषयकत्वेतिद्वयस्य च द्वित्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन नगर्थाऽभावे तस्य अमावस्य च अन्वयितावच्छेदकनिरुक्तधर्मावच्छेदेन अलौकिकविषयिताशून्यचाक्षुषत्वावच्छेदेन धात्वर्थे चाक्षुषप्रत्यक्षेऽन्वयः, तादृशचाक्षुषप्रत्यक्षस्य च न कुत्राप्यन्वय इति मुख्यविशेष्यतयैव भानम्, तथा च घटवृत्तित्वाकाशविषयकत्वोमयाभावविशिष्टम् अलौकिकविषयिताशून्यचाक्षुषप्रत्यक्षमिति बोधस्याकारः किं वा यद् घटविशिष्टाश्रयत्वनिरूपकखमाकाशविषयकरत्वं चैतद्वयं तदभावविशिष्टम् अलौकिकवियिताशून्यचाक्षुषप्रत्यक्षमिति बोधस्याकार इत्यर्थः । ननु धात्वर्थस्य मुख्यविशेष्यतया भानस्वीकारे प्रथमान्तार्थमुरूपविशेष्यकबोधनियमस्य भङ्गः स्यादित्याशङ्कय प्रकारान्तरेण 'घट भाकाशं न पश्यति' इत्यत्र प्रथमान्तार्थमुख्यविशेष्यकबोधमुपपादयति- अथ वेति, तथा च धात्वर्थस्य-अलौकिकविषयिताशून्यचाक्षुषप्रत्यक्षस्य तादृशोभयाभावे-घटवृत्तित्वाकाशविषयकत्योभयाभावे व्यापकतासंबन्धेनान्वयः तस्य-उक्तोभयामावस्य चाख्याता भूतनिरूपकत्वे तस्य निरूपकत्वस्य प्रथमान्तपदार्थघटेऽन्वयस्तथा चात्र भलौकिकविपयिताशून्यचाक्षुषप्रत्यक्षविशिष्टोक्तोभयाभावनिरूपको घट इत्येवं प्रथमान्तार्थमुख्यवि. शेष्यक एव बोधो जात इति न काचिदनुपपत्तिरित्यर्थः । उक्तोभयाभावनिरूपकत्वं घटे कथमित्याशङ्कयोक्तम्- घटादेरिति, उभयाभावस्य प्रतियोगि उभयं तनिष्ठप्रतियोगिताया भवच्छेदककोटौ-घटवृत्तित्वाकाशविषयकस्वेत्यत्र घटस्यापि प्रवेशात् तादृशप्रतियोगितावच्छेदकघटकतया घटस्योक्तोभयाभावनिरूपकत्वं प्राप्त प्रतियोग्यादीनामेवाऽभावनिरूपकत्वात् । अलौ. किकवियिताशून्यचाक्षुषप्रत्यक्षमात्रे घटवृत्तित्वाकाशविषयकत्वयोरभावो भवत्येवेत्युभयाभावे यद् व्यापकत्वं प्राप्तं तस्य स्वरूपमाह- स्वनिष्ठेति, स्वंधात्वर्थः, अलौकिकविषयिताशून्यचाक्षुषप्रत्यक्षं घटवृत्तित्वाकाशविषयकत्वोभयाभावविशिष्टं न इत्याकारकस्तु घटवृत्तित्वाकाशविषयकरयो "Aho Shrutgyanam" Page #302 -------------------------------------------------------------------------- ________________ ( २९० ) सादर्श:- [ द्वितीयाकारकप्रथमखण्डे - तदपि न - घटादिविषयकचाक्षुषादेः कालिकादिसंबन्धेन घटादिवृत्तितया 'घटो घन पश्यति' इतिप्रयोगानुपपत्तेः आकाशादिविषयकत्वावच्छिन्ने चाक्षुषे कालिकादिसंबन्धेन घटादिवृत्तित्वनिश्चयदशायाम् 'घट आकाशं न पश्यति इतिवाक्याच्छाब्दबोधानुपपत्तेश्च समवायेन घटादिवृत्तित्वाकाशादिविषयकत्वोभयाभावभानस्यैव स्वीकरणीयतया 'अभाव आकाशं न पश्यति ' इत्यादावभावसमवेतत्वाऽप्रसिद्ध्या वाक्यार्थप्रसिद्धेर्दुर्वारत्वात् । चैत्रारतीतचाक्षुषस्य घटादिविषयकत्वेपि समयविशेषे 'चैत्रो घटं न पश्यति ' इतिप्रयोगाद् वर्तमानतादृशचाक्षुषत्वाद्यवच्छेदेनो भयाभावभानस्य प्रतियो भयाभावविशिष्टभेद उक्तप्रत्यक्षे नास्त्येव- उक्तप्रत्यक्षस्य घटवृत्तित्वाकाशविषयकत्वोभयाभावविशिष्टरूपत्वादेव किं त्वऽलौकिक विषयिताशून्यप्रत्यक्षं द्रव्यविशिष्टं न इत्याकारक एव स्वस्मिन् धात्वर्थप्रत्यक्षेऽन्योन्याभावः स्यात् तादृशान्योन्याभावप्रतियोगिताया द्रव्यविशिष्टनिष्ठाया भव च्छेदकं द्रव्यादिकमेव स्यान्न तूक्तोभयाभाव इत्युक्तोभयाभावे यत् प्रत्यक्षनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वं तदेव धात्वर्थी भूतोक्तप्रत्यक्ष निरूपितव्यापकत्वं तादृशव्यापकतासंबन्धेनोक्तोभयाभावे धात्वर्थस्योक्तस्यान्वय इत्यर्थः । उपसंहरति- एवं चेति । & परिहरति- तदपि नेति, उक्तरीत्या यत् प्रत्यक्षे घटवृत्तित्वाभाव उक्तस्तत्र यदि यत् समवायसंबन्धेन प्रत्यक्षस्य घटे वृत्तित्वं तदभावो नोच्येत तदा घटविषयकचाक्षुषप्रत्यक्षस्य घटे समवायसंम्बन्धेनाऽसत्त्वेपि कालिकसंबन्धेन तु सत्त्वमस्त्येवेति 'घटो घटं पश्यति' इत्येव स्यात् 'घटो घटं न पश्यति' इतिप्रयोगो नोपपद्येत, खमाकाशविषयकचाक्षुषप्रत्यक्षस्यापि घटे समवायसंबन्धेन निश्चयसंभवेपि कालिकसंबन्धेन तु निश्चयः संभवत्येवेति कालिकसंबन्धेनाकाशविषय कचाक्षुषप्रस्यक्षे घटवृत्तित्वनिश्चयदशायाम् घट आकाशं पश्यति' इत्येव स्यात् 'घट आकाशं न पश्यति इति प्रयोगस्तज्जन्यशाब्दबोधश्च नोपपद्येत इति हेतोः प्रत्यक्षस्य घटे समवायेन वृत्तित्वाभावो वक्तव्यः ( समवायेन घटवृत्तित्वाभावस्य भानं स्वीकार्यम् ) तथा च घंटे समवायेन प्रत्यक्ष नैन संभवतीति । घटो घटं न पश्यति घट आकाशं न पश्यति ' इत्यादिप्रयोगस्तूपपद्येत यद्यपि तथापि ‘अभाव आकाशं न पश्यति' इतिप्रयोगो नोपपद्येत- अभावे समवायसंबन्धेन कस्यचित् वृत्तिरेव प्रसिद्धा नास्ति येनाभावे समवायेन प्रत्यक्षाभाव उपपद्येतेत्यर्थः । घंटे तु गुणादीनां समवायेन वृत्तिः प्रसिद्धास्तीति समवायसंबन्धावच्छिन्नप्रतियोगिताको भाव उपपद्यते । तस्मात् ' घट आकाशं न पश्यति' इत्यत्रालौकिक विषयिताशून्यप्रत्यक्षे घटवृत्तित्वाऽऽकाशविषयकस्वो मयाभाव एवं प्रतीयते इति यदुक्तं तदपि न संभवतीति भावः । 5 6 चैत्रदेरिति - यदि 'घट आकाशं न पश्यति' इत्यत्र प्रत्यक्षे घटवृत्तित्वाकाशविषयकत्वोभावानं स्वीक्रियते तदा ' चैत्रो घटंन पश्यति ' इत्यत्रापि प्रत्यक्षे चैत्रवृत्तित्वपटविषयकnarara कार्य तत्र चैत्रवृत्त्यतीतचाक्षुषप्रत्यक्षस्य घटविषयकत्वसंभवेपि 'चैत्रो वट " Aho Shrutgyanam" 7 Page #303 -------------------------------------------------------------------------- ________________ श्राकाशं न पश्यतीतिविचारः] व्युत्पत्तिवादः। गिकोटौ वर्तमानत्वमन्तर्भाव्य त्रित्वावच्छिन्नाभावभानस्य वा स्वीकरणीयतया यदा किंचिदंशेऽलौकिकमेव घटादिचाक्षुषं तस्य वर्तते तदा 'चैत्रो घटं न पश्यति' इत्यादिप्रयोगापत्तेर्दुरित्वात्- वर्तमानाऽलौकिकविषयिताशून्यचाक्षुषत्वाधवच्छेदेन चैत्रवृत्तित्वघटविषयकत्वोभयाभावसत्त्वात् । समानेन्द्रियजन्योपनीतभानादौ लौकिकप्रत्यक्षसामय्या विरोधित्वस्य निष्प्रामाणिकतया लौकिकविषयितानियामकोपनायकज्ञानादिसमवहितलौकिकसंनिक. न पश्यति ' इत्यपि प्रयोगः समयविशेषे वर्तमानकाले संभवतीति वर्तमाने एवालौकिकविषयिताशून्यप्रत्यक्षे चैत्रवृत्तित्वघटविषयकत्योभयाभावभानं स्वीकार्य न तु प्रत्यक्षमात्रे ' पश्यति ' इत्यस्य वर्तमानकालिकत्वात् , किं वात्र वर्तमानत्वं प्रतियोगिकोटौ निवेश्य त्रित्वावच्छिन्नाभावभानम्= अलौकिकविषयिताशून्यप्रत्यक्षे वर्तमानत्वचैत्रवृत्तित्वघटविषयकत्वैतन्त्रितयाऽभावमानं स्वीकार्यम्एवं प्राप्ते यदा तस्य चैत्रस्य किंचिदंशे आकाशाद्यशेऽलौकिकमपि घटादिविषयकम् ' अत्राकाशे घटोस्ति ' इत्याद्याकारकं चाक्षुषप्रत्यक्षं जायेत तदा 'चैत्रो घटं न पश्यति ' इति प्रयोगो यद्यपि नेष्टस्तथापि वर्तमानालौकिकविषयिताशून्यचाक्षुषप्रत्यक्षे चैत्रवृत्तित्वघटविषयकत्वोभया. भावस्य सत्वात् 'चैत्रो घटं न पश्यति' इतिप्रयोग आपयेतेवेति दोषः । 'चैत्रो घटं न पश्यति' इत्यत्रोक्तरीत्या वर्तमानालौकिकविषयिताशून्यचाक्षुषप्रत्यक्षे चैत्रवृत्तित्वघटविषयकत्वोभयाभावभानस्वीकारेणाऽलौकिकविषयिताशालिघटविषयकचाक्षुषप्रत्यक्षस्य चैत्रे सत्त्वेपि वर्तमानालौकिकविषयिताशून्यघटविषयकप्रत्यक्षाभावस्यापि चैत्रे संभवात् तत्प्रतिपादकस्य 'चैत्रो घटं न पश्यति । इतिप्रयोगस्यापत्तिर्दुरैव स्यात्, न च ' अत्राकाशे घटः' इत्याद्याकारकाऽलौकिकविषयताशा. विघटविषयकचाक्षुषप्रत्यक्षस्य चैत्रे सत्त्वे - चैत्रो घटं न पश्यति । इतिप्रयोग इष्टः- अत्र धातुना लौकिकालौकिकत्वविशेषणशून्यचाक्षुषप्रत्यक्षोपस्थितेर्जायमानत्वाद् घटविषयककिंचित्प्रत्यक्षस्य सत्त्वाच्चेति ' चैत्रो घटं न पश्यति ' इत्यत्र प्रत्यक्षे उक्तोभयाभावभानस्वीकारो न युक्त इत्यर्थः । 'चैत्रो घटं न पश्यति' इत्यत्रालौफिकविषयिताशून्यचाक्षुषप्रत्यक्षे चैत्रवृत्तित्वघटविषयकस्वोभाभावमानस्वीकारे दोषान्तरमाह- समानेन्द्रियेति, यथा 'सुरभि चन्दनखण्डम्' इति समानेन्द्रियजन्योपनीतभानम्- चक्षुप्रैव चन्दनखण्डविषयकस्य सौरभविषयकस्य च प्रत्यक्षस्य जायमानत्वात् , तथा 'सुरभिर्घटः ' इत्यपि समानेन्द्रियजन्योपनीतभानम्- चक्षुषैव घटविषयकस्य पूर्वदिने घ्राणेन प्रत्यक्षीकृतसौरभविषयकस्य च प्रत्यक्षस्य जायमानत्वात् , तत्र यथा 'सुरभिचन्दनखण्डम् । इत्यत्र चन्दनखण्डस्य लौकिकसंनिकर्षादिरूपलौकिकप्रत्यक्षसामग्र्या लौकिक प्रत्यक्षं भवति सौरमस्य च स्मरणादिरूपाऽलौकिकप्रत्यक्षसामयाऽलौकिक प्रत्यक्ष भक्तीत्यऽली. लिकोपनीतभानं प्रति लौकिकप्रत्यक्षसामन्या विरोधो नास्तीति लौकिकालौकिकोमयविषयिताशालि 'सुरभि चन्दनखण्डम् ' इति चाक्षुषप्रत्यक्षं जायते तथैव 'सुरभिर्घटः' इत्यत्राप्युपनायक ( उपनीतापादक ) ज्ञानसहकृतो यो लौकिकविषयितानियामको लौकिकसंनिकर्षताह "Aho Shrutgyanam" Page #304 -------------------------------------------------------------------------- ________________ (२९३) सादर्श:- [ द्वितीयाकारकप्रथमखण्डेर्षाद् घटादिनिरूपितलौकिकाऽलौकिकोभयविषयिताशालिचाक्षुषादेरुत्पत्या ताह शचाक्षुषादिदशायामुक्तप्रयोगापत्तेः। ' आकाशादिनिरूपितालौकिकविषयिताशालिवर्तमानचाक्षुषाशे घटादिवृ. त्तित्वस्य आकाशीयत्वादिना लौकिकविषयितायाश्च भ्रमदशायाम् 'घट आकाशं न पश्यति ' इत्यादिवाक्याच्छाब्दबोधापत्तेर्दुरित्वाच्च । घटादिनिरूपिताऽलौकिकविषयिताशून्यचाक्षुषत्वाद्यवच्छेदेन घटादिविषयत्वघटितोभयाभावभा• नोपगमेष्यनिस्तारात् । शसंनिकर्षाद् घटनिरूपितलौकिकालौकिकोमयविषयिताशालि चाक्षुपप्रत्यक्षं जायते तथा च तादृशचाक्षुषादिदशायाम्= घटनिरूपितलौकिकालौकिकोभयविपयिताशालिचाक्षुप्त्रत्यक्षकालेपि उक्तप्रयोगापत्त= ' चैत्रो घटं न पश्यति' इतिप्रयोग आपोतव, यतः- 'चैत्रो चटं न पश्यति । इत्यत्र त्वऽलौकिकविषयिताशून्यचाक्षुपप्रत्यक्षे हि चैत्रवृत्तित्वघटविषयकत्योभयामावभानमुच्यते न तु लौकिकालौकिकोभयविषयिताशालिचाक्षुषप्रत्यक्ष तथा च 'सुरभिर्घट:' इत्याकारकस्य लौकिकालौकिकोभयविषयिताशालिचाक्षुषप्रत्यक्षस्य घटविषयकस्य चैत्रे सत्वेपि घटविषयकालौकिकविषयिताशालिचाक्षुपप्रत्यक्षाभावस्य चैत्रे बाधाभावात् सादृशप्रत्यक्षाभावप्रतिपादकस्य "चत्रो घटं न पश्यति , इतिप्रयोगस्यापत्तिः स्यादेव- मुरभिर्घटः , ‘चत्रो वटं न पश्यति' इतिवाक्ययोरुक्तरीत्या विभिन्नविषयत्वेनैककाले ताभ्यां जायमानशाब्दबोधयोर्विरोधासंभावात् . न च' सुरभिर्घटः ' इत्याकारकप्रत्यक्षकाले — चैत्रो घटं न पश्यति ' इतिप्रयोग इष्ट:- चैत्रे पटप्रत्यक्षस्य सत्त्वादेवेत्युक्तोभयाभावभानस्वीकारे दोष इत्यर्थः ।। " 'घट आकाशं.न पश्यति' इत्यत्रालौकिकविषयिताशून्यचाक्षुषप्रत्यक्षे वटवृत्तिस्वाऽऽकाशविषुयकत्वोभयाभावभानस्वीकारे दोषान्तरमाह-आकाशादीति । आकाशीयत्वादिना आकाशीयखेन रूपेण लौकिकविषयितायाः=आकाशनिरूपितलौकिकविपयितायाः । यदाऽऽकाशनिरूपितालौकिकविषयिताशालिवर्तमानचाक्षुषप्रत्यक्षे घटवृत्तित्वस्याकाशनिरूपितलौकिकवियिताशालि. त्रस्य च भ्रमो जातस्तदापि 'घट आकाशं न पश्यति । इतिवाक्यजन्यशाब्दबोध आपयेतेव । यत:--' बट आकाशं न पश्यति । इत्यत्रोक्तरीत्या वर्तमानालौकिकविषयिताशून्यचाक्षुषप्रत्यक्षे घटवृत्तित्वाकाश विषयकत्वोभयाभावमानस्वीकारे ह्याकाशनिरूपितलौकिकविषयिताशाल्याकाशविषयकचाक्षुषप्रत्यक्षभ्रमस्य घटे सत्त्वेप्याऽऽकाशविषयकाऽलौकिकविषयिताशालिवर्तमानचाक्षुपप्रत्यक्षाभावस्य घटे बाधामावात् बादशप्रत्यक्षाभावप्रतिपादकस्य 'घट आकाशं न पश्यति । इतिप्रयोगस्य तजन्यशाब्दबोधस्य चापत्तिः स्यादेव-उक्तभ्रमस्यैतद्वाक्यजन्यशाब्दबोधस्य च विभिन्न विषयत्वात् । न चाकाशनिरूपितलौकिकविषयिताशाल्याकाशविषयकचाक्षुषप्रत्यक्षस्य घटवृत्तित्वभ्रमदशायाम् 'घट आकाशं न पश्यति ' इतिप्रयोग इष्टः-घटे आकाशविषयकात्यक्षभ्रमस्य सत्त्वादित्यर्थः । इत्येवमनिष्टप्रयोगप्राप्तिरूपदोषनिकर प्रदर्य तस्य फलमाह "Aho Shrutgyanam" Page #305 -------------------------------------------------------------------------- ________________ आंकाशं न पश्यतिविचारः ] व्युत्पत्तिवादः । (२९३) एतेनाख्यालार्थवर्तमानत्वाद्यवच्छिन्नसमवायावच्छिन्नाश्रयत्वत्वाचवच्छिन्ने आकाशादिविषयकप्रतियोगिकत्वलौकिकान्यविषयिताशून्यचाक्षुषप्रतियोगिकरववाद्यनुयोगिकत्वैतत्रितयत्वावच्छिन्नाभावो भासते. अतः ' अभाव आकाशं घटादिनिरूपितेति, · चैत्रो घटं न पश्यति ' इत्यत्र घटनिरूपितालौकिकविषयिताशून्यचाक्षुषप्रत्यक्षे घटादिविषयत्वघटितोभयाभावभानोपगमेपि घटविषयकत्वचैत्रवृत्तित्वोभयाभावभानस्नीकारेप्युक्तदोषाणामापत्त्या न निस्तार इत्यर्थः । एवमेव 'घट आकाशं न पश्यति' इत्यत्रास्याकाशनिरूपितालौकिकविषयिताशालिचाक्षुषप्रत्यक्षे घटवृत्तित्वाकाशविषयकत्वोमयाभावमानस्वीकारेग्यऽनिस्तारो ज्ञेयः । अथ वेत्यादिना 'घट आकाशं न पश्यति' इत्यत्र यः खलु धात्वर्थीभूतोक्तप्रत्यक्षस्योक्तोभयाभावेऽन्वयः प्रदर्शितस्तत्राप्युक्तप्रयोगापत्त्यादिरूपदोषवृन्दं विज्ञमम्, तथा हि-चैत्रादाबुक्तोपनीतभानादिसत्त्वे ह्युक्तोपनीतभानरूपाऽलौकिकविषयिताशालिचाक्षुषप्रत्यक्षस्य.. . चैत्रादिवृत्तित्वाकाशविषयकत्वोमयस्मिन्नऽन्वयसत्त्वेप्यऽलौकिकविषयिताशून्यचाक्षुषप्रत्यक्षस्य चैत्रादिवृत्तित्वाकाशविषयकत्वोभयाभावेऽन्वये बाधकाभावात् तत्प्रतिपादकस्य चैत्र आकाशं न पश्यति । इत्यादिप्रयोगस्थापत्तिः स्यादेव, एवमेव 'घट आकाशं न पश्यति, इत्यादावप्येतदोषप्रसक्तिर्विज्ञेया । ___ उक्तदोषं प्रकारान्तरेणाप्युपपादनेऽतिदिशति-एतेनेति, यथा भूतले घटः ' इत्यत्र घटसंयोगो घटप्रतियोगिको भूतलानुयोगिकश्चेति भूतलवृत्तिघटाश्रयत्वे धटप्रतियोगिकत्वं भूतलानुयोगिकत्वं च भासते तथैव चैत्रो घटं पश्यति । इत्यत्र चैत्रवृत्ति यद् घटविषयकप्रत्यक्षाश्रयत्वं तादृशाश्रयत्वे चैत्रानुयोगिकत्वं लौकिकविषयिताशालिप्रत्यक्षप्रतियोगिकत्वं प्राप्त प्रत्यक्षप्रतियोगिकत्वे च प्राप्ते प्रत्यक्ष घटविषयकमेवेति घटविषयकप्रतियोगिकत्वं चापि प्राप्तं भासते, एवमेव 'घट आकाशं पश्यति । इत्यत्रापि ( घदे आकाशप्रत्यक्षमभ्युपगम्यैतत्प्रतिपादनमिति विज्ञेयम् । घटनिष्ठं यद् वर्तमानत्वावच्छिन्नम् तथा समवायसंबन्धावच्छिन्नम् समवायसंबन्धेन वर्तमानकालिकमाऽऽकाशविषयकप्रत्यक्षाश्रयत्वं तादृशाश्रयत्वे घटानुयोगिकत्वमऽलौकिकविषयिताशून्यप्रत्यक्षप्रतियोगिकत्वं प्रत्यक्षं चाकाशविषयकमेवेत्याऽऽकाशविषयकप्रतियोगिकत्वं चाभ्युपगन्तव्यमिति 'घट आकाशं न पश्यति ' इत्यत्र भाख्यातार्थीभूतवर्तमानत्वावच्छिन्ने समवायसंबन्धावच्छिन्ने आश्रयत्वत्वावच्छिन्ने= आश्रयत्वे एवाऽऽकाशविषयकप्रतियोगिकत्वस्य लौकिकान्य (अलौकिक) विषयिताशून्यचाक्षुषप्रत्यक्षप्रतियोगिकत्वस्य घटानुयोगिकत्वस्य चाभावो भासते इत्युच्यते, एवं च 'अभाव आकाशं न पश्यति' इत्यत्राप्युक्तानुपपत्तिर्नास्त्येव. भर्थात्-प्रत्यक्षे समवायेनाभाववृत्तित्वाभावविषक्षायामभावे समवावेन वृत्तित्वाप्रसिद्धया यः खलु ( २९० पृ.) उपालम्भः प्रदर्शितस्तस्येदानीमवकाशो नास्तिप्रत्यक्षे समवायेनाभाववृत्तित्वाभावस्याऽविवक्षगाद् उक्ताश्रयत्वे एवोक्तत्रितयाभावभानस्वीकारान् सत्र च बाधकामावान्न का चिदनुपपत्तिरित्यर्थः । अत्र च तटस्थे एवाख्यातेन भासमान "Aho Shrutgyanam" Page #306 -------------------------------------------------------------------------- ________________ (२९४) सादर्श:- [ द्वितीयाकारकप्रथमखण्ड:] न पश्यति ' इत्यादौ नानुपपत्तिः, तत्र विषयितावत प्रतियोगिकत्वं द्वितीयार्थः, निरुक्तचाक्षुषप्रतियोगिकत्वं त्रित्वं च धातोरर्थः. घटाद्यनुयोगिकत्वं च प्रथमान्द्रार्थ:. इत्यपि निरस्तम्, ___ इतिचेत् ? अगत्या 'घट आकाशं न पश्यति' इत्यादिवाक्यानामप्रामा: ध्यमुपगन्तव्यमिति ॥ ॥ इति द्वितीयाकारकप्रथमखण्डः ।। आश्रयत्वे त्रितयाभावान्बयो विज्ञेयः-चैत्रादिवृत्तिकिंचिन्निरूपिताश्रयत्वे चैत्राद्यनुयोगिकत्वस्यैव सत्त्वेन तदभावान्वयासंभवात् । तथा चाख्यातार्थभूतं वर्तमानत्वावच्छिन्नसमवायसंबन्धावच्छिमाश्रयत्वम् आकाशविषयकप्रतियोगिकत्वलौकिकान्यविषयिताशून्यचाक्षुषप्रत्यक्षप्रतियोगिकवघटाबनुयोगिकत्वैतत्रितयाभावविशिष्टमिति वाक्यार्थबोधः । अत्रत्यपदार्थानाह-तत्रेति, यथा निषषिता द्वितीयार्थस्तथात्र प्रतियोगिकत्वमेवाऽऽकाशादिपदोत्तरद्वितीयार्थः, लौकिकान्यविषयिताशून्यचाक्षुषप्रतियोगिकत्वं त्रित्वं च धात्वर्थः, घटाद्यनुयोगिकत्वं प्रथमान्तार्थ इत्यर्थः । उक्तानिष्टप्रयोगापत्तिरूपदोषप्रदर्शनेनेदमपि निरस्तमित्याह-इत्यपि निरस्तमिति, एवमपि चैत्रादिनिष्ठे उक्ताऽलौकिकविषयिताशाल्युपनीतभानाद्याश्रयत्वे घटादिप्रतियोगिकत्वादिसत्त्वेपि अलौकिकविषयिताशून्यचाक्षुषप्रत्यक्षस्य वर्तमानत्वावच्छिन्नसमवायावच्छिन्नाश्रयत्वे उक्तत्रितयाभावभाने बाधकामाषादुक्तरीत्या चैत्रादौ घटादिप्रत्यक्षदशायामपि ‘चत्रो घटं न पश्यति । इत्यादिप्र. बोलापत्तिर्दुर्वा स्वेत्यर्थः । इत्येवम् “अथ दृश्यादिसमभिव्याहृतद्वितीयायाः २८० पृ० " इत्यादिना यः खलु पूर्वपक्षः सवादः प्रतिपादितस्तमुद्दिश्याह- इतिचेदिति । अगत्येति- 'घट आकाशं न पश्यति' इत्यादिस्थले वाक्यार्थोपपादनं न संभवतीत्यगत्यैतादृशवाक्यानामप्रामाण्यमेव स्वीकार्यमित्यर्थः ।। ॥ इति व्युत्पत्तिवादाद” द्वितीयाकारकप्रथमखण्डः। "Aho Shrutgyanam" Page #307 -------------------------------------------------------------------------- ________________ [ अनुमित्याद्यर्थकधातुस्थलीयद्वितीयार्थः व्युत्पत्तिवादः। (२९५) अनुमित्याद्यर्थकधातुयोगे विधेयत्वं विधेयित्वं वा द्वितीयार्थः, तेन वह्वयादिपक्षकानुमितिपरस्य 'वहिमनुमिनोमि' इत्यादिवाक्यस्य न प्रामाण्यम् । यदि च वह्विसाध्यकपर्वतपक्षकानुमितिपरस्य 'वह्निमत्त्वेन पर्वतमनुमिनोमि 'इत्या. दिवाक्यस्यापि प्रामाण्यं मन्यते सदा तादृशे धातुयोगे उद्देश्यत्वमुद्देश्यित्वं वा द्वितीयार्थः, तस्य तृतीयान्तोपस्थाप्यसाध्यविधेयकत्वविशिष्टेऽन्वयः, अतो 'वहिमत्त्वेन ' इत्याद्यसमभिव्याहारे तत्र 'पर्वतमनुमिनोमि ' इत्यादयो न प्रयोगाः । प्रत्यक्षार्थकधातुसममिव्याहृतद्वितीयाया अर्थ प्रतिपाद्य संप्रत्यनुमित्याद्यर्थकधातुसममिन्यातद्वितीयाया अर्थ प्रतिपादयतुं द्वितीयखण्डमारभते- अनुमित्यादीति, ‘पर्वते वह्निमनुमिनोति चैत्रः' इत्यत्र प्राचीनमते विधेयत्वं द्वितीयार्थस्तन प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः, तस्य प्रत्यर्थे निष्ठत्व ( आश्रयत्व ) संबन्धेनान्वयः, द्वितीयार्थविधेयत्वस्य धात्वर्थेऽनुमितौ च निरूपकत्वसंबन्धेनान्वय आख्यातस्याश्रयत्वमर्थस्तथा चात्र वह्निनिष्ठविधेयतानिरूपकानुमित्या. श्रयश्चैत्र इतिशाब्दबोधः । पूर्वम् ( पृ० २७२ ) उक्तरीत्या ' वह्निमनुमिनोति जलं न ' इत्य मातुमिती जलनिष्ठविधेयताया निरूपकत्वसंबन्धेनाभावो वाच्यस्तत्तु न संभवति निरूपकत्वसं. गन्धस्थ वृत्त्पनियामकत्वादिति विधेयित्वं द्वितीयार्थ इति नवीना वदन्ति, विधेयित्वं तु विषयि. स्ववज्ञानधर्म एवेति तस्यानुमितावाऽऽश्रयतासंबन्धेनान्वय आश्रयतासंबन्धस्य च वृत्तिनियामकत्वेनाऽभावीयप्रतियोगितावच्छेदकत्वादाश्रयतासंबन्धावच्छिन्नप्रतियोगिताकस्य च जलनिरूपितविधेयित्वाभावस्थाऽनुमितावन्वये न काचिदनुपपत्तिरित्यर्थः, एवमेवापि बोध्यम् । उक्तस्य फलमाह- तेनेति, वयादिपक्षकानुमितिपरस्य' वावुष्णत्वमनुमिनोमि । इत्यनुमितिपरस्य ''वहिमनुमिनोमि । इत्यादिवाक्यस्य न प्रामाण्यापत्तिः यतः ' वह्निमनुमिनोमि' इत्यत्र वहौं विधेयत्वमभिमतं नास्तिं किं तूष्णत्वादावेव एवं वह्निनिरूपितविधेयित्वमनुमिताविष्टं नास्ति किं तूष्णत्वादिनिरूपित विधेयित्वमेव न च तादृशार्थबोधकत्वम् ' वह्निमनुमिनोमि ' इत्यस्य संभवतीत्यप्रामाण्यमित्यर्थः । एवम् पर्वतमनुमिनोमि । इत्यस्य वद्विविधेयकानुमितिप्रतिपादकत्वासंभवादप्रामाण्येपि ' यहिमत्त्वेन पर्वतमनुमिनोमि 'इतिवाक्यस्य तु प्रामाण्यमिष्टमेवेत्याह- यदि चेति । ' वह्निमत्त्वेन पर्वतमनुमिनोमि । इत्यत्र तादृशधातुयोगे अनुमित्यर्थकधातुसमभिव्याहारे पूर्ववत-- प्राचीनमते उद्देश्यत्वं द्वितीयार्थस्तस्य निरूपकतासंबन्धेन वह्निमत्त्वेनेतितृतीयान्तोपस्थाप्यं यत्साध्य ( वहि ) विधेयकत्वं तद्विशिष्टे धात्वर्थेऽन्वयस्तथा च पर्वतनिष्ठोदेश्यतानिरूपकवह्नि. विधेयकानुमितिवानिति बोधः । नवीनमते निरूपकत्वसंबन्धस्य वृत्त्यनियामकत्वात् “वद्धिमत्वेन पर्वतमनुमिनोति न जलवत्त्वेन ' इत्यत्र निरूपकत्यसंबन्धावच्छिन्नप्रतियोगिताकोद्देश्यत्वाभावत्यानुमितौ भानासंभवाद् उद्देश्यित्वं द्वितीयार्थः, अत्र च- पर्वतनिरूपितोद्देश्यित्वाश्रयानुमित्याश्रयश्चैत्र इतिबोधाकारः । तृतीयान्तोपस्थाप्यसाध्यविधेयकत्वविशिष्टे धात्वर्थे द्वितीयार्थान्वय. स्वीकारस्य फलमाह- अत इति. ' वह्निमत्त्वेन ' इत्यस्याऽसममिव्याहारे तदर्थस्थ साध्यविधेयक "Aho Shrutgyanam" Page #308 -------------------------------------------------------------------------- ________________ ( २९६ ) सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे - विधेयत्वाद्यर्थे तृतीयानुशासनविरहात् तृतीयान्तेन वह्नयादिविधेयकत्वं कथमुपस्थापनीयमिति तु न शक्यम्, वैशिष्ट्यरूपार्थे तृतीयानुशासनसत्त्वाद् विधेयतादेरपि वैशिष्ट्यरूपत्वात्, अत एव ' रजतत्वेन शुक्तिं जानाति ' इत्यादी ज्ञाने रजतत्वादिप्रकारकत्वस्य 'घटत्वेन वह्निर्नास्ति' इत्यादौ सौंदडमतेऽभावे घटत्वावच्छिन्नप्रतियोगिताकत्वस्य तृतीयान्ततो बोधः । तृतीयान्तार्थरजतादिप्रकारकत्वद्वितीयान्तार्थ शुक्त्यादिविषयकत्वयोर्विशिष्टवैशिष्ट्य बोध मर्यादयाऽवच्छेद्यावच्छेदकभावभानम् ' रजतत्वेन शुक्तिं जानाति ' इत्यादौ नियतम् - केवलमेकत्र द्वयमितिरीत्या तदुभयबोधस्य तत्राऽव्युत्पन्नत्वात्, अत: ' इमे रङ्गरजते ' इत्यादिप्रमापरस्य तादृशवाक्यस्य न प्रामाण्यम् । स्वस्योपस्थित्यऽसंभवेन धात्वर्थस्य तद्वैशिष्ट्यासंभवात् तत्र = उक्तस्थले ( उक्तप्रयोगस्थाने ) केवहम् ' पर्वतमनुमिनोमि ' इति प्रयोगो न भवतीत्यर्थः । " ननु विधेयत्वार्थे तृतीयाया अनुशासनेन विधानमेव न कृतमिति ' यह्निमत्त्वेन ' इति तृतीयान्तेन वह्निविधेयकत्वस्योपस्थितिरेव न संभवति येन तद्वैशिष्टयं धात्वर्थे प्राप्नुयादित्याशक्याह-- विधेयत्वाद्यर्थेति । उत्तरमाह- वैशिष्ट्येति, " इत्थंभूतलक्षणे " इतिसूत्रेण वैशिष्टार्थे तृतीया विधीयते एव विधेयत्वमप्यत्र वैशिष्ट्यरूपमेवेति वह्निमत्त्वेन इतितृतीयान्तेन वृद्धि विधेयकत्वोपस्थितेर्नानुपपत्तिरित्यर्थः । तृतीयाया वैशिष्ट्यरूपार्थबोधकत्वे प्रमाणमाहअत एवेति, अत एव = तृतीयाया वैशिष्ट्यरूपार्थबोधकत्वादेव ' रजतत्वेन शुक्तिं जानाति ' इत्यत्र रजतत्वप्रकारकशुक्तिविशेष्यकज्ञाने रजतत्वप्रकारकत्ववैशिष्ट्यम् ' रजतखेन ' इतितृतीयान्तेन प्रत्याय्यते, 'घटत्वेन वह्निर्नास्ति ' इत्यत्र च बह्व्यभावे घटत्वावच्छिन्नप्रतियोगिताकृत्ववैशिष्ट्यम्' घटत्वेन ' इति तृतीयान्तेन प्रत्याय्यते तथा च तत्र= रजतत्वेन शुक्ति जानाति इत्यत्र केवलमेकत्रद्वयमितिरीत्या यथा समूहालम्बनबोधविषययोः पदार्थयोः परस्परमऽबच्छेद्यावच्छेदकभावराहित्येन ( विशेष्यविशेषणभावराहित्येन ) भानं भवति तथात्र तदुभयबोवस्य=रजतत्वप्रकारकत्व शुक्तिविशेष्यकृत्वयोर्बोधस्यान्युत्पन्नत्वात् तृतीयान्तार्थं यद्रजतत्वप्रका रकत्वं द्वितीयान्तार्थ यच्छ्रुक्तिविषयकत्वम् - शुक्तिविशेष्यकत्वं च ज्ञाने भासते तयोर्विशिष्टवैशिष्ट्यबोधमर्यादया परस्परमवच्छेद्यावच्छेदकभावस्य नियमेन भानं भवति तत्र रजतत्वप्रकारकत्वमवच्छेदकं शुक्तिविशेष्यकत्वमवच्छेद्यमित्याह - तृतीयान्तार्थेति । अवच्छेद्यावच्छेदकभावमानस्य फलमाह - अत इति, ' इमे रङ्गरजते ' इत्यत्र समूहालम्बनबोधे रङ्गविषयकत्वरजतविषयकत्वयोः परस्परमवच्छेद्यावच्छेदकभावमानं न भवति ' रङ्गत्वेन रजतं जानाति ' इत्यत्र तु रङ्गश्वप्रकारकत्वरजतविशेष्यकत्वयोः परस्परमवच्छेद्यावच्छेदकमावमानं भवतीति 'रङ्गत्वेन रजतं जानाति' इत्यादियाक्यस्य रङ्गत्वप्रकारकत्वरजतविशेष्यकत्वयोरवच्छेद्यावच्छेदकभावपुरस्सर शाब्दबोधं प्रत्येव प्रामाण्यमस्ति न तु 'इमे रङ्गरजते' इत्यादिसमूहालम्बनशाब्दबोधं प्रत्यपीति यदि समूहालम्बनशाब्दबोधार्थ सादृशवाक्यम् = ' रङ्गत्वेन रजतं जानाति 'रजतत्वेन शुक्तिं जानाति इत्यादिवाक्यं प्रयु "Aho Shrutgyanam" L Page #309 -------------------------------------------------------------------------- ________________ प्रसङ्गेनाऽभावविचारः] व्युत्पत्तिवादः। (२९७) घटत्वाद्यवच्छिन्नवव्याद्यभावनिष्ठेन वयादिनिरूपितानुयोगिताविशेषरूपवयाद्यभावत्वेन तदभावनिष्ठघटत्वाद्यवच्छिन्नप्रतियोगिताकत्वस्याऽवच्छेद्यावच्छेदकभावः स्वीक्रियते । 'घटत्वेन वह्निनास्ति' इत्यादौ च तद्बोधस्योक्तरीत्या वश्यकत्वमिति घटत्वावच्छिन्नवहयाद्यभावस्य वद्वित्वावच्छिन्नघटाद्यभावसमनि: यतत्वेन तदभिन्नतया तत्र घटत्वाधवच्छिन्नप्रतियोगिताकत्वघटाद्यभावत्वसत्त्वेपि ताशाभावपरस्य घटत्वेन घटो नास्ति' वह्नित्वेन वह्निनास्ति' इत्यादिवाक्यस्य न प्रामाण्यम् । उक्तस्थलेषु तृतीयान्ताद्यर्थस्य द्वितीयान्ताद्यर्थेऽवच्छेद्यावच्छेदकभावसंबन्धेना. ज्यते तदा तस्य प्रामाण्यं न भवतीत्यर्थः । एवमेव ' वह्निमत्त्वेन पर्वतमनुमिनोमि' इत्यत्रामुमितो भासमानयोः पर्वतोद्देश्यकत्ववहिविधेयकत्वयोः परस्परमवच्छेद्यावच्छेदकभावो विज्ञेयः । 'घटत्वेन वह्निर्नास्ति ' इत्यत्रत्यावच्छेद्यावच्छेदकभावमाह- घटत्वाद्यवच्छिन्नेति, घटत्वाधवच्छिन्नवह्नयाद्यभावः घटत्वावच्छिन्नप्रतियोगिताकवह्नयभावस्तस्मिन् स्वप्रतियोगिकत्वसंबन्धेन वहितते इति वहिनिरूपितानुयोगिता वह्नयभावे प्राप्ता सा चानुयोगिता वह्नयभावत्वस्वरूपैवास्तीति वह्निनिरूपियोगिताविशेषरूपं यद् वयभावत्वं तथा तदभावनिष्ठम् वह्नयभावनिष्ठं यद् बटत्वावच्छिन्नप्रतियोगिताकत्वं च तयोः परस्परमवच्छेद्यावच्छेदकभावः स्वीक्रियते, तथा च 'घटत्वेन वहिर्नास्ति' इत्यत्र तद्बोधस्य-उक्तावच्छेद्यावच्छेदकभावपुरस्सरशान्दबोधस्यावश्यकत्वम् व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकाभावस्य केवलान्वयित्वाद् यत्र घटत्वावच्छिन्नप्रतियोगिताकवह्न - भावो वर्तते तत्र वह्नित्वावच्छिन्नप्रतियोगिताकघटाभावोपि वर्तत एवेति तयोः समनियतत्वेनाऽमिनत्वात् तत्र-तादृशाभावे यद्यपि घटत्वावच्छिन्नप्रतियोगिताकत्वं घटाभावत्वं च वर्तते एव तथा ब्रहित्वावच्छिन्न प्रतियोगिताकत्वं वयभावत्वं च वर्तत एव तथापि तादृशाभावपरस्य उक्तव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावपरत्वेन ' घटत्वेन घटो नास्ति''वहित्वेन वह्निर्नास्ति' इत्यादिवाक्यस्य प्रामाण्यं न भवति विभिन्न विषयत्वात्, यतः- उक्तव्यधिकरणधर्मावच्छिन्नवलपभावस्थले वह्नयभावत्वघटत्वावच्छिन्नप्रतियोगिताकत्वयोरवच्छेद्यावच्छेदकभावः प्रतीयते 'घटत्वेन घटो नास्ति ' इत्यत्र तु घटाभावत्वघटत्वावच्छिन्नप्रतियोगिताकत्वयोः 'वह्नित्वेन वहिर्नास्ति' इत्यत्र च वयभावत्ववह्नित्वावच्छिन्नप्रतियोगिताकत्वयोरवच्छेयावच्छेदकभावः प्रतीयते इत्यर्थः । तथा च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावपरस्य 'घटत्वेन घटो नास्ति । इत्यादिकाक्यस्य प्रामाण्यपरिहाराय ' असल्यमा पहिर्गस्ति इमारतोषपसमा धस्यावश्यकत्वमित्यन्वयः, अन्यथा 'घटत्वेन घटो नास्ति ' इत्यादिवाक्यस्याप्युक्तत्यधिकरगधर्मावच्छिन्नप्रतियोगिताकाभावविषयकशान्दबोधं प्रति प्रामाण्यापत्तिः स्यादेव । __परिहाराय प्राचीनकदेशिमतमनुवदति- उक्तस्थलेष्विति, यथा ' रजतत्वेन शुक्तिं जानाति । इत्यत्र तृतीयान्तार्थस्य-रजतत्वप्रकारकत्वस्य निमियान्तार्थे- शुक्तिविशेयको भलेल्या "Aho Shrutgyanam" Page #310 -------------------------------------------------------------------------- ________________ (२९८) सादर्श:- [ द्वितीयाकारकद्वितीयखण्डेन्वय इत्यपि केचित्, तन्न-विभक्त्यर्थे विभक्त्यर्थान्वयस्याव्युत्पन्नत्वात् । न च 'रजतत्वेनेदं ज्ञायते' इत्यादावाऽऽख्यातार्थविषयतायां तृतीयान्तार्थप्रकारताया निरूपितत्वसंबन्धेनाऽन्वयानोक्तव्युत्पत्तिकल्पनमिति वाच्यम्, तत्र रजतत्वादि. प्रकारकत्वविशिष्टधात्वर्थज्ञाननिरूपितत्वस्याख्यातार्थे भानस्वीकारेणैवातिप्रस. न च तस्मात् पचति ' 'तस्मात् चैत्रस्य ' इत्यादी विभक्त्यर्थं कृतिसंब. न्धादौ हेतुविभक्त्यर्थान्वयदर्शानान्नास्त्युक्ताव्युत्पत्तिरिति वाच्यम्, हेतुविभक्त्य: तिरिक्तविभक्त्यर्थस्य विभक्त्यर्थानन्वयनियमात् ।। कमावसंबन्धेनान्वय उभयोरपि ज्ञानस्थत्वेन समानाधिकरणत्वात्तथा च रजतस्वप्रकारकत्वावच्छिन्न मत् अक्तिविशेष्यकत्वं तद्विशिष्टज्ञानाश्रयश्चैत्र इति बोधः । एवम् ' वह्निमत्त्वेन पर्वतमनुमिनोमि । इत्यत्र वह्निविधेयकत्वस्य पर्वतोद्देश्यकत्वेऽन्वय इत्यर्थः । परिहरति- सन्नेति, विभक्त्यर्थस्य विभक्त्यर्थेऽन्वयो न भवतीति तृतीयान्तार्थस्य रजतत्वप्रकारकत्वादेः द्वितीयान्तार्थे शुक्तिविशेष्यकवादावन्धयो न संमवतीत्यर्थः । यथा प्राचीनमते स्वस्वामिभावः संबन्धस्तथात्रावच्छेद्यावन्छेदकभावस्य संबन्धत्वमुक्तम् । ननु ' रजतत्वेनेदं ज्ञायते ' इत्यत्र रजतत्वप्रकारतानिरूपित. ज्ञानीयविशेष्यता ( विषयता ) वदिदमिति बोधोदयादाख्यातार्थभूतायां विषयतायाम् विशेष्यतारूप विषयतायां निरूपितत्वसंबन्धेन तृतीयान्तार्थप्रकारताया: रजतत्वप्रकारताया अन्वयो भवति तत्राख्यातस्यापि विभक्तित्वेन विभक्त्यर्थे एव विभक्त्यर्थस्यान्वयो भवतीति उक्तव्युत्पत्तिकल्पनम् = विभक्त्यर्थस्य विभक्त्यर्थेऽन्वयो न भवतीति नियमकल्पनं न संभक्तीत्याशङ्क्याह- न चेति, परिहारमाह- तत्रेति, तत्र ' रजतत्वेनेदं ज्ञायते । इत्यत्र रंजतत्वप्रकारकत्वस्य तृतीयान्तार्थस्याऽऽख्यातरूपविभक्त्यर्थेऽन्वयो न भवति किं तु धात्वर्थज्ञाने. तादृशविशिष्टज्ञाननिरूपितत्वमेवाख्यातार्थविषयतायां भासते इति विभक्त्यर्थस्य विभक्त्यर्थेऽन्वयरूपातिप्रसङ्गस्यापत्तिर्नास्तीत्यर्थस्तथा च रजतत्वप्रकारकज्ञाननिरूपितविशेष्यतावदिदमित्यत्र शाब्दबोधः । - ननु ' तस्मात् पचति । इत्यस्य यस्मात् क्षुधितस्तस्मात् पचतीत्यर्थस्तथा च क्षुद्धेतुका पाकानुकूला कृतिरिति शाब्दबोधोदयाद् हेत्वर्थकपञ्चमीविभक्त्यर्थस्य हेतुकत्वस्याऽऽख्यातरूपविभक्त्यर्थे कृतावन्वयो दृश्यते ( आश्रयतासंबन्धेन तथा 'तस्माच्चैत्रस्य ' इत्यस्य यस्माच्चैत्रेण क्रीतं गृहीतं वा तस्माच्चैत्रस्येत्यर्थस्तथा चात्र क्रयादिहेतुकं चैत्रस्वत्वमितिबोधोदयात् पञ्चम्यर्थस्य हेतुकत्वस्य षष्ठ्यर्थ स्वत्वेऽन्वयो दृश्यते इति उक्ता व्युत्पत्ति विभक्त्यर्थस्य विभक्त्यर्थेन्वयो न भवतीति नियमो नास्तीत्याशङ्क्याह-न चेति । परिहारमाह-हेतुविभक्तीति, हेत्वर्थकविभक्त्यर्थस्य तूक्तरीत्या विभक्त्यन्तरार्थेऽन्वयो भवत्येवेति हेतुविभक्त्यतिरिक्तविभक्त्यर्थस्य विभक्त्यऽर्थेऽन्वयो न भवतीति नियमोस्तीति तृतीयान्तार्थरजतत्वप्रकारकत्वस्य द्वितीयान्तार्थशुक्तिविशेष्यकत्वे नान्वयः संभवतीत्यर्थः । "Aho Shrutgyanam" Page #311 -------------------------------------------------------------------------- ________________ विभक्त्यर्थान्वयविचारः व्युत्पत्तिवादः । ( २९९ न च ' रजतत्वेनेदं जानाति ' इत्यादौ तृतीयायाः कारकविभक्तित्वाभावान्न तदर्थस्य क्रियायामन्वयसंभव इत्यगत्या द्वितीयार्थे एव तदन्वय उपगन्तव्य इतिवाच्यम्, मणिकारमते ' तस्माज्जानाति ' इत्यादौ ज्ञानादिरूपधात्वर्थे एव हेतुविभक्त्यर्थस्य. ' तस्मात् स्थीयते ' इत्यादौ च सर्वमत एव धात्वर्थस्थित्पादों ब्रस्यान्वयेन षष्ठ्यर्थसंबन्धस्यापि " गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक स्वभेषजैः " इत्यादौ धात्वर्थेऽन्वयेन कर्मासमभिव्याहते ' रजतत्वेन जानाति १ इत्यादौ धात्वर्थे तृतीयार्थान्वयस्यावश्यकत्वेन कारकविभक्तिभिन्नविभक्त्यर्थस्य क्रियायामनन्वय इत्यनियमात् ननु यदुक्तम् ' रजतत्वेनेदं जानाति ज्ञायते ' इत्यादौ तृतीयान्तार्थरजतत्वप्रकारकत्वस्य धात्वर्थज्ञानेऽन्वयो न त्वाख्यातार्थविषयतायां वा द्वितीयार्थविषयतायां वान्वय इति तन्न युक्त त्रिभक्त्यर्थस्यैव धात्वर्थेऽन्वयनियमात् ' रजतत्वेन इतीत्थंभूतलक्षणतृतीयायाश्च कारकविभक्तित्वाभावान्न तदर्थस्य = रजतत्वप्रकारकत्वस्य धात्वर्थेऽन्वयः संभवतीत्यगत्या द्वितीयार्थे= द्वितीयार्थविषयतायामेव तदन्वयः = तृतीयार्थरजतत्वप्रकारकत्वस्यान्वयः स्वीकार्य इत्याशङ्क्याह-न चेति । परिहारमाह- मणिकारेति, तस्माज्जानाति । इत्यस्य यस्मादधीतं दृष्टं वा तस्म जानातीत्यर्थस्तथा चाऽध्ययनदर्शनादिहेतुकज्ञानवानिति बोधोदयादत्र हेतुविभक्तेः कारकविभक्ति, वाभावेपि तदर्थस्य हेतुकत्वस्य धात्वर्थीभूतज्ञानरूपक्रियायामेव मणिकारमतेऽन्वयो भवतिएवम् ' तस्मात् स्थीयते ( यस्मादाहानं कृतं तस्मात् स्थीयते ) इत्यत्र च सर्वमते एव धात्वर्थस्थितौ तस्य = हेतुविभक्त्यर्थस्य हेतुकत्वस्यान्वयो भवति, एवम् "" गुरुविप्र " इत्यत्र भिषक् गुर्वादिसंबन्धिनीं प्रतिक्रियाम् ( चिकित्साम् ) स्वभेषजैः कुर्यादितिबोधोदयादऽकारकविभक्तिष्टया अर्थस्य गुर्वादिसंबन्धित्वस्य धात्वर्थप्रतिक्रियायामेवान्वयो भवति, कर्मासमभिव्याहृते इदमित्यादिकर्मवाचकपदसमभिव्याहाररहिते ' रजतत्वेन जानाति ' इत्यादौ च तृतीयान्तार्थस्य रजतत्वादिप्रकारकत्वस्य धात्वर्थे एवान्वयोऽवश्यं स्वीकार्य :- अन्यत्रान्वयासंभवाद् न चात्र द्वितीयाविभक्तिरस्ति येन तदुपस्थितार्थे तृतीयार्थस्यान्वयः स्यादिति कारकविभक्तिभिन्नविभक्त्यर्थस्य धात्वर्थक्रियायामन्वयो न भवतीति नियमो न संभवति- उक्तोदाहरणेषु कार - कविभक्तिभिन्नषष्ठीपञ्चम्यादिविभक्त्यर्थस्य धात्वर्थेऽन्वयस्य प्रदर्शितत्वात् किं तु कारकविभक्तेः क्रियायामेवान्ययो भवतीत्ययमेव नियम इति रजतत्वेनेदं जानाति ' इत्यत्रापि तृतीयार्थस्य जतत्वप्रकारकत्वस्य धात्वर्थज्ञाने एवान्वयो न तु द्वितीयार्थशुक्तिविशेष्यकत्वे इति हेतुविभक्त्य - तिरिक्तविभक्त्यर्थस्य विभक्त्यर्थेऽन्वयो न भवतीति नियमः सिद्ध इत्यर्थः । इदमित्यादिकर्मवाचकपदसमभिव्याहारे तु कदाचित् तदर्थविशेष्यतायां तृतीयार्थस्य प्रकारत्वस्यान्वयः स्यादपि कर्मासमभिव्याहारे त्वगत्या धात्वर्थे एव तृतीयार्थान्वयः स्वीकार्य इत्युक्तम् - कर्मासमभिव्याहारे इति < ८ "Aho Shrutgyanam" Page #312 -------------------------------------------------------------------------- ________________ ( ३०० ) सादर्श: [ द्वितीयाकारकद्वितीयखण्डे एवम् 'घटत्वेन वह्निर्नास्ति ' इत्यादौ प्रथमार्थो नानुयोगित्वम्- प्रथमायाः संख्यातिरिक्तार्थाऽबोधकत्वनियमात्, अतो नञर्थाभावे संबन्ध एव तत्, तत्र च न तृतीयार्थान्वयसंभवः । मम त्वनुयोगिता संबन्धेन वहयादिविशिष्टाभावे तृतीयान्तार्थघटत्वावच्छिन्नप्रतियोगिताकत्ववैशिष्ट्यभानाद् विशिष्टवैशिष्ट्यबोधमर्यादया वह्नयाद्यनुयोगिकत्वेस्थलीयस्यानुयोगितया संबद्धवन्यादेस्तादृशप्रतियोगिताकत्वेनावच्छेद्यावच्छेदकभावभानोपगमेन सामञ्जस्यात् । अनुयोगिताया नञर्थतावच्छेदकत्वे तत्रैव वहयादेः प्रतियोगिनोऽन्वयः, अतस्तत्र तृतीयान्तार्थघटत्वावच्छिन्नप्रतियोगिताया निरूपकत्वेनान्वयं स्वीकृत्याऽतिप्रसङ्गवारणं सम्यक् प्रतिभाति । यथा त्रिभक्त्यर्थस्य विभक्तयन्तरार्थेऽन्वयो न भवति तथा संबन्ध भूतपदार्थेप्यन्वयो न भवतीति' घटत्वेन वह्निर्नास्ति इत्यत्र घटत्वेनेतितृतीयान्तार्थस्य घटत्वावच्छिन्नप्रतियोगिताकत्वस्य न संबन्धभूतेऽनुयोगित्वेन्वयः किं तु नञर्थाभावे एवेत्याह- एवमिति । नन्वऽनुयोगित्वस्य प्रथमार्थत्वसंभवात् संबन्धत्वं कथमित्याशङ्क्याह--प्रथमार्थ इति प्रथमायाः संख्यातिरिक्तार्थबोधकत्वाभावान्नानुयोगित्वस्य प्रथमार्थत्वं संभवतीति तत्-अनुयोगित्वं नञर्थाभावे प्रतियोगिभूलव्यादीनामऽन्वये संबन्ध एव प्रतियोगिभूतवद्वयादीनां स्वाभावेऽनुयोगित्वसंबन्धेनान्त्रयो वतीति यावत् तस्मात् तत्र = अनुयोगित्वे तृतीयार्थस्य घटत्वाद्यवच्छिन्नप्रतियोगिताकत्वस्यान्ययो - संभवति - अनुयोगित्वस्य संबन्धरूपत्वादित्यर्थः । स्वमतमाह-मम त्विति वह्नयमावे वह्निरपि वर्तते एवेति वह्नयभावे. यानुयोगिता प्राप्ता तादृशानुयोगितासंबन्धेन वह्निविशिष्टाभावे घटत्वेनेति तृतीयान्तार्थो घटत्वावच्छिन्नप्रतियो गितार्कनवमपि वर्तते एवेति " घटत्वेन वह्निर्नास्ति ' इत्यत्र विशिष्टवैशिष्ट्य बोधमर्यांदया=अनुयोगितासंबन्धेन वह्निविशिष्टेऽभावे घटत्वावच्छिन्नप्रतियोगिताकत्वस्यापि वैशिष्ट्यमस्तीति नञर्थाभावेअनुयोगितासंबन्धेन संबद्धो यो वह्निस्तस्यैव तादृशप्रतियोगिताकत्वेन = घटत्वावच्छिन्नप्रतियोगिताश्वेन सहावच्छेद्यावच्छेदकमावो मम मतेस्तीति न कोपि दोषः, वहेरेवावच्छेद्यत्वस्वीकारात् तृतीयान्तार्थस्य घटत्वावच्छिन्नप्रतियोगिताकत्वस्य च नञर्थाभावेन्यस्त्रीकारेण - विभक्त्यर्थेऽन्वयाऽस्वीकारादित्यर्थः । वह्न्यभावे वयनुयोगिकत्वं नान्वीयते किं तु वह्यनुयोगिकृत्वस्य स्थाने वह्निरेवानुयोगिता संबन्धेनान्वीयते इत्यभिप्रायेणोक्तम् - वयाद्यनुयोगिकत्वस्थलीयस्येति इदं च वज्ञयादेरित्यस्य विशेषणम् । यद्यनुयोगिताया उक्तरीत्या संबन्धत्वं न स्वीक्रियते किं तु नञर्थाभावावच्छेदकत्वं स्वीक्रियते तदा तत्रैव=अनुयोगितायामेव प्रतियोगिनो वहेः स्वनिरूपितत्वसंबन्धेनान्वयः स्वीकार्य : ( अनुयोगिताया वह्निनिरूपितत्वात् ) अतः = यतोऽनुयोगितायामेव वह्नेरन्चयोऽतस्तत्र = भनुयोगितायां तृतीयान्तार्थभूताया घटत्वावच्छिन्नप्रतियोगिताया निरूपकत्व संबन्धेनान्वयः स्वीकार्यो न तु घटत्वावच्छिन्नप्रतियोगिताकत्वस्य " Aho Shrutgyanam" Page #313 -------------------------------------------------------------------------- ________________ हितीयाविशेषार्थः] व्युत्पत्तिवादः। (३०१) रङ्गेऽभेदेन रजतारोपस्थले ' रङ्गं रजतेन जानाति ' इत्यप्रयोगातू तादात्म्य. भिन्नसंबन्धावच्छिन्नप्रकारतैव तृतीयार्थः । तत्र च 'रङ्गं रजतं जानाति ' इतिप्रयोगात् तादात्म्यसंबन्धावच्छिन्नप्रकारता कर्मत्वानुशिष्टद्वितीयादेरेवार्थः; तस्याश्च तादृशप्रकारवाचिपदसमानविभक्तिकपदोपस्थाप्यविशेष्यताविशिष्टाया. मेव ज्ञानरूपक्रियायामन्वयः तेन भेदारोपस्थले ' रङ्गे रजतत्वं जानाति । इतिवदऽभेदारोपस्थले ' रङ्गे रजतं जानाति' इति न प्रयोगः । उक्तस्थले च रङ्गरजतायोः समानविभक्तिकपदोपस्थाप्ययोरभेदान्वये साकाङ्क्षत्वेपि नायोग्यतया तादृशान्वयः। तादृशानुयोगिताया घटत्वावच्छिन्नप्रतियोगितानिरूपकत्वात् । अनुयोगितायामेव च तृतीयार्थप्र. तियोगिताया अन्वयस्वीकारादतिप्रसङ्गस्य विभक्त्यर्थस्य विभत्त्यर्थेऽन्वयरूपातिप्रसङ्गस्यापत्तिर्नास्ति किं तु वारणमेव जातम्, तथा चानुयोगितायां वर्तमानयोर्वह्निघटत्वावच्छिन्नप्रतियोगित्वयोरेवावच्छेद्यावच्छेदकभाव इत्यर्थः ।। ... रङ्गेऽभेदेनेति-रङ्गरजतयोर्भेदारोपस्थले तादात्म्यसंबन्धभिन्नो यः समवायादिसंबन्धस्तदवि. छिन्नप्रकारता तृतीयार्थो भवतीति — रङ्गं रजतत्वेन जानाति । इति प्रयोगों भवति-अत्र समवायसंबन्धावच्छिन्ना रजतत्वनिष्ठा या प्रकारता तस्यास्तृतीयार्थत्वात्, तादात्म्यसंबन्धावच्छिन्नप्रकारता तु तृतीयार्थो न भवतीत्यऽभेदारोपाऽभिप्रायेण — रङ्गं रजतेन जानाति ' इति प्रयोगो न भवति-अभेदारोपस्थलेप्यभेदान्वयस्थले इव तादात्म्यसंबन्धावच्छिन्न प्रकारताया अपेक्षितत्वात्तस्याश्च तृतीयार्थत्वासंभवादित्यर्थः । तत्र रङ्गेऽभेदेन रजतारोपस्थले ( अभिप्रायेण ) रगं रजतं जानाति' इति प्रयोगस्तु भवतीति तादात्म्यसंबन्धावच्छिन्नप्रकारता " कर्मणि द्वितीया " इत्याद्यनुशासनेन कर्मत्वेऽनुशिष्टाया द्वितीयाया अर्थो भवति अत्र रङ्गे रजतस्य तादात्म्यसंबन्धेन प्रकारत्वात् तथा च तादात्म्यसंबन्धावच्छिन्नरजतनिष्ठप्रकारताकं रगनिष्ठविशेष्यताकं च यज्ञानं तादृशज्ञानाश्रय इतिबोधः । तस्याः तादात्म्यसंबन्धावच्छिन्नप्रकारतायाश्च तादृशप्रकारवाचिपदं यद्रजतपदं तत्समानविभक्तिकं यद् द्वितीयान्तं रङ्गपदं तदुपस्थाप्या रङ्गपदोत्तरद्वितीयोपस्थाप्या या रङ्गनिष्ठा विशेष्यता तादृशविशेष्यताविशिष्टायां ज्ञानक्रियायामन्वयःरणनिष्ठविशेष्यताया रजतनिष्ठप्रकारतायाश्च निरूपकत्वसंबन्धेन ज्ञानेपि सत्त्वादेवेत्यर्थः । अस्थ फलमाह-तेनेति, भेदारोपस्थले यथा ' रङ्गे रजतत्वं जानाति' इति प्रयोगो भवति तथाऽभेदारोपस्थले 'रङ्गे रजतं जानाति । इतिप्रयोगो न भवति-अभेदारोपस्थले प्रकारवाचिरजतादिपदसमानविभक्तिकरङ्गादिपदोपस्थाप्यविशेष्यताविष्टायामेव ज्ञानादिक्रियायाः द्वितीयार्थप्रका• एताया अन्वयस्येष्टत्वात् ' रङ्गे रजतं जानाति ' इत्यत्र च रङ्गपदरजतपदयोः समानविभक्तिकस्वाभावेनोक्तान्चयासंभवादित्यर्थः । ननूक्तस्थलेरखं रेजतं जानाति ' इत्यत्र रणरजतयोरभेदान्वय एव 'नीलो घटः ' इत्यत्रेव कथं न स्वीक्रियते ? इत्याशझ्याह-उक्तस्थले चेति, "Aho Shrutgyanam" Page #314 -------------------------------------------------------------------------- ________________ ( ३०२ ) सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे - " नन्वेवं सतिः रङ्गरजतादिपदयोः सामानाधिकरण्यानुपपत्तिरिति चेत् ? का क्षतिः । न चैवं रजतगतैकत्वबहुत्वाऽविवक्षायाम् ' रङ्गाणि रजतं जानाति इतिप्रयोगस्य 'स्त्रियं पांसुला जानाति ' इति प्रयोगस्य च प्रसङ्गःसामानाधिकरण्यस्यैव समानवचनलिङ्गकत्वनियतत्वादिति वाच्यम्, समानाधिकरणयोरिव यत्पदार्थविशेष्यकत्व विशिष्टेऽभेद संबन्धावच्छिन्नयत्पदार्थप्रकारकत्वस्यान्वयस्तयोरपि समानलिङ्गवचनत्वनियमात् । 'रङ्गं रजतं जानाति ' इत्यत्र समानविभक्तिकपदोपस्थाप्यत्वेन रङ्गरजतयोरभेदान्वयानुकूलाकाइङ्क्षावत्त्वेपि परस्परं भिन्नव्यक्तिकत्वेनाभेदान्वयस्याऽयोगतया = बाधात् तादृशान्वयः =अभेदान्वयो न भवतीत्यर्थः । ' नौलो घटः ' इत्यत्र तु नीलपदघटपदयोरेकार्थबोधकत्वान्नीलपदार्थघटपदार्थयोर्भेदाभावादभेदान्ययो भवति, न चैवमत्रास्तीत्यऽभेदारोपो भवति न त्वभेदान्वय इतिभावः । ननु यदि रङ्गपदरजतपदयोर्विभिन्नपदार्थबोधकत्वेनैकपदार्थबोधकत्वं नास्ति तदा सामानाधिकरण्यं न भविष्यति भिन्नप्रवृत्तिनिमित्तयोः पदयोरेकार्थबोधकत्वस्यैव सामानाधिकरण्यनियामकत्वादित्याशङ्कते - नन्वेवमिति । ' रङ्गं रजतं जानाति ' इत्यत्र सामानाधिकरण्याभावं स्वीक रोति-का क्षतिरिति । ननु यदि ' रङ्गं रजतं जानाति ' इत्यादौ रङ्गपद्ररजतपदयोः सामानाधिकरण्यमिष्टं नास्ति तदा सामानाधिकरण्यस्यैव समानवचन लिङ्गकत्वनियतत्वात् = सामानाधिकरण्ये सत्येष समानवचन लिङ्गकत्वनियमात् रजतमतैकत्वाऽविवक्षायाम् रङ्गाणि रजतं जानाति, इत्यसमानवचनकः पांसुलागतबहुत्वाविवक्षायाम् ' स्त्रियं पांसुलाः जानाति इत्यऽसमानवचनकश्व प्रयोगः स्यादेव - अत्र समानधचनलिङ्गकत्व नियामकस्य सामानाधिकरण्यस्याऽनभिप्रेतत्वादिव्याशङ्क्याह-- न चैवमिति । किं वा रजतगतस्य स्त्रीगतस्य चैकत्वस्य रङ्गगतस्य पांसुलागतस्य च बहुत्वस्याविवक्षायामित्येवमन्ययः । रजतगतैकत्वविवक्षायां तु 'रङ्गाणि रजतम् ' इति प्रयोग इष्ट एव तथा पांसुलागतबहुत्वविवक्षायाम् ' स्त्रियं पांसुलाः ' इति प्रयोग इष्ट एवेत्युक्तम्रजतादिगतैकत्वबहुत्वाविवक्षायामिति । परिहारमाह- समानाधिकरणयोरिति, यथा समानाधिकरणयोः 'नीलो घटः इत्यत्र नीलपदघटपदयोः समानलिङ्गवचनकत्वनियमोस्ति तथा यत्प-दार्थविशेष्यकत्वविशिष्टभेद संबन्धावच्छिन्नयत्पदार्थप्रकारकत्वस्यान्वयो भवति तयोरपि तादृश- विशेष्यवाचकतादृशमकारयाचकपदयोरपि समानलिङ्गवचनत्वनियमोस्ति तथा च रगं . रजतं जानाति ' इत्यत्रोक्तरीत्या रङ्गविशेष्यकत्वविशिष्टे एव ज्ञाने तादात्म्यसंबन्धेन रजतप्रका- रकत्वस्यान्ययो भवतीति सामानाधिकरण्याभावेपि रङ्गरदरजतपदयोः समानलिङ्गवचनत्व नियम : : प्राप्त इति न ' राणि रजतं जानाति । इत्यादिप्रयोगापत्तिरित्यर्थः । नियतत्वात् " इत्यत्र नियामकत्वात् ' इत्येवं पाठो युक्तः । < "L .C "Aho Shrutgyanam" Page #315 -------------------------------------------------------------------------- ________________ उक्त यज्ञपतिमतम्] व्युत्पत्तिवादः। (३०३) __ यज्ञपतिमतानुयायिनस्तु ' रङ्ग रजतं जानाति ' इत्यादी सामानाधिकरण्या. नुरोधाइ रजतादिपदस्य रजताभेदज्ञानविषये लक्षणा, अत एव भ्रान्तिज्ञविशेषदशिना प्रयुक्तस्य 'लोहितवहिं जानाति ' इत्यादिवाक्यस्यापि प्रामाण्यनिर्वाहः । न ह्यऽसमासस्थले इव लोहितवढ्याद्योरभेदाऽविवक्षा- ज्ञानाशे लोहितादे: स्वात. येणान्वयो वा संभवति- कर्मधारयस्य साधुतानुपपत्ते. लोहितपदोत्तरं प्रका. रताबोधकविभक्तेरभावात्, धात्वर्थे साक्षान्नामार्थस्य भेदाऽन्वयेऽव्युत्पत्तेः । द्वन्द्वस्थलवत् कर्मधारयोत्तरविभक्तेः पूर्वपद प्रकृतिकवाभावात् तस्याः पूर्वपदार्था ‘रङ्गं रजतं जानाति ' इत्यत्र सामानाधिकरण्योपपादकस्य यज्ञपतेर्मतमाह- यज्ञपतीति, अत्र रजतपदस्य रजताभेदज्ञानविषये लक्षणास्ति तथा च रङ्गस्य रजताभेदज्ञानविषयत्वेन रङ्गपदार्थरजतामेदज्ञानविषयपदार्थयोरभेदात् सामानाधिकरण्ये न काचिदनुपपत्तिः, रङ्गविशेष्यकरजताभेदज्ञानविषयत्वप्रकारकज्ञानवानिति बोधाकार इत्यर्थः । एवं लक्षणया सामानाधिकरण्योपपादनस्य फलान्तरमाह- अत एवेति, ' लोहितवहिं जानाति । इत्यत्र वह्नः शुक्लत्वेन लोहितस्वाभावेपि लोहिताभेदज्ञानविषयत्वेन प्रामाण्यं निर्वहति । लोहितपदस्य लोहिताभेदज्ञानविषये लक्षणाया अस्वीकारे बाधकमाह- न हीति, 'रङ्ग रजतं जानाति ' इत्यत्र यथा रङ्गरजतयोरभेदविवक्षा नास्ति किं तु रजतप्रकारकत्वस्य ज्ञाने एवान्वयः स्वीकृतस्तथाऽसमासस्थले• लोहितं वह्नि जानाति ' इत्यत्रं त्वन्वयसंभवेप्यत्रेव ' लोहितवह्नि जानाति । इत्यत्र तु समासे लोहितवढ्योरभेदाऽविवक्षापि न संभवति- अमेदाविवक्षायाम् ' लोहितवह्निम् । इति कर्मधारयस्य साधुत्वं न स्यात्- अभेदविवक्षायामेव कर्मधारयस्थ साधुत्वात् यथा- ' नीलोत्पलम् । इति, लोहितपदार्थस्य स्वातन्त्र्येण ज्ञानेप्यन्वयो न संभवति लोहितपदोत्तरं प्रकारताबोधकद्वितीयाविभक्तेरमावादिति लोहितपदार्थस्य धात्वर्थज्ञाने साक्षाद्देदान्वय एव कर्तव्यः- अभेदान्वयासंभवात् तदपि न संभवति- धात्वर्थे नामार्थस्य साक्षाद् भेदान्वयस्याऽस्वीकारात्, द्वारी. भूतार्थप्रतिपादकविभक्तेरभावाच्चैत्यगत्या प्रामाण्यप्रतिपादनाय ' लोहितवह्निम् । इत्यत्र लोहित पदस्य लोहितामेदज्ञानविषये लक्षणा स्वीकार्या तथा च सामानाधिकरण्यसत्त्वात् कर्मधारय उपपद्यते, एवमेवासमासस्थलेपि 'रङ्गं रजतं जानाति ' इत्यादौ रजतादिपदस्य रजताद्यऽभेदज्ञानविषये लक्षणा स्वीकार्या तथा च रङ्गस्य रजताभेदज्ञानविषयेणाऽभेदात् सामानाधिकरण्यमप्युपपनमित्यर्थः । ननु यथा 'धवखदिरौ छिन्नत्ति ' इत्यत्र धवपदोत्तरं विभक्तेरभावेपि धवखदिरोभयपदोत्तरविभक्तिरेव धवपदार्थान्वितप्रकारतां बोधयति तादृशप्रकारतायाश्च धात्वर्थे। ऽन्त्रयो भवति तथा 'लोहितवह्निम् '. इतिकर्मधारयोत्तरविभक्तिरपि लोहितपदार्थान्वितप्रकारतां बोधयिष्यति तस्याश्च ज्ञानेऽन्ययो भविष्यतीत्याशङ्कयाह- द्वन्द्वस्थलवदिति, द्वन्द्वस्थले तूमयपदोत्तरं विभक्तेः प्राप्तस्वादुभयपदार्थान्वितप्रकारताबोधकरवं संभवति कर्मधारयस्थले तभयपदोत्तरं विभक्तेः प्राप्तिरेव नास्तीति कर्मधारयोत्तरविभक्तेः पूर्वपदप्रकृतिकस्वामावात् तस्याः कर्मधारयो "Aho Shrutgyanam" Page #316 -------------------------------------------------------------------------- ________________ ( ३०४ ) सादर्श: [ द्वितीयाकारकद्वितीयखण्डे - न्वितमकारताबोधकत्वायोगात् । न च द्वन्द्वसमास एवासौ - अल्पाची वह्निपदस्य पूर्वनिपातप्रसङ्गात् । समाहारपक्षे पुंलिङ्गताया इतरेतरपक्षे चैकवचनस्यानुपपत्तेः । एतन्मते 'शुक्लो वहि:' इत्यादिप्रमाया लोहिताभेदारोपविषयवह्निविषयकत्वेपि शुक्लो वहिर्लोहिता जपा' इतिसमूहालम्बनप्रमाया लोहिताभेदावगाहि स्वविषयवाहविषयकत्वेपि च तद्दशायाम् 'लोहितवहिं लोहितं वह्निवा जानाति इति न प्रयोग:- तादृशपदोपस्थाप्यविषयताया धर्मपारतन्त्र्येण द्वितीयार्थविषयतायामभेद संबन्धेन विशेषणताया नियमोपगमात् । अथ वा लोहिताभेदविषयतानिरूपितविषयतापन्नस्य वहयादेर्ज्ञानान्वायवित्तरविभक्तेर्दोहितादिरूपपूर्वपदार्थान्वितप्रकारताबोधकत्वं न संभवति । ननु ' लोहितवह्निम् इत्यपि द्वन्द्वसमासो भवतु ? इत्याशङ्क्याह- न चेति । तस्माल्लोहितपदस्यागत्या लोहिताभेदज्ञानविषये लक्षणा स्वीकार्यैवेत्यर्थः । समाहारो नपुंसको भवतीति पुंलिङ्गत्वानुपपत्ते: " लोहितवहिम्' इति पुंलिङ्गस्य समाहारद्वन्द्वत्वमपि न संभवति, इतरेतरद्वन्द्वसमास एकवच नान्तो न भवतीत्येकवचनत्वानुपपत्तेरितरेतरद्वन्द्रत्वमपि न संभवतीत्याह- समाहारपक्षेति । ननु यदि यज्ञपतिमते लोहितपदस्य लोहिताभेदज्ञानविषये लक्षणा तदा " शुक्लो वहिः इत्यादिप्रमाकालेपि ' लोहितवहिम् ' ' लोहितं वह्नि ' इत्यादिवाक्यस्य प्रयोगः स्यादित्याशक्याह-- एतन्मते इति, यद्यपि उक्ते ' लोहितवह्निम् ' इतिवाक्ये य एव लोहिताभेदारोपविविषयो वह्निर्विषयः स एव वह्निः 'शुक्लो वह्निः' इति प्रमायां विषयोस्ति बहेरेकत्वादिति 'शुक्लो वहि:' इतिप्रमाया लोहिताभेदारोपविषयवह्निविषयकत्वात् तथा ' शुक्लो वहिर्लोहिता जपा ' इति प्रमाया लोहितादावगाहित्यात् ( भत्र लोहितस्यापि विषयत्वात् वह्निविषयकत्वाचास्याः समूहालम्बनप्रमाया लोहिताभेदावगाहि यत् स्वं तद्विषयो यो वह्निस्तादृशवह्निविषयकत्वं प्राप्तं तस्माद् एतदुभयप्रमादशायां वहेर्लोहिताभेदावगाहिज्ञानविषयत्वेन लोहितवह्निम्. लोहितं हिम्' इत्यादिप्रयोगः स्यादेवेति प्राप्तं तथापि ' शुक्लो वह्निः ' काले उक्तसमूहालम्बनात्मकप्रमाकाले च ' लोहितवह्निम् लोहितं वह्निम् ' इत्यादिः प्रयोगो न भवति यज्ञपतिना तादृशपदोपस्थाप्यविषयतायाः = आरोप्यवाचकलोहितादिपदोपस्थाप्यविषयताया धर्मपारतन्त्र्येण= लोहितादिपदार्थद्वारा द्वितीयार्थविषयतायामऽभेदेन विशेषणत्वं स्वीक्रियते न चैत्रममेदेन विशेषणत्वं तदशायां संभवति वह्नेः शुक्लपदार्थेनैवाऽभेदस्योक्तोभयप्रमात्रिषयत्वाद् शुक्लत्वावरुद्धे च वह्नौ लोहितत्वान्वयासंभवात् उक्तौभयप्रमाया असत्त्वे तु 'लोहिहिम्. लोहितं वहिम् जानाति ' इति प्रयोगः संभवत्येवेत्यर्थः । · इत्याकास्कप्रमात्मकज्ञान 4 पक्षान्तरमाह--अथ वेति, 'लोहितवह्निम्. लोहितं वह्निम् ' इत्यत्र वह्नौ लोहिताभेदविषयताप्यस्ति वह्निविषयक ज्ञानविषयताप्यस्ति तयोश्व विषयतयोः परस्परं निरूप्यनिरूपकभावो " Aho Shrutgyanam" Page #317 -------------------------------------------------------------------------- ________________ उक्ते यज्ञपतिमतं तन्निरासश्च ] व्युत्पत्तिवादः । ( ३०५ ) पयितानिरूपकत्वं भासते । समूहालम्बनादौ च तादृशविषयतानापन्नस्यैव विषयितानिरूपकत्वमिति नातिप्रसङ्गः । विषयतापन्नस्य निरूपकत्वमित्यस्य च विषयतावच्छिन्नं निरूपकत्वमित्यर्थः । एतच्च विलक्षणं विषयितानिरूपकतावच्छे दकत्वमविषयस्यापि विषयत्वस्योपेयते ' रक्तदण्डवान्' इत्यादौ दण्डादिरूपप्रकारांशेऽप्रकारेणापि रक्तत्वादिप्रकारतानिरूपित विशेष्यत्वेन दण्डादिमकारताया अवच्छेद्यावच्छेदकभाववदित्याहुः । तन्न शोभनम् उक्तरीत्या विनैव लक्षणामुपपत्तौ तस्या अन्याय्यत्वात् । 6 , ' , विज्ञेय इति ' लोहितवह्निम् ' इत्यादौ लोहिताभेदविषयतानिरूपितविषयता ( वन्हिज्ञानीयवियता ) पन्नस्य वर्ज्ञाननिष्ठविषयिताया निरूपकत्वं भासते 'शुको वह्निः ' शुक्को वह्निर्लोहिता जपा' इत्यादौ च वह्नौ लोहितादविषयताया अभावात् तादृशविषयतानापन्नस्य = लोहिताभेदविषयतानिरूपित विपयतानापन्नस्यैव वह्नेर्ज्ञाननिष्ठविषयितानिरूपकत्वं भासते इति 'लोहितकहिम्' इत्यादौ लोहिता मेदविषयतानिरूपितविषयतापन्नस्य वर्विषयत्वात् 'शुक्लो वह्निः' इत्यादौ च लोहिताभेदविषयतानिरूपित विषयतानापन्नस्यैव वहेर्विषयत्वाद् विषयभेदेन समानार्थकत्वाभा बात् नातिप्रसङ्गः=' शुक्लो वह्निः ' इत्यादिप्रमाकाले ' लोहितवहिम्' इत्यादिप्रयोगापत्तिर्नास्तीत्यर्थः ः । वह्निनिष्ठाया लोहितादविषयतानिरूपितविषयताया वह्निनिष्टस्य ज्ञानीयविपयितानिरूपकत्वस्य च परस्परमवच्छेद्यावच्छेदकभावसूचनार्थमाह - विषयतापन्नस्येति, वह्नावुक्तविषयताप्यस्त्युक्तनिरूपकत्वमप्यस्तीत्युक्तनिरूपकत्वमुक्तविषयतावच्छिन्नं जातमिति विषयताया अवच्छेदकत्वं निरूपकत्वस्य चावच्छेद्यत्वं प्राप्तम्, अयं चावच्छेद्यावच्छेदकभावः ' लोहितवह्निम् ' इत्यादिवाक्यजन्यबोधे भासते ' शुक्लो वह्निः ' शुक्लो वह्निर्लोहिता जपा इत्यादिवाक्यजन्यबोधे च न भासते इति समानार्थकत्वाभावात् 'शुको वह्निः ' इत्यादिप्रमाकाले ' लोहितवह्निम् ' इत्यादिप्रयोगापत्तिर्नास्तीत्यर्थः । ननु विपयतायां ज्ञानविषयत्वस्वीकारेऽनवस्थाप्रसङ्गादविषयस्यैव वहिनिष्ठविपयत्वस्योक्तविषयितानिरूपकतावच्छेदकत्वं वक्तव्यं तञ्च कथं स्यात् ? ज्ञानविषयीभूतस्यैवावच्छेदकत्वस्वीकारादित्याशङ्क्याह - एतचेति, ८ यथा रक्तदण्डवान् ' इत्यत्र दण्डवति दण्डो दण्डे रक्तं रक्ते च रक्तत्वं विशेषणं न तु दण्डे इति रक्तत्वनिष्टप्रकारतानिरूपित विशेष्यता रक्ते एक भासते न तु दण्डे इति दण्डाभिन्नप्रकारेऽप्रकारेण = प्रकारतया भासमानेनापि रक्तत्वनिष्ठप्रकारतानिरूपित विशेष्यत्वेन दण्डनिष्ठा प्रकारताऽवच्छिन्ना भवति तथैवात्राप्यविषयस्यापि वह्निनिष्ठविषयत्वस्य विषयितानिरूपकतावच्छेदकत्वं स्वीक्रियते इत्यर्थः । दृष्टान्ते " अप्रकारेणापि " इति यदुक्तं तेन रक्तत्वादिप्रकारता निरूपित विशेष्यत्वस्याऽविषयत्वमेव प्राप्तं प्रकारीभूतपदार्थस्य ज्ञानविषयत्वनियमात् रक्तत्वप्रकारतानिरूपितविशेष्यत्वस्य रक्तवृत्तिखेन ज्ञानविषयत्वेपि दण्डवृत्तित्वेन ज्ञानाविषयत्वमस्त्येव--रक्तपदार्थदण्डपदार्थयोरमेदेपि शब्दभेदेनार्थभेदस्वीकारात् तदुक्तम् - " प्रतिशब्दमर्यो भिद्यते " इति । वस्तुतो रक्तपदार्थदण्डपदार्थयोरमेदा रक्तनिष्ठं रक्त . २० "Aho Shrutgyanam" Page #318 -------------------------------------------------------------------------- ________________ ( ३०६ ) सादर्श: [ द्वितीयाकारकद्वितीयखण्डे - अथोक्तस्थले मारोप्यारोपविषयबोधकपदयोर्ज्ञानान्वितार्थकत्वे कर्मप्रत्ययस्थले 'लोहितो वह्निर्ज्ञायते ' इत्यादौ विशेष्यभेदाद्वाक्यभेदापत्तिः । न च लोहिनाभेदज्ञानविषयो वह्निरित्येव शाब्दधीरुपगम्यते न तु ज्ञाने प्रकारो लोहितो विशेष्यश्च वह्निरिति समूहालम्बनं तथा सति ' शुक्को वहिलोहिता जपा ' इत्यादावपि तथाप्रयोगप्रसङ्गात् दर्शितविशिष्टवैशिष्ट्यबोधस्वीकारे लोहितादिमकारकत्वविशिष्टनिरूपितविशेष्यतायाः शुक्लवादी बाधितत्वेन तादृशप्रयोगा प्रकारतानिरूपितविशेष्यत्वं दण्डनिष्ठमेवेति दण्डनिष्ठप्रकारताया अवच्छेदकं भवत्येवेति भावः । परिहरति-तन्नेति, यज्ञपतिमतानुयायिनः ' रङ्गं रजतं जानाति ' इत्यादौ रङ्गपदरजतपदयोः सामानाधिकरण्योपपत्त्यर्थमेव रजतादिपदस्य रजताद्यभेदज्ञानविषये लक्षणां स्वीकुर्वन्ति तच्च सामानाधिकरण्यं लक्षणां विनाप्युक्तरीत्या = " यत्पदार्थविशेष्यकत्व विशिष्टे ३०२ पृ० "इत्याद्युत्योपपद्यत एवेति लक्षणाश्रयणं न युक्तमित्यर्थः । तस्याः=लक्षणायाः । L C 6 ननु ' रङ्गं रजतं जानाति । उक्तरीत्येत्यत्रेवोक्तस्थले = ' लोहितं वहिं जानाति ' इत्यत्रा - रोप्यबोधकस्य लोहितपदस्यारोपविषयबोधकस्य च वह्निपदस्य ज्ञानान्वितार्थकत्वे अर्थादत्र यदि स्वोत्तर द्वितीयार्थद्वारा लोहितवह्निपदार्थयोर्ज्ञाने एव • लोहितप्रकारकं वह्निविशेष्यकं च यज्ज्ञानं 'तादृशज्ञानाश्रयश्चैत्रः ' इत्येवमन्वयः स्यात्तदा 'लोहितो वह्निर्ज्ञायते ' इत्यादिकर्मप्रत्ययस्थले ज्ञानीयविषयताश्रयत्वेन लोहितवह्निपदार्थयोर्विशेष्यत्वात् परस्परं भिन्नत्वाच्च विशेष्यभेदात् * ज्ञानीयविषयताश्रयो लोहितः, ज्ञानीयविषयताश्रयो वह्निश्व' इत्येवं वाक्यभेदः स्यादेव न चैतदिष्टमित्याशङ्कते - अथेति । ननु ' लोहितो वह्निर्ज्ञायते ' इत्यत्र लोहिताभेदज्ञानविषयो वह्निः ' इत्येवमेकवाक्यतां कृत्वा शाब्दबोधः स्वीक्रियते न तु 'ज्ञाने लोहितः प्रकारः वह्निश्च विशेष्यः = ज्ञानीयविषयताश्रयो लोहितो वह्निश्च ' इत्येवं समूहालम्बनात्मको येनोक्तरीत्या विषयताश्रयीभूतवहिलोहितयोर्भेदाद्वाक्यभेदः स्यात्, विपक्षे बाधकमाह - तथा सतीति, तथा सति = यदि 'लोहितो वह्निर्ज्ञापते' इत्यत्रापि ' ज्ञाने प्रकारो लोहितो वह्निव विशेष्यः ' इत्येवं समूहालम्बनात्मक एवं बोधः स्यात् तदोक्तसमूहालम्बनात्मक बोधजनकस्य 'शुक्लो हिलौहिता जपा ज्ञायते ' इतिवाक्यस्यापि स्थाने तथा = ' लोहितो वन्हियते ' इत्येवं प्रयोगः स्यादेव - उभयोरपि वाक्ययोरुक्तसमूहालम्बनात्मक बोधजनकत्वेन साम्यस्य प्राप्तत्वाद् न चैतदिष्टम्, तस्मात् ' लोहितो वह्निर्ज्ञायते ' इत्यत्र लोहिता मेदज्ञानविषयो वह्निः' इत्येतादृशो दर्शितो विशिष्टवैशिष्ट्यबोध एव स्त्रीकार्यस्तथा च लोहितप्रकारकत्वविशिष्टं यज्ञानं तादृशज्ञाननिरूपितविशेष्यताया लोहितवद्वावेव सत्त्वेन शुक्लव बाधितत्वात् शुको वह्निलहिता जपा इत्याकारकबोधतात्पर्येण तादृशप्रयोगस्य = ' लोहितो वह्निः इत्याकारकप्रयोगस्यापत्तिर्नास्तीज्याशङ्क्याह-न चेति । ' लोहिताभेदज्ञानविषयो वह्निर्ज्ञायते ' इत्यत्र लोहिताभेदज्ञानविषयता & "Aho Shrutgyanam" 1 C Page #319 -------------------------------------------------------------------------- ________________ वात्वर्थे नामार्थान्चयविचारः ] व्युत्पत्तिवादः । पत्तिविरहादिति वाच्यम्, तत्र लोहितादिपदोत्तरप्रकारतार्थकद्वितीयादिविभक्तिविरहेण लोहितादिप्रकारकत्वेन ज्ञानभानासंभवात्, नामार्थधात्वर्थयोः साक्षादन्ययस्याव्युत्पन्नतया प्रकारितायाः संसर्गतया भानासंभवादिति चेत् ?, न - यथा हि ' वटो नीलो भवति वृक्षो नौका भवति " काष्ठं भस्म भवति' इत्यादौ धात्वर्थेऽसाधारणधर्मरूपे भावे व्युत्पत्तिवैचित्र्येण नीलनौकाभस्मादेः साक्षादेवान्वयः - प्रथमाया अन्तरा भासमानार्थकत्वाभावात, नौकादिपदस्य स्वारम्भकावयवारभ्यनौकाद्यर्थलाक्षणिकतया प्रकृतिविकृत्योर्भेदमपि वृक्षो नौका भवति' इत्यादौ योग्यताया उपपत्तिस्तथा धात्वर्थे प्रकृतेपि प्रकारितासंबन्धेन लोहितादेः साक्षादन्वयस्यागत्योपगमात् । 6 यथा प्रकृतिविकृतिभावस्थले ' वृक्षः पञ्च नौका भवति ' इत्यादौ प्रकृतिभूतविशिष्टे व वह्निविषयकज्ञानीयविषयताया वैशिष्ट्यस्तीत्वस्य विशिष्टवैशिष्ठ्यबोधत्वम् । परिहारमाह - तत्रेति, ' लोहिताभेदज्ञानविषयो वह्निः । इति बोधेपि लोहितप्रकारकत्वं ज्ञाने स्वीकार्य तच्च न संभवति-लोहितपदोत्तरं प्रकारतावाचकद्वितीयाविभक्तेरभावाद् तथा लोहितप्रकारक. - स्वविशिष्टज्ञानभाने ज्ञाने लोहितस्य ज्ञाननिष्ठ प्रकारितारूपसंसर्गेणान्वयो वक्तव्य इति प्रकारितायाः संसर्गत्वेन भानं प्राप्तं तदपि न संभवति - नामार्थस्य लोहितस्य धात्वर्थज्ञाने साक्षाद् मेदान्वयस्याव्युत्पन्नत्वेन प्रकारितायाः संसर्गत्वासंभवात्, तथा चागत्योक्तरीत्या 'ज्ञानीयविषयताश्रयो लोहितो वह्निश्व ज्ञायते ' इत्येव शाब्दबोधः स्वीकार्यस्तत्र च विशेष्यभेदाद्वाक्यभेदापत्तिरित्यर्थः । अथेत्यादिनाशङ्कितं परिहरति-नेति, यथा ' घटो नीलो भवति ' इत्यत्र नीलपदार्थस्य नामार्थस्याप्यसाधारणधर्मरूपे भावे = भवनरूपे धात्वर्थे साक्षादेवान्वयो भवति - नीलपदोत्तरप्रथमाया नीलपदार्थ धात्वर्थयोर्मध्ये द्वारीभूतार्थप्रतिपादकत्वाभावात् तथा प्रकृतेपि = ' लोहितो वह्निर्ज्ञायते इत्यत्रापि धात्वर्थे ज्ञाने प्रकारितासंबन्धेन लोहितपदार्थस्यागत्या साक्षादेवान्वय उपगम्यते तथा च ' प्रकारितासंबन्धेन लोहितविशिष्टज्ञानविषयताश्रयो वह्निः' इतिशाब्दबोधोदयाद्वाक्यमेदापत्तिर्नास्तीत्यर्थः । ' वटो नीलो भवति' इत्यत्र सिद्धे घंटे नीलोत्पतिरिष्टास्तीति धावर्थे नीलस्यैवान्य अत एव भवनानुकूलव्यापारो धात्वर्थो नीले एव न घटेपीति नीलट्याsararरणो धर्म इत्युक्तम्- असाधारणेति । ननु प्रकृतिविकृत्योर्भेद एवास्तीति स्वभिन्नपदार्थान्तररूपत्वप्राप्तेरसंभवाद् वृक्षः प्रकृतिभूतः कथं विकृतिभूतनोका भवेदित्याशङ्क्योक्तम्नौकादिपदस्येति, स्त्रं वृक्षः वृक्षारम्भकावयवानामेव नौकारम्भकत्वात् नौकापदस्य वृक्षारम्भकावयवारम्यनौकापदायें लक्षणा तथा च वृक्षारम्भकावयवारम्यनौकापदार्थरूपत्वं वृक्षे बाधित नास्तीति वृक्षे नौकारूपत्येन भवनव्यापारस्य योग्यताया उपपत्तिरित्यर्थः । - संप्रत्याख्यातवचन नियामकमाह - यथेति ' वृक्षः पञ्च नौका भवति इत्यादिप्रकृति विकृतिभात्रस्थले प्रकृतिभूतवृक्षस्य विशेष्यत्येन धात्वर्थभावनायामन्त्रयोस्तीति तद्गत = वृक्षगतसं (३०७ ) "Aho Shrutgyanam" Page #320 -------------------------------------------------------------------------- ________________ ( ३०८ ) सादर्श: [ द्वितीयाकारकद्वितीयखण्डे - - वृक्षादेर्विशेष्यतया भावनान्वयित्वात् तद्गतसंख्याबोधकतया प्रकृतिवाचकपदसमानवचनत्वमाख्यातस्य तथा' एको द्वौ ज्ञायते ' इत्याशुभपाभेदारोपस्थली-earth कादिपदार्थस्यारोपविशेष्यस्याख्यातार्थविशेष्यत्वान्वयविशेष्यतया तउपदस मानवचनत्वमाख्यातस्य । म चैवम् " अमानि तत्तेन निजाऽयशोयुगं द्विफालबद्धाश्चिकुराः शिरस्थितम् " इत्यत्र कथमारोपविशेष्यवाचकपदविरुद्धवचनत्वम् " अमानि " इतिक्रियापदस्येति वाच्यम्, तत्राऽयशोद्वयस्य वास्तवत्वेन चिकुरभागद्वयस्य राज्ञ. आरोग्यत्वेन कवेरुत्प्रेक्षितत्वात्, आख्यातार्थविशेष्यतान्वयविशेष्यत्वेनाऽयशोयुस्यैव विवक्षितत्वात् । इच्छार्थकधातुस्थले मुख्यविशेषकर्मत्वं द्वितीयार्थः, अतो वृष्टिसा ध्यं सुखं भवतु ' इत्यादीच्छास्थले ' सुखमिच्छति' इत्यादिवत् ' वृष्टिमिच्छ ति ' इत्यादयो न प्रयोगाः । ख्याबोधकतया प्रकृतिभूतवृक्षवाचक वृक्षपदसमानव चनत्वमेवाख्यातस्येति 'भवति' इत्येकवचनान्तं क्रियापदं वृक्षपदस्यैकवचनान्तत्वात्, तथैवैकस्मिन् चन्द्रादौ द्वित्वस्य चन्द्रद्वयस्य वाऽऽरोपस्थले 'एको द्वौ ज्ञायते' इत्यत्रो मयाभेदारोपस्थलीयवाक्येप्येकपदार्थस्यारोप विषयस्यैवाऽऽख्यातार्थविशेयतान्वये विशेष्यत्वात् ( आख्यातार्थस्य विषयत्वस्य विशेष्यत्वरूपत्वादेकपदार्थे एवान्वयाञ्चैकपदार्थस्यारुतार्थविशेष्यतान्वयविशेष्यत्वं प्राप्तमिति विज्ञेयम् ) तत्पद = एकपदसमानवचनत्वमा. ख्यातस्य प्राप्तमित्येकवचनान्तत्वमित्यर्थः । अत्र " उभय" इत्यत्र " उभयार्थ ?" इत्यपि पाठः । 6 66 ननु यद्यारोपविषयस्यैव प्राधान्यादारोपविषयवाचकपदसमानवचनत्वमाख्यातस्योच्यते तदा " अमानि तत्तेन " इत्यत्र चिकुराणामेवारोपविषयत्वात् तादृशचिकुरवाचकपदस्य बहुवचनातत्रपि तद्विरुद्धम्' अमानि ' इत्येकवचनत्वमाख्यातस्य कथं संगच्छेत बहुवचनस्यापेक्षितत्वादित्याशङ्क्याह- न चेति । परिहारमाह- तत्रेति, तत्र = अमानि तत्तेन " इत्यत्रारोपविषयत्वं चिकुराणां नास्ति किं यशोयुगस्यैव तथा चाऽयशोयुगे द्विफालबद्धचिकुर भागद्वयत्वमारोप्यते कविनेत्याऽऽरोपविषयस्याऽयशोयुगस्यैवाख्यातार्थविशेष्यतान्वये विशेष्यत्वेन विवक्षितत्वात् तद्वाचकाऽयशोयुगपदस्य चैकवचनान्तत्वात् 'अमानि' इति क्रियापदस्याप्येकवचनान्तत्वं युक्तमेवेत्यर्थः । इच्छार्थक धातुस्थले 'सुखमिच्छति '' सुखमभिलषति ' इत्यादौ मुख्य विशेष्यत्वरूपं कर्मत्वं द्वितीयार्थस्तथा च सुखविशेष्यकेच्छाश्रयश्चैत्र इतिशाब्दबोधः । मुख्यविशेष्यत्वरूपकर्मत्वस्य द्वितीयार्थत्वस्वीकारस्य फलमाह - अत इति, ' वृष्टिसाध्यं सुखं भवतु इत्यत्र सुखस्यैवेच्छाविषयत्वेन मुख्यविशेष्यत्वात् ' सुखमिच्छति' इतिप्रयोगस्तु भवति, वृष्टेः सुखविशेषणत्वेन मुख्य. विशेष्यत्वाभावात् ' दृष्टिमिच्छति' इति प्रयोगो न भवतीत्यर्थः । " Aho Shrutgyanam" 3 Page #321 -------------------------------------------------------------------------- ________________ इच्छार्थकधातुप्रयोगाः } व्युत्पत्तिवादः। अथ 'अहं सुखी स्याम्' इत्यादीच्छायाः सुखादिविशेषणकतया तत्र 'सुखमिच्छति' इत्यादिप्रयोगानुपपत्तिरिति चेत्?, न- 'मम सुखं भवतु' इत्यादिसुखविशेष्यकेच्छाया एव कदाचित् सुखादिविशिष्टात्मबोधकशब्देन विषयाभिलापात्, स्वकृत्यऽधीनसिद्धिकत्वरूपस्वकृतिसाध्यत्वप्रकारकपाकविशेष्यकेच्छाया एव 'पाकं कृत्या साधयामि ' इतिपाकसिद्धयनुकूलकृत्यऽभिन्नव्यापारविशिष्टस्वबोधकशब्देन विषयाभिलापवत् ।। यदि चोद्देश्यसुखादेविशेषणतयापि कचिद् भानमानुभविकं तदोद्देश्यादि. व्यवहारनियामकः क्वाचित्कविशेषणसाधारणो विषयताविशेषोऽभ्युपेयः । अनु ननु यदीच्छार्थकधातुयोगे मुख्यविशेष्यत्वरूपं कर्मत्वं द्वितीयार्थस्तदा ' अहं सुखी स्याम् । इत्यादीच्छायां सुखस्यात्मविशेषणत्वेन भासमानत्वाद् मुख्यविशेष्यत्वाभावेन तत्रान्यप्रयुक्तः 'सुख मिच्छति ' इतिप्रयोगो नोपपद्यतेत्याशङ्कते- अथेति । परिहरति- नेति, " मम सुख भवतु ' इत्याकारकसुख विशेष्यकेच्छाया एव विषयाभिलापात् = विषयस्य (सुखस्य ) कदाचित्= 'अहं सुखी स्याम् ' इत्यत्र सुखविशिष्टात्मबोधकशब्देन= अहं पदेनाभिलापात् ' अहं सुखी स्थाम् ! ' मम सुखं भवतु ' इतीच्छयोः समानविषयकत्वेन — मम सुखं भवतु ' इतीच्छायाः सुखविशेष्यकत्वमस्तीति ' अहं सुखी स्याम्' इतीच्छाया अपि सुखविशेष्यकत्वं प्राप्तमिति तादृशेच्छामुद्दिश्य 'सुखमिच्छति' इति सुखविशेष्यकेच्छाबोधकप्रयोगस्यानुपपत्तिर्नास्तीत्यर्थः । अत्र दृष्टान्तमाह-स्वकृत्येति, स्वकृत्यऽधीनसिद्धिकत्वरूपं यत् स्वकृतिसाध्यत्वं तत्प्रकारकपाकविशेष्यकेच्छाया: 'पाकं चिकीर्षामि ' इत्याकारकाया एव विषयस्य यथा 'पाकं कृत्या साधयामि' इत्यत्र पाकसिद्धयनुकूलो यः करोत्यर्थभूतकृत्यऽभिन्नो व्यापारस्तादृशव्यापारविशिष्ट यत्स्वं तद्बोधकशब्देन ' साधयामि । इतिपदेनामिलापो भवति तथैव ' मम सुख भवतु ।" इत्याकारकेन्छाविपयस्यैव 'अहं सुखी स्याम् ' इत्यत्र सुख विशिष्टात्मबोधकेन अहमितिपदेनाभिलापो भवति तत्राप्यत्राऽहंपदार्थस्य सिद्धत्वेनासिद्धस्य सुखस्यैवेच्छाविपयत्वेन मुख्यविशेष्यत्वात् 'अहं सुखी स्याम् ' इत्याकारकेच्छामुद्दिश्य 'सुखमिच्छति ' इति प्रयोगस्य न काचिदनुपपत्तिरित्यर्थः। । ननु ' अहं सुखी स्याम् ' इत्यादौ सुखस्यात्मविशेषणत्वेनैव भानं भवतीति मुख्यविशेष्यत्वाभावादुक्तेच्छामुद्दिश्य 'सुखमिच्छति । इतिप्रयोगस्योक्ताऽनुपपत्तिरस्त्येव — सुखमिच्छति । इत्यनेन सुखविशेष्यकेच्छायाः प्रतिपादनात् 'अहं सुखी स्याम् ' इत्यनेन चात्मविशेष्यकेच्छायाः प्रतिपादनादित्याशङ्ग्य पक्षान्तरमाह- यदीति, याद्देश्यभूतस्य सुखस्य विशेषगतयेव भानं भवति तदा काचित्कविशेषणसाधारणः विशेष्यविशेषणसाधारण उद्देश्यत्वव्यवहारनियामक एको विषयताविशेषः स्वीकार्यः स एव च द्वितीयार्थस्तथा च 'अहं सुखी स्याम्' इत्यत्र विशेषणीभूतेपि सुखे द्वितीयार्यभूतस्य तादृशविषयताविशेषस्य सत्त्वेन 'अहं सुखी.. "Aho Shrutgyanam" Page #322 -------------------------------------------------------------------------- ________________ (३१० ) मितौ विशेष्यतया काचित्कभानविषयसाध्यनिष्ठ विधेयताख्यविषयतावत् । रू एव च ' सुखमिच्छति ' इत्यादी द्वितीयाद्यर्थः । ग्राममिच्छति' इत्यादौ ग्रामादिपदं ग्रामस्वत्वादिपरम् । अत एव च सिद्धस्य ग्रामादेर्मुख्यविशेष्यताया उपदर्शितविलक्षणविषयताया वा विरहेपिन क्षतिः । ग्रामादेः सिद्धत्वेपि स्वत्वाद्य सिद्धोपरक्तस्येच्छायां प्राधान्येन कचिद्र मानम् - विशिष्टस्यासिद्धत्वात् तत्रैव च ग्राममिच्छति' इत्यादिप्रयोग इत्यपि वदन्ति । C L पार्क. चिकीर्षाति इत्यादी द्वितीयाया विशेष्यतारूपकर्मत्वार्थकतया कृतिप्रकारकपाकविशेष्यकेच्छा प्रतीयते सा च ' पार्क कृत्या साधयामि """""" सादर्श: 7 " - , स्याम् इतीच्छामुद्दिश्य सुखमिच्छति ' इति प्रयोगस्यानुपपत्तिर्नास्तीत्यर्थः । विशेष्यविशेषसाधारणस्य विषयताविशेषस्य स्वीकारे दृष्टान्तमाह- अनुमिताविति, पर्वतो वह्निमान् धूमात् ' इत्यनुमितौ वह्निः पर्वतविशेषणतया मासते । पर्वते वह्निर्धूमात् ' इत्यनुमितौ च वह्निविशेष्यतया भासते इति विशेष्यतया मानविषयो यो वह्निरूपः साध्यस्तन्निष्ठा विधेयताख्या विषयता यथा विशेष्यविशेषणसाधारणा स्वीक्रियते तथा च 'पर्वतो वह्निमान्' इत्यत्र वह्नेर्विशेषणत्वेपि विधेयताख्यविषयता बह्नावेव ' पर्वते वह्निः ' इत्यत्रापि वहेर्विशेष्यत्वेन विधेयताख्यवियता वह्नावेवास्ति एवमेव मम सुखं भवतु इत्यत्राप्युद्देश्यत्वव्यवहारनियामकविषयता सुखे - एव ' अहं सुखी स्याम् ' इत्यत्राप्युद्देश्यत्वव्यवहारनियामकविषयता सुखे एवेत्युद्देश्यत्वव्यवहारनियामिका विशेष्यविशेषणसाधारणा एका विषयता कल्प्यते सेव द्वितीयार्थ इत्यर्थः । “ " प्राममिच्छति' इत्यत्र सिद्धस्य ग्रामस्येच्छाविषयत्वासंभवादइसिद्धस्य ग्रामस्वत्वस्य चेच्छाविषयत्वसंभवाद् ग्रामपदं ग्रामस्वत्वपरं तथा च ग्रामस्वत्वविशेष्यकेच्छाश्रयश्चैत्र इति बोधाकारः । अत एव = प्रामपदस्य ग्रामस्वत्वपरत्वादेव, ग्रामस्वत्वस्यैवेच्छाविषयत्वेन मुख्य विशेष्यत्वमस्तीति ग्रामस्य मुख्य विशेष्यत्वाभावेपि तथोपदर्शितविशेष्यविशेषणसाधारणविषयत्वाभावेपि क्षतिः =मामपदाद् द्वितीयानुपपत्तिर्नास्ति । कचित्तु ग्रामस्य शुद्धस्य सिद्धत्वेपि स्वत्वाद्यंसिद्धोपरक्तस्य=असिद्धं यत् स्वत्वं तद्विशिष्टस्यासिद्धत्वादिच्छायां प्राधान्येन विशेष्यत्वेन भानं भवति - इच्छाया असिद्धपदार्थविशेष्यकत्वनियमात् तत्रैव यत्र स्वत्वविशिष्टप्रामस्यासिद्धत्वं भवति मिच्छति' इति प्रयोगो भवति न तु स्वत्वविशिष्टप्रामसिद्धावपीति पक्षान्तरमाह- ग्रामादेरिति । तथा च ग्रामपदस्य न ग्रामस्वत्वेत्र लक्षणा किं तु ग्रामपदमऽसिद्धस्वत्वविशिष्टग्रामपरमेति भावः । ग्राम [ द्वितीयाकारकद्वितीयखण्ड- "Aho Shrutgyanam" 6 ८ सन्नन्तधातुसममिव्याहृतद्वितीयाया अथ निरूपयति- पाकमिति, ' पाकं चिकीर्षति ' इत्यत्र विशेष्यतारूपं कर्मत्वं द्वितीयार्थः, द्वितीयार्थविशेष्यतायाश्च पाकपदस्यात्र द्वितीयान्तत्वेन पार्कऽन्वय इति सन्नर्थेच्छानिरूपितविशेष्यतायाः पाके प्राप्तत्वात् सन्प्रकृतिभूतकरोत्यर्थकृतौ प्रकारजैव प्राप्ता - एकस्यैव विशेष्यत्वसंभवादित्यत्र कृतिप्रकारिका पाकविशेष्यकेच्छा प्रतीयते इत्यर्थः । Page #323 -------------------------------------------------------------------------- ________________ सन्नन्तप्रयोगाः ] व्युत्पत्तिवादः । ( ३११ ) इतीच्छा । अथ वा सनों धात्वर्थविशेष्यकेच्छावाचित्वात् कृतिविशेष्यकेच्छा चिकीर्षापदार्थः सा च ' पाककृतिर्भवतु ' इतीच्छेव, प्रवर्तिका च सा भवतु मा वेत्यन्यदेतत् । पाकादेश्व कृतिकर्मत्वमेव द्वितीयया प्रत्याय्यते न त्विच्छाया विषयत्वरूपं कर्मत्वम्, गृहस्थितीच्छामादाय ' गृहं तिष्ठासति' इत्यादिप्रयोगापत्तेः । युक्तं चैतद्- सनो धात्वर्थप्रकारकेच्छावाचित्वे ओदनभोजनेच्छादशायाम् ' ओदनं बुभुक्षते ' इतिप्रयोगो न स्यात् - तत्र भोजनस्याप्रकारत्वात् ॥ ८ 3 तस्याः स्वरूपमाह - सा चेति, सा=कृतिप्रकारकपाकविशेष्यकेच्छा । तथा च पार्क कृत्या - करोत्यर्थव्यापारेण साधयामीत्याकारकेच्छाश्रयक्षेत्र इति शाब्दबोधाकारः । पक्षान्तरमाहअथ वेति, कर्तुमिच्छा हि चिकीर्षापदार्थ इति सन्नर्थेच्छा निरूपित विशेष्यता सन्प्रकृतिभूतधात्वर्थे कृत्यादावेव प्रतीयते न तु पाके इति सनो धात्वर्थ = सन्प्रकृतिभूतधात्वर्थ विशेष्य केच्छावाचकत्वं प्राप्तमिति करोत्यर्थकृतिविशेष्यकैवेच्छा चिकीर्षापदार्थ इत्यर्थः । एतस्या इच्छायाः खरूपमाह - सा चेति, सा=प्रकृतिभूतधात्वर्थकृतिविशेष्यकेच्छा । तथा चात्र पाककृतिर्भवत्वित्याकारकेच्छाश्रयश्चैत्र इति शाब्दबोधाकारः । पूर्वोक्तायाः पाकं कृत्या साधयामि इतीच्छायाः प्रवर्तकत्वेपि ' पाककृतिर्भवतु ' इतीच्छाया नियमेन प्रवर्तकत्वं न प्रती इत्याह- प्रवर्तिकेति । अस्मिन् पक्षे 'पाकं चिकीर्षति इत्यत्रेच्छा निरूपित विशेष्यतायाः करोत्यर्थ कृतात्रेय सत्त्वेन पाकेऽभावात् पाके करोत्यर्थकृतिनिरूपितविशेष्यतारूपं कर्मत्वं द्वितीयया प्रत्यायते इति तदेव द्वितीयार्थो नत्विच्छानिरूपितविषयता ( विशेष्यता ) रूपं कर्मत्वमत्याह- पाकादेश्चेति । विपक्षे बाधकमाह- गृहस्थितीति, यदि सन्नर्थेच्छानिरूपितविशेष्यत्वं सन्प्रकतिभूतधात्वर्थादन्यस्मिन् पाकादावपि स्यात् तदा गृहस्थितीच्छानिरूपितत्रिषयताया गृहे प्राप्त्या ' पाकं चिकीर्षति ' इतिवत् ' गृहं तिष्ठासति ' इत्यपि प्रयोगः स्यादेव न चैतदिष्टं यदा च सन्नर्थेच्छानिरूपितविषयत्वं सन्प्रकृतिभूतधात्वर्थे एवं स्वीक्रियते तदा तु • fagiसति' इत्यत्रेच्छा निरूपितविषयत्वं प्रकृतिभूतधात्वर्थस्थितावेव प्राप्तं न गृहे स्थाधातोश्चाऽकमैकत्वाद् धात्वर्थस्थितिनिरूपित कर्मत्वमपि गृहे न प्राप्तमिति न गृहपदाद् द्वितीयापत्तिरित्यर्थः । अस्मिन् पक्षे स्वसम्मतिमाह- युक्तमिति, एतत् - सनः प्रकृतिभूतधात्वर्थ विशेष्यके च्छावाचकरखमेव युक्तम् । प्रथमोक्तमते बाधकमाह- सन इति, यदि सनः प्रकृतिभूतधात्वर्थप्रकारकेच्छावाचकत्वं प्रथमोक्तं स्यात्तदा भोजनस्य प्रकारत्वसत्त्वे एव बुभुक्षते ' इति प्रयोग: • स्यादिति ओदनभोजनेच्छादशायाम् ' ओदनं बुभुक्षते ' इति प्रयोगो न स्यात्- अत्र भोजनस्य विशेष्यत्वेन प्रतीयमानत्वेन प्रकारत्वेनाऽप्रतीयमानत्वादित्यर्थः । C ननु कर्मतासंबन्धेन भोजनविशिष्टो य ओदनस्तद्विशेष्य केव यदेच्छा मवति तदेव एतादृशः = " ओदनं बुभुक्षते ' इति प्रयोगो भवतीति न सनः स्वप्रकृतिभूतधात्वर्थ भोजनादिविशेष्यके "Aho Shrutgyanam" Page #324 -------------------------------------------------------------------------- ________________ (३१२) सादर्श:- [ द्वितीयाकारकद्वितीयखण्डेन च कर्मतासंबन्धेन भोजनप्रकारिका यदौदनविशेष्यिकेच्छा तदैवेतादृशमयोगः, सा चेच्छा भोजनझुमकेष्टसाधनताज्ञानादू भोजनविशिष्टौदनामकेष्टसाधनताज्ञानादू वा, ओदनस्य सिद्धतादशायामपि विशिष्टधर्मिकेष्टसाधनताज्ञानादू विशिष्टधार्मकाऽसिद्धत्वज्ञानसहिता विशिष्टेच्छासंभवात् । यत्र भोजनसिद्धताद. शायां भोजनोत्तरकालीनगमनत्वादिप्रकारिका भुक्तौदनजन्यपुष्टित्वादिनकारिका वेच्छा तत्र ' बुभुक्षते ' इतिप्रयोगस्य न प्रसङ्गः - मुरूपविशेष्यविशेषणतापन्नकर्मत्वांशे इच्छाप्रकारताया एव सन्प्रत्ययप्रकृत्यर्थे भानोपगमादिति वाच्यम् , च्छावाचकत्वकल्पनाया अपेक्षेत्याशङ्कते- न चेति । सा=ओदनविशेष्यकापीच्छा भोजनविषय केष्टसाधनताज्ञानाद्वा कर्मतासंबन्धेन भोजनविशिष्टौदनविषयकेष्टसाधनताज्ञानाद्वा भवतीत्यन्यदेत दित्याह- सेति । ननु सिद्धरिच्छां प्रति प्रतिबन्धकत्वादोदनसिद्धतादशायामोदनविशेष्यकेच्छा कथं स्यादित्याशङ्क्याह- ओदनस्येति, ओदनस्य सिद्धत्वेपि भोजनविशिष्टौदनस्याऽसिद्धत्वेन भोजनविशिष्टौदनविषयकाऽसिद्धत्वज्ञानसहकृता भोजनविशिष्टौदन विषयकेष्टसाधनताज्ञानाद् विशि. ष्टेच्छाया: भोजनप्रकारकौदनविशेष्यकेच्छायाः संभवान्न कोपि दोषः ( इच्छाप्रतिबन्धो न संभवति ) इत्यर्थः । ननु यदि सनः स्वप्रकृतिभूतधात्वर्थप्रकारकेच्छावाचकत्वं स्यात्तदा ' भोजनोत्तरकालिकं गमनं भवतु ' इत्यत्रापि मोजनस्य गमने विशेषणत्वाद् भोजनप्रकारकगमनविशेभोछायाः सत्त्वाद् भोजनप्रकारकेच्छाबोधकः ' बुभुक्षते ' इतिप्रयोगः स्यादेव, एवं भुक्तौदनंजन्यपुष्टिविशेष्यकेच्छाया अपि भोजनप्रकारकेच्छारूपत्वात् 'भुक्तौदनजन्या पुष्टिर्भवतु ' इत्यत्रापि 'बुभुक्षते । इतिप्रयोगः स्यादेव, सनः प्रकृतिभूतधात्वर्थविशेष्यकेच्छावाचकत्वे तूक्तस्थलयोः प्रकृत्यर्थभोजनविशेष्यकेच्छाया अभावादेव 'बुभुक्षते ' इतिप्रयोगापत्तिर्नास्तीति सनः प्रकृतिभूतधात्वर्थविशेष्यकेच्छावाचकत्वमेव युक्तं न तु प्रकृतिभूतधात्वर्थप्रकारकेच्छावाचकत्वमित्याशङ्क्याह- यत्रेति । भोजनसिद्धतादशायाम् = भोजने कृते सति । भोजनोत्तरकालीनगमनत्वादिप्रकारिका भोजनप्रकारिका गमनत्वनिष्टप्रकारतानिरूपितगमनविशेष्यिका ' भोजनोत्तरकालिकं गमनं भवतु ' इत्याकारिका । भुक्तौदनजन्यपुष्टित्वप्रकारका भोजनप्रकारिका पुष्टित्वनिष्ठप्रकारतानिरूपितपुष्टिविशेष्यिका — भुक्तौदनजन्या पुष्टिर्भवतु ' इत्याकारिका वेच्छा भवति यत्र तत्रास्मन्मतेपि 'बुभुक्षते । इतिप्रयोगापत्तिर्नास्तीत्यर्थः । उक्ते प्रयोगप्रसङ्गाभावे हेतुमाहमुख्येति, मोक्तुमिच्छा हि बुभुक्षापदार्थ इति भुजधातूत्तरवर्तिसन्वाच्येच्छाया मुख्य विशेष्यं भोजनमेव तादृशभोजनंरूपमुख्यविशेष्ये विशेषगतापन्नं यत् कर्मत्वं ताशकर्मत्वांशे- तादृशकर्मत्वनिरूपिका येच्छा तादृशेच्छानिरूपितप्रकारतैव सन्प्रत्ययप्रकृतिभूतधात्वर्थे स्वीक्रियते तथा चौदनभोजनेच्छादशायामेव ' बुभुक्षते ' इतिप्रयोगः संभवति- मुख्यविशेष्यभूतभोजने विशेषणतापन् यत् कर्मत्वं तन्निरूपिका येच्छा तादृशेच्छानिरूपितप्रकारतायाः सन्प्रत्ययप्रकृत्यर्थभूतभोजने भासमानत्वाद् भोजनप्रकारकौदनविशेष्यकेच्छायाः अत्र प्रतीयमानत्वात् । 'भोज "Aho Shrutgyanam" Page #325 -------------------------------------------------------------------------- ________________ सन्नन्तप्रयोगविचार: ] व्युत्पत्तिवादः । (३१३) 'भोजनं भवतु' इत्यादिभोजनविशेष्यकेच्छादशायामपि 'बुभुक्षते इतिप्रयोगस्य सर्वसिद्धत्वेन धात्वर्थविशेष्यकेच्छाबोधकतायाः सन्प्रत्ययस्यावश्यमुपेयत्वात् । न च द्वयी व्युत्पत्तिरेवोपेयते- एकव्युत्पत्यैव निर्वाहे व्युत्पत्तिद्वयकल्पने गौरवात, अत एव च स्थित्यादिगोचरेच्छाया गृहादिविशेष्यकत्वस्योक्तरीत्या संभवेपि 'गृहं तिष्ठासति ' इत्यादयो न प्रयोगाः। भोजनप्रकारकौदनविशेष्यकेच्छाविशेषदशायाम् ‘बुभुक्षते ' इतिप्रयोगसत्त्वे तूद्देश्यताख्यविषयताया एव धात्वर्थे भानोपगमेन तस्य निर्वाहात् । नोत्तरकालिकं गमनं भवतु ' इत्याद्याकारकेच्छादशायां च ' बुभुक्षते' इति प्रयोगापत्तिर्नास्ति— भोजनोत्तरकालिकं गमनं भवतु ' इत्याकारकेच्छायां मुख्यविशेष्यं गमनमेव तादृशगमने विशेषणतापनकर्मत्वस्य निरूपिका येच्छा तादृशेच्छानिरूपितप्रकारता भुजधात्वर्थे न संभवति किन्तु गमधात्वर्थे एव संभवति तत्र ' जिगमिषति ' इत्येव प्रयोगो भवति न तु 'बुभुक्षते' इतिप्रयोग इत्यर्थः प्रतिभाति । परिहारमाह- भोजनमिति, भोजनं भवतु इत्याकास्कभोजनविशेष्यके दशायामपि 'बुमुक्षते.' इति प्रयोगः सर्वमते. भवतीति सन्प्रत्ययस्य सन्प्रकृतिभूतधात्वर्थभोजनादिविशेष्यकेच्छाबोधकत्वमावश्यकमेवास्तीति सनः स्वप्रकृतिभूतधात्वर्थ विशेष्यकेच्छावाचा कत्वमेव युक्तं न तु प्रकृतिभूतधात्वर्थप्रकारकपाकौदनादिविशेष्यकेच्छाबाचकत्वं प्रथममतोक्त युक्तमित्यर्थः । ___ ननु 'भोजनं भवतु' इत्याकारकेच्छादशायां सनः स्वप्रकृतिभूतधात्वर्थविशेष्यकेच्छावाचकत्वमध्यस्तु — भोजनविशिष्ट ओदनो भवतु ' इत्याकारकेच्छादशायां प्रकृतिभूतधात्वर्थप्रकारके छावाचकत्वमप्यस्त्विति द्वथ्येव व्युत्पत्तिरस्त्वित्याशङ्क्याह- न चेति । परिहारमाह- एकेति । एकव्युत्पत्त्या प्रकृतिभूतधात्वर्थविशेष्यकेच्छावाचकत्वव्युत्पत्त्या । अत एव सनः स्वप्रकृतिभूतधात्वर्थविशेष्यकेच्छावाचकत्वादेव, गृहस्थितीच्छायां गृहस्य विशेष्यत्वसंमवेपि सनो गृहादिविशेष्यकेन्छावाचकत्वमेव नास्ति येन गृहविशेष्यकेच्छामादाय — गृहं तिष्ठासति ' इतिप्रयोगापत्तिः स्यात् । शेष पूर्वमेव प्रतिपादितम् । ' भोजनविशिष्ट ओदनो भवतु ' इत्याकारिकाया भोजनप्रकारकौदनविशेष्यकेच्छाया दशायामपि यदि 'ओदनं बुभुक्षते ' इति प्रयोगो भवति तदा सन्प्रकृतिभूतधात्वर्थे भोजनादौ कर्मताख्यविशेषयताया असत्त्वे युद्देश्यताख्यविशेष्यतारूपाया विषयतायाः संभवेन तस्य=' ओदनं बुभुक्षते । इतिप्रयोगस्य निर्वाहो विज्ञेय:- भोजनप्रकारकोदनविशेष्यकेच्छाया भोजनोद्देश्यकौदनविशेष्यकेच्छारूपत्वात्- मोजनमुद्दिश्यौदनस्येष्यमाणत्वात् . धात्वर्थमोजने उद्देश्यताख्यविषयताया भासमानत्वादित्यर्थः । ननु सनः स्वप्रकृतिभूतधात्वर्थभोजनादिविशेष्यके( भोजनादिविषयके ) च्छावाचकत्वमते पार्क चिकीर्षति ' इत्यत्र पाकस्य करोत्यर्थकृतिकर्मत्वप्रत्यायनं द्वितीयया संभत्रति- द्वितीयायाः "Aho Shrutgyanam" Page #326 -------------------------------------------------------------------------- ________________ सादर्श:- [ द्वितीयाकारकद्वितीयखण्डेन च धात्वर्थविशेष्यकेच्छायाः सन्प्रत्ययार्थत्वे 'पाकं चिकीर्षति' 'ओदनं बुभुक्षते ' इत्यादौ पाकौदनादेद्वितीयया कृतिभोजनादिकर्मत्वप्रत्यायनसंभवेपि "पाकश्चिकीर्ण्यते' 'ओदनो बुभुक्ष्यते ' इत्यादौ कर्माख्यातेन तत्प्रत्यायनासं. भवः-तत्प्रकृतिभूतसन्नन्तधात्वर्थकृतिभोजनेच्छाकर्मत्वस्यैव तत्प्रत्यायनयोग्यत्वात, प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वाद् इच्छाविषयत्वविशेषितकृतिभोजनादेश्च प्रकृत्याऽप्रतिपादनादिति वाच्यम्, कर्तृप्रत्ययस्थले सन्प्रत्ययार्थच्छाया धात्वर्थविशेष्यतया भानेपि कर्मप्रत्ययस्थले तस्या धात्वर्थविशेषणतया भानोपगमात् 'चिकीर्ण्यते पाकः' इत्यादाविच्छाविशेषितकृत्यादेरेव सन्नन्तेन प्रतिपादनात कर्मत्ववाचकत्वात् ' ओदनं बुभुक्षते ' इत्यत्र चौदनस्य भोजनकर्मत्वप्रत्यायनं द्वितीयया संभवति यद्यपि तथापि ' पाकश्चिकीर्च्यते । 'ओदनो बुभुक्ष्यते' इत्यादिकर्माख्यातस्थले तु पाकौदनादेः कर्माख्यातेन कृञाद्यर्थकृतिभोजनादिकर्मत्वप्रत्यायनं न संभवति- कर्माख्यातप्रकृतिभूतो यः सन्नन्तधातुस्तदर्थभूता या कृतीच्छा भोजनेच्छा च ताशकृतिभोजनादीच्छानिरूपितकर्मत्वस्यैव पाकौदनादौ तत्-तेन कर्माख्यातेन प्रत्यायनयोग्यत्वात्-प्रत्यायनसंभवात्, प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वनियमेनात्रापि कर्माख्यातस्य प्रकृत्यर्थभूता या कृतिभोजनादीच्छा तदन्वितकर्मत्वबोधकत्वसंभवात् (पाकौदनादेः कृतिभोजनेच्छाकर्मत्वमेव प्राप्तं न तु कृतिभोजनादिकर्मत्वम् ) प्रकृत्या कर्माख्यातप्रकृतिभूतसन्नन्तधातुना च कृतिभोजनादीच्छेव प्रतिपादयितुं शक्यते- प्रकृतावपि सन्प्रत्ययभागार्थेच्छाया एवं प्रधानत्वात् न तु इच्छाविषयत्वविशिष्ट कृतिभोजनादिकं येन कृतिभोजनादिकर्मत्वं कर्माख्यातेन पाकीदनादौ प्रतिपादयितुं शक्यतेत्यर्थः, यदि ' पाकश्चिकीयते , 'ओदनं बुभुक्ष्यते' इत्यादौ कर्माख्यातप्रकृतिभूतसन्नन्तधातुना इच्छाविषयत्वविशिष्टकृतिभोजनादिकं प्रतिपाद्येत तदा कृतिभोजनादेरेव प्रकृत्यर्थत्वेन कृतिभोजनादिकमत्वं कर्माख्यातेन पाकौदनादौ प्रतिपादयितुं शक्येतापि न चैवमस्ति कृतिभोजनादीच्छाया एव प्रकृत्यर्थत्वात् तादृशकृतिभोजनादीच्छाकर्मत्वमेव पाकौदनादौ प्रतिपादयितुं शक्यते न कृतिमोजनादिकर्मत्वं कृतिभोजमादेः प्रकृत्यर्थत्वाभावात् प्रत्ययानां च प्रकृत्यान्वितस्वार्थबोधकत्वनियमादिति भाव इत्येवमाशङ्कयाह-न चेति । परिहारमाह- कर्तृप्रत्ययेति, “पाकं चिकीर्षति' इत्यादिकर्तृप्रत्ययस्थले पाकादिकर्मककृत्यादिविषयकेच्छाश्रयः इत्याकारकबोधोदयात् सन्प्रत्ययार्थेच्छायाः सन्प्रकृतिभूतधात्वर्थविशेष्यतया भानपि ( तत्रेच्छाविषयत्वं धात्वर्थकृत्यादेरेव कृत्यादिकर्मत्वं च पाकादेर्द्वितीयया प्रत्याय्यते) 'पाकश्चिकीर्घ्यते' इत्यादिकर्मप्रत्ययस्थले तु तस्याः सन्नर्थेच्छायाः सन्प्रकृतिभूतधात्वर्थविशेषणतयैव भानं स्वीक्रियते इच्छाविषयीभूतकृतिविषयः पाक इत्याकारकबोधोदयात् तथा चात्रेच्छाया विशेषणत्वेनेच्छाविशषितकृतिभोजनादिकमेव कर्माख्यातनकृतिभूतसन्नन्तधातुना प्रतिपाद्यते इति कृतिभोजनादेरेव प्रकृत्यर्थत्वात् तादृशकृतिभोजनादिकर्मत्वं पाकौदनादावात्मनेपदेन कर्माख्यातेन प्रतिपादयितुं शक्यते एव, एवं च प्रत्ययानां "Aho Shrutgyanam" Page #327 -------------------------------------------------------------------------- ________________ सन्नन्तप्रयोगविचारः ] व्युत्पत्तिवादः । (३१५) ताशकृत्यादिकर्मताया आत्मनेपदादिना प्रत्यायनसंभवात् । आख्यातायुपस्थितवर्तमानत्वादेश्च कृत्यादिविषयकेच्छा यत्र प्रकृत्यों यत्र वेच्छाविषयकृतिस्तत्रोभयत्रैवेच्छायामन्वयः, प्रकृत्यर्थैकदेशेपि ' नीलतरो घटः' इत्यादिस्थले नीलरूपादौ तरबार्थातिशयान्वयानुरोधात् ।। न चैवं कर्मप्रत्ययस्थलेपि कृतिविशेषितैवेच्छा सना प्रत्याय्यतां विशेषणीभवन्ती कृतिरेव कर्मत्वेनाऽन्वीयताम्, भवन्मते विशेषणीभूतेच्छायां वर्तमानत्वाद्यपराख्यातार्थान्वयवदिति वाच्यम्, एकत्र विशेषणतयोपस्थितस्थान्यत्र विशेषणतयान्वयोऽव्युत्पन्न इति प्रथमान्तार्थविशेषणकर्मत्वे इच्छायां विशेषणतयोपप्रकृत्यान्वितस्वार्थबोधकत्वनियमस्यापि न भङ्ग इत्यर्थः । नन्वाख्यातोपस्थितवर्तमानत्वस्य कुत्रान्वय इत्याशझ्याह-आख्यातेति, सन्नन्तधातोराख्यातस्य प्राप्तत्वेन सन्नन्तस्यैव प्रकृतित्वमितीच्छायाः प्रकृत्यर्थत्वं तथा च यत्र='पाकं चिकीर्षति । इत्यादाविच्छाया धात्वर्थविशेध्यत्वेन करोत्यर्थकृत्यादिविषयकेच्छा प्रकृत्यर्थस्तया यत्र= पाकश्चिकीर्ण्यते' इत्यादिकर्माख्यातस्थले इच्छायाः सन्प्रकृतिभूतधात्वर्थविशेषणत्वेनेच्छाविषयकृत्यादिः प्रकृत्यर्थस्तत्रोभयत्रैवाख्यातोपस्थितवर्तमानत्वादेरिच्छायामेवान्वयो न तु धात्वर्थकृत्यादौ वा पाकादौ वेत्यर्थस्तथा च 'चिकीर्षति ' इत्यत्र कृतिविषयकवर्तमानेच्छाश्रयश्चैत्र इतिबोधः, 'चिकीर्ण्यते ' इत्यत्र वर्तमानेच्छाविषयीभूतकृतिविपयः पाक इतिबोधः। ननु कर्माख्यातस्थले सन्नन्तधात्वर्थस्यैकदेशभूतायामिच्छायां वर्तमानत्वादेः कथमन्वयः स्यात्-" पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन" इतिनियमादित्याशझ्याह-प्रकृत्यर्थेति, यथा 'नीलतरो घट: ' इत्यत्र तर प्रत्ययार्थस्यातिशयस्य पदार्थैकदेशे नीले एवान्चयो भवति तथात्रापि ज्ञेयमित्यर्थः । अत्र सन्प्रत्ययार्थेच्छायाः प्रकृतिभूतधात्वर्थविशेष्यकत्वं प्रतिज्ञाय धात्वर्थविशेष्यतया भानस्वीकारे पूर्वापरविरोधी नाशङ्कनीयः-' चिकीर्षति ' इत्यादौ कृत्यादिविषयकेच्छा सन्प्रत्ययार्थोस्ति सा चेच्छात्र धात्वर्थकृतेर्विशेष्यभूतास्ति अथ च तादृशेच्छायां विशेष्यतया ( : विषयतया ) धात्वर्थकृतेरेव मानं भवति न तु पाकादेरिति धात्वर्थविशेष्यकाप्यस्तीति धात्वर्थविशेष्यकत्वधात्वर्थविशेष्यत्वयोः पदयोरनतिरिक्तार्थकत्वात् । ननु कर्तृप्रत्ययस्थले इव कर्मप्रत्ययस्थलेपि कृतिविशेषितवेच्छायाः धात्वर्थविशेष्यतयैवेच्छायाः सना भानं स्वीक्रियतां न तु करोत्यादिधात्वर्थविशेषणतया तथा च यथा तव मते 'पाकश्चिकीर्ण्यते । इत्यादिकर्मप्रत्ययस्थले धात्वर्थे विशेषणीभूतायामपीच्छायामाख्यातप्रत्ययार्यस्य वर्तमानत्वस्यान्वयो भवति तथेच्छाविशेषणीभूतकृतेरेव प्रथमान्तार्थविशेषणीभूताख्यातार्थकर्मत्वेऽन्वयो भविष्यति. एवं चेच्छाया विशेष्यत्वप्राप्त्या विशेष्यभूतायामिच्छायामाख्यातार्थवर्तमानत्वस्यान्वयोपि युक्त एवं स्यादित्याशझ्याह-न चेति । परिहारमाह-एकत्रेति, " एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयान्वयोऽव्युत्पन्नः" इतिनियमात् कर्मप्रत्ययस्थले इच्छाया "Aho Shrutgyanam" Page #328 -------------------------------------------------------------------------- ________________ (३१६) सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे-- स्थितस्य धात्वर्थस्य विशेषणतयाऽन्वयायोगात, विशेष्यतया चान्वयस्याप्रस. क्तत्वात् । धात्वर्थविशेषणतया इच्छाभानोप तस्या वर्तमानत्वादिविशेष्यतयैव भानेनोक्तव्युत्पत्तिविरोधविरहात् । .. एवं धात्वर्थस्येतरविशेषणतयोपस्थितस्य स्वातन्त्र्येण कर्मतादिविशेषणत्व. मयुक्ततममेव । प्रकृत्यर्थस्यैकदेशोपि प्रकृत्यर्थान्तर्गततया भासमाने एव प्रत्ययार्थान्वयदर्शनात्, न तु स्वातन्त्र्येण भासमाने । इच्छारूपविशेष्यपारतन्त्र्येण कर्मत्वान्वयोपि इच्छायाः कर्मत्वानन्वये दुर्घट:-विशेष्यान्वयिन्येव विशेषणस्य धात्वर्थविशेष्यत्वस्वीकारे तादृशेच्छायां विशेषणीभूतस्य धात्वर्थस्य कृतेः प्रथमान्तार्थे पाकादौ विशेषणीभूतकर्मत्वे विशेषणतयाऽन्धयो न संभवति. धात्वर्थकृतेः कर्माख्यातार्थभूतकर्मत्वे विशेष्यतयाप्यन्वयो न संभवति-कर्मत्वे विशेष्यतया ( विशेष्यतारूपेण प्रथमान्तार्थान्वयस्यैव प्रसक्तत्वात् तस्मात् कर्मप्रत्ययस्थले इच्छाया धात्वर्थविशेषणत्वमेव स्वीकार्य धात्वर्थविशेषणीभूताया अपीच्छायाः प्रत्ययार्थत्वेन प्राधान्याद् वर्तमानत्वादौ विशेष्यतयैवान्वयो भवति न तु विशेषणतयेति उक्तव्युत्पत्तेः=" एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयान्वयोऽव्युत्पन्नः" इति व्युत्पत्तेरपि विरोधो नास्त्येव-धात्वर्थे विशेषणीभूतेच्छाया वर्तमानत्वे विशेष्यतयैवान्वयस्वीकारात् । तस्याः इच्छायाः । कृतिश्चात्र कर्मप्रत्ययस्थले इच्छायां न विशेषणं किं विच्छाविशेव्यमेवेतीच्छायां विशेष्यत्वेनान्वितायाः कृतेः प्रथमान्तार्थविशेषणीभूतकर्माख्यातार्थकर्मत्वे विशेषणत्वेनान्वयोपि न विरुद्ध इत्यर्थः । . . .. .. ... . उपसंहरति-एवमिति, " एवम् " इत्यत्र ' एवं च ' इति पाठो युक्तः । तथा च यदि कर्मप्रत्ययस्थल इच्छाया धात्वर्थविशेष्यत्वं स्यात्तदा इतरविशेषणतया इच्छाविशेषणतया उपस्थितस्य धात्वर्थस्य-करोत्याद्यर्थस्य कृत्यादेः स्वातन्त्र्येणाख्यातार्थकर्मत्ये विशेषणत्वमयुक्तमेव--- " एकत्र विशेषणतया" इतिव्युत्पत्तिविरोधात् । प्रकृत्यर्थैकदेशेपि प्रत्ययार्थान्वयस्तत्र भवति यत्र प्रकृत्यर्थैकदेशस्य प्रकृत्यर्थान्तर्गततया भानं भवति न तु स्वातन्त्र्येण भासमाने यथा 'नीलतरो घटः' इत्यत्र तरप्प्रत्ययप्रकृतिभूतनीलपदस्थापि नीलत्वेन रूपेण घटवाचकत्वात् प्रकृत्यर्थभूतो यो घटस्तदन्तर्गततयैव नीलरूपस्य भानं भवतीति प्रकृत्यर्थंकदेशपि तादृशनीलरूपे तरप्प्रत्ययार्थस्यातिशयस्याऽन्वयो भवति तथा चात्र प्रत्ययार्थकर्मत्वस्यापि धात्वर्थकृतौ विशेषणतयान्वयो न संभवति- चिकीर्ण्यते । इत्यत्र - कृतेः प्रकृत्यर्थैकदेशत्वेपि स्वातन्त्र्येण भासमानत्वादित्याह-प्रकृत्यर्थस्येति । इच्छाया धात्वर्थविशेष्यत्वस्वीकारे कृतिविशिष्टेच्छाया एवाख्यातप्रकृत्यर्थत्वेन कृतेः प्रकृत्यर्थेकदेशत्वं ज्ञेयम् । एकत्र विशेषणतयोपस्थितस्याप्यन्यत्र धर्मिपारतन्त्र्येण विशेषणतयान्वयो भवति तदप्यत्र न संभवति-कृतिविशेष्यभूताया इच्छायाः कर्मत्वेऽन्वयाभावेनेछाद्वारापीच्छाविशेषगीभूतकृतेः कर्मत्वेऽन्वयासंभवादित्याह- इच्छारूपेति । भत्र नियामक "Aho Shrutgyanam" Page #329 -------------------------------------------------------------------------- ________________ सन्नन्तप्रयोगविचारः j व्युत्पत्तिवादः । ( ३१७ पारतन्त्र्येणान्वयस्य विशिष्टान्वयस्थले व्युत्पत्तिसिद्धत्वाद् न तु विशेष्यान. न्वयिनि । अथास्तु विषयतारूपकर्मत्वे ' चिकीर्ष्यते पाकः इत्यादाविच्छायास्तत्परतन्त्रकृतेश्चान्वयः - उभयत्रैव पाकादेविषयत्वात् स्थित्यादिकर्मत्वाऽप्रसिद्ध्या च 'गृहं तिष्ठास्यते ' इत्यादेरप्रसङ्गादिति चेत् ?, ' ओदनो बुभुक्ष्यते ' इत्यादी का गतिः ? - तत्रेच्छाकर्मताया विषयतारूपत्वाद् भोजनादिकर्मतायाश्च तदन्यत्वात्, विशेष्यीभवदिच्छान्वयिनि कर्मत्वे भोजनाद्यन्वयायोग्यत्वेन विशिष्टान्वयासंभवात् । " माह - विशेष्यान्वयिन्येवेति, विशिष्टान्वयस्थले = यत्र विशेषणविशिष्टस्यैव विशेष्यस्य कचिदन्वयो भवति तत्र ( यत्र विशेषणस्य धर्मिपारतन्त्र्येणान्वयो भवति तत्र ) विशेष्यान्वयिन्येव विशेष्यपारतयेण विशेषणस्यान्वयो व्युत्पत्तिसिद्धस्ति न तु विशेष्यानन्वयिन्यपि विशेष्यानन्वयिनि विशेष्यद्वारा विशेषणान्वयासंभवादित्यर्थः । पाकादिनिष्टं कर्मत्वं हि करोत्याद्यर्थकृत्यादिमात्रनिरूपितमस्ति न तु सन्नर्थेच्छा निरूपित मिति तादृशकर्मत्वे इच्छाया अन्वयासंभवादिच्छाद्वारापि कृत्यन्वयो न संभवतीत्यर्थः । "Aho Shrutgyanam" " 6 ननु ' पाकचिकीर्ष्यते ' इत्यत्र पाकनिष्ठं यत् कर्माख्यातार्थभूतं कर्मत्वं तद् विषयतारूपमेव पाकस्य चोभयत्रैव = कृताविच्छायां च विषयत्वात् कर्मत्वे इच्छाया अन्ययो युक्त एव तथा चेच्छाद्वारा इच्छान्वयिनि कर्मत्वे कृतेरप्यन्वयस्य नानुपपत्तिरित्याशङ्कते -- अथेति । नन्वेवमिच्छाद्वारा धात्वर्थस्थितेर्गृहनिष्ठ कर्मव्येऽन्वयापत्त्या ' गृहं तिष्ठास्यते ' इत्यपि प्रयोगः स्यादित्याशङ्क्याह- स्थित्यादीति, कृत्यादीनां सकर्मकत्वात् पाकादिनिष्ठ कर्मत्वेऽन्वयः संभवति स्थितेश्चाऽकर्मकत्वेन गृहाहिनिष्ट कर्मत्वेऽन्वयासंभवात् गृहं तिष्ठास्यते ' इत्यादि प्रयोगस्यापत्तिर्नास्ति तथा च कर्मप्रत्ययस्थलेपि सन्नर्थेच्छाया धात्वर्थकृत्यादिविशेष्यत्वमेव स्वीकार्य न तु धात्वर्थविशेषणत्वमित्यर्थः । परिहारमाह - ओदन इति, ' पाकश्चिकीर्ष्यते इत्यत्र कृतिकर्मत्वमिच्छाकर्मत्वं च विषयतारूपत्वादेकस्वरूपमेवेति तत्रेच्छाकृत्योरुभयोरप्यन्वयसंभवेनेच्छाद्वारा इच्छाविशेषणी भूतकृतेरप्यन्वयः संभवति, 'ओदनो बुभुक्ष्यते ' इत्यत्रेच्छा - कर्मत्वं तु विषयतारूपमस्ति भोजनकर्मत्वं च तदन्यत् = गलाघस्संयोगरूपमेवास्ति न तु विषय - तारूपम् - असंभवादिति विशेष्यभूतेच्छान्वयिनि कर्मत्वे = विषयतारूपकर्मत्वे धात्वर्थस्य भोजन - स्यान्ययो न संभवति भोजनस्य गलाघस्संयोगरूपकर्मत्वे एवान्वयसंभवादिति विषयतारूपे इच्छाकर्मध्ये विशिष्टस्य = भोजनविशिष्टच्छाया अन्वयासंभवात् ' ओदनो बुभुक्ष्यते ' इत्यत्रागतिरेव स्यात्, तथा चात्र सन्नर्थेच्छाया धात्वर्थविशेषणत्वमेव स्वीकार्य तथा च धात्वर्थस्य भोजनस्य विशेष्यत्वमेव स्यात् विशेष्यभूतस्य तु भोजनस्य स्वातन्त्र्येणाप्योदननिष्ठे आख्यातार्थभूते कर्म - त्वेऽन्वयः संभवत्येवेति कर्माख्यातस्थले इच्छाया धात्वर्थविशेषणत्वमेवेत्यर्थः । " Page #330 -------------------------------------------------------------------------- ________________ ( ३१८ ) सादर्श: [ द्वितीयाकारकद्वितीयखण्डे वस्तुतः ' पाकश्चिकीर्ष्यते ' इत्यत्राप्यगतिरेव - कृत्यविशेषणतया पाकानेठेच्छाविषयतायाः कृतिविशेषणतया तन्निष्ठकृतिविषयताया भिन्नतया इच्छान्वयिनो विषयत्वरूपकर्मत्वस्य कृत्यऽन्वयायोग्यत्वात् । ८ यदि च विशेष्यान्वयिव्यक्तावेव तत्पारतन्त्र्येण विशेषणान्वय इति न नियमःअपि तु तन्वयितावच्छेदकावच्छिन्ने एवेति तथा च विषयतात्वावच्छिन्नस्योभयान्वययोग्यतया न प्रकृतेप्यन्वयानुपपत्तिः, अत एव अरुणया इत्यादावाssरुण्यनिरूपितसाध्यताया गोनिरूपितसाध्यताभिन्नत्वेपि न तृतीयार्थे सन्नर्थेच्छायाः कर्माख्यातस्थलेपि धात्वर्थकृत्यादिविशेष्यत्वस्वीकारे यथा भोजनस्येच्छाविशेह्युक्तरीत्या कर्मत्वेऽन्यो न संभवति तथा पाकश्चिकीर्ष्यते ' इत्यत्रापीच्छाविशेषणीभूतकृतेः कर्मत्वेऽन्वयो न संभवतीत्याह - वस्तुत इति, यद्यपि पाके इच्छाविषयताप्यस्ति धात्वर्थकृतिविषयताप्यस्ति तथापि पाकनिष्ठा या इच्छाविषयता सा इच्छायामेव विशेषणं भवति न तु कृतौ विशेषणं तन्निष्ठा = पाकनिष्ठा कृतिविषयता च कृतौ विशेषणं भवति न विच्छायामिति कृतौ विशेषगत्वाऽविशेष गत्वाभ्यां विषयतयोः परस्परं भिन्नतया इच्छान्त्रयिनः कृत्यऽविशेषगीभूतस्य विषयत्वरूपकर्मत्वस्य कृतावन्वयो न संभवति किं वा कृतिप्रतियोगि कान्वयायोग्यत्वात् ( इच्छान्वयि कर्मत्वे कृतेरन्वयो न संभवति ) इति ' पाकश्चिकी - येते, इत्यत्राप्यगतिरेवेत्यर्थः । तस्मात् कर्मारूपातस्थले इच्छाया धात्वर्थविशेषणत्वमेव स्वीकार्य तथा च विशेष्यभूतस्य कृतिरूपधात्वर्थस्य पाकनिष्ठकर्मत्वे स्वातन्त्र्येणान्यसंभवान क' चिदनुपपत्तिः स्यादिति शेषः । " तन्निष्ठकृतिविषयतायाः " इति पञ्चम्यन्तम् । ननु विशेष्यविशेषणस्य विशेष्यपारतन्त्र्येण योन्यो भवति स विशेष्यान्वयितद्द्व्यक्तावेव भवतीति नियमो नास्ति किं तु तदन्त्रयितावच्छेदकावच्छिन्ने = विशेष्यान्वयितावच्छेदकावच्छिन्ने एव भवति न तु विशेष्यान्वयितावच्छेद कानवच्छिन्नेपीत्ययमेत्र नियमस्तथा च 'पाकश्चिकीर्ष्यते' इत्यत्र पाकनिष्ठेच्छाविषयतायाः पाकनिष्ठकृतिविषयतायाश्वोक्तरीत्या परस्परं भिन्नत्वेप्युभयोरपि विषयतयोरन्वयितावच्छेदकेन विषयतात्वेनावच्छिन्नत्वं स्वस्त्येवेति विषयतात्वावच्छिन्नाया विषयताया विषयतास्वेन रूपेणोभयान्यययोग्यतया - इच्छाकृत्युभयान्त्रययोग्यतया विषयतात्वावच्छिन्ने पाकनिष्ठे इच्छायाः कृतेश्च धात्वर्थस्याऽन्यसंभवान्न काचिदनुपपत्तिः । एवम् 'ओदनो बुभुक्ष्यते' इत्यत्राप्योदननिष्ठाया इच्छाविषयताया भोजनविषयतायाश्वोक्तरीत्या भोजने विशेषणत्वाविशेषणत्वाभ्यां च भिन्नस्वेपि विषयत्वावच्छिन्नाया विषयताया विषयतात्वेन रूपेणैक्यादिच्छाभोजनोभयान्वययोग्यत्वाश्व तादृशविषयतात्वावच्छिन्नायामिच्छाया भोजनस्य चान्वयसंभवान्न काचिदनुपपत्तिः । अत एव = यतो विशेष्यान्वयितावच्छेदकावच्छिने एवं विशेष्यपारतन्त्र्येण तद्विशेषणस्यान्वय: स्वीक्रियते अरुणया पिङ्गाक्ष्यैकहायन्या ( गवा ) सोमं क्रीणाति ” इति श्रुतावाऽऽरुण्यनिरूपितसाध्यतावा गोनिरूपितसाध्यतायाश्च ( क्रयनिष्ठायाः ) परस्परं भिन्नत्वेपि / गोः साक्षा अत एव "Aho Shrutgyanam" ' 17 Page #331 -------------------------------------------------------------------------- ________________ सन्नन्तप्रयोगविचारः ] : व्युत्पत्तिवादः । ( ३१९ ) विशिष्टान्वयानुपपत्तिः, तत्र परम्परया विशेष्यान्वयि सोमक्रयव्यक्तेः परम्परया विशेषणान्वयिव्यक्त्यभेदवत् प्रकृतेपि परम्परयोभयान्वयिकर्मव्यक्त्यभेदोऽक्षत एवेत्युच्यते ?, तदा 'भोजनकृतिर्भवतु पाकश्च भवतु इतिसमूहालम्बने - .च्छामादाय ' पाकश्चिकीर्ष्यते ' इति प्रयोगस्य कालान्तरीयकृतिविषयतामा - दाय दुर्वारतैव । 5 7 L विषयितासंबन्धेनच्छाविशेषणीभवत्कृतिव्यक्तिकर्मत्वस्यैव तदिच्छान्वयिनि कर्मण्यऽन्वयान्नायमतिप्रसङ्ग इति चेत् ?, तथापि तदिच्छाकाले ' पाक इदानीं न त्क्रयहेतुत्वाद् आरुण्यस्य च गोपरिच्छेदकत्वेन गोद्वारा क्रयहेतुत्वात् ) विशेष्यान्वयितावच्छेदकावच्छिन्ने - साध्यतात्वावच्छिन्ने साध्यतालरूपेण साध्यतारूपे तृतीयार्थे विशिष्टान्त्रयस्य- आरुयविशिष्टाया गोः किं वा गोद्वाराऽऽरुण्यस्य ( गवारुण्ययोरुभयोः ) अन्वयानुपपत्तिर्नास्ति-उभयोरपि साध्यतयोः साध्यतालावच्छिन्नत्वात् साध्यतात्वेन रूपेणैक्याच्च तत्र गोः साध्यतायां साध्यतायाः सोमक्रयेऽन्वयः, आरुण्यस्यच गवि गोः साध्यतायां साध्यतायाः सोमक्रयेऽन्वयः किं चारुण्यस्य परिच्छेदे परिच्छेदस्य गवि गोः सोमक्रयेऽन्वयः इत्येवं परम्परयाऽन्वये सत्यपि विशेष्यान्वयि =गवान्वयि सोमक्रयव्यक्तेः विशेषणान्वयि = आरुण्यान्वयि सोमक्रयव्यक्तेश्चाभेदवत् प्रकृते-' पाकश्चिकीर्यते ' इत्यत्रापि कृतेः स्त्रनिरूपितविषयतायां तस्याश्च पाकेऽन्वय इच्छायाश्च स्वनिरूपितविषयतायां तस्या अपि पाके एवाश्रयतासंबन्धेनान्त्रय इत्येवं परम्परासंबन्धेनेच्छाकृत्युमयान्वयिकर्मव्यक्तेः - पाकव्यक्तेरभेदोस्त्येवेति तत्रेच्छायास्तत्परतन्त्रकृतेश्वान्वयसंभवान्न -काचिदनुपपत्तिरित्याशयेनाशङ्कते - यदि चेति । शम् 99 अथास्तु इत्यत्र ज्ञेयम् । परिहारमाह - तदेति, यदि परम्परयोभयान्वयिपाकव्यक्तेरेकत्वमुच्यते तदा ' भोजनकृतिर्भवतु 'पाकश्च भवतु' इतिसमूहालम्बनज्ञाने कृतिविषयत्वं भोजनेस्ति पाके तु केवलमिच्छाविषयत्वमेवास्ति अथापि कालान्तरीयपाकविषयक कृतिविषयतामादाय तादृशकालान्तरीयकृतेर्विषये वर्तमानेच्छायाविषये च पाके कयाचित्परम्परया कृतीच्छयोरुभयोरप्यन्वयसंभवेनोक्तसमूहालम्बनेच्छा दशाया. मपि ' पाकचिकीर्ष्यते ' इतिप्रयोगापत्तिः स्यादेव न चैतदिष्टम् - कृतीच्छयोरुभयोरपि पाकविषयकयोर्वर्तमानतादशायामेव ' पाकश्चिकीते ' इतिप्रयोगस्येष्टत्वादित्यर्थः । , 66 "Aho Shrutgyanam" , ननु ' पाकश्चिकीर्ष्यते ' इत्यत्रेच्छाया धात्वर्थविशेष्यत्वमते विषयितासंबन्धेनेच्छायां विशेषणीभूता या कृतिस्तादृशकृतिकर्मत्वस्यैव तदिच्छान्वयिनि कृतीच्छाम्बयिनि कर्मणि= पाकेन्वय इष्टोऽस्ति न विच्छायामविशेषणी भूतकृतिकर्मत्वस्यापि तथा च कृतेरवर्तमानत्वे ह्यवर्तमानकृतेर्वर्तमानेच्छायां विषयितासंबन्धेन विशेषणत्वासंभवादेवोक्तसमूहालम्बनेच्छादशायां पाकविषयककृत्यभावे पाकश्चिकीर्ष्यते ' इतिप्रयोगस्यापत्तिर्नास्ति, वर्तमानैव च कृतिर्वर्तमानेच्छायां विशेषणं स्थादिति पाकविषयकयोः कृतीच्छयोर्वर्तमानत्वे तु ' पाकश्चिकीष्यते ' इतिप्रयोग इष्ट एवेत्याशङ्-कते - विषयितेति । अत्रापि दोषमुद्घाटयति- तथापीति, तदिच्छाकाले उक्तसमूहालम्बनेच्छा-दशायां पाकविषयकेच्छायाः सत्त्वेपि पाकविषयककृतेरसत्त्वात् ' पाक इदानीं न चिकीर्ष्यते ' Page #332 -------------------------------------------------------------------------- ________________ (३२०) सादर्श:- [ द्वितीयाकारकद्वितीयखण्डेचिकीर्ण्यते' इति प्रयोगानुपपत्तिः- अन्वयितावच्छेदककृतिविषयतात्वकृतिगोचरवर्तमानेच्छाविषयतात्वावच्छिन्नाभावयोस्तदा पाकेऽसत्त्वात् ।। न च वर्तमानकालावच्छिन्नकृतिविषयतात्वावच्छिन्नाभाव एव तत्र प्रतीयते स पाकेबाधित इति वाच्यम्, यदाऽतीतेच्छाधीनपाककृतिरपि तत्र वर्तते तदा तादृशाभावस्यापि तत्र बाधात् । पाककृतीच्छायामसत्त्यामुक्तेच्छासत्त्वेपि च तथा प्रयोगात्, कृत्यसत्त्वेपि पाककृतीच्छासत्वे तथाप्रयोगविरहात्, कृति. इतीष्टोपि प्रयोगो नोपपद्येत- ' पाक इदानीं न चिकीर्घ्यते ' इत्यत्र पाकेऽन्वयितावच्छेदक यत् कृतिविषयतात्वं तदवच्छिन्न प्रतियोगिताकोऽभावः ( कृतिविषयकत्वाभावः ) अन्वयितावच्छेदकं यत् कृतिगोचर ( कृतिविषयक ) वर्तमानेच्छाविषयतात्वं तदवच्छिन्न प्रतियोगिताकश्चाभावः ( इच्छाविषयवाभावः ) बोध्यते उक्तसमूहालम्बनेच्छादशायां च पाकविषयककृतेरसत्त्वेन पाके कृतिविषयत्वाभावस्य सत्त्वेपीच्छाविषयत्वाभावो नास्त्येव-पाकविषयकेच्छायाः सत्त्वादित्युक्तप्रयोगानुपपत्तिरित्यर्थः । अस्मन्मते तु कर्माख्यातस्थले इच्छाया धात्वर्थविशेषणत्वस्वीकारात् 'पाक इदानीं न चिकीर्च्यते ' इतिवाक्यस्य पाके इच्छाविषयीभूतकृतिविषयत्वाभावबोधकत्वं स्वीक्रियते उक्तसमूहालम्बनेच्छाकाले च पाके इच्छाविषयत्वसत्त्वेपि कृतिविषयत्वस्याऽसत्त्वेनेच्छाविषयीभूतकृतिविषयत्वाभावस्य सत्त्वात् तद्बोधकस्योक्तप्रयोगस्यानुपपत्तिर्नास्त्येव । त्वया तु कर्माख्यातस्थलेपि सन्नथेच्छाया धात्वर्थ विशेष्यत्वस्वीकारेण 'पाक इदानीं न चिकीयते ' इति वाक्यस्य पाके कृतिविषयकेच्छाविषयत्वाभावबोधकत्वं वक्तव्यमुक्तसमूहालम्बनेच्छाकाले च पाके इच्छाविषयत्वस्यैव सत्त्वादिच्छाविषयत्वाभावो नास्त्येवेति त्वन्मते प्रयोगानुपपत्तिरस्त्येवेत्यर्थः । ___ ननु तत्र='पाक इदानी न चिकीर्ण्यते' इत्यत्र वर्तमानकालावच्छिन्नकृतिविषयतात्वावच्छिन्नप्रतियोगिताकोऽभावः । वर्तमानकृतिविषयत्वाभावः एव प्रतीयते स च कृतिविषयत्वाभावः पाके उक्तसमूहालम्बनेच्छादशायामबाधितः अस्त्येव-पाकविषयककृतेरभावादित्युक्तसमूहालम्बनेच्छादशायाम् 'पाक इदानी न चिकीर्ण्यते ' इति प्रयोगस्यानुपपत्तिर्नास्तीत्याशङ्क्याह--- न चेति । परिहारमाह-यदेति, यदा तत्र=उक्तसमूहालम्बनेच्छादशायां वर्तमानेच्छाधीनपाककृतेरसत्त्वेप्यतीतेच्छाधीनपाककृतेः संभवादतीतेच्छाधीनपाककृतिर्वर्तते ( स्यात् ) तदा तत्र पाके तादशवर्तमानकृतिविषयत्वस्यैव प्राप्त्या तादृशवर्तमानकृतिविषयत्वाभावस्य बाधात् 'पाक इदानीं न चिकीर्ण्यते । इतिप्रयोगस्यानुपपत्तिस्तदवस्थैवेत्यर्थः । 'पाक इदानी न चिकीयते । इत्यत्र पाके कृतिविषयत्वाभावमात्रबोधे दोपान्तरं प्रदर्शयति-पाककृतीच्छायामिति, उक्तेच्छाया:= उक्तसमूहालम्बनेच्छाया: (पाकेच्छायाः) सत्त्वेपि पाककृतीच्छायामसत्यां पाकविषयककृतेर• प्यसत्वं प्राप्तमिति पाने इच्छाविषयीभूतकृतिविषयत्वाभावबोधकस्य 'पाक इदानी न चिकीयेते' इतिवाक्यस्य प्रयोगो भवत्येव, यद्यत्र त्वदुक्तरीत्या पाके केवलं कृतिविषयत्वाभावस्यैव बोधः "Aho Shrutgyanam" Page #333 -------------------------------------------------------------------------- ________________ सन्नर्थेच्छा स्वरूपम् ] व्युत्पत्तिवादः। ( ३२१) विषयत्वाभावमात्रबोधस्य तत्राभ्युपगमाऽसंभवाच्चेति कर्मप्रत्ययस्थले इच्छा धात्वर्थविशेषणमेव । ___ इदं तु तत्त्वम्-कर्मप्रत्ययस्थलेपि धात्वर्थविशेष्यतयैवेच्छा सन्प्रत्ययेन प्रत्या. य्यते, तत्कर्मत्वमेव कर्माख्यातार्थः, तच्च धात्वर्थकर्मतया तद्विषयत्वम् । 'ओदनकर्मकभोजनं भवतु ' ' पाकविषयककृतिर्भवतु ' इत्यादीच्छायां च पाकौदनादीनां तथेच्छाविषयतया तत्कर्मत्वमक्षतम् । गृहस्थित्यादीच्छायां च गृहादे: स्यात्तदोक्तरीत्या पाकेऽतीतेच्छाधीनकृतिविपयत्वस्य संभवादुक्तसमूहालम्बनेच्छाकाले ' पाक इदानीं न चिकीर्ण्यते' इतिप्रयोगो न स्यादेवेत्यर्थः । 'पाक इदानीं न चिकीष्यते । इत्यस्य पाके कृतिविषयत्वाभावमात्रबोधकत्वस्वीकारे दोषान्तरं प्रदर्शयति-कृत्यसत्त्वेपीति, पाकविषय. ककृत्यसत्त्वेपि पाकविषयककृतिविषयकेच्छासत्त्वे तथाप्रयोगविरहात्='पाक इदानीं न चिकीय॑ते । इति प्रयोगो न भवति-पाककृतीच्छासत्त्वे पाके इच्छाविषयीभूतकृतिविषयत्वमेव प्राप्तमितीच्छाविषयीभूतकृतिविषयत्वाभावबोधकस्य ' पाक इदानीं न चिकीय॑ते । इतिवाक्यस्थ प्रयोगापत्तिर्नास्त्येव, यद्यस्य वाक्यस्य पाके कृतिविषयत्वाभावमात्रबोधकत्वं स्यात्तदा पाके वर्तमानेच्छाधीनकृतिविषयत्वसत्त्वेपि पाकविषयककृत्यन्तरस्याऽसत्त्वादेव ' पाक इदानीं न चिकीर्यते ' इति प्रयोग आपद्येतेय न चैतदिष्टमिति 'पाक इदानीं न चिकीर्ण्यते ' इत्यत्र कृतिविषयत्वाभावमात्रबोधस्वीकारो न संभवतीत्याह-कृतिविषयत्वाभावमात्रेति । कर्मप्रत्ययस्थले सनर्थेच्छाया धात्वर्थविशेष्यत्वस्वीकारे उक्तदोषवृन्दप्रसङ्गाद् धात्वर्थविशेषणत्वमेव युक्तमित्याहइतिकर्मप्रत्ययस्थले इति, तथा च 'पाक इदानीं न चिकीर्ण्यते ' इति वाक्यस्य पाके इच्छांवियीभूतकृतिविषयत्वाभावबोधकत्वादुक्तसमूहालम्बनेच्छादशायां प्रयोगानुपपत्तिरपि नास्ति पाककृतीच्छासत्त्वे प्रयोगापत्तिरपि दर्शितदिशा नास्तीति सर्व सुस्थमिति भावः । अत्र " यदा? इत्यस्य स्थाने “ यदि " इत्यपि पाठ उपलभ्यते । उक्तरीत्या कर्मप्रत्ययस्थले इच्छाया धात्वर्थ विशेष्यत्वं पराकृत्यापि तदेव संस्थापयितुमारभते-- इदं तु तत्त्वमित्यादिना । तत्कर्मत्वम् इच्छाकर्मत्वम् । तच्च-इच्छाकर्मत्वं च धात्वर्थकर्मतया धात्वथैकर्मत्वेन रूपेण तद्विषयत्वम् इच्छाविषयत्वं विज्ञेयम् । अनेन हि धात्वर्थकर्मत्वप्रकारकेच्छाविषयत्वमेवेच्छाकर्मत्वमिति सिद्धम् । तथा च 'ओदनकर्मकभोजनं भवतु । इतीच्छायां सत्यामोदनस्य तथेच्छाविषयतया= भोजनरूपधात्वर्थकर्मत्येनेच्छाविषयतया तत्कर्मत्वम् इच्छाकर्मत्वमस्त्येवेति तत्र ‘ओदनो बुभुक्ष्यते' इति प्रयोगानुपपत्तिर्नास्ति, एवम् ' पाकविषयककृतिर्भवतु ' इतीच्छायां सत्यां पाकस्य तथेच्छाविषयतया कृतिरूपधात्वर्थकमवनेच्छाविषयतया इच्छाकर्मत्वमस्येवेति तत्र 'पाकश्चिकीर्ण्यते' इति प्रयोगस्यानुपपत्ति स्ति, धात्वर्थकृतिकर्मपाकविषयकेच्छाविषयत्वाश्रयः पाक इति वा धात्वर्थ कर्मत्वप्रकारकेच्छाविषयत्वाश्रयः पाक इति वा शाब्दबो. धाकारः । गृहस्थितीच्छायां सत्यां गृहस्येच्छाविषयत्वेपि धात्वर्थभूतस्थितिकर्मत्वेनेच्छाविषयत्वं न "Aho Shrutgyanam" Page #334 -------------------------------------------------------------------------- ________________ ( ३२२ ) सादर्श: [ द्वितीयाकारक द्वितीयखण्डे - स्थित्याधारत्वादिनैव विषयत्वमिति न गृहादेस्तिष्ठासादिकर्मत्वम् । अत एवं यदोदनव्यक्तिकर्मकभोजनमप्रसिद्धम् अथ च भोजनकर्मतया तदिष्टं तत्र अमोदनो बुभुक्ष्यते ' इत्यादेः- दर्शनादिविषयत्वेन गगनादिगोचरेच्छास्थले च 'गगनं दिदृक्ष्यते ' इत्यादेश्व प्रयोगस्य नानुपपत्तिः, न वा ओदनादिरूपकर्ममात्रोपरागेण यत्र भोजनादीच्छा दैववशेन च तद्भोजनादिकं विषादिकर्मकमपि तत्र ' विषं बुभुक्ष्यते ' इत्यादयः प्रयोगाः । 6 कर्तृप्रत्ययस्थलेपि च तादृशविषयतारूपं कर्मत्वमेवेच्छाविशेषणतया भासते न तु धात्वर्थकर्मत्वम् । धात्वर्थविशेषणतया तत्तत्पदार्थकर्मत्वविशिष्टभोजनादिभवति ष्ठाधातोरकर्मकत्वात् किं तु स्थित्याधारत्वेनैवेच्छाविषयत्वं भवतीति गृहं तिष्ठास्यते. गृहं तिष्ठासति' इत्यादिप्रयोगापत्तिरपि नास्ति किं तु ' गृहे तिष्ठास्यते ' इत्येव प्रयोगो भवति गृहस्याधारत्वेन सप्तमी प्राप्ते रित्याह- गृहस्थित्यादीच्छायामिति । अत एवेति यतो धात्वर्थकर्मण इच्छाविषयत्वे सति सन् भवति किं वा यतो धात्वर्थकर्मतया इच्छाविषयत्वमेवेच्छाकर्मत्वमत एव यदोदनव्यक्ति कर्मकं भोजनमप्रसिद्धं स्यात् ( तदोदनस्य भोक्तुमशक्यत्वात् ) अथ च तदोदनं भोजनकर्मत्वेनेष्टं स्यात् ( तदोदनकर्मकभोजनेच्छायाः संभवात् ) तत्र = तादृशदशायामपि भयमोदनो बुभुक्ष्यते ' इति प्रयोगस्यानुपपत्तिर्नास्ति-उक्तोदनस्य भोजनासंभवेपि भोजनकर्मवनेच्छाविषयत्वसंभवात् तत्र सनः साधुत्वात् । एवं यद्यपि गगनकर्मकदर्शनमप्रसिद्धमेव तथापि यदि गगनगोचरदर्शनेच्छा स्यात्तदा गगनं दिदृक्ष्यते इतिप्रयोगस्यानुपपत्तिर्नास्ति-गगने दर्शन कर्मवासंभवेपि दर्शनेच्छाविषयत्वस्य संभवाद् दर्शनेच्छाविषयत्वं च दर्शनकर्मस्वेच्छाविषयत्वमेवेत्यर्थः । इत्येवमनुपपर्त्ति परिहृत्याऽनिष्टापत्ति परिहरति- न वेति, यत्रौदनादिरूपकर्ममात्रस्योपरागेण==विषयकत्वेन भोजनादीच्छा = ओदनमात्र कर्मकत्वविशिष्ट भोजनेच्छा ( ओदनमा - श्रकर्मकभोजनेच्छा न तु विषादिकर्मकभोजनेच्छापि ) तादृशभोजन कर्मभूतौदनेऽज्ञात विषस्य सत्त्वाद् दैववशेन तद्भोजनं विषकर्मकमपि जातम् ओदनेन सहाज्ञातविपस्यापि भोजनकर्मत्वप्राप्तेस्तत्र ' विषं बुभुक्ष्यते ' इति प्रयोगस्यापत्तिर्नास्ति-विषस्य भोजनकर्मत्वेपि भोजनकर्मत्वेनेच्छाविषयत्वाभावात् ( विषभोजनेच्छाया असत्त्वात् ) सन्प्रत्ययश्च तत्रैव भवति यत्र सन्प्रकृतिभूतधात्वर्थ कर्मण इच्छाविषयत्वमपि स्यादित्यर्थः । ८ 'पाकं चिकीर्षति '' ओदनं बुभुक्षते चैत्रः ' इत्यादिकर्तृप्रत्ययस्थलेपि 'पाकनिष्ठतादृशविषयतानिरूपिका या धावर्थभूतकृतिभोजनादिप्रकारकेच्छा 'तादृशेच्छाश्रयश्चैत्रः ' इत्याकारकशाब्दबोधोदयात् तादृशविषयतारूपम् = सन्प्रकृतिभूतधात्वर्थ कर्मत्वे नेच्छा विषयत्वरूपमेवेच्छाकत्वं निरूपकत्वसंबन्धे नेच्छाविशेषणतया भासते न विच्छाविषयत्वा समानाधिकरणं केवलं धात्वर्थनिरूपितकर्मत्वमिच्छाविशेषणतया भासते इत्याह- कर्तृप्रत्ययेति । विपक्षे बाधकमाहधात्वर्थ विशेषणतयेति, यदि इच्छाविषयत्वासमानाधिकरणमपि धात्वर्थ कर्मत्वमिच्छाविशे " C "Aho Shrutgyanam" Page #335 -------------------------------------------------------------------------- ________________ सन्नन्तप्रयोगविचारः] व्युत्पत्तिवादः। ( ३२३) निरूपितविषयिताया नियमत इच्छायां भानोपगमेनोक्तस्थले विष बभक्षते चैत्रः' इत्यादिप्रयोगवारणेपि गगनं दिदृक्षते चैत्रः' इत्यादिप्रयोगस्य दुरुपपादत्वात् । इदं तु बोध्यम्- सन्प्रतिपाद्येच्छायां धात्वर्थकृतिभोजनादेः केवलविशेष्यतासंबन्धेन न विशेषणत्वं तथा सति परकतककृतिभोजनादिगोचरेच्छावति 'अयं चिकीर्षति. बुभुक्षते ' इतिप्रयोगप्रसङ्गात् किं तु विशेष्यतासमानकर्तृकत्वोभय षगतया भासेत तदा धात्वर्थविशेषगतयाधात्वर्थविशेषणीभूतं यत् तत्तत्पदार्थकर्मस्वम् ओदनादिपदार्थकर्मत्वं निरूपकत्वसंबन्धेन तद्विशिष्टं यद् भोजनादिकं तादृशभोजनादिनिरूपितविषयिताया इच्छायां भानं भवत्येवेति नियमेन विषकर्मकभोजनेच्छायामसत्याम् विषं बुभुक्षते ' इति प्रयोगापत्तिवारणं यद्यपि संभवति- भोजनेच्छायां विषकर्मत्वविशिष्टभोजननिरूपितविषयिताया मानासंभवाद् विषभोजनेच्छाया अभावात् तत्पदार्थकर्मत्वविशिष्टभोजनादिनिरू. पितविषयिताया इच्छायां भानसंभवे एच सन्प्रत्ययप्राप्तिसंभवात् , तथापि 'गगनं दिक्षते चैत्र, इतिप्रयोगस्योपपादनं न संभवति- गगनकर्मत्वविशिष्टदर्शननिरूपितविषयिताया इच्छायां मानासंभवात्- दर्शने गगनकर्मत्ववैशिष्टयासंभवात्- गगनस्य दर्शनयोग्यत्वाभावात्, गगने धात्वर्थभूतदर्शनकर्मत्वाभावाद् गगननिष्ठधात्वर्थ निरूपितकर्मत्वस्येच्छाविशेषणत्वासंभवादित्यर्थः । यदा च धात्वर्थकर्मत्वेनेच्छाविषयत्वरूपमेव कर्मत्वमिच्छाविशेषणं तदा तु 'गगनं दिदृक्षते, इत्यत्र घटादिषु प्रसिद्ध यद् धात्वर्थीभूतदर्शनकर्मत्वं तादृशदर्शनकर्मत्वेनेच्छाविषयत्वं गगनेपि संभवतीति 'गगनं दिदक्षते' इति प्रयोगोपपत्तिः संभवति- दर्शनकर्मत्वासंभवेपि दर्शनकर्मत्वेनेच्छाविषयत्वस्याकाशेपि संभवादित्यर्थः ।। सन्प्रतिपाद्येच्छायां सन्प्रकृतिभूतधात्वर्थकृतिभोजनादेर्येन संवन्धेनान्वय इष्टस्तत्प्रतिपादयितुमारभते- इदं तु बोध्यमित्यादिना, यदि सन्नर्थेच्छायां धात्वर्थकृतिभोजनादेः केवलविशेष्यतासंबन्धेनान्वयः स्यात् तथा सति तदा परकर्तृककृतिभोजनादिगोचरेच्छावति चैत्रकर्तृककृतिमोजनादिविषयकेच्छावति मैत्रे 'अयं ( मैत्रः ) चिकीर्षति, अयं बुभुक्षते' इतिप्रयोगापत्तिः स्यादेव-- मैत्रनिष्ठेच्छायास्तदा चत्रकर्टककृतिभोजनादिविषयकत्वात् चैत्रकर्तृककृतिभोजनादिनिरूपितविशेष्यतायाः (विषयितायाः) मैत्रनिष्ठेच्छायां सत्त्वात् ताश्शेिष्यतासंबन्धेन चैत्रकर्तृककृतिभोजनादेरपि मै निच्छायामप्यऽन्त्रयित्वेन विशेष गत्वादित्यर्थः। तस्मात् सनर्थेच्छायां धात्वर्थकृतिभोजनादेबिटोगना- समानकर्तकत्वैतदुभयसंबन्धेन विशेषणत्वं भवतीत्याह- किं विति, तथा चोक्तस्थले मैत्रनिष्ठेच्छायां चैत्र कर्तृककृतभोजनादिनिरूपितविशेष्यतायाः सत्त्वेपि चैत्रकर्तृककृतिमोजनादिसमानर्तृकत्वस्याऽसत्त्वात्- कृतिभोजनादिकर्तृत्वस्य चैत्रे कृतिभोजनादिविषयकेच्छाकर्तृत्वस्य च मैत्रे सत्वादिति, तथा च विशेभ्यतासमानकर्तृकत्वैतदुभयसंबन्धेन मैत्रनिष्ठेच्छायां चत्रकर्तृककृतिमो-- "Aho Shrutgyanam" Page #336 -------------------------------------------------------------------------- ________________ ( ३२४ ) सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे - संबन्धेनैव । उक्तातिप्रसङ्गवारणायेंच्छासमानकर्तृकत्वेपि सन्प्रत्ययवाच्यतां स्वीकृत्य क्रियायां तदन्वयोपगमो न साधीयान् - इच्छान्तरसमानकर्तृकत्वमादाय दर्शितस्थलेतिप्रसङ्गतादवस्थ्यात् । स्वसमानकर्तृकत्वस्य वाच्यत्वे तत्तदिच्छारूपस्वपदार्थानुगमेन व्युत्पत्त्यनुपपत्तिः । 56 न च समानकर्तृकत्वस्य संबन्धत्वापगमे तत्र शक्तिग्राहकानुशासनविरोधः, यतः- धातोः कर्मणः समानकर्तृकादिच्छायां वा " इतिसन्विधायक सूत्रं जनादेर्विशेषणत्त्रासंभवान्नोक्तस्थले 'अयं चिकीर्षति बुभुक्षते' इत्युक्तप्रयोगापत्तिरस्तीत्यर्थः । ननू-: कातिप्रसङ्गवारणायापि न धात्वर्थकृतिभोजनादीनां सन्नर्थेच्छायां विशेष्यतासमानकर्तृकत्वैतदुभयसंबन्धेन विशेषणत्वं स्वीकार्य किं तु केवल विशेष्यतासंबन्धेनैव, इच्छासमानकर्तृकत्वस्य तु सन्प्रत्ययवाच्यत्वमेव स्वीकार्य तादृशस्य सन्वाच्यस्येच्छासमानकर्तृकत्वस्य च क्रियायाम् धात्वर्थतिभोजनादावन्वयः कर्तव्य इति कृत्यादीनां यत्रेच्छासमानकर्तृकत्वं स्यात् तत्रैव सन् भविष्यति.. उक्तस्थले तु कृत्यादिकर्तृत्वं चैत्रे इच्छाकर्तृत्वं च मैत्रे इति कृत्यादीनामिच्छासमानकर्तृकत्वाभावादु.तस्थले ' अयं ( मैत्रः ) चिकीर्षति । इत्यादिप्रयोगापत्तिर्नास्तीत्याशङ्क्याह- उक्तातिप्रसङ्गेति । परिहारहेतुमाह - इच्छान्तरेति, यद्यप्युक्तस्थले चैत्रकर्तृककृतिभोजनादिविषया या मैत्रनिष्ठेच्छा तादृशेच्छासमानकर्तृकत्वं चैत्रकर्तृककृतिभोजनादौ नास्ति - इच्छायां मैत्रकर्तृकत्वस्य कृतिभोजनादौ च चैत्रकर्तृकत्वस्य सत्त्वात् तथापि चैत्रनिष्टं यदिच्छान्तरं दर्शनादिविषयकेच्छा तादृशेच्छासमानकर्तृकत्वं तु चैत्रकर्तृककृतिभोजनादावस्त्येवेत्युक्तस्थले कृतिभोजनादाविच्छासमानकर्तृत्वस्य प्राप्त्या अयं चिकीर्षति ' इतिप्रयोगापत्तिरूपोऽतिप्रसङ्गस्तदवस्थ एव स्यादिस्यर्थः । ननु कृतिभोजनादौ धात्वर्थेऽन्वीयमानं यदिच्छासमानकर्तृकत्वं तत्रेच्छापदेनेच्छान्तरं न ग्राह्यं किं तु धात्वर्थीभूतकृतिभोजनादिविषयकवेच्छा ग्राह्मा तथा च तादृशेच्छाग्रहणार्थमिछापदस्थाने स्वपदं निवेश्य स्व ( इच्छा ) समानकर्तृकत्वस्य सन्प्रत्ययवाच्यत्वं कृतिभोजनादावन्वयं च वक्ष्यामस्तथा च नेच्छान्तरमादायोक्तातिप्रसङ्ग :- स्वपदेन तदिच्छा व्यक्तिमात्रग्रहप्याद् उक्तस्थले कृतिभोजनादिविषयकेच्छाकर्तृत्वं चैत्रे नास्ति कृतिभोजनादिकर्तृत्वं च चैत्रे एवेति न अयं चिकीर्षति इतिप्रयोगापत्तिरपीत्याशङ्क्याह- स्वसमानेति, एवं हि तत्तदिच्छाव्यक्तिबोधकस्वपदबोध्यस्वपदार्थस्य तत्तदिच्छारूपस्यानुगमाऽसंभवाद् व्युत्पत्त्यनुपपत्तिः == सन्प्रत्ययस्य शक्तिग्रह एव न संभवति, तस्मात् समानकर्तृकत्वमप्युक्तरीत्या संबन्धकोटावेव निवेशनीयं न . सन्प्रत्ययवाध्यकोटौ तथा चोक्तरीत्या न कोपि दोष इत्यर्थः । - < ननु यदि समानकर्तृकत्वमुक्तरीत्या संबन्धकोटौ निवेश्यते तदा शक्तिग्राहकानुशासन विरोधः= सविधायक सूत्रेणैव सन्प्रत्ययार्थो निरूप्यते इति तस्यैव शक्तिप्राहकत्वात् तद्विरोधः स्यात्तेन सूत्रेण समानकर्तृकाद्धातोरिच्छायां सन् विधीयते इति समानकर्तृकत्वस्यापि सन्वाच्यत्वमेव युक्तमित्याशङ्क्याह- न चेति । परिहारमाह- यत इति, “ धातोः कर्मण: " इति सन् वि "Aho Shrutgyanam" Page #337 -------------------------------------------------------------------------- ________________ नामधातुप्रकरणम् ]. व्युत्पत्तिवादः। (३२६) सनः समानकर्तृकत्वार्थकतां न प्रतिपादयति तस्य हि- “इच्छाकर्मत्वेन तत्समानकर्तृकत्वेन च स्वार्थपराद्धातोरिच्छारूपार्थे सन् भवति' इत्येवार्थः । इच्छाधात्वर्थयोः संसर्गतया समानकर्तृकत्वविवक्षायामपि समानकर्तृकत्वोपरक्तार्थपरत्वं धातोनिर्वहतीति इच्छामात्र शक्तिग्राहकं तत्सूत्रमिति । सुबन्तोत्तरेच्छार्थविहितक्यचकाम्यजन्तस्य धातोरिच्छार्थकतया सन्प्रत्ययान्ताऽविशेषेपि सन्नन्तधातुवन्न सकर्मकता- तदन्तर्गतप्रातिपदिकस्यैवेच्छाकर्मधायकं सूत्रम् “समानकर्तृकात्" इति पदेन सन्प्रत्ययस्य समानकर्तृकत्ववाचकतां न प्रतिपादयतीत्यर्थः । सविधायकोक्तसूत्रस्य स्वयमर्थमाह- तस्येति, ' इच्छाकर्मत्वेन तत्समानकर्तृकत्वेन' इति च प्रकारत्वं तृतीयार्थस्तथा च 'इच्छाकर्मत्वप्रकारक इच्छासमानकर्तृकत्वप्रकारकश्च यः स्वार्थस्तादृशस्वार्थपराद्धातोरिच्छारूपार्थे सन् भवति ' इत्येव सूत्रार्थ:- यस्य कृतिभोजनादिरूपधात्वर्थस्येच्छाकर्मत्वमपि स्यादिच्छासमानकर्तृकत्वमपि स्यात् तादृशधात्वर्थबोधकधातोः सन् मवतीति यावत्, तदुक्तं वृत्तिकारेण- " इषिकर्मण इषिणककर्तकाद्धातोः सन् प्रत्ययो वा स्यादिच्छायाम् '' इतीच्छामात्रवाचकत्वं प्राप्तम् । ' चैत्रश्चिकीर्षति । इत्यत्र च धात्वर्थकृतेरिच्छाकर्मत्वमिच्छासमानकर्तृकत्वं चास्तीति सन्प्रत्ययो जातः, इति न समानकर्तृकत्वस्य सन्वाच्यत्वम्, धात्वर्थविशेषणस्य च समानकर्तृकत्वस्य कथं हि सन्वाच्यत्वं स्यात् तस्य (सनः ) इच्छाबाचकत्वात् समानकर्तृकत्वस्येच्छाविशेषणत्वाभावाच्चेति भावः । ननु यदीच्छायां धात्वर्थस्य 'समानकर्तृकत्वसंबन्धेनान्वयो भवति तदा समानकर्तृकत्वस्य संसर्गत्वमेव प्राप्तं न तु धात्वर्थविशेषणत्वं तथा च सन्प्रकृतिभूतधातोः समानकर्तृकत्वविशिष्टस्वार्थबोधकत्वं कथं स्यात् सूत्रोक्तमित्याशङ्क्याह- इच्छाधात्वर्थयोरिति, असंबद्धपदार्थस्य संसर्गत्वासंभवात् समानकर्तृकत्वस्य संसर्गतया विवक्षायामपि धात्वर्थविशेषणत्वं प्राप्तमेवेति न सूत्रोक्तस्य " समानकर्तृकात् " इति पदस्य विरोध इति तत्सूत्रम उक्तसविधायकसूत्रं सन इच्छामात्रे शक्तिप्राहकं न तु समानकर्तृकत्वेपीत्यर्थः। __ संप्रति नामधातुप्रकरणमारभते- सुबन्तोत्तरेति, 'आत्मनः पुत्रमिच्छति- पुत्रीयति पुत्रकाम्यति । इत्यादौ सुबन्त ( द्वितीयान्त ) पुत्रपदोत्तरमिच्छार्थे " सुप आत्मनः क्यच् " "काम्यच्च" इतिसूत्राभ्यां क्यच्काम्यच्प्रत्ययौ भवतस्तादृशप्रत्ययान्तस्य " सनाद्यन्ता भातवः " इत्यनेन धातुसंज्ञा भवति तदनन्तरमाख्यातप्रत्ययो भवतीति पुत्रीयति पुत्रकाभ्यति ' इत्यादयः प्रयोगा भवन्ति, तत्र क्यचकाम्यच्प्रत्यययोर्यद्यपीच्छार्थकत्वेन सन्प्रत्ययतुल्यत्वात् सकर्मकत्वं स्यात्तथापि तदन्तर्गतस्य क्यच्काम्यजन्तान्तर्गतस्य पुत्रादिप्रातिपदिकस्यैव क्यजादिप्रत्ययार्थेच्छायाः कर्मपदार्थबोधकतया ( क्यजाद्यर्थेच्छां प्रति प्रकृत्यर्थभूतपुत्रादिपदार्थ. स्यैव कर्मत्वात् ) क्यजादिप्रत्ययान्तस्य कर्माकाङ्क्षाया अभावात् सन्नन्तधातुवत् सकर्मकत्वं न मवतीति 'भात्मानं पुत्रीयति ' इत्यादिः कर्मपदयुक्तः प्रयोगो न भवति । सनन्तस्थले तु "Aho Shrutgyanam" Page #338 -------------------------------------------------------------------------- ________________ (३२६) सादर्श:- [ द्वितीयाकारकद्वितीयखडेबोधकतयेच्छायाः कर्माकाङ्क्षाविरहात् । न च 'पुत्रीयति' 'पुत्रकाम्यति । इत्यादौ क्यजादिप्रकृत्यर्थपुत्रादेः क्रियात्वाभावेनाऽकर्मकत्वेपि आत्मनः पाकमिच्छति पाकीयति ' इत्यादौ प्रकृत्यर्थपाकादेः सकर्मकतया सन्नन्तसमुदायषद् क्यजाद्यन्तपाकादिसमुदायस्य सकर्मकताया दुरितया 'तण्डुलं पाकीयति' इत्यादिप्रयोगापत्तिरित वाच्यम्, कृधातुसमानार्थकयतेरिव सन्नन्तप्तमा नार्थकस्य क्यजन्तादेरापि कर्मताबोधकसुप्साकाक्षत्वानुपगमेन तथाप्रयोगाप्रस. ङ्गात् । कृदन्तकर्मत्वविवक्षायां तु षष्ठया बाधाद् द्वितीयाया अग्रसक्तिः । ___ न च धात्ववयवकृयोगे “कर्तृकर्मणोः कृति " इत्यस्य द्वितीयाबाधकत्वे 'कंसकर्मकवधमाचष्टे कंसं घातयति ' इत्यत्र द्वितीया न स्यात् कंसस्याख्यानकर्मत्वायोगेन वधकर्मतयैव तदुत्तरं द्वितीयासमर्थनादिति वाच्यम्, कृदन्तोत्तरं सन्प्रत्ययार्थेच्छां प्रति सन्प्रकृतिभूतधात्वर्थस्य कर्मत्वेन सनः कर्माकाङ्क्षाविरहेपि प्रकृतिभूतधातोः कर्माकाङ्क्षया ' पाकं चिकीर्षति । इत्येवं सकर्मकः प्रयोगोपि भवत्येवेत्यर्थः । ननु 'पुत्रीयति ' इत्यादौ प्रकृतिभूतपुत्रपदस्य सकर्मकत्वाभावेनास्य कर्माकाङ्क्षाविरहादकर्मकस्लेषि 'आत्मनः पाकमिच्छति- पाकीयति' इत्यादौ पाकपदार्थस्य सकर्मकत्वेन यथा ' पाकं चिकीर्षति ' इति सकर्मकप्रयोगो भवति तथेच्छार्थकक्यजादिप्रत्ययस्थलेपि ' तण्डुलं पाकीयति' इत्येवं सकर्मकः प्रयोगो कथं न स्यादित्याशङ्कयाह- न चेति । परिहारमाह- कृधातुसमानेति, यया यद्यपि यतिधातुः कृधातुसमानार्थक एव तथापि कृत्रः सकर्मकत्वमस्ति यतेश्व सकर्मकत्वं नास्ति तथैव सन्नन्तसमानार्थकस्यापि क्यजन्तादेः प्रयोगस्य धातोर्वा कर्मताबोधक यत् सुप्-सुबन्तं तण्डुलमित्यायुक्तपदं तत्साकाङ्क्षत्वाभावादेव तथा प्रयोगस्य=' तण्डुलं पाकीयति' इत्येवं सकर्मकप्रयोगस्य प्रसङ्गः आपत्तिर्नास्तीत्यर्थः । कृदन्तं यत्पाकादिपदं तत्कर्मत्वविवक्षायामपि तण्डुलादिपदात् षष्ठयेव संभवति " कर्तृकर्मणोः कृति " इत्यनुशासनान्न तु द्वितीया तथा च ' तण्डुलस्य पाकीयति ' इतिप्रयोगसंभवेपि — तण्डुलं पाकीयति । इति न संभक्तीत्याह- कृदन्तेति । - . ननु यदि " कर्तृकर्मणोः कृति " इत्यनेन द्वितीयाबाधः स्यात्तदा ' कंसं घातयति । इत्यत्र कंसस्य ' कंसवधमाचष्टे , इत्याख्यानकर्मत्वं तु नास्त्येव वधस्यैवाख्यानकर्मत्वादिति मधर्मत्वमेव कंसस्य वक्तव्यं तादृशवधर्मतयैव कंसपदाद् द्वितीयासमर्थनं च कर्तव्यं तत्र क्यपदस्य कृदन्तत्वेन तत्कर्मवाचकसपदात् षष्ठयेव स्यान्न तु द्वितीयेति ' कंसं घातयति । इति प्रयोगो न स्यादित्याशङ्क्याह-न चेति । तदुत्तरम्-कंसपदोत्तरम् । आचष्टे इत्यस्यारूयानार्थकत्वं विज्ञेयम् । परिहारमाह- कृदन्तोत्तरमिति, 'कंसवधमाचष्टे- कंसं घातयति। इत्यादौ यत्र कृदन्तवधादिपदोत्तरं णिच्प्रत्ययो भवति तत्र " आख्यानात् कृतस्तदाचष्टे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम् " इत्यनुशासनेन चुरादिगणपठितेन कृदन्तका "Aho Shrutgyanam" Page #339 -------------------------------------------------------------------------- ________________ नामधातुप्रकरणम् ] व्युत्पत्तिवादः । "L 3 6 (३२७) यत्राख्यानार्थे णिच् तत्र प्रकृतिवच कारकम् " इत्यनेन कृदन्तकारकस्य ण्यन्त प्रकृतिप्रतिपाद्यक्रियाकारकतुल्यत्वातिदेशाद् ' राजानं गमयति सूर्यमुद्गमयति' इत्यादौ ण्यन्तधातुयोगे यथा प्रकृत्यर्थक्रियाकर्तुः कर्मत्वं तथा कृदन्तोत्तरणिचूयोगेपीति=आख्येयगत्युद्गत्यादिकर्तुः कर्मतया तदुत्तरं द्वितीयेति ण्यन्त्यधातुयोगे यथा प्रकृतेः कर्मणो द्वितीयान्तता तथा णिच्प्रत्ययान्तकृदन्तकर्मणोपीति लाभात् कृदन्तकर्मणः कंसादेर्द्वितीयोपपत्तिः । तथाविवक्षायाम् 'तण्डुलस्य पाकीयति ' इतिप्रयोग इष्यते एव - कारकविभक्त्यर्थस्य वृत्त्येकदेशेमाप्यन्वयस्य व्युत्पन्नत्वात् । संबन्धविवक्षायां च न तथा प्रयोगः । वस्तुतः संबन्धविवक्षायामपि तथा प्रयोग इष्यत एव । न च तत्र वृत्त्येकदे - रकस्य गमयति ' इत्यादिण्यन्तप्रकृतिभूतधातुप्रतिपाद्या या गमनादिक्रिया तादृशक्रियाकारकतुल्यत्वमतिदिश्यते इति यथा " राजानं गमयति ' इत्यादौ व्यन्तवातुयोगे प्रकृत्यर्थगमनक्रियकर्ते राजपदार्थस्य कर्मत्वं भवति तथा ' कंसवधमाचष्टे कंसं वातयति ' इत्यादौ कृदन्तवध - पदोत्तरणिच्यो गेपि कृदन्तवधपदार्थकारकस्य कंसस्य कर्मत्वं संभवतीत्यर्थः । तथा च C राज C " गतिमाचष्टे राजानं गमयति सूर्योद्गतिं ( सूर्योदयम् ) आचष्टे - सूर्यमुद्गमयति ' इत्यादावाख्येय ( व्याख्येय ) गत्यादिकर्त राजादिपदार्थस्य कर्मत्वेन तदुत्तरम् - राजादिपदोत्तरं द्वितीया भवतीति यथा ण्यन्तधातुयोगे प्रकृतिभूतगम्यादिकर्मणो द्वितीयान्तता भवति तथा णिच्प्रत्ययान्तकृदन्तवधादिकर्मणोवि द्वितीयान्तता भवतीत्युक्तानुशासनेन लाभादत्र कृदन्तवधकर्मभूतस्य कंसादेः = कंसार्थप्रतिपादककंसपदाद् द्वितीया युक्तैवेत्यर्थः । स्वोक्तवाक्यं स्वयं व्याचष्टे - आख्येयेत्यादिना । विषयश्चायं विस्पष्टप्रतिपत्त्यर्थं हन्तेर्वधादेशस्तस्य णिचि घातयतीतिरूपापत्तिश्चेत्यादिर्व्याकरणशास्त्रे द्रष्टव्यः | तथाविवक्षायाम् = तण्डुलस्य कृदन्तकर्मत्वविवक्षायां तु तण्डुलस्य पाकीयति ' इति प्रयोगः " कर्तृकर्मणोः कृति इत्यनुशासनेनेष्ट एवेत्याहतथाविवक्षायामिति । उक्ते हेतुमाह- कारकेति किं वा ननु तण्डुलस्य पाकीयति इत्यत्र ष्टर्थस्य पदार्थस्य वृत्त्येकदेशेन = ' पाकीपति' इत्याकारकनामधातुवृत्तेरेकदेशेन पाकेनैवान्वयः कर्तव्यः स च न संभवति " पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन " इति नियमादित्याशङ्क्याह- कारकेति, ' तण्डुलस्य पाकीयति ' इत्यत्र तण्डुलपदोत्तरषष्ठ्याः कर्मत्वार्थकत्वेन कारकविभक्तित्वापत्त्या तादृशकारकविभक्तिभूत षष्ठ्यर्थस्य कर्मत्वस्य वृत्त्येकदेशेनापि पाकादिनाऽन्वयो भवत्येवेति ' तण्डुलस्य पाकीयति ' इतिप्रयोगस्य नानुपपत्तिरित्यर्थः । संबन्धार्थकषष्ठ्यर्थभूतसंबन्धपदार्थस्य तु वृत्त्येकदेशेनान्वयो न भवतीति षष्ठया संबन्धविवक्षायाँ तथा = ' तण्डुलस्य पाकीयति । इति प्रयोगो न भवतीत्याह-संबन्धविवक्षायां चेति, तादृशसंबन्धषष्ठ्याः कारकविभक्तित्वाभावात् तदर्थस्योक्तरीत्या वृत्त्येकदेशपाकेन्वयासंभवादित्यर्थः । स्वमतमाह - वस्तुत इति षष्ठ्यर्थ भूतसंबन्धस्यापि विवक्षायां तथा ' तण्डुलस्य पाकीयति ' इति प्रयोग इष्ट एव - षष्ठयर्थकर्मत्वविवक्षायां स्यात् षष्ठयर्थसंबन्धविवक्षायां च न स्यादित्यत्र 2 " 首 "Aho Shrutgyanam" Page #340 -------------------------------------------------------------------------- ________________ ( ३२८) सादर्श:- [द्वितीयाकारकद्वितीयखण्डेशेन षष्ठयर्थान्वये " प्रतियोगिपदादन्यद् यदन्यत् कारकादपि" इतिव्युत्पत्तिविरोध इतिवाच्यम्, तादृशव्युत्पत्तेरभेदान्वयस्थले एव स्वीकारात, वृत्त्येकदेशेन भेदान्वये बाधकाभावात् । अत एव ऋद्धस्य राजमातङ्गाः ' इत्यादिप्रयोगो नेष्यते, इष्यते च पितुः स्वर्गकामः' इत्यादिप्रयोगः। नच कारकपदप्रतियोगिपदयो दनिवेशनमफलमिति वाच्यम्, तन्निवेशस्य दृष्टान्तविधयोक्तत्त्वात्यथा प्रतियोगिपदाद्यर्थस्य कुत्राप्यभेदान्वयो न भवति तथा वृत्त्येकदेशेनाऽन्यपदार्थस्येत्यर्थे तात्पर्यादिति ध्येयम् । अभेदविवक्षायाम्-' पण्डितं पुत्रीयति , प्रवीरं पुत्रकाम्यति । इत्यादिप्र. योगाभाववत् परपुत्रादिगोचरेच्छावति पुंसि 'पुत्रीयति' इत्यादयो न प्रयोगा:मानाभावादित्यर्थः । ननु तत्र षष्ट्यर्थसंबन्धविवक्षायां वृत्त्येकदेशेन पाकेन षष्ट्यर्थसंबन्धस्यान्यये " प्रतियोगिपदादन्यत्' इति नियमविरोधः स्यादित्याशङ्क्याह-न चेति । प्रतियोगिपदाविति-कारकस्यैव वृत्त्येकदेशेनान्वयः संभवति यथा ' तण्डुलस्य पाकीयति ' इत्यत्र षष्ठया कर्मत्या क्विक्षायां कर्मकारकस्य तण्डुलस्य वृत्त्येकदेशेन पाकेन, कारकादन्यस्य तु वृत्त्येकदेशेनान्वयो न संभवतीत्यत्र षष्ठया संबन्धविवक्षायां तण्डुलस्य कारकत्वाभावात्तदन्वयो वृत्त्येकदेशे पाके न संभवतीत्यर्थः । परिहारमाह-तादृशेति, " प्रतियोगिपदादन्यत्" इत्यस्य कारकपदार्थादन्यस्य वृत्त्येकदेशेनाऽभेदान्वयो न भवतीत्ययमेवार्थ इति कारकादन्यस्यापि वृत्त्येकदेशेन भेदान्वये बाधकामावादत्र कारकादन्यस्यापि तण्डुलस्य भेदेन स्वकर्मकत्वरूपभेदसंबन्धेन वृत्त्येकदेशे पाकेऽन्वये न कोपि दोष इत्यर्थः । उक्ते विनिगमनामाह-अत एवेति, यतः कारकादन्यस्य वृत्त्येकदेशेनाभेदान्वयों न भवतीत्ययमेवोक्तव्युत्पत्तेरभिप्रायोऽत एव 'ऋद्धस्य राजमातङ्गाः । इत्यत्र कारकादन्यस्य ऋद्धस्य समासवृत्त्येकदेशेन राज्ञाऽभेदाऽन्वयो न भवतीति 'ऋद्धस्य राजमातङ्गाः । इति प्रयोगोपि न भवति, भेदान्वये तु विरोधो नास्तीति 'पितुः स्वर्गकामः । इति प्रयोगो भवति-अत्र कारकादन्यस्यापि पितृपदार्थस्य समासवृत्त्येकदेशेन स्वर्गेण भेदान्वयस्यैवेष्टत्वादित्यर्थः । ननु " प्रतियोगिपदात् " इत्यत्र प्रतियोगिपदकारकपदयोर्भेदेन निवेशनम्= प्रतियोगिपदकथनं व्यर्थमेव कारकपदेनैव तदर्थलाभात् कारकस्यैव प्रतियोगित्वादित्याशङ्क्याहन चेति । परिहारमाह-तन्निवेशस्येति, तनिवेशस्य प्रतियोगिपदनिवेशस्य दृष्टान्तविधया सार्थकत्वादित्यर्थस्तथा चोक्तव्युत्पत्तेः-' यथा प्रतियोगिपदार्थस्य कुत्राप्यभेदान्त्रयो न भवति यथा-' चन्द्रवन्मुखम् । इत्यादौ सादृश्यप्रतियोगिनः चन्द्रस्य सादृश्ये भेदान्त्रय एव भवति न त्वऽभेदान्वयस्तथाऽन्यपदार्थस्य कारकादन्यपदार्थस्य वृत्त्येकदेशेनाऽभेदान्चयो न भवति । इत्ययमेवार्थ इति षष्ठयाः संबन्धार्थकत्वविवक्षायामपि कारकादन्यस्यापि तण्डुलस्य वृत्त्येकदेशेन पाकेन भेदान्वये विरोधाभावात् ' तण्डुलस्य पाकीयति' इति प्रयोगो भवत्येवेत्यर्थः। ___ यथा ह्यऽभेदविवक्षायामपि ' पण्डितं पुत्रीयति । इत्यादिप्रयोगो न भवति तथा परपुत्रविषयकेच्छायां सत्यामपि 'पुत्रीयति ' इत्यादि प्रयोगो न भवतीत्याह-अभेदेति । अत्र प्रमाण "Aho Shrutgyanam" Page #341 -------------------------------------------------------------------------- ________________ नामधातुप्रकरणम् j व्युत्पत्तिवादः । ( ३२९ ) 66 सुप आत्मनः क्यच् ” इत्यादिना इच्छाकर्तृसंबन्धि यदिच्छाकर्म तद्बोधकसुबन्तात् क्यचूकाम्यचोविंधानात् । संबन्धित्वं च संबन्धित्वेन भातत्वम्, अन्यथा यस्येच्छाकर्तुः पुत्रोऽसिद्धस्तस्यापि स्वीयत्वेन पुत्रेच्छादशायाम् ' पुत्रीयत्ययम्' इत्यादिप्रयोगस्य सर्वसिद्धस्यानुपपत्तेः । उक्तस्थले ' पुत्रीयति' इत्यादिवाक्यस्य प्रामाण्यवारणाय च क्यजाद्यर्थेच्छायां पुत्रादेर्विषयत्वमात्रं न संबन्धः किं तु स्वांशे भासमानसंबन्धस्य प्रतियोगितया यो विषयस्तादृशपुरुषवृत्तित्वसहितमित्युपेयम् । स्वसंबन्धस्य क्य जाधवाच्यत्वेप्युक्तसंबन्धेनैवेच्छायां सुबन्तार्थस्यान्वय इति व्युत्पत्तिप्रदर्श " माह - सुप इति इच्छाकर्तृसंबन्धिपदार्थ एव यदेच्छाकर्म भवति तदैवेच्छार्थे “ सुप आत्मनः क्यच् इत्यादिना क्यचूकाम्यचोर्विधानादित्यर्थः । स्वकीयपुत्रादिविषयकेच्छायामेव सत्य क्यजादिप्रत्ययों भवतीति यावत् । तदुक्तं वृत्तिकारण - " इषिकर्मण इषितृसंबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् " इति । कर्तृसंबन्धिश्वं च कर्तृसंबन्धित्वेन भासमानत्व - मेव ग्राह्यमऽन्यथा पुत्राभावे पुत्रे पुत्रेच्छाकर्तृसंबन्धित्वस्यासंभवात् पुत्रेच्छायां सत्यामपि 'पुत्रीयति' इति प्रयोगो न स्यात् वस्तुतः पुत्रे सत्यपीच्छाविषयी भूतपुत्रस्याऽसत्त्वात् ' पुत्रीयति इति प्रयोगो न स्यादित्याह - संबन्धित्वं चेति ।' ऋद्धस्य राजमातङ्गाः ' इत्यत्रेव ' पुत्रीयति इत्यत्र नामधातुवृत्त्येकदेशेन पुत्रपदार्थेन पण्डितादिपदार्थस्याभेदान्वयो न संभवतीति पण्डितं पुत्रीयति ' ' प्रवीरं पुत्रकाम्यति इत्यादयः प्रयोगा न भवन्तीत्यनुसंधेयम् । 1 उक्तस्थले इति-उक्तस्थले = परपुत्रादिगो चरेच्छावति पुंसि ' पुत्रीयति ' इति प्रयोगो न भव तीति तादृशदशायाम् ' पुत्रीयति ' इत्यादिवाक्यस्य प्रामाण्यवारणाय क्यजादिप्रत्ययार्थेच्छायां पुत्रादेर्विषयित्वमात्रं न संबन्धः = विषयित्वमात्र संबन्धेन नान्ययो भवति अन्यथा चैत्रसमवेत मैत्रपुत्रविषयकेच्छायामपि मैत्रपुत्रस्य विषयित्वसंबन्धेनान्वयसंभवाद् मैत्रपुत्रविषयकेच्छावत्यपि चैत्रे : पुत्रीयति ' इति प्रयोगः स्यादेव, तस्मात् स्वांशे = पुत्रे भासमानो य इच्छाकर्तृपितुः स्वत्वसंवन्धस्तादृशसंबन्धस्य प्रतियोगितया य इच्छाकर्तृरूपपितृरूपो विषयश्चत्रादिस्तादृशचैत्रादिरूप - पितृपुरुषवृत्तित्वसहित विषयित्वसंबन्धेनैव क्यजाद्यर्थेच्छायां पुत्रादेरन्वयो भवति तथा च परपुत्र· विषयकेच्छास्थले इच्छायामुक्तपितृरूपपुरुषवृत्तित्वं नास्तीति तादृशसंबन्धेनेच्छायां पुत्रान्वयासंभवात् ' पुत्रीयति ' इति प्रयोगापत्तिर्नास्तीत्यर्थः । उक्ते प्रमाणमाह- स्वसंबन्धस्येति, स्वमू= पुत्रः । क्यजादेरिच्छामात्रवाचकत्वेन उक्तस्येच्छानुयोगिकपुत्र संबन्धस्य क्यजाद्यऽवाच्यत्वेप्युक्तेनैवोभयसंबन्धेन क्यजादिवाच्येच्छायां सुबन्तार्थस्य = पुत्रस्थान्वयो भवतीति व्युत्पत्तेः = नियमस्य प्रदर्शनात्र " सुप आत्मन: क्यच् " इति सूत्रे आत्मनः इति षष्ठ्यन्तपदमुपात्तम्, "आत्मनः " इत्यनेन स्वकीयपुत्रादिविषयकेच्छायामेव सत्यां क्यच् भवतीतिसूत्रार्थात् तादृशेच्छा 66 33 "Aho Shrutgyanam" Page #342 -------------------------------------------------------------------------- ________________ ( ३३०) सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे-' नायैव सूत्रे “ आत्मनः" इत्युपात्तम् । " आत्मनः" इति षष्ठ्यर्थसंबन्धश्च नं "धातोः कर्मणः” इत्यादिसूत्रानुवृत्तायामिच्छायामन्वेति-अव्यावर्तकत्वादुक्तार्थलाभाऽप्रयोजकत्वात्, अपि तु सुप इत्यर्थे सुबन्तादित्यत्र । तच्चेच्छाकर्तृ. संबन्धितयेच्छाविषयार्थकम् । एवं च "इच्छाकर्मणः सुबन्तादिच्छाकर्तुरिच्छायाम्" इति वृत्तावपि 'इच्छाकर्तुः सुबन्तात् ' इत्येव योजना कार्या-- यथाश्रुते दर्शितानुपपत्तेरिति ध्येयम् । 'भृत्यं पुत्रीयति ' इत्यादावाऽचारार्थविहितक्यजन्तस्य सकर्मकत्वं युज्यते याः पितृवृत्तित्वमुक्तं प्राप्तमेव, पुत्रनिरूपितविषयित्वमपीच्छायामस्त्येवेत्यर्थः । ननु “आत्मनः" इत्यनेनोक्तसंबन्धनियमे लब्धेपि षष्ठयर्थसंबन्धस्य किमिच्छायामेवान्वयो भवत्यन्यत्र वेत्याहआत्मन इति, अस्य षष्ठयर्थसंबन्धस्येच्छायामन्वयो न भवति-इच्छायामन्वये ह्यात्मविषयके च्छायां क्यचू स्यादिति सूत्रार्थः स्यात् तत्र विनिगमनाविरहाद् यावदात्मविषयकेच्छायां क्यच् स्यादिति कस्या अपीच्छाया व्यावृत्तिर्न 'स्यादित्याह-अव्यावर्तकत्वादिति, तथोक्तषष्ठयर्थसंबन्धस्येच्छायामन्वय उक्तंसूत्रार्थलाभस्य प्रयोजकोपि न भवतीत्याह-उक्तार्थेति । तस्मात् "आत्मनः" इति षष्ठयर्थसंबन्धस्य सूत्रोक्तस्य " सुपः " इत्यस्य योर्थ ः सुबन्तादिति तस्मिन्नऽन्वयो भवति पुत्रादिपदाथेऽन्वयो भवतीति यावदित्याह-अपि विति । तचोक्तसुबन्तं पुत्रादिपदमिच्छाकर्तृसंबन्धितया य इच्छाविषयः पुत्रादिस्तदर्थकम् तद्बोधकमेवेति परपुत्रादिविषयकेच्छायां क्यजादिर्न भवतीति प्राप्तमित्याह-तच्चेति । स चेति प्रामादिकः पाठः । “सुप आत्मनः क्यच " इति सूत्रस्य या खलु केनचित् " इच्छाकर्मणः सुबन्तादिच्छाकर्तुरिच्छायां क्यच्" इत्येवं वृत्तिर्विनिर्मिता तत्रापि 'इच्छाकर्तुः ' इतिषष्ठयर्थसंबन्धस्य सुबन्ते पुत्रपदार्थेऽन्वयलाभार्थम् ' इच्छाकर्तुः सुबन्तादिच्छाकर्मणः क्यच् स्यादिच्छायाम् ' इत्येवं योजना अन्वयः कर्तव्यः, अन्यथा यथाश्रुते" इच्छाकर्मणः सुबन्तादिच्छाकर्तुरिच्छायां क्यच " इत्येवं यथाश्रुतान्वये स्वीकृते तु चैत्रपुत्रस्यापि मैत्रसमवेतेच्छाविषयत्वसंभवात् मैत्रस्य च चैत्रपुत्रविषयकेच्छाकर्तृत्वसंभवाद् परपुत्रविषयकेच्छायामपि क्यच् स्यादिति स्वपुत्रविषयकेच्छायामेव क्यजादिप्रत्ययो भवति नान्यपुत्रविषयकेच्छायामपीति प्रदर्शितस्य नियमस्यानुपपत्तिः स्यादेवेत्याह-एवं चेति । उक्तवृत्तिग्रन्थस्य * इच्छाकर्तुः सुबन्तादिच्छाकर्मणः क्यच स्यादिच्छायाम् । इत्येवमन्वये तु सुबन्तपुत्रादिपदार्थस्य इच्छाकर्तृस्वत्ववत्त्वमिच्छाकर्मत्वं च प्राप्नोतीति स्वपुत्रविषयकेच्छायामेव क्यजादेः प्राप्तिः संभवति न तु परपुत्रविषयके च्छायामपि-परपुत्रे पुत्रत्वेनेच्छाकर्तृस्वत्वासंभवादिति भावः । __ " उपमानादाचारे " इतिसूत्रसंपन्नप्रयोगमुदाहरति-मृत्यं पुत्रीयतीति, पुत्रवदाचरतीत्यर्थः। उक्तेच्छार्थकक्यच उक्तरीत्याऽकर्मकत्वेप्याऽऽचारार्थकक्यचः सकर्मकत्वमेव-उपमानवाचकपदात् क्यचि जाते उपमेयस्यैव भृत्यादेः कर्मत्वसंभवात-पुत्रमिव कमाचरतीति कर्माकाङ्क्षाया नित्यं "Aho Shrutgyanam" Page #343 -------------------------------------------------------------------------- ________________ नामधातुप्रकरणम् ] व्युत्पत्तिवादः । ( ३३१) ' तमिवा एव, तथा हि- तमिवाचरतीत्यर्थे उपमानवाचिनः क्यच् विहितः, चरति ' इत्यस्य ' तत्तुल्यं जानाति इत्यर्थ:- आचारपदस्य व्यवहारमूलज्ञानपरत्वात् । तुल्यतया ज्ञानं च क्यजर्थस्तच्च सकर्मकमेव, तत्र तुल्यत्वे प्रतियोगितया पुत्रादेरन्वयः । पुत्रादिपदमेव वा गौण्या पुत्रादितुल्यपरम् ज्ञानमात्रं क्यजर्थस्तत्र च स्वाभेदावगाहित्व संबन्धेन पुत्रादितुल्यस्याऽन्वयः । 6: न चैवं पुत्रादिपदमुपमेयार्थकमेव नतृपमानार्थकमिति कथम् उपमानादाचारे " इत्यनेन तदुत्तरं क्यचो विधानं संगच्छते इति वाच्यम्, पुत्रादिपदस्य तुल्यार्थकत्वेपि तुल्यत्वप्रतियोगितयोपमानपुत्राद्यर्थकत्वात्, अत एव तस्य कर्मवाचकत्वं पुत्रादितुल्यस्याचारकर्मत्वात् सम्यगुपपद्यते । पूर्वमते उपमानपदस्य कर्मवाचकत्वमाऽचारकर्मविशेषणतुल्यताप्रतियोगिबोधकत्वरूपं बोध्यम् । सत्त्वादित्याह - आचारार्थेति । सकर्मकत्वं स्वयमेत्र प्रतिपादयति- तथा हीति । उपमानवाचिनः= उपमानवाचकपुत्रादिपदात् ( उपमानत्येनाभीष्टो यः पुत्रादिस्तद्वाचकपुत्रादिपदात् ) । आचारपदस्य व्यवहारकारणीभूतज्ञाने लक्षणा । तच = ज्ञानं च । क्यजर्थज्ञानस्य सकर्मकत्वात् क्यजतस्यापि सकर्मकत्वं प्राप्तम् । तत्र = 'मृत्यं पुत्रीयति = पुत्रतुल्यं जानाति ' इत्यत्र तुल्यत्वे सादृश्ये प्रतियोगितया पुत्रादेरन्वयः । पक्षान्तरमाह--पुत्रादिपदमेवेति । तत्र= क्यजर्थज्ञाने । स्वम् = पुत्रतुल्यपदार्थः । स्त्रे पुत्रतुल्यपदाथ भृत्यादौ यः पुत्राभेदस्तदवगाहित्यमत्र क्यजर्थज्ञाने वर्तत एवेति तेन संबन्धेन क्यजर्थज्ञाने पुत्रतुल्यस्य ( पुत्रतुल्यपदार्थस्य ) अन्वय इति पुत्रतुल्यज्ञानस्य (पुत्रतुल्यत्वविषयक ज्ञानस्य ) लाभः । स्वस्मिन्नभेदः स्वाभेद इति सप्तमीसमासः, षष्ठीसमासे तु पुत्रतुल्यभूत्यादिपदार्थामेदः पुत्रे एव भासेत न चैतद् युक्तं प्रतिभाति-मृत्यादावेव पुत्राभेदमानस्य युक्तत्वादित्यनुसंधेयम् । किं था स्वपदं पुत्रपरं ज्ञेयम् । ननु यत्तुल्यं भवति तदुपमेयमेव भवति न तूपमानमिति पुत्रपदस्य पुत्रतुल्यार्थकत्वे पुत्रस्योपमेयत्वमेव स्यादिति पुत्रपदात् कथं क्यच् स्यात् सूत्रेणोपमानवाचकपदादेव क्यविधानादित्याशङ्क्याह-नं चेति । तदुत्तरम् = पुत्रपदोत्तरम् । परिहारमाह-पुत्रादिपदस्येति, तुल्यार्थकत्वेपि= पुत्रादितुल्यार्थकत्वेपि, सादृश्यप्रतियोगिन उपमानत्वनियमादत्रापि पुत्रस्य तुल्यत्वप्रतियोगित्वेन पुत्रपदस्योपमानभूतपुत्रार्थकत्वमक्षतमेवेति तदुत्तरं क्यच्प्राप्तौ न काचिदनुपपत्तिरित्यर्थः । अत एव = पुत्रपदस्योपमानवाचकत्वादेव, उपमानविषयकव्यवहारे उपमानस्यैव कर्मत्यात् पुत्रमिवाचरति ' इत्यत्र च पुत्रतुल्यस्यैचाचारकर्मत्वात् तस्य = पुत्रतुल्यार्थकपुत्रशब्दस्य कर्मवाचकत्वमुपपद्यते. अन्यथा पुत्रतुल्यस्याचारकर्मत्वेनाऽतदथकस्य ( पुत्रतुल्यार्थकत्वरहितस्य ) पुत्रशब्दस्य कर्मवाचकत्वं न स्यादित्याह - अत एवेति । ननु पूर्वमते == ' तुल्यताज्ञानं $ क्यजर्थः ' इतिमते पुत्रतुल्यताज्ञानकर्मत्वं भृत्यादेरेव संभवति न तु कत्वं स्यात् ? कर्मवाचकत्वाभावे च पुत्रपदात् कथं पुत्रस्येति पुत्रशब्दस्य कथं कर्मवाच - क्यच् स्यात् उक्तसूत्रेण उपमानात् ५८ "Aho Shrutgyanam" Page #344 -------------------------------------------------------------------------- ________________ ( ३३२ ) सादर्श: [ द्वितीयाकारकद्वितीयखण्ड वस्तुत: ' पुत्रमिवाचरति ' इत्यस्य पुत्रं यथा व्यवहरति तथा व्यवहरतीत्येवार्थः, व्यवहारश्च प्रतिपाल्यत्वादिना ज्ञानं प्रतिपालनादिरूपो व्यापारो वा, एवं च' पुत्रीयति' इत्यस्य पुत्रकर्मकव्यवहारतुल्यव्यवहारकर्तेत्यर्थः । मुखचन्द्रादे स्वजन्ाह्लादस्य तुल्यतयोपमानोपमेयभावस्तथा पुत्रभृत्ययोरपि स्वकर्मकव्यवहारतुल्यतया स इति पुत्रपदस्योपमानवाचिता आचारनिष्ठ सादृश्य प्रतियोग्याचारकर्मवाचिता च । आचारसदृशाचार एव क्यचोर्थः, प्रथमाचारे कर्मतासंबन्धेन पुत्रादेरन्वयः - अमाद्यन्तात् क्यच्प्रत्यय विधानेपि धात्ववयव तया लुप्तस्याsमादेर्नियमेनानुपस्थितेः कर्मत्वस्य संबन्धतया भानमुपेयते, यथा 'राजपुरुषः ' कर्म गः सुबन्तादाचारेऽर्थे क्यच् स्यात् ( वृत्तिः ) " इत्येवं कर्मवाचकपदादेव क्यचो विधानादिव्याशक्य पुत्रपदस्य प्रथममते कर्मवाचकत्वमुपपादयति- पूर्वमते इति, ' पुत्रमिवाचरति पुत्रीयति इत्यत्रोपमानपदस्य = पुत्रपदस्य यद् आचारकर्मवाचकत्वं तद् उपमेयभूतभृत्यादिविषयकाचारकर्मभूतं यद् भृत्यादि तद्विशेषणीभूता या तुल्यता ( सादृश्यम् ) तत्प्रतियोगिभूतो यो पुत्रादिस्तोत्रकत्वरूपमेव बोध्यं न त्वाचारविषयबोधकत्वरूपम्-तदसंभवादित्यर्थः । अत्राचारपदेन तुल्यत्वाचार एव ग्राह्य इति तादृशाचारे पुत्रस्य स्वकर्मकत्व संबन्धेनान्वयासंभवेपि तादृशाचरैकदेशभूतायां तुल्यतायां तु स्त्रप्रतियोगित्वसंबन्धेनान्वयः संभवत्येवेति तावन्मात्रेणैवात्र पुत्रस्य कर्म पुत्रपदस्य च कर्मवाचकत्वं मन्तव्यमिति भावः । 5 LL L स्वाभिप्रायमाह - वस्तुत इति, स्पष्टोयं ग्रन्थः । पुत्रीयति इत्यस्य शाब्दबोधमाह एवं चेति । पुत्रभृत्ययोरुपमानोपमेयभावं व्युत्पादयति-मुखेति । भृत्येन सह पुत्रविषयक व्यवहारसह - शव्यवहार इति स्वकर्मकव्यवहारतुल्यतया = पुत्रभृत्यकर्मकव्यवहारयोस्तुल्यतया पुत्रभृत्ययोरपि सः - उपमानोपमेयभात्रः सिद्धः । भचारनिष्टेति भृत्यकर्मकाचारनिष्टं यत् सादृश्यं तत्प्रतियोगिभूतो यः पुत्रकर्मकाचारस्तत्कर्मवाचकत्वं पुत्रपदस्य प्राप्तम् । एवं परिनिष्पन्नं क्यजर्थमाह-आचारसदृशेति । प्रथमाचारे= पुत्रकर्मकाचारे । आचारनिरूपिता पुत्रनिष्ठापि कर्मता निरूपकत्व संबन्धेनाचारे वर्तते तादृशकर्मतासंबन्धेन च पुत्रस्याचारेऽन्वयः । अमाद्यन्तादिति - ' पुत्रमिवाचरति इत्यत्र द्वितीयान्तपुत्रपदात् उपमानादाचारे " इत्यनेन क्यच्प्रत्ययो जातस्तादृशक्यजन्तस्थ द्वितीयान्तपुत्रपदस्य सनाद्यन्ता धातवः " इत्यनेन धातुसंज्ञा जातेति द्वितीयाया धात्ववयवतया "सुपो धातुप्रातिपदिकयोः " इत्यनेन लोपो जातो लुतायाश्च विभक्तेः समासादौ अनुषस्थितेः=स्मरणाभावाद् द्वितीयार्थस्य कर्मत्वस्य प्रकारत्वासंभवेन संबन्धतया =संसर्गतया भानं स्वीक्रियते - अनुपस्थितस्यापि संसर्गत्वसंभवादिति कर्मतासंबन्धेन पुत्रस्य पुत्रविषयकाचारेऽन्वयः । अत्र लुप्तविभक्त्यनुसंधानाभावे दृष्टान्तमाह-यथेति । विभक्तयन्तार्थविशिष्टे =राज संबन्धविशिष्ट | पूर्वपदलक्षगा = राजपदस्य लक्षणा । यदि समासादावपि लुप्तविभक्तेः स्मरणं स्यात्तदा राजपुरुषः ' इत्यत्र लुप्तषष्ट्या अपि स्मरणं स्यात्तथा च स्मृतषष्ठयैव राजसंबन्धोपस्थितेः संभबादू राजपदस्य राज संबन्धविशिष्ट लक्षणाश्रयणं न स्यादेव, न च मा भत्रतु लक्षणाश्रयणं स्मृत 6 " Aho Shrutgyanam" 3 7 . Page #345 -------------------------------------------------------------------------- ________________ नामधातुप्रकरणम् ] व्युत्पत्तिवादः । ( ३३३ - इत्यादिसमासरूपप्रातिपदिकावयवतया उप्तषष्ठ्यादिप्रतिसंधानाऽनियमाद् विभत्यन्तार्थविशिष्टे पूर्वपदलक्षणोपयते । द्वितीये आचारे नृत्यस्य कर्मतया क्यजन्तस्य सकर्मकत्वमिति । कुट्यां प्रासादयति ' इत्यादावाऽऽधाररूपोपमानवाचिसप्तम्यन्तोत्तरविहितक्यजन्तस्य न सकर्मकता तत्र च प्रासादाधिकरणकाचारतुल्याचारः क्यजन्तार्थः स चावस्थानरूप एवेत्यकर्मक एवेति कुटयास्तत्राधिकरणतया ततः सप्तम्येव । अवस्थानयोः साम्यं चैकजातीयसुखजनकत्वादिनाऽविशेषज्ञानविषयत्वेन वा । हंस इवाचरति हंसायते - हंसति इत्यादावुपमानवाचिकर्तृवाचकपदोत्तरविहितक्यङन्तक्विवन्तधातुरप्यकर्मकः- तत्र हंसादिकर्तृका चारतुल्याचारस्य गमनादिरूपस्य क्यङन्ताद्यर्थत्वेपि गम्यादिप्रतिपाद्यतावच्छेदकसंयोगादिरूपफषष्ठ्या राजसंबन्धोपस्थितावपि दोषाभावादिति वाच्यम्, समासादौ लुप्तविभक्तिस्मरणस्वीकारे हि. ऋद्धस्य राजमातङ्गाः ' इत्यपि प्रयोगः स्यात् - स्मृतषष्टीविशिष्टराजपदेन षष्ठयन्त ऋद्रपदस्यान्वये बाधकाभावात् न चैवं प्रयोगो भवतीति तन्निवारणार्थं समासादौ लुप्तविभक्तेः स्मरणाभावः स्वीकर्तव्यस्तथा च " राजपुरुषः इत्यत्र लुप्तषष्ठीस्मरणासंभवेन राजसंबन्धोपस्थितेरुपायामावाद् राजपदस्य राजसंबन्धविशिष्ट ( राजसंबन्धिनि ) लक्षणा स्वीकार्या तथा च तयोरभेदान्वयेन राजसंबन्धविशिष्टाभिन्नः पुरुष इतिशाब्दबोधो जायते इति भावः | द्वितीये = मृत्यविषय के आचारे भृत्यस्य कर्मव्यमिति क्यजन्तस्य ' पुत्रीयति इत्यस्य सकर्मकत्वं प्राप्तमिति मृत्यंपुत्रीयति ' इति प्रयोगो भवतीत्यर्थः । 6 = ८८ अधिकरणाचेति वक्तव्यम् " इति वार्तिकसंपन्न प्रयोगमुदाहरति-कुटयामिति, कुटघ प्रासादयति ' इत्यन्त्र प्रासादस्याधिकरणरूपत्वेनैव प्रासादपदस्योपमानवाचकत्वं तादृशप्रासादपदाचाऽऽचारार्थे क्यच् जात इति कर्माकाङ्क्षाभावान्न सकर्मकत्वमित्यर्थः । अकर्मकत्वमुपपादयति - तत्रेति, तत्र = ' प्रासादयति ' इत्यत्र । सः = आचार: । स्थितेरधिकरण साकाङ्क्षत्वेन कर्माकाङ्क्षाभावात् स्थितिरूपाचारवाचकक्य चोप्यकर्मकत्वं प्राप्तमिति कुटया अधिकरणत्वमेव | ततः = कुटीपदात् । कुटयधिकरणकावस्थानस्य प्रासादाधिकरणकावस्थानस्य च परस्परं साम्यमाह - अवस्थानयोरिति । एतादृशसदृशावस्थानाधिकरणयोः कुटीप्रासादयोरुपमेयोपमानभावः सिद्ध इत्यर्थः । 6 , 6 CL << " कर्तुः क्यङ् सलोपश्च " इति सूत्रसंपन्नप्रयोगमुदाहरति- हंसायते इति, अत्र क्यङन्तस्य हंसशब्दस्य सनाद्यन्ता धातवः " इत्यनेन धातुत्वं प्राप्तस्य ङित्वात् अनुदात्तङित आत्मनेपदम् " इत्यनेनात्मनेपदं प्राप्तम् । " सर्वप्रातिपदिकेभ्यः किव् वा वक्तव्यः " इतिवार्तिकसंपन्नप्रयोगं चोदाहरति- हंसतीति, हंसकर्तृकगमनादिरूपाचारसदृशाचारकर्तेत्यर्थः । अकर्मकत्वमुक्तमुपपादयति-- तत्रेति, यद्यपि गमनम् ' ग्रामं गच्छति ' इत्यादौ सकर्मकमेव तथाप्यत्र क्यङाद्यन्तार्थभूतस्य गमनादिरूपाचारस्य सकर्मकत्वं नास्त्येव, अत्र हेतुमाह- गम्यादीति, गम " Aho Shrutgyanam" Page #346 -------------------------------------------------------------------------- ________________ सादर्श:- [द्वितीयाकारकद्वितीयखण्डेलानवच्छिन्नस्यैव तदर्थत्वोपगमात् । शब्दज्ञानादिरूपसविषयकव्यापारात्मकस्थाचारस्य क्वचित्तदर्थत्वेपि विषयरूपकर्माऽवरुद्धस्यैव तस्य तदर्थत्वोपगमात्, कर्मावरुद्धस्य च कर्मान्वयनिराकाङ्क्षत्वादित्यादिकं स्वयमूह्यम् । कृत्यर्थकधातुयोगे इष्टसाधनत्वादिज्ञानविशेष्यताप्रयोज्यसाध्यताख्यविषयताधातुप्रतिपाद्यस्तु संयोगानुकूलव्यापार इति संयोगस्य प्रतिपाद्यतावच्छेदकत्वं प्राप्तं तादृशं यद गम्यादिप्रतिपाद्यता ( व्यापारता ) वच्छेदकीभूतं संयोगादिरूपं फलं तदनवच्छिन्नस्यैव तद्रहितस्यैव गमनादिरूपाचारस्य ( गत्याद्यनुकरणमात्रस्य ) तदर्थत्वोपगमात् क्यङन्ताद्यर्थत्योपगमात्तस्याकर्मकत्वम्-- फलावच्छिन्नव्यापारबोधकस्यैव धातो: सकर्मकत्वनियमादित्यर्थः । शब्दज्ञानेति-- यत्र कोपि हंस इव शब्दं करोति तत्र हंसायते हंसति ' इत्यादौ शब्दरूप एवाचारो ग्राह्य इति तत्र शब्दरूपाचार एव क्यङन्ताद्यर्थो भवति शब्दस्य सविषयकत्वं च ताशशब्दजन्यज्ञानविषयविषयकत्वेन विज्ञेयं यथा घटशब्दजन्यज्ञाने घटो विषय इति घटशब्दस्यापि स घटो विषय एव, यत्र पण्डितज्ञानमिव कोपि ज्ञानं करोति तत्र 'पण्डित इवाचरतीति पण्डितायते पण्डितति' इतिप्रयोगो भवति तत्र ज्ञानरूप एवाचारो ग्राह्यो ज्ञानस्य च सविषयकत्वं स्पष्टमेव । शब्दज्ञानादयश्च व्यापारा यद्यपि सविषयकत्वेन सकर्मका एव संभवन्ति तथापि शब्दादिविषयरूपकर्मणाऽवरुद्धस्यैव सहितस्यैव तस्य शब्दज्ञानादिरूपव्यापारलक्षगाचारस्य तदर्थत्वोपगमात्-क्यङन्ताद्यन्तार्थत्वोपगमात् शब्दादिविषयरूपकर्मण आचारकुक्षौ प्रवेशात् कर्मावरुद्धस्य च कर्माकाङ्क्षाया असंभवादकर्मकत्वं सिद्धम् , यथा- स्पर्धधातोः पराभवानुकूलेच्छार्थकत्वात् फलभूतपराभवस्यापि धात्वर्थकुक्षौ प्रवेशादकर्मकत्वं भवति तथा प्रकृतेपि 'पण्डितायते । “विद्वायते विद्वस्यते । इत्यादौ पण्डितादिकर्तृकारमादिविषयकज्ञानादिव्यापारस्य तथा पण्डिता. दिकर्तृकस्य नित्यो जीवः' इत्याद्यात्मादिविषयकशब्दादिव्यापारस्य च क्यङ्ताद्यन्तार्थत्वाद् विषयरूपकर्म गश्च तादृशव्यापारे एव प्रवेशेन तस्य कर्माकाङ्क्षाया अभावादकर्मकत्वम्, 'गच्छति । इत्यादौ तु संयोगानुकूल व्यापारस्यैव धात्वर्थत्वेन प्रामादिरूपकर्मणो धात्वर्थव्यापारे प्रवेशाभावात् तत्साकाङ्क्षत्वात् सकर्मकत्वमिति व्यतिरेकः । किं वा "शब्दज्ञानादि " इत्यत्र शब्द. ज्ञानपदेन शब्दविषयकं ज्ञानं ग्राह्यम् ‘पण्डितायते विद्वायते ' इत्यादिस्थले पण्डितादितुल्याचारकर्तुमैत्रादेः पण्डितोचारितशब्दसमुदायमात्रस्यैव ज्ञानं भवति न तु तदर्थस्यात्मादेः अत एवं ताशपण्डितत्वादिधर्मानाक्रान्तमेव मूर्खादिकमुद्दिश्य 'पण्डितायते' इत्यादि प्रयोगो भवति हंसातिरिक्तमेवोदिश्य च ' हंसायते । इत्यादि प्रयोगो भवति, शब्दविषयकज्ञानस्य तु सकर्मकत्वं स्पष्टमेव, अयाप्यत्र तादृशविषयरूपकर्मणः क्यङन्ताद्यन्तार्थव्यापारकुक्षौ प्रवेशात् तादृशव्यापरस्याकर्मकत्वम्. 'जानाति ' इत्यादौ च व्यापारकुक्षौ विषयरूपकर्मणः प्रवेशाभावात् सकर्मकत्त्रमिति व्यतिरेक इति प्रतिभाति ।। 'घटं करोति । इत्यादिप्रयोगमुदाहरति-कृत्यर्थकेति, 'घटं करोति' इत्यत्र घटो मदिष्टसाधनमित्याकारकेष्ट साधनत्वज्ञाननिरूपिता विशेष्यता घरेस्ति तादृशविशेष्यताप्रयोज्या साध्य "Aho Shrutgyanam" Page #347 -------------------------------------------------------------------------- ________________ कृत्यर्थकधातुस्थलीपद्वितीयार्थः ] व्युत्पत्तिवादः । ( ३३५) विशेष एव कर्मत्वं द्वितीयादेरर्थः, न तु विषयतामात्रम्-यत्र 'घटं करोति' इति प्रयुज्यते तत्र'कपालं करोति ' 'जलाहरणं करोति' इत्याद्यप्रयोगात् । __ अथैवम् ‘काशान कटं करोति ' 'काष्ठं भस्म करोति' इत्यत्र काशकाष्ठादिपदोत्तरद्वितीयानुपपत्तिः-- तत्र कृतिनिरूपितोक्तविषयताविरहादितिचेत् ?, उपादानीयविलक्षणविषयतापि द्वितीयार्थः, सा च द्वितीयान्तरोपस्थाप्यसाध्यीयविषयताविशिष्टायामेव कृतावऽन्वेति, अत:- कटादिरूपकर्मान्तराऽसमभिव्या. हारे 'काशान् करोति ' इत्यादयो न प्रयोगाः। ताख्यविषयतापि घटे जायते साध्यताया इष्टसाधनताज्ञानप्रयुक्तत्वेनेष्टसाधनताज्ञाननिरूपितविशेष्यताप्रयोज्यत्वात् , तादृशसाध्यताख्यविषयतारूपं यत् कर्मत्वं तदेवात्र द्वितीयार्थः न तु विषयतामात्रम् विषयतासामान्यम् । प्रतिषेधे हेतुमाह- यत्रेति, यदि विषयतासामान्य द्वितीयार्थः स्यात्तदा घटो मदिष्टसाधनमित्याकारकेष्टसाधनताज्ञानकाले विषयतासामान्यं तु कपालेपि भवति कपालं विना घटोत्पत्तेरसंभवात् तथा जलाहरणेपि भवति जलाहरणार्थमेव घटापेक्षासत्वादिति 'घटं करोति' इति प्रयोगकाले 'कपालं करोति' 'जलाहरणं करोति' इत्यपि प्रयोगः स्यात् . न चैतदिष्टमिति. साध्यताख्यविषयतैव द्वितीयार्थस्तथा च घटो मदिष्टसाधनमितीष्टसाधनताज्ञानकाले साध्यता घटे एव प्रतीयते न कपालादाविति न 'कपालं करोति' इत्यादिप्रयोगापत्तिरत्रेत्यर्थः । ननु यदि कृत्यर्थकधातुयोगे साध्यताख्यविषयतैव द्वितीयार्थस्तदा 'काशान् कटं करोति । इत्यादौ काशादेः सिद्धत्वेन तत्र=काशादौ साध्यताख्यविषयताया असंभवात् काशादिपदोचर द्वितीया न स्यादित्याशङ्कते- अथैवमिति ! उत्तरमाह- उपादानीयेति, उपादानताख्यविषयतापि द्वितीयार्थोस्तीति काशानां कटोपादानत्वेन तद्बोधकद्वितीयायाः प्राप्तौ न काचिदनुपपत्तिः, सा उपादानताख्यविषयता च या द्वितीयान्तरोपस्थाप्या=कटादिपदोत्तरद्वितीयोपस्थाप्या साध्यीयविषयता-पाध्यताख्यविषयता तद्विशिष्टायामेव कृतावन्वेति तथा च कटादिरूपकर्मान्तरस्याऽसमभिव्याहारे कृतौ साध्यताख्यविषयताया अन्वयाऽसंभवेनोपादानताख्यविषयताया अपि अन्वयासंभवात् 'काशान् करोति' इति प्रयोगो न भवति काशानां सिद्धत्वात् । कृतौ विषयतोभयस्यैव निरूपकत्वसं बन्धेनान्वयो ज्ञेय इत्यर्थः । ननु यदि 'काशान् कटं करोति । इत्यत्र काशानां कटोपादानत्वेन कारणत्वं काशपदोत्तरद्वितीयायाश्चोपादानताख्यविषयतार्थस्तदापि ' काष्ठं भस्म करोति' इत्यादौ काष्ठादिपदोत्तरद्वितीयाया उपादानताख्यविषयतार्थकत्वं न स्यात् काष्ठादेश्च कर्मत्वमपि न स्यात् , उक्त हेतुभाह- तस्येति, तस्य-काष्ठदुग्धादेः भस्मदध्यादिकं प्रत्युपादानस्वासंभवात्, उपादानत्वाभावे हेतुमाह- काष्ठेति, कार्यावस्थायामपि विद्यमानस्यैवोपादानत्वं भवति यथा काशानाम् . काशानां कार्यभूतकटावस्थायामपि विद्यमानत्वात् , काष्ठदुग्धादेस्तु कार्यभूतभस्मध्याद्यवस्थायां सत्त्वं "Aho Shrutgyanam" Page #348 -------------------------------------------------------------------------- ________________ ( ३३६ ) सादर्श: [ द्वितीयाकारकद्वितीयखण्डे अथैवमपि ' काष्ठं भस्म करोति ' ' दुग्धं दधि करोति' इत्यादौ काष्ठदुग्धादेः कर्मत्वानुपपत्तिः- तस्य भस्मदध्याद्युपादानताविरहात् काष्ठदुग्धादिनाशानन्तरमेव तदारम्भकपरमाणुभिर्भस्मदध्याद्यारम्भात् उत्पत्त्याश्रयस्यैवोपादानत्वात् विभिन्नकालीन योश्चाधाराधेयभावविरहात् कारणस्यैवोपादानत्वनिय माच्च । न च परिणामवादविद्वोषिणां नैयायिकानां काष्ठादेर्भस्मादिरूपद्रव्यान्तरकारणत्वम् अपि तु प्रतिबन्धकत्वमेव - द्रव्यवति द्रव्यान्तरानुत्पत्तेरिति चेत् १, न-कर्म हि त्रिविधं भवति - प्राप्यं प्रकृतिविकृती च । तत्र प्राप्यं कर्म-क्रियाजन्यफलशालि गम्यादेर्ग्रामादि ज्ञानादेर्विषयश्च । क्रियानिष्पाद्यं यत् तद् विकृतिरूपं यथा- पाकादेरोदनादि यथा वा कृतेर्माल्यादि कटादि च । प्रथमे तण्डुलादिरूपपूर्वद्रव्यं विनाश्यौदनादर्निर्वर्तनम् द्वितीये पुष्पादिरूपपूर्वद्रव्यमविनाश्यैव संदर्भादिरूपविशेषं निष्पादनेन विशिष्टस्य माल्यादेर्निर्वर्तनम्, तृतीये च काशादिरूपपूर्वधर्मिणमविनाश्य तत्रैव कटादिरूपधर्मिनिष्पादनम, ईदृशं च कर्म प्रकृतेरसमभिव्याहारस्थले निर्वर्त्यमुच्यत । न भवति प्रत्युत काष्ठदुग्धादिनाशानन्तरमेव तदारम्भकपरमाणुभिः = काष्ठदुग्धाद्यारम्भकपरमाणुभिर्भस्मदध्यादिकार्योत्पत्तिर्दृश्यते. उत्पत्त्याश्रयस्यैव चोपादानत्वं भवति विभिन्नकालयोश्चाधाराधेयभावो न संभवतीति विनष्टस्य काष्ठदुग्धादेर्भस्मदध्याद्युत्पत्त्याश्रयत्वासंभवात् किं च कारणस्यैवोपादानत्वनियमाद् विनष्टस्य च काष्ठदुग्धादेर्भस्मदध्यादिकारणत्वासंभवाद् न काष्ठदु - ग्वादेरुपादानत्वं संभवतीति न कर्मत्वमपि संभवति तथा च काष्ठदुग्धादिपदोत्तरं द्वितीयानुपपत्तिरित्याशङ्कते - अथैवमपीति । ननु काष्ठदुग्धादेरुपादानत्वाभावेपि परिणामित्वरूपं कारणत्वं भविष्यतीत्याशङ्क्याह-- न चेति, न्यायमते परिणामवादाऽस्वीकारात् काष्ठादेर्भस्मादिरूपद्रव्यान्तरं प्रति कारणत्वमेव न संभवति येन परिणामिकारणत्वं स्यात् प्रत्युत काष्ठादिसत्त्वे भस्मासंभवाद् भस्मादिकं प्रति काष्ठादेः प्रतिबन्धकत्वमेव, उक्ते हेतुमाह-द्रव्यवतीति, काष्ठरूपद्रव्यवति काष्ठावयवभूतपरमाणुसमूहे भस्मरूपद्रव्यान्तरस्योत्पत्त्यसंभवादित्यर्थः । परिहरति-नेति । काष्ठदुग्धादीनां कर्मवप्रतिपादनार्थं कर्ममेदं निरूपयति-कर्मेति । प्राप्यकर्मस्वरूपमाह - तत्रेति, विषयः = घटादिः । तदुक्तम् " क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ।। " इति ॥ नहि ग्रामघटादौ गमनज्ञानादिना कश्चिद्विशेष उपलभ्यते इति प्राप्यकर्मत्वम् । विकृतिरूपकमैंस्वरूपमाह-क्रियानिष्पायमिति, पाकादेः = पाकादिरूपक्रियायाः । प्रथमे == " पाकादेरोदनादि" इत्यत्र । तण्डुलनाशानन्तरमेवौदनोत्पत्तेः । निर्वर्तनम् = संपादनम् । द्वितीये =" कृतेर्माल्यादि इत्यत्र । संदर्भ: प्रथनं मालाया आकारसंपादनम् । विशिष्टस्य संदर्भादिविशिष्टस्य | वृर्ताये = "Aho Shrutgyanam" 17 Page #349 -------------------------------------------------------------------------- ________________ कर्मप्रभेदनिरूपणम् ] व्युत्पत्तिवादः । ( ३३७ ) ८ 'तण्डुलानोदनं पचाते कुसुमानि खजं करोति ' 'काशान् कटं करोति' इत्यादौ प्रकृतिसमभिव्याहारस्थलेपि निर्वर्त्यते निष्पाद्यते यदिति व्युत्पत्त्या यद्यप्योदनादेरपि निर्वर्त्यताऽस्ति तथापि तद्व्यावृत्तमेव पारिभाषिकं निर्वर्त्यत्वम्, तदुक्तमंभियुक्तैः- ८८ 3 £ सती वाsविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ " इति । यस्य - विकृतिकर्मणः, नाश्रीयते न प्रयुज्यते इत्यर्थः । एवं च तत्र तत्रौदनादे = विकार्यकर्मण्येवान्तर्भावः, तदुक्तम् 66 यदसज्जायते पूर्व जन्मना यत्प्रकाश्यते । तन्निर्वर्त्यम्, विकार्य तु कर्म द्वेधा व्यवस्थितम् ॥ प्रकृत्युच्छेदसंभूतं किंचित् काष्ठादिभस्मवत् । किंचिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ 53 L इति । "कटादि च" इत्यत्र । द्वितीयतृतीयोदाहरणयोर्विशेषो नास्ति बुद्धिवैशद्यार्थमेव पृथक्प्रतिपादनम् । ईदृशम् = उक्तौदनमाल्यादिरूपमेव कर्म प्रकृतेः = तण्डुलपुष्पादेरसमभिव्याहारस्थले= ओदनं पचति ' ' माल्यं करोति ' L कटं करोति ' इत्यादिस्थले निर्वर्त्यमुच्यते--वयमाणप्रमाणात् । वक्ष्यमाणेन " सती वा " इत्यादिप्रमायेन प्रकृतेरसमभिव्याहारे एवं निर्वर्त्यत्वप्रतिपादनात् । योदनादीनां निर्वर्त्यत्वमस्ति तदा तण्डुलादिरूपप्रकृतिसमभिव्याहारस्थलेपि निर्वर्त्यत्वं किं न स्यात् प्रकृतिसमभिव्याहारस्य प्रतिबन्धकत्वासंभवादित्याशङ्कायामाह - तण्डुलानिति, प्रकृतिसमभिव्याहारस्थले ओदनादेः व्युत्पत्तिसिद्धं निर्वर्त्यत्वमस्त्येष तथा च पूर्वोक्तं प्रकृत्यऽसम'भिव्याहारस्थले एव यन्निर्वर्त्यत्वं तत् पारिभाषिकम् = सांकेतिकमेव निर्वर्त्यत्वमत एव तद्व्यावृत्तम्= france: 1 किंवा तद्व्यावृत्तं नामौदनादिव्यावृत्तं प्रकृतिसमभिव्याहारस्थले औदनाद्यनन्वयीत्यर्थः । अत्र प्रमाणमाह-सती वेति । लोकार्थमाह-यस्येति । न प्रयुज्यतेन समभिव्याहियते । कटं करोति' इत्यत्र कटप्रकृतिभूतकाशानां सत्त्वेपि तद्वाचककाशपदप्रयोगो न कृत इति कटस्य निर्वर्त्यत्वमिति 'सती प्रकृतिः परिणामिनी यस्य नाश्रीयते' इत्यस्योदाहारणम् । ' ओदनं पचति ' इत्यत्रौदनप्रकृतिभूततण्डुलानां नाशानन्तरमेवौदनोत्पत्तेरुत्पत्तिकाले तण्डुलानामविद्यमानत्वं तद्राचकतण्डुलपदप्रयोगथ न कृत इत्योदनस्य निर्वर्त्यत्वमिति ' अविद्यमाना वा' इत्यस्योदाहरणम् । उपसंहरति- एवं चेति, ओदनादे: निर्वर्त्यकर्मण इत्यर्थः । उक्ते प्रमाणमाह--यदसज्जायत इति, यत् पूर्वमसदेव जायते जन्मना च प्रकाश्यते तन्निर्वर्त्य कर्म पूर्वं तण्डुलावस्थायामसदेवौदनं स्वोत्पत्त्या प्रकटं भवतीति निर्वर्त्यम् । निर्वर्त्यकर्मणो विकार्यकर्मण्यन्तर्भावाय विकार्यस्वरूपमाह-विकार्यमिति, प्रकृतिभूतस्यं काष्ठस्य नाशानन्तरं भस्मोत्पद्यते इति काष्टभस्म विकार्य कर्म एवमेवदनमपि विकार्यं कर्म, सुवर्णकुण्डलादौ च २२ "Aho Shrutgyanam" Page #350 -------------------------------------------------------------------------- ________________ ( ३३८ ) [ द्वितीयाकारकद्वितीयखण्डे अत्र प्रकृतिरपि ग्राह्या, अन्यथा काष्ठसुवर्णादेस्तुरीयतापत्तेः । विकार्य पदेनैकव्युत्पच्या प्रकृतिविकृत्युभयाऽबोधनेप्युभयसाधारणरूपावच्छिन्ने पारिभाषिकमेव विकार्यपदम् । प्रकृतिरूपं कर्म च क्रियया वस्त्वन्तरनिष्पत्तये पूर्वभावविशिष्टस्य यस्यासत्वरूप विकारो निर्वाह्यते तद् यथा- पाकादेस्तण्डुलादि कृतेश्व पुष्पकाशादि, तत्र प्रथमस्थले तण्डुलादिरूपधर्मिनाशादेव पूर्वभावविशिष्टतदसत्त्वमोदनादिरूपकर्मान्तरनिष्पादकम्, इतरत्र धर्मिणः काशकुसुमादेः सत्त्वेपि कटसंदर्भादिवि-रहरूपपूर्वभावासवेन तद्विशिष्टस्यासत्वं कटसंदर्भादिनिष्पादकक्रियातो निप्रकृतिभूतसुवर्णादेर्विनाशं विनैवाऽऽकारादिगुणान्तरमुत्पद्यते इति कुण्डलादिकं द्वितीयं विकार्य कर्म, एत्रमेव कटादीनां माल्यादीनां च द्वितीयविकार्यकर्मत्वमेव विज्ञेयम् एतद् विकार्यकर्मैव विकृतिकर्मेति च ज्ञेयम् । ननु काशादिरूपप्रकृतिकर्मणोपि सत्त्वाच्चातुर्विध्यमेव स्यादित्याशङ्कायामाह - अत्रेति, अत्र विकार्यकर्मणा प्रकृतिकर्मापि संप्रायमऽन्यथा काष्टसुवर्णादिरूपप्रकृतिकर्मस्तुरीयत्वं स्यात् विकार्य पदेनैकव्युत्पत्त्या प्रकृतिविकृत्युभयबोधनासंभवेप्युभयसाधारणं यत् कर्मत्वं तदवच्छिन्ने विकार्यपदं पारिभाषिकमित्यर्थः । किं वा विकार्यते यत् तत् विकार्यं विकृतिः, -विकार्यते यस्मिन् तद् विकार्य प्रकृतिः, इत्येवं व्युत्पत्त्या विकार्यपदस्य प्रकृतिविकृत्युभयबोधकत्वमपि संभवत्येव । यद्यप्येतत्प्रतिपादनेन विकार्य कर्मण स्त्रैविध्यात्कर्मणश्वातुर्विध्यं प्राप्तं तथापि लोकोक्त विकार्यभेदद्वयस्यैकविधत्वमेव विज्ञेयमिति पूर्वोक्तकर्मत्रैविध्यप्रतिज्ञाविरोधो नास्तीति ध्येयम् । सादर्श: प्रकृतिकर्मणः स्वरूपमाह - प्रकृतिरूपमिति । क्रियया-पाकादिक्रियया । वस्त्वन्तरनिष्पखये=विकृतिरूपौदनादिवस्तुसिद्धयर्थम् । पूर्वभावविशिष्टस्य = पूर्वरूपविशिष्टस्य, पूर्वं प्रकृत्यवस्थाकालिकं यद्रूपं तण्डुलस्वरूपं तद्विशिष्टस्य तण्डुलस्येति यावत् । यस्य = प्रकृतिभूततण्डुलादेः । असत्त्वरूपः=ध्वंसरूपः । विकार इति-व्यंसरूपासत्त्वस्यापि प्रकृतिविकाररूपत्वात् । निर्वाह्यते== ओदनादिविकारानुगुणतया संपाद्यते इत्यर्थः । तथा च यस्याऽसत्त्वरूपविकारेणौदनादिलक्षणविकारः ( कार्य ) जायते तत् प्रकृतिकर्मेति लब्धम् । उदाहरति-यथेति । कर्मणि कर्मत्वस्य धात्वर्थमात्र निरूपितत्वाद् धात्वर्थस्यैव कर्म भवतीति तण्डुलादिकं पाकस्यैव धात्वर्थस्य तण्डुछानोदनं पचति ' इत्यत्र प्रकृतिकर्मेत्यभिप्रायेण षष्ठयन्तं पाकपदमाह-- पाकादेरिति, एवमेव 'काशान् कटं करोति इत्यादौ धात्वर्थकृतेरेव ' पुष्पकाशादिकं प्रकृतिकर्मेति षष्ठ्यन्तकृतिपदमाह-कृतेश्वेति । उक्तलक्षणसमन्वयमाह - तत्रेति, प्रथमस्थले = प्रथमे तण्डुलरूपप्रकृतिकर्मोदाहरणे । पूर्वभावविशिष्टतदसत्त्वम् - पूर्वभावविशिष्टस्य तण्डुलस्य तत्-पाकेन जायमानमसत्त्वमोदनादिकर्मान्तरस्य कार्यस्य निष्पादकं भवति 1 इतरत्र - द्वितीयोदाहरणे कटमाल्यादिकार्यावस्थायां प्रकृतिभूतकाशकुसुमादेः सत्त्वेन न तदसत्त्वं माल्यादिविकार्यकर्मसंपादकं भवति किं तु कटसंदर्भादिविरहरूपो यः पूर्वभाव: ( प्रागभावः ) पुष्पादिविशेषणी , "Aho Shrutgyanam" Page #351 -------------------------------------------------------------------------- ________________ 'प्रकृतिविकृतिकर्मोत्तरद्वितीयार्थः ] व्युत्पत्तिवादः । ( ३३९ ) वहति, एवं च ' तण्डुलानोदनं पचति ' इत्यादौ प्रकृतिकर्मोत्तरद्वितीयाया नाशकत्वमर्थः तण्डुलाद्यन्वितं नाशकत्वं च पाकेऽन्वेति । विकृतिकर्मोत्तरद्वितीयायाश्वोत्पादकत्वमर्थ ओदनाद्यन्वितस्य तस्य नाशकत्वविशिष्टे पाकेऽन्वयः । नाशे चोत्पत्तेः प्रयोजकत्वमुद्देश्यतावच्छेदकविधेयभावमहिम्ना नियमतो भासते. अतः पाकस्य तण्डुलाद्यारम्भकसंयोगनाशजनकत्वेपि तन्नाशस्य द्रव्यान्तरोत्पत्तौ द्रव्यनाशेनाऽन्यथासिद्धतया प्रयोजकत्वबाधेन संयोगमोदनं पचति' इति न प्रयोगः भूतं स्वरूपम् ( काशपुष्पाद्यवस्थायां कार्यभूतकटसंदर्भाद्यभावस्यैव सत्त्वात् ) तस्य पूर्वभावस्य कटसंदर्भाद्यभावरूपस्य कटसंदर्भाद्यवस्थायामसत्त्वेन कटसंदर्भादिनिष्पादकक्रियातः प्रकृतिभूतकाशकुमादिविशेषणीभूतस्य कटसंदर्भाद्यभावस्याऽसत्त्वं जायते इति तद्विशिष्टस्य = कटसंदर्भाभावविशिष्टस्य काशकुसुमादेरसत्त्वं क्रियातो निर्वहति = जायते एव विशेषणाभावेनापि विशिष्टामावस्य सर्वसंमतत्वादिति तेनासत्त्वेन कटसंदर्भादिरूपं कार्यमुत्पद्यते इत्यर्थः । उपसंहरन् द्वितीयार्थमाह-- एवं चेति । प्रकृतिकर्मोत्तरद्वितीयायाः तण्डुलादिपदोत्तरद्वितीयायाः । प्रकृतिभूततण्डुलादेर्निरूपितत्वसंबन्धेन द्वितीयार्थनाशकत्वेऽन्वयस्तस्य चाश्रयतासंबन्धेन स्वरूपसंबन्धेन वा पाकेऽन्वयः । विकृतिकर्मोत्तर द्वितीयायाः =ओदनादिपदोत्तरद्वितीयायाः । विकृतिभूतौदनादेर्नि - रूपितत्संबन्धेन द्वितीयार्थोत्पादकत्वेऽश्वयस्तस्य चाश्रयतासंबन्धेन स्वरूपसंबन्धेन वा नाशकत्वविशिष्टे पाकेऽन्वयः । उत्पत्तेरिति षष्ठ्यर्थो निरूपितत्वमिति तण्डुलादिप्रकृतिनाशानन्तरमेवौदनादेर्जायमानत्वेन नाशे उत्पत्तिप्रयोजकत्वं यदस्ति तद् उद्देश्यतावच्छेदकविधेयभावमहिम्ना नियमतो भासते इत्याह- नाशे चेति, 'तण्डुलानोदनं पचति ' इत्यत्र तण्डुलानुदिश्यौदनोत्पत्तिर्विधीयते तण्डुलेषु च नाशो विशेषणम्- नाशस्य तण्डुलवृत्तित्वादिति नाशोऽत्रोद्देश्यतावच्छेदको विधेया चौदनोत्पत्तिरिति नाशोत्पत्त्योरुद्देश्यतावच्छेदविधेयभावः प्राप्तस्तत्रोद्देश्यतावच्छेदकमेव विधेयप्रयोजकं भवति यथा 9 ब्राह्मणः पूज्यः इत्यत्र विधेयस्य पूजनस्योद्देश्यतावच्छेदकं ब्राह्मणत्वमेव प्रयोजकं तथात्राप्युद्देश्यतावच्छेदकस्य नाशस्योत्पत्तिप्रयोजकत्वं नियमेन भासते इत्यर्थः । उक्तस्था फलमाह- अत इति, अत्र पाकस्येत्यनन्तरम् ' तण्डुलनाशजनकत्ववत् ' इति शेषः । तण्डुलाद्यारम्भकसंयोगनाशजनकत्वेपि = तण्डुलावयवसंयोगनाशजनकत्वेपि । तन्नाशस्य=तण्डुलावयवसंयोगनाशस्य | द्रव्यनाशेन :- तण्डुलनाशेन ( तण्डुलावयवसंयोगनाशेन तण्डुलनाशो भवतीति ) अन्यथासिद्धतया=तण्डुलनाशे चरितार्थत्वाद् द्रव्यान्तरस्य=ओदनस्योत्पत्तौ प्रयोजकत्वं न संभवतीति' संयोगमोदनं पचति । इति प्रयोगापत्तिर्नास्ति, यदि संयोगनाशस्य तण्डुलनाशेनाप्यो दनोत्पत्तावन्यथासिद्धत्वं स्यात्तदा तण्डुलनाशस्येव तण्डुलावयवसंयोगनाशस्यायोनोत्पत्तौ प्रयोजकत्वे ' तण्डुलानोदनं पचति इतिवत् ' संयोगमोदनं पचति । इत्यपि प्रयोगः स्यादेव न चैतदिष्टमित्यर्थः । " Aho Shrutgyanam" Page #352 -------------------------------------------------------------------------- ________________ (३४०) सादर्श:- [द्वितीयाकारकद्वितीयखण्डेवस्तुतस्तु निर्वय॑कर्मासमभिव्याहारस्थले 'संयोगं पचति । इतिप्रयोगवारणाय संयोगनाशद्वारा नाशकत्वमेव द्वितीयार्थों वक्तव्य इति कृतं प्रयोज्यप्रयोजकभावबोधनेन । __'तण्डुलमोदनं करोति ' 'काष्ठं भस्म करोति । 'दुग्धं दधि करोति' इत्यादावपि प्रकृतिकोत्तरद्वितीयया तन्नाशकत्वं कृतौ प्रत्याय्यते विकृतिकोत्तरद्वितीयया च विषयताविशेष उत्पादकत्वं वा मिलितमुभयं वा कृतौ बोध्यते । 'काशान् कटं करोति ' 'कुसुमानि मौक्तिकानि वा नजं करोति' इत्यादौ काशादिपदोत्तरद्वितीया कृतौ विषयताविशेषमेव बोधयति- काशाद्युच्छेदकतायास्तत्र बाधात् । 'कटम् ' इत्यादौ द्वितीयार्थः पूर्ववत् । स्रगादिपदार्थविन्यासविशेषविशिष्टकुसुमादेर्न कुसुमाद्युपादानककृतिविषयता. अपि तु विन्यासादि. वस्तुतस्तूक्तरीत्या ' संयोगमोदनं पचति । इतिप्रयोगापत्तिवारणे कृतेपि 'संयोगं पचति । इति प्रयोगस्यापत्तिस्त्वऽस्त्येव- पूर्ववदत्रौदनोत्पत्तेविधयत्वमेव नास्ति येनौदनोत्पत्तिं प्रति तण्डु'लावयवसंयोगनाशस्यान्यथासिद्धत्वात् — संयोगं पचति ' इति प्रयोगो न स्यादित्याशङ्कयाहवस्तुतस्त्विति, निवर्त्यकर्मणः-ओदनादिकर्मणः । निर्वर्त्यकर्मसमभिव्याहाररहितस्य — संयोग पचति ' इति प्रयोगस्य वारणाय संयोगनाशद्वारा नाशकत्वस्य द्वितीयार्थत्वं स्वीकार्य तथा च गुणे गुणानङ्गीकारेण संयोगे संयोगान्तराभावात् संयोगपदोत्तरद्वितीयायाः संयोगनाशद्वारा नाशकत्वमर्थो न संभवतीति न 'संयोग पचति ' इति प्रयोगापत्तिरस्ति । एवमेव निवर्त्यकर्मसमभिव्याहारस्थलेपि द्वितीयायाः संयोगनाशद्वारा नाशकत्वार्थकत्वं स्वीकृत्य — संयोगमोदनं पचति । इति प्रयोगस्यापत्तिनिवारण संभवतीति कृतमुत्पत्तिनाशयोरुक्तप्रयोज्यप्रयोजकमावबोधनेनेत्यर्थः। यत्पदार्थावयवसंयोगस्य पाकेन नाशः संभवेत् तादृशतण्डुलादिपदार्थवाचकपदात् पचतीत्यादिसमभिव्याहारे द्वितीया भविष्यतीति भावः ।' तण्डुलानोदनं पचति' इत्यत्र हि तण्डुलावयवसंयोगनाशद्वारा तण्डुलनाशको य ओदनोत्पादको व्यापारस्तदनुकूल कृतिमानिति शाब्दबोधः । प्रयोगान्तरमुदाहरति- तण्डुलमोदनमिति, तन्नाशकत्वम्-प्रकृतिभूततण्डुलादिनाशकत्वम् । विकृतिः ओदनादिः । विषयताविशेषः साध्यताख्यविषयता तस्याः कृतौ निरूपकत्वसंबन्धेनान्वयः प्रयोगान्तरमुदाहरति-काशानिति, कटादिसंपादने तत्प्रकृतिभूतकाशादीनां नाशो न दृश्यते इति काशादिपदोत्तरद्वितीयाया नाशकत्वार्थकत्वासंभवाद् विषयताविशेषः-उपादानताख्यविषयतैवार्थस्तस्याः कृतौ निरूपकत्वसंबन्धेनान्वयः। तत्र-कृतौ । पूर्ववदिति- विकृतिबाचककटादिपदोत्तरद्वितीयायाः साध्यताख्यविषयता वा उत्पादकत्वं वार्थः । द्वितीयान्तलगादिपदार्थमाह- स्रगादीति, कुसुमाद्युपादानककृत्या स्रगादिपदार्थो यो विन्यासविशेषो माल्याकारता तद्विशिष्टकुसुमादेरुत्पत्तिन भवति पूर्वमेव सिद्धत्वात् किं तु तादृशस्य विशेषणीभूतस्य विन्यासविशेषस्यैवेति तस्यैव कुसुमाग्रुपादानककृतिविषयता ( कृतिसाध्यता ) अस्तीति ‘स्रजम् , "Aho Shrutgyanam" Page #353 -------------------------------------------------------------------------- ________________ द्वितीयार्थविशेषाः ] व्युत्पत्तिवादः । ( ३४१ ) रूपविशेषणस्यैव तस्यैव कृत्यधीनोत्पत्तिरिति सजमित्यादिद्वितीयान्तस्य विशिष्टसवनिर्वाहकत्वमर्थः, विशेषणोत्पादकस्यापि स्वरूपसंबन्धविशेषरूपं विशिष्टसत्वनिर्वाहकत्वमक्षतमेव । अग्निः श्यामं रक्तं करोति' इत्यादावचेतनकर्तृव्यापारबोधककरोतिसमभिव्याहृतश्यामादिपदोत्तराद्वितीयाया अपि नोपादानताख्यविलक्षण विषयतार्थकत्वसंभवः अपि तु तादृशद्वितीयान्तेन श्यामरूपादिविशिष्टासत्त्वनिर्वाहकतारूपं विशिष्टच्छेदकत्वं तादृशव्यापारे प्रत्याय्यते । 'घटं रक्तं करोति' इत्यादावपि घटादिपदस्याsरक्तत्वविशिष्टघटादिलाक्षणिकतया विशिष्टघटाद्यसत्त्वनिर्वाहकत्वं प्रतीयते । प्रकृतिविकृतिभावस्थले कर्माख्यातेन प्रकृतेः कर्मत्वमेव प्रत्याय्यत. अतः 'काष्ठानि भस्मराशिः क्रियन्ते' इत्यादावाख्यातार्थविशेष्यकाष्ठादिवाचकपदसमानवचनत्वमाख्यातस्य न तु निर्वर्त्यभस्मादिरूपविकारवाचक पदसमानवचनता । " इति द्वितीयान्तस्य विशिष्टसत्त्वनिर्वाहकत्वम् विन्यासविशिष्ट कुसुमादिसंपादकत्वमर्थस्तस्य चाश्रयतासंबन्धेन स्वरूपसंबन्धेन वा कृतावन्वयः । ननु कुसुमानां पूर्वमेव सिद्धत्वात् कथं तत्संपादकत्वं कृतौ स्यादित्याशङ्क्याह - विशेषणेति, विशेषणोत्पादकस्य व्यापारस्य । विशिष्टस्य पूर्वमसिद्धत्वेन तत्संपादनसंभवादित्यर्थः । कृतिविषयता तु विन्यासादेरेवेत्यर्थः । तादृशविशिष्टसत्त्वनिचहकत्वं च व्यापारे स्वरूपसंबन्धेन वर्तत इत्युक्तम् - " स्वरूप इति । प्रयोगान्तरमुदाहरति-- अग्निरिति । वैशेषिकनये श्यामघटनाशानन्तरमेव रक्तघटोत्पत्तेः स्वीकारेण श्यामवटस्योपादानत्वासंभवान्न श्यामपदोत्तरद्वितीयाया उपादानताख्यविषयतार्थकत्वं संभवतीति श्यामरूपादिविशिष्टस्य घटस्य यदसत्त्वं विनाशस्त निर्वाहकतारूपं विशिष्टो च्छेदकस्वम् =श्यामादिरूप विशिष्टघटाद्युच्छेदकत्वं द्वितीयान्तार्थस्तस्य तादृशव्यापारे = उक्ता चेतनकर्तृकव्यापारे आश्रयतासंबन्धेन स्वरूपसंबन्धेन वान्वय इत्यर्थः । 'घटं रक्तं करोति' इत्यत्र च घटपदस्याsरक्तत्वविशिष्टघटे लक्षणा तथा चाऽरक्तत्वविशिष्टघटनाशकत्वं द्वितीयार्थस्तस्य कृतावन्त्रयः पूर्ववदिति कृतावऽरक्तत्वादिविशिष्टघटाय सत्त्वसंपादकत्वं प्रतीयत इत्याह-- घटं रक्तमिति । ८ काष्ठानि भस्मराशिः क्रियन्ते ' इत्यादिप्रकृति विकृतिभावस्थले ( काष्ठं प्रकृतिः भस्म च विकृतिः ) कर्माख्यातेन प्रकृतेरेव कर्मत्वं प्रत्याय्यते इति आख्यातार्थविशेष्यता प्रकृतिभूतकाष्ठादावेवेति काष्ठादिपदसमानवचनत्वमेवाख्यातस्य प्राप्तं न तु निर्वर्त्यभस्मादिवाचकपदसमानवचमत्वं तत्कर्मत्वबोधनादित्याह - प्रकृतीति । एवकारो भिन्नक्रम इति 'प्रकृतेरेव ' इत्यन्वयः । एतपूर्वमपि ( ३०८ पृ.) प्रतिपादितम् । "Aho Shrutgyanam" Page #354 -------------------------------------------------------------------------- ________________ ( ३४२ ) सादर्श: [ द्वितीयाकारकद्वितीयखण्डे अथैवं निर्वर्त्यकर्मवाचकपदात् प्रथमा न स्यादपि तु द्वितीयैव-तत्कर्मताया लकारेणानभिधानात् । Cs 37 यत्तु उभयकर्मत्वमेव लकारेणाभिधीयते - प्रधानाऽप्रधानकर्मसमभिव्याहृतनीबहादिदुहादिरूपद्विकर्मकोत्तरकर्मप्रत्ययस्यैव कर्मत्वद्वयानभिधायकत्वनियमात्. प्रकृते च कर्मद्वयस्यैव तुल्यत्वात् । विकृतेराख्यातार्थविशेष्यत्वेप्याऽऽख्यातस्य तत्समानवचनत्वानियमः गृह्णाति वाचकः संख्यां प्रकृतेर्विकृतेर्न हि नुशासनसिद्धप्रकृतिविकृतिसमभिव्याहतलकारीयविकारसंख्याबोधकत्वाभावव्युत्पत्तिनिर्वाह्य इत्युक्तस्थले न क्रियापदस्यैकवचनान्तता, तदर्थान्वितसंख्याबोधकस्यैवाख्यातस्य तत्पदसमानवचनत्वानियमात् न तु तद्विशेष्यकस्वार्थकर्मत्वादिवोधजनकाख्यातमात्रस्येति । . ननु कर्माख्याते यत्कर्मत्वमभिधीयते तद्वाचकपदात् प्रथमा भवति द्वितीयाप्रतिपाद्यकर्मत्वस्याख्यातेनैव प्रतिपादितत्वादिति यदि ' काष्ठानि भस्मराशिः क्रियन्ते ' इत्यत्र कर्माख्यातेन केवलं काष्ठकर्मत्वमेव प्रत्याय्यते न भस्मराशिकर्मत्वं तदा भस्मराशिपदात् प्रथमा न स्यात् किं तु भस्मराशिकर्मत्वाभिधानार्थं द्वितीयैव स्यादित्याशङ्कते - अथेति । परिहाराय मतान्तरमनुवदति - यत्त्विति, ' काष्टानि भस्मराशिः क्रियन्ते इत्यत्रो भयकर्मत्वम्=काष्टकर्मत्वं भस्मराशिकर्मत्वं चाख्यातेनाभिधीयते एवेति न भस्मराशिपदाद् द्वितीया - पेक्षेत्यर्थः । नन्वेकेन कर्माख्यातेनोभयकर्मत्वाभिधानं कथं स्यादित्याशङ्क्याह-प्रधानेति, ' अजा ग्रामं नीयते ' इत्यादौ द्विकर्मकनीवहादिदुहादिधातूत्तरवर्तमानकर्माख्यातेन कर्मत्वद्वयाभिधानं न भवतीति नियमोस्ति न तु सर्वत्र तथा च प्रकृते' काष्ठानि भस्मराशिः क्रियन्ते इत्यत्र कर्मद्वयस्यैव तुल्यत्वादुभयकर्मत्वमाख्यातेनाभिधीयते एवेति न प्रथमाऽनुपपत्तिरित्यर्थः । ननु यदि विकृतिभूतो यो भस्मराशिस्तत्कर्मत्वमप्याख्यातेनाभिधीयते तदा विकृतेः = मस्मराशेरव्याख्यातार्थविशेष्यत्वं प्राप्तमेव तथा चाख्यातस्य विकृतिवाचकपदसमानवचनत्वं किं न स्यादिस्वाशङ्क्याह-विकृतेरिति, विकृतेराख्यातार्थविशेष्यत्वेप्याख्यातस्य विकृतिवाचकपदसमानवचनत्वं न भवति किं तु प्रकृतिवाचकपदसमानवचनत्वमेव भवति, अत्र प्रमाणमाह-गृह्णातीति, वाचकः= कर्मत्ववाचक आख्यातप्रत्ययः । इत्यनुशासनेन सिद्धा या प्रकृति विकृत्युभयसमभिव्याहृतलकारस्य = आख्यातस्य विकृतिसंख्याबोधकत्वाभावविषया व्युत्पत्तिस्तन्निर्वाह्यः तत्प्रमाणक आख्यातस्य विकृतिवाचकपदसमानवचनत्वाऽनियमोस्तीत्युक्तस्थले' काष्ठानि भस्मराशिः क्रियन्ते ' इत्यत्र न क्रियापदस्यैकवचनान्तता । आख्यातस्य यदर्थान्त्रितसंख्याबोधकत्वं भवति तद्वाचकपदसमानवचनत्वं भवति नत्वाख्यातार्थविशेष्यमात्रवाचकपद समानवचनत्वमित्यत्राख्यातस्य काष्ठपदसमानवचनत्वमेव न भस्मराशिपदसमानवचनत्वमित्यर्थः । तद्विशेष्यकेति - यथा भस्मराशि - विशेष्यको यः स्वार्थभूतः कर्मत्वादिस्तद्विषयक बोधजनकाख्यातमात्रस्य न तद्वाचकपदसमानव "Aho Shrutgyanam" इत्य " Page #355 -------------------------------------------------------------------------- ________________ प्रकृतकर्मत्वाभिधानविचार : ] व्युत्पत्तिवादः । ( ३४३ ) 76 $ तदसत् - विकारविकारिणोर्द्वयोराख्यातार्थविशेष्यत्वे वाक्यभेदापत्तेः । ' घट पटौ स्तः घटपट इयेते' इत्यादौ विशेष्यभेदेपि विशेष्यतावच्छेदकद्वित्वादेरेकधा भानान्न वाक्यभेदः, अत्र च न तादृशविशेष्यतावच्छेदकभानमस्ति येन तत्रैवात्राप्येकवाक्यतानिर्वाहः (स्यात् ? ) । न चागत्येष्यते एवात्र वाक्यभेद इति वाच्यम्, तथा सत्येकवाक्यार्थपरस्य ' काष्ठं क्रियते ' भस्म क्रियते ' इत्येतादृशप्रयोगस्यापत्तेः । ' काष्ठं भस्म क्रियते ' इति वाक्यजबोधस्य काष्ठविकृतिभस्माऽन्यविकृतिर्वेतिसंशयनिवर्तकत्वानुपपत्ते:- काष्ठभस्मनोः प्रकृतिविकारभावोऽभानात् । अस्मन्मते च काष्ठोच्छेदकत्वरूपकाष्ठकर्मकत्व-भस्म निर्वर्तकत्वरूपतत्कर्मकत्वयोरेकविशिष्टेऽपरान्वये एव पूर्वोपदर्शितरीत्या काष्ठोच्छेदप्रयोज्योत्पत्तिकत्वरूपकाष्ठप्रकृतिकत्वस्य भस्मनि लाभसंभवादिति चेत् ?, इत्यत्र श्चनत्वं भवतीति विकृतेराख्यातार्थविशेष्यत्वेपि न तद्वाचकपदसमानवचनत्वमाख्यातस्येति प्राप्तम् ।। परिहरति- तदसदिति, विकारविकारिणोः = विकृतिप्रकृत्योरुभयोरप्याख्यातार्थविशेष्यत्वे प्रतिविशेष्यं वाक्यसमाप्तिनियमेन वाक्यभेदः स्याद् यथा - ' काष्ठानि भस्मराशिः क्रियन्ते 'काष्ठानि क्रियन्ते' 'भस्मराशिः क्रियते' इति । ननु यथा 'घटपटौ स्तः' इत्यादौ वटपटयोरुमयोव्याख्यातार्थविशेष्यत्वेपि न वाक्यभेदस्तथा प्रकृतिविकृत्योरुभयोरप्याख्यातार्थविशेष्यत्वेपि नोक्तस्थळे वाक्यभेद इत्याशङ्क्याह-घटपटाविति, 'घटपटौ स्तः' इत्यादौ विशेष्यभेदेपि विशेष्यतावच्छेदकं द्वित्वमेकमेवेति' घटपटौ द्वौ स्तः इत्येवं शाब्दबोधस्वीकारान्न वाक्यभेदप्रसङ्गः । भत्र = ' काष्ठानि भस्मराशिः क्रियन्ते ' इत्यत्र च न तादृशस्यैकस्य विशेष्यतावच्छेदकस्य मानमस्ति येन तत्रेव = | घटपटौ स्तः इत्यत्रेवात्रापि = ' काष्ठानि भस्मराशिः क्रियन्ते ' इत्यत्राप्येकवाक्यतानिर्वाहः स्यादित्यर्थः, स्यादिति शेषः । ननु गत्यभावादिष्ट एव वाक्यभेद इत्याशङ्क्याह - न चेति, परिहारमाह- तथा सतीति, उक्तस्थले वाक्यभेदस्येष्टत्वे ' काष्टानि भस्मराशि: क्रियन्ते ' इत्यस्य स्थाने ' काष्ठं क्रियते ' भस्म क्रियते ' इतिवाक्यद्वयस्यापि प्रयोगः स्यात्न चैतदिष्टम् - काष्ठस्य सिद्धत्वादिति न वाक्यभेदेष्टापत्तिः संभवति । किं च यदि काष्ठं भस्म क्रियते ' इत्यादिप्रकृति विकृतिसमभिव्याहारस्थले वाक्यभेद एव स्यात्तदा काष्ठमस्मनो: प्रकृति विकृतिभावस्य मानासंभवात् काष्ठभस्मनोः पृथक् पृथग् वाक्यबोध्यत्वाद् भस्म काष्ठविकृतिर्वा - ऽन्यविकृतिर्वेति संशयोच्छेदकत्वमुक्तवाक्यजन्यबोधस्य न स्याद् अस्ति चैतत्संशयोच्छेदकत्वमिति न वाक्यभेदः स्वीकर्तुं शक्यते इत्यर्थः । ननु वाक्यभेदाभावेपि तव मते कथमेतत्संशयोच्छेदकत्व - . मुक्तवाक्यजन्यबोधस्य स्यादित्या शङ्क्याह- अस्मन्मते इति, अस्मन्मते तु " काष्ठं भस्म क्रियते इत्यादी वाक्यभेदो नास्तीति काष्ठोच्छेदकत्वरूपं यत् काष्ठकर्मकत्वं तद्विशिष्टे एवं करोत्यर्थन्यापारेऽपरस्य भस्म निर्वर्तकत्वरूपस्य तत् = भस्मकर्मकत्वस्यान्वयो भवतीति पूर्वम् " एवं च तण्डुलान् ३३९ पृ. " इत्यादिनोपदर्शितरीत्यैव काष्ठोच्छेद ( काष्ठनाश ) प्रयोज्योत्पत्तिकत्वरू L , 9 "Aho Shrutgyanam" 4 Page #356 -------------------------------------------------------------------------- ________________ ( ३४४ ) सादर्श: [ द्वितीयाकारकदितीयखण्डे सत्यम् - काष्ठं भस्म क्रियते, इत्यादौ भस्मादिनिर्वर्त्यकर्मताया लकारेणाभिधानेपि तत्कर्मताया धात्वर्थे संसर्गतया भानोपगमेन तादृशकर्मोंत्तरं प्रथमायाः साधुता । प्रातिपदिकार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयादिविभक्तिसाधुत्वात् । यथा 'अर्यो नमः' इत्यादौ नमः पदार्थत्यागेऽर्वादिकर्मत्ववोधेप्यर्घादिपदात्प्रथमैव-निपाताथै त्यागे कर्मतासवन्धेनैव नामार्थस्यान्वयात् । एवम् 'भूतलेन घट:' इत्यादावपि घटादिसंवन्धस्याभावे संसर्गतया भानात् षष्ठीविषयेपि प्रथमा । पस्य काष्ठप्रकृतिकत्वस्य भस्मनि लाभ संभवात् काष्टभस्मनो: प्रकृतिविकृतिभावमानलाभेन ' काष्ठं भस्म क्रियते ' इतिवाक्यजबोधस्योक्तसंशयनिवर्तकत्वसंभवाद् भस्म काष्ठविकृतिरेवेति निश्वयोपि संभवत्येवेत्यर्थः । एवकारो भिन्नक्रम इति ' पूर्वोपदर्शितरीत्यैव ' इत्यन्वयः । " अपरान्वये" इत्यत्र ' अपरान्वयेन ' इति पाठो युक्तः । . अथेत्यादिना कृतायाः शङ्काया उत्तरमाह - सत्यमिति, " काष्ठं भस्म क्रियते ' इत्यादी भस्मादिकर्मतायाः संसर्गत्वं स्वीक्रियते तथा च धात्वर्थे भस्मकर्म कत्वमस्तीति भस्मकर्मकत्व संबन्धेन किं वा निरूपकता संबन्धेन धात्वर्थे वर्तमानभस्मकर्मत्वसंबन्धेन काष्टकर्मत्वस्यान्वयो भवतीति भस्मकर्मत्वस्य संसर्गत्वेन सदुपस्थित्यपेक्षाभावात् लकारेण = आख्यातेन भस्मकर्मत्वानभिधानेपि तादृशकर्मोत्तरम्=भस्मपदोत्तरं द्वितीयापेक्षा नास्तीति प्रथमायाः साधुता, प्रकारतया भासमा - नस्यैवोपस्थितेरपेक्षितत्वात् । अत्रापि यदि मस्मकर्मताया: प्रकारत्वमिष्टं स्यात्तदा लकारेण तदनभिधाने तदुपस्थापक द्वितीयाया अपेक्षा स्यात् न चैत्रमस्तीत्यर्थः । किं च यत्र कर्मत्वस्य प्रातिपदिकार्थविशेष्यत्वेन विवक्षा भवति तत्रैव तत्प्रातिपदिकाद् द्वितीया भवति न चात्र कर्मत्वस्य भस्मविशेष्यत्वेन विवक्षास्ति संसर्गत्वेनैव विवक्षितत्वादिति न भस्मपदादत्र द्वितीयापत्तिरित्याहप्रातिपदिकार्येति । उक्ते दृष्टान्तमाह- यथेति, अर्घप्रदानकाले इतिवाक्यं तत्र नमः पदार्थभूतस्त्यागः ( प्रदानम् ) अर्धकर्मक एवेति त्यागेऽर्घकर्मत्व ( कर्मकत्व ) - बोधेtrपदादत्र प्रथमैवास्ति तत्कस्य हेतोः ? नम इतिनिपातपदं तदर्थे त्यागे कर्मतासंबन्धेनैव नामार्थस्यार्धपदार्थस्यान्वयात् तथा च यथात्रार्धकर्मतायाः संसर्गतया भासमानत्वेन तदुपस्थापकद्वितीयापेक्षाभावादऽर्वपदात् प्रथमायाः साधुता एवमुक्तस्थलेपि भस्मकर्मताया: संसर्गतयैव भासमानत्वेन तदुपस्थापक द्वितीयापेक्षाभावाद् भस्मपदात् प्रथमायाः साधुतेत्यर्थः । एवमिति य - यथा ' अर्धो नमः ' इत्यत्र निपातभूतनम ः पदस्यार्थे व्यागेऽर्वकर्मत्वस्य संसर्गतयैव मानं भवतीत्यर्धपदात् प्रथमैत्र जाता. एवम् ' भूतले न घट: ' इत्यत्रापि नञर्थाभावे घटसंब न्धस्य घटप्रतियोगिकत्वस्य संसर्गतया भानात् तदुपस्थापकषष्ठ्यपेक्षाभावात् षष्ठ्याः स्थाने घटपदात् प्रथमैव जातेत्यर्थः । यदुच्यते ' अर्घो नमः "Aho Shrutgyanam" 7 Page #357 -------------------------------------------------------------------------- ________________ 'कर्म धात्वर्थयोरन्वय विचारः ] व्युत्पत्तिवादः । ( ३४५ ) कर्मताया: न च धात्वर्थे नामार्थस्य साक्षादन्वयोऽव्युत्पन्न इति प्रकृते संसर्गतया भानं न संभवतीति वाच्यम्, 'घटो नीलो भवति काष्ठं भस्म भवति' इत्यादी भवनादिक्रियायां नीलादेः कर्तृतासंबन्धेन साक्षादन्वयवदत्रापि व्युत्पत्तिवैचित्रयेण कर्मान्तरविशेषणतापन्न क्रियायामपरकर्मणः कर्मतासंबन्धेन साक्षादन्वयोपगमात् । 7 न चैवमपि कर्मत्वस्य प्रकृत्यर्थविशेष्यत्वेन विवक्षया 'काष्ठं भस्मराशि क्रियते ' इत्यादिप्रयोगापत्तिः कर्मत्वान्तरविशेषणतानापन्नक्रियायामेव द्वितीयया कर्मत्वं बोध्यते इति व्युत्पत्तिकल्पने ? ' गौर्दह्यते क्षीरम् ' ग्रामम् इत्यादी दोहननयनादिक्रियायां क्षीरग्रामादिकर्मकत्वानन्वयप्रसङ्ग इतिवाच्यम्. प्रकृतिवि कृत्युभयकर्मकस्थले तथा व्युत्पत्तेः । ययोक्तातिप्रसङ्गवार C अजा नीयते 7 , 9 6 ननु ' अर्धी नमः इत्यत्र भवतु कर्मत्वस्य संसर्गतया भानम् तत्र नम इति निपातार्थत्यागे अर्ध इति नामपदार्थस्य कर्मतासंबन्धेन साक्षादन्वयेपि पूर्वोक्तव्युत्पत्तिविरोधाभावात् ' काष्ठं मस्म 'क्रियते ' इत्यत्र तु भस्मकर्मताया: संसर्गत्वमाश्रित्य तादृशकर्मतासंबन्धेनैव करोतिधारखर्थे भस्मान्वयोपि कर्तव्यः स तु न संभवति धात्वर्थे साक्षान्नामार्थान्वयस्यान्युत्पन्नत्वादित्याशड्क्याह-न चेति । परिहारमाह-घट इति, यथा पूर्वोक्तरीत्या 'घटो नीलो भवति' इत्यत्र नीलपदार्थस्य कर्तृतासंबन्धेन धात्वर्थे साक्षादेवान्वयस्तथा ' काष्ठं भस्म क्रियते ' इत्यत्रापि काष्ठरूपकर्मान्तरविशेषणतापन्न करोत्यर्थक्रियायां भस्मरूपाऽपरकर्मणः कर्मतासंबन्धेन साक्षादेवान्वय इत्यर्थः । अत्र च 'चैत्रादिवृत्तिव्यापारजन्यभस्मरूपविकाराश्रयः काष्ठम्' इति शाब्दबोधोदयात् क्रियायाः काष्ठरूपकर्मविशेषणत्वं विज्ञेयम् । "Aho Shrutgyanam" ननु भस्मकर्मतायाः संसर्गत्वविवक्षायां भवतूक्तस्थले भस्मपदात् प्रथमा अथापि कर्मत्वस्य प्रकृत्यर्थविशेष्यत्वविवक्षायां विशेष्यभूतकर्मत्वस्योपस्थित्यपेक्षया तदुपस्थापकद्वितीयाया आवश्यकतया ' काएं भस्मराशिं क्रियते ' इति प्रयोगापत्तिः स्यादेव । यदि चैतद्दोषपरिहाराय 'कर्मान्तरविशेषणतानापन्नक्रियायामेव द्वितीयया कर्मत्वं बोध्यते = द्वितीयोपस्थापितकर्मताया अन्यो भवतीति व्युत्पत्तिः कल्प्यते तथा च काष्ठरूपकर्मान्तरविशेषणतापन्नक्रियायां भस्मराशिकर्मत्वस्यान्वयो न संभवतीति न ' काष्ठं भस्मराशिं क्रियते ' इति प्रयोगापत्तिरित्युच्यते ? तदाऽनया व्युत्पत्त्या ' गौदुर्ह्यते क्षीरम् ' अजा नीयते ग्रामम् ' इत्यादौ गवाजादिकर्मान्तरविशेषणतापन्नायां दोहननयनादिक्रियायामपि क्षीरग्रामादिकर्मकत्वस्यान्वयो न भविष्यतीति क्षीरादिपदोत्तरं द्वितीयानुपपत्तिरित्याशङ्क्याह-न चेति । परिहारमाह-प्रकृतीति, गोक्षीरयोरजा· ग्रामयोश्च प्रकृतिविकृतिभावो नास्तीत्यत्र न सा व्युत्पत्तिः कल्प्यते इति नात्र गवाजादिकर्मान्तरविशेषणतापन्नोक्तक्रियायां क्षीरग्रामादिकर्मकत्वानन्वयप्रसङ्गः । प्रकृतिविकृतिभावस्थले च 4 Page #358 -------------------------------------------------------------------------- ________________ ( ३४६ ) सादर्श: [ द्वितीयाकारकद्वितीयखडे णाय दर्शिता व्युत्पत्तिः कल्प्यते तथा कर्तृत्वविशेषणतयाऽभासमानायामेव क्रियायां तृतीयार्यकर्तृत्वान्वय इत्यपि व्युत्पत्तिः कल्प्या. अन्यथा प्रकृत्यर्थविशेष्यतया कर्तृत्वविवक्षया काष्ठं भस्मना भवति इतिप्रयोगस्य दुर्वारत्वात् । ८ उत्पत्तिप्रयोजकनाशप्रतियोगित्वरूपविकार एव काष्ठं भस्म भवति : इत्यादी धात्वर्थः, आधेयत्वरूपं तत्कर्तृत्वमेव संबन्धमर्यादया भासते ।' काष्ठेन भस्मना भूयते ' इत्यादौ भस्माद्याधेयत्वमुत्पत्तौ काष्ठाधेयत्वं च नाशप्रतियोगित्वे तृतीयोपस्थाप्यं प्रकारतया भासते । कर्तृत्वविशेषणतया भासमानस्य निरुक्तभवनस्यान्तर्गतायामेवोत्पत्तौ भस्मादेराधेयत्वं संबन्धतया भासते इति 5 — कर्मत्वान्तरविशेषणतानापत्रक्रियायां द्वितीयया कर्मकत्वं बोध्यते ' इतिव्युत्पत्तिः कल्प्यतेकाठमस्मनोश्च प्रकृतिविकृतिभाव एवेति काष्टरूपकर्मान्तरविशेषणतापन क्रियायां द्वितीयोपस्थाप्यकर्मत्वस्यान्वयाऽस्वीकारात् 'काष्ठं महमराशि क्रियते' इति प्रयोगापत्तिर्नास्तीत्यर्थः । यथैतदतिप्रसङ्गवारणायैषा व्युत्पत्तिः कल्प्यते तथा 'कर्तृत्वविशेषणतयाऽभासमानायामेव क्रियायां तृतीयार्थकर्तृत्वान्वयो भवति न तु कर्तृत्वविशेषणतया भासमानायामपि ' इत्यपि व्युत्पत्तिः कल्प्यते तथाच काष्ठरूपकर्तृविशेषणतया भासमानायां भवनक्रियायां भस्मपदोत्तरतृतीयार्थकर्तृत्वस्यान्ययासंभवाद् भस्मपदात्ततीयापत्त्यभावात् ' काष्ठं भस्मना भवति' इत्यनिष्टप्रयोगनिवारणं भविष्यति, अन्यथा न भविष्यतीत्याह-यथोक्तेति । ' काष्टं भस्म भवति' इत्येव प्रयोगो भवति अत्र € भस्मानुकूलभवनव्यापाराश्रयः काष्ठम् इतिशाब्दबोधः । प्रकृत्यर्थविशेष्यतया = मस्मविशेष्यतया । 4 उत्पत्तीति-' काष्ठं भस्म भवति' इत्यत्र भस्मोत्पत्तिप्रयोजको यः काष्ठनाशस्तत्प्रतियोगित्वरूपो यः काष्ठे जायमानो विकारः स एव भूधात्वर्थः, स च काष्ठेस्तीति काष्ठाधेयत्वं यद् धात्वर्थेस्ति तत् संसर्गतया मासते तेनैवाधेयत्वसंसर्गेण धात्वर्थे काष्टान्वयः, तच्चाधेयत्वं काष्ठनिष्ठमुक्तधात्वर्थनिरूपितकर्तृत्वरूपमेवेत्यर्थः । काष्ठेनेति--' काष्ठेन भस्मना भूयते ' इत्यत्रोत्पत्ती यद् ममाधेयत्वमस्ति तद् मस्मपदोत्तर तृतीयोपस्थाप्यमस्तीति प्रकारतया भासते. एवं नाशमतियोगित्वे यत् काष्ठाधेयत्वं तदपि काष्ठपदोत्तरतृतीयोपस्थाप्यमस्तीति प्रकारतया भासते न संसर्गतयेत्यर्थः । ननु ' काष्टेन भस्म भूयते ' इति प्रयोगः किं न स्यादित्याशङ्क्याहकर्तृत्वेति, उत्पत्त्यनुकूलव्यापारो हि भवनपदार्थ इत्युत्पत्तिर्भवनान्तर्गता ज्ञेया यत्र कर्तृत्वविशेणतया धात्वर्थभवनस्य मानं भवति तादृशभवनान्तर्गतायामुत्पत्तौ भस्माद्याधेयत्वं संबन्धतया भासते यथा ' काष्ठं भस्म भवति' इत्यत्राख्यातस्य कर्तरि जायमानत्वाद् धात्वर्थस्य कर्तृत्वविशेषणत्वमस्ति व्यापारकर्तृत्ववानिति बोधोदयादिति तत्र भस्माधेयत्वस्य संसर्गतया मानसंमवाद् भस्मपदोत्तरं तृतीयापेक्षा नास्ति, ' काष्ठेन भस्म भूयते ' इत्यत्र तु भावे आख्यातमस्ति तस्य " Aho Shrutgyanam" Page #359 -------------------------------------------------------------------------- ________________ अधिशीस्थासां प्रयोगाः व्युत्पत्तिवादः । (३४७) व्युत्पत्तेः ' काष्ठेन भस्म भूयते ' इत्यादयो न प्रयोगाः-भावाख्यातस्य कर्तृत्वाबोधकत्वात् । कर्मत्वान्तरविशेष्यतापन्नकृत्यादौ कर्मत्वस्य संसर्गतया भानमऽव्युत्पन्नमिति 'काष्ठं भस्मराशिः करोति' इत्यादयो न प्रयोगा। "अधिशीस्थासां कर्म " इत्यादिना यत्राधारस्य कर्मसंज्ञा तत्राऽऽधारत्व. माधेयत्वं वा द्वितीयार्थः, 'स्थलीमधिशेते' इत्यादौ तादृशार्थे द्वितीयायाः 'स्थल्या अधिशयिता' इत्यादौ कृत्प्रयोगे षष्ठयाश्च साधुत्वार्थमेव कर्मसंज्ञावि. च कर्तृत्वाबोधकतया धात्वर्थस्य कर्तत्वविशेषणत्वं नास्तीति न भस्माधेयत्वस्य संसर्गतया मानं स्वीक्रियते किं तु प्रकारतयैव तथा चाधेयत्वोपस्थापकतृतीयाया आवश्यकत्वात् — काष्ठेन भस्मना भूयते । इत्येव प्रयोगो भवति न तु 'काष्ठेन भस्म भूयते , इत्यपीत्यर्थः । कर्मत्वान्तरविशेष्यतापन्नकृत्यादिधात्वर्थे कर्मत्वान्तरस्य संसर्गतया भानं न भवतीति — काष्ठं भस्मराशिः करोति ' इतिप्रयोगो न भवति--अत्र काष्ठनिष्ठकर्मत्वविशेष्यतापन्नक्रियायां भस्मराशिनिष्ठकर्मस्वस्य संसर्गतयैव भानं संभवति-मस्मराशिपदोत्तरं कर्मत्वोपस्थापकद्वितीयाया अभावात्, कर्मवान्तरविशेष्यतापन्नकृत्यादौ च कर्मत्वान्तरस्य संसर्गतया भानं न स्त्रीक्रियते किं तु प्रकारतयैव प्रकारत्वं चानुपस्थितस्य न संभवतीति कर्मत्वोपस्थापकद्वितीयाया आवश्यकत्वात् 'काष्ठं भस्मराशिं करोति' इत्येव प्रयोगो भवतीत्यर्थः । 'काष्ठनिष्ठकर्मत्वनिरूपको यो भस्मसशिकर्मको व्यापारस्तादृशव्यापारवान् ' इत्यत्र बोधोदयात् कृत्यादिव्यापारस्य कर्मत्वविशेष्यत्वं सुस्पष्टमेव । " अधिशीस्थासां कर्म, इतिसूत्रसंपनप्रयोगमुदाहर्तुमारभते-अधिशीङिति, प्राचीनमते माधारत्वमर्थः, किं तु आधारत्वस्य धात्वर्थे निरूपकत्वसंबन्धेनान्वयः स्याद् निरूपकत्वसंबन्धस्य च वृत्त्यनियामकतया अभावीयप्रतियोगितानवच्छेदकत्वेन पूर्वोक्तरीत्या 'न स्थलीमधिशेते' इत्यत्र शाब्दबोधो न स्यादिति नवीनमतेनाधेयत्वं द्वितीयार्थस्तञ्चाश्रयतासंबन्धेन वर्तते आश्रयतासंबन्धस्य च वृत्तिनियामकतया नोक्तदोष इत्यर्थः। कर्मसंज्ञाविधानप्रयोजनमाह- स्थलीमिति, शेते इत्यत्र भूपृष्ठादिसंयोगो धात्वर्थः । स्थलीपदार्थस्याधिकरणत्वेन तद्वाचकस्थलीपदोत्तरं सप्तम्या युक्तत्वेपि ' स्थलीमधिशेते' 'स्थल्या अधियिता ' इत्यादौ कर्मत्वबोधकद्वितीयाषष्ठयोः साधुत्वाथ सूत्रकारेण कर्मसंज्ञा विहितेत्यर्थः । तादृशार्थे अधिकरणार्थे । ननु ' स्थलीमधिशेते' इत्यस्य स्थल्यां शयनं करोति' इत्ययमेवार्थस्तत्र करोतिपदवाच्यव्यापारस्य भूपृष्ठादिसंयोगरूपे धात्वर्थेऽन्तर्भावः कर्तव्य इत्युक्तवाक्यस्य · भूपृष्ठादिसंयोगानुकूलकृतिमान् ' इत्यर्थः स्यात् . अत्र च भूपृष्ठादिसंयोगः फलमेवेति यथा संयोगादिरूपफलाश्रयतया . ग्रामं गच्छति' इत्यादौ ग्रामादेः कर्मसंज्ञा भवति तथैव भूपृष्ठादिसंयोगरूपफलाश्रयत्वात् स्थल्यादीनामपि कर्मसंज्ञा संभवत्येवेति पुनः “ अधिशीङ्" इत्यादिसूत्रेण स्थल्यादीनां कर्मसंज्ञाविधानं विधाय. "Aho Shrutgyanam" Page #360 -------------------------------------------------------------------------- ________________ (३४८) सादर्शः- द्वितीयाकारकद्वितीयखण्डेधानात् । अथ कृअर्थव्यापारान्तरं धात्वर्थेऽन्तर्भाव्य शयनादिरूपफलावच्छिन्नव्यापारार्थकसोपसर्गशीप्रभृतिधात्वर्थतावच्छेदकशयनादिरूपफलाश्रयतयाऽधारस्य कर्मत्वोपपादनसंभवात् तादृशसूत्राणां वैयर्थ्यमेव, अध्याशुपसृष्टशीधभृतीनामेव च तादृशार्थे निरूढलक्षणा न त्वनुपसृष्टानामऽतो न 'स्थली शेते' इत्यादयः स्वारसिकाः प्रयोगा इति चेत् ?, न-धातोर्मुख्यार्थपरत्वेपि दर्शितप्रयोगनिहाय भगवता पाणिनिमुनिना तादृशसूत्रप्रणयनात् । तदप्रणीतवतां शर्ववर्मप्रभृतीनां मुख्यार्थपराणाम् ‘स्थल्यामधिशेते ' इत्यादिप्रयोगाणां साधुताया दुरित्वाच्च । कालाध्वदेशानामकर्मकक्रियायोगे कैश्चित् कर्मप्रत्ययार्थं विभाषयाँ कर्मत्वमकसूत्रं च व्यर्थमेवेत्याशड्कते- अथेति । अत्र पक्षे भूपृष्ठादिसंयोगानुकूलव्यापारो धात्वर्थः । शयनादीति- शयनादिरूपं यत्फलं तदवच्छिन्नव्यापारार्थको य: सोपसर्ग: अध्युपसर्गसंयुक्तः शीअभूतिधातुस्तदर्थतावच्छेदकं यच्छयनादिरूपं फलं तादृशफलाश्रयतयाप्याधारस्य-स्थल्यादेः कर्मत्वं संभवत्येवेत्यर्थः । क्रियाजन्यफलशालित्वं हि कर्मत्वमऽत्र च यच्छयनरूपं : फलमुक्तं तत्तु शोधात्वर्थ एव न तु धात्वर्थव्यापारजन्य मिति तादृशशयनाश्रयीभूतायाः : स्थल्याः कर्मत्वं न स्थादित्युक्तम्-- कृअर्थव्यापारेति, धात्वर्थशयने कृअर्थव्यापारस्यान्तर्भावे च कृते शयनस्य ताहशकृत्रर्थव्यापारजन्यत्वं प्राप्तमिति तादशक्रियाजन्यशयनरूपफलाश्रयतया स्थल्यादीनां कर्मत्वं प्राप्नोतीति भावः । नन्वेवं शयनरूपफलाश्रयत्वात् स्थल्याः कर्मत्वापत्त्या 'स्थली शेते' इत्यपि प्रयोगः स्यादित्याशङ्कयाह- अध्याद्यपसृष्टेति, तादृशार्थे अन्तर्भूतकृअर्थव्यापारे धास्वर्थे, अध्युपसर्गसंयोगे सत्येव कृअर्थव्यापारस्प धात्वर्थेऽन्तर्भावो भवति न त्वध्युपसर्गसंयोगाभापीति न ' स्थली शेते ' इतिप्रयोगापत्तिरित्यर्थः । परिहरति- नेति, उक्तार्थे निरूढलक्षणास्वीकारे स्थल्यादीनां त्वदुक्तरीत्या कर्मत्वसंभवेपि निरूढलक्षणाभावपक्षे धातोर्मुख्यार्थपरत्वे तु स्थल्यादीनां क्रियाजन्यफलशालिवाभावात् कर्मत्वं न संभवतीति मुख्यार्थपक्षे कर्मत्वाप्राप्त्या दर्शितप्रयोगस्य — स्थलीमधिशेते । इत्यादिप्रयोगस्य निर्वाहाय “ अधिशीङ्" इत्यादिसूत्रं प्रणीतमिति न वैयर्थ्यम् । यैरेतादृशकर्मसंज्ञा विधायकं सूत्रं न प्रणीतं तेषां व्याकरणमतेन मुख्यार्थपक्षे कर्मत्वप्राप्त्यभावात् सप्तम्या 'स्थल्यामधिशेते, इत्यादिप्रयोगाणामपि साधुत्वं प्राप्नुयात् न चैतदिष्टमित्यर्थः । कृअर्थव्यापारानन्तर्भावेन भूपृष्ठादिसंयोगमात्रस्य धात्वर्थत्वपक्षे 'शेते ' इत्यस्य — भूपृष्ठादिसयोगाश्रयः । इत्येवार्थः । ___“मासमास्ते ' इत्यादिप्रयोगानुदाहरति- कालाध्वेति । कैश्चित्वार्तिककारादिभिः, तथा च वार्तिकम् - " अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् " इति, तत्र देशस्य कर्मत्वं यथा- “कुरून् स्वपिति ' इति, कालस्य कर्मत्वं यथा-'मासमास्ते में इति, भावस्य ( क्रियायाः ) कर्मत्वं यथा ' गोदोहमास्ते' इति, गन्तव्याध्वनः कर्मत्वं यथा "Aho Shrutgyanam" Page #361 -------------------------------------------------------------------------- ________________ कलाध्वनोरत्यन्तसंयोगे इति] व्युत्पत्तिवादः। (३४९). नुशिष्यते । अन्ये तु क्रियान्तराऽन्तर्भावेनोक्तरीत्या तत्र पाक्षिकं कर्मप्रत्ययमुपपादयन्तस्तन्नानुशासति. उक्तं च तैः “कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वैरकर्मकैयोंगे कर्मत्वमुपजायते ॥” इति । तन्मते च 'मासमधीते । 'मासमास्ते , ' योजनं धावति' इत्यादावाभिव्यात्यर्थे “ कालाध्वनोरत्यन्तसंयोगे” इत्यनेन द्वितीयाविधानं यद्यप्यनर्थकम्धात्वर्थेऽध्ययनस्थित्यादिविशेषणतयाऽभिव्यापनात्मकक्रियाया अन्तर्भावेन तत्कमतया तत्र तत्र द्वितीयोपपत्तेः, ताशधात्वथ व्याप्त्यनन्तर्भावे 'मासमास्ते ' इत्यादौ द्वितीयया तद्बोधनपि ' आस्यते मासः' इत्यादौ मासादौ स्थित्यादि. 'क्रोशमास्ते ' इति । अन्ये सूत्रकारादयस्तु कालादीनां कर्मसंज्ञाविधानं न कुर्वन्ति 'मासमास्ते' इत्यादावासनरूपधात्वर्थे क्रियान्तरस्य अभिव्याप्तिरूपक्रियाया अन्तर्भावोस्ति- मासाद्यभिव्याप्तेरासनादौ सत्त्वे एव कालादीनां कर्मत्वस्येष्टत्वादिति तादृशाभिव्याप्त्यैव कर्मत्वस्य प्राप्तेः केवलं कर्मप्रत्ययम्= "कालाध्वनोरत्यन्तसंयोगे" इत्यनेन द्वितीयाविधानं कुर्वन्ति । अत्यन्तसंयोगे एव द्वितीया भवति नान्यत्र 'मासस्य द्विरधीते' इत्यादावित्यभिप्रायेणोक्तम्- पाक्षिकमिति । तत्-कर्मत्वम् । कर्मत्वस्य स्वयं प्राप्तौ प्रमाणमाह- कालभावेति, अन्ताभूल अभिव्याप्तिरूपा क्रिया येषामेतादृशेरकर्मकैर्धातुभियोंगे कालभावाध्वदेशानामभिव्याप्तिनिरूपितं कर्मत्वमुपजायते एवाऽभिव्याप्तेः सकर्मकत्वादिति कालादीनामकर्मकधातुयोगे कर्मसंज्ञाविधानस्य प्रयोजनं नास्तीत्यर्थः । तन्मते चेति- तन्मते-कालादीनामुक्तरीत्या स्वयमेव कर्मत्वप्राप्तिमते .' मासमधीते ' इत्यादौ धात्वर्थभूताध्ययनस्थित्यादिविशेषणीभूताया अभिव्याप्तिक्रियाया धात्वथेऽन्तर्भावोस्तीति धात्वर्थस्याकर्मकत्वेप्यन्तर्भूताभिव्याप्तिक्रियायाः सकर्मकत्वेन कालादीनां तत्कमतया तत्र तत्र= कालादिबोधकमासादिपदोत्तरम् “ कर्मणि द्वितीया " इत्यनेनैव द्वितीयाप्राप्तिः संभवतीति पुनातीयाविधानं यद्यप्यनर्थकमेवेत्यर्थः । विशेषणस्यैवान्तर्भावसंभवादऽभिव्यापनात्मकक्रियाया अध्ययनादिविशेषणत्वमुक्तम्- अध्ययनस्थित्यादीति । नन्वेवं विनिगमनाविरहात कमसंज्ञाविधानमेवानर्थक कि न स्यात्- 'मासमास्ते' इत्यादौ द्वितीययैव कर्मत्वबोधसंभवादित्याशक्याह- तादृशधात्वर्थेति, तादृशधात्वर्थे अकर्मकधात्वर्थेऽभिव्याप्त्यनन्तर्भावपक्षेपि 'मासमास्ते ' इत्यादौ द्वितीयया तद्बोधनेपिः-कर्मत्वबोधनेपि तथाऽभिव्याप्तिबोधनेपि 'आस्यते मासः' इत्यत्र मासपदोत्तरद्वितीयाऽभावात् कर्मत्वबोधनं न संभवति तथा च मासस्य स्थितिव्याप्यत्वभानमपि न संभवति. आसधातोरकर्मकत्वेन तदुत्तरं कर्माख्यातमपि न स्यात् . कर्मसंज्ञाविधाने तु धातोरकर्मकत्वेपि मासादीनां संज्ञया कर्मत्वप्राप्तौ तत्र कर्माख्यातं संभवति मासादौ स्थित्यादिव्याप्यत्वभानमपि संभवति-- कर्मत्वादिति कमसंज्ञा विधानं नानथक किं तु द्वितीयाविधायक "Aho Shrutgyanam" Page #362 -------------------------------------------------------------------------- ________________ ( ३५० ) सादर्श: [ द्वितीयाकारकद्वितीयखण्डे - 2 " + व्याप्यत्वलाभाऽनिर्वाहात्, तथापि ' मासं रमणीया 'क्रोशं कुटिला नदी इत्यादौ भवतीत्यस्यानध्याहारेपि द्वितीयायाः साधुतानिर्वाहकत्वेन भाष्यकृतस्तत्सूत्रं सार्थकयन्ति तत्र हि रमणीयत्वाभिव्याप्यत्वं मासादौ प्रतीयते न च तत्र क्रियासमभिव्याहारोस्ति यत्राभिव्याप्तिरन्तर्भविष्यति तत्कर्मतया द्वितीया च स्यात् । एवम् ' मासमासिता ' इत्यादावभिव्याप्त्यन्तर्भावेन मासस्यं कर्मत्वोपपादपि कृद्योगात् षष्ठयेव स्यान्न द्वितीयेत्यतोपि तत्सूत्रं सार्थकम् । अथ केयमभिव्याप्तिर्याऽत्यन्तसंयोग इत्युच्यते ?, न तावद् - व्याप्यवृत्तिः सूत्रमेवानर्थकमित्यर्थः । द्वितीयाविधायक सूत्र सार्थक्यमाह - तथापीति, 'वनराजिर्मासं रमणीया " इत्यादौ भवतीत्यादिक्रियाध्याहारे तत्राभिव्याप्तेश्चान्तर्भावे तादृशाभिव्याप्तिनिरूपितं मासादीनां कर्मत्वं संभवति. अनध्याहारपक्षे तु क्रियैव कापि नास्ति यदन्तर्भूताभिव्याप्तिनिरूपितं मासादीनां कर्मत्वं स्यादिति. कर्मत्वाप्राप्तौ च द्वितीयायाः साधुत्वं न स्यादित्यनध्याहारपक्षे द्वितीयायाः साधुत्वार्थे भाष्यकृतः = भाष्यकारा द्वितीयाविधायकसूत्रं सार्थकयन्ति । उपपादयति-तत्रेति, तत्र = " मासं रमणीया ' इत्यादौ । तत्कर्मतया = अभिव्याप्तिकर्मतया । सूत्रसार्थक्ये उदाहरणान्तरमाहएवमिति, ' मासमासिता ' इत्यत्र मासस्य धात्वर्थेऽन्तर्भूताभिव्याप्तिनिरूपित कर्मत्वप्राप्तावपि - सूत्राभावे " कर्तृकर्मणोः कृति " इत्यनेन षष्ठयेव मासपदोत्तरं स्यात्- कृद्योगात् न तु द्वितीया न चात्र षष्ठोष्टेति द्वितीयाविद्यायकं सूत्रं सार्थकमेव सूत्रे सति षष्ठीं बाधित्वा सूत्रेण द्वितीयाप्राप्तिसंभवादित्यर्थः । ' आस्यते मासः ' इत्यादौ कर्मसंज्ञाविधानमपि सार्थकम् | कालाध्वनोरत्यन्तसंयोगे" इत्यनेनाध्ययनादौ मासादिव्यापकत्वे द्वितीया स्यादिति प्रतिपादनादऽत्यन्तसंयोगपदेन याभिव्याप्तिरुच्यते तत्स्वरूपं पृच्छति - अथेति । न तावदित्यस्य इति युक्तमित्यनेनान्वयः । ननु व्याप्यवृत्तिः = व्यापको यः कालिकसंबन्धः स एवाभिव्याप्तिरस्ति 'मासमधीते ' इत्यत्राध्ययनस्य कालिकसंबन्धेन संपूर्णमासकृत्तित्वाद् व्याप्यवृत्तित्वं कालिकसंबन्धस्य लभ्यते, कालिकसंबन्धस्य व्याप्यवृत्तित्वं च मासव्याप्यदिनादिकालेनाऽनवच्छिन्नत्वमेव, यत्र च मासादिनिष्ठोपि कालिकसंबन्धो दिवसादिमात्रवृत्तित्वाद् दिवसाद्यवच्छिन्न एव तत्र कालिकसंबन्धस्य मासे व्याप्यवृत्त्याऽभावात् ' मासमास्ते ' इत्यादिः प्रयोगो न भवति, मासे व्याप्यवृत्त्या सत्त्वे च प्रयोगो भवतीति दोषाभावात् यत्कालिक संबन्धस्य मासादिव्याप्यवृत्तित्वं तदेवाभिव्याप्तिपदार्थः । मासपदार्थश्च त्रिंशदिनमात्र स्थायी कश्चिदखण्डपदार्थ एव ग्राह्यो न तु क्रियाप्रचयः=सूर्यपरिस्पन्दसमूहः, तथा सति = क्रियाप्रचयस्य मासपदार्थत्वे हि एकदिनमात्रनिष्ठसंबन्धस्यापि कासुचित् क्रियासु व्याप्यवृत्तितया ( एकदिनमात्राध्ययनस्थित्यादेः सत्त्वाद् दिनादिसमूहस्यैव च मासपदार्थत्वात् ) तत्र = तादृशदशायामपि तथाव्यवहारापत्तेः=' मासमास्ते ' मासमधीते ' इत्यादिप्रयोगः स्यादिति तद्वारणाय त्रिंशद्दिनस्थायी कश्चिदखण्डपदार्थ एव मास इति स्त्रीकार्यमित्याशङ्क्याह - न तावदिति, इति युक्तमित्यन्तं पूर्वपक्षः । युक्तत्वाभावे हेतुमाह 4 66 "Aho Shrutgyanam" Page #363 -------------------------------------------------------------------------- ________________ ६ उक्ताभिव्याप्तिविचारः j व्युत्पत्तिवादः । ( ३५१ ) कालिकः संबन्धः कालिकसंबन्धस्य व्याप्यवृत्तित्वं व्याप्यकालानवच्छिन्नत्वम्, दिवसादिमात्रवृत्तिर्मासादिनिष्ठ संबन्धो दिवसाद्यवच्छिन्न इति तत्र ' मासमास्ते' इति न प्रयोगः । मासपदार्थश्चात्र त्रिंशद्दिनमात्रस्थायी कश्चिदखण्डः पदार्थों न तु क्रियाप्रचयः - तथा सति दिनैकादिमात्रस्थायिनोपि संबन्धस्य कासुचित् क्रियासु व्याप्यवृत्तितया तत्र तथाव्यवहारापत्तेरिति युक्तम्- ' चैत्रो मासं काश्यां तिष्ठति इत्यादौ काशीसंयोगस्य मासव्यापकस्यैकस्याभावेऽप्रामाण्यप्रसङ्गात्-- संयोगव्यक्तीनां मासनिष्ठकालिक संबन्धस्यावान्तरदण्डाद्यात्मककालावच्छिन्नत्वात् । न च संयोगानां भेदेपि चैत्रीयसंयोगत्वाद्यवच्छिन्ननिरूपित कालिकसंबन्धावच्छिन्नाधारता मासव्यापिकैकैव सा च नावान्तरकालावच्छिन्नेति तत्र तदनवच्छिन्नत्ववोधकमुक्तवाक्यं भवेदेव प्रमाणमिति वाच्यम्, सामान्यघटित विशेषधमविच्छिन्नाधिकरणताकूटादेव सामान्यधर्मावच्छिन्नवत्ताप्रत्ययोपपत्तेः शुद्धसामाचैत्र इति । यदि त्रिंशदिनमात्रस्थाय्यखण्डपदार्थ ( काल ) संबन्ध एवाभिव्याप्तिः स्यात्तदा 'चैत्रो मासं काश्यां तिष्ठति ” इत्यादिवाक्यस्य प्रामाण्यं न स्यात् - मासव्यापकस्यैकस्य काशीसयोगस्याऽसंभवाद् गमनादिना पूर्वपूर्वसंयोगस्य नाशात् तथा संयोगव्यक्तीनां यो मासनिष्टका - लिसंबन्धस्तस्य मासावान्तरदण्डादिकाले खच्छिन्नत्वात् - संयोगस्यैकत्वाभावादिति नोक्तनिरूपणं युक्तमित्यर्थः । नतु ' मासं काश्यां तिष्ठति ' इत्यत्र संयोगव्यक्तीनां दण्डाद्यात्मककालभेदेन भेदेपि संयो-गत्वेन सकलसंयोगानामेकत्वात् संयोगत्वावच्छिन्ननिरूपिता कालिकसंबन्धावच्छिन्ना काशीनिवाघारता मासव्यापिकेकैव नाऽवान्तरदण्डाद्यात्मककालावच्छिन्नेति तदनवच्छिन्नत्वबोधकम् = अवान्तरदण्डाद्यनवच्छिन्नत्वबोधकम् 'मासं काश्याम्' इत्युक्तवाक्यं तत्र = मासव्याप कोक्ताधारतायां भवेदेव प्रमाणमिति नोक्ताऽप्रामाण्यापत्तिप्रसङ्ग इत्याशङ्क्याह-न चेति । तत्तद्विशेषव्यक्तिनिरूपिताधिकरणतास्त्रीकारेण निर्वाहः संभवतीति सैव स्वीक्रियते न तु सामान्यधर्मावच्छिन्ननिरूपिता सामान्यत एकाधिकरणतेति न संयोगत्वावच्छिन्ननिरूपिता मासव्यापिका काश्यामेकाधिकरणता · संभवतीति संयोगव्यक्तिभेदादधिकरणताभेदे प्राप्ते कालभेदेन च संयोगानां भेदे प्राप्ते मासव्यापकेकसंयोगासंभवात् ' मासं काश्याम् ' इत्यस्योक्तमप्रामाण्यं स्यादेवेत्यभिप्रायेण परिहरति-- सामान्यघटितेति, विशेषधर्मोपि सामानाधिकरण्येन सामान्यधर्मघटित एव भवतीति सामान्य (संयोगत्व ) घटित विशेषधर्मस्तदूव्यक्तित्वं तत्तत्संयोगव्यक्तिनिष्ठतत्तद्व्यक्तित्वधर्मावच्छिन्ननिरूपिताधिकरणताकूटादेव = तत्तदधिकरणताभिरेव सामान्यधर्मो यः संयोगत्वं तदवच्छिन्नवत्ता = तदवच्छिन्ननिरूपिताधिकरणताप्रत्ययोपपत्तेः ( निर्वाहातू ) केवलं सामान्यधर्मावच्छिन्न= संयोगत्वावच्छि निरूपितायामतिरिक्तायामधिकरणतायां मानाभावात्, तत्तत्संयोगव्य क्तिनिरूपिताधिकरणता च 7 " Aho Shrutgyanam" - Page #364 -------------------------------------------------------------------------- ________________ (३५२) सादर्श:- [द्वितीयाकारकद्वितीयखण्डेन्यधर्मावच्छिन्ननिरूपिताधिकरणतायामतिरिक्तायां मानाभावात् । यत्र त्रिंशद्दिनेषु कमापि कालमधीतं तत्र मासेऽध्ययनसंबन्धस्याऽव्याप्यवृत्तितया 'मासमर्धाते' इति प्रयोगानुपपत्तिरपि न शक्यते वारयितुम् । उच्यते-अभिव्याप्तिर्याक्दवयवसंबन्धः, यत्समुदायो मासादिपदार्थस्त एव तदवयवाः, एवं च त्रिशदिनानां मासपदार्थतया त्रिंशदिनेषु किंचित्किचित्कालावच्छेदेनाध्ययनसंबन्धेपि 'मासमधीते' इतिप्रयोगोपपत्तिः। त्रिशदिनसंबन्धश्च दिनपर्याप्तत्रिंशत्त्वव्यापकत्वम् , तादृशत्रिंशत्त्वादेश्च मासादिपदप्रवृत्तिनिमित्तस्य मासादिपदादेव लाभाद् व्यापकत्वमात्रं द्वितीयार्थः। व्यापकत्वं च व्याप्यविशेषाऽघटितमखण्डं दुर्वचमिति खण्डशोऽभावप्रतियोगितावच्छेदकत्वमऽभावश्च द्वितीयार्थः। प्रथमाभावे प्रकृत्यों मासादिराधेयनैका संभवति दण्डादिभेदेन भेदादित्युक्तवाक्यस्याप्रामाण्यं तदवस्थमेवेत्यर्थः । किं च मासस्याऽखण्डपदार्थत्वे यत्र त्रिंशदिनेष्वपिः किंचित् किंचित् कालमधीतं न तादृशाखण्डकालपर्यन्तं तत्र मासेऽध्ययनसंबन्धस्य व्याप्यवृत्तित्वाभावात् ' मासमधीते ' इतिप्रयोगानुपपत्तिरेव, इष्टं च तत्रास्य वाक्यस्य प्रामाण्यमित्याह-- यत्रेति । कमपीत्यस्य नित्यं प्रति कमपीत्यर्थः । पृष्टमभिव्याप्तिस्वरूपमाह- उच्यते इत्यादिना । यावत् सकलः । यत्समुदाय: दिनादीनां समुदायः । ते-दिनादयः । तदवयवा:- मासावयवाः । उपसंहरति-- एवं चेति, यावदवयवसबन्ध एवाभिव्याप्तिासावयवाश्च दिनान्येवेति प्रत्येकदिने किंचित्कालाध्ययनैपि त्रिंशािदनरभ्ययनसंबन्धस्य जातत्वेन तत्र 'मासमधीते ' इतिप्रयोग उपपद्यते एवेत्यर्थः । त्रिंशदिनसंबन्धपदार्थमाह- त्रिंशदिनेति, त्रिंशदिनपर्याप्तं यत् त्रिंशत्त्वं तद् व्यापकत्वमेव त्रिंशद्दिनसंबन्धपदार्थः । त्रिंशदिनपर्याप्तत्रिंशत्त्वं च मासपदप्रवृत्तिनिमित्तत्वान्मासपदलम्यमेवेति पारिशेष्याद् व्यापकत्वमानं द्वितीयार्थः । तथा च त्रिंशदिनव्यापकाध्ययनकर्ता चैत्र इति वाक्यार्थबोधः । एवम् * मासं काश्याम् ' इत्यत्रापि मासावयवदिनेषु काश्यावयवप्रदेशेषु च संयोगोस्त्येवेति भवेदेव प्रामाण्यमिति ध्येयम् । ‘मासमधीते ' इत्यादौ द्वितीयार्थभूतं यदध्ययनादौ मासादिव्यापकत्वं तस्य स्वरूपमाहव्यापकत्वं चेति, अखण्डं व्यापकत्वं व्याप्यविशेषाऽघटितं दुर्वचमेव तथाहि यथा 'धूमसमानाधिकरणात्यन्ताभावाऽप्रतियोगित्वं व्यापकत्वं वह्नौ ' इत्यादी धूमादिलक्षणव्याप्यघटितमेव व्यापकत्वं 'वक्तुं शक्यते तथात्रापि 'मासत्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं व्यापकत्वमध्ययने । 'इत्येवं मासत्वलक्षणव्याप्यघटितमेवाऽखण्डं व्यापकत्वं वक्तुं शक्यते एतादृशाखण्डस्य व्याप्यघटितस्य व्यापकत्वस्य द्वितीयार्थत्वे तद्धटितस्य व्याप्यस्य मासत्वस्यापि द्वितीयार्थत्वं प्राप्नुयात् न च मासत्वस्य द्वितीयार्थत्वं युक्तं मासत्वस्य प्रकृतिभूतमासपदवाच्यत्वात् द्वितीयार्थस्वस्वीकारे च -मासत्वस्य द्विधा भानप्रसङ्गाद्. व्याप्यानामनन्तत्वेन व्याप्यभेदेन व्यापकत्वभेदापत्त्या तदनुगमा. संभवाच खण्डशोऽभावप्रतियोगितावच्छेदकत्वमभावश्च द्वितीयार्थ इत्युच्यते अर्थात्-व्याप्यस "Aho Shrutgyanam Page #365 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः । ( ३५३ ) उक्ताभिव्याप्तिविचारः ] तासंबन्धेनान्वेति । मासादिनिष्ठाभावप्रतियोगितावच्छेदकत्वत्वावच्छिन्नस्य च प्रतियोगितयाऽभावान्तरेऽन्वयः, तस्य चान्वयितावच्छेदक चैत्रकर्तृकाध्ययनत्वादिरूपस्वाश्रयघटित परम्परासंबन्धेनाऽध्ययनादावन्वयः । प्रथमाभावे च प्रतियोगिव्यधिकरणत्वं विशेषणमुपादेयम्, तेन त्रिंशद्दिनेष्वेव च यत्राधीतं तत्र दिनावान्तरदण्डादावऽध्ययनाभावेप्युक्तप्रयोगोपपत्तिः । मासपदं च त्रिंशद्दिनपरमेव न तु तावत्कालस्थाय्यखण्डवस्त्वन्तरपरम् - एकदिनामानाधिकरणो योऽत्यन्ताभावस्तादृशाभावप्रतियोगितावच्छेदकत्वाभाववत्त्वमत्र व्यापकत्वं ग्राह्यमस्ति > तस्यैव खण्डद्वयं कृतम् - " अभावप्रतियोगितावच्छेदकत्वमऽभावश्च इति एतादृशं खण्डशो व्यापकत्वं द्वितीयार्थः, अत्र मासत्वप्रवेशाभावान्नोक्तदोषप्रसङ्ग इति भावः । तत्र ' मासमधीते ' इत्यत्र मासेऽध्ययनाभावस्तु नास्तीति नृत्याभावो ग्राह्य इति मासनिष्टो यः मासे नृत्यं न इत्याकारकोऽत्यन्ताभावस्तत्प्रतियोगि नृत्यं प्रतियोगितावच्छेदकत्वं नृत्यत्वे प्राप्तं प्रतियोगितावच्छेदकत्वाभाववत्त्वमध्ययनत्वे वक्ष्यमाणसंबन्धेन चाध्ययने प्राप्तं तदेव व्यापकत्वं तत्र प्रथमाभावो मासनिष्ठ एवेति प्रथमाभावे द्वितीयाप्रकृत्यर्थस्य मासस्याऽऽधेयता संबन्धेनान्वय इत्याहप्रथमाभावेति । द्वितीयाभावस्य मासनिष्ठाभावप्रतियोगितावच्छेदकत्वाभावस्य प्रतियोगि मासनिष्ठाभावप्रतियोगितावच्छेदकत्वमेवेति तस्य तादृशद्वितीयाभावे प्रतियोगितया = प्रतियोगितारूपेण स्वप्रतियोगिकत्वसंबन्धेन चान्वय इत्याह- मासादिनिष्ठेति । अभावान्तरे द्वितीयाभावे । तस्य द्वितीयाभावस्य ( मासनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकत्वाभावस्य ) चान्वयितावच्छेदकं यञ्चैत्रकर्तृकाध्ययनत्वम् ( अध्ययनस्यैव विशेष्यत्वादन्वयित्वम् ) तद्रूपो यः स्वाश्रयस्तद्घटितेन परम्परा संबन्धेन = स्वाश्रयाध्ययनत्ववत्त्व संबन्धेनाध्ययनेऽन्वयः तथा हि-स्वं द्वितीयाभावः, मासनिष्ठाभावप्रतियोगितावच्छेदकत्वस्याभावोऽध्ययनत्वे वर्तते अध्ययनत्वस्य मासनिष्टाभावप्रतियोगितानवच्छेदकत्वादिति स्वस्य द्वितीयाभावस्याश्रयो यदध्ययनत्वं तद् अध्ययने वर्तते एवेति तादृशस्वाश्रयीभूताध्ययनत्ववत्त्वसंबन्धेन द्वितीयाभावस्याध्ययनेऽन्वय इति द्वितीयाभाववत्त्वादSध्ययनस्य मासव्यापकत्वं प्राप्तमेवेत्यर्थः । मासत्वस्य व्याप्यत्वेन मासत्वव्याप्यमासस्यापि व्यायत्वं सुमहमेवेति विज्ञेयम् । प्रथमाभावेति – प्रथमाभावः प्रतियोगिव्यधिकरणः - दिनादिनिष्ठोऽध्ययनव्यधिकरणो नृत्याद्यभाव एव ग्राह्यस्तेन त्रिंशदिनेष्वपि यदा नित्यं किंचित् किंचित् कालमधीतं तत्र दिनावान्तरदण्डे - starrer भावेपि ' मासमधीते ' इति प्रयोगानुपपत्तिर्नास्ति एतादृशस्याऽध्ययन समानाधिकरणस्याध्ययनाभावस्याभावपदेनाऽग्रहणात् प्रतियोगिव्यधिकरणस्यैवाऽभावस्य ग्रहणात् अन्यथा प्रत्येकदिनेष्वध्ययनवदध्ययनाभावस्यापि सत्त्वाद् मासनिष्ठाभावप्रतियोगित्वमेवाध्ययनस्य स्यादिति मासमधीते ' इति प्रयोगो नोपपद्येतेत्यर्थः । “त्रिंशद्दिनेष्वेव” इत्यत्रत्य एवकारोऽयोगव्यवच्छेदपरः । मासपदार्थमाह-मासपदं चेति । यदि मासपदं त्रिंशदिनस्थाय्यखण्डपदार्थपरं स्यात्तदा t २३ "Aho Shrutgyanam" 33 Page #366 -------------------------------------------------------------------------- ________________ ( ३५४ ) [ द्वितीयाकारकद्वितीयखण्डे ध्ययनस्थलेपि तादृशाखण्डकाले प्रतियोगिव्यधिकरणाध्ययनाभावासत्त्वेन 'मासमधीते ' इति प्रयोगापत्तेः । मासघटकं च दिनं सूर्योदयावधि सूर्योदयान्तरपर्यन्तावस्थाय्य खण्डवस्तुरूपं न तु क्रियादिप्रचयः - तथा: सत्येकैकक्रियादिव्यक्तेरपि मासत्वाधिकरणतया तत्र प्रतियोगिव्यधिकरणाध्ययनाभावसत्त्वेन व्यापकत्वरूप द्वितीयार्थस्य बाधापत्तेः । दिवस स्वपिति' इत्यादौ च दिवसादिपदं सूर्योदयावधि सूर्योदयान्तरपर्यतक्षणकूटपरमेव अतो नैकदण्डादिमात्रस्वमे तथाप्रयोगः । अथ व्यापकत्वस्य द्वितीयार्थत्वे एकमासादिव्यापकाध्ययनस्थलेपि मासा - न्तरेऽध्ययनाभावसत्त्वेन मासत्वादिव्यापकताया अध्ययने बाधेन ' मासमधीते ' -मासस्यैकस्मिन्नपि दिवसेऽध्ययने कृते तादृशाखण्डकालेऽध्ययनं जातमेवेत्यऽध्ययनव्यधिकरणस्याऽध्ययनाभावस्य तादृशाखण्डकालेऽसत्त्वेन तत्रापि ' मासमधीते ' इतिप्रयोगः स्यादेव प्रतियोगिव्यधिकरणाभावासत्त्वं एतत्प्रयोगस्येष्टत्वादित्यर्थः । दिनपदार्थमाह- मासघटकं चेति । क्रियादिप्रचय: == सूर्यपरिस्पन्दप्रचयः । तथा सति यदि क्रियासमूह एव दिनपदार्थ: स्यात्तदा एकैकक्रियाव्यक्तेरपि मासत्वाधिकरणत्वं स्यात्तथा च तादृशक्रियावच्छेदकदण्डादिषु प्रतियोगिव्यधिकरणस्याप्यध्ययनाभावस्य सत्त्वादेवाध्ययने व्यापकत्वाप्रात्या द्वितीयार्थो व्यापकत्वं नैव संभवेत्, न हि दिनस्य प्रत्येकक्षणे प्रत्येकदण्डे वाध्ययनं भवति किं तु केषुचिदेव दण्डेषु दिनस्याखण्ड पदार्थत्वे दिनस्य कस्मिन्नपि भागेऽध्ययने कृते . मासत्वाविकरणीभूतदिनेष्वध्ययनसंचन्द्राध्ययनस्य मासव्यापकत्वं संभवतीत्यर्थः । दिवस स्वपिति इत्यत्र दिवसपदं सूर्योदयावधि सूर्योदयान्तरपर्यन्तक्षणकूटर तादृशक्षणकूटेन स्वापसंबन्धे सत्येव ' दिवस स्वपिति इति प्रयोगो भवति न तु दण्डमात्रस्वप्रपीत्याह-दिवसमिति । अत्र दिवसपदस्याखण्डवस्तुपरत्वे एकदण्डमात्र स्वप्नेध्यखण्ड पदार्थेन स्वापसंबन्धे जाते ' दिवस : स्वपिति ' इतिप्रयोगः स्यात् न चैतदिष्टमिति तद्वारणाय दिवसपदस्य तादृशक्षण कूटपरत्वमुक्तमिति भावः । मासव्यापकत्वं चाध्ययने उच्यते मासत्वावच्छिन्न व्यापकत्वस्याध्ययने ननु ' मासमधीते ' इत्यत्र यदि व्यापकत्वं द्वितीयार्थो तदा मासान्तरस्यापि मासत्वाद् मासान्तरेऽध्ययनाभावे बाधान्मासव्यापकाध्ययनस्थलेपि ' मासमधीते ' इति प्रयोगानुपपत्तिरित्याशङ्कते - अथेति । ननु यद्यपि मासपदेन यत् किंचित्रिंशद्दिनमात्रवृत्ति विशेष धर्मप्रकारेण त [=तदूव्यक्तित्वेन रूपेण मासपदार्थस्योपस्थितिर्न संभवति येनाध्ययनस्योपस्थिततन्मासव्यक्तिमात्रव्यापकत्वं प्रामुयात् तथापि तद्धर्मवत् =मासत्त्रधर्मवत् यत्स्त्रं तन्मासव्यक्ति: ( अध्ययनाधिकरणमासव्यक्तिः ) तन्निरूपित यदाधेयत्वम् ( पूर्वं मासाधेयत्वं प्रथमाभावे उक्तं तत्स्मरणीयम् ) तादृशाधेयत्व संबन्धेन मासपदार्थस्योक्तप्रयमाभावेऽन्वयः स्वीक्रियते इति यत् किंचिन्मास ( तम्मासव्यक्ति-मध्ययनाधिकरणमा 4 सादर्श: ( "Aho Shrutgyanam" Page #367 -------------------------------------------------------------------------- ________________ द्वितीयाया व्यापकत्वार्थकत्वेविचारः ] व्युत्पत्तिवादः । इत्यादिप्रयोगानुपपत्तिः। न च मासपदेन यकिंचित्रिंशदिनमात्रवृत्तिविशेषधर्मप्रकारेणानुपस्थापनेपि तद्धर्मवत्स्वनिरूपिताधेयत्वसंबन्धेन मासपदार्थस्याभावेऽन्वयोपगमाद् यत्किंचिन्मासनिष्ठाभावप्रतियोगितानवच्छेदकत्वमन्वयितावच्छेदके लभ्यते इति न काप्यनुपपत्तिरिति वाच्यम्, तत्तन्मासमात्रवृत्तिधर्मविशेषाणां संबन्धघटकत्वेपि शाब्दबोधे संसर्गतात्पर्यज्ञानस्य हेतुतया संसर्गविशेषो. पस्थितेरपेक्षितत्वात् । संबन्धघटकतादृशधर्मान् विशिष्याऽविदुषः शाब्दबोधानुदयप्रसङ्गात् । न चेष्टापत्तिः- अनुभव विरोधात् । अनागतादिमासवृत्तिताहशधमाणां विशिष्य ज्ञानसामग्र्या असर्वज्ञस्य दुर्लभतयाऽस्मदादीनां सर्वेषामेव ताहशमासत्वव्यापकताबोधोच्छेदप्रसङ्गात् । सव्यक्ति ) निष्ठाभावप्रतियोगितानवच्छेदकत्वमन्वयितावच्छेदके अध्ययनत्वे लभ्यते तद्वत्त्वं चाध्ययनेऽस्त्येवेत्येवंरूपेण तन्मासव्यक्तिव्यापकत्वमध्ययने सुलभमेव, तन्मासव्यक्तेश्च संसर्गको टिप्रवेशात्तदुपस्थितेरप्यपेक्षा नास्तीति न काप्यनुपपत्तिरित्याशङ्क्याह-न चेति । परिहारमाहतत्तन्मासमात्रेति, यथा नौलो घटः' इत्यत्रत्यबोधे 'नीलो घटः' इतिवाक्यमभेदसंसर्गबोधक भवतु इत्येवं संसर्गविषयकतात्पर्यज्ञानस्यापि हेतुत्वं भवति तथा 'मासमधीते ' इत्यत्रापि तत्तन्मासवृत्तिविशेषधर्माणाम्=तव्यक्तित्वानां संबन्धघटकत्वेपि शाब्दबोधे 'मासमधीते ' इतिवाक्यं तन्मासव्यक्तित्वसंसर्गबोधकं भवतु इत्येवं संसर्गविषयकतात्पर्यज्ञानस्य हेतुत्वे प्राप्ते तद्व्यक्तित्वरूपस्यापि संसर्गस्योपस्थित्यपेक्षा प्राप्तव तथा च मासपदेन तद्व्यक्तित्वेन रूपेण मासपदार्थोपस्थिति विना निर्वाहो नास्ति न च तद्व्यक्तित्वेनोपस्थितिः संभवति. मासत्वावच्छिन्नयावन्मास. व्यापकत्वं चाध्ययने बाधितमेवेति 'मासमधीते:' इतिप्रयोगानुपपत्तिरेवेत्यर्थः । किं च संबन्धघटकतद्व्यक्तित्वरूपधर्मज्ञानाभाववतः ( माघमासेऽनेनाधीतमित्यादिज्ञानामाववतः) 'मासमधीते ' इत्यनेन शाब्दबोधो न स्यात् न चैतदिष्टं विशिष्य तादृशधर्मज्ञानाभावेपि शाब्दबोधोदयदर्शनादित्याह- संबन्धघटकेति । भूततत्तन्मासव्यक्तित्वादिधर्माणां विशेषरूपेण ज्ञानसंमवेपि 'मासमध्येष्यते' इत्यादौ भविष्यन्मासवृत्तीनां तादृशधर्माणाम्-तव्यक्तित्वधर्माणां विशेषरूपेण ज्ञानसामध्याः उपस्थित्यादेरस्मदाधऽसर्वज्ञानां दुर्लभतया असंभवादऽध्ययने तादृशभविष्यत् ) मासत्वव्यापकताबोधस्योच्छेद एव स्याद् ज्ञानसामञ्या दुर्लभत्वे ज्ञानस्यासंभवादिति न तव्यक्तित्वस्य संबन्धकोटिप्रवेशोप्यऽदुष्ट इत्याह- अनागतेति । ___ ननु ‘मासमधीते' इत्याकारकवाक्यार्थविषयकं यदेव तात्पर्य तदेव संसर्गविषयकमपि तात्पर्यम्. 'मासमधीते' इत्याकारकवाक्यजन्यज्ञाने च वाक्यार्थघटको यस्तन्मासव्यक्तित्वघटित: संबन्ध उक्तरूपः (तद्धर्मवत्स्वनिरूपिताधेयत्वसंबन्धः) स संसर्गमर्यादयेव भासते इति विशेषरूपेणोपस्थित्यपेक्षाभावाद्विशेषरूपेणानुपस्थितस्येघोक्तधर्मेण-तन्मासव्यक्तित्वधर्मेण घटितस्य सेबन्धस्य-तन्मा "Aho Shrutgyanam" Page #368 -------------------------------------------------------------------------- ________________ सादर्शः- [ द्वितीयाकारकद्वितीयखण्डेन च तादृशवाक्यार्थतात्पर्यमेव संसर्गतात्पर्यम् . उक्तज्ञाने च वाक्यार्थघटक: संबन्धः संसर्गमर्यादयैव भासते इति विशेषरूपेणानुपस्थितस्यैवोक्तधर्मघटितसं. बन्धस्य तात्पर्यज्ञाने बाधाभावबलात् शाब्दबोधे च तात्पर्यज्ञानबलादू भानमनपवादमेवेति वाच्यम्, एकपदार्थविशिष्टापरपदार्थरूपवाक्यार्थविशेषिततत्प्रतीतीच्छारूपतात्पर्यविषयकनिश्चयस्य प्राक् वाक्यार्थानिश्चये दुर्घटतया तस्य शाब्दधीहेतुत्वे च योग्यतासंशयाच्छाब्दबोधानुपपत्तेविंशकालततत्तत्पदार्थतत्तत्संसर्गविषयकत्वविशेषितप्रतीतीच्छाज्ञानस्यैव शाब्दधीहतुताया उपेयत्वात्. तत्र च तादृशसंसर्गोपस्थितेरवश्यापेक्षणीयत्वादिति चेत् ?, सव्यक्तिनिरूपिताधेयत्वसंबन्धस्य तात्पर्यज्ञाने बाधाभावबलाद् भानमऽनपवादंशाब्दबोधे च तात्पर्यज्ञानबलाद् भानमनपवादमेवेति तद्व्यक्तित्वरूपविशेषधर्मघटितसंसर्गस्याश्रयणेपि तेन संसर्गेण मासपदार्थस्याभावेऽन्वयोपगमेपि च न काप्यनुपपत्तिरित्याशझ्याह-न चेति । परिहारमाहएकपदार्थेति,एकपदार्थविशिष्टो योऽपरपदार्थः स एव वाक्यार्थो भवति तादृशवाक्यार्थविशेषिता या तत्प्रतीतीच्छा वाक्यार्थप्रत्यायनेच्छा तादृशेच्छारूपं यत् तात्पर्य तादृशतात्पर्यविषयकनिश्चयस्थ वाक्यार्थनिश्चयसापेक्षत्वेन वाक्यार्थनिश्चयात् पूर्व दुर्घटतया असंभवात्, वाक्याथबोधो न स्यादेव वाक्यार्थबोधकारणीभूतस्योक्ततात्पर्यनिश्चयस्य वाक्यार्थबोधात्पूर्वमसंभवात् , दोपान्तरमाह- तस्येति, किं चोक्ततात्पर्यनिश्चयस्य शाब्दबोधहेतुत्वस्वीकारे एकपदार्थेऽपरपदार्थवैशिष्ट्यरूपाया योग्यतायाः संशयेपि या शाब्दबोधोत्पत्तिः सर्वशास्त्रसिद्धास्ति सा नोपपद्येत यतस्त्वया ह्येकपदार्थविशिष्टापरपदार्थविषयकतापर्यनिश्चयस्यैव शाब्दबोधहेतुत्वमुक्तं योग्यतापि चैकपदार्थेऽपरपदार्थवैशिष्ट्यमेवेति योग्यतातात्पर्ययोरेकरूपत्वे प्राप्ते तात्पर्यनिश्चये हि योग्यतानिश्चयोपि स्थादेव सर्वत्रेति योग्यतासंशयेन शाब्दबोधस्य कचिदपि प्रसङ्गो न स्यान्न चैतदिष्टं योग्यतासंशयेनापि शाब्दबोधस्वीकारादिति योग्यतासंशयादपि शाब्दबोधोपपत्यर्थं विशकलितं यत् तत्तत्पदार्थविषयकत्वम् ( मासमधीते इति वाक्यमऽध्ययनस्य मासव्यापकत्वबोधकं भवतु इति ) तत्संसर्गविषयकत्वं च ( तन्मासव्यक्तिनिरूपिताधेयत्वसंसर्गबोधकं भवतु इति ) तान्यां विशेषिता या वाक्यार्थप्रत्यायनेच्छा तद्विषयकज्ञानस्यैव (एतादृशतात्पर्यज्ञानस्यैव ) शाब्दबोधहेतुता स्वीकार्या तत्र च एतादृशसंसर्गविषयकतात्पर्यज्ञाने च तादृशसंसर्गोपस्थिते:= विशकलितरूपेण प्रविष्टस्य संसर्गतात्पर्यज्ञानविषयीभूतसंसर्गस्योपस्थितेरवश्यमपेक्षासत्त्वात् तदेकदेशभूततन्मासव्यक्तित्वधर्माणामनुपस्थितौ शाब्दबोधो नेव संभवति, न च तादृशतद्व्यक्तित्वानामुपस्थितिः संभवति व वा यावन्मासव्यापकत्वमध्ययने संभवतीति शाब्दबोधानुपपत्तिरेवेति प्रयोगानुपपत्तिरपीत्यर्थः । अत्र च योग्यताया उक्तवैशिष्टयरूपत्वात् तात्पर्यस्य च विशकलितपदार्थविषयकत्वात्तयोर्मे दे प्राप्ते. तात्पर्यनिश्चयेपि योग्यतासंशयसंभवाद् योग्यतासंशये उक्तशाब्दबोधानुपपत्तिर्नास्तीति विज्ञेयम् । "Aho Shrutgyanam" Page #369 -------------------------------------------------------------------------- ________________ मासादिविचारः ] व्युत्पत्तिवादः । सत्यम् - मासादिघटकतावदिनादिनिष्ठत्रिंशत्त्वादिरूपमासत्वादिर्मासादिभेदेननानैव, मासादिपदप्रवृत्तिनिमित्तता परमनुगतरूपेण, अन्यथा शक्त्यानन्त्यमसङ्गात्, सर्वोपसंहारेण व्युत्पत्ति विना प्रागप्रतीतमासादेः शाब्दानुभवाऽनिर्वाहाच । न च त्रिंशत्त्वादिकं बुद्धिविशेषविषयत्वरूपं वाच्यम्- दिनादेर्द्रव्यानात्मकत्वेन तत्र गुणरूप संख्याया असंभवात्, द्रव्यात्मकत्वेपि क्रमिकेषु तेषु संख्योत्पतेरसंभवात्, तत्र बुद्धेरनतिप्रसक्तं वैलक्षण्यमनुगतं दुर्वचम् - जातिरूपस्य तस्य संकरप्रसङ्गनिरस्तत्वात्, तत्तद्दिनविषयकत्वरूपस्य तत्तद्दिनाद्यननुगमेनाऽननुगतत्वादिति वाच्यम्, तावत्कालस्थायिनो द्रव्यस्यापि दिनादिरूपत्वसंभवात् । मीमांसकानुयायिभिरगत्या संख्यायाः पदार्थान्तरत्वोपगमाच्च संख्यादिरूपनानादिनादिनिष्ठानुगतत्रिंशत्वादेः सुवचत्वात् । ( ३५७ ) अथेत्यादिनाऽऽशङ्कितस्योत्तरमारभते- सत्यमित्यादिना, मासान्तरेऽध्ययनाभावेऽध्यय'नस्य मासत्वावच्छिन्नव्यापकत्वं न संभवतीति यदुक्तं यद्यपि तत्सत्यं तथापि सकलमासेष्वेकं मासत्वं न स्वीक्रियते येनैषानुपपत्तिः स्यात् किं तु मासत्वस्य संख्यारूप त्रिंशत्त्वरूपत्वेन तादृशत्रिंशत्वस्य प्रत्येक मासभेदेन भेदसंभवात् प्रतिमासं मासत्वं भिन्नमेवेत्येकमासमात्राध्ययनस्थ लेप्य`ध्ययनस्य मासत्वावच्छिन्नग्यापकत्वलाभात् ' मासमधीते ' इतिप्रयोगे न काप्यनुपपत्तिरित्यर्थः । नन्वेवं मासपदशक्त्यानन्त्यं स्यादित्याशङ्क्याह- मासादिपदेति, अनुगतरूपेण = मासत्वत्वेन रूपेण | परमिति त्वर्थकः । मासत्वत्वस्य प्रवृत्तिनिमित्तत्वस्वीकारे हेतुमाह- सर्वेति, सर्वोपस'हारेण व्युत्पत्ति विना--सकलमासविषयकशक्तिग्रहं विना प्रागप्रतीतमासादे: भविष्यन्मासादेः शाब्दबोधविषयश्वासंभवात् । ननु संख्यादिरूपो गुणो द्रव्ये एव संभवति नाद्रव्ये दिने च क्रियाप्रचयरूपत्वात् न द्रव्यभूतमिति दिनेषु मासत्वरूपत्रिंशत्त्वस्य संख्यारूपस्य संभवाऽभावात् त्रिंशत्त्वं बुद्धिविशेषविषयत्वरूपम् ( अयमेको यमेक इत्याद्यपेक्षाबुद्धिविषयत्वरूपम् ) वाच्यम् = स्वीकार्यम्, दिनानां कालस्वरूपत्वेन द्रव्यात्मकत्वपक्षेपि त्रिंशदिनानामेकदा सत्त्वं न संभवति यत्र त्रिंशत्त्वसंख्याया उत्पत्तिः संभवेत् तस्मादपि त्रिंशत्वं बुद्धिविशेषविषयत्वमेव वाच्यम्, ननु तत्र 'मासमधीते ' इत्यत्र त्रिंशद्दिनेषु या त्रिंशत्त्वबुद्धिर्भवति तादृशबुद्धेरनतिप्रसक्तं यत् किमपि बैलक्षण्यं त्रिंशद्दिनमात्र पर्याप्तं तदेव त्रिंशत्वमिति वक्ष्यामो न तु बुद्धिविशेषविषयत्वं त्रिंशत्त्वमित्याशङ्क्याह- तत्रेति, एतादृशं वैलक्षण्यमनुगतं दुर्वचमेवेत्यर्थः, दुर्वचत्वे हेतुमाह- जातीति तादृवैलक्षण्यस्य जातिरूपत्वमपि वक्तुं न शक्यते केनापि धर्मेण तस्य सांकर्यं स्यादेव सांकर्ये च जातित्वं न संभवति तत्तद्दिनविषयकत्वरूपत्वमपि न वक्तुं शक्यते- तत्तद्दिनानामननुगमेन तद्घटितस्य तत्तद्दिनविषयकत्वस्याप्यननुगमादिति त्रिंशत्त्वादिकं बुद्धिविशेषविषयत्वमेव वाच्यमित्याशङ्क्याह-न चेति । परिहारमाह- तावदिति, तावत्कालस्थायिन:- सूर्योदयावधि सूर्योदयान्तरपर्यस्तस्थायिनः । त्रिंशदिनानां द्रव्यात्मकत्वे तेषु क्रमिकेष्वपि क्रमेण त्रिंशत्त्वरूपसंख्याया उत्पत्तौ "Aho Shrutgyanam" Page #370 -------------------------------------------------------------------------- ________________ (३५८) सादर्श:- [द्वितीयाकारकद्वितीयखण्डे. एवम्- 'मासमधीते चैत्रः' इत्यादावधिकरणतैव द्वितीयार्थः, मासादिपदार्थतावच्छेदकदिनपर्याप्तत्रिंशत्त्वादे(मविशेषणतापन्नस्य द्वितीयार्थाधिकरणतायां चैत्रकर्तृकाध्ययनाधारतात्वादिव्याप्यधर्मावच्छिन्नं स्वरूपसंबन्धरूपमऽवच्छेद्यत्वं संसर्गतया भासते इत्युपगमेन सामञ्जस्यात्, यत्किंचिदेकमासं व्याप्य यत्राधीतं तत्राऽध्ययनाधारतानामवच्छेद्यतावच्छेदकाधारतावृत्त्यऽन्यतमत्वविशे. बाधकं नास्तीत्यर्थः । मीमांसकमतमाह-मीमांसकेति,संख्यायाः पदार्थान्तरत्वे द्रव्यानात्मकेष्वपि त्रिशदिनेषु संख्यारूपत्रिंशत्त्वस्य सत्त्वे बाधकं नास्तीत्यर्थः । संख्यारूपं यन्नानादिनादिनिष्ठमनुगतं त्रिंशत्त्वं तस्येत्यन्वयः । सुवचत्वात् निरूपयितुं शक्यत्वात् । नानात्रिंशदिनसमुदायभूतमासनिष्ठं संख्यारूपं त्रिंशत्त्वं त्रिंशत्त्वत्वरूपेणानुगतमेव नाऽननुगतमिति न दोष इति भावः । 'मासमधीते ' इत्यत्र व्यापकत्वस्य द्वितीयार्थत्वमुपवर्ण्य संप्रत्यधिकरणत्वस्य द्वितीयार्थत्वं वक्तुं पक्षान्तरमारभते- एवमिति, अत्र च पक्षे 'मासमधीते ' इत्यस्य ‘मासाधिकरणकाध्ययनकर्ता ' इति शाब्दबोधः । मासादिपदार्थतावच्छेदकं त्रिंशदिनपर्याप्तं यत् त्रिंशत्त्यं तस्य धर्मिविशेषणतापन्नस्य मासरूपधार्मविशेषणीभूतस्य द्वितीयार्थाधिकरणतायामन्वयः कर्तव्यः स चान्वयश्चैत्रकर्तृकाध्ययनाधारतात्वादिव्याप्यधर्मावच्छिन्नस्वरूपसंबन्धरूपावच्छेद्यत्वसंसर्गेण कर्तव्य इत्यन्वयः, मासरूपधर्मिविशेषणतापन्नस्य त्रिंशत्त्वस्य येनावच्छेद्यत्वसंसर्गेण द्वितीयार्थाधिकरणतायामन्वयस्तेनैवावच्छेद्यत्वसंसर्गेण द्वितीयार्थाधिकरणतायां प्रकृत्यर्थस्य मासस्याप्यन्वय इत्यर्थादेव लम्वते, " एकत्र विशेषणत्वेनोपस्थितस्य " इति व्युत्पत्तिविरोधात् मासविशेषणीभूतस्य त्रिंशत्वस्य स्वातन्त्र्येण द्वितीयार्थाधिकरणतायामन्वयो न संभवतीति मासरूपधर्मद्वारान्वयार्थमेव " धर्मिविशेषणतापन्नस्य " इत्युक्तं तथा च नोक्तव्युत्पत्तिविरोधः । चैत्रकर्तृकेति- चैत्रकर्तृकाध्ययनाधारतासु चैत्रकर्तृकाध्ययनाधारतात्वमप्यस्ति अन्यतमत्वमभ्यस्त्येव- नानात्वात नानात्वाकान्तपदार्थेष्वेवान्यतमत्वव्यपदेशात्. तत्राधारतात्वमधिकदेशवृत्तित्वाद् व्यापकम्. अन्यतमत्वं चाल्पदेशवृत्तित्वाद् व्याप्यम्. तथा च चैत्रकर्तृकाध्ययनाधारतात्वापेक्षया व्याप्यो यो धर्मोऽन्यतमत्वं तदवच्छिन्नं स्वरूपसंबन्धरूपं यद् अवच्छेद्यत्वं तद् द्वितीयार्थाधिकरणतायामस्त्येवेति संसर्गतया शाब्दबोधे भासते नाम तेनावच्छेद्यत्वसंसगेंण द्वितीयार्थाधिकरणताया त्रिंशत्वस्यान्वय इत्यर्थः । अत्र “ अवच्छेद्यतावच्छेदकाधारतावृत्त्यन्यतमत्वविशेषादि " इत्यादिवाक्यानुरोधेन व्याप्यधर्मपदेनान्यतमत्वं गृह्यते । भवच्छेद्यत्वं चानतिप्रसक्तत्वरूपमपि भवति स्वरूपसंबन्धरूपमपि भवति तत्र द्वितीयार्थाधिकरणताया अध्यापनादिमासेष्वपि सत्वादनतिप्रसक्तस्वरूपावच्छेद्यत्वस्यासंभवात् स्वरूपसंबन्धरूपमेवावच्छेद्यत्वं ग्रहीतुं शक्यते इत्युक्तं स्वरूपसंवन्धेति । द्वितीयार्थाधिकरणतायामवच्छेद्यत्वमप्यस्ति अन्यतमत्वमप्यस्तीत्यवच्छेद्यत्वं सामानाधिकरण्यादन्यतमत्वावच्छिन्नं जातम् । अत्र द्वितीयार्थाधिकरणतायां त्रिंशत्त्वस्योक्तावच्छेद्यत्वसंसर्गेगान्वयात् त्रिंशत्त्वावच्छिन्नपूर्णमासाधिकरणकत्वमध्ययने प्राप्नोति स एव मासमधीते' इत्यस्यार्थः। उक्तस्य फलमाह-यत्किंचिदिति, यत्रयदा यत्किंचिदेकमासम्-एकमासमात्रं व्याप्याधीतं "Aho Shrutgyanam" Page #371 -------------------------------------------------------------------------- ________________ मासादिव्यापकत्वविचारः ] व्युत्पत्तिवादः । ( ३५९ ) षादिरूपोक्तधर्मावच्छिन्नाऽनतिप्रसक्तेन तद्वृत्तित्रिंशत्वेनाऽवच्छेदाद्. न्यूनकालाध्ययनस्थले चातिप्रसक्ततया तादृशस्य मासत्वस्योक्तरूपावच्छिन्नाधारताऽनवच्छेदकत्वाच्चाप्रसङ्गातिप्रसङ्गन्योरनवकाशात् । मासादिपदप्रवृत्तिनिमित्तधर्मे चैत्राध्ययनाधारताया व्याप्यत्वस्य शब्दादलाभेप्यर्यतस्तला भाग द्वितीयाया अत्यन्त - संयोगार्थपरत्वमिति नानुशासनविरोधः । तत्र= तदाप्यध्ययनाधारतानां तद्वृत्तित्रिंशत्त्वेन = तन्मासमात्रवृत्तितत्रिंशत्त्येनावच्छेदाद् अप्रसगः = ' मासमधीते ' इतिप्रयोगस्यानुपपत्तिर्नास्तीत्यन्वयः, मासेऽध्ययनाधारतापि वर्तते त्रिंशत्वमपि वर्तते इति त्रिंशत्त्वेनाध्ययनाधारतानामवच्छेदः, किं वा द्वितीयार्थभूताध्ययनाधारतासूक्तावच्छेद्यत्वसंसर्गेण तत्त्रिंशत्त्वस्यान्वयात् तेन त्रिंशत्त्वेनाध्ययनाधारतानामवच्छेदः । तद्वृत्तित्रिंशत्त्वं विशिनष्टि - अवच्छेद्यतेति द्वितीयार्थाधिकरणतायां संसर्गभूतं यद् अवच्छेद्यत्वं वर्तते तस्यावच्छेदकीभूतो योधिकरणतावृत्त्यन्यतमत्व विशेषस्तद्रूपोक्तधर्मेण ( त्रिंशत्त्वेन ) अवच्छिन्नो यो मासस्तदनतिप्रसक्तेन तद्वृत्ति ( तन्मासवृत्ति) त्रिंशत्त्वेनेत्यन्वयः । तन्मासमात्रवृ तित्रिंशत्वं तन्मासातिप्रसक्तं नास्तीति सुस्पष्टम् अनतिप्रसक्तत्वात्तस्य स्वसमानाधिकरणाध्ययनाधारतावच्छेदकत्वं युक्तमेत्र तथा च तत्रिंशत्वं तन्मासमात्रे वर्तते नाधिककाले मासमात्रं चाधीतमेवेत्येक मासमात्राध्ययनस्थलेपि * मासमधीते " इतिप्रयोगस्यानुपपत्तिर्नास्तीत्यर्थः । अतिप्रसङ्गाभावमाह - न्यूनकालेति यदा हि मासापेक्षया न्यूनकालमऽधीतं तत्र तादृशस्य = त्रिंशत्त्वरूपस्य मासत्वस्याध्ययनकालापेक्षयाऽधिककाले ( सर्वमासे ) वर्तमानत्वेनातिप्रसक्तत्वाद् उक्तरूपेण ( अन्यतमत्वेन ) अवच्छिन्ना याऽध्ययनाधारता तदवच्छेदकत्वं न संभवतीति तादृश स्थळे अतिप्रसङ्गः = मासमधीते ' इतिप्रयोगस्यापत्तिर्नास्तीति न कोपि दोष इत्यर्थः । ननु व्यापकत्वस्य द्वितीयार्थत्वे तु मासादिपदप्रवृत्तिनिमित्तधर्मे मासत्वादौ यत् चैत्रीयाध्ययनाधार - ताव्याप्यत्वं तस्य द्वितीयाविभक्तित एव लाभः संभवति - व्यापकत्वस्य व्याप्यनिरूपितत्वाद् व्याप्यघटितत्वाच्च व्यापकत्वार्थकद्वितीयाया व्याप्यत्वाक्षेपकत्वात् अत्र च पक्षे द्विर्तायाया अधिकरणतार्थकत्वेन तद्वद् व्याप्यत्वाक्षेपकत्वासंभवाद् मासत्वस्याध्ययनाधारताव्याप्यत्वं शब्दतो न प्राप्तमिति " कालांव्वनोरत्यन्तसंयोगे ” इत्यनेन द्वितीयाया यदऽत्यन्तसंयोगार्थ परत्वमुक्तं तदत्र न प्राप्नोति - अत्यन्तसंयोगस्याभिव्याप्तिरूपत्वाद् अभिव्याप्तेश्वोक्तरीत्या व्यापकत्वस्वरूपत्वाद् अध्ययन निष्ठतादृशव्यापकत्वस्य च मासत्वनिष्ठव्याप्यत्वं विनानुपपद्यमानत्वात् तादृशव्यायत्वस्य च केनापि पदेनात्र लाभाभावाद् द्वितीयाया अत्यन्तसंयोगबोधकत्वं न स्यादित्याशङ्क्याह- मासादिपदेति, मासादिपदप्रवृत्तिनिमित्तधर्मे = मासत्वे वा त्रिंशत्त्वे वा. " चैत्राध्ययनाधारतायाः " इति षष्ठ्यर्थो निरूपितत्वमिति मासत्वे चैत्राध्ययनाधारता निरूपितव्याप्यत्वस्य शब्दतो लाभाभावेपि अर्थतः =अर्थात् तल्लामात् = मासत्वेऽध्ययनाधारतानिरूपितव्याप्यत्वस्य लामात् ' मासमधीते ' इत्यादौ द्वितीयायाः " कालाध्वनोरत्यन्तसंयोगे ” इत्यनुशासनवि "Aho Shrutgyanam" Page #372 -------------------------------------------------------------------------- ________________ ( ३६० ) सादर्श: [ द्वितीयाकारकद्वितीयखण्डे न च 'भूतले घटः भूतलं घटवत्' इत्यादि प्रत्ययबलादतिप्रसक्तोपि धर्म आधेयत्वाधारत्वयोरवच्छेदक इति वाच्यम्, तादृशप्रत्ययेऽवच्छेदकत्वभानानुपगमात् । आधेयताया अतिप्रसक्तधर्मावच्छेद्यत्वे साध्यसामानाधिकरण्यावच्छेदकधर्मात्मकव्याप्तिशरीरे मिश्रादीनां स्वरूपसंबन्धरूपावच्छेदकत्वानेवेशस्य "व्यभिहितमत्यन्तसंयोगार्थपरत्वं नानुपपन्नमिति नोक्तानुशासनविरोध इत्यन्वयः । अर्थतो नामात्र द्वितीयार्थाधिकरणतायामवच्छेद्यत्वसंसर्गेण त्रिंशत्वरूपमासत्वस्योक्तरीत्यान्वयेनार्थादेवाधिकरणतायां व्यापकत्वं मासत्वे च व्याप्यत्वं प्राप्तम् - अन्ययप्रतियोग्यनुयोगिनोर्व्याप्यव्यापकभावसंभवादत्र च मासत्वस्यान्चयप्रतियोगित्वादित्यनुसंधेयम् । अभियुक्तैरप्युक्तम् - " यस्य यन्निष्ठात्रच्छेद्यत्वनिरूपकत्वं तस्य तद्व्याप्यत्वम् इति । ननु' भूतले घटः' इत्यत्र घटे वर्तमानाऽऽधेयता वटत्वावच्छिन्नास्ति घटत्वं चैतद्भूतलावृत्तिष्वप्याधेयताशून्येषु वटेषु वर्तत एवेत्यतिप्रसक्तमेव तथापि घटत्वे आधेयतावच्छेदकत्वमस्त्येव तथा 'भूतलं घटवत्' इत्यत्र भूतले वर्तमानाssधारता भूतलत्वावच्छिन्नास्ति भूतलवं चान्येष्वपाचारताशून्येषु भूतलप्रदेशेष्वस्त्येवेत्यतिप्रसक्तस्यापि भूतलत्वस्याधारतावच्छेदकत्वमस्त्येत्र तथा च प्रकृतेपि न्यूनकालाध्ययनस्थले तिप्रसक्तस्यापि मासत्वस्याव्ययनाधारतावच्छेदकत्वप्राप्त्या मासापेक्षया न्यूनकालाध्ययनेपि ' मासमधीते । इतिप्रयोगापत्तिरूपतिप्रसङ्गः स्यादेवेत्याशङ्क्याह- न चेति । परिहारमाह- तादृशेति, ' भूतले घटः ' इत्यादिवाक्यजन्यबोधे घटत्वादावाधेयत्वाद्यवच्छेदकत्वस्य मानमेव न भवति येनातिप्रसक्तधर्मस्याधारताद्यवच्छेदकत्वं प्राप्तुयादित्यर्थः । अतिप्रसक्तधर्मस्याऽऽधेयतावच्छेदकत्वं न भवतीत्यत्र प्रमाणमाह- आधेयताया इति, यद्याधेयताया अतिप्रसक्तधर्मेणाप्यवच्छेद्यत्वम् = अवच्छिन्नत्वं स्यात्तदा " व्यभिचारिण्यति - व्याप्त्या न ह्यतिप्रसक्तमवच्छेदकम् " इति तत्स्थलीयचिन्तामणिपरिष्कारविरोधेन साध्यसामानाधिकरण्यावच्छेदकधर्मात्मकव्याप्तिशरीरे मिश्रादीनां स्वरूपसंबन्धरूपावच्छेदकत्व निवेशस्याऽसंभवदुक्तिकता प्राप्नुयादित्यन्वयः, अयमर्थ:- साध्य सामानाधिकरण्यावच्छेदकधर्मो व्याप्तिः " इत्युक्तमऽर्थात् - वह्नयादिसाध्य सामानाधिकरण्यं धूमेस्ति तदवच्छेदको यो धूमत्वरूपो धर्मः स एव व्याप्तिरित्युक्तं तत्र साध्य सामानाधिकरण्यं हि साध्याधिकरणवृत्तित्वमेव वृत्तित्वं चाधेयत्वमेवेति तादृशाधेयतावच्छेदकत्वं धूमत्वस्यैतादृशव्याप्तिलक्षणेन प्राप्तं चिन्तामणिकारेण च 66 साध्यसा - मानाधिकरण्यावच्छेदकधर्मो व्याप्तिः " इत्यत्र व्यभिचारिण्यतिव्याप्या न ह्यतिप्रसक्तमवच्छेदकम् " इत्युक्तम्. अर्थादतिप्रसक्तपि धर्मो यद्यवच्छेदक ः स्यात् तदाऽयोगोलके धूमाधिकरणता नास्ति वयधिकरणता त्वस्त्येवेति धूमसामानाधिकरण्याभाववत्यप्ययोगोलकवृत्तिवह्नौ सत्त्वेन वहित्वमतिप्रसक्तमस्ति कचिन्महानसाद्यन्तर्भावेण च धूमसामानाधिकरण्यावच्छेदकत्वमपि वह्नित्वे प्राप्नोतीति यद्यतिप्रसक्तधर्मोप्यवच्छेदक ः स्यात्तदा वह्नित्वस्यापि धूमसामानाधिकरण्यावच्छेदकत्वात् व्याप्तित्वं स्यात्तादृशव्याप्त्याश्रयश्वाद् वह्नेरपि धूमानुमापकत्वं स्यान्न चैतदिष्टं वह्नेर्धूमव्यभिचारि " “ ܕܕ 66 ८५ "Aho Shrutgyanam" Page #373 -------------------------------------------------------------------------- ________________ अतिप्रसक्तस्यावच्छेदकत्वविचारः ] व्युत्पत्तिवादः । (३६१) चारिण्यतिव्याप्त्या न यतिप्रसक्तमवच्छेदकम् " इति तत्स्थलीयचिन्तामणिपरिष्कारविरोधादऽसंभवदुक्तिकतापत्तेः। आधारताया अतिप्रसक्तधर्मावच्छेद्यत्वे “यत्विधिकरणत्वं साध्याधिकरणतावच्छेदकम्" इतितल्लक्षणव्याख्यापक्षे स्वरूपसंबन्धरूपावच्छेदकत्वप्रवेशं व्यभिचारिण्यतिव्याप्त्याऽदूषयित्वा “ विरुद्धदिकालावच्छिन्नवृत्तिकस्य" इत्यादिदूषणान्तरेण तत्परित्यज्य दीधितिकृतामनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविवक्षाया असंगत्यापत्तेः।। अस्तु वाऽव्यासज्यवृत्तिधर्मस्यातिप्रसक्तस्यापि दर्शितप्रतीतिबलादाधाराधेस्वादिस्यऽतिप्रसक्तधर्मस्यावच्छेदकत्वं न भवतीति न वह्नित्वस्य धूमसामानाधिकरण्यावच्छेदकत्वमिति, मिश्रेण च "साध्यसामानाधिकरण्यावच्छेदकधर्मों व्याप्तिः " इत्यत्र वहिं विनापि निस्तारितवह्निस्थले धूमस्य दर्शनाद् धूमत्वे यद् वह्निसामानाधिकरण्यावच्छेदकत्वं तत्स्वरूपसंबन्धरूपमेवावच्छेदकत्वमस्ति न त्वनतिप्रसक्तत्वरूपमवच्छेदकत्वमित्युक्तं तत्र यद्याधेयताया अतिप्रसक्तधर्मावच्छेद्यत्वमपि स्यात्तदा साध्याधिकरणवृत्तित्वरूपाधेयताया अतिप्रसक्तेनापि धूमवेनोक्तरीत्याऽवच्छेद्यत्वप्राप्त्या 'धूमस्योक्ताधेयतावच्छेदकत्वं यदस्ति तत्स्वरूपसंबन्धरूपमेवास्ति न त्वऽनतिप्रसक्तत्वरूपम् ' इत्याकार कमिश्रकृतनिवेशस्याऽसंभवदुक्तिकतैव स्यात्- आधेयताया अतिप्रसक्तधर्मावच्छेद्यत्वे उक्तमिश्रकृतनिवेशस्य व्यर्थत्वापातादित्यर्थः प्रतिभाति । अतिप्रसक्तधर्मस्थाऽऽधारतावच्छेदकत्वमपि न भवतीत्पत्र प्रमाणमाह- आधारताया इति । तल्लक्षणेति- “साध्यसामानाधिकरण्यावच्छेदकधर्मो व्याप्तिः" इतिव्याप्तिलक्षणस्य “य त्वधिकरणत्वं साध्याधिकरण: तावच्छेदकम् ” इत्याकारकव्याख्यापक्षे स्वरूपसंबन्धरूपावच्छेदकत्वप्रवेशं व्यभिचारिण्यतिव्याप्या दूषयित्वा वाऽदूषयित्वा वा विरुद्धदिक्कालेत्यादिदूषणान्तरेण स्वरूपसंबन्धरूपावच्छेदकत्वप्रवेशं परि• त्यज्य दीधितिकारेण यदत्र ‘हेत्वधिकरणत्वे साध्याधिकरणतावच्छेदकत्वं यदस्ति तदऽनतिरिक्तवृत्तिस्वरूपन अनतिप्रसक्तत्वरूपमेवास्ति । इत्युक्तं तस्याऽऽधारताया अतिप्रसक्तधर्मावच्छेद्यत्वेऽसंगतिरेव स्यात्- आधारताया अतिप्रसक्तत्रर्मावच्छेद्यत्वे हेत्वधिकरणत्वेऽनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविवक्षाया व्यर्थत्वादित्यर्थः । तथा च प्रकृते मासापेक्षया न्यूनकालाध्ययनस्थलेऽतिप्रसक्तस्य मासत्वस्याध्ययनाधारतावच्छेदकत्वाभावात् 'मासमधीते ' इतिप्रयोगापत्तिरूपोतिप्रसङ्गो नास्तीति भावः । अत्र " चिन्तामणिपरिष्कारविरोधात् " इत्यत्र — चिन्तामणिपरिष्कारस्य च । इत्येवं पाठो युक्त इति संभाव्यते- उक्तमिश्रकृतनिवेशे चिन्तामणिपरिष्कारविरोधासंभवादित्यनुसंधेयम् । उदाहृतवाक्यानां विशेषतोर्थप्रतिपत्तिस्तु तत्तत्संदर्भेगैव संपाद्या । अतिप्रसक्तधर्मस्याधारताद्यवच्छेदकत्वं न भवतीत्ययमेवात्र प्रघट्टकार्थः । वस्तुतस्तु 'मासमधीते । इत्यादिमूलग्रन्थः क्लेशकर एव छात्राणाम् । - 'भूतले घटः ' इत्यादिप्रतीतौ घटत्वादीनामाधेयत्वाद्यवच्छेदकत्वमभ्युपगम्याह-अस्तु वेति, दर्शितप्रतीतिबलात्='भूतले घटः' इत्यादिप्रतीतिबलात् । घटत्वं ह्यऽव्यासज्यवृत्तिधर्मोस्तीति "Aho Shrutgyanam" Page #374 -------------------------------------------------------------------------- ________________ ( ३६२ ) सादर्श: [ द्वितीयाकारकद्वितीयखण्डे C 7 यभावावच्छेदकत्वम्, व्यासज्यवृत्तेस्त्वतिप्रसक्तस्य तदवच्छेदकत्वमप्रसक्तम्क्षितिजलोभयं गन्धवत् स्नेहगन्धोभयं क्षितौ ' इत्याद्यप्रतीतेः । अथ वा द्वितीयाद्यर्थेऽध्ययनाधारत्वे तत्तन्मासादिरूपप्रकृत्यर्थविशेषणतापन्नतत्तन्मासत्वादिव्यक्तीनां व्यापकता संबन्धेन स्वपारतन्त्र्येण विशेषणत्वमुपेयते, तादृशं च व्यापकत्वं स्वसमानाधिकरणव्याप्यवृत्त्यभावप्रतियोगितावच्छेदकत्वसंबन्धेन स्वावच्छिन्नस्य यो भेदस्तदाश्रयधर्मवत्त्वम्. तादृशधर्मश्च 'चैत्रो मासतस्योक्तरीत्यातिप्रसक्तस्याप्याऽऽधेयतावच्छेदकत्वं संभवति 'भूतलं 'घटवत्' इत्यत्र भूतलत्वमप्यऽव्यासज्यवृत्तिधर्मोस्तीति तस्योक्तरीत्यातिप्रसक्तस्याप्याधारतावच्छेदकत्वं संभवति, व्यास - वृत्तिधर्मस्य स्वतिप्रसक्तस्याधारत्वाद्यवच्छेदकत्वं न संभवति, अन्यथा 'क्षितिजलोभयं गन्धवत्' इत्यत्र गन्धनिष्ठाधेयतानिरूपकाधारतावच्छेदकत्वमऽतिप्रसक्तस्यापि व्यासज्यवृत्तिधर्मस्य क्षितिजलोभयत्वस्य स्यात् तथा च 'क्षितिजलोभयं गन्धवत्' इत्यपि प्रतीतिः स्याद् न चैव प्रतीतिर्भवति - गन्धस्य क्षितिमात्रवृत्तित्वस्वीकारात्, व्यासज्यवृत्तिधर्मस्यातिप्रसक्तस्याधेयतावच्छेदकत्वे 'स्नेहगन्धोभयं क्षितौ' इत्यत्र क्षितिनिष्ठाधारता निरूपकाधेयतावच्छेदकत्वमतिप्रसतस्यापि व्यासज्यवृत्तिधर्मस्य स्नेहगन्धोभयत्वस्य स्यात् तथा च 'स्नेहगन्धौ क्षितौ' इत्यपि प्रतीतिः स्याद् न चैत्रं प्रतीतिर्भवति-स्नेहस्य जलमात्रवृत्तित्वेन स्नेहे क्षितिनिष्ठाधारता निरूपकायताया अभावात्, क्षितिजलोभयत्वं हि गन्धाभाववंति जलेप्यस्त्येवेत्यतिप्रसक्तम्, स्नेहगन्धोभयत्वं च क्षित्यवृत्तिस्नेहेप्यस्तीत्यतिप्रसक्तमिति बोध्यम् । तथा च प्रकृते मासत्वमपि त्रिंशदिनेषु व्यासज्य वर्तते अथ च मासापेक्षया न्यूनकालाध्ययनस्थलेऽध्ययनाऽनधिकरण दिनेष्वपि वर्तते इत्यतिप्रसक्तमपीति तत्र मासत्वस्याप्यध्ययनाधारतावच्छेदकत्वं न संभवतीति मासापेक्षया न्यूनकालाध्ययनस्थले 'मासमधीते' इति प्रयोगस्यापत्तिर्नास्तीत्यर्थः । पक्षान्तरमाह--अथ वेति, 'मासमधीते' इत्यत्राधिकरणतैव द्वितीयार्थ इति ( ३९८ ) यदुक्तं तत्र द्वितीयार्थाध्ययनाधारत्वे व्यापकतास्त्येवेति तेन संबन्धेन स्वपारतन्त्र्येण = धर्मिपारतन्त्र्येण= मासद्वारा तत्तन्मासादिरूपो यो प्रकृत्यर्थस्तत्र विशेषणतापन्नं यत् तत्तन्मासत्वं तद्व्यक्तीनां विशेषणत्वं स्वीक्रियते इत्यन्वयः । उक्तसंबन्धभूतव्यापकत्वस्य स्वरूपमाह - तादृशमिति, तादृशम् = संबन्धभूतम् । स्वसमानाधिकरणेति-स्वं तत्तन्मासत्वं तत्समानाधिकरणो व्याप्य - वृत्तिः ( मासव्यापकः ) च योऽभावो मासे नृत्याधिकरणता नास्तीत्यभावस्तत्प्रतियोगितावच्छेदकत्वं नृत्याधिकरणता त्वेऽस्तीत्येतादृशेन स्वसमानाधिकरणव्याप्यवृत्त्यभावप्रतियोगितावच्छेदकत्वसंबन्धेन स्वावच्छिन्नम् =तत्तन्मासत्वावच्छिन्नं यन्नृत्याधिकरणतात्वं तस्य ( स्वावच्छिन्नस्थ== नृत्याधिकरणतत्वस्य ) यो भेदस्तदाश्रयो यो धर्मः अध्ययनाधिकरणताखरूपो धर्मस्तद्वत्वमध्ययनाधिकरणतायामस्त्येव नृत्याधिकरणतात्वापेक्षयाऽध्ययनाविकरणतात्वस्य भिन्नत्वादेव, एतादृशभेदाश्रयधर्मवत्त्वमेवात्र व्यापकत्वं प्राह्यम्, यथा धूमसमानाधिकरणात्यन्ताभावप्रतियोगि f "Aho Shrutgyanam" Page #375 -------------------------------------------------------------------------- ________________ प्रतिमासमधीते इतिप्रयोगाः व्युत्पत्तिवादः । (३६३) मधीते ' इत्यादौ चैत्रीयाध्ययनाद्याधारतात्वं विशिष्यैव संबन्धेऽन्तर्भावनीयम् । मासान्तरनिष्ठताशाभावप्रतियोगितावच्छेदकत्वस्य तादृशधर्मे सत्त्वेपि तत्तन्मासत्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकतादृशधर्म उक्तसंबन्धेन तत्तन्मासत्वाद्यवच्छिन्नस्य यो भेदस्तदाश्रयत्वमक्षतमेवेति यत्किचिदेकमासादिमात्रव्यापकाध्ययनादिस्थलेपि तादृशप्रयोगनिर्वाहः । 'प्रतिमासमधीते' इत्यादौ प्रत्यादिशब्दानां मासादिपदोपस्थाप्यानुगतरूपावच्छिन्नमासत्वादिमन्निष्ठाभावप्रतियोगितावच्छेदकत्वसामान्याभावघटितव्यापकताबोधकतया यकिंचिदेकमासव्यापकाध्ययनादिस्थले न तादृशः प्रयोगः। तावच्छेदकत्वसंबन्धन धूमविशिष्टं यद् घटत्वं तद्भिन्नधर्म ( वह्नित्वधर्म ) वत्त्वरूपं व्यापकत्वं बह्रौ भवतीत्यन्त्रयः । उक्तभेदाश्रयधर्मस्वरूपमाह-तादृशेति, तादृशधर्म: तत्तन्मासत्वव्यापकतावच्छेदकीभूतो धर्मश्च ( उक्तभेदाश्रयधर्मश्च ) चैत्रीयाध्ययनाधारतात्वरूप एव विशेषरूपेण संबन्धकोटी प्रवेशनीय इत्यन्वयः, तथा च 'मासमधीते' इत्यत्रोक्तव्यापकत्वसंबन्धेन तत्तन्मासत्वविशिष्टा याधिकरणता तादृशाधिकरणता निरूपकं यदथ्ययनं तादृशाध्ययनानुकूलकृतिमांचैत्र इति शाब्दबोधाकारः। यत्र च मासापेक्षया न्यूनकालेऽध्ययनं कृतं तत्र मासे नृत्यादेरपि संभः वेन तदधिकरणताऽभावस्यासंभवादध्ययनाधारत्वे द्वितीयार्थभूते संबन्धभूतमुक्तव्यापकत्वमेव नास्ति वेन तेन संबन्धेनाध्ययनाधारत्वे तत्तन्मासत्वव्यक्तीनामन्वयः स्यात् तथा च मासापेक्षया न्यूनकालाध्ययनस्थले 'मासमधीते' इति प्रयोगापत्तिर्नास्ति । एकमासमात्राध्ययनस्थले 'मासम• धीते' इति प्रयोगस्योपपत्तिं स्वयमाह-मासान्तरेति, मासान्तरनिष्ठो यस्तादृशाभावः अध्यय नाधिकरणताभावस्तत्प्रतियोगितावच्छेदकत्वस्य तादृशधर्मे अध्ययनाधिकरणतात्वे सत्त्वेपि तत्त.. न्मासत्वसमानाधिकरणो योऽभाव:-नृत्याधिकरणता नास्तीत्यभावस्तत्प्रतियोगितानवच्छेदकीभूते ( तत्प्रतियोगितावच्छेदकीभूतं तु नृत्याधिकरणतात्वं ज्ञेयम् ) तादृशधर्मे-अध्ययनाधिकरणतात्वे उक्तसंबन्धेन स्व ( तत्तन्मासत्व) समानाधिकरणव्याप्यवृत्त्यभाव ( नृत्याधिकरणता नास्तीत्यमाव ) प्रतियोगितावच्छेदकत्वसंबन्धेन यस्तत्तन्मासत्वावच्छिन्नः नृत्याधिकरणतात्वधर्मस्तस्य यो भेद उक्तस्तदाश्रयत्वम् (अध्ययनाधिकरणतात्वधर्मे ) अक्षतमेवेति ताशव्यापकत्वसंबन्धेनाध्ययनाधिकरणतायां तन्मासत्वान्वयसंभवाद् यत्किंचिदेकमासमात्राध्ययनस्थलेपि तादृशप्रयोगस्य='मासमधीते' इति प्रयोगस्य निर्वाहः संभवत्येवेति न कोपि दोष इत्यर्थः । प्रतिमासमिति-'प्रतिमासमधीते' इत्यत्र प्रतिशब्दस्य मासपदोपस्थाप्यं यन्मासत्वत्वाद्यनुगतरूपावच्छिन्नं मासत्वादि तद्वान् यो मासस्तन्निष्टो योऽभावस्त प्रतियोगितावच्छेदकत्वस्य सामान्याभावेन घटिता अर्थात् मासत्वावच्छिन्ननिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वरूपा या व्यापकता तद्बोधकत्वमस्तीति यत्किंचिदेकमासमात्रव्यापकाध्ययनस्थले तादृशप्रयोगः'प्रतिमासमधीते' इति प्रयोगो न भवति-मासत्वावच्छिन्नेष्वन्येषु मासेष्वऽध्ययनसंबन्धाभावात् किं. "Aho Shrutgyanam" Page #376 -------------------------------------------------------------------------- ________________ (३६४) सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे अथाऽत्यन्तसंयोगार्थकद्वितीयाया एकादिपदं विनापि यत्किंचिदेकमासादिव्यापकताबोधकत्वे “उपसद्भिश्चारत्वा मासमेकमग्निहोत्रं जुहोति " इत्यत्रैकपदवैयर्थ्यमितिचेत् ?, न, तत्र मासाधिककालव्यापकत्वेपि मासव्यापकतयाऽधिककालव्यापकस्य होमस्य शास्त्रार्थतावारणायैकपदोपादानात, तथा सति तस्य केवलार्थकतया मासमात्रव्यापकतालाभात् तादृशप्रयोजनोपपत्तेः। अत एव च " यावज्जीवमग्निहोत्रं जुहोति" इतिश्रुतिबोधिताग्निहोत्रानुवादेन सतिलबीहिचरुरूपद्रव्यस्य मासैकरूपकालस्य च विधाने वाक्यभेद: स्यादिति तादृशद्रव्यकालोभयविशिष्टस्य गौणाग्निहोत्रपदप्रतिपाद्यस्य कर्मान्तरस्यैव विधायिका तादृशी श्रुतिरिति सिद्धान्ते यावज्जीवकालान्तर्गतमासरूपकालांशेऽप्यनुवादकतासंभवात् प्राप्ताग्रिहोत्रानुवादेन द्रव्यस्यैव विधानमुचितमिति तु यदा विवक्षितानेकमासेश्वऽध्ययनं भवति तदेव 'प्रतिमासमधीते' इतिप्रयोगो भवतीत्यर्थः । ननु यदि 'मासमधीते' इत्यादावेकपदं विनाप्यत्यन्तसंयोगार्थकद्वितीयाया अध्ययनस्यैकमासपत्रव्यापकताबोधकत्वं स्यात्तदा "मासमेकमग्निहोत्रं जुहोति" इत्यत्राप्येकपदं विनापि होमस्य द्वितीयया एकमासमात्रव्यापकत्वं प्राप्नुयादेवेति श्रुतावेकपदं व्यर्थमेव स्यादित्याशङ्कते-अथेति । परिहरति-नेति, होमस्य मासाधिककालव्यापकत्वेपि मासव्यापकत्वं स्यादेव तच्च नेष्टमिति मासाधिककालव्यापकतावारणायैकपदमुपात्तम्, तथा सति-एकपदोपादाने कृते च तस्य-एकदस्य केवलार्थकतया मासमात्रव्यापकत्वे लब्धे तादृशप्रयोजनोपपत्तेः होमस्थ मासाधिककालव्यापकत्ववारणरूपप्रयोजनं संपद्यते इत्यर्थः "तादृशप्रयोजनोपपत्तेः' इत्यत्र "तादृशप्रयोगोपपत्तेः" इत्यपि पाठः । अत एवेति--अत एव एकपदं विना मासमात्रव्यापकताबोधस्यासंभनेनैकपदस्य सार्थकत्वादेव पूर्वपक्षो निरस्त इत्यन्वयः । उपपादयति- यावज्जीवमित्यादिना, " यावजीवम् " इतिश्रुत्युक्ताग्निहोत्रमनूद्य तिलादिद्रव्यस्य मासरूपकालस्य च "मासमेकमग्रिहोत्रम्" इति श्रुत्या विधाने उभयविधानाद्वाक्यभेदः स्यात् स च नेष्ट इति तिलादिद्रव्येण मासरूपकालेन च विशिष्टस्यैव गौणं यदग्निहोत्रपदं तत्प्रतिपाद्यस्य कर्मान्तरस्यैव तादृशी श्रुतिः" मासमेकमग्निहोत्रम् ' इतिश्रुतिर्विधायिकास्तीति सिद्धान्तः, “मासमेकम् " इतिश्रुतिस्थ. मग्निहोत्रपदं न मुख्याग्निहोत्रपरं किं तु मुख्याग्निहोत्रसदृशकर्मान्तरपरमेवेति गौणम् । अत्र च सिद्धान्ते पूर्वपक्षिणोक्तम्- "मासमेकम् " इतिश्रुत्या द्रव्यकालयोरुभयोर्विधानापेक्षव नास्ति येन वाक्यभेदः स्यात् किं तु “ यावजीवम् ” इतिश्रुत्युक्तयावजीवकालान्तर्गतस्यैव मासरूपकालस्य 'मासमेकम्" इतिपदेनानुवादः क्रियते इति न कालविधानापेक्षा किं तु द्रव्यमात्रविधानापेक्षास्तीति द्रव्यमात्रविधाने च न वाक्यभेदप्रसङ्ग इति "मासमेकम्" इति श्रुतिर्न कर्मान्तरविधायिका किं तु “यावजीवम्" इतिश्रुत्युक्ताग्निहोत्रमनूद्य द्रव्यमात्रविधायिकेति पूर्वपक्षो निरस्त इत्यर्थः । अनुवादकतात्र "मासमेकम्" इति श्रुते या। मासरूपकालांशे-मासरूपकालांशविषये । पूर्वपक्ष "Aho Shrutgyanam" Page #377 -------------------------------------------------------------------------- ________________ मासाग्निहोत्रश्रुतिविचारः ] व्युत्पत्तिवादः । ( ३६५ ) पूर्वपक्षो निरस्त:- " यावज्जीवम् इत्यादिश्रुत्या यावज्जीवव्यापकत्वे वोधि-तेर्थतो मासैकव्यापकतालाभेप्युपसञ्चरुकरणकत्वविशिष्टहोमे तन्मात्रव्यापकताया अलाभेन तस्यापि विधेयतया वाक्यभेदस्य प्राप्ताग्रिहोत्रानुवादेन द्रव्यविधिपक्षे दुर्वारत्वात् । अथ तादृशश्रुतेर्द्रव्यका लोभयविशिष्टस्य गौणाग्निहोत्रपदप्रतिपाद्यस्य कर्मान्तरस्य विधायकत्वेपि न कथं वाक्यभेदः ?- विधेयभेदस्यैतावताप्यऽपरिहारात्.. प्रत्युत धर्मिणोप्यधिकस्य विधानात् एवं च 46 77 प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोप्येकयत्नतः ॥ 77 इत्यपि नियुक्तिकामेति चेत् ?, न-यत्र विधेयांशेः युगपदनेकधर्माणां विशेषण $6 निरस्तत्वे हेतुमाह- यावज्जीवमिति, " यावज्जीवम् " इतिश्रुत्या होमस्य यावज्जीवकालव्यापकत्वे बोधिते यद्यपि यावज्जीवाग्निहोत्रेऽर्थत एकमासव्यापकतापि लभ्यते एव तथापि " मासमेकम् " इतिश्रुत्युक्तहोमे तन्मात्रव्यापकता = एकमासमात्रव्यापकता न लभ्यते उपायाभावाद् अनुवादेन च यावज्जीवकालस्यैवानुवादसंभवादिति " मासमेकम् " इति श्रुत्या तस्यापि=एकमासमात्रकालस्यापि विधानं कर्तव्येमेवेति कालद्रव्ययोरुभयोर्विधाने प्राप्ते वाक्यभेदः स्थादेव तस्मात् मासमेकम् " इतिश्रुतिः कालद्रव्योभयविशिष्टकर्मान्तरस्यैव विधायिका विशिष्टस्य चैक्यान वाक्यभेदः, यदि "मासमेकम् ” इतिश्रुतावेकपदं सार्थकं न स्यात्तदा एतच्छ्रुत्युहोमस्य यावज्जीवकालव्यापकत्वेप्येकमा सव्यापकतालामसंभवात् " यावज्जीवम्” इति श्रुत्युक्तयावज्जीवकालस्यैवानुवादसंभवेन कालविधानापेक्षाया अभावेन द्रव्यमात्र विधानापेक्षाप्राप्तौ द्रव्यमात्रविधाने च वाक्यभेदो न स्यादेवेति पूर्वपक्षः सङ्गत एव स्यात् न निरस्तः स्यात्. एकपदसत्त्वे चैकमासमात्रकालस्यानुवादार्थ लाभाभावात् तद्विधाने द्रव्यविधाने च वाक्यभेदः स्यादेवेत्यगत्या द्रव्यकालविशिष्टकर्मान्तरविधाने प्राप्ते पूर्वपक्षनिरास: संभवतीत्यर्थः । ननु तादृशश्रुतेः = " मासमेकम् " इतिश्रुतेर्द्रव्यकालो भय विशिष्टकर्मान्तरविधायकत्वेपि विशिष्टविधाने विशेषणीभूतद्रव्यकालयोरपि विधानापत्त्या वाक्यभेदः स्यादेव, एतावतापि विशिष्टवि धानेनापि । प्रत्युत धर्मिण: होमस्यापि विधानं कर्तव्यमिति त्रयाणां विधानं प्राप्तम्, तथा च प्राप्तकर्मोद्देशेनानेकस्य गुणस्य = अप्रधानस्य विशेषणीभूतस्य द्रव्यादेर्विधानं न संभवति - अनेक विधाने वाक्यभेदप्रसङ्गात् कर्मण्यप्राप्ते स्वऽनेकगुणविशिष्टस्य प्रधानस्य होमादेरेकयत्नतः = एकेन शब्दव्यापारेण ( वाक्येन ) विधानं संभवति. अनेकगुणविशिष्टस्यापि विधेयस्य प्रधानस्यैक्याद् वाक्यभेदप्रसङ्गाभावादित्येतत् " प्राप्ते कर्मणि " इत्यादिना यदुक्तं तदपि नियुक्तिकमेव विशिष्टविधानेपि विशेषणी भूतद्रव्यादीनां विधेयतापत्त्या वाक्यभेदप्रसङ्गस्य गले पतितत्वादित्याशङ्-कते - अथेति । परिहरति-- नेति, विशेषणीभूतद्रव्यादीनां पृथगुवाक्येन विधानाभावाद् विशेष "Aho Shrutgyanam" Page #378 -------------------------------------------------------------------------- ________________ ( ३६६ ) सादर्श: [ द्वितीयाकारकद्वितीयखण्डे -. तया भानं तत्र विधेयविशेषणभेदेपि विशिष्टनिष्ठ विधेयत्वाभेदेन वाक्यभेदविरहात्, अन्यथा ' भूतलं नीलवटवत् ' इत्यादावपि 'नीलवद् घटवत् ' इत्यादाविव वाक्यभेदप्रसङ्गात् । अनुवाद्यांशे विशेषणतया यत्रानेकेषां विधानं तत्र तेषां विधेयता भिन्नैवेति वाक्यभेदः । यद्यपि तत्रोपसच्चरुकरणको माधिकरणतात्वेन वाऽधिकारिविशेषकृततादृश- होमधिकरणात्वेन वा मासैकव्यापकता मासन्यूनकालहोतृकृतहोमाधिकरणतायामप्यन्यान्यदिने पुरुषान्तरकर्तृकहोमाधिकरणतासत्त्वेनाक्षतैव, तत्तत्पुरुषकdकतादृश होमाधिकरणतात्वेन व्यापकतायाः श्रुतितात्पर्यविषयत्वे च विधेयानन्त्यम्, तथापि विभिन्नपुरुषकर्तृकहोमाधिकरणताद्वयावृत्ति- तादृशचरुहोमाधिकरणतामात्रवृत्तिधर्मत्वेनाऽनुगतीकृत्य तत्तत्पुरुषकर्तृकतादृशचरुहोमाधिकरणतात्वावच्छिन्नव्यापकतानां संसर्गविधया विवक्षितत्वान्न दोषः । तादृशाधिकरण "णानां भेदेपि विशिष्टस्य भेदाभावेन तद्गतविधेयत्वस्यैक्याच्च न विशिष्टविधाने वाक्यभेदप्रसङ्ग इत्यर्थः । विपक्षे बाधकमाह - अन्यथेति, यदि विशिष्टविधानेपि वाक्यभेदः स्यात्तदा 'नीलवद् घटवत् ' इत्यत्र यथा वाक्यभेदोस्ति तथा ' नीलघटवत् ' इति विशिष्टविधानेपि वाक्यभेदः - स्यात् न चैतदिष्टमित्यर्थः । वाक्यभेदस्थलमाह-- अनुवाद्येति, यत्रै प्रधानमनूद्य तद्विशेषणत्वेनानेकेषां द्रव्यादीनां विधानं भवति तत्र विशिष्टविधानाभावात् प्रतिविशेषणनिष्ठविधेयतायाश्च भेदाद् -वाक्यभेदो भवतीत्यर्थः । अथेत्यारभ्यायं पाठः प्रक्षिप्त एव । यद्यपीति-यद्यपि तत्र=मासाग्रिहोत्रस्यले मासापेक्षया चैत्रेण न्यूनकालेपि होमे कृते तत्कालअधिकारि विशेषवृत्तितादृशहोमाधिकरणतायामुपसच्चरुकरणकहोमाधिकरणतात्वेन रूपेण वा कृत = उपसहोमकारिकृतहोमाधिकरणतात्वेन रूपेण वा मासव्यापकताऽक्षतैव मासेऽन्यान्यदि· ने=चैत्रकर्तृकहोमहीनदिनेषु मैत्रादिकर्तृकहोमाधिकरणतायाः सत्त्वात् चैत्रकर्तृकस्य मैत्रादिकर्तृकस्य च होमस्य तुल्यत्वात्, यदि चत्रादिरूपेककर्तृकर्तृकहोमाधिकरणतायां मासव्यापकता श्रुतितात्पर्यविषयीभूता स्यात्तदाऽन्यान्यदिने मैत्रकर्तृकहोमेन चैत्रकर्तृकहोमस्य मासव्यापकत्वापत्त्यभावेपि होमकर्तृभूत चैत्रादिपुरुषानन्त्येन होमरूपविधेयानन्त्यं स्यात् तत्तु नेष्टम्, तथापि धर्मत्वेन = विभि·न्त्र पुरुषकर्तृकहोमाधिकरणताद्वयाऽवृत्तित्वे सति यस्तादृशचरुहोमाधिकरणतामात्रवृत्तित्वं धर्मस्तेन रूपेण होमाधिकरणतात्वावच्छिन्नव्यापकतानामनुगमं कृत्वा चैत्रादिरूपतत्तत्पुरुष कर्तृकतादृशचरुहोनाधिकरणतत्वावच्छिन्नव्यापकतानां संसर्गविधया = होमप्रतियोगिकमास वृत्तिहोमा धिकरणतानुयोगिकसंसर्गविधया= ( मासव्यापक हो माधिकरणतायामेतादृशव्यापकतासंबन्धेन होमान्वयः ) संसर्गत्वेन विवक्षितत्वान्न दोषः कर्तृभूत चैत्राद्यनन्तव्यक्तीनां संसर्गकोटौ प्रवेशेन तदुपस्थित्यपेक्षाभावात् चैत्रादिभेदेन होमरूपविधेयानन्त्यप्रसङ्गो नास्तीत्यर्थः । होमाधिकरणतात्वाव- "Aho Shrutgyanam" Page #379 -------------------------------------------------------------------------- ________________ विनापदयोगेद्वितीयार्थ: ] व्युत्पत्तिवादः। (३६७) तायावृत्तित्वं च स्ववृत्तित्वस्वनिरूपकहोमकनिष्ठभेदप्रतियोगिकर्तृकहोमाधिकरणतावृत्तित्वोभयसंबन्धेनाऽधिकरणताविशिष्टान्यत्वरूपमऽनुगतं बोध्यम् । 'मासमधीते' इत्यादावपि. चैत्रादिकर्तृकाध्ययनाधिकरणतात्वरूपव्यापकतावच्छेदकधर्मस्योक्तानुगतरूपेणैवानुगमः कार्यः । अतो मासमधीयानो दृष्टः' इत्यादी विशिष्य चैत्रत्वाद्यनुपस्थितावपि नान्वयबोधानुपपत्तिः । अन्यत् स्वयमूहनीयम् । ‘दण्डं विना न घट उत्पद्यते ' 'रासभं विनापि घट उत्पद्यते' इत्यादौ विनापदार्थोऽभाववान् । तत्पदसमभिव्याहृतद्वितीयाया अभावान्वयिप्रतियोगिच्छिन्नव्यापकतानां विभिन्नपुरुषकर्तृकहोमाधिकरणताद्वयेपि संभवात् तदवृत्तित्वं कथं स्यादित्याश य विभिन्नपुरुषकर्तृकहोमाधिकरणताद्वयावृत्तित्वस्य स्वरूपमाह-तादृशाधिकरणताद्वयावृत्तित्वं चेति, स्त्रं तादृशहोमाधिकरणताः तवृत्तित्वं पुनरपि स्वं होमाधिकरणता तन्निरूपको यो होमस्तादशहोमकर्तनिष्ठो यो भेदः मासामिहोत्रहोमविशेषकर्ता : नेतिमेदस्तादृशभेदप्रतियोगी यो मासाग्निहोत्रहोमविशेषकर्ता तत्कर्तृको योऽन्यहोमस्तादृशहोमाधिकरणतायां वृत्तित्वं चैतदुभयसंबन्धेनाधिकरणताविशिष्टा या व्यापकता विभिन्न पुरुषकर्तृकहोमाधिकरणताद्वयवृत्तिव्यापकता तादृशव्यापकताभिन्नत्वमेव तादृशाधिकरणताद्वयाऽवृत्तित्वस्यानुगतं रूपं बोध्यमित्यन्वयः । तथा चेतादृशव्यापकता एकपुरुषकर्तृकसकलमासनिष्ठहोमाधिकरणतायामेव संभवति नान्यत्रेति पुरुषद्वयकृतमासव्यापकोक्तानिष्टहोमस्थले श्रुतेर्न चरितार्थतेत्यर्थः । अत्र " वृत्तिधर्मत्वेन " इत्यत्र “वृत्तित्वधर्मेण । इत्येवं पाठो युक्तः, वप्रत्ययस्य च 'अवृत्ति-वृत्ति । इत्युभयत्रैवान्वयः । ." उपसद्भिश्चरित्वा मासमेकममिहोत्रं जुहोति' इत्यत्र मीमांसकैस्तु उपसन्मासाभ्यां विशिष्टस्य नित्याग्निहोत्रातिरिक्तकर्मान्तरस्य विधान प्रतिपाद्यते इति ध्येयम् । मासमधीत इति- चैत्रादिकर्तृकाध्ययनाधिकरणतात्वरूपो यो व्यापकतावच्छेदकधर्मस्तस्याप्युक्तानुगतरूपेण विभिन्नपुरुषकर्तृकाध्ययनाधिकरणताद्वयावृत्तित्वचैत्रकर्तृकाध्ययनाधिकरणतामा. त्रवृत्तित्वरूपेणाऽनुगतेनानुगमः कार्यः तादृशानुगतधर्मावच्छिन्नव्यापकतायाश्च संसगकोटौ प्रवेशः कार्य इति 'मासमधीयानो दृष्टः' इत्यादौ विशेषरूपेण चैत्रत्वाद्यनुपस्थितावपि न शान्दबोधानुपपत्तिः- चैत्रत्वावच्छिन्नचैत्रकर्तृकाध्ययमाधारतात्वविशिष्टव्यापकतायाः संसर्गकोटौ प्रवेशेन तद्विशेषणीभूतचैत्रत्वादीनामुपस्थित्यऽपेक्षाभावादित्यर्थ: । द्वितीयार्थाध्ययनाधारत्वे उक्तव्यापकतासंबन्धेन तत्तन्मासत्वादिव्यक्तीनामन्वयः कर्तव्य इति पूर्वमेव ( ३६२ ) प्रतिपादितम्। विनापदसमभिन्याहृतद्वितीयाया अर्थ प्रतिपादयितुमारभते- दण्डं विनेति, " विनापदार्थोंsशाववान् " इत्यत्राभाववत्पदेन देशो. कालो वा ग्राह्यः, अभावश्च द्वितीयाप्रकृत्यर्थदण्डादीनां ग्राह्यः । तत्पदम् विनापदम् । प्रतियोगित्वमनुयोगित्यं वा द्वितीयार्थस्तत्र प्रतियोगित्वस्य निरूपकत्वसंबन्धेनाऽनुयोगित्वस्य चाश्रयतासंबन्धेनाऽभावान्वयित्वं ज्ञेयम्, अमाववतः कालस्य "Aho Shrutgyanam" Page #380 -------------------------------------------------------------------------- ________________ ( ३६८ ) सादर्श: [ द्वितीयाकारकद्वितीयखण्डे ८ त्वमनुयोगित्वं वार्थः । अभाववतश्चोत्पत्तावाऽऽधारत्वेनान्वयः । तथा च ' दण्डीभाववद्वत्युत्पत्तिकत्वाभाववान् घटः १ रासभाभाववद्वृत्त्युत्पत्तिको वटः इत्याकारको बोधः । यद्यपि निपातार्थे नामार्थस्य साक्षादपि भेदान्वयस्तथापि संभवति सार्थकत्वे विभक्तेर्निरर्थकत्वमनुचितमिति द्वितीयायाः सार्थकत्वमुपेयते । 6 ८ L भूतले न घटः ' चन्द्र इव मुखम् ' इत्यादौ प्रथमायाः प्रतियोगिताद्यर्थकत्वे प्रथमैव न साधुः स्यात्- प्रातिपदिकार्यान्वयिनोऽन्यपदेनाभिधानस्थले एक प्रातिपदिकार्थ " इत्यादिसूत्रेण प्रथमाविधानादिति तत्र प्रतियोगित्वादिः संबन्धविधयैव भासते इत्युपेयते । 66 दण्डं विना न घटोत्पत्तिः ' इत्यादौ च विनान्तार्थे घटोत्पत्त्याद्यभावान्ययेऽनुयोगविशेषणदण्डाद्यभावस्य च तदनुयोगितावच्छेदकत्वं भासते- ' द्रव्ये देशस्य वोत्पत्तावाधारत्वेन रूपेणान्वयः देशकालयोरेवोत्पत्त्याऽऽधारयात्, तथा चात्र दण्डस्याभावेsभावस्य काले कालस्योत्पत्तौ उत्पत्तेर्नञर्थाभावे तस्य घटेऽन्वयः । स्वयमेव वाक्यार्थमाहतथा चेति, दण्डाभाववान् यः कालो देशो वा तद्वृत्तिर्योत्पत्तिस्तादृशोत्पत्त्यमाववान् घट इत्यर्थः । तथा रासभाभाववान् यः कालो देशो वा तद्द्वृत्त्युत्पत्तिमान् घट इत्यर्थः । यद्यपीति -- यद्यपि निपातार्थ नामार्थयोः साक्षादपि भेदान्त्रय इष्ट एवेत्यत्र प्रतियोगित्वस्य द्वितीयार्थत्वाभावेपि तेन संबन्धेन निपातार्थे = विनापदार्थाभावे नामार्थस्य दण्डस्य भेदान्वयः साक्षादपि संभवति तथापि विभक्तेः सार्थकत्वे संभवति सति निरर्थकत्वमनुचितमेवेति प्रतियोगित्वस्य द्वितीयार्थत्वमुक्तं तथा च दण्डस्य द्वितीयार्थे तस्य च विनापदार्थघटकाभावेश्वयः कर्तव्य इत्यर्थः । ननु यथा ८ दण्डं विना न घट: ' इत्यत्र द्वितीयायाः प्रतियोगित्वार्थकत्वं स्वीकृतं तथा भूतले न वट: ' इत्यत्रापि भूतले घटप्रतियोगिक एवाभावः प्रतीयते इति प्रथमाया अपि प्रतियोगित्वार्थकत्वं स्वीक्रियतामित्याशङ्क्याह- भूतल इति । चन्द्र इव मुखम् ' इत्यत्र चन्द्रप्रतियोगिकसादृश्यवन्मुखमित्यर्थः, साधुत्वाभावे हेतुमाह - प्रातिपदिकार्थेति, अभिहिते कर्मणि कर्तरि च प्रथमा भवतीति प्रातिपदिकार्थे घटादावऽन्वयिनः कर्मत्वादेरऽन्यपदेनाख्यातप्रत्ययेनामिधानस्थले एव " प्रातिपदिकार्थे " इति सूत्रेण प्रथमा भवतीति प्रतियोगित्वस्य प्रथमयैवाभिधाने प्रथमाया: साधुत्वं न स्यादिति तत्र - ' भूतले न घट:' इत्यादौ प्रतियोगित्वस्य संबन्धविधयैव भानं संभवति न तु प्रथमार्थत्वेनेत्यर्थः । तत्र=अत्र | दण्डमिति -- ' दण्डं विना न घटोत्पत्तिः ' इत्यादौ विनान्तार्थे = दण्डाभाववति काले देशे वा घटोत्पत्त्यभावस्यान्वये कृते सति = वटोत्पत्त्यभावविशिष्टो दण्डाभाववान् काल इत्यत्र घटोपत्त्यभावस्य दण्डाभाववान् काल एवानुयोगी तादृशानुयोगिविशेषणतां प्राप्तस्य दण्डाभावस्य ( दण्डाभाववति दण्डाभावस्य विशेषणत्वात् ) तदनुयोगितावच्छेदकत्वम् = घटोत्पत्त्यभावानुयोगितावच्छेदकत्वं भासते इत्यर्थः । नन्वत्र घटोत्पत्त्यभावानुयोगिताया अवच्छेदकत्वं दण्डाभा 6 7 "Aho Shrutgyanam" Page #381 -------------------------------------------------------------------------- ________________ विनापदार्थविवेचनम् ] व्युत्पत्तिवादः। न गन्धः' इत्यऽप्रयोगादुपलक्षणीभूतधर्मावच्छिन्ने न नअर्थाभावान्वय इतिव्युत्पत्तेरिति । — रासभं विना न घटोत्पत्तिः ' इति न प्रयोगः- अतिप्रसक्ततया रासभाभावस्य घटोत्पत्त्याद्यभावानुयाोगतावच्छेदकताविरहात् । अथ वाऽभाव एव विनार्थः, 'दण्डं विना न घटः' इत्यादौ च विनान्तार्थस्याभावस्य नञर्थे घटाद्यभावे प्रयोज्यतासंबन्धेनैवान्वयः । अत एव — रासभं विना न घटः' इत्यादयो न प्रयोगाः । अत एव दण्डाद्यभाववति घटादेर्वृत्तावपि वस्य कथमुक्तं कालत्वादेर्वा द्रव्यत्वादेर्वा कथं नोक्तम्-घटोत्पत्त्यभावविशिष्ट देशे काले च द्रव्यत्वादेरपि सत्वादित्याशङ्कयोक्ते दण्डाभावस्यावच्छेदकत्वे हेतुमाह- द्रव्येति, 'द्रव्ये न गन्धः । इति प्रयोगो न भवति द्रव्यभूतपृथिव्यां गन्धस्य सत्त्वादेवेत्युपलक्षणीभूतो यो जलादीनां धर्मो द्रव्यत्वं तदवच्छिन्ने नत्रर्थाभावान्वयो न भवतीति व्युत्पत्त्या युथा तत्र जलत्वाद्यवच्छिन्ने एवं गन्धाभावस्यान्वयो भवति न द्रव्यत्वावच्छिन्ने एवमत्रापि नामावस्योपलक्षणीभूतं यद् द्रष्यत्वादि तदवच्छिन्नेऽन्वयो न भवति किं त्वनतिप्रसक्तदण्डाभावविशिष्ट एवेति दण्ड्यभावस्य घटोत्पत्त्यभावानुयोगितावच्छेदकत्वमुक्तमित्यर्थः । 'दण्डं बिना न घटोत्पत्तिः' इत्यत्र दण्डाभावस्यानुयोगितावच्छेदकत्वस्वीकारस्य फलमाह- रासममिति, रासभाभावस्य घटोत्पत्तिस्थलेपि संभवात् घटोत्पत्त्यभावेन सह नियतत्वाभावाचातिप्रसक्तत्वमस्ति. अतिप्रसक्तस्य चावच्छेदकत्वं न भवतीति रासभाभावस्य घटोत्पत्त्यभावानुयोगितावच्छेदकत्व न संभवतीति — रासभं विना न घटोत्पत्तिः' इति प्रयोगो न भवति, विनान्तार्थघटकामावस्योक्तानुयोगितावच्छेदकत्वसंभवे एवैवंप्रयोगसंभवादित्यर्थः ।। पक्षान्तरमाह- अथ वेति, अभाव एव विनापदार्थो न स्वभाववान्, तथा च 'दण्डं विना' इत्यस्य दण्डाभाव एवार्थस्तस्य च दण्डाभावस्य नार्थे घटाभावे प्रयोज्यतासंबन्धेनान्वयः- घटाभावे दण्डाभावप्रयोज्यत्वस्य सत्त्वादित्यर्थः । अत एवेति- घटाभावदण्डामावयोस्त्र प्रयोज्यप्रयोजकमावमानादेव 'रासमं विना न घटः' इति प्रयोगो न भवति, घटामावस्य रासभाभावप्रयोज्यस्वाभावाद् रासभाभावेपि घटोत्पत्तिसंभवादित्यर्थः । अत एवेति- घटामावदण्डाभावयोः प्रयोज्यप्रयोजकमावभानादेव दण्डाद्यमाववति देशे काले वा घटादेः सत्त्वेपि 'जायते । इत्यस्य पदस्याध्याहारं विनापि 'दण्डं विना न घटः ' इति प्रयोग उपपद्यते, अन्यथा यदि घटाभावदण्डाभावयोः परस्परं प्रयोज्यप्रयोजकमावभानं न स्यात् किं तु घटोत्पत्त्यभावदण्डाभावयोरेव प्रयोज्यप्रयोजकभावभानं स्यात्तदाऽभावप्रतियोगिभूतोत्पत्तिबोधकम् जायते ' इति पदं विना 'दण्ड विना न घटः' इति प्रयोगो न स्यात्-प्रतियोगिभूतपदार्थोपस्थिति विना तदभावबोध'नासंभवादिति 'जायते' इतिपदस्याऽध्याहारः कर्तव्यः स्यादेव यदा च घटाभावदण्डाभावयोरपि प्रयोज्यप्रयोजकमावः स्वीकृतस्तदा तूत्पत्तिपदार्थोपस्थापकस्य 'जायते' इतिपदस्यापेक्षा. ऽभावान्न तदध्याहारापेक्षेत्यर्थः । दण्डाद्यभावक्तीत-यद्यपि घटाभावदण्डामावयोः कार्यकारण "Aho Shrutgyanam" Page #382 -------------------------------------------------------------------------- ________________ (३७०) सादर्श:- [द्वितीयाकारकद्वितीयखण्डेजायते । इत्यस्याध्याहारं विनैव 'दण्डं विना न घटः । इति प्रयोगोपपत्तिः। 'रासभं विना घटः' इत्यादौ च विनार्थस्याभावस्य सामानाधिकरण्यसंबन्धेन घटादावन्वयः । दीधितिकृतापि " अविनाभावो व्याप्तिः " इत्यत्र 'साध्यं विना साध्याभाववति योऽभावः' इति यद् व्याख्यातं तत्र सप्तम्यन्तेन मतुपा संसर्गविधया भासमानं तदधिकरणनिष्ठत्वमेवोपात्तं न तु विनार्थत्वेनाधिकरणम्, अभावाधिकरणपर्यन्तस्य विनार्थत्वेपि सप्तम्याऽऽधेयत्वरूपाऽपदार्थविवरणरूपताया आवश्यकत्वात् । भावो नास्ति अन्यथा दण्डाभाववति घटाभाव एव स्यान्न तु घटोपि न चैवमस्ति-दण्डाभाववति देशे काले च घटस्याप्युपलब्धेस्तथापि घटाभावदण्डाभावयोः प्रयोज्यप्रयोजकमावस्त्वस्त्येव तथा च दण्डाभाववति घटादेवृत्तावपि घटस्य सत्त्वेपि घटाभावदण्डाभावयोः प्रयोज्यप्रयोजकभावस्वीकारात 'दण्डं विना न घटः' इति प्रयोग उपपद्यते तत्रोक्तरीत्या 'जायते' इति पदस्याऽध्याहारापेक्षापि नास्तीत्यर्थः । रासममिति–'रासभं विना घटः' इत्यत्र यस्मिन् देशे काले वा रासभाभावो भवति तस्मिन् घटोपि संभवत्येवेति रासभाभावघटयोः सामानाधिकरण्यं प्राप्तमिति तेन सामानाधिकरण्येन रासभाभावस्य घटेऽन्वय इति रासभाभावविशिष्टो घटः' इत्यत्र शाब्दबोधाकार इत्यर्थः । विनापदार्थोऽभाव एव नत्वऽभाववान्(अभावाधिकरणम् )इत्यत्र दीधितिकारं प्रमाणयति-दीधितिकृतापीति, विनापदघटितस्याविनाभावपदस्य साध्यं विना-साध्याभाववति योऽभावः स व्याप्तिः इतिव्याख्यायां साध्याभाववतीति सप्तम्यन्तेन मतुपा हेत्वभावस्य यत् तदधिकरणनिष्ठत्वम् साध्याभावाधिकरणनिष्ठत्वमुपात्तम् उक्तं तत् संसर्गविधयैव भासमानमुपात्तम् अर्थात् तत्रोक्तं हेत्वभावे साध्याभावाधिकरणनिष्ठत्वं संसर्गविधयैव भासते न तु साध्याभावाधिकरणं विनार्थत्वेन विनापदार्थत्वेनोपात्तम्. अर्थात् साध्याभावाधिकरणम् साध्याभाववान् विनापदार्थो नोक्त इति नाऽभाववान् विनापदार्थः किं त्वऽभाव एवेत्यर्थः । हेत्वभावे साध्याभावववृत्तित्वसंसर्गेण हि साध्याभावव. तोन्वयो विज्ञेयः । ननु दीधितिकृता 'साध्यं विना' इत्यस्य 'साध्याभाववति' इति व्याख्या कृता तत्र विनिगमनाविरहात् स्वारस्याच्च विनापदस्याऽभाववान् एवार्थ इति दीधितिकारेष्टं प्रतीयते, अन्यथा 'साध्यं विना' इत्यस्य 'साध्याभाववति' इतिव्याख्यायां मतुपाऽपदार्थस्यैव विवरणं कृतमित्यापद्येत मतुबर्थाधिकरणस्थाऽपदार्थत्वापत्तेः 'साध्यं विना' इत्यस्य साध्याभावमात्रार्थकत्वासंभवादित्याशङ्क्याह-अभावाधिकरणेति, अभाववतो विनार्थत्वस्वीकारेण अभावाधिकरणपर्यन्तस्य साध्याभाववतीतिपदघटकस्य साध्याभाववत् इत्यस्यापि विनापदार्थत्वे स्वीकृते साध्याभावावत्पदोत्तरसप्तम्या यदाऽऽधेयत्वरूपस्यार्थस्य विवरणं कृतं तत्तु कस्यापि पदस्य नार्थ इत्यऽपदार्थ एवेत्युक्तायाम् “साध्याभाववति" इति व्याख्यायामपदार्थविवरणत्वं त्वावश्यकमेव "Aho Shrutgyanam" Page #383 -------------------------------------------------------------------------- ________________ विनापदार्थविवेचनम् ] व्युत्पत्तिवादः। (३७१) न च विनापदोत्तरलुप्तसप्तम्यर्थ एव 'अभाववति' इति सप्तम्या विवृत इति वाच्यम्, निपातोत्तरविभक्तनिरर्थकत्वात् । अत एव सर्वत्र निपातोत्तरं साधुत्वार्थ प्रथमैवेतिशाब्दिकाः । "पृथिव्यामेव गन्धः" इत्यादावेवकारप्रकृतिकसप्तम्या यदाऽऽधेयत्वबोधकस्वमङ्गीकृतं दीधितिकृद्भिस्तत्रापि तेषां न निर्भरः । अस्तु वा तत्र प्रतियोगितया पृथिव्यन्यवृत्तित्वभानानुरोधेनैवकारस्यान्यवृत्तित्वार्थकत्वं गौरवादुपेक्ष्य तत्राधेयत्ववाचकत्वेन क्लप्तायाः सप्तम्याः कल्पनम् । प्रकृते चाधेयत्वस्य संसर्गतयैवोपपत्तो विनापदसाकाङ्क्षाधेयत्वार्थकसप्तमीकल्पनं दुष्कल्पनमेव । गले पतितमेवेति मतुपाप्यऽपदार्थस्यैव विवरणं कृतमिति स्वीकार्य तथा च विनापदार्थोऽभाव एव न त्वभाववानिति सिद्धम् । किं वा ननु “साध्यं विना साध्याभाववति" इत्यत्र दीधितिकृताऽभाववानेव विनापदार्थ उक्त इति कथं त्वयाऽभावमात्रस्य विनापदार्थत्वमुच्यते इत्याशङ्कया. ह-दीधितिकृतेति । 'अविनाभावः' इत्यत्राऽविनापदेन भावपदसमासः । ननु "साध्याभाववति" इत्यत्र मतुपा विनापदोत्तरलुप्तसप्तम्यर्थस्यैव विवरणं कृतं नाऽपदार्थस्येत्याशङ्क्याह-न चति । उत्तरमाह-निपातेति । अत एव-निपातोत्तरविभक्तनिरर्थकत्वादेव प्रथमातिरिक्तविभक्तिप्राप्तिर्व्यथैवेति साधुत्वार्थ प्रथमैव सापि लोपं प्राप्नोतीति न मतुपा उक्तसप्तम्यर्थविवरणं संभवतीत्यर्थः । ननु दीधितिकृतैव "पृथिव्यामेव गन्धः" इत्यत्र निपातभूतवकारपदोत्तरसप्तम्या आधेयत्वबोधकत्वं स्वीकृतमिति कथं निपातोत्तरविभक्तनिरर्थकत्वं स्यात् तथा च विनापदोत्तरविभतेरपि सार्थकत्वात्तदर्थस्यैव "साध्याभाववति' इत्यत्र मतुपा विवरणं कृतमित्याशङ्क्याहपृथिव्यामिति। उत्तरमाह-तत्रापीति । तत्र-एवपदोत्तरलुप्तसप्तम्या आधेयत्वबोधकत्वे । एवकारोत्तरसप्तम्या आधेयत्वबोधकत्वमभ्युपगम्याह-अस्तु वेति । तत्र='पृथिव्यामेव गन्धः' इत्यत्र, एवकारस्याऽन्ययोगव्यवच्छेदोर्थस्तत्रान्ययोगोऽन्यवृत्तित्वमेव व्यवच्छेदश्चाभाव एवेत्यऽन्यवृत्तित्वप्रतियोगिकामाचे प्रतियोगित्वरूपेण पृथिव्यन्यवृत्तित्वस्य भानं भवति, एवकारस्यान्यवृत्तित्वे च शक्तिस्वीकारे गौरवं स्यादिति वृत्तित्वार्थभागं परित्यज्यान्यपदार्थेऽभावे चैवकारस्य खण्डशः शक्तिः, एक्कारोत्तरप्राप्ताधेयत्वार्थकसप्तम्या वृत्तित्वमेवार्थस्तस्य च सप्तम्यर्थवृत्तित्वस्यान्यपदार्थेनान्वय इतिसप्तम्यन्तैवकारेणान्यवृत्तित्वाभावोर्थों लब्ध इति एवकारस्थलेऽन्यवृत्तित्वार्थकत्वस्वीकारे गौरवमयात् सप्तमीकल्पनं युज्यते । प्रकृतेः=" साध्यं विना " इत्यत्राधेयत्वस्य संसर्गत. यापि भानं संभवतीति विनापदोत्तरं सप्तमीकल्पनं न युक्तमेव तथा च "साध्याभाववति" इतिमतुपाऽपदार्थविवरणमेव कृतमित्याह-प्रकृते चेति । नन्वेवमेषकारस्थलेप्याथेयत्वस्य संसर्गत्वमेवास्तु तथा चाभावे आधेयतासंबन्धेनान्यपदार्थ "Aho Shrutgyanam" Page #384 -------------------------------------------------------------------------- ________________ ( ३७२ ) सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे एवकारस्थले चाऽभावरूपे एवार्थेऽन्यरूपतदर्थान्तरस्याऽऽधेयतासंबन्ध इति न संभवति - आधेयतायास्तद्वत्येव संबन्धत्वात् न तु तदभावे । न च तत्राधेय - त्वाभावो न प्रतीयते. अपि तु तत्संबन्धावच्छिन्नप्रतियोगिताकपृथिव्याद्यन्याभाव इत्युपेयं तादृशप्रतियोगिताकत्वमेवाभावेऽन्यस्य संबन्धोस्त्विति वाच्यम्, आधेयतासंबन्धस्य प्रतियोगिन आधारस्यानुयोगिन्याधेये वृत्त्यनियामकत्वेनाऽभावप्रतियोगितानवच्छेदकत्वात् । 'चैत्रः पचति' इत्यादौ कृत्यादिसंबन्धस्थाsपदार्थत्वेपि पाककृतिमान्' इत्यादौ मतुबादिपदेन विवरणवद् उक्तस्थले सामानाधिकरण्यस्य पदेन विवरणमपि न विरोधमापादयति, विवरणीयार्थस्याप्यन्य लभ्यत्वेऽपदार्थतोपपत्तेरित्यलम सदावेशेन । स्यान्ययं वक्ष्याम इत्याशङ्कयाह - एवकारस्थल इति । परिहारहेतुमाह - आधेयताया इति, यथा 'भूतले घटः ' इत्यत्र तद्वति= आधेयत्वत्रत्ति भूतलवृत्तिघटे एव भूतलस्यावेयतासंबन्धः संभवति न तु भूतलाभावे तथा एवकारस्थलेप्यन्यपदार्थस्य स्वाभावे आधेयतासंबन्धो न संभवतीत्यर्थः । नन्वेवकारस्थले आधेयत्वाभावो न प्रतीयते नाम आधेयतासंबन्धेनान्यपदार्थस्याSमावेन्वयो नोच्यते किं तु तत्संबन्धावच्छिन्न- आधेयत्व संबन्धावच्छिन्नप्रतियोगिताक पृथिव्याद्यन्याभावो गन्धे प्रतीयते तादृशाभावे च तादृशप्रतियोगिकत्वम् = आधेयत्वसंबन्धावच्छिन्नप्रतियोगिताकत्वसंबन्धेन पृथिव्याद्यन्यपदार्थस्यान्वय इत्युच्यते इत्याशङ्क्याह-न चेति । परिहारमाहभधेयतेति, अभावे आधेयत्व संबन्धावच्छिन्नप्रतियोगिताकत्व संबन्धेनाऽन्यपदार्थस्यान्वयस्वीकारेपि आधेयतासंबन्धेनान्यपदार्थाभाव इत्येव प्राप्तं तत्र 'पृथिव्यामेव गन्ध:' इत्यत्रान्यपदार्थाधेयताभावो गन्धे बोधनीय इत्याधारभूतोन्यपदार्थ एवाभावप्रतियोगी आधेयभूतो गन्धश्वातुयोगी आधेयतासंबन्धश्च वृत्त्यनियामक इति अनुयोगिन्याधेये गन्धे प्रतियोगिभूताधारस्यान्यपदार्थस्याधेयतासंबन्धोऽभावीयप्रतियोगितावच्छेदको न संभवति--वृत्त्यनियामकत्वादिति न चायं कल्पोपि युक्त इति नैवकारस्थले आधेयत्वस्य संसर्गविधया भानं संभवतीत्यर्थः । “अविनाभावः " इत्यस्य दीधितिकृता यः 'साध्य सामानाधिकरण्यम् " इति निष्कर्ष उक्त स आपाततोऽपदार्थ एव प्रतिभातीति तद्दोषं प्रसङ्गसंगत्योद्धरति - चैत्र इंति, यथा चैत्रः पचति ' इत्यत्र कृतेराख्यातार्थत्वेपि कृतिसंबन्धस्तु यद्यपि कस्यापि पदस्यार्थो नास्ति ' चैत्रः पचति ' इत्यस्य पाककृतिमान् ' इति विवरणे च मतुपा संबन्धस्यैव विवरणं क्रियते तथापि संबन्धस्याsपदार्थत्वं नास्ति - अन्यलभ्यत्वाभावात् एवमुक्तस्थले= " अविनाभावः " इत्यत्र साध्यसामानाधिकरण्यं यद्यपि कस्यापि पदस्यार्थो नास्ति तथापि पदेन "साध्य सामानाधिकरण्यं व्याप्तिः" इतिपदेन साध्य सामानाधिकरण्यविवरणेपि विरोधः = अपदार्थ विवरणत्वदोषो नास्ति - साध्यसा - मानाधिकरण्यस्यान्यलभ्यत्वाभावात्, व्याख्यातस्यार्थस्यान्यलभ्यत्वे एवाऽपदार्थत्वदोषापत्तिस्वीकारादित्यर्थः । ८८ “ C " Aho Shrutgyanam" Page #385 -------------------------------------------------------------------------- ________________ विनापदघटितप्रयोगाः 1 व्युत्पत्तिवादः । विना वातं वृक्षः पतितः ' इत्यादौ विनापदार्थस्याभावस्याश्रयतासंबन्धेन वृक्षेऽन्वयात् ' वाताभावविशिष्टो वृक्षः पतितः' इति शब्दतो लभ्यते, पतनेऽनुभवसिद्धो वातजन्यत्वाभावलाभश्चाऽऽर्थः - जन्यतायाः पदानुपस्थाप्यत्वात्. तदभावस्य तस्य वृत्त्यनियामकसंबन्धत्वात् तदवच्छिन्नवाताभावस्य च शब्देन बोधयितुमशक्यत्वात् । (३७३) 6 'पुत्रं विना गतः' इत्यादौ पुत्रादिपदं लक्षणया पुत्रगमनादिपरम्, विनापदबोध्यतदभावश्च समानकालीनत्वादिसंबन्धेन गमनेऽन्वेति समानकालीनत्वचटककालनिष्ठं स्वाधिकरणत्वमनवच्छिन्नं बोध्यम्, अतो गमनादिकाले तदनधिकरणदेशावच्छेदेन गमनाद्यभावसत्त्वेपि नातिप्रसङ्गः । ५ केचित्तु - उक्तस्थलेऽसाहित्यमेव विनापदार्थः, तस्य च गमनादिकर्तर्यबिना वातमिति - वातमिति प्रतियोगित्वं द्वितीयार्थस्तथा च वाताभावविशिष्ट इत्यस्य वातप्रतियोगिकाभावविशिष्ट इत्यर्थः । ननु ' विना घातं वृक्षः पतितः । इत्यत्र वृक्षकर्तृकं पतनं वातजन्यत्वाभाववदिति प्रतीतिर्भवति न तु वाताभावविशिष्टो वृक्षः पतित इत्याशङ्क्याहपतन इति, 'विना बातम् 9 इत्यत्र जन्यतायाः कस्यापि पदस्यार्थत्वाभावात् पतने वातजन्यत्वाभावलाभ आर्थ एव, तथा च जन्यतायाः पदानुपस्थाप्यत्वात् तदभावस्य = जन्यत्वाभावस्य ( वातजन्यत्वाभावस्य ) शब्देन बोधयितुमशक्यत्वात् पदोपस्थाप्यस्यैव शब्देन बोधयितुं शक्यत्वात् तथा तस्य = जन्यत्वस्य वृत्त्यनियामक संबन्धत्वेन तदवच्छिन्नत्राताभावस्य = जन्यत्वसंबन्धावच्छिन्नप्रतियोगिताकवाताभावस्यापि ( जन्यत्व संबन्धेन वाताभावस्यापि ) शब्देन बोधयितुमशक्यत्वात् पतने वातजन्यत्वाभावलाभ आर्थ एवेत्यर्थः । पुत्रं विनेति - अत्र पुत्रपदस्य लक्षणया पुत्रगमनपरत्वात् ' पुत्रगमनं विना=पुत्रगमनाभावकाले गत इत्यर्थः । तदभावः = पुत्रगमनाभावः । यस्मिन् काले पुत्रगमनाभावस्तस्मिन् काले । एव पितृगमन मिति समानकालिकत्वं तेन संबन्धेन पुत्रगमनाभावविशिष्टं पितृगमनमित्यर्थः । संबन्धभूतसमानकालिकत्ववटककाले यत् स्वाधि करणत्वम् = पुत्रगमनाभावाधिकरणत्वं तदऽनवच्छिन्नम् = देशानवच्छिन्नं बोध्यं तथा च पित्रा सह पुत्रस्य गमनकाले तदनधिकरणदेशावच्छेदेन-यन्मार्गोपरि पितृपुत्राभ्यां न गम्यते तन्मार्गे = तदेशावच्छेदेन किं वा पितृगमनानधिकरणदेशावच्छेदेन=मार्गान्तरावच्छेदेन पुत्रगमनाभावसत्त्वेपि नातिप्रसङ्गः = ' पुत्रं विनागतः । इतिप्रयोगापत्तिर्नास्ति, अन्यथा कालनिष्ठस्य पुत्रगमनाभावाधिकरणत्वस्य देशेनावच्छिन्नत्वे पितृगमनानधिकरणदेशावच्छेदेन पुत्रगमनाभावस्य पुत्रगमनकालेपि सत्त्वेन प्राप्त्या ' पुत्रं विना गतः ' इति प्रयोगः स्यादेव न चैतदिष्टमित्यर्थः । लक्षणाश्रयणगौरवरहितं मतान्तरमाह- केचिदिति । उक्तस्थले- 'पुत्रं विना गतः' इत्यत्र । तस्य=असाहित्यस्य । तथा च पुत्राऽसाहित्यवान् ( पुत्रसाहित्याभावविशिष्टः ) गत इत्यर्थः । "Aho Shrutgyanam" Page #386 -------------------------------------------------------------------------- ________________ (३७४). सादर्श:- [ द्वितीयाकारकद्वितीयखण्डेन्वयः। असाहित्यं च स्वकर्तृकसमैभिव्याहृतगमनादिक्रियासमानकालीनतादृश. क्रियाकर्तृत्वरूपसाहित्याभावः। क्रियान्वयिस्वकर्तृकतादृशक्रियाकालीनत्वाभाव एव वा विनार्थः, कर्तृत्वे पुत्रादेराधेयत्वेनान्वयः, विभक्तिः साधुत्वाथैव । अस्तु वाऽऽधेयत्वं द्वितीयार्थः । सप्तम्या आधियत्वार्थकत्वेपि नात्र सप्तमीप्रसक्तिःतस्याः कारकविभक्तित्वेन क्रियान्वयिस्वार्थबोधकत्वात्, अतः शेषषष्ठीप्रसत्त्या तामेवोपपदविभक्तिर्द्वितीया बाधते इति "सर्वा उपपदविभक्तयः षष्ठ्यपवादिकाः" इत्यस्याऽविरोध इति । विनासमानार्थकयोतेऽन्तरेणेतिनिपातयोरपि दर्शितैव रीतिः । एवं विनायुक्ततृतीयापञ्चमीस्थलेपि । मर्यादाभिविध्यर्थकयावच्छन्दयोगेपि द्वितीया दृश्यते । तत्र मर्यादार्थको यावच्छब्दः- " आरभ्य तस्यां दशमी तु यावत् प्रपूजयेत् पर्वतराजपुत्रीम् " असाहित्यपदार्थमाह- असाहित्यमिति, स्वं गमनकर्ता पिता तत्कर्तृका समभिव्याहृता या गत इति गमनक्रिया तादृशक्रियासमानकालिका या तादृशक्रिया=गमनक्रिया तस्कर्तृत्वरूपस्य साहित्यस्याभाव एवाऽसाहित्यपदार्थ इत्यर्थः, गच्छता पुत्रेण च गमनरूपमेव साहित्यं कर्तव्यमिति गमनकर्तृत्वं साहित्यमित्युक्तम् । सर्वत्रोक्तस्थलेषु विनापदार्थोऽभाव एवेत्युक्तमिति 'पुत्रं विना गतः ' इत्यत्राप्यऽभावेनैव विनापदार्थेन भवितव्यमित्याशयेन पक्षान्तरमाह- क्रियान्वयीति, क्रियान्वयी पितृकर्तृकगमनक्रियान्वयी यः स्वकर्तृकतादृशक्रियाकालीनत्वस्य पुत्रकर्तृकगमनक्रियाकालिकत्वस्याभावः स एव विनापदार्थः स चाभावः पितृगमनेऽस्त्येवेत्यर्थः । स्वकर्तृकेत्यत्र मार्तत्वं पुत्रनिष्ठं विवक्षितमिति पुत्रस्य कर्तृत्वे आधेयत्वसंबन्धेनैवान्वयेनाधेयत्वस्य संसर्गविधया मानसंभवेन तदुपस्थित्यपेक्षाभावात् पुत्रपदोत्तरद्वितीया विभक्तिः साधुत्वार्थत्वेन निरर्थकैवेत्याहकर्तृत्वे इति । विभक्तनिरर्थकत्वानौचित्यात् पक्षान्तरमाह- अस्तु वेति, द्वितीयाविभक्त्यर्थभूताधेयत्वेन कर्तृत्वे पुत्रान्वयो ज्ञेयः । ननु यद्यत्राधेयत्वं द्वितीयार्थस्तदात्र पुत्रपदात्सप्तमी किं न स्यात् तस्यायाधेयत्वार्थकत्वादित्याशङ्क्याह- सप्तम्या इति । सप्तमीप्रसक्त्यभावे हेतुमाह- तस्या इति, तस्याः सप्तम्याः कारकविभक्तित्वेन क्रियान्वयिस्वार्थबोधकत्वमस्ति. अत्र च नाधेयत्वस्य क्रियान्वयित्वमस्तीति न सप्तमीप्रसक्तिः । अत इति- अत्र विभक्त्यर्थस्य क्रियान्वयित्वं नास्तीस्पऽकारकविभक्तेः शेषषष्ठया एवं प्राप्तिरस्ति तां च विनापदयोगे विधीयमाना द्वितीया बाधते इति पुत्रपदोत्तरं द्वितीया प्राप्ता- उपपदविभक्तीनां विनादिपदसंयोगेन प्राप्तानां विभक्तीनां षष्ठीबाधकत्वादित्यर्थः । उक्त प्रमाणमाह- सर्वा इति । 'ऋते , ' अन्तरेण ' इति पदयोरप्येषेव रीतिरित्याह-- विनासमानार्थकयोरिति । एवम् 'पुत्रेण विना गतः' 'पुत्राद्विना गतः ' इत्यत्राप्युक्तरीतिरेव ज्ञेयेत्याह- एवमिति । विनायुक्त विनापदसमभिव्याहृत । मर्यादेति-मर्यादार्थकस्याभिविध्यर्थकस्य च यावच्छब्दस्य योगेपि द्वितीया भवति, तत्र 'तेन बिना मर्यादा' 'तेन सहाभिविधिः' । मर्यादार्थकयावच्छन्दोदाहरणमाह- आरभ्येति । तस्याम् "Aho Shrutgyanam" Page #387 -------------------------------------------------------------------------- ________________ यवच्छब्दघटितप्रयोगविचारः व्युत्पत्तिवादः । ( ३७५) इत्यादौ । मर्यादा-सीमा कालरूपा देशरूपा च. कालनिष्ठं तत्व: च तत्कालनिष्ठं समभिव्याहृतकालप्रागभावानधिकरणस्वप्रागभावाधिकरणस्वसजातीय यावत्कालवृत्तिसमभिव्याहृतक्रियानधिकरणत्वम्, एवं चोक्तस्थले यावच्छन्देन पूजारूपक्रियायां शुक्लदशमीनिष्ठतादृशसीमात्वनिरूपकत्वं प्रत्याय्यते, तावतैवा. र्थतः शुक्लदशम्यां मर्यादात्वं लभ्यते । तनिष्ठसीमात्वनिरूपकत्वं च तदवृत्तित्वे सति कृष्णनवमीप्रागभावानधिकरणशुक्लदशमीप्रागभावाधिकरणतिथिकूटव्या. पकत्वम्, तावता षोडशतिथ्यधिकरणकषोडशपूजारूपस्यैककर्मणो विधेयतया लाभः। आश्विनकृष्णनवम्यां': पूजामारभ्याऽऽश्विन शुक्लदशमी यावत् (शुक्लनवमीपर्यन्तं दशमी विना) प्रपूजयेदित्यर्थः । देशकालयो देन द्विविधां मर्यादामाह- मर्यादेति । तत्त्वम्-सीमात्वम् । तत्कालेति-तत्कालनिष्ठं यत् सममिव्याहृतकालप्रागभावानधिकरणस्वप्रागमावाधिकरणस्वसजातीययावत्कालवृत्तिसमभिव्याहृतक्रियानधिकरणत्वं तदेव दशमीनिष्ठं सीमात्वमित्यन्वयः, तत्र तत्कालनिष्ठम् दशमीकालनिष्ठम् ( दशमीनिष्ठम् ) यत्- सममिव्याहृतकालः कृष्णनवमीकालस्तत्प्रागभावानधिकरणं स्वप्रागभावस्य दशमीप्रागभावस्य चाधिकरणं यः स्वसजातीयः दशमीसजातीयो यावत्कालः कृष्णनवमीमारभ्य शुक्लनवमीपर्यन्तकालस्तवृत्तिः समभिन्याहृता या क्रिया पूजारूपक्रिया तदनधिकरणत्वं तदेव दशभ्यां सीमात्वमस्ति, नवमनवरात्रपर्यन्तमेव पूजाविधानेन दशम्यां पूजाया अभावात, कृष्णनवमीप्रागभावस्याधिकरणीभूतः कालः कृष्णाष्टमीपर्यन्तकालः कृष्णनवमीप्रागभावानधिकरणीभूतश्च कृष्णनवमीमारभ्य कालः स एव कालः शुक्लदशमीप्रागभावाधिकरणोपि । साजात्यं च तिथित्वरूपेण विज्ञेयम् । फलमाह-- एवं चेति, शुक्लदशमीनिष्ठसीमात्वस्य निरूपिका पूजारूपक्रियैव- दशम्याः पूजारूपक्रियानधिकरणत्वात्, तदनधिकरणस्यैव तत्सीमात्वात्-तदुच्यते-तेन विना सीमेत्यर्थः । तावतेतियतो यावच्छब्देन तु पूजारूपक्रियायामुक्तसीमात्वनिरूपकत्वमात्र प्रत्याय्यतेऽतो दशम्यां यो मर्यादात्वलाभः स आर्थ एवेत्यर्थः । सीमात्वनिरूपकत्वस्वरूपमाह-तन्निष्ठति, तनिष्ठदशमीनिष्ठ । तदवृत्तित्वे सति-शुक्लदशम्यऽवृत्तित्वे सति कृष्णनवमीप्रागभावानधिकरणीभूतस्तथा शुक्लदशमीप्रागभावाधिकरणीभूतो यस्तिथिकूट:-कृष्णनवमीमारभ्य शुक्लनवमीपर्यन्तः षोडशतिथ्यात्मकस्तिथिसमूहस्तव्यापकत्वं यत्पूजारूपक्रियायामस्ति तदेव दशमीनिष्ठसीमावस्य निरूपकत्वं विज्ञेयमित्यर्थः । फलमाह--तावतेति । तावता-एतावता कृष्णनवमीमारभ्य शुक्लनवमीपर्यन्तं षोडशतिथिषु षोडशोपचारात्मकपूजारूपमेकमेवे कर्मात्र विधेयमस्तीति लभ्यते न तु तिथिभेदेन षोडश कर्मीणीत्यर्थः ।" समभिव्याहृत " इत्यत्र स्वसमभिव्याहृत इतिपाठे स्वपदेन दशमी ग्राह्या। "Aho Shrutgyanam" Page #388 -------------------------------------------------------------------------- ________________ (३७६) सादर्शः- [ द्वितीयाकारकद्वितीयखण्डे व्याप्यकालसमुदाये सजातीयत्वविशेषणात् पूजायामुक्तविशेषणद्वयाक्रान्तदण्डादिसमुदायाऽव्यापकत्वेपि न बाधः, अन्वयितावच्छेदकरूपेण साजात्यस्य विवक्षणात्. उक्तस्थले च तिथिम् ' इत्यस्याध्याहारेण दशमीपदार्थतावच्छेदकस्य तिथिवघटितत्वेन वा यावत्पदार्थान्वयितावच्छेदकतया तिथित्वभानात्, तेन रूपेण दण्डादेर्दशमीसजातीयत्वाभावात् । तिथिश्चाऽखण्डकालविशेषरूपा न तु चन्द्रमण्डलकलारम्भाद्यनुगुणक्रियाप्रचयरूपा- पूजायास्तावकियावृत्तित्वासंभवात् । अत्र च प्रागभाव एव यावत्पदार्थः। द्वितीयार्थः प्रतियोगित्वमनुयोगित्वं वा, ननूतपूजा षोडशतिथीनां कस्मिंश्चित् प्रातरादौ समये एवं क्रियते नाऽहर्निशमिति कथं पूजायाः षोडशतिथिव्यापकत्वं स्यादित्याशङ्क्याह-व्याप्यकालेति, व्याप्यकालसमुदाये-पूजाव्याप्यकालसमुदाये किं वा षोडशतिथ्यात्मककालापेक्षया व्याप्यकालसमुदाये पूजाधिकरणे काले सजातीयत्वम् तिथित्वेन रूपेण दशमीसजातीयत्वं स्वसजातीयेत्युक्तसीमावलक्षणनिक्षिप्तविशेषणेन विवक्षि. तमस्तीति दण्डादिसमुदाये विशेषणद्वयस्य समभिव्याहृतकाल ( कृष्णनवमी) प्रागभावानधि. करणत्वस्य स्वप्रागभावा( दशमीप्रागभावा )धिकरणत्वस्य च सत्त्वेपि तिथित्वेन दशमीसजातीयस्वाभावात् पूजायां तादृशदण्डादिसमुदायाव्यापकत्वेपि न व्यापकत्वस्य बाधः-तिथित्वेन दशमीसजातीयासु षोडशतिथिषु पूजायाः सत्त्वेन व्यापकत्वाक्षतेरित्यर्थः । उक्त हेतुमाह--अन्वयितेति, पूजायाः षोडशतिथ्यात्मककालेऽन्वयोस्तीति पूजान्वयी षोडशतिथ्यात्मककालस्तस्यावच्छेदकं च तिथित्वमित्यन्वयितावच्छेदकं यत् तिथित्वं तेन रूपेण साजात्यस्य विवक्षणाद् दण्डादेश्च तिथिस्वानाक्रान्ततया तिथित्वेन रूपेण सजातीयत्वाभावादित्यर्थः। ननु कथमत्र तिथित्वमन्वयितावच्छेदकं स्यादित्याशङकायामाह- उक्तस्थले इति, उक्तस्थले=" आरभ्य तस्यां दशमी तु यावत् ।" इत्यत्र द्वितीयान्ततिथिपदस्याध्याहारेण · दशमी तिथिं यावत् ' इतिजातमिति दशमीपदार्थतावच्छेदकं तिथित्वमिति प्राप्तम्, अध्याहारस्वीकारामावे च दशम्यास्तिथिरूपत्वाद् दशमीपदार्थतावच्छेदकं तिथित्वघटितम् देशमीतिथित्वमेव प्राह्यमिति सीमारूपयावत्पदार्थान्वयिनी या दशमी तदवच्छेदकतया तियित्वं भासते एवेत्यन्वयितावच्छेदकत्वं तिथित्वे प्राप्तमेव तेन च तिथित्वरूपेण दण्डादेर्दशमीसजातीयत्वाभावात्तत्र दण्डादौ पूजाया अभावेपि न पूजायां व्यापकत्वक्षति:-तिथिस्वेन सजातीयासु षोडशतिथिषु पूजायाः सत्त्वादेवेत्यथः । तिथिस्वरूप. माह-तिथिश्चेति, तिथिश्च ज्योतिश्शास्त्रानुमताऽखण्डकालरूपैव ग्राह्या न तु चन्द्रमण्डल कलारम्भानुगुणक्रियासमूहरूपा. अन्यथा पूजायाः प्रातरादौ काले एव सत्त्वेन तादृशक्रियाश्रयीभूतप्रत्येकक्षणेष्वऽभावात् तिथिव्यापकत्वं न स्यादित्यर्थः । " आरभ्य तस्याम् " इत्युक्तोदाहरणं स्वयं नैयायिकरीत्या परिष्करोति-अत्रेति । तत्र द्वितीयार्थे प्रतियोगित्वादौ । तत्प्रकृत्यर्थदशम्याः द्वितीयाप्रकृयर्थदशम्याः । एतापर्यन्तं "Aho Shrutgyanam" Page #389 -------------------------------------------------------------------------- ________________ यावच्छब्दघटितप्रयोगविचारः] व्युत्पत्तिवादः । (३७७) तत्र तत्प्रकृत्यर्थदशम्या अन्वयः, तावता दशमीप्रतियोगिकपागभावलाभः, तस्य स्वप्रतियोग्यऽवृत्तित्वविशिष्टव्यापकतासंबन्धेन पूजारूपसमभिव्याहृतक्रियायामन्वयः । व्यापकत्वं च स्वाधिकरणतिथिनिष्ठाभावप्रतियोगितानवच्छेदकपूजाविशेषत्ववत्वम् । स्वाधिकरणत्वं च स्वाधिकरणकृष्णनवमीप्रागभावावच्छिन्नभेदविशिष्टकालिकविशेषणतासंबन्धेन, एतेन कृष्णनवमीप्रागभावाधिकरणप्रतियोगिकभेदस्याऽव्यावर्तकतया तत्सामान्यभेदनिवेशे भाविकृष्णनवमीमागभावायल्लब्धं तदाह-तावतेति । तावता एतावता ' दशमी यावत् ' इत्यस्य दशमीप्रतियोगिकप्रागभाव इत्यर्थः सिद्ध इत्यर्थः । तस्य दशमीप्रतियोगिकप्रागभावस्य, स्वं दशमीप्रागभावस्तत्प्र. तियोगिभूता या दशमी तदवृत्तित्वसमानाधिकरणं यद् व्यापकत्वं तेन संबन्धेन पूजारूपक्रियायामन्वयः-पूजायां दशमीवृत्तित्वं नास्ति तदतिरिक्तषोडशतिथिव्यापकत्वं चास्त्येव. एतेनाश्विनकृष्णनवमीमारभ्य दशमीप्रागभावाधिकरणपोडशतिथिवृत्तिस्वं पूजायां प्राप्त दशम्यां च दशमीप्रागभावो न भवतीति दशम्यऽवृत्तित्वमपि प्राप्तम् । संबन्धघटकव्यापकत्वस्य स्वरूपमाहव्यापकत्वमिति, स्वं दशमीप्रागभावस्तदधिकरणीभूतनवम्यादितिथिषु पूजाया अभावो नास्तीति तन्निष्टाऽभावप्रतियोगितानवच्छेदकं यत्पूजाविशेषत्वं तद्वत्त्वमेव पूजायां व्यापकत्वमस्तीत्यर्थः । ननु दशमीप्रागभावाधिकरणभूतास्तु भाद्रपदतिथयोपि भवन्ति तासु पूजासंबन्धस्याभावात् कथं पूजायां स्वाधिकरणतिथिव्यापकत्वं स्यादित्याशय स्वाधिकरणत्वं परिष्करोति-स्वाधिकरणत्वमिति, स्वं दशमीप्रागभावस्तदधिकरणीभूता याऽऽश्विनकृष्णनवमी तत्प्रागभावावच्छिन्ना या माश्विनकृष्णनवमीपूर्वभूता अष्टम्यादयस्तिथयस्तासां यो भेदः कृष्णनवमीप्रागभावावच्छिन्ना न इत्याकारकभेदस्तादृशभेदविशिष्टेन कालिकविशेषणतासंबन्धेन कालिकसंबन्धेन दशमीप्रागभावाधिकरणत्वं ग्राह्य तथा च कृष्णनवमीपूर्वभाव्याटम्यादितिथिषु कृष्णनवमीप्रागभावस्यैव सत्त्वात् कृष्णनवमीप्रागभावावच्छिन्ना नेति भेद एवं नास्ति येन. तादृशाष्टम्यादीनां तादृशभेदघटितसंबन्धेन दशमीप्रागभावाधिकरणत्वं स्यात् तथा च तादृशाष्टम्यादिषु पूजाया असत्त्वेपि न व्यापकत्वक्षतिः, कृष्णनवमीप्रागभावावच्छिन्ना नेति भेदः कृष्णनवम्यादिषु भवतीति तादृशभेदधटितसंबन्धेन तासा दशमीप्रागभावाधिकरणत्वमप्यस्ति पूजाधिकरणत्वमप्यस्तीति पूजायां व्यापकत्वं प्राप्तमित्यर्थः । स्वाधिकरणत्वपरिष्कारे दशमीप्रागभावनिवेशस्य फलमाह-एतेनेति, यदि 'स्वाधिकरणत्वं च कृष्णनवमीप्रागभावावच्छिनभेदविशिष्टकालि कविशेषणतासंबन्धेन ' इत्येवोच्येत तदा कृष्णनवमीपदेन भाविकृष्णनेवमीग्रहणसंभवाद् भाविकृष्णनवमीप्रागभावाधिकरणस्वमादाय भाविकृष्णनवमीप्रागभावावच्छिन्ना नेति भेदस्याभिप्रेतषोडशतिथिष्वऽसत्त्वात् ( तत्र भाविकृष्णनवमीप्रागभावावच्छिन्नत्वस्यैव सत्त्वात् ) तेन संबन्धेन तासां षोडशतिथीनां दशमीप्रागभावाधिकरणत्वमेव न संभवतीति कृष्णनवमीत्रागभावाधिकरणप्रतियोगिकमेदस्य कृष्णनवमीप्रागभावावच्छिन्नभेदस्याव्यावर्तकतया अभिप्रेतषोडशतिथीनां तदन्यतिथीनां च परस्परं विशे "Aho Shrutgyanam" Page #390 -------------------------------------------------------------------------- ________________ ( ३७८ ) सादर्श: [ द्वितीयाकारकद्वितीयखण्डेधिकरणत्वमादाय नाऽप्रसिद्धि: - तथा सत्यपि तत्तदशमीप्रागभावोधिकरणकालस्य स्वाधिकरणकृष्णनवमीप्रागभावावच्छिन्नभेदवत्त्वसंबन्धेन तत्तत्प्रागभावाधिकरणत्वाक्षतेः । न चैवमपि व्यवहितपूर्वकृष्ण नवमीप्रागभावावच्छिन्नभेदघटितसंबन्धेनाऽव्यवहितपूर्वकृष्णनवमीपूर्वतिथीनामपि तत्तदशमीप्रागभाववत्त्वात् तदधिकरणतिथिव्यापकत्वं पूजायां न संभवतीति वाच्यम्, स्वावच्छिन्न कृष्णनवमीप्रागषापादकत्वासंभवात् तत्सामान्यभेदनिवेशे तादृशस्य सामान्यरूपस्य कृष्णनवमीप्रागभावावच्छि नभेदस्य निवेशेऽप्रसिद्धिः अभिप्रेतषोडशतिथिषु दशमीप्रागभावाधिकरणत्वस्याऽप्रसिद्धिरेव स्यात् तासु भाविकृष्णनवमीप्रागभावस्यैव सत्त्वेन भाविकृष्णनत्रमीप्रागभावावच्छिन्नमेदस्य दशमीप्रागभावसंबन्धभूतस्याऽसत्त्वात्, सा चाप्रसिद्धिरेतेन = उक्तरूपेण दशमीप्रागभावाविकरणत्वस्य संबन्धपरिष्कारेण नास्तीत्यन्चयः, अप्रसिद्ध्यभावे हेतुमाह - तथा सत्यपीति, तथा सत्यपि= संबन्धस्वरूपपरिष्कारे दशमीप्रागभावाऽनिवेशे उक्तरीत्या षोडशतिथिषु दशमीप्रागभावाधिकरणत्वाऽप्रसिद्धावपि दशमीप्रागभावनिवेशेनाऽप्रसिद्धिर्नास्तीति भावः - तथा हि तत्तद्दशमीप्रागभावाधिकरणत्वं दशमीपूर्वमा वितिथिकूटकाले एव संभवतीति स्वाधिकरण= दशमीप्रागभावाधिकरणीभूत कृष्ण नवमीप्रागभावावच्छिन्नभेदवत्त्वसंबन्धेन तत्तद्दशमी प्रागभावाधिकरणकालस्य== अभिप्रेतषोडशतिथिकालस्य तत्तत्प्रागभावाधिकरणत्वम् = दशमीप्रागभावाधिकरणत्वमक्षतमेव, अत्र च यद्यपि दशमीप्रागभावाधिकरणत्वं कृष्णनवमीपूर्व भाव्यष्टम्यादिष्वस्ति तथापि तत्र कृष्णनवमीप्रागभावस्यैव सत्त्वेन कृष्णनवमी प्रागभावावच्छिन्नभेदवत्त्वं नास्तीति न तासां विवक्षितदशमी प्रागभावाधिकरणत्वं प्राप्नोति, दशमीप्रागभावाधिकरणत्वे सति कृष्णनवमीप्रागभावानधिकरणत्वं चाभिप्रेतषोडशतिथिष्वेवास्ति । तत्र च पूजासंबन्धस्य सत्त्वात् पूजायां तादृशतिथिकूटव्यापकत्वं प्राप्तमेवेत्यर्थः । नन्वेवमपि = उक्तरीत्या स्वाधिकरणत्वसंबन्धकोटौ दशमीप्रागभावाधिकरणी भूतकृष्णनवमीप्रागभावावच्छिन्नभेदस्य निवेशे कृतेपि आश्विन शुक्ल दशमीप्रागभावाधिकरणत्वं व्यवहितपूर्वकृष्णनवम्याम्=भाद्रपद कृष्णनवम्यामपि संभवति तादृशभाद्रपद कृष्णनवमी प्रागभावश्चाश्विन कृष्णप्रतिपदादितिथिषु नास्तीति तत्र व्यवहितपूर्वकृष्ण नवमीप्रागभावावच्छिन्नभेदोस्त्येवेति तादृशभेदघटितकालिकसंबन्धेनाऽव्यवहितपूर्वकृष्णनवमी पूर्वतिथीनाम् = आश्विन कृष्णप्रतिपदादितिथीनामपि तत्तदशमीप्रागभाववत्त्वमस्ति पूजाधिकरणत्वं च नास्तीति कथं पूजायां दशमीप्रागभावाधिक• रणकृष्ण नवमीप्रागभावानधिकरणतिथिकूटव्यापकत्वं स्यात् उक्तरूपाक्रान्तास्वाश्विन कृष्णप्रतिपदादिषु पूजाया अभावात्. कृष्णनवमीपदेन भाद्रपद कृष्णनवम्या अपि ग्रहणसंभवादित्याशङ्क्याह-न चैवमपीति । कृष्णनवमीपदेन पूर्वकृष्णनवमी ग्रहणमात्रप्रसक्तदोषं परिहरति-स्वावच्छिनेति, उक्ते प्रागभावसंबन्धे = दशमीप्रागभावाधिकरणत्वस्य संबन्धपरिष्कारे यः खलु स्वावच्छिन्न " Aho Shrutgyanam" Page #391 -------------------------------------------------------------------------- ________________ यावच्छब्दघटितप्रयोगविचारः] व्युत्पत्तिवादः । ( ३७९) भावानधिकरणत्वसंबन्धेन स्वावच्छिन्नभेदस्यैव प्रागभावसंबन्धे निवेशनीयत्वात् । स्वाधिकरणनिष्ठाभावप्रतियोगितानवच्छेदकत्वमाप तादृशावच्छेदकत्व. भेदः कृष्णनवमीप्रागभावावच्छिन्नप्रतियोगिकभेदः प्रविष्टस्तस्य तत्र ‘दशमीप्रागभावसंबन्धे स्वावच्छिन्न दशमीप्रागभावावच्छिन्नकृष्णनवमीप्रागभावानधिकरणत्वसंबन्धेनैव निवेशः कर्तव्यस्तथा चाश्विनकृष्णाष्टम्यादिषु दशमीप्रागभावावच्छिन्नभाद्रकृष्णनवमीप्रागभावानधिकरणत्वस्य सत्त्वेपि दशमीप्रागभावावच्छिन्नाश्विनकृष्णनवमीप्रागभावाधिकरणत्वमप्यस्तीत्याश्विनकृष्णाष्टम्यादयो न प्राह्या अभिप्रेताश्विनकृष्णनवम्यादिषोडशतिथिषु तु दशमीप्रागभावावच्छिन्नकृष्णनवमीप्रागभावानधिकरणत्वमस्त्येवेत्येतादृशसंबन्धेन तासु स्वावच्छिन्नभेदः कृष्णनवमीप्रागभावावच्छिनप्रतियोगिकभेदः संभवतीति तादृशभेदसंबन्धेन तासु स्वाधिकरणत्वम्-दशमीप्रागभावाधिकरणत्वं संभवत्येव, तासु पूजासंबन्धस्य च सत्त्वात् पूजायां तादृशषोउशतिथिव्यापकत्वमप्यस्त्येवेति न कोपि दोषः । यद्यप्यभिप्रेतषोडशतिथिष्वपि कार्तिककृष्णनवमीप्रागभावाधिकरणत्वमस्ति तथापि दशमीपदेनाश्विन शुक्लदशमीग्रहणात् तादृशदशमीप्रागभावाधिकरणत्वं तु कार्तिककृष्णनवम्यां नास्त्येवेति तादृशदशमीप्रागभावाधिकरणभूता कृष्णनवमी आश्विनकृष्णनवम्येव ग्रहीतुं शक्यते । भाद्रादिकृष्णनवमीपरिहारोपायस्त्वनुपदमेवोक्तः । ननु यदुक्तम्- “ व्यापकत्वं च स्वाधिकरणतिथिनिष्ठाभावप्रतियोगितानवच्छेदकपूजाविशेषस्ववत्त्वम् " इति तत्र नञोऽत्यन्ताभाववद् भेदबोधकत्वमप्यस्तीत्यनवच्छेदकपदेन ' पूजावे स्वाधिकरणतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वं नास्ति' इत्याकारकास्यन्ताभावो ग्राह्यः किं वा 'पूजात्वं स्वाधिकरणतिथिनिष्ठाभावप्रतियोगितावच्छेदकं न ' इत्याकारकभेदो ग्राह्य इत्याश क्य भेदग्रहणेन परिष्करोति- स्त्राधिकरणनिष्ठेति, स्वं दशमीप्रागभावः । व्यापकत्वलक्षणे यत "स्वाधिकरणतिथि निष्ठाभावप्रतियोगितानवच्छेदकत्वम् " इत्युक्तं तदपि तत्रापि नआ मेद एव ग्राह्यः स च भेदः तादृशावच्छेदकत्वसंबन्धेन दशमीप्रागभावाधिकरणतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वसंबन्धेन स्वावच्छिन्नस्य-दशमीप्रागभावावच्छिन्नस्य भेदो ग्राह्य इत्यन्वयः, तथा च दशमीप्रागभावाधिकरणाभिप्रेतषोडशतिथिषु पूजाया अभावो नास्तीति पूजात्वे दशमीप्रागभावाधिकरणाभिप्रेततिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वं नास्त्येव. गगनस्य चावृत्तिपदार्थत्वात् ताहशतिथिष्वऽभावोरत्येवेति गगनत्वे दशमीप्रागभावाधिकरणतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वमस्त्येवेति तेन संबन्धेन गगनखे दशमीप्रागभावोपि संभवतीति गगनत्वस्योक्तसंबन्धेन दशमीप्रागभावावच्छिन्नत्वं प्राप्तमित्युक्तसंबन्धेन स्वावच्छिन्नस्य दशमीप्रागभावावच्छिन्नस्य गगनत्वस्य भेद उक्तपूजाविशेषत्वेऽस्त्येवेति तादृशमेदवत्त्वमेव पूजात्वेऽभावप्रतियोगितानवच्छेदकत्वं ज्ञेयं तथा च ‘दशमीप्रागभावाधिकरणतिथि निष्ठाभावप्रतियोगितावच्छेदकरवसंबन्धेन दशमीप्रागभावावच्छिन्नं न ' इत्याकारकभेदवत्त्वमेव पूजात्वे व्यापकतावच्छेदकत्वं लब्धमित्यर्थः । एवं भेदनि "Aho Shrutgyanam" Page #392 -------------------------------------------------------------------------- ________________ ( ३८०) सादर्श:- [द्वितीयाकारकद्वितीयखण्डेसंबन्धेन स्वावच्छिन्नस्य भेदः, अतस्तादृशावच्छेदकत्वत्वावच्छिन्नाभावनिवेशे यकिंचिदशमीप्रागभावाधिकरणनिष्ठाभावप्रतियोगितावच्छेदकत्वमादायाऽम. सिद्धिवारणाय विशिष्य तत्तत्प्रागभावरूपस्वपदार्थस्य संबन्धमध्ये प्रवेश्यतया. ऽननुगम इति निरस्तम् । देशरूपा सीमाः च 'काशीतः कौशिकी यावद् याति ' इत्यादौ, तत्र कौशिक्या गमनसीमात्वं प्रतीयते तच्च काशीपूर्वकौशिकीपश्चिमदेशव्यापकगमनानधिकरणत्वम् । यावत्पदेन च कौशिक्यनधिकरणत्वे सति काशीपूर्वकौशिकीपश्चिमदेशव्यापकत्वं गमने प्रत्याय्यते । तत्र द्वितीयार्थोऽवधित्वमवधिमत्त्वं वा प्रतीच्याद्यान्वयि । निष्कर्षः पूर्ववत् स्वयमूहनीयः ।। वेशस्य फलमाह- अत इति, उक्तव्यापकत्वलक्षणे अनवच्छेदकेतिपदघटितनमाऽत्यन्ताभावनहणतात्पर्येण तादृशावच्छेदकत्वत्वावच्छिन्नाभावनिवेशे नाम यदि दशमीप्रागभावाधिकरणतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वाऽत्यन्ताभावस्य निवेशः स्यात् तदा यत् किंचिदशमीप्रागभावाधिकरणभूता श्रावणादिदशमीप्रागभावाधिकरणभूता या तिथिस्तस्यां पूजाया अभावादेव तादृशतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वमेव पूजावे प्राप्तं न तु तादृशतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वाभाव इति तादृशतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वेन पूजात्वे व्यापकतावच्छेदकत्वस्याऽप्रसिद्धिरेव स्यात्- अत्यन्ताभावनिवेशे तादृशतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वाभावस्यैव व्यापकत्वपदार्थत्वात् तस्य चाभावस्य पूजात्वे उक्तरीत्या बाधात् । एतद्दोषपरिहाराय यदि स्वाधिकस्मेत्यत्र स्वपदार्थस्य दशमीप्रागभावस्य तत्तद्दशमीप्रत्गमावरूपेण निवेशः कृतः स्यात्तदाऽऽश्विन शुक्लदशम्या एव ग्रहणेन यत्किंचिद्दशमीग्रहणासंभवाद् उक्त दोषे निवृत्तेपि तत्तदशमीप्रागभावस्य संबन्धमध्ये प्रवेशेनाऽननुगमः स्यादिति दोषः स्यादिति निरस्तम्- उक्तव्यापकत्वलक्षणे उक्तनजोकभेदस्य ग्रहणेनाऽत्यन्ताभावस्थाऽग्रहणात् । ना भेदग्रहणे च दशमीप्रागभावाधिकरणतिथिनिष्ठाभावप्रतियोगितावच्छेदकत्वसंबन्धेन यावद्दशमीप्रागभावावच्छिन्नमगनत्वस्थ भेदः पूजात्वे प्राप्स्यत्येवेति न पूजात्वे व्यापकतावच्छेदकत्वाप्रसिद्धिशङ्कापि संभवति- तादृशभेदवत्त्वस्यैवात्र व्यापकतावच्छेदकत्वेनाभिमतत्वादित्यर्थः । एवकारस्य तृतीयान्तसंबन्धनेतिपदेनान्वयः । . देशरूपसीमाबोधकयावच्छन्दमुदाहरति-देशरूपेति । तत्र इत्यत्र । तच्च सीमात्वं च । तेन विना सीमा भवतीति कौशिकी यावद् गमनका काशीतः कौशिकीपश्चिमदेशपर्यन्तमेव गन्तव्यमिति कौशिकीपश्चिमदेशव्यापकगमनाऽनधिकरणत्वमेव कौशिक्यां सीमात्वं प्राप्तमित्यर्थः । यावत्पदबोध्यमाह-यावत्पदेनेति, तेन विना सीमा भवतीति सीमाभूतकौशिक्यऽनधिकरणत्वं गमने प्राप्तम् । कौशिकीपदोत्तरद्वितीयार्थमाह-तत्रेति, अवधित्वमऽवधिमत्त्वं चाश्रयतासंबन्धेन कौशिकीपश्चिमदिशि विज्ञेयमित्यर्थः । कौशिकी च काशीतः पूर्वदिश्यऽभ्युप "Aho Shrutgyanam" Page #393 -------------------------------------------------------------------------- ________________ अभिविध्यर्थकयावच्छब्दः ] व्युत्पत्तिवादः। (३८१) अभिविध्यर्थों यावच्छब्दः ' कार्तिकमारभ्य चैत्र यावच्छीतं भवति ' इत्यादा 'काशीतः पाटलिपुत्रं यावद् वृष्टो देवः' इत्यादौ च । अभिविधिः-तत्पर्यन्ताभिव्याप्तिः । एवं च प्रथमे कार्तिकपूर्वकालोत्तरचैत्रोत्तरकालपूर्वकालव्यापकत्वं चैत्रोत्तरकालाऽवृत्तित्वसहितं शीतभवने. द्वितीये च काशीपश्चिमदेशपूर्वपाटलिपु. त्रपूर्वदेशपश्चिमदेशव्यापकत्वं पाटलिपुत्रपूर्वदेशावृत्तित्वसहितं वृष्टौ यावत्पदेन प्रत्याय्यते, विशेषः पूर्ववत् । यावच्छब्दसमानार्थकाऽऽशब्दस्थलेपि दर्शितैव रीतिरवसेया, तद्योगे च पञ्चमी साधुः ।। 'यज्ञमनु प्रावर्षत्' इत्यादावऽनुशब्दार्थः कारकत्वरूपं हेतुत्वम्-"अनुर्लक्षणे" इत्यत्र कर्मप्रवचनीयसंज्ञाविधायकसूत्रे लक्षणपदस्य कारकहेतुपरत्वात्, तत्र च यज्ञान्वितस्याधेयत्वरूपद्वितीयार्थस्याऽन्वयः, हेतुतायाश्च निरूपकत्वसंबन्धेन गन्तव्या । किं वा पूर्ववदेवात्राप्यवधित्वं प्राचीनमतेनाऽवधिमत्त्वं च नवीनमतेन द्वितीयार्थ इत्यनुसन्धेयम् । भभिविध्यर्थकयावच्छब्दमुदाहरति-अभीति । तेन सहाभिविधिः। 'चैत्रं यावत् । इतिकालरूपाभिविध्युदाहरणम्, 'पाटलिपुत्रं यावत् ' इति देशरूपाभिविष्युदाहरणम् । अभिविधिस्वरूपमाह-अभिविधिरिति, निष्कर्षमाह-एवं चेति । प्रथमे प्रथमोदाहरणे, कार्तिकपूर्वकालोत्तर कार्तिकपूर्वकाल आश्विनकालस्तदपेक्षयोत्तरकालः कार्तिकारम्भकालस्तं कालमारभ्य चैत्रोत्तरकालपूर्वकाल चैत्रोत्तरकालो धैशाखारम्भकालस्तदपेक्षया पूर्वकालश्चैत्रसमाप्तिकालस्तादृशकालव्यापकत्वं वैशाखव्यापकत्वं शीतेनास्तीति चैत्रोत्तरकालावृत्तित्वसहितं शीतभक्ने शीतसत्तायां यावत्पदेन प्रत्याय्यते इत्यन्वयः । द्वितीये-द्वितीयोदाहरणे च काशीपश्चिमदेशपूर्व काश्या यः पश्चिमदेशस्तदपेक्षया पूर्वदेशः पश्चिमायां काश्यारम्भदेशस्तं देशमारभ्य पाटलिपुत्रपूर्वदेशपश्चिमदेश-पाटलिपुत्रापेक्षया यः पूर्वदेशस्तदपेक्षया पश्चिमदेशः पूर्वस्यां पाटलिपुत्रनगरसमाप्तिदेशस्तादृशदेशव्यापकत्वं पाटलिपुत्रापेक्षया यः पूर्वदेशस्तदऽवृत्तित्वसहितं वृष्टौ यावत्पदेन प्रत्याय्यते इत्यन्वयः । यावच्छब्दसमानार्थकाऽऽशब्दप्रयोगस्थलेपि= 'आबालं हरिमक्तिः , ' कार्तिकमारभ्याऽऽचैत्रम् ' ' काशीत आपाटलिपुत्रम् , इत्यादावप्युक्तयावच्छब्दरीतिरेव विज्ञेया। तद्योगे-आशब्दयोगे " पञ्चम्यऽपाऽऽपरिभिः " इतिसूत्रेण पञ्चम्यपि भवति यथा-'भा मुक्तेः संसारः । इति । अनुशब्दसममिव्याहृतद्वितीयार्थमनुशब्दार्थ चाह-यज्ञमिति । कारकहेतुपरत्वादिति-उक्तं च महाभाष्ये " अनुहेंताविति , "लक्षणेन हेतुरपि व्याप्तो न ह्यवश्यं तदेव लक्षणं भवति येन पुनः पुनर्लक्ष्यते किं तर्हि ? यत् सकृदपि निमित्तत्वाय कल्पते तदपि लक्षणं भवति " इत्यादि । तथा चात्रानुशब्देन हेतुत्वबोधकेन यज्ञे वृष्टिरेतुत्वं बोध्यते-यज्ञहेतुका दृष्टिरित्यर्थः । तत्र अनुशब्दार्थहेतुत्वे आधेयत्वरूपद्वितीयार्थस्य-वृत्तित्वरूपद्वितीयार्थस्थान्वयः, हेतुत्वस्य च "Aho Shrutgyanam" Page #394 -------------------------------------------------------------------------- ________________ ( ३८२) सादर्श:- [द्वितीयाकारकद्वितीयखण्डे-- वृष्टावन्वयः । जन्यत्वं वाऽनुशब्दार्थः, तत्र निरूपितत्वरूपद्वितीयार्थस्य यज्ञान्वितस्यान्वयः, जन्यतायाश्चाऽऽश्रयत्वसंबन्धेन वृष्टावन्वयः। 'अन्वर्जुनं योद्धार' इत्यत्रापकर्षरूपं हीनत्वमनुशब्दार्थः, अर्जुनावधिकत्वं द्वितीयान्तार्थस्तस्य चाप. करेऽन्वयः । अवधित्वस्याऽपादानतारूपत्वेपि क्रियान्वयाभावान्न पञ्चमीप्र. सक्तिः । 'अस्मादयं दीर्घः' इत्यादौ 'भवति' इत्यस्याऽध्याहारेणैव पञ्चम्युप. पादनात् । अतः षष्ट्यपवादतानिर्वाहः ।। ___'वृक्ष प्रति विद्योतते विद्युत्' 'मातरं प्रति साधुः' 'यो मां प्रति स्यात्' 'वृक्ष वृक्षं प्रति सिञ्चति' इत्यादौ "लक्षणेत्थंभूत" इत्यादिसूत्रानुशिष्टकर्मप्रवचनीयनिरूपकत्वसंबन्धेन दृष्टावन्वय:-यज्ञवृत्तिहेतुताया दृष्टिनिरूपितत्वात् । आधेयत्वस्य निरूपकस्वसंबन्धेन यज्ञेन्वयः, स्वरूपसंबन्धेनाश्रयत्वसंबन्धेन वा हेतुत्वेऽन्वय इत्यर्थः तथा च यज्ञनिष्ठा या वृष्टिहेतुता तादृशहेतुतानिरूपिका वृष्टिरिति शाब्दबोधः । पक्षान्तरमाह-जन्यत्वमिति, तत्र जन्यत्वे । निरूपितत्वं द्वितीयार्थस्तथा च यज्ञनिरूपितजन्यतावती वृष्टिरिति प्राप्तम् । उदाहरणान्तरमाह-अन्वर्जुन मिति, हीनत्वमनुशब्दार्थः, अवधित्वं द्वितीयार्थ इति 'अर्जुनम्' इतिद्वितीयान्तस्याऽर्जुनावधिकत्वमर्थस्तस्य अर्जुनावधिकत्वस्य चापकर्षेऽन्वयः तथा च 'अर्जुनावधिकापकर्षवन्तो योद्धारः ( अर्जुनापेक्षयाऽपकृष्टाः) इत्यर्थः सिद्धः । नन्ववधित्वं ह्यपादानतारूपमेव अपादानत्वे च “अपादाने पञ्चमी'' इत्यनेन पञ्चमी प्राप्नोतीत्यत्राप्यर्जुनपदात् पञ्चमी किं न स्यादित्याशझ्याह-अवधित्वस्येति, पञ्चमी कारकविभक्तिरस्तीति यत्र पञ्चम्यार्थावधित्वस्य क्रियायामन्वयो भवति तत्रैव पञ्चमी भवति नान्यत्र. अत्र चावधित्वस्यापकर्षे एवान्वयो न क्रियायामिति न पञ्चम्यापत्तिरित्यर्थः । नन्वेवम् 'अस्मादयं दीर्घः' इत्यत्रापि पञ्चमी न स्यात् क्रियापदस्याभावादत्राप्यवधित्वस्य क्रियायामन्वयासंभवादित्याशङ्क्याह-अस्मादिति, अत्र 'भवति' इति क्रियापदाच्याहारेण तद्वाच्यक्रियायामेवावधित्वस्यान्वयेन पञ्चम्या युक्तत्वादित्यर्थः । फलमाह-अत इति, उपपदविभक्तिः षष्ठीबाधिकैव भवति न कारकविभक्तिबाधिका, अत्र च पञ्चम्याः प्राप्तिरेव नास्ति येनोपपदविभक्तरत्रत्यद्वितीयायाः पश्चमीबाधकत्वं स्यादिति षष्ठ्यपवादतानिर्वाहो जात इत्यर्थः । "लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यऽनवः" इतिसूत्रसिद्धप्रयोगानुदाहरति-वृक्षमिति। " लक्षणेत्थम् ॥ इतिसूत्रेण लक्षणाद्यर्थबोधकप्रत्यादीनां कर्मप्रवचनीयसंज्ञा विधीयते ततश्च “ कर्मप्रवचनीययुक्ते द्वितीया " इत्यनेन कर्मप्रवचनीय प्रत्यादियोगे द्वितीया भवति, अनुशिष्टम् अनुशासितम् । प्रथमे='वृक्षं प्रतिविद्योतते विद्युत्' इत्यत्र ‘कृष्णपक्षरात्रावन्तस्थः पुरुषो विद्युतमपश्यन्नपि वृक्षप्रकाशेन विद्युद्विद्योतनमनुमिनोति-प्रकारान्तरेण वृक्षप्रकाशासंभवादिति परिचायकत्वरूपम् ज्ञापकत्वरूपं लक्षणत्वं प्रत्यादिकर्मप्रवचनीयार्थः परिचायकत्वं वृक्षे वर्तते इति आधेयत्वम्-वृत्तित्वं द्वितीयार्थः । वृक्षप्रकाशज्ञाप्या विद्युत् किंवा प्रकाशद्वारा वृक्षवृत्तिज्ञापक "Aho Shrutgyanam Page #395 -------------------------------------------------------------------------- ________________ कर्मप्रवचनीयप्रतिपदप्रयोगाः । व्युत्पत्तिवादः । ( ३८३) संज्ञकप्रत्यादिशब्देषु प्रथमे परिचायकत्वरूपं लक्षणत्वं परिचेयत्वरूप: लक्ष्यत्वं वा कर्मप्रवचनीयार्थः, वृक्षप्रकाशेन विद्युद्विद्योतनज्ञानाद् वृक्षस्य परिचायकता, द्वितीयार्थश्चाऽऽधेयत्वं निरूपितत्वं वा । द्वितीये साधुत्वम् प्रियकारित्वं साधुत्वघटकक्रियान्वयी संबन्धः कर्मप्रवचनीयार्थः, संबन्धान्वयिप्रतियोगित्वं तन्निरूपकत्वं वा द्वितीयार्थः । तृतीये भागः-स्वत्त्वाश्रयः प्रत्याद्यर्थः, तदन्वयी संबन्धो द्वितीयार्थः, इत्थं चाऽस्मत्संबन्धी यो भाग स्यादिति बोधः। चतुर्थे कर्मण्येव द्वितीया षत्वबाध एव संज्ञाफलं प्रतिश्च निरर्थकः-'गृहे गृहेऽश्वाः' इत्यादाविव व्यापकताया द्विरुक्तिबललभ्यत्वात् । प्रतिशब्दस्य व्यापकतार्थकावे उक्तार्थकत्वेन "गृहं व्याप्नुवतेऽश्वाः' इत्यादाविव द्विरुक्तिरेव न स्यात् । तानिरूपितज्ञाप्यताश्रयविद्योतनव्यापारवती विद्युत् इत्यादिश्च शाब्दबोधः । पक्षान्तरमाहपरिचयत्वरूपमिति, परिचेयत्वरूपम्--परिचयकर्मत्वरूपं लक्ष्यत्वं प्रतेरर्थः, अत्र पक्षे निरूपि. तत्वं द्वितीयार्थः-वृक्षनिरूपितलक्ष्यत्ववती विद्युद्विद्योतते इत्यर्थः । द्वितीये 'मातरं प्रति साधुः' इत्यत्र साधुत्वं प्रियकारित्वमेव तत्र साधुत्वघटका-प्रियकारित्वघटका ह्यनुकूलाचरणरूपा या क्रिया तादृशक्रियान्वयी तादृशक्रिया निरूपितो यः सेवकत्वादिरूपः संबन्धः स प्रत्यादिकर्मप्रवचनीयस्याथः, तादृशसंबन्धप्रतियोगित्वं मातरीति प्रतियोगित्वं द्वितीयार्थस्तथा च मातृप्रतियोगिकोक्तसंबन्धाश्रय इत्यर्थः प्राप्तः । किं वा तादृशसंबन्धनिरूपकत्वं मातरि वर्तते इति निरूपकत्वं द्वितीयार्थस्तथा च मातृनिरूपितोक्तसंबन्धवानित्यर्थः प्राप्तः । तृतीये-'यो मां प्रति स्यात्' इत्यत्र स्वत्वाश्रयो भाग एवं कर्मप्रवचनीयप्रत्याद्यर्थः, तदन्वयी=भागान्वयी यः संबन्धः स्वस्वसंवन्धः स द्वितीयार्थ इत्यर्थः । वाक्यार्थस्वरूपमाह-इत्थमिति, अत्र 'दीयताम् ' इत्यादिशेषः । चतुर्थे='वृक्ष वृक्षं प्रति सिञ्चति' इत्यत्र कर्मण्येव द्वितीयेति कर्मत्वं द्वितीयार्थस्तथा च सकलवृक्षकर्मकं सेचनमिति शाब्दबोधः । नन्वत्र वृक्षस्य कर्मत्वं तु सिञ्चतिक्रियापदयोगादपि संभवतीति प्रतिशब्दस्य कर्मप्रवचनीयसंज्ञाविधानस्य किं फलमित्याशङ्क्याह-षत्वबाध एवेति, अत्र “ उपसर्गात्सुनोति " इतिसूत्रेण उपसर्गसंज्ञकप्रतिशब्दयोगे सिचः सकारस्य षत्वं प्राप्नोति तत्र " लक्षणेत्थंभूत " इति सूत्रेण प्रतेः कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाबाधात् पत्वबाधो जातः स एव प्रतेः कर्मप्रवचनीयसंज्ञाफलम्, तदुक्तम्-" अत्रोपसर्गत्वाभावान्न षत्वम्" इति, इत्यर्थः । 'गृहे गृहेऽश्वाः' इत्यत्र यथाऽश्वानां गृहव्यापकत्वं द्विरुक्या लभ्यते तथा 'वृक्ष वृक्ष प्रति सिञ्चति ' इत्यत्रापि सेचनस्य वृक्षव्यापकता द्विरुक्तयैव लम्यते इति प्रतिशब्दो निरर्थक एवं न वीप्सार्थक इत्याह-प्रतिश्चेति । विपक्ष बाधकमाह-प्रतिशब्दस्येति, यथा 'गृहं व्याप्नुवतेऽश्वा::' इत्यत्र व्याप्नुवते इति पदेनैव व्यापकताया उक्तत्वाद् गृहपदद्विरुक्तिन भवति-उक्तार्थानामप्रयोग इति नियमात तथा ' वृक्षं प्रति' इत्यत्रापि यदि प्रतिशब्दो व्यापकताबोधकः स्यात् तदा व्यापकताबोस्य सं वृक्ष "Aho Shrutgyanam' Page #396 -------------------------------------------------------------------------- ________________ (३८४) सादर्शः- द्वितीयाकारकद्वितीयखण्डेन च प्रतिशब्दस्यापि व्यापकतार्थकत्वम् ‘प्रतिदिनमधीते ' इत्यादौ क्लतं द्विरुक्तेरपि 'वृक्षं वृक्षं सिञ्चति ' इत्यादौ क्लप्तमिति प्रकृते "संभेदनान्यतस्वैयर्थ्यम् " इतिन्यायाद् द्वयोरेव व्यापकताबोधकत्वमऽवर्जनीयमिति वाच्यम्, 'प्रतिमासमधीते' इत्यादावऽव्ययीभावे हि प्रथमातिरिक्तविभक्तरसाधुत्वेन प्रतिशब्देन मासान्वितव्यापकत्वं क्रियायां बोध्यते विभक्तिः साधुत्वार्था । 'वृक्ष वृक्ष प्रति सिञ्चति । इत्यत्र तु सेके द्वितीयार्थकर्मत्वावरुद्धप्रकृत्यर्थवृक्ष. विशेषितव्यापकता बोधयितुं न शक्यते- एकविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वे व्युत्पत्तिविरोधात्. कर्मत्वसंबन्धस्यैव च व्यापकताघटकत्वेन स्वीक. रणीयतया वृत्त्यनियामकस्य तस्य तथात्वासंभवाच्च । तस्य सेककर्मवे आश्र. यतासंबन्धघटितव्यापकताप्रत्यायनमपि न युज्यते- प्रकृत्यर्थसुबर्थयोरन्तरा वृक्षपदद्विरुक्तिन स्यात्, उक्तार्थानामप्रयोगात्. अस्ति च द्विरुक्तिरिति तयैव व्यापकतारूपार्थे लब्धे प्रतिशब्दो निरर्थक एवेत्यर्थः । शङ्कते-- न चेति । प्रकृते= वृक्षं वृक्ष प्रति सिञ्चति ' इत्यत्र । संमेदेति - एकार्थबोधकयोरेकत्रापि संभेदे संयोगे प्राप्तेऽन्यतरस्य चैयर्थ्य न भवति किं तु द्वयोरेव सार्थक्यमेव भवतीति “वृक्षं वृक्ष प्रति ' इत्यत्र व्यापकताबोधकयोयोरेव द्विरुक्तिप्रतिशब्दयोर्द्वयोरेव सार्थक्यं युक्तमित्यर्थः । परिहारमाह- प्रतिमासमिति, अव्ययीभावसमासोत्तरं साधुत्वार्थ प्रथमैव प्राप्नोति न प्रथमातिरिक्तापि विभक्तिः सा प्रथमापि निरर्थकैव भवति तस्मात् “प्रतिमासम् ' इत्यऽव्ययीभावसमासोस्तीति तदुत्तरं द्वितीयादिविमक्तिरेव न संभवति यया व्यापकत्वबोधनं स्यादिति प्रतिशब्देनैव मासव्यापकत्वमध्ययनक्रियायां बोध्यते इति युक्तं तत्र प्रतापकत्वार्थकत्वम्प्रकारान्तरेण व्यापकत्वलामाऽसंभवात् । ' वृक्षं वृक्षं प्रति , इत्यत्र तु प्रतिशब्दबोध्यव्यापकताया निरूपकत्वसंबन्धेन वृक्षे विशेषणत्वं स्यादेव एवं च सेचनरूपक्रियायां प्रतिशब्देन व्यापकत्वबोधनं न संभवति-- द्वितीयार्थकर्मत्वेनावरुद्धः विशिष्टो यः प्रकृत्यर्थभूतो वृक्षस्तद्विशेषितायाः= वृक्षे विशेषणतां प्राप्ताया व्यापकतायाः सेके विशेषणत्वासंभवात्- एक विशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वं न भवतीति व्युत्पत्तिविरोधादित्यर्थः । एवम् ' वृक्षं वृक्षं प्रति । इत्यत्र प्रतिशब्देन वृक्षविशेषणत्वेनापि व्यापकत्वं बोधयितुं न शक्यत इत्याह- कर्मत्वेति, कर्मत्वसंबन्धेनैव प्रतिशब्दप्रतिपाद्यव्यापकताया वृक्षविशेषणत्वं स्वीकार्य तत्र च तस्य कर्मत्वसंबन्धस्य वृत्त्यनियामकतयाऽभावीयप्रतियोगितावच्छेदकत्वं न संभवतीति — न वृक्षं वृक्षं प्रति सिञ्चति । इत्यत्र कर्मत्वसंबन्धेन व्यापकत्वाभावबोधनासंभवेन तस्य कर्मत्वसंबन्धस्य तथात्वासंभवात् व्यापकतासंबन्धत्वमपि न संभवतीत्यर्थः । ननु प्रतिशब्दप्रतिपाद्यव्यापकताया यदि सेचनवृक्षयोपान्वयो न संभवति तदा सेचनकर्मत्वे आश्रयतासंबन्धेनान्ययो भवतु- आश्रयतासंबन्धस्य च इति नियामकत्वेन न व्यापकत्वाभावबोधानुपपत्तिरपीत्याशङ्कयाह- तस्येति, तस्य प्रतिशब्द "Aho Shrutgyanam Page #397 -------------------------------------------------------------------------- ________________ कर्मप्रवचनीयप्रतिपदप्रयोगाः ] व्युत्पत्तिवादः । ( ३८५) नअतिरिक्तभानस्य व्युत्पत्तिविरुद्धत्वात्, "नामूढस्येतरीत्पत्तेः', "नानुपमृद्य प्रादुर्भावात्" इत्यादौ नार्थमात्रस्य पञ्चम्यर्थहेतुतायां विशेषणत्वेन प्रकृत्यर्थस्य च विशेष्यत्वेनाऽन्वयातू, तस्मात् प्रतिरनर्थक एव । द्विरुक्तान्वये तात्पर्यबलाच सेचनकर्मत्वे वृक्षादेव्यापकत्वं संसर्गतयैव भासते ।। __ यदि च ' वृक्षं प्रति षिञ्चति । इत्यादावुपसर्गस्य प्रतेर्वाच्यो द्योत्यो वा कश्चिदन्योऽर्थः ? तदाऽस्तु स एवात्रापि तदर्थः । अत एव तस्येवाऽस्यापि प्रतिशब्दस्य प्रयोगो नानर्थः। वस्तुत:- अनर्थकयोः कर्मप्रवचनीयाऽधिपरि शब्दयोः प्रयोगवत् तादृशपतेरपि प्रयोगस्य प्रयोजनान्तरानुपपत्तिश्चिन्त्या । स्याश्रयतासंबन्धेन सेककर्मत्वेपि व्यापकताप्रत्यायकत्वं न संभवतीत्यर्थः । उक्त हेतुमाह- प्रकत्यर्थेति, व्यापकतायाः सेककर्मत्वेऽन्वये हि कर्मत्वविशेषणीभूक्तव्यापकतायाः कर्मत्वापेक्षया पूर्व प्रवेशेन प्रकृत्यर्थभूतो यो वृक्षः सुबर्थभूतं च यत्कर्मत्वं तयोर्मध्यपतित्वं प्राप्नुयाद् न चैतद् युक्तम्- प्रकृत्यर्थसुबर्थयोर्मध्ये नीतिरिक्तपदार्थभानस्य व्युत्पत्तिविरुद्धत्वादित्यर्थः । प्रकृत्यर्थसुबर्थयोर्मध्ये नर्थमात्रस्य भानं भवतीत्यस्योदाहरणमाह- नामूढस्येति, इदं च चतुर्थाध्यायप्रथमाह्निकन्यायसूत्रद्वयम्, मोहहीनस्य रागद्वेषौ न भवत इतिप्रथमसूत्रार्थस्तत्र मोहाभावे रागद्वेषोत्पत्त्यमायहेतुत्वं प्रतीयते इति पञ्चम्यर्थहेतुतायां नर्थाभावस्य विशेषणत्वेन प्रकृत्यर्थ ( उत्पत्ति ) विभक्त्यर्थ ( हेतुत्व ) योर्मध्यपतितत्वेन भानं भवति, एवं नानुपमृद्येत्यस्य बीजादेरुपमर्दम् विनाशं विनाऽङ्कुरादिप्रादुर्भावो न भवतीत्यर्थस्तत्रोपमर्दाभावे प्रादुर्भावाभावहेतुत्वं प्रतीयते इति न प्रादुर्भावादित्यत्र पञ्चम्यर्थहेतुतायां नअर्थाभावस्प विशेषणत्वेन प्रकृत्यर्थभूतप्रा. दुर्भाव-विभक्त्यर्थभूतहेतुत्वयोर्मध्यपतितत्वेन मानं भवतीत्यर्थः । उपसंहरति- तस्मादिति, यस्मात् प्रतिशब्देन सेकसेककर्मत्ववृक्षाणां विशेषणत्वेन व्यापकताबोधनं न संभवति तस्मात् प्रतिशब्दोत्र निरर्थक एवेत्यर्थः । नन्वेवं द्विरुक्त्यापि व्यापकत्वबोधनं न स्यादित्याशङ्कयाहद्विरुक्तेति । वृक्षादेरिति षष्ठयों निरूपितत्वम् । वृक्षादिनिरूपितं सेचनकर्मत्वनिष्ठं व्यापकत्वं द्विरुक्तितात्पर्यबलात संसर्गमर्यादया भासते, संसर्गमर्यादया भाने च न कोपि दोषः, उक्तदोषाणां प्रतिशब्दोपस्थापितव्यापकत्वस्य प्रकारतया भाने एव संभवादित्यर्थः । पक्षान्तरमाह-यदि चेति, अन्यः व्यापकत्वभिन्नः कर्मत्वादिरूपः । सः व्यापकत्वमिन्नः । अत्र='वृक्षं वृक्षं प्रति सिञ्चति' इत्यत्र । तदर्थः प्रतिशब्दार्थः । कर्मत्वस्य प्रतिशब्दार्थत्वे द्वितीया साधुत्वार्था निरर्थकैव विज्ञेयेति भावः । अतएव नाम ' वृक्ष प्रति ' 'वृक्ष वृक्ष प्रति इत्युभयत्रापि प्रतिशब्दस्य समानार्थत्वादेव । तस्येव= वृक्षं प्रति' इत्यत्रत्यप्रतिशब्दस्येव । अस्य= 'वृक्ष वृक्षं प्रति' इत्यत्रत्यप्रतिशब्दस्य । स्वाभिप्रायमाह--वस्तुत इति, तादृशप्रतेः कर्मप्रवचनीयप्रतेः । यथा 'कुतोऽध्यागच्छति कुतः पर्यागच्छति' इत्यत्रानर्थकयोरप्यऽधिपारशब्दयोः प्रयोगस्य प्रयोजनान्तरानुपपत्तिर्नास्ति "गतिर्गतौ" इतिनिघाताभावस्यैव प्रयोजनत्वोपपत्तस्तथा 'वृक्षं वृक्ष "Aho Shrutgyanam" Page #398 -------------------------------------------------------------------------- ________________ ( ३८६ ) सादर्श: , 9 , [ द्वितीयाकारकद्वितीयखण्डेप्रतेर्यत्र व्यापकतार्थकत्वं तत्र 'प्रतिवृक्षं सिञ्चति । इत्यव्ययीभावसमास एव नियतः - तदर्थकाव्ययस्याऽव्ययीभावसमासविधेर्विभाषाधिकारीयताविरहेण निकृत्यत्वात्, अतो वीप्सया 'प्रतिवृक्षं सिश्चात ' इतिवत् ' वृक्षं प्रति सिश्चति इति न प्रयोगः । यत्र व्यापकत्वार्थकेनाऽव्ययेनाऽव्ययीभावसमासस्तदुत्तरं सर्वत्र प्रथमा विभक्तिरेव । न तु ' उपकुम्भे गच्छति ' इतिवत् ' प्रतिगृहेऽश्वाः इत्यादिरपि प्रयोगः- उक्तयुक्तया तत्र प्रतिनाऽश्वादौ गृहादिव्यापकताया बोधयितुमशक्यत्वात् । तदाधारतादिरूप सप्तम्याद्यर्थे च समासार्थस्य गृहादिव्यापकत्वस्याश्रयतासंबन्धेन तदर्थस्य व्यापकरूपधर्मिणो वाऽभेद संबन्धेनान्वये मेयत्वे घटः घटवृत्तौ घटः' इत्यादिप्रयोगवारणाय कल्प्यायाः सप्तम्यर्थाधारतयामाश्रयत्व संबन्धेनाऽभेद संबन्धेन वा प्रकृत्यर्थाऽनन्वयव्युत्पत्तेर्विरोधात् । प्रति' इत्यत्रानर्थककर्मप्रवचनीयप्रतिशब्दप्रयोगस्य प्रयोजनान्तरानुपपत्तिर्नास्ति - ( ३८३ पृ.) उक्तषत्वाभावस्यैव प्रयोजनत्वोपपत्तेरिति प्रयोजनान्तरानुपपत्तिर्योक्ता सा चिन्त्येत्यर्थः । प्रतेर्यत्रेति, "अव्ययं विभक्ति" इत्यनेन यथाशब्दार्थ काव्ययेन समासः प्राप्तो यथाशब्दार्थाश्च योग्यतावी- "सादयस्तत्र वीप्सैव व्यापकतेति तदर्थकप्रतिशब्देन सह समासे जाते 'प्रतिवृक्षम् ' इति जातम् । तस्मात् ' वृक्षं वृक्षं प्रति' इत्यत्र प्रतिशब्दस्य व्यापकतार्थकत्वेऽव्ययीभावसमास एव स्यात् न चास्ति समास इति नात्र प्रतिशब्दो व्यापकतार्थक इति भावः । नित्यत्वादिति चिन्त्यम् -'वृक्षं वृक्षं प्रति' इत्यसमस्तवाक्यस्याप्यभीष्टत्वात् तदुक्तम्- " प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञा विधानसामर्थ्यात् तद्योगे द्वितीयागर्भं वाक्यमपि" इति । समासस्य नियतत्वे हेतुमाह - तदर्थकेति, तदर्थकाव्ययस्य = विभक्त्याद्यर्थ काव्ययस्य, निरूपितत्वं षष्ठ्यर्यस्तथा च तदर्थकाव्ययनिरूपितान्ययीभावसमासविधेर्नित्यत्वादित्यर्थः । उक्तसमासनित्यत्वस्य फलमाह- अत इति, वीप्सायाम् "वृक्षं प्रति' इतिप्रयोगो न भवति किंतु 'प्रतिवृक्षम् ' 'वृक्षं वृक्षं प्रति' इति वेत्यर्थः । उक्तसमासस्य विशेषान्तरमाह-- यत्रेति, तथा च 'प्रतिवृक्षम्' इत्यत्र प्रथमायाः "नाव्ययीभावात्” इति सूत्रेणाभावः प्राप्तस्तथा च प्रथमायाः साधुत्वार्थकत्वेन निरर्थकत्वाद् व्यापकत्वं प्रतेरेवार्थ इति भावः । विशेषान्तरमाह - न त्विति, उक्तयुक्त्या "सेके द्वितीयार्थकर्मत्वावरुद्ध" इत्यादियुक्त्या, निरूपकत्व संबन्धेन गृहे विशेषणतां प्राप्ताया व्यापकताया अश्वविशेषणत्वासंभवात् -"एकविशेषणत्वेनोपस्थितस्य" इतिव्युत्पत्तिविरोधादित्यर्थः । तदाधारतादीति, तत्-अश्वः । 'प्रतिगृहेऽश्वाः’ इत्यत्र यद्यश्वाधारतारूपसप्तम्यर्थे आश्रयत्वसंबन्धेन समासार्थस्य गृहव्यापकत्वस्यान्वयः क्रियेत ( अश्वाधारता गृहव्यापकतावती इति ) किं वाऽश्वाधारतारूपसप्तम्यर्थेऽभेदसंबन्धेन तदर्थस्यसमासार्थस्य व्यापकरूपधर्मिण एवान्वयः क्रियेत - अश्वाधारता गृहव्यापिकेत्येवं तदा सप्तम्यर्थघटाधारत्वे आश्रयतासंबन्धेन मेयत्वस्याप्यन्वयः स्यादिति 'मेयत्वे घटः' इत्यपि प्रयोगः स्यात्तथा "घटवृत्तौ घटः' इत्यत्र सप्तम्यर्थो घटाधारता प्रकृत्यर्थोपि घटवृत्तिपदवाच्या घटवृत्तित्वविशिष्टा घटाधारते - घटनिष्ठाधारताया घटवृत्तित्वादिति सप्तम्यर्थघटाधारतायामभेदसंबन्धेन प्रकृत्यर्थ < 6 "Aho Shrutgyanam" Page #399 -------------------------------------------------------------------------- ________________ अन्तरापदयुक्तद्वितीयार्थः ] व्युत्पत्तिवादः । (३८७) 'उपकुम्भे निधेहि ' 'उपकुम्भादागतः' 'उपकुम्भेन कृतः' इत्यादौ च विवक्षितस्याऽधारत्वाऽपादानत्वकर्तृत्वादौ कुम्भसमीपादेराधेयतासंबन्धेनाऽन्वयस्याऽधेयत्वादौ निरूपितत्वसंबन्धेन तदन्वयस्य वा बोधे न कश्चिद् व्युत्पत्तिविरोध इत्युपपद्यन्ते तथा प्रयोगा इति ध्येयम् । 'त्वां च मां चान्तरा' इत्यादौ " अन्तरान्तरेण युक्त " इतिद्वितीयाया निरूपितत्वमर्थः, तस्यान्तरापदार्थतावच्छेदकमध्यत्वेऽन्वयः । एवमन्यत्रापि तदर्थस्तूक्तदिशा स्वयं परिच्छेद्यः ॥ ॥ इति द्वितीयाविभक्तयः ॥ भूताया घटाधारताया अप्यन्धयः स्यादिति ' घटवृत्तौ घटः । इत्यपि प्रयोगः स्यात् न चैव प्रयोगौ भवत इति तद्वारणाय ' सप्तम्यर्थाधारतायामाश्रयत्वसंबन्धेनाऽभेदसंबन्धेन वा प्रकृत्यर्थस्यान्वयो न भवति । इतिव्युत्पत्तिः कल्प्या तथा चैतस्याः कल्प्याया व्युत्पत्तेविरोधात् 'प्रतिगृहेऽश्वाः ' इत्यत्राप्यश्वाधारतारूपसप्तम्यर्थे आश्रयतासंबन्धेन प्रकृत्यर्थस्य गृहव्यापकत्वस्य, अभेदसंबन्धेन च व्यापकरूपधर्मिणो वाऽन्वयो न संभवतीति 'प्रतिगृहेऽश्वाः । इतिप्रयोगोपि न भवति । उपकुम्भपदात्तु " दूरान्तिकार्थेभ्यो द्वितीया च " " सप्तम्यधिकरणे च ॥ इति. सूत्राम्यां द्वितीयातृतीयापञ्चमीसप्तम्यो वचनाद् भवन्तीत्यर्थः । उपकुम्भेति- 'उपकुम्भे । इत्यत्र सप्तम्यर्थाधारत्वे ' उपकुम्भात् ' इत्यत्र पञ्चम्यर्थाऽपादानत्वे ' उपकुम्भेन । इत्यत्र तृतीयार्थकर्तृत्वे आधेयतासंबन्धेन कुम्मसमीपस्यान्वये (आधारत्वादौ कुम्भसमीपाधेयतायाः सत्त्वात् ) तथाऽऽधेयत्वे= आधारत्वापादानत्वकर्तृत्वादिनिष्ठाधेयत्वे तदन्वयस्य-कुम्भसमीपान्वये न कश्चिद्व्युत्पत्तिविरोधोस्तीति तथाप्रयोगा:-' उपकुम्भे , इत्यायुक्तप्रयोगा उपपद्यन्ते । आधारत्वादिनिष्ठाधेयत्वस्य कुम्भसमीपनिरूपितत्वेन तादृशाधेयत्वे कुम्भसमीपनिरूपितत्वस्य सत्त्वात् तेन संबन्धेन तादृशाधेयत्वे कुम्भसमीपस्यान्वयः । आधारस्वादीनां च कुम्भसमीपवृत्तित्वेनाऽऽधारत्वादावाऽऽधेयत्वं ज्ञेयमित्यर्यः ।। त्वां चेति- ' त्वां च मां चान्तरा हरिः । इत्यत्र " अन्तरान्तरेण युक्ते " इति सूत्रेण द्वितीया भवति तस्याश्च द्वितीयाया निरूपितत्वमर्थः, तस्य च द्वितीयार्थभूतनिरूपितत्वस्य अन्तरापदार्थतावच्छेदकमध्यत्वेऽन्वयस्तथा च स्वन्मनिरूपितमध्यत्वविशिष्टो हरिरिति शान्दबोधः, आवयोर्मध्येहरिरेवेति भावार्थः । अन्तरापदस्य मध्यपदार्थवाचकत्वाद् मध्यत्वमन्तरापदार्थतावच्छेदकमित्यर्थः। अन्तरेणेतिपदं विनार्थकम् यथा- 'अन्तरेण हरिस्मरणं न सुखम् ' इति । अत्र न निरूपितत्वं द्वितीयार्थः किं तु विनापदोक्तस्थलीयरीतिरूह्येति- हरिस्मरणाभावप्रयोज्यसुखाभाव इति शाब्दबोधः । प्रतियोगित्वं द्वितीयार्थः । द्वितीयाकारकनिरूपणमुपसंहरति- एवमिति । अन्यत्र अन्यद्वितीयोदाहरणेष्वप्येवमेव विज्ञेयम् । तदर्थः तादृशद्वितीयार्थो द्वितीयाप्रोपकशब्दविशेषार्थश्च स्वयमुक्तदिशा परिच्छेद्यः निर्वचनीयः- शास्त्रस्य मार्गमात्रप्रदर्शकत्वादि. त्यर्थः ।। ॥ मतिः श्रान्ता पुरो गन्तुं विरमत्यधिकलेखतः ॥ ॥ इति व्युत्पत्तिवादाऽऽदर्श द्वितीयाकारकं समाप्तम् ॥ "Aho Shrutgyanam" Page #400 -------------------------------------------------------------------------- ________________ ॥ अथ तृतीया ॥ कारकविभक्तितृतीयायाः क्रियान्वयि कर्तृत्व करणत्वं चार्थ:- “ कर्तृकरण. योस्तृतीया " इत्यनुशासनात् । कर्तृत्वं च मुख्यं क्रियानुकूलकृतिरेव, सा च काख्यातसमभिव्याहृते 'चैत्रः पचति' इत्यादौ क्रियाविशेष्यतयाऽऽख्यातेन प्रतिपाद्यते । 'चैत्रेण पच्यते तण्डुलः' ' चैत्रेण शय्यते' इत्यादिकर्मभावाख्यातस्थले च क्रियायां विशेषणतया तृतीयया सा प्रत्याय्यते । यत्तु तत्राप्याख्यातार्थ एवं कृतिः, तृतीयार्थश्चाधेयत्वम्, तस्य चाख्यातार्थकृतिविशेषणतयाऽन्वयः, कृतेश्च क्रियाविशेषणतया । तथाकृतिबोधने चात्मनेपर्दरूपाख्यातस्य यगादिसमभिव्याहारज्ञानमपेक्षितम्- ‘पचति । ' पचते' कारकद्वितयग्रन्यविशेषार्थविदां नृणाम् । इतः क्लेशकरं स्वल्पं ज्ञातव्यमवशिष्यते ॥ तृतीयाविभक्त्यर्थनिरूपणमारमते- कारकेति । उक्त प्रमाणमाह- कर्तकरणयोरिति । कर्तत्वस्वरूपमाह-कर्तृत्वमिति । सा=कृतिः । समभिव्याहृते समभिव्याहारे । क्रियाविशेष्यतपेति‘पचति । इत्यादी 'पाकानुकूल कृतिमान् ' इतिबोधोदयात् कृतेः क्रियाविशेष्यत्वं प्राप्तम् । आख्यातेन कर्ताख्यातेन । “चत्रेण पच्यते तण्डुलः । इति कर्माख्यातप्रयोगः, - चैत्रेण शंप्यते । इतिभावाख्यातप्रयोगः- शीधातोः कर्माभावात् । सा=कृतिः । विशेषणतयेति'पच्यते । इत्यत्र कृतिजन्यपाकजन्यविक्लित्त्याश्रयस्तण्डुलः ‘शय्यते ' इत्यत्र च कृतिजन्यशयनव्यापार इति बोधोदयात् कृतेः क्रियाविशेषणत्वमेव प्राप्तम् । क्रियाविशेषणतया चात्र कृतिः तृतीयया प्रतिपाद्यते नत्वाख्यातेन-- अन्यथा तृतीयाया नैरर्थक्यं स्यात् “ कर्तृकरणयोः" इति सूत्रेण च तृतीयाया कर्तृत्वार्थकत्वानुशासनात्. कर्तृत्वं च कृतिरेवेत्यर्थः । परिहाराय मतान्तरमनुवदति- यत्त्विति । तत्रापि= पच्यते , ' शय्यते । इत्युक्तकर्माख्यातभावाख्यातस्थलयोरपि । आख्यातार्थ एवं कृतिर्न तृतीयार्थ इत्यर्थः । उक्तस्थलीयतृतीयाया अर्थमाह- तृतीयार्थश्चेति । तस्य तृतीयार्थभूताधेयत्वस्य । तथा च ' चैत्रेण पच्यते' इत्यत्र चैत्रवृत्तिकृतिजन्यपाकजन्यविक्लित्याश्रयस्तण्डुलः ' चैत्रेण शय्यते' इत्यत्र च चैत्रवृत्तिकृतिजन्यशयनव्यापार इति बोधोदयाद् व्यापारे कृतेः कृतौ चाधेयत्वस्य-वृत्तित्वस्य विशेषणत्वं प्राप्तम् । " क्रियाविशेषणतया " इत्यत्र ‘अन्वयः । इति शेषः । तथाकृतिबोधने=' चैत्रवृत्तिकृतिजन्यव्यापारः ' इत्येवं क्रियाविशेषणतया कृतिबोधने । उक्ते हेतुमाह- पचतीति । तथाकृत्यन्वयाबोधात् कृतेः क्रियायां विशेषणतया शाब्दबोधाविषयत्वात् । नन्वेवं ततीयाया "Aho Shrutgyanam" Page #401 -------------------------------------------------------------------------- ________________ तृतीयायाः कृत्यर्थकत्वम् ] व्युत्पत्तिवादः। (३८९) इत्यादौ तथाकृत्यन्वयाबोधात् । ' चैत्रेण ज्ञायते. गम्यते ' इत्यादौ तृतीयाया आधेयत्वार्थकत्वं क्लप्तमेवेति न तत्कल्पनमऽधिकमिति, तन्न-'चैत्रेण पक्क' इत्यादौ तृतीयायाः कृत्यर्थकताया आवश्यकत्वात्-तत्र कृत्यर्थकाख्यातविरहेम कृतश्च कर्तृकर्मवाचकत्वेन कृत्यर्थकताविरहात् । यदि च कर्तृकृतः कृतावेव शक्तिर्न तु विशिष्ट ‘ज्ञाता ' इत्यादौ त्वाश्रयार्थकतायाः कृतः क्लप्तत्वेन तत्र कृत्यन्वयादेव कर्तृलाभसंभवादित्युच्यते ? तथापि कर्मकृतः कृत्यर्थत्वमप्रसक्तमेव । उक्तप्रत्ययस्य क्वचित् कर्तृवाचकत्वपि ' चैत्रेण पाच्यः' 'दुष्पचश्चैत्रेणौदनः ' 'चैत्रेणौदनस्य पाकः' इत्यादौ कृतां न आधेयत्वार्थकत्वकल्पनमधिकं स्यात तेन च गौरवं स्यादित्याशझ्याह- चैत्रेणेति, 'चैत्रेण ज्ञायते । इत्यत्र ' चैत्रवृत्तिज्ञानम् , ' चैत्रेण गम्यते । इत्यत्र च ' चैत्रवृत्तिसंयोगानुकूलव्यापारः । इतिबोधोदयात् तृतीयाया आधेयत्वार्थकत्वं क्लृप्तमेवेति नाधिककल्पनापत्तिरित्यर्थः । तत्कल्पनम् आधेयत्वार्थकत्वकल्पनम् । उक्तमतं परिहरति- तन्नेति, ' चैत्रेण पकम् ' इत्यत्राख्यातमेव नास्ति यस्यार्थः कृतिः स्यात् कृत्प्रत्ययस्य च कर्मवाचकत्वेन कृतिवाचकत्वं न संभवतीत्यत्र विवशं तृतीयाया एव कृतिवाचकत्वं स्वीकार्य तथा चात्र तृतीयायाः कृतिवाचकत्वे प्राप्ते 'चैत्रेण पच्यते ' इत्यादावपि तृतीयाया एव कृतिवाचकत्वं युक्तं नाख्यातस्येत्यर्थः । - ननु ' चैत्रेण पक्कम् ' इत्यादौ कर्मकृतः कृतिवाचकत्वाभावेपि कर्तृवाचककृत्प्रत्ययस्य तु कृतावेव शक्तिः स्वीकार्या लाघवात् कृतौ शक्तौ कृतित्वमेकमेव शक्यतावच्छेदकं कर्तरि सक्ती तु कृतेः शक्यतावच्छेदकत्वं स्यात् कृतीनां च नानात्वाद् गौरवं स्यादिति न विशिष्ट-कृतिविशिष्ट कर्तरि शक्तिर्येन कर्तृकृतः कर्तृवाचकत्वेन तृतीयायाः कृतिवाचकत्वं प्रसज्येत तस्मात् तृतीयार्थ आधेयत्वमेवेति यदुक्तं तदेव युक्तमित्यर्थः । नन्वेवं कर्तृलाभः कथं स्यादित्याशः क्याह-ज्ञातेति, ' ज्ञाता ' इत्यत्र 'ज्ञानाश्रयः । इतिबोधोदयादाश्रयार्थकत्वं कृत्प्रत्ययस्य क्लृप्तमेव तथा च कर्तृकृतां कृतावाश्रये च शक्तिरिति प्राप्तं तत्र प्रत्ययार्थाश्रये प्रत्ययार्थकृतेरन्व. यादेव कर्तृलाभः कर्तृविषयकबोधः संभवत्येव-कृत्यन्वयिन आश्रयस्यैव कर्तृपदार्थत्वादिति कर्तकृतां कृतावेव शक्तिः । तथा च ' पक्ता ' इत्यत्र ' पाककृत्याश्रयः । 'गन्ता' इत्यत्र 'गमनकृत्याश्रयः ' इत्येवं बोधः उन्नेय इत्याशङ्क्याह-यदीति । उत्तरमाह-तथापीति, कर्तृकृप्रयोगस्थले उक्तरीत्या कर्तृलामसंभवेन कर्तृकृतः कृतिवाचकत्वसंभवेपि कर्मवाचककृल्पस्ययस्य तु कृतिवाचकत्वं कथमपि न संभवतीति 'चैत्रेण कृतम् । इत्यादिकर्मकृत्सममिव्याहारस्थले तृतीयाया एव कृतिवाचकत्वं स्वीकार्यमित्यर्थः । कर्तृकृतः कचित् कर्तृवाचकत्वेनो. तलाघव पुरोधात् कृतिवाचकत्वमभ्युपगम्यापि तृतीयायाः कृतिवाचकत्वावश्यकतामाह-उक्तेति, उक्तप्रत्ययस्य कृत्प्रत्ययस्य कचित् = कर्ता पक्ता ' इत्यादौ कर्तृवाचकत्वे प्राप्ते लाघवात् कृतिवाचकत्वे स्वीकृते तृतीयायाः कृत्यवाचकत्वे प्रसक्तेपि ' चैत्रेण पाच्यः । इत्यादिस्थले कृतप्र "Aho Shrutgyanam" Page #402 -------------------------------------------------------------------------- ________________ (३९०) सादर्श: [ तृतीयाकारकेकृतिबोधकत्वमिति तत्र कृतिबोधानुरोधेन तृतीयायाः कृतिवाचकत्वमावश्यकम् । एवं च 'चैत्रेण पच्यते' इत्यादावपि तृतीययैव कृतिर्बोध्यते, तत्र चैत्रादेः संबन्ध एवाधेयत्वमित्यत एव निर्वाहे कृतावाऽऽधेयत्वस्य विशेषणतया भानोपगमस्यानुचितत्वात्,तथा सति तत्संसर्गस्यापि विषयताकल्पनाधिक्यात् । तादृशवाक्यज्ञानघटितशाब्दसामय्यामधिकोपस्थितिनिवेशेन च गौरवात् । अथ तत्र कृतेस्तृतीयार्थतोपगमे 'चैत्रेण पच्यते न मैत्रेण ' इत्यादौ तृतीयान्तार्थमैत्रीयकृतेरभाव: पाकेऽन्येतीत्युपेयं तस्याश्च समवायसंबन्धावच्छिन्ना; भावो मैत्रकर्तृकपाकेपीत्यतिप्रसङ्गः, जन्यतायाश्च वृत्यनियामकतया तत्संबन्धावच्छिन्नाभावः प्रसिद्धयत्येव न, मैत्रकर्तृकपाककर्मत्वाभावस्य कर्मणि तण्डुलादौ प्रतीतिश्च कर्मवाचकपदासमभिव्याहारस्थले दुर्घटा, आधेयत्वस्य तृतीयार्थत्वे चाधेयत्वाभावबोध एव कृतावङ्गीक्रियते । त्ययस्य कृतिबोधकत्वं नास्ति भवति च कृतेर्बोध इति विवशं तृतीयाया एव कृतिबोधकत्वं स्वीकार्यमावश्यकं चेत्यर्थः । उपसंहरति-एवं चेति, उक्तरीत्या तृतीयायाः कृतिवाचकत्वे सिद्धे ' चैत्रेण पच्यते । इत्यादिस्थलेपि तृतीयाया एव कृतिबोधकत्वं स्वीकार्य न त्वाख्यातस्येत्यर्थः। तथा च तत्र-कृतौ चैत्रादेः संबन्ध एवाधेयत्वम्-चैत्रादेः स्ववृत्तिकृतावाऽऽधेयतासंबन्धेनान्वयो भवतीत्याधेयत्वस्य संबन्धत्वेन रूपेणापि बोधविषयता निर्वाहे संभवति सति तृतीयाया आधेयत्वे शक्तिं स्वीकृत्य तादृशतृतीयार्थभूतस्याधेयत्वस्य कृतौ विशेषणत्वेन रूपेण भानस्वी. कारो नोचित एवेत्यर्थः । विपक्षे बाधकमाह-तथा सतीति, आधेयत्वस्य तृतीयार्थत्वे तेन च विशेषणत्वे स्वीकृते तत्संसर्गस्यापि आधेयत्वसंसर्गस्याप्यधिकस्य शाब्दबोधविषयतापत्त्या गौरवं स्यादित्यर्थः । किं चाधेयत्वस्य विशेषणत्वे विभिन्न विषयकप्रत्यक्ष प्रति शाब्दसामग्र्याः प्रतिबन्धकत्वस्थले आधेयत्वोपस्थितेरपि तादृशशाब्दसामग्र्यां निवेशापत्त्या गौरवं स्यादित्याह-तादृशेति, तस्मात् तृतीयायाः कृतिवाचकत्वमेव युक्तं नाधेयत्ववाचकत्वमित्यर्थः। __ आशङ्कते-अथेति । कृतेस्तृतीयार्थतोपगमे ' चैत्रेण पच्यते न मैत्रेण , इत्यत्र मैत्रेणेति तृतीयान्तार्थो यो मैत्रीयकृतिस्तदभावस्य पाके एवान्वयः स्यात् तस्याः कृतेश्च समवायेनाभाको मैत्रकर्तृकपाकेप्यस्त्येव समवायेन कृतेरात्ममात्रवृत्तित्वादित्यऽतिप्रसङ्गः मैत्रकर्तृकपाकसत्त्वेपि मैत्रेण न पच्यते । इति प्रयोगापत्तिरूपोतिप्रसङ्गः स्यात्, यदि चैत्रकर्तृकपाके मैत्रकृतेर्जन्यतासंबन्धेनाऽभाव उच्येत तदपि न संभवति--जन्यतासंबन्धस्य वृत्त्यनियामकतयाऽभावीयप्रतियोगितावच्छेदकत्वासंभवादित्याह-जन्यतायाश्चेति । यदि ' चैत्रेण पच्यते न मैत्रेण ' इत्यत्र तण्डुले मैत्रकर्तृकपाककर्मत्वस्याश्रयतासंबन्धेनाभाव उच्यते. तदपि न संभवति कर्मवाचकतण्डुलादिपदाभावे पदानुपस्थिततण्डुलादौ मैत्रकर्तृकपाककर्मत्वाभावप्रतीतेरपि दुर्घटत्वात-तण्डुलोपस्थित्यभावादित्याह-मैत्रेति । तस्मान्न कृतिस्तृतीयार्थः किं त्वाधेयत्वमेव, तथा च ' चैत्रेण "Aho Shrutgyanam" Page #403 -------------------------------------------------------------------------- ________________ तृतीयायाः कृत्यर्थकत्वम् ] व्युत्पत्तिवादः । ( ३९१ ) न च तथा सति मैत्रचैत्रोभयकर्तृकपाकस्थले चैत्रीयपाककृतौ मैत्रवृत्तित्वा भावसखात् ' मैत्रेण न पच्यते ' इतिप्रयोगापत्तिरिति वाच्यम्, 'मैत्रेण न पच्यते ' इत्यत्र वर्तमानपाकानुकूलकृतित्वावच्छेदेन मैत्रवृत्तित्वाभावबोधनाद उक्तस्थले च तादृशकृतित्वसामानाधिकरण्येन मैत्रवृत्तित्वसत्त्वात् तादृशवाक्याप्रामाण्यात् । वर्तमानत्वस्य कृतिविशेषणतया च ' चैत्रेण पक्ष्यतेऽपच्यत न तु पच्यते ' इत्युपपद्यते । क्रियाविशेषस्य तथात्वाद् यदा मैत्रेणान्यत् क्रियते न तु पच्यते तदा ' मैत्रेण न पच्यते ' इति प्रयोगश्च । न चाख्यातेन कालस्य कृतिविशेषणतया बोधनात् कालविशेषविशेषितकृतित्वस्यान्वयितावच्छेदकतया तदवच्छेदेन नञाऽभावः शक्यते बोधयितुं न तु कालक्रियाविशेषोभयविशेषितकृतित्वावच्छेदेन कर्मप्रत्ययस्थले क्रियायाः कृति ८ ' पच्यते न मैत्रेण ' इत्यत्र पाकानुकूलकृतावाssधेयत्वस्य = मैत्रवृत्तित्वस्याभाव आश्रयतासंबन्धेन प्रात: पाकानुकूला कृतिमैत्रवृत्तिर्न ' इति, अत्र च न कोपि दोष इत्याधेयत्वमेव तृतीयार्थे इत्यर्थः । " ननु तथा सति = आधेयत्वस्य तृतीयार्थत्वं स्वीकृत्य कृतौ मैत्रवृत्तित्वाभावस्वीकारे चैत्रमैत्रो - भयकर्तृकपाकस्थलेपि चैत्रकृतौ मैत्रवृत्तित्वाभावस्य सत्त्वेन तद्बोधकस्य ' मैत्रेण न पच्यते इति प्रयोगस्यापत्तिः स्यादित्याशङ्क्याह-न चेति । परिहारमाह- मैत्रेणेति, ' मैत्रेण न पच्यते' इति वाक्येन वर्तमानकालिकायामेव पाकानुकूलकृती मैत्रवृत्तित्वाभावः प्रत्याय्यते उक्तस्थले== चैत्रमैत्रोभयकर्तृकपाकस्थले च तादृशकृतित्वसामानाधिकरण्येन=वर्तमानपाकानुकूलकृतित्वसामानाधिकरण्येन=वर्तमानायां पाकानुकूलायां कस्यचित् (मैत्रसमवेतायाम् ) कृतौ मैत्रवृत्ति - स्वस्यापि सत्त्वादेव तदभावबोधकस्य ' मैत्रेण न पच्यते ' इतिवाक्यस्याप्रामाण्यमेवेति न प्रयोगापत्तिरित्यर्थः । कृतौ वर्तमानत्वविशेषणनिवेशस्य फलमाह - वर्तमानत्वस्येति, न तु पच्यते ' इत्यनेन वर्तमानपाकानुकूलकृतावेव चैत्रवृत्तित्वाभावात् भूतभविष्यत्पाकानुकूलकृतौ च चैत्रवृत्तित्वस्यैव सत्त्वात् ' चैत्रेण पक्ष्यतेऽपच्यत न तु पच्यते ' इतिप्रयोग उपपद्यते एवं मैत्रकर्तृकान्यक्रियाकाले क्रियाविशेषस्य तादृशान्यक्रियाया एव तथात्वात् वर्तमानकृ• तिजन्यत्वात् पाकानुकूलक्रियायाश्च वर्तमानकृतिजन्यत्वाभावात् ' मैत्रेण न पच्यते ' इति प्रयोगवोपपद्यते इत्यर्थः । 喜 शङ्कते - न चेति, 'मैत्रेण न पच्यते' इत्यत्र कालविशेषो वर्तमानकालः स चाख्यातेन कृतिविशेषणतया बोध्यते, मैत्रवृत्तित्वाभावस्य कृतावऽन्वयादन्वियिनी कृतिः, अन्वयितावच्छेदकं च कृतिश्वम्, तदवच्छेदेन= वर्तमानकालावच्छिन्नकृतित्वावच्छेदेन हि कृतौ अभावः = मैत्रवृत्तित्वाभावो बोधयितुं शक्यते यथा - 'वर्तमानकालावच्छिन्ना कृतिमैत्रवृत्तिर्न' इति, न स्वति - कालक्रियो - भयविशेषेण विशेषितकृतित्वावच्छेदेन तु नञाऽभावो न बोधयितुं शक्यते- 'मैत्रेण पश्यते' "Aho Shrutgyanam" Page #404 -------------------------------------------------------------------------- ________________ सादर्श: [ तृतीयाकारकेविशेषणत्वाभावेन तद्घटितधर्मस्याऽन्वयितावच्छेदकत्वाभावादिति वाच्यम्, कियाविशेषघटितधर्मस्यान्वयितानवच्छेदकत्वेपि तदवच्छिन्नत्वविशिष्टविशेषणताया अभावसंसर्गतया भानसंभवेन सामनस्यात् । इत्यादिकर्मप्रत्ययस्थले 'मैत्रवृत्तिकृतिजन्यपाकजन्यव क्लित्याश्रयस्तण्डुलः' इत्याकारकबोधोदयेन कृतेरेव क्रियायां विशेषणत्वेन कृतौ क्रियाया विशेषणत्वामात् तद्घटितधर्मस्य-पाकादिक्रियाविशेषितकृतित्वस्याऽन्वयितावच्छेदकत्वाभावात् तथा च 'मैत्रेण न पच्यते' इत्यत्र वर्तमानकालिककृतिसामान्येपि मैत्रवृत्तिस्वाभावस्यान्वयो न संभवति- मैत्रे पाककृतेरसंभवेपि कृत्यन्तरस्य बाधाभावात् वर्तमानकालिकपाकानुकूलकृतावपि मैत्रवृत्तित्वाभावस्यान्वयो न संभवति- कृतावुक्तरीत्या पाकक्रियाया विशेषणत्वाभावेन पाकक्रियावच्छिन्न (विशेषित ) कृतित्वस्याऽन्वयितावच्छेदकत्वाभावादिति यदुक्तम्- " आधेयत्वस्य तृतीयार्थत्वे चाधेयत्वाभावबोध एव कृतावङ्गीक्रियते ३९०" इति तन्नोपपद्यते । अस्मन्मते च तृतीयावाच्यमैत्रवृत्तिकृतौ पाकानुकूलत्वाभावबोधने किंवा वक्ष्यमाणदिशा पाके मैत्रवृत्तिकृतिजन्यत्वाभावबोधने न काप्यनुपपत्तिीरत्यर्थः । पूर्वपक्षी परिहरतिक्रियाविशेषति उक्तरीत्या क्रियाविशेषघटितधर्मस्य पाकक्रियाविशेषितकृतित्वस्यान्वयितानवच्छेदकत्वेपि तदवच्छिन्नत्व विशिष्टविशेषणतायाः पाकक्रियावच्छिन्नत्वसमानाधिकरणस्वरूपस्य अभावसंसर्गतया मैत्रवृत्तित्त्वाभावसंसर्गतया भानसंभवेन समञ्जस्यात्, भयं भावः- यद्यपि शाब्दबोधकाले कर्मप्रत्ययस्थले कृतेरेव क्रियायां विशेषणत्वेन पाकक्रियायाः कृतौ विशेषणत्वाभावात् पाकक्रियावच्छिन्नकृतित्वस्यान्वयितावच्छेदकत्वं न संभवतीति पाकक्रियावच्छिन्न कृतित्वावच्छेदेन मैत्रवृ. त्तित्वाभावस्यान्वयोपि न संभवति तथापि अभावो हि स्वरूपसंबन्धेत्यपरपर्यायेण विशेषगतासंबन्धेन सर्वत्रान्वितो भवतीत्यत्र मैत्रवृत्तित्वाभावस्य स विशेषणतासंबन्धः तदवच्छिन्नत्वविशिष्टः ( पाकक्रियावच्छिन्नत्वसमानाधिकरणः ) ग्राह्यः-- कृतौ तादृशः स्वरूपलक्षणः संबन्धोप्यस्त्येव चैत्रवृत्तिकृतेः पाकजनकत्वेन वस्तुगत्या कृतावनुकूलतासंबन्धेन पाकक्रियान्वयस्य सत्त्वेन कृतौ तदपच्छिन्नत्वम्-पाकक्रियावच्छिन्नत्वमस्त्येव शाब्दबोधे तस्य भानं न संभवतीत्यन्यदेतत् तथा च पाकक्रियावच्छिन्नत्वसमानाधिकरणस्वरूपसंबन्धेन चैत्रादिवृत्तिपाककृतावेव मैत्रवृत्तित्वामावस्यान्वयः संभवति न कृतिसामान्ये इति नोक्तदोष इति न 'मैत्रेण न पच्यते इति प्रयोगानुपपत्तिः, न वा “आधेयत्वस्य तृतीयार्थत्वे चाधेयत्वाभावबोध एव कृतावङ्गीक्रियते" इत्युक्तस्यानुपपत्तिः। पाकक्रियावच्छिन्नत्वस्य संसर्गकोटौ प्रवेशेन तदुपस्थित्यपेक्षापि नास्तीति सर्व समञ्जसमिति । नन्धन्वयितावच्छेदकावच्छिन्नत्वमेव विशेषणस्य संबन्धे भासते 'न तु तदन्यधर्मावच्छिन्नत्वमपि यथा - घटवद् भूतलम्' इत्यत्र भूतले घटसंयोगोप्यस्ति भूतलत्वमप्यस्तीति विशेषणस्य घटस्य संबन्धे संयोगे भूतलत्वावच्छिन्नत्वमेव भासते नान्यधर्मावच्छिन्नत्वं तथा च 'मैत्रेण न पच्यते' इत्यत्र यदुक्तम् .. 'तदवच्छिन्नत्वविशिष्टविशेषगतासंबन्धेन कृतौ मैत्रवृत्तित्वामावस्यान्वय उपेयते' इति "Aho Shrutgyanam" Page #405 -------------------------------------------------------------------------- ________________ शरदि पुष्प्यन्ति सप्तच्छदाः ] व्युत्पत्तिवादः । ( ३९३ ) न चान्वयितावच्छेदकावच्छिन्नत्वमेव विशेषण संबन्धे भासते इतिनियमः, तथा सति शरादे पुष्यन्ति सप्तच्छदाः' इत्यादौ सप्तच्छदपुष्पोत्पत्तित्वादेः शरवृत्तित्वाधन्वयितानवच्छेदकत्वादाऽऽख्यातान्तप्रतिपाद्यतावच्छेदकपुष्पोत्पत्तित्वाद्यवच्छेदेन च शरवृत्तित्वान्वयबाधादऽवच्छेदकावच्छेदेनान्वयानुपपत्तेः । अन्वयितावच्छेदकसामानाधिकरण्यमात्रेण च तदन्वयोपगमे 'शरदि पुष्प्यन्ति सप्तच्छदाः ' 'शरदि पुष्प्यन्ति चम्पकाः' इत्यविशेषेण प्रयोगापत्तिः । : तन्न युक्तं किं तु कृतित्वस्यैवान्वयितावच्छेदकत्वेन केवलकृतित्वावच्छिन्न ( कृतित्वावच्छिन्नत्वसमानाधिकरण ) विशेषणतासंबन्धेनैव कृतौ मैत्रवृत्तित्वाभावस्यान्त्रयः स्वीकार्यः, पाककृतित्वस्य न्यूनवृत्तित्वेनान्वयितावच्छेदकत्वाभावाच्च, कृतित्वावच्छिन्नत्वावच्छिन्न विशेषणतासंबन्धेन कृतौ मैत्रवृत्तित्वाभावान्वये हि कृतित्वावच्छेदेन यावत्कृतौ मैत्रवृत्तित्वाभावान्वय उपलभ्येतेति 'मैत्रेण भक्ष्यते' इत्यादिप्रयोगोपि न स्यात्, कृतित्वावच्छिन्न विशेषगतासंबन्धं परित्यज्य पाककृतित्वावच्छिन्न विशेषणतासंबन्धस्य ग्रहणे चेतन्नियमस्य व्याघातः स्यादित्याशङ्क्याह- न चेति । किं वात्रैवकारस्य 'भासते एव' इत्येवमन्वयः । किं चान्वयितावच्छेदकावच्छिन्नत्वं विशेषणसंबन्धे भासते यदि तदा 'विशेषणान्वयितावच्छेदकावच्छेदेनान्त्रयो भवति' इत्ययमेवार्थः प्राप्तः यत्र विशेषणं भवति तत्रैव विशेषण संबन्धस्यापि संभवादिति विज्ञेयम् । अयं नियम एव नास्ति येनोक्तदोषापत्तिः स्यात् तथा चोक्तवर्त्तमानपाककृतित्वावच्छिन्न विशेषगताया एव संबन्वत्वात् वर्तमानपाककृतावेव चैत्रादिनिष्ठायां मैत्रवृत्तित्वाभावस्यान्त्रयो जायते न तु कृतिसामान्ये इति न 'मैत्रेण पक्ष्यते' 'मैत्रेण गम्यते भक्ष्यते' इत्यादिप्रयोगानुपपत्तिरित्यर्थः । उक्तनियमस्वीकारे बाधकमाह- तथा सतीति, तथा सति = एतन्नियमस्वीकारे हि 'शरदि पुष्प्यन्ति सप्तच्छदाः' इत्यत्र शरद्वृत्तित्वं विशेषणमस्ति तदन्वयितावच्छेदकत्वं सप्तच्छदपुष्पोत्पत्तित्वस्य न संभवति - 'पुष्यन्ति' इत्यनेनोपस्थित्यभावात् किं तु पुष्पोत्पत्तित्वस्यैव. पुष्पोत्पत्तित्वावच्छेदेन च शरवृत्तित्त्रस्यान्वयो न संभवति - सकलपुष्पोत्पत्तिषु शरद्वृत्तित्वस्याऽसंमवादित्यऽवच्छेदका - बच्छेदेन=अन्वयितावच्छेदकावच्छेदेन ( पुष्पोत्पात्तत्वावच्छेदेन ) अन्ययानुपपत्तेः= विशेषणान्वयो न संभवति । अन्वयितावच्छेदकसामानाधिकरण्यमात्रेण = किंचित्पुष्पोत्पत्तौ तदन्वयोपगमे =शरवृत्तित्वस्यान्ययोपगमे च सप्तच्छदपुष्पोत्पत्तौ शरवृत्तित्वान्वयस्य संभवेपि दोहदवशात् किंचित्चम्पकपुष्पोत्पत्तेरपि शरदि संभवेन किंचित् चम्पकपुष्पोत्पत्तावपि शरद्वृत्तित्वसंभवात् 'शरदि पुष्पन्ति सप्तच्छदाः' इतिवत् 'शरदि पुष्प्यात चम्पकाः' इत्यपि प्रयोगः स्यात्, न चैतदिष्टमिति दोष परिहाराय यथा 'शरदि पुष्यन्ति सप्तच्छदाः' इत्यत्र सप्तच्छदपुष्पोत्पत्तित्वावच्छेदेनैव शरवृत्तित्वस्यान्वय उपेयते न तु पुष्पोत्पत्तित्वरूपान्वयितावच्छेदकावच्छेदेन तथैव 'मैत्रेण न पच्यते' इत्यत्रापि वर्तमानपाककृतित्वावच्छेदेनैव मैत्रवृत्तित्वाभावस्यान्वय उपेयते न तु शुद्धान्वयितावच्छेदक कृतित्वावच्छेदेनेत्यर्थः । "Aho Shrutgyanam" Page #406 -------------------------------------------------------------------------- ________________ (३९४) सादर्शः [तृतीयाकारकेयदि च तत्र शरत्संबन्धः सप्तच्छदविशेषणतया भासते न पुनराख्यातार्थे धातुमात्रार्थे वा पुष्पोत्पत्ती. अत एव तत्र :कारकविभक्तिरूपसप्तम्यनुपपत्त्या कालरूपविशेषणपदोत्तरं स्वातन्त्र्येण सप्तमी शर्ववर्मणाऽनुशिष्टा. एवं च क्रियानिमित्तत्वरूपकारकत्वगर्भकर्तृत्वस्याख्यातार्थत्वे पुष्पोत्पत्तिनिमित्तत्वरूपाख्याता न्तार्थस्य विशिष्टान्वयानुरोधेन शरत्संबन्धेप्यन्वय उपगन्तव्य इति कारकत्वस्याख्यातार्थत्वानुपगमेपि 'शीतलं सरोवगाढतो निदाघदुःखं व्यपैति' इत्यादाविवोद्देश्यविधेयभावमहिम्नोद्देश्यविशेषणेन शरत्संबन्धन विधेयभूतपुष्पोत्पत्तेः प्रयोज्यप्रयोजकभावस्य संसर्गमर्यादया भानमौत्सर्गिकमिति चम्पकादिपुष्पोत्पत्तौ ननु 'शरदि पुष्प्यन्ति सप्तच्छदाः' इत्यत्र शरवृत्तित्वमाऽऽख्यातार्थे पुष्पोत्पत्त्याश्रयत्वेपि विशेषणं नास्ति तथा धात्वर्थभूतपुष्पोत्पत्तावपि विशेषणं नास्ति येनोक्तदोषापत्तिः स्यात् किं तु शरवृत्तित्वं सप्तच्छदे एव विशेषणमस्ति, अत एव शरदीति सप्तम्यर्थवृत्तिस्वस्य सप्तच्छदद्रव्ये विशेषणत्वेन क्रियायां विशेषणत्वामावादेव कारकविभक्तिरूपसप्तम्या अत्र प्राप्तिर्नास्तीति विचार्य शर्ववर्मणा व्याकरणकर्ता विशेषणीभूतकालविशेषवाचकपदोत्तरं पृथगेव सप्तम्यनुशिष्टा, शरवृत्तित्वस्य सप्तच्छदाऽविशेषणत्वे तदनुशासनं व्यर्थमेव स्यात्, तथा चात्र 'शरवृत्तित्वविशिष्टाः सप्तच्छदाः पुष्प्यन्ति' इति शाब्दबोधः । तत्र च क्रियानिमित्तत्वमेव कारकत्वं कारकत्वव्याप्यं च कर्तृत्वमिति कारकत्वगर्भकर्तृत्वस्याख्यातार्थत्वे-आख्यातस्य कर्तृत्ये शक्तिस्वीकारपक्ष भाख्यातार्थभूतस्य कर्तृत्वरूपस्य पुष्पोत्पत्तिनिमित्तत्वस्य विशिष्टान्वयानुरोधेन विशिष्टे-शरदवृत्तित्व (शरसंबन्ध ) विशिष्ट सप्तच्छदेष्वऽन्वयानुरोधेन शरवृत्तित्वविशिष्टसप्तच्छदानां पुष्पोत्पत्तौ कर्तृत्वरूपनिमित्तत्वे प्राप्ते शरसंबन्धस्यापि पुष्पोत्पत्तिनिमित्तत्वं प्राप्त तथा च सप्तच्छदपुष्पोत्पत्ती शरत्संबन्धस्य निमित्तत्वातू ' शरदि पुष्प्यन्ति सप्तच्छदाः' इतिप्रयोगो भवति. शरदि चम्पकपुपोत्पत्तिस्तु दोहदादिनिमित्तिका भवति न तु शरत्संबन्धनिमित्तिका स्वभावतश्चम्पकपुष्पागा शरदि जायमानत्वाभावादिति 'शरदि पुष्प्यन्ति चम्पकाः' इतिप्रयोगापत्तिर्नास्ति; वृक्षादिजडपदार्थेषु कर्तृत्वस्य बाधादन कर्तृत्वलक्षणकारकत्वे शत्यऽस्वीकारपक्षे च यद्यपि शरवृत्तित्वविशिष्टसप्तच्छदानां पुष्पोत्पत्त्याश्रयत्वात् विशेषणीभूतशरदः सप्तच्छदपुष्पोत्पत्त्याश्रयत्ववत् चम्पकपुष्पोत्पत्त्याश्रयत्वमपि शरदि निराबाधमेवेति 'शरदि पुष्प्यन्ति चम्पकाः' इति प्रयोगः स्यादेव तथाप्यऽस्मिन् पक्षे यथा 'शीतलं सरः' इत्यत्र शीतलसरोऽवगाहनमुद्दिश्य निदाघदुःखापगमो विधीयते इत्युद्देश्यविधेयभावमहिम्ना निदाघदुःखापगमस्य शीतलसरोऽवगाहनस्य च परस्परं प्रयोज्यप्रयोजकमावः संसर्गमर्यादया भासते( उपस्थापकाभावात् तथैव 'शरदि पुष्प्यन्ति सप्तच्छदाः' इत्यत्रापि शरवृत्तित्वविशिष्टसप्तच्छदानुद्दिश्य पुष्पोत्पत्तिर्विधीयते इति विधेयभूतपुष्पोत्पत्तेरुद्देश्यविशषणीभूतशरत्संबन्धस्य च परस्परं प्रयोज्यप्रयोजकभावः संसर्गमर्यादया भासते तथा च सप्तच्छदपुष्पोत्पत्तौ शरत्संबन्धप्रयोज्यत्वस्य सत्वात् 'शरदि पुष्प्यन्ति सप्तच्छदाः' इति प्रयोगो भवति "Aho Shrutgyanam" Page #407 -------------------------------------------------------------------------- ________________ प्रकान्तवादः ] व्युत्पत्तिवादः । शरत्संबन्धनिमित्तकत्वाभावान्नोक्तातिप्रसङ्ग इत्युक्तस्थलेऽवच्छेदकावच्छेदेनान्वय एव नोपयते इत्युच्यते ? तथापि तादृशनियमो निष्प्रामाणिक एव । न च तादृशनियमानुपगमे ' इह भवने मैत्रेणैव पक्ष्यते तेमनम् ' इत्यत्रैतद्भवनाधिकरणकतेमनपाकत्वेन रूपेण शब्दात् पाकानुपस्थित्या तदवच्छिन्ने मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वव्यवच्छेदबोधासंभवकथनं ! दीधितिकृतां विरुध्येतेति वाच्यम्, अवच्छेदकावच्छेदेन विशिष्टबुद्धौ धर्मिणि विशेषणतया दोहदवशाज्जायमानचम्पकपुष्पोत्पत्तौ च शररसंबन्धप्रयोज्यत्वाभावादुक्तातिप्रसङ्गः = ' शरदि पुष्ट्यन्ति चम्पका:' इति प्रयोगापत्तिर्नास्ति, इति=तथा चोक्तस्थले= ' शरदि पुष्प्यन्ति सप्तच्छदाः इत्यत्रान्वयितावच्छेदकावच्छेदेन= पुष्पोत्पत्तित्वा वच्छेदेन शरवृत्तित्वस्यान्वय एव नोपेयते ( सप्तच्छदे एवान्वयस्वीकारात् ) येनान्वयितावच्छेदकावच्छिन्नत्वस्य विशेषणसंबन्धेत्र भानापत्तिः स्यात् ' मैत्रेण न पच्यते ' इत्यत्र त्वन्वयितावच्छेदकावच्छेदेनैव कृतौ मैत्रवृत्तित्वाभावान्ययस्वीकारावश्यकत्वाद् विशेषणसंबन्धेऽन्वयितावच्छेदकावच्छिन्नत्वं गले पतितमेव तत्र दोषाः प्रद ता एवेत्याशङ्क्याह- यदि चेति । परिहारमाह- तथापीति । तादृशनियमः = अन्वयितावच्छेदावच्छिन्नत्यमेव विशेषणसंबन्धे भासते इतिनियमः । तथा च ' मैत्रेण न पच्यते ' इत्यत्र वर्तमापाककृती मैत्रवृत्तित्वाभावान्वयसंभवान कोपि दोष इति भावः । ननु ' इह भवने मैत्रेणैव पक्ष्यते तेमनम् ' इत्यत्रैतद्द्भवनाधिकरण कतेमनपा करवावच्छिन्ने मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वाभावस्यान्वयबोधो न संभवति - पाकस्य एतद्भवनाधिकरणकतेमनपाकत्वेन रूपेणोपस्थिस्यभावादिति दीधितिकारोक्तमुक्त नियमस्वीकारे संगच्छते अनैतद्भवनाधिकरणकते मनपाकत्वस्यैवान्वयितावच्छेदकत्वात् तेन रूपेण चोपस्थिस्यभावेन तत्रोक्ताभावान्वयस्यासंभवात्, एतन्नियमानभ्युपगमे चाऽन्वयितानवच्छेदकं यत् पाकत्वं तादृशपाकत्वसामानाधिकरण्येन ( कस्मिंश्चित् पाके ) मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वाभावस्यान्वयः संभवत्येव -- पाकत्वेन रूपेणोपस्थितेः सत्त्वादित्युक्तनियमानभ्युपगमे दीधितिकारोक्तं मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वाभावस्यान्वयाऽसंभवकथनं न संगच्छते इति दीधितिग्रन्थ संगत्यर्थमुक्तनियमः स्वीकार्य एवेत्याशङ्क्याह-न चेति, तदवच्छिन्ने = एतद्भवनाधिकरण कते मनपाकत्वाव-च्छिन्ने । अत्र च पाकस्यावच्छेदेनापि मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वाभावस्याभ्वयो न संभवति - कस्मिंश्वित्पाके मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वस्यैव संभवादिति पाकत्व सामानाधिकरण्येनेत्युक्तम, ' चैत्रेण न पच्यते ' इत्यत्र कृतौ पाकक्रियाया विशेषणत्वाभावात् कृतित्वमेवान्वयितावच्छेदकं न तु पाकक्रियावच्छिन्नकृतित्वम्, ' शरदि पुष्प्यन्ति सप्तच्छदाः ' इत्यत्रापि सप्तच्छदानां विशेष्यत्वेन पुष्पोत्पत्तौ विशेषणत्वाभावात् केवलं पुष्पोत्पत्तित्वमेवान्वयितावच्छेदकम्, अत्र तु एतद्भवनाधिकरणकत्वस्य तेमनपाकत्वस्य च पाके विशेषणत्वाद् एतद्भवना - धिकरणकतेमनपाकत्वमेवान्वयितावच्छेदकमिति विशेषः । परिहारमाह-अवच्छेदकावच्छेदेनेति, ( ३९५ ) "Aho Shrutgyanam" 1 Page #408 -------------------------------------------------------------------------- ________________ सादर्श: [ तृतीयाकारकेभासमानमेव रूपं विशेषणेऽवच्छिन्नत्वसंबन्धेन विशेषणमित्याशयेन तेषां तदभिधानात् । विशेषणसंबन्धे तदवच्छिन्नत्वमेव तदवच्छेदेन विशिष्टबुद्धौ भासते इत्युपगमे शब्दानुपस्थितरूपावच्छेदेन विशेषणान्वये बाधकाभावात् । न चावच्छेदकावच्छिन्नत्वस्यावच्छेदकावच्छेदेन विशिष्टबुद्धौ विशेषणांशे भानमसंभवदुक्तिकम्-'घटो द्रव्यम्' इत्यादी घटत्वावच्छेदेन द्रव्यत्वादिमत्त्वबुद्धौ द्रव्यत्वादिविशेषणस्य स्वरूपत एवं भानादिति वाच्यम्, तादृशशाब्द. बोधे द्रव्यत्वाद्यवच्छिन्नस्यैवाऽभेदसंबन्धेन विशेषणत्वात्, घटत्वादिविशिष्टे यथा ' घटवद् भूतलम् । इत्याकारिकायामवच्छेदकावच्छेदेन विशिष्टबुद्धौ धर्मिणि भूतले विशेषणतया भासमानरूपम् भूतलत्वं विशेषणे घटसंयोगेपि स्वावच्छिन्नत्वसंबन्धेन विशेषणं भवति सथाऽत्र ' इह भवने ' इत्याकारकावच्छेदकावच्छेदेन विशिष्टबुद्धौ धर्मिणि-पाके विशेषणतयाभासमानरूपम् एतद्भवनाधिकरणकतेमनपाकत्वं विशेषगे-मैत्रान्यसमवेतकृतिविषयत्वाभावे स्वावच्छिन्नत्वसंबन्धेन विशेषणमिति वक्तव्यं तस्य चैतद्भवनाधिकरणकतेमनपाकत्वस्यानोपस्थित्यभावात् मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वाभावे विशेषणत्वं न संभवति--उपस्थितस्यैव विशेषणत्वसंभवादित्याशयेन तेषाम्-दीधितिकृताम् तत् तस्यः-उक्ताभावान्वयासंभवस्य कथनमस्ति न तु 'अन्वयितावच्छेदकावच्छेदेन विशेषणान्त्रयो भवति ' इत्यभिप्रायेण तथा च नोक्तनियमस्वीकारापेक्षाऽस्तीत्यर्थः । स्वाभिप्रायमाह-विशेषणसंबन्धे इति यथा ' घटवद् भूतलम् ' इत्यत्र घटसंयोगेऽवच्छिन्नत्वसंबन्धेन भूतलत्वं विशेषणम्, तथा च स्वाधच्छिन्नत्वसंबन्धेन भूतलत्वविशिष्टो यः संयोगस्तादृशसंयोगसंबन्धेन भूतलं घटवदिति शाब्दबोधाकारः, तथा ' इह भवने ' इत्यत्र विशेषगसंबन्धे विशेषगस्य मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वाभावस्य स्वरूपसंबन्धे तदवच्छिन्नत्वम् एतद्भवनाधिकरणकतेमनपाकत्वावच्छिन्नत्वं तदवच्छेदेन एतद्भवनाधिकरणकतेमनपाकत्वावच्छेदेन विशिष्टबुद्धौ मैत्रान्यसमवेतभविष्यतकृतिविषयत्वाभावान्वयबु. द्धौ भासते तथा चैतद्भवनाधिकरणकतेमनपाकत्वस्य संसर्गकोटी प्रवेशात् तदुपस्थित्यपेक्षानास्तीति शब्दादनुपस्थितेपि एतद्भवनाधिकरणकतेमनपाके मैत्रान्यसमवेतभविष्यत्कृतिविषयस्वाभावस्यान्वये न कोपि दोष इत्यर्थः । तदवच्छिन्नत्वम् अन्वयितावच्छेदकावच्छिन्नत्वम् । तदवच्छेदेन अन्वयितावच्छेदकावच्छेदेन । नन्वऽवच्छेदकावच्छेदेन विशिष्टबुद्धौ अवच्छेदकावच्छिन्नत्वं विशेषणे भासते ( विशेषणेऽवच्छिन्नत्वसंबन्धेन विशेषणम् ) इति यत्त्वयोक्तं तदपि न संभवति-'घटो द्रव्यम् । इत्यत्र द्रव्यत्वस्य स्वरूपेणैव भासमानत्वेन अन्वयितावच्छेदकं यद् घटत्वं तदवच्छिन्नत्वेन भासमानस्वाभावाद् अन्यथा सकलद्रव्यस्य घटत्वं स्यादित्याशङ्क्याह-न चेति । उत्तरमाह-तादृशेति, तादृशशाब्दबोधे=' घटो द्रव्यम् ' इत्याकारकशाब्दबोधे द्रव्यामेद एव घटे प्रतीयते इति घटे द्रव्यत्वावच्छिन्नमभेदसंबन्धेन विशेषणमस्तीति नेदं मदुक्तनियमस्योदाहरणं भेदसंबन्धस्थले एव "Aho Shrutgyanam Page #409 -------------------------------------------------------------------------- ________________ तृतीयायाः कृत्यर्थकत्वम् ] व्युत्पत्तिवादः । द्रव्यत्वादिविशेषणकतादृशप्रत्यक्षेऽवच्छेदकावच्छिन्नत्वभानानुपगमे हात् । तथा च ' मैत्रेण न पच्यते ' इत्यादौ पाककृतित्वस्यान्वयितानवच्छेदकत्वेप्यऽर्थलभ्यतादृशधर्मावच्छिन्नत्वस्य संसर्गांशे भानं निराबाधमेवेति चेत् ?, न - मैत्रेण न पक्कः इत्यादौ कृतौ मैत्रादिवृत्तित्वाभावबोधासंभवेन कृतिजन्यत्वस्य तृतीयार्थतां स्वीकृत्य क्रियायां मैत्रादिकृतिजन्यत्वाभावबोधस्यावश्यमुपगन्तव्यतया मैत्रेण न पच्यते ' इत्यादावपि तद्बोधोपगमेन सामञ्जस्यात् । न च यदा मैत्रः सुप्तस्तदा ' मैत्रेण पक्ष्यते न तु पच्यते ' इतिप्रयोगानुपपत्तिः - मैत्रवृत्तिवर्तमानकृतेरप्रसिद्धया तादृशकृतिजन्यत्वाभावप्रत्यायनासंभवात्, " 3 ( ३९७ क्षतिविर तस्य मदुक्तनियमस्य संभवात् 'घटवद् भूतलम् ' ' इह भवने' इत्यादौ भेदसंबन्धेनैवान्वयादित्यर्थः । घटत्वविशिष्टविषयके द्रव्यत्वविशेषण के तादृशप्रत्यक्षे-' घटो द्रव्यम् ' इत्याकारकप्रत्यक्षे च विशेषणेऽवच्छेदकावच्छिन्नत्वभानानभ्युपगमेपि क्षतिविरहात् = उक्तस्थलयोरन्वयितावच्छेदकावच्छिन्नत्वभानाभ्युपगमे बाधकाभावादित्यर्थः । उपसंहरति- तथा चेति, 'मैत्रेण न पच्यते ' इत्यत्र पाकक्रियाया विशेष्यत्वात् कृतौ विशेषणत्वाभावात् कृतित्वमेवान्वयितावच्छेदकं न तु पाककृतित्वमिति पाककृतित्वस्यान्वयितानवच्छेदकत्वेपि शब्दादनुपस्थितत्वेपि च पचधातुसमभिव्याहारवलात् पाककृतित्वस्य भानं संभवत्येवेत्यर्थलभ्यः = अर्थालुभ्यो यस्तादृशधर्म:पाककृतित्वधर्मस्तदवच्छिन्नत्वस्य संप्तर्गाशे = मैत्रवृत्तित्वाभाव संसर्गांशे भानं निराबाधमेव, पाककतित्वस्य संसर्गाशे प्रवेशेन तदुपस्थित्यपेक्षाभावात् तथा चात्र कृतौ पाककृतित्वावच्छिन्नविशेषणतासंबन्धेन वा पाककृतित्वावच्छिन्नस्वरूपसंबन्धेन वा मैत्रवृत्तित्वाभावस्यान्वयः क्रियते इति न कोपि दोषः । अत्रापि मैत्रवृत्तित्वाभावरूपविशेषणस्य संबन्धे एव तदवच्छिन्नत्वम् - पाककृ तित्वावच्छिन्नत्वं प्राप्तमित्यर्थः । "Aho Shrutgyanam" $ अथेत्यादिनाऽऽशङ्कितं परिहरति-नेति, यदि कृतिराख्यातार्थ एव स्यान्न तृतीयार्थस्तदा मैत्रेण न पकः ' इत्यत्राख्यातस्याभावेन कृत्युपस्थितिर्न स्यात्तथा च कृतौ मैत्रवृत्तित्वाभावबोधनमपि न स्यादित्यगध्याऽत्र तृतीयायाः कृतिजन्यत्वमर्थः स्वीकार्यस्तथा च तृतीययोपस्थित - मैत्रवृत्तिकृतिजन्यत्वस्य पाकक्रियायामभावस्तद्बोधनं च संभवतीति मैत्रेण न पच्यते ' इत्यत्रापि तृतीयायाः कृतिजन्यत्वार्थकत्वेन तद्बोधोपगमेन - पाके मैत्रवृत्तिकृतिजन्यत्वाभावबोध एव युक्त इत्यर्थः । ननु यदा मैत्रसुप्तस्तदा मैत्रे कृतिर्न संभवतीति मैत्रवृत्तिवर्तमानकृतेरसंभवाद् मैत्रवृत्तिवर्तमानकृतिजन्यत्वस्याsसंभवेन मैत्रवृत्तिवर्तमानकृतिजन्यत्वाभावस्य बोधोपि न संभवति वर्तमानत्वाविशेपितस्य सामान्यतः कृतिजन्यत्वस्याभावस्तु बाधित एव भूतभविष्यत्कृतिजन्यत्वस्य भूतभवियत्पाकादौ संभवादिति ' मैत्रेण पक्ष्यते न तु पच्यते ' इति प्रयोगानुपपत्तिरित्याशङ्क्याह Page #410 -------------------------------------------------------------------------- ________________ (३९८) सादर्श: [ तृतीयाकारकेवर्तमानत्वाविशेषिततदीयकृतिजन्यत्वाभावस्य च बाधितत्वादिति वाच्यम्, आख्यातार्थवर्तमानत्वादेर्नसमभिव्याहारस्थलेऽभावांशे एवान्वयस्य व्युत्पन्नत्वात् । अन्यथा 'विनष्टघटं न पश्यति' इत्यादौ तादृशघटकर्मकवर्तमानदर्शनाद्य ऽप्रसिद्धयाऽन्वयबोधानुपपत्तेः । प्रकृते च मैत्रीयवर्तमानकृत्यप्रसिद्धावपि वर्तमानकालावच्छिन्नतजन्यवाभावस्यैव पाके प्रतीत्या सामञ्जस्यात् । पाकत्वाद्यव. च्छेदेनैव मैत्रादिकर्तृकत्वाभावबोधोपगमाद् मैत्रादिकर्तृकपाकदशायामन्यकर्तृकपाके मैत्रादिकर्तृकत्वाभावसत्त्वेपि न पच्यते मैत्रेण ' इत्यादयो न प्रयोगाः। ___ यत्र मैत्रेणौदनं पच्यते न तु तेमनं तत्र 'मैत्रेण न पच्यते तेमनम् ' इत्यादिप्रयोगनिहाय तेमनपाकत्वाद्यवच्छेदेनैवाऽभावान्वयबोध उपगम्यते न तु शुद्धपाकत्वाद्यवच्छेदेन- बाधितत्वात् । यथा च तेन रूपेण शब्दादनुपस्थितावपि तदवच्छेदेनान्वयबोधनिर्वाहस्तथोपपादितमाधेयत्वस्य तृतीयार्थत्ववादिनैव । न चेति । फरहारमाह-आख्यातार्थेति, नसत्त्वे वर्तमानत्वादिकालस्याभावेऽन्वयो भवति न तु कृतौ कृतिजन्यत्वे वेत्यर्थस्तथा चोक्तस्थले वर्तमानकालिको यः कृतिजन्यत्वाभावस्तस्य पाकेऽन्धयोऽभीष्टस्तत्र च न काप्यनुपपत्तिः-उक्तस्थले पाके वर्तमानकालिकस्य कृतिजन्यत्वाभावस्य बाधाभावात् । विपक्षे बाधकमाह- अन्यथेति, यदि नसममिव्याहारस्थले आख्यातार्थवर्तमानस्वादेरभावेऽन्वयो न स्त्री क्रियेत तदा ‘विनष्टघटं न पश्यति ' इत्यत्र विनष्टघटस्यासत्त्वेन तादृश विनष्टघटकर्मकवर्तमानदर्शनस्याऽसंभवात्तदभावबोधनं नोपपद्येत, नत्रर्थाभावे च वर्तमा. नत्वस्यान्वये तु वर्तमानस्य दर्शनाभावस्य सत्त्वेनान्वयबोधः शाब्दबोध उपपद्यते । उपसंहरतिप्रकृते चेति, प्रकृते= मैत्रेण पक्ष्यते न तु पच्यते ' इत्यत्र । वर्तमानकालावच्छिन्नो यस्तजन्यत्वाभाव: कृतिजन्यवाभावस्तस्येत्यर्थः । पाकत्वेति- 'मैत्रेण न पच्यते' इत्यत्र पाकरवावच्छेदेन मैत्रकर्तृकत्वाभावबोधस्य मैत्रवृत्तिकृतिजन्यत्वाभावबोधस्य स्वीकारात् पाकत्वावच्छेदेन मैत्रकर्तृकत्वाभावस्याऽसत्त्वाच्च अन्यकर्तृकपाके मैत्रकर्तृकत्वाभावस्य सत्त्वेपि मैत्रकर्तृकपाके मैत्रकर्तृकत्वाभावस्याऽसत्त्वात् मैत्रकर्तृकपाकदशायाम् ' मैत्रेण न पच्यते ' इतिप्रयोगस्यापत्तिआस्तीत्यर्थः । - यत्रेति- यदा मैत्रेणौदनं पच्यते तेमनं तु न पच्यते तदा ' मैत्रेण न पच्यते तेमनम् । इतिप्रयोगनिर्वाहाय तेमनपाके एव मैत्रवृत्तिकृतिजन्यत्वाभावः स्वीक्रियते न तु सामान्यतः पाकेओदनपाके मैत्रवृत्तिकृतिजन्यत्वस्यैव सत्त्वेन मैत्रवृत्तिकृतिजन्यत्वामावस्य बाधितत्वादित्यर्थः । ननु “ मैत्रेण न पच्यते तेमनम् । इत्यत्र तेमनपाकत्वेन रूपेण पाकस्योपस्थितिरेव न संभवतीति कथं तेमनपाकत्वावच्छेदेन मैत्रवृत्तिकृतिजन्यत्वाभावस्यान्वयः स्यादित्याशझ्याह- यथा चेति । तेन रूपेण-मनपाकत्वेन रूपेण । तदवच्छेदेन तेमनपाकत्वावच्छेदेन । अन्वयबोध'निर्वाहः मैत्रवृत्तिकृतिजन्यत्वाभावबोधनिर्वाहः । उपपादितम् =" क्रियाविशेषघटितधर्मस्यान्वयितानवच्छेदकत्वेपि तदवश्छिन्नत्वविशिष्टविशेषणताया अभावसंसर्गतया भानसंभवेन साम "Aho Shrutgyanam" Page #411 -------------------------------------------------------------------------- ________________ .तृतीयायाः कृत्यर्थकत्वम् 1 व्युत्पत्तिवादः । ( ३९९ ) ( 6 < घटेन न पच्यते ' इत्यादयः प्रयोगाः ' आकाशं न पश्यति' इत्यादिप्रयोगसमानयोगक्षेमा एव मन्तव्याः । अचेतनस्य काष्ठस्थाल्यादेरपि कर्तृत्ववि - वक्षया ' काष्ठं पचति ' स्थाली पचति' इत्यादिवत् ' काष्ठेन पच्यते स्थाल्या पच्यते ' इतिप्रयोगात् तत्र व्यापाररूपे कर्तृत्वे तज्जन्यत्वरूपे तत्कर्तृकत्वे वा तृतीयाया लक्षणा । एवम्- 'चैत्रेण ज्ञायते. इष्यते गम्यते' इत्यादावाश्रयत्वरूपे कर्तृत्वे आधेयत्वरूपे कर्तृमत्त्वे वा, 'नश्यते घटेन' इत्यादौ प्रतियोगित्वरूपे कर्तृत्वेऽनुयोगित्वरूपे कर्तृमत्ये वा लक्षणा । कर्तृपदमाप व्यापारादिमत्यचेतनादौ भाक्तमेव- अचेतनादौ स्वरसतः कर्तृपदाप्रयोगात्, अत एव च कृञो यत्नवाचकत्वम् | अस्यात्. ३९२ " इत्यादिना " पाककृतित्वस्यान्वयितानवच्छेदकत्वेप्यर्थलभ्यतादृशधर्मावच्छिन्नत्वस्य संसर्गाशे भानं निराबाधमेव ३९७” इत्यादिना चोपपादितम् । अर्थात् तेमनपाकस्वस्य संसर्गाशे प्रवेशः कर्तव्यस्तथा च तेमनपाकत्वसमानाधिकरणविशेषणता संबन्धेन पाके मैत्रवृत्तिकृतिजन्यत्वाभावस्यान्वयः कर्तव्य इति तेमनपाकत्वेनोपस्थितेरपेक्षा नास्ति । घटेनेति - समानयोगक्षेमा = तुल्या निष्प्रामाणिका इत्यर्थः ( २९४ पृ.) द्रष्टव्यम् । नन्वेवम् ' काष्ठेन पच्यते ' इत्यादिप्रयोगाणामप्यऽप्रामाण्यं स्याद् घटकाष्ठयोरचेतनत्वेनाविशेषादित्याशङ्क्याह- अचेतनस्येति, प्रयोगात् = प्रयोगो भवतीत्यर्थः । काष्ठस्थाल्यादीनामचेतनत्वेपि पाके करणत्वादिना पाकोपयोगित्वेन कर्तृत्वविवक्षा संभवति न तु घटादेरपि - पाकोपयोगित्वाभावादित्ययमेव विशेष इति भावः । तत्र = ' काष्ठेन पच्यते ' इत्यत्राचेतने काष्ठे कृतेरसंभवेन तृतीयाया मुख्य कृत्यर्थकत्वासंभवात् कृतिजन्यत्वार्थकत्वासंभवाच व्यापाररूपे कर्तृत्वे तज्जन्यत्वरूपे = व्यापारजन्यत्वरूपे सत्कर्तृकत्वे = काष्ठकर्तृकत्वे वा लक्षणा तत्र कर्तृत्वं काष्ठादौ तत्कर्तृत्वं पाकादौ ज्ञेयम् । एवमिति, “ तृतीयाया लक्षणा " इत्यनुवर्तनीयम् । चैत्रादौ यज् ज्ञानाश्रयत्वं तदेव ज्ञानकर्तृस्वम्, ज्ञानादौ च यचैत्रनिरूपिताधेयत्वं तदेव कर्तृमत्वम् = चैत्रवत्त्वं ज्ञेयम् - आधेयत्वसंबन्धेन ज्ञानादौ चैत्रादिकर्तृपदार्थान्वयात् तथा च चैत्रकर्तृकज्ञानविषयताश्रयश्चैत्रवृत्तिज्ञानविषयताश्रय इति वा शाब्दबोधः । एवमेव ' गम्यते ' इत्यादावपि तृतीयायाः कर्तृवादी लक्षणा अनुयोगित्वेति-नाशरूपाभावेपि घटः स्वप्रतियोगिकत्वसंबन्धेन वर्तत इति अनुयोगित्वं नाशे प्राप्तं तदेव घटवत्त्वमित्यर्थः । भाक्तम् = लाक्षणिकम् । स्वरसत इति - मुख्यस्य कृतिमत्त्वरूपकर्तृत्वस्याचेतनेऽसंभवादित्यर्थः । अत एवेति - यत एवाचेतने कर्तृपदं भाक्तमत एव, यदि कृञो यत्नवाचकत्वं न स्यात्तदा कर्तृपदप्रयोगोऽचेतनेपि मुख्य एव स्यात् न चैतदिष्टमिति कृञो `यत्नवाचकत्वं तथा च कृञर्थयत्नस्याचेतनेऽभावाद् यत्नाश्रयत्वबोधककर्तृपदमचेतने काष्ठादौ लाक्षणिकमेव भवति न मुख्यमित्यर्थः । गम्यते इत्यत्र चैत्रकर्तृकगमनव्यापारजन्यसंयोगाश्रयः, “ काष्ठेन पच्यते इत्यत्र च काष्ठकर्तृकव्यापारजन्यविक्लित्त्याश्रय ओदनः । इतिशाब्दबोधः । "Aho Shrutgyanam" Page #412 -------------------------------------------------------------------------- ________________ (४००) सादर्श: [तृतीयाकारकेन च यत्नवत एव कर्तृपदार्थत्वे “कर्तृकरणयोस्तृतीया" इत्यादौ कर्तृपदस्य मुख्यार्थत्यागे युक्तिविरहादञ्चेतनकाष्ठादिपदप्रयोगे कर्तृप्रत्ययानुपपत्तिरिति वाच्यम्, सूत्रस्थकर्तृपदानाम् " स्वतन्त्रः कर्ता " इतिसूत्रकृत्परिभाषितकई परत्वात्, अन्यथा तत्प्रणयनवैयर्थ्यप्रसङ्गात् । स्वतन्त्रत्वं च कारकान्तरव्यापारानधीनत्वे सति कारकत्वम् । 'काष्ठं पचति ' इत्यादौ स्वातन्त्र्यविवक्षया काष्ठादेः कर्तृत्वम् । न च स्वातन्त्र्यविवक्षणेपि पुरुषव्यापाराधीनक्रियानुकूलव्यापारवतामेषामन्यव्यापारानधीनक्रियानुकूलव्यापारवत्वरूपस्य स्वातन्त्र्यस्य वास्तविकस्याभावात्तद्रोधकविभक्तीनामप्रामाण्यं दुर्वारमेवेति वाच्यम्, समभिव्याहृताक्रयाकारकान्तरव्यापारानधीनतक्रियानुकूलस्य व्यापारस्यैव तक्रियावाचकपदसमभिव्याहृतविभत्त्यर्थत्वात् । अनधीनान्तविशेषणप्रयोजनं च 'चैत्रः काठैः स्थाल्यां पचति' इत्यादिस्थले 'चैत्रः स्थाली काष्ठानि पचति' इतिप्रयोगापत्तिवारणम् । यत्र च 'चैत्र: पचति ' 'काष्ठं पचति' इत्यादौ समभिव्याहृतकारकान्त शङ्कते- न चेति, अचेतने काष्ठादौ यत्नाऽसंभवा देत्यर्थः । परिहारमाह- सूत्रस्थेति, " स्वतन्त्रः कर्ता " इतिसूत्रे सूत्रकृता परिभाषितं यत् स्वतन्त्रत्वरूपं कर्तृत्वं तत्परत्वात् सूत्रस्थकर्तृपदानामित्यर्थः । विपक्षे बाधकमाह-- अन्यथेति, अन्यथा उक्तपरिभाषितकर्तृत्वाग्रहणे यत्नाश्रयत्वरूपकर्तृत्वस्य लोकप्रसिद्धत्वात् " स्वतन्त्रः कर्ता " इतिसूत्रप्रणयनं व्यर्थमेव स्यात्, तथा च काष्ठादीना स्वतन्त्रत्वरूपकर्तृत्वस्य संभवात् काष्ठादिपदोत्तरं कर्तृतृतीया संभवतीत्यर्थः । स्वतन्त्रत्वलक्षणमाह- स्वतन्त्रत्वं चेति । __ शङ्कते- न चेति । एषाम्-काष्ठादीनाम् । तद्बोधकेति-- कारकान्तरव्यापारानधीनकारकत्वरूपं यत् स्वतन्त्रत्वं तादृशस्वतन्त्रत्वरूपकर्तृत्वबोधकविभक्तीनाम्, अचेतकाष्ठादौ पुरुषाधीनत्वेनोक्तस्वतन्त्रत्वस्याप्यसंभवादित्यर्थः । परिहारमाह-समभिव्याहृतेति, 'काष्ठेन पच्यते" इत्यादौ व्यापारस्यैव कर्तृत्वमुक्तमिति सममिव्याहृता क्रियाकारकान्तरव्यापारानधीना या तत्क्रिया पाकक्रिया तदनुकूलो यः प्रज्वलनरूपो व्यापारस्तस्यैव तक्रियावाचकेन 'पच्यते ' इति पदेन समभिव्याहृता या तृतीयाविभक्तिस्तदर्थत्वात् तस्य च काष्ठादावपि सत्त्वात् न काष्ठादिपदोत्तरतृतीयादिविभक्तेरप्रामाण्यमित्यर्थः । स्वतन्त्रत्वलक्षणेऽनधीनान्तविशेषगप्रयोजनमाहअनधीनान्तेति, कारकत्वं स्वतन्त्रत्वमित्येतावन्मात्रोक्ते काष्ठस्थाल्यादीनामपि कारकत्वेन स्वतन्त्रत्वरूपं कर्तृत्वं स्यात् तस्य च पचतीत्याख्यातेनोक्तत्वात् काष्ठादिपदोत्तरं प्रथमैव स्यादिति 'चैत्रः काष्ठैः स्थाल्यां पचति । इत्यस्य स्थाने ' चैत्रः स्थाली काष्ठानि पचति' इत्यपि प्रयोगः स्यात् "कारकान्तरव्यापारानधीनत्वे सति" इति विशेषणसत्त्वे तु काष्ठादीनामत्र चैत्रव्यापाराधीनत्वेन स्वतन्त्रत्वाभावात् तेन च कर्तृत्वाभावान्न काष्ठादिपदोत्तरं प्रथमापत्तिरिति न 'चैत्रः काष्ठैः' इत्यस्य स्थाने 'चैत्रः काष्ठानि' इति प्रयोगापत्तिरित्यर्थः । यत्र चेति- कारकान्तरबोध "Aho Shrutgyanam" Page #413 -------------------------------------------------------------------------- ________________ तृतीयायाः कृत्यर्थकत्वम् ] व्युत्पत्तिवादः । (४०१ ) रामसिद्धिस्तत्राऽनधीनान्तविशेषणं न प्रतीयत एव तन्निर्वाहश्च तत्र लकारादेः स्वतन्त्रशक्त्यन्तरकल्पनात, विशिष्टविषयकशक्त्या विशेषणांशाविषयक बोधाऽजननात् । न च 'मैत्र चैत्रेण पाचयति' इत्यादौ हेतु कर्तृसमभिव्याहारस्थले कर्तरि तृतीयानुपपत्तिः - कर्तृव्यापारस्य समभिव्याहतहेतुव्यापाराधीनत्वादिति वाच्यम्, तत्र ण्यन्तप्रतिपाद्य पाचनादिक्रियायामेव हेतोः कारकतया स्वतन्त्रकर्तृव्यापारस्य पच्यादिक्रियायां कारकान्तरव्यापारानधीनत्वात् । स्वतन्त्रं प्रयुञ्जानस्य पुंसो व्यापारस्तण्डुलक्रयणादिवत् पाकादावन्यथासिद्धतया न कारणमिति पाकादिप्रयोकव्यापारवत्त्वेपि तस्य तत् क्रियाकारकत्वाभावात्, अत एव चैत्रो मैत्रेण पाचयति' इत्यादौ 'चैत्रः पचति' इति न प्रयोगः । कपदाभावेन कारकान्तरोपस्थित्यभावात् तेन च कारकान्तराधीनत्वप्रतीत्यसंभवात् तदभावरूपकारकान्तरानधीनत्वप्रतीतेरप्यसंभव एवेत्यर्थः । : "कारकान्तरव्यापारानधीनत्वे सति कारकत्वं स्वतन्त्रत्वम्” इत्याकारक विशिष्टविषयकशक्त्या अनधीनान्तविशेषणं विना केवलकारकत्वविषयक बोधोत्पत्तिर्न संभवतीति तन्निर्वाह: - अनधीनान्तविशेषणाऽप्रतीतिनिर्वाहो लकारादेः स्वतन्त्रशक्त्यन्तरकस्यनात्=केवलकारकत्वरूप स्वतन्त्रत्वे शक्तिकल्पनाद् भवतीत्यर्थः तथा च कर्तृवाचकलकारतृतीयादीनाम् ' चैत्रः काष्ठैः' इत्यादौ कारकान्तरव्यापारानधी नकारकत्वरूप स्वतन्त्रत्वभूत कर्तृत्व शक्तिर्ज्ञेय ' चैत्रः पचति ' इत्यादौ कारकान्तराभावात् शुद्धकारकत्वरूप स्वतन्त्रत्वभूतकर्तृत्वे शक्तिर्ज्ञेयेति नाऽनधीनत्वरूपविशेषणप्रतीत्यापत्तिः । शङ्कते - न चेति, चैत्रव्यापारस्य मैत्राधीनत्वेन चैत्रस्य स्वतन्त्रत्वं नास्तीति तृतीया - नुपपत्तिरित्यर्थः । हेतुकर्ता = प्रयोजककर्ता स चात्र मैत्रः । परिहारमाह - तत्रेति, तत्र = 'मैत्रत्रेण पाचयति' इत्यत्र मैत्रस्य हेतुकर्तृभूतस्य ण्यन्तप्रतिपाद्यपाचन क्रियायामेव कारकत्वमस्ति न तु धात्वर्थपचनक्रियायामिति स्वतन्त्र कर्तव्यापारस्य = चैत्रव्यापारस्य धात्वर्थपचनक्रियायां कारकान्तरव्यापाराधीनत्वं नास्त्येव पचनक्रियायां कारकान्तरस्यैवाभावादिति न चैत्रपदोत्तरतृतीयानुपपतिरित्यर्थः । उक्ते हेतुमाह- स्वतन्त्रमिति, स्वतन्त्रम् = धात्वर्थपचनादिक्रियाकर्तृभूतं चैत्रादिकं प्रयुञ्जानस्य = प्रेरकस्य पुंसो मैत्रादेः प्रेरणारूपो व्यापारः क्रयणादिव्यापारवत् पाकक्रियायामन्यथासिद्ध एवोपयोगित्वाभावादिति न कारणं तथा च मैत्रादेः पाकादिप्रयोजकव्यापारवत्त्वेपि = पाकविषयकप्रेरणालक्षणव्यापारवत्त्वेपि तस्य = मैत्रादेस्तत् क्रियायाम् = पाकक्रियायां कारकत्वमेव नास्ति येन पाकक्रियायां चैत्रस्य मैत्राधीनत्वं स्यात्तेन च तृतीयानुपपत्तिः स्यादित्यर्थः । अत एव = Vचैत्रो मैत्रेण पाचयति' इत्यत्र चैत्रस्य धात्वर्थपाकक्रियायां कारकत्वाभावादेव । अन्यथा चैत्रस्यापि कारकत्वे कर्तृत्वं स्यादिति 'चैत्रो मैत्रेण पाचयति' इत्यस्य स्थाने 'चैत्रः पचति' इतिप्रयोगः स्यादेवेत्यर्थः । २६ " Aho Shrutgyanam" Page #414 -------------------------------------------------------------------------- ________________ (४०२) सादर्श: [ तृतीयाकारकेन च ‘पञ्चभिईलैः कर्षति गृही' इत्यादी भूमिलेखनरूपकृष्यादिक्रियायां स्वतन्त्रकर्तृन् प्रयुञानस्य गृहिणो व्यापारस्य दर्शितयुक्त्या लकारादिनाऽभिधाना. संभव इति 'कति इति न स्यात् 'कर्षयति' इति च स्यादिति वाच्यम्,तत्र कृषः प्रतिविधानार्थत्वात्, उक्तं च “याजका यजन्ति' इति यजिहविःप्रक्षेपार्थः, 'पञ्चभिहलैः कर्षति इति कृषिः प्रतिविधानार्थः" इति, यजेवतोद्देश्यकद्रव्यत्यागेच्छाविशेषरूपार्थे मुख्यतया तत्र च यजमानस्यैव कर्तृतया हविःप्रक्षेपरूपलक्ष्यार्थपरत्वं दर्शितं तत्र चत्विजामेव स्वातन्त्र्यम् । 'होता' इत्यत्रापि हविःप्रक्षेप एव हुधातोरर्थो न तु तादृशफलावच्छिन्नस्त्यागः,तथा सति ऋत्विजस्तत्र स्वतन्त्रकर्तृ. ताविरहेण होतृपदेन प्रतिपादनासंभवात् । “धात्वर्थतावच्छेदकफलकर्तृत्वमेवकर्तृप्रत्ययेन प्रतिपाद्यते इति ऋत्विजि होतृव्यवहारो न यष्टरि । अतः प्रतिगृहातृव्यापारो न स्वत्वजनकस्तथा सति तत्र दातृव्यवहारापत्तेः" इति तु जीमूतवाहनः । शकते-न चेति । हलपदेनात्र हलवाहका पुरुषा एव ग्राह्याः । गृहिपदेन च व्यवस्थापको प्रायः । स्वतन्त्रकर्तृन्-कृषिक्रियायां स्वतन्त्रान् हलवाहकान् । दर्शितयुक्त्या="स्वतनं प्रयुजानस्य पुंसो व्यापारस्तण्डुल क्रयणादिवत्" इत्यादिदर्शितयुक्त्या, गृहिणः प्रेरणारूपक्रि. यायामेव कारकत्वात् प्रेरणाव्यापारबोधकणिच आपत्त्या ‘कर्षयति ' इतिस्यात् कृषिरूपक्रियायां च गृहिणः कारकत्वाभावात् हलानामेव तत्र कारकत्वात् लकारादिना गृहिव्यापारस्यामिधानासंभवात् 'कर्षति' इति न स्यादित्यर्थः । परिहरति- तत्रेति । तत्र उक्तोदाहरणे प्रतिविधानम् व्यवस्था । उक्ते प्रमाणमाह- याजका इति, तथा च प्रतिविधानरूपक्रियायां गृहिण एव कारकत्वात् तद्गतच्यापारस्यैवात्र लकारेणामिधानात् 'कर्षति गृही' इति युक्तमेव, तथा च 'गृही पंचभिर्हलैर्व्यवस्थां करोति' इति शाब्दबोधः । यजेर्हविःप्रक्षेपार्थत्वमुपपादयति- यजेरित्यादिना । तत्र-देवतोद्देश्यकहविस्त्यागेच्छायां यजमानस्यैव कर्तृकारकत्वात् 'याजका यजन्ति' इति न स्यात् किं तु 'यजमानो यजति तं याजका याजयन्ति' इत्येव स्यादिति यजेर्हविःप्रक्षेपरूपार्थे लक्षणास्ति तया च तत्र-हविःप्रक्षेपे ऋत्विजामेव स्वातन्त्र्यात 'याजका यजन्ति' इतियुक्तमेवेत्यर्थः । एवमेव होतृपदेपि शेयमित्याह- होतेति । तादृशफलावच्छि. नः देवतोद्दे पकद्रव्यत्यागरूपफलावच्छिन्न इच्छारूपत्यागः । विपक्षे बाधकमाह- तथा सतीति, यदि होता इत्यत्र हुधातोर्देवतोदेश्यकद्रव्यत्यागरूपफलावच्छिन्न इच्छारूपः त्याग एवार्थः स्यात्तदा ऋत्विजः ऋत्विग्विशेषस्य तत्र देवतोद्देश्यकेच्छारूपत्यागे स्वतन्त्रकर्तृताविरहेण होतृपदेन ऋत्वि. विशेषस्य प्रतिपादनं न संभवेत् किंतु यजमानस्यैव प्रतिपादनं स्यात्,नचैतदिष्टं तस्मादत्र दुधातोहविःप्रक्षेप एवार्थस्तत्र च ऋत्विजः स्वातन्त्र्यात् जोहुतीति होतेत्यत्र होतृपदेन ऋत्विक्प्रतिपादनं संभवति । अत्र जीमूतवाहनमतमाह-धात्वर्थेति, देवतोदेश्यकद्रव्यत्यागेच्छा धात्वर्थस्तदवच्छेदकं फलं देवतोदेश्यकद्रव्यत्यागस्तत्कर्तृत्वमेव 'होता' इत्यत्र कर्तृवाचकतृच्प्रत्ययेन प्रतिपाइते द्रव्यं "Aho Shrutgyanam" Page #415 -------------------------------------------------------------------------- ________________ प्रकृतविवादः ] व्युत्पत्तिवादः । ( ४०३) अथास्तु 'चैत्रेण मैत्रेण पाच्यते' इत्यादौ स्वतन्त्रव्यापारस्य हेतुकर्तृव्यापाराधीनत्वेपि दर्शितरीत्या तस्य स्वतन्त्रकर्तृत्वनिर्वाहस्तथापि तद्वाचकपदोत्तरं तृतीयानुपपत्ति:- कर्तृत्वस्य णिचूप्रत्ययेनाभिधानादिति चेत् ?, न- कर्तृत्वनिर्वाहकत्वसबन्धेन पाकाद्यन्वयिनो हेतुकर्तृव्यापारस्य णिजर्थत्वेन स्वतन्त्र कर्तृत्वस्य णिचाऽनभिधानात् । कर्तृत्वरूपफलावच्छिन्नस्य तादृशव्यापारस्य णिजर्थतामतेप्याऽऽश्रयोपरक्तस्य कर्तृत्वस्यान्यतो भानाऽनिर्वाहेण कर्तुरनभिधानात् तृतीयोपपत्तिः । आख्यातस्य धर्म्य वाचकत्वेपि कृतिविशिष्टबोधकत्वरूपस्य कर्त्रऽभिधानस्याऽक्षतत्वात् 'चैत्रः पचति' इत्यादौ न तृतीया । इविस्त्यागे च ऋत्विजः स्वातन्त्र्यमिति ऋत्विज होतृत्वव्यवहारो भवति न यष्टारे यजमाने इत्यर्थः । अत इति - यतो धावर्थतावच्छेदक फल कर्तृत्वं कर्तृप्रत्ययेन प्रतिपाद्यतेऽतः प्रतिगृहीतृव्यापारो न स्वस्वस्वजनकोऽभ्युपगन्तव्यः, अयं भावः- स्वस्वत्वध्वंसविशिष्ट परस्वत्वानुकूलेच्छेव दावात्वर्थोस्तीत्युक्तम् (२४० पृ.) तत्र धात्वर्थतावच्छेदकं फलं परस्वत्वमेत्र परस्वत्वं च प्रतिगृहीतृस्वत्वमेवेति प्रतिगृहीतृस्वत्वकर्तृत्वम् = प्रतिगृहीतृस्वत्व जनकत्वमेव ' दाता ' इत्यत्र कर्तृप्रत्यमेन तृचा प्रतिपाद्यते इति प्रतिगृहीतृस्वत्वजनकत्वमेव दातृत्वमिति सिद्धं यदि च प्रतिगृहीतृव्यापारोप स्वस्त्वजनकः स्यात्तदा तत्र = प्रतिगृहीतर्यपि दातृत्वव्यवहारः स्यादेव स्वत्वजनकव्यापारवत एव दातृत्वात् तस्मान्न प्रतिगृहीतृव्यापारः स्वस्वत्वजनकः किं तु दातृव्यापार एवेत्यर्थः । तथा सति प्रतिगृहीतृव्यापारस्य स्वस्त्वजनकरखे सति । स्वत्वपदेन संप्रदानस्वत्वं ग्राह्यम् । ननु ' चैत्रेण मैत्रेण पाच्यते ' इत्यत्र स्वतन्त्र व्यापारस्य = मैत्रव्यापारस्य हेतुकर्तृव्यापारांचीनत्वेपि = चैत्र व्यापाराधीनत्वेपि दर्शितरीत्या = " तत्र ण्यन्तप्रतिराद्यपाचनादिक्रियायामेव हेतोः कारकतया ४०१पृ, " इत्यादिरीत्या अर्थात् चैत्रस्य ण्यन्तक्रियायां कारकत्वेपि धात्वर्थक्रियायां कारकत्वाभावात्तत्र मैत्रस्यैव स्वातन्त्र्यात् तस्य - मैत्रस्थ स्वतन्त्रकर्तृत्वं यद्यपि संभवति तथापि तद्वाचकपदोत्तरम् = स्वतन्त्र कर्तृवाचकमैत्रपदोत्तरं तृतीया न संभवति - कर्तृत्वस्य णिचप्रत्ययेनामिधानात्, कर्तृत्वानभिधाने एव कर्तृत्ववाचकतृतीयासंभवादित्याशङ्कते - अथेति । परिहरतिनेति । अत्र पाक एव कर्तृत्वनिर्वाहक इति कर्तृत्वनिर्वाहकत्व संबन्धेन पाके हेतुकर्तृव्यापारस्य == चैत्रव्यापारस्यान्वयात् तस्यैव णिचाऽभिधानात् मैत्रवृत्तिकर्तृत्वस्य च णिचाऽनभिधानात् मैत्रपदोत्तरं कर्तृत्वबोधिका तृतीया युक्तैवेत्यर्थः । पक्षान्तरमाह- कर्तृत्वरूपेति, यदि न केवलं हेतु कर्तृव्यापार एव निजर्थः किं तु कर्तृत्वानुकूलपाकान्त्रयी व्यापारो णिजर्थस्तथा च कर्तृस्थस्यापि णिचैत्र लाभस्तदाप्याश्रयोपरक्तस्य = आश्रय विशिष्टकर्तृत्वस्य तृतीयातिरिक्तेन भानं न संभवतीति कर्तृत्वाश्रयीभूतकर्तुरनभिधानात् तादृशकर्तुर्बोधनार्थ मैत्रपदोत्तरं तृतीया युक्तैवेत्यर्थः । णिचो व्यापारवाचकत्वेन कर्तृत्ववाचकत्वाभावाच्चैत्र मैत्रपदाभ्यां कर्तृत्ववाचकतृतीयाया आवश्यकतेति भावः । नन्वेवमाख्यातस्याप्याश्रयत्ववाचकत्वेन धर्म्यऽवाचकत्वात् = कवाचकत्वात् ' चैत्रः पचति ' इत्यत्रापि चैत्रपदोत्तरं तृतीया स्यादित्याशङ्क्याह-आख्या " Aho Shrutgyanam" Page #416 -------------------------------------------------------------------------- ________________ (४०४ ) सादर्श: [ तृतीयाकारके ८ " न चैवं मुख्यविशेष्यतया कृतिबोधकत्वरूपस्य : कर्त्रऽभिधानस्य विवक्षायाम् चैत्रेण पचति इति स्यादिति वाच्यम्, आश्रयातिरिक्तांशेऽविशेषणतया कृतिबोधनस्यैव कर्त्रभिधानरूपत्वात् । तथा तदभिधानं च लकृत्तद्धितसमासानामेव, अत एव तैरेवाभिधानं वृत्तिकृता विवृतम् । इदं त्ववधेयम् - यद्यपि स्वतन्त्रव्यापारमात्रे एव तृतीयादेरनुशासनं तथापि लाघवात् कृतिरूपे एव कर्तृत्वे तृतीयादेः शक्तिः । अचेतनव्यापारे निरूढलक्षणैव । अनुशासनस्यानादितात्पर्यमात्रग्राहकत्वात् लाघवसहकृतस्यैव तादृशतात्पर्यस्य शक्तिकल्पकत्वात् व्यापारे तत्सत्त्वेपि गौरवेण शक्यसिद्धेः । एवं च तस्येति । अत्राप्याख्यातस्य कृतिविशिष्टबोधकत्वमस्त्येवेति कृतिविशिष्टबोधनरूपस्य कर्त्रभिवानस्य सत्त्वानं तृतीयापत्तिरित्यर्थः । 'ननु ' चैत्रः पचति ' इत्यत्र कृतिविशिष्टबोधकत्वरूपस्य कर्त्रभिधानस्याऽक्षतत्वेपि यदि मुख्यविशेष्यतया यत् कृतिबोधनं तदेव कर्त्रभिधानमित्याकारिका विवक्षा स्यात् तदा कृतिवि'शिष्टबोधकत्वेनाख्यातस्य मुख्यविशेष्यतया कृतिबोधकत्वरूपकर्त्रभिधायकत्वाभावादनुक्ते कर्तरि तृतीयापत्त्या ' चैत्रेण पचति ' इत्यपि स्यादेव प्रयोग इत्याशङ्क्याह-न चैवमिति । परिहारमाह-आश्रयेति । आश्रयातिरिक्ते= कर्त्रेऽतिरिक्ते व्यापारादावऽविशेषणतया कृतिबोधनमेव कर्त्रभिधानमस्ति तथा च ' चैत्रः पचति ' इत्यत्राख्यातेनाश्रयविशेषगतयैव कृतिर्बोध्यते न वाश्रयातिरिक्तविशेषणतयेति कर्त्रभिधानस्य जातत्वान्नात्र तृतीयापत्तिरिति न चैत्रेण पचति ' इति प्रयोगापत्तिरित्यर्थः । तथेति -- तथा = आश्रयातिरिक्तांशे चाऽविशेषणतया तदभिधानम्= कृत्यभिधायकत्वं लकारादीनामेवेत्यर्थः । उक्ते प्रमाणमाह-अत एवेति । 66 कर्मणि द्वितीया " इति सूत्रे विवृतम्=" अभिधानं तु प्रायेण तिङ्कृत्तद्धितसमासैः " इति व्याख्यातमित्यर्थः । तदेतत् ( १९४ पृ.) लकृत्तद्धितसमासैरभिधानमेव " इत्यस्यादर्शे द्रष्टव्यम् । f स्वाभिप्रायमाह - इदमिति । अनुशासनमिति - " कर्तृकरणयोस्तृतीया " इत्यनेन कर्तरि तृतीया विहिता कर्ता च स्वतन्त्र व्यापारवानेवेति " स्वतन्त्रः कर्ता " इत्यनेनोक्तं तत्र कर्त्रऽवच्छेदकः स्वतन्त्र व्यापार एवैति स्वतन्त्रव्यापारमात्रे तृतीयादेरनुशासनं प्राप्तं घटादिपदानामघच्छेदकीभूतघटत्वादौ शक्तिवत् तत्र स्वतन्त्रव्यापारो नाम कारकान्तख्यापारानधीनत्वे सति व्यापार एवेति तत्र तृतीयायाः शक्तिस्वीकारे गौरवं स्यादिति लाघवात् कृतौ शक्तिः कल्प्यते कृतिरेव च कर्तृत्वमित्यर्थः । कृतेश्च यत्नरूपत्वेनाऽचत नेऽसंभवादचेतनव्यापारे तृतीयाया लक्षणैव यथा ' काष्ठेन पच्यते ' इत्यत्र । उक्तमुपपादयति - अनुशासनस्येति, ', तादृशतात्पर्यस्य=== अनादितात्पर्यस्य । तत्सत्त्वेपि = तृतीयानिरूपितानादितात्पर्यसत्त्वेपि । व्यापारे शक्तिस्वीकारे कारकान्तरव्यापारानधीनरूपे स्वतन्त्र व्यापारे एव शक्तिस्वीकारापत्त्या गौरवं स्यादिति न तत्र शक्तिः संभवति किं तु लाघवात् कृतावेव शक्तिः शक्यतावच्छेदकं च कृतित्वं लघुस्वरूप " Aho Shrutgyanam" Page #417 -------------------------------------------------------------------------- ________________ विभक्त्या कर्तृत्वबोधविचारः ] व्युत्पत्तिवादः । ( ४०५ ) कर्तृत्वरूपकृतिबोधस्थले कारकान्तव्यापारानधीनत्वं न प्रतीयते इति तदन्तभावेण शक्तिकल्पने मानाभावः । व्यापारलाक्षणिकेन : कर्तृप्रत्ययेन लक्षणया तदन्तर्भावेण व्यापारबोधनादेव पूर्वोक्तातिप्रसङ्गवारणात् । अन्यथा तदन्तर्भावेण कृतिशक्तावपि तादृशातिप्रसङ्गस्य दुर्वारत्वादिति । E घटो जायते ओदनः सिद्धयति ' इत्यादौ सत्कार्यवादविद्वेषिणां नैयायिकानां कारकत्वं कर्तृत्वं च घटौदनादेर्यथाश्रुतसूत्रानुसारेण दुरुपपादमेव । मेवेत्यर्थः । एवं चेति - कारकान्तख्यापारानधी नत्वप्रतीतावऽन्वयव्यतिरेकावपि सहायकौ न स्तः कृतिबोधस्थले कारकान्तरव्यापारानधीनत्वस्याऽप्रतीयमानखादिति : तदन्तर्भावेण कारकान्तरव्यापारानधीनत्वान्तर्भावेण कारकान्तरव्यापारानधीनव्यापारविषयककृतावपि शक्तिकल्पने मानं नास्तीत्यर्थः । ननु यदि कृतिबोधनस्थले कारकान्तरख्यापारानधीनत्वं न प्रतीयते तदा 'चैत्रः काष्ठैः स्थाल्यां पचति ' इत्यस्य स्थाने ' चैत्रः काष्ठं स्थाली पचति ' इत्यपि प्रयोगः स्यात्, 'व्यापारवत्त्वेन काष्ठादीनामपि कर्तृत्वप्रसङ्गात् कारकान्तरव्यापारानधीनत्वप्रतीतौ तु काष्ठादीनां चैत्र व्यापाराधीनत्वेन स्वतन्त्रत्वाभावात्तेन च कर्तृत्वाभावान्न काष्ठादिपदोत्तरमत्र प्रथमापत्तिरित्याशङ्क्याह-व्यापारलाक्षणिकेनेति, अत्र शक्त्या कर्तृप्रत्ययेन कारकान्तरव्यापारानधीनत्वस्या , प्रत्यायनेपि व्यापारे तस्य लक्षणास्तीति लक्षणया तदन्तर्भावेण = कारकान्तरव्यापारानधीनत्वान्तर्भावेण व्यापारस्यापि बोधनात् काष्ठादिव्यापारस्य च चैत्रव्यापाराधीनत्वान्न काष्ठादीनां कर्तृत्वं तथा च न काष्टादिपदोत्तरं प्रथमापत्तिरित्यर्थः । विपक्षे बाधकमाह - अन्यथेति, अन्यथा= उक्तव्यापारे लक्षणाया अस्वीकारे तदन्तर्भावेण = कारकान्तरव्यापारानधीनत्वान्तर्भावेण, कर्तृप्रत्य यस्थले केवलं कारकान्तरव्यापारानधीनव्यापारविषयककृतौ शक्तिस्वीकारे ' पचति ' इत्यनेन `कारकान्तरव्यापारानधीनव्यापारविषयककृतेरुक्तत्वेन " उक्ते कर्तरि प्रथमेव " इत्यनेन चैत्रपदोत्तरमिव काष्ठादिपदोत्तरमपि प्रथमापत्त्या ' चैत्रः काष्ठं स्थाली पचति ' इति स्यादेव, यदा च केवलं शुद्धकृतौ शक्तिः कारकान्तरख्यापारानधीनव्यापारे च लक्षणा तदात्र कर्त्राख्यातेन 'चैत्रवृत्तिकृतेरभिधानाञ्चैत्रपदोत्तरं प्रथमा जाता लक्षणया च कारकान्तरव्यापारानधीनव्यापारस्योपस्थितिर्जाता काष्ठादिव्यापारे च चैत्रव्यापाराधीनत्वस्यैव सत्त्वात् कारकान्तरव्यापारामधीनव्यापार एव काष्ठादौ नास्ति यस्याख्यातेनाभिधानं स्यादिति काष्ठादिवृत्तिकारकान्तव्यापारानधीनव्यापारस्यानुक्तत्वात् काष्टादिपदोत्तरं तृतीयैव भवति किं वाख्यातेन चैत्रवृत्तिकृत्यभिधाने कृते काष्ठादिवृत्तिव्यापारस्याभिधानासंभवात् काष्ठादिपदोत्तरं तृतीयैत्र । "काष्ठं पचति' इत्यादिप्रयोगानुरोधेन च कारकान्तरव्यापारानधीनव्यापारे लक्षणास्वीकारावश्य"कता- अचेतनकाष्ठादौ कृतेरसंभवेन काष्ठादिवृत्तिकृत्यभिधानस्याप्यसंभवादित्यर्थः प्रतीयते । घट इति- घटो जायते ' इत्यत्रोत्पत्तिपूर्वमसतो घटस्यासत्कार्यवादिनैयायिकमते ८ "Aho Shrutgyanam" Page #418 -------------------------------------------------------------------------- ________________ ( ४०६ ) सादर्श: [ तृतीयाकारके - " मुख्यं च क्रियाकर्तृत्वं न क्रियानुकूलकृतिमात्रम् - एकक्रियाविषयक कृतितो यत्र नान्तरीयक क्रियान्तरनिर्वाहस्तत्र तत्कृतिमतस्तत्क्रिया कर्तृत्वाभावात्, अंत एव मत्तो भूतं न तु मया कृतम् ' इति व्यपदेश इति, किं तु तत् क्रियाविषयंकत्वे सति तदनुकूला या कृतिस्तदेव तत्कर्तृत्वम् । अन्योद्देशेन नाराचक्षेपांडू यत्र ब्राह्मणवधस्तत्र मरणानुकूलस्य नाराचक्षेपरूपव्यापारस्य कृतिविषयत्वेपि ब्राह्मणमरणानुकूलव्यापारत्वेन तस्याऽनभिसंहितत्वात् तेन रूपेण कृतिविषयत्वं. न तादृशव्यापारस्येति ब्राह्मणमरणानुकूलव्यापारत्वेन कर्तृत्वं न तादृशव्यापारकर्तुरिति न तस्य संपूर्णप्रायश्चित्तम् । कारकत्वं वा कर्तृत्वं वा न संभवति सत एव कारकत्वादिसंभवात् सत्कार्यव तुत्पत्तिपूर्वमपि घटादेः सत्त्वेन कारकत्वादिकमुपपद्यते इत्यर्थः । सूत्रानुसारेण - " स्वतन्त्रः कर्ता " इत्यादिसूत्रानुसारेण । मुख्यमिति, क्रियानुकूलकृतिमात्रस्य मुख्यकर्तृत्वास्वीकारे हेतुमाह-एकेति यत्र कृतिस्तु केवलं गमन क्रियानुकूलैवास्ति अथ च नान्तरीयकस्य तत्सहावश्यंभाविनः क्रियान्तरस्य परशरीरेऽभिघातस्यापि निर्वाहो जातः गमनानुकूलकृत्यैवाभिघातोपि परस्य जातस्तत्र तत्कृतिमतः = गमनानुकूलकृतिमतस्तत् क्रियाकर्तृत्वाभावात् = अभिघातक्रियाकर्तृत्वमिष्टं नास्तीति हेतोर्न क्रियानुकूकृतिमात्रं मुख्यं क्रियाकर्तृत्वम् । अत एव = उक्तस्थले अभिघात क्रियाकर्तृत्वाभावादेव तादृशस्थले " मत्तो भूतम् ( काकतालीयन्यायेन विवशमभिघातो मत्तो जातः ) न तु मया कृतम् इति व्यपदिशन्ति, यदि च क्रियानुकूलकृतिमात्रं मुख्यं कर्तृत्वं स्यात्तदोक्तस्थले गमनानुकूलकृत्याप्यभिघाते जाते गमनानुकूलकृतिमतोऽभिघात क्रियाकर्तृत्वमपि स्यादेव कृतिं विनाभिघातस्याप्यसंभवेनाऽभिघातक्रियोत्यादिकाया गमनानुकूलकृतेः सत्त्वादेव न चैतदिष्टमित्यर्थः । मुख्यं क्रियाकर्तृत्वमाह - किं त्विति, तत्क्रियाविषयकत्वे सति या तत् क्रियानुकूला कृतिः सैव मुख्यं तत्क्रियाकर्तृत्वमित्यर्थस्तथा च गमनानुकूलकृतेरुक्तस्थलेऽभिघात क्रियाविषयकत्वं नास्ति गमनकर्तु - रभिघाते तात्पर्याभावादिति नाभिघातक्रियाकर्तृश्वम्, गमने तापसत्त्वेन कृतेर्गमनविषयकत्वमस्तीति गमनकर्तृत्वमपीष्टमेवेत्यर्थः तत्कर्तृत्वम् = तत् क्रियाकर्तृत्वम् । अत्र प्रसङ्गसङ्गत्या विषयान्तरमाह - अन्येति, अन्योद्देशेन मृगाद्युद्देशेन बाणप्रक्षेपाद् यत्र ब्राह्मणवधो जातस्तत्र बाणप्रक्षेपव्यापारस्य मरणानुकूलत्वं कृतिविषयत्वं च यद्यप्यस्ति तथापि तस्य = बाणप्रक्षेपस्य ब्राह्मणमरणानुकूलव्यापारत्वेनाभिप्रायविषयत्वाभावात् तेन रूपेण त्राह्मणमरणानुकूलव्यापारत्वेन रूपेण तादृशव्यापारस्य = अन्योद्देशेन बाणप्रक्षेपरूपव्यापारस्य कृतिविषयत्वं नास्तीति तादृशव्यापारकर्तुः = अन्योद्देशेन बाणप्रक्षेपकर्तुर्ब्राह्मण मरणानुकूलव्यापारकर्तृत्वं न भवतीति न तस्य संपूर्णप्रायश्चित्तं भवतीति तत्क्रियाविषयकत्वे सति तत् क्रियानुकूला या कृतिस्तद्वत्त्वमेव मुख्यं कर्तृत्वं वक्तव्यम्, अन्यथोक्तस्थलेऽन्योद्देशेनापि नाराचप्रक्षेपाद् ब्राह्मणवधे जाते नाराचप्रक्षेर्ब्राह्मणवधकर्तृत्वं प्राप्नुयात्तेन च तस्य संपूर्णमेव प्रायश्चित्तं स्यान्न चैतदिष्टमित्यर्थः । "Aho Shrutgyanam" 2 Page #419 -------------------------------------------------------------------------- ________________ अन्योदेशेनानुष्ठितव्यापारविषयः] व्युत्पत्तिवादः । (४०७) अत एवः संपूर्णप्रायश्चित्तप्रयोजकस्य कर्तृव्यापारस्य लक्ष्यताभिमायण हिंसालक्षणे मणिकृतां मरणोद्देशेनानुष्ठीयमानत्वाऽदृष्टाद्वारकत्वविशेषणयो. रुपादानमिति मिश्राभिधानसंगतिः । मरणोद्देशेनानुष्ठीयमानस्य व्यापारस्यावश्यं मरणानुकूलव्यापारत्वेन प्रतिसंहितत्वात् तादृशरूपेण कृतिविषयत्वमिति ताहशविशेषणस्य विशिष्टकर्तृतानिवाहकत्वात् तद्विशेषणवतो व्यापारस्य नियमेन लक्ष्यत्वात् । तच्छून्यस्य चाऽलक्ष्यत्व नियमात् । . अथ मरणोद्देशेनानुष्ठितस्यापि व्यापारस्य यत्र खड्गाभिघातत्वादिनैवेष्टसाधनत्वकृतिसाध्यत्वंधीविषयता न तु मरणानुकूलत्वविशषिततद्रूपेण तत्र न मरणानु. कूलत्वविशिष्टविषयिणी कृतिरिति तादृशव्यापारकर्तुर्न वधत्वविशिष्टकर्तृत्वमिति कथमुक्तविशेषणस्य विशिष्टकर्तृतानिर्वाहकत्वम् । यदिच मरणोद्देशेनानुष्टीयमा अत एवेति- यतोन्योदेशेन संपादिताद् व्यापाराद् दैवात् कस्यचिद् मरणे जातेपि न ताशव्यापारकर्तुर्वघ्नकर्तृत्वं भवति किं तु वधोरेशेनैव व्यापारकरणाद् वधकर्तृवं भवति अत एक संपूर्णप्रायशितप्रयोजकस्यैव वधकर्तृव्यापारस्य लक्ष्यत्वमभिप्रेत्य मणिकृता हिंसालक्षणे 'मरणोद्देशेनानुष्ठीयमानत्वमऽदृष्टाऽद्वारकत्वं च ' इति विशेषणद्वयमुपात्तमिति मिश्रोक्तं सङ्गच्छते अर्थात् ' अष्टाद्वारकत्वे सति मरणोदेशेनानुष्ठीयमानत्वं हिंसास्वम् । तत्र श्येनादिना शत्रुमरणे जातेपि न संपूर्ण प्रायश्चित्तं भवतीति तद्व्यवच्छेदाय · अष्टाद्वारकावे सति । इति विशेषणं तत्र हिंसाया अदृष्टद्वारकत्वादेव. अन्योदेशेन नाराचक्षेपाद् वधे जाते तादृशव्यापारव्यवच्छेदाय 'मरणोद्देशेनानुष्ठीयमानत्वम् । इति विशेषणं तत्र मरणोदेशेनानुष्ठीयमानत्वस्याभावादित्यर्थः । लक्षणमुक्त्वा लक्ष्यमाह- मरणोदेशेनानुष्ठीयमानस्येति, मरणोद्देशेनानुष्ठीयमानो व्यापारो मरणानुकूलत्वेनैवाभिप्रायविषयो भवतीति ताशरूपेण मरणानुकूलव्यापारत्वेन रूपेण कृतिविषयोपि भवतीति तादृशविशेषणस्य-मरणोद्देशेनानुष्ठीयमानत्वविशेषणात्य विशिष्टकर्तृतानिर्वाहकत्वात्वधकर्तृत्वनिर्वाहकत्वमपि भवतीति तद्विशे षणवतः अदृष्टाऽद्वारकत्वे सति मरणोद्देशेनानुष्ठीयमानत्वविशेषणवत एव व्यापारस्य हिंसालक्षणलक्ष्यत्वं भवति. तच्छ्न्यस्य-उक्तविशेषणद्वयशून्यस्य अव्यापारस्य लक्ष्यत्वं न भवतीत्यऽन्योद्देशेन नाराचप्रक्षेपस्यापि ब्राह्मणहिंसात्वं न भवतीत्यन्वयः। - उक्तलक्षणे शकते- अथेति, यत्र मरणोद्देशेनैव खगाभिघातः कृतः अथ च तादृशखड्गामिघातस्य खगामिघातत्वेन रूपेणैवेष्टसाधनत्वं कृतिसाध्यत्वं च स्याद् मरणानुकूलत्वविशेषिततद्रूपेण-मरणानुकूलखड्गगाभिधातत्वेन रूपेणेष्टसाधनत्वं कृतिसाध्यत्वं च न स्यासत्र मरणानुकूलत्वविशिष्टविषयिणी मरणानुकूलखड्गाभिघातविषया कृतिर्न संभवतीत्युक्तखड्गामिघातरूपव्यापारकर्तुर्वधत्वविशिष्टो यो वधस्तत्कर्तृत्वमपि न स्यादिति कथमुक्तविशेषणस्य मरणोद्देशेनानुष्ठीयमानत्वविशेषगस्य विशिष्टकर्तृतानिर्वाहकत्वम् वधकर्तृत्वनिर्वाहकत्वं स्यात् ? इष्टं चैताईशखड्गाभिधातकर्तुरपि वधकर्तृत्वमित्यर्थः । ननु मरणोदेशेनानुष्ठीयमानत्वमित्यस्य मरणानुकूल. "Aho Shrutgyanam Page #420 -------------------------------------------------------------------------- ________________ ( ४०८ ) सादर्श: [ तृतीयाकारके - नत्वस्य मरणानुकूलत्वेन कृतिविषयत्वमेवार्थ इत्युपेयते ? तदा व्यापारे तादृशविशेषणस्य तत्कर्तरि विशिष्टकर्तृतानिर्वाहकत्वेप्युक्तस्थले खड्गाभिघातादी तादृशलक्षणाऽव्याप्तिदुर्वारैव । तत्र संपूर्णप्रायश्चित्तस्य निर्विवादतया लक्ष्यताया आवश्यकत्वात् । न च विशेषणीभूतफल निष्ठोद्देश्यताख्य विषयतानिरूपकत्वे सति व्यापारनिष्टसाध्यताख्यविषयतानिरूपकत्वमेव विशिष्टविषयकत्वं कृतेरित्युपदर्शितस्थलेऽनुकूलता संबन्धेन मरणवैशिष्टयस्य साध्यतारूपकृतिविषयतावच्छेदकताविरहेपि न विशिष्टकर्तृत्वाऽनिर्वाह इति मरणोद्देशेनानुष्ठीयमानत्वस्य मरणकामनाधीनत्वेन कृतिविषयत्वमित्येवार्थोस्ति तथा च मरणानुकूलत्वेन कृतिविषयीभूतव्यापारकर्तुरुक्तविशेषणेन वधकर्तृत्वं नानुपन्नमित्याशङ्क्याह- यदि चेति । उत्तरमाह- तदेति, एवं हि व्यापारे मरणोदेशेनानुष्ठीयमानश्वमिति यद्विशेषणं दत्तं तेन विशेषणेन तत्कर्तरि उक्त विशेषणविशिष्टव्यापारकर्तरि ( मरणानुकूलत्वप्रकारककृतिविषयीभूतव्यापारकर्तारे ) वधकर्तृत्वे प्राप्तेप्युक्तस्थले= खड्गाभिघातस्य खड्गाभिघातत्वेनेष्टसाधनत्वकृतिसाध्यत्वधी विषयतास्थले खड्गाभिघाते मर णानुकूलत्वेन कृतिविषयत्वाभावादुक्तहिंसालक्षणस्य = मरणानुकूलखेन कृतिविषयत्वस्याव्याप्तिरस्त्येव. अयं भावः -- खडूगाभिघाते खड्गाभिघातत्वेनापीष्टसाधनत्यकृतिसाध्यत्वधीविषयतायां सत्यां परप्राणवियोगे जाते तादृशव्यापारकर्तुर्वधकर्तृत्वं प्राप्नोति हिंसालक्षणे तु मरणानुकूलत्वेन कृतिविषयत्वस्य प्रवेशाद् तादृशव्यापारे च मरणानुकूलत्वेन कृतिविषयत्वस्याभावाद्धिसालक्षणस्याSव्याप्तिः स्पष्टैव न चाव्याप्तिरिष्टा तादृशव्यापारकर्तुरपि संपूर्णप्रायश्चित्तस्य निर्विवादतया तत्प्रयोजकतादृशखड्गाभिघातस्यापि हिंसालक्षणलक्ष्यत्वावश्यकत्वादित्यर्थः । ननु कृतेर्यद् विशिष्टविषयक्त्वम् = मरणानुकूलव्यापारविनकत्वं तद् व्यापारविशेषणीभूतं फलं यन्मरणं तनिष्ठा योद्देश्यताख्यविषयता तादृशविषयतानिरूपकत्वे सति व्यापारनिष्ठा या साध्यताख्यविषयता तन्निरूपकत्वमेव, मरणे उद्देश्यता वर्तते सा चोद्देश्यता कृतिनिरूपितैवेति कृतौ मरणनिष्ठोद्देश्यता निरूपकत्वं व्यापारे साध्यता वर्तते सा साध्यतापि कृतिनिरूपितैवेति कृतौ व्यापारनिष्ठसाध्यतानिरूपकत्वमपि वर्तते एवं च कृतेर्मरणानुकूलत्वं प्राप्तं तथा चानुकूलतासंबन्धेन मरणवैशिष्ट्यं कृतौ वर्तते साध्यतारूपकृतिविषयता च व्यापारे वर्तते इति अनुकूलतासंबन्धेन मरणवैशिष्टयस्य साध्यतारूपकृतिविषयतावच्छेदकत्वाभावेपि प्राप्ते न विशिष्टकर्तृत्वस्य वधकतृत्वस्यानिर्वाह: - कृतिरेव कर्तृत्वं कृतौ च मरणानुकूलत्वं प्राप्तमेव एवं च मरणोदेशेनानुष्ठीयमानत्वस्य मरणकामनाधीन कृतिविषयत्वरूपत्वं प्राप्तं तथा चोक्तस्थले मरणोद्देशेनानुष्ठितस्य खड्गाभिघातस्य यत् कृतिविषयत्वं तत् मरणकामनाधीन कृतिविषयत्वमेव मरणकामनाधीनकृतिविषत्वमेव हि मरणोदेशेनानुष्ठीयमानत्वमस्तीति नोक्तखड्गाभिघाते हिंसालक्षणस्योक्ताऽव्याप्तिरित्या - शङ्क्याह- न चेति । परिहारमाह - ब्राह्मणमिति, 56 ब्राह्मणं न हन्यात् ” इत्यत्र हन्तेर्मरणा " Aho Shrutgyanam" Page #421 -------------------------------------------------------------------------- ________________ कृतेर्व्यापारविषयकत्वम् ] व्युत्पत्तिवादः । (४०९) कृतिविषयत्वरूपतैवेति वाच्यम्, "ब्राह्मणं न हन्यात्" इत्यादौ धात्वर्थतावच्छेदकस्य मरणस्थ स्वोद्देश्यकत्वसंबन्धेन कृतावन्वयसंभवे. एव निरुक्तविशिष्टकर्तृत्वस्य निषेधविधिविषयत्वसंभवातू, व्यापारविशेषणतयोपस्थितस्य कृत्यंशे विशेषणतयाऽन्वयस्य व्युत्पत्तिविरुद्धत्वात् । अथ मरणोपलक्षितव्यापारकर्तृत्वस्य ताहशनिषेधविषयत्वेपि न क्षतिःअन्योद्देशेन नाराचक्षेपस्यापि ब्राह्मणमरणोपधायकस्य नरकसाधनत्वात्, परं तु मरणप्रायश्चित्तविधेरेव तदविषयकत्वमुपपादनीयं तच्च मरणोद्देशेन तदनुकूल. व्यापारकर्तृत्वबोधकस्य शब्दस्य तद्विधावन्तर्भावे एवोपपद्यते इति चेत्?, एवमपि नुकूलव्यापारार्थकत्वाद् धात्वर्थतावच्छेदकं मरणमेव तस्य मरणस्य स्वोद्देश्यकत्वसंबन्धेन यदि कृतावन्धयः स्यात्तदैव निरुक्तविशिष्टकर्तृत्वस्य-वधकर्तृत्वत्यैतनिषेधविधिविषयत्वं संभवति न त्वनुकुलतासंबन्धेनापि कृतावन्वये, अयं भावः- कर्तृत्वं कृतिरेव ब्राह्मणवधोद्देश्यका च यस्य कृतिर्भवति तं प्रत्येव " ब्राह्मगं न हन्यात् ।" इति निषेधविधिः प्रवर्तते न तु केवलं ब्राह्मणवधानुकूलकृतिमन्तं प्रत्यपि : ब्राह्मणवधानुकूलकृतेः सहायादौ तथा ब्राह्मणवधमनोरथकालेपि संभवात् तत्र तदा निषेधविधेः प्रवृत्तेरनभिमतत्वात्, स्वोदेश्यकत्व संबन्धेन च मरणस्य व्यापारे विशेषण वे तु कृतौ विशेषणत्वं न संभवति " एकत्र विशेषणतयान्वितस्यान्यत्र विशेषणत्वासंभवात् " इति व्युत्पत्तिविरोधात् तथा चोक्तरीत्या विशिष्टकर्तृत्वनिर्वाहे प्रतिपादितेपि तस्य निषेधविधिविषयत्वं न संभवतीति दोषापत्तिः प्राप्तेत्यर्थः । ननु स्वोद्देश्यकत्वसंबन्धेन मरणस्य व्यापारविशेषणत्वे कृतौ विशेषणत्वासंभवेप्युपलक्षणत्वं तु संभवत्येव तथा च मरणोपलक्षित यद् व्यापारविषयकं कर्तृत्वं (कृतिः)तस्योक्तनिषेधविषयत्वस्वीकारेपि क्षति स्ति. तच्च संभवत्येवेत्याशङ्कते- अथेति । नन्वेवमन्योद्देशेन नाराचक्षेपाद् यत्र ब्राह्मणमरणं तत्रापि ब्राह्मणमरणस्योपलक्षगत्वसंभवात् तादृशव्यापारकर्तृत्वस्याप्युक्तनिषेधविषयत्वं भविव्यतीत्याशङ्क्येष्टापत्त्याह- अन्योद्देशेनेति,ब्राह्मणमरणोपधायकस्य ब्राह्मणमरणरूपफलजनकस्यान्योद्देशेनापि नाराचक्षेपस्य नरकसाधनत्वात् तादृशव्यापारकर्तृत्वस्योक्तनिषेधविषयत्वं त्विष्टमेव किं तु मरणरूपपापप्रायश्चित्तविधिविषयत्वं नेष्टमिति मरणप्रायश्चित्तविधेरेव तदविषयकत्वम् अन्योद्देशेनयन्नाराचक्षेपाद ब्राह्मणमरणं जातं तदविषयकत्वमुपपादनीयं तस्य भाविनरकसत्त्वेपि तादृशवायश्चित्तस्याभावात्, तबोपपादनं मरणोद्देशेन तदनुकल-मरणानुकूलव्यापारकर्तृत्वबोधकस्य शब्दस्य तद्विधौ-मरणप्रायश्चित्तविधावन्तर्भाव एव संभवति-- 'मरणोद्देशेन मरणानुकूलव्यापारकर्ता संपूर्ण मरणप्रायश्चित्तमाचरेत्। इत्येवं प्रायश्चित्तविधिवाक्यनिर्माणे एवोक्तं तदविषयकत्वमुपपद्यते तथा 'चान्योद्देशेन नाराचक्षेपाद् ब्राह्मगवधे जाते तादृशनाराचक्षेपरूपव्यापारे मरणानुकूलत्वस्य सत्त्वेपि मरणोद्देश्यकत्वं नास्तीति न तादृशव्यापारकर्तुः प्रायश्चित्तविधिविषयत्वमित्यर्थः । तचन्तदविमयकत्वं च । उत्तरमाह-एवमपीति, एवमपि मरणोपलक्षितव्यापारकर्तृत्वस्य तादृशनिषेधविषय "Aho Shrutgyanam" Page #422 -------------------------------------------------------------------------- ________________ (४१०) सादर्श: [ तृतीयाकारकेब्राह्मणमरणकामनया यत्र न तन्मरणानुकूलव्यापारानुष्ठानमऽपि तु फलान्तर. कामनाधीनतन्मरणानुकूलव्यापारत्वप्रकारकचिकीर्षया तदनुष्ठितं तत्राव्याप्तिरेतन्मते दुचारैव । तत्रापि संपूर्णस्यैव प्रायश्चित्तस्याऽचरणादलक्ष्यतोपगमासंभवादिति । __ मैवम् - यत्र हि मरणानुकूलव्यापारत्वेन कृतिसाध्यताधीस्तत्रेव यत्र व्यापारविशेषत्वेनैव तद्धीस्तत्रापि मरणरूपफलकामनाधीनव्यापारविषयिणी कृतिर्मरणानुकूलत्वेन व्यापारमवगाहते-कृतेः : कामनाविषयफलोपरागेणोपायविषयतोपगमात्, विश्व लफलभानोपगमे यत्र तृप्तिकामनया भोजनं फलान्तरका मनया च गमनमवगाहमाना समूहालम्बनकृतिस्तत्र 'तृप्तये गमनं करोति ! त्वस्वीकारेपि यदा ब्राह्मणमरणकामनया न ब्राह्मणमरणानुकूलो व्यापारः कृतः किं तु तदीयधनग्रहणादिरूपफलान्तरस्य कामनाधीना या ब्राह्मणमरणानुकूलव्यापारत्वप्रकारकचिकीर्षासाह्मणमरणानुकूलव्यापारविषयकेच्छा तया मरणानुकूलव्यापारः कृतस्तत्र ब्राह्मणधनग्रहणस्यैवोद्देश्यस्वेनं ब्राह्मणमरणस्योद्देश्यस्वाभावात् तादृशव्यापार कर्तुः प्रायश्चित्तविधिविषयत्वं न संभवतीति तत्र प्रायश्चित्तविधेरव्याप्तिरेतन्मते प्राप्ता, न चाऽव्याप्तिस्तत्रेष्टा तादृशस्थलेपि संपूर्णप्रायश्चित्तस्येष्टत्वेन तादृशव्यापारकर्तुरलक्ष्यत्वस्वीकारासंभवादित्यर्थः । प्रथमाथशब्देनाशङ्कितं पारिहरति- मैवमिति, यत्र व्यापार मरणानुकूलव्यापारत्वेन कृतिसाध्यताज्ञानं भवति तत्र यथा मरणरूपफलकामनाधीनव्यापारविषया कृतिापार मरणानुकूल. स्वेनावगाहते इति तादृशव्यापारस्य हिंसालक्षणलक्ष्यत्वं तत्कर्तुश्च प्रायश्चित्तविधिविषयत्वं भवति तथैव यत्र खड्गाभिघाते खड्गाभिघातत्वेनैव तद्धी:-कृतिसाध्यताज्ञानं तत्रापि मरणरूपफलकामनाधीनव्यापारविषया कृतिः खड्गाभिघातव्यापार मरणानुकूलव्यापारत्वेनैवावगाहते इति ताहशव्यापारस्य हिंसालक्षणलक्ष्यत्वं तत्कर्तुश्च प्रायश्चित्तविधिविषयत्वं भवत्येवेत्यर्थः । मरणरूपकाः मनाधीनव्यापारविषयककृतेर्व्यापारस्य मर गानुकूलत्वेनावगाहने हेतुमाह- कृतेरिति, कृतेर्योपा. यनिषयता व्यापारविषयता भवति सा कामनाविषयफलोपरागेण-कामनाविषयीभूतफलक्षियतापूर्वकमेव भवति तथा चात्र कृतेः खड्गाभिघातविषयत्वं मरणरूपफलानुकूलत्वेनैव प्राप्तमिति खड्याभिघातस्य हिंसाव्यारारत्वं प्राप्तमेवेति नोक्तदोषापतिरित्यर्थः । विपक्षे बाधकमाह- विश ड्वति, यदि कृतेः कामनाविषयीभूतफलविषयतापूर्वकं तादृशकलोपाय ( व्यापार ) विषयता न स्यात् ( फलोपरागेणोपायविषयता न स्यात् ) किं तु विशृङ्खलरीत्या फलभानं स्यात् फल स्योपायविशेषगत्वेन भानं न स्यात्तदा यत्र समूहालम्बना कृत्तिस्तृप्तिकामनया भोजनं फळा स्तरकामनया च गमनमवगाहते- 'तृप्तये मोजनं मदिष्टसाधनं फलान्तराय गमनं मदिष्टसाधनम् इति तत्र 'तृप्तये गमनं करोति । इत्यपि व्यवहारः स्यात्- बाधकाभावात्- तृप्तिगमयोर "Aho Shrutgyanam" Page #423 -------------------------------------------------------------------------- ________________ कृतेर्व्यापारविषयकत्वम् ] व्युत्पत्तिवादः । (४११: " 'इंतिं व्यवहारापत्तेः उपायांशः फलस्यानुकूलत्वं संबन्धः प्रकारो वेत्यन्यदेतत्, एवं च मरणावच्छिन्नव्यापारविषयकत्वमुभयत्रैव कृतेरिति विशेषणावच्छिन्नविषयक कृतिमत्त्वरूपं विशिष्टकर्तृत्वमुभयस्थले निष्प्रत्यूहम् । मरणोद्देशेनानुष्ठीयमानत्वमपि मरणानुकूलत्वोपरागेण कृतिविषयत्वरूपमेव लक्षणघटकमिति न काचिदनुपपत्तिः । recoserद्वारा पiकानुकूलकृतिमतोपि न पाकादिकर्तृत्वमिति तत् क्रियाकर्तृत्वघटककृतिनिष्ठतदनुकूलत्वे एवाऽदृष्टाद्वारकत्वमपेक्षितं न तु क्रियानिष्ठफलानुकूलत्वे तदपेक्षितमिति व्यापारनिष्ठमरणानुकूलत्वेऽदृष्टाद्वारकत्वरूपमणिकारोक्तपिसमूहालम्बन कृतिविषयत्वात् न चैतदिष्टमिति कृतेरुपायविषयता कामनाविषयफलोपरागेण स्वीकार्य तथा च गमनकामनाविषयीभूतफलत्वं तृप्तेर्न संभवति किं तु फलान्तरस्यैव, तृप्तेस्तु भोजनकामना विषयीभूतफलत्वमेवेति कृतेस्तृप्तिरूपफलोपरागेण भोजनरूपो पायविषयतैव भवति न तु गमनरूपोपायविषयतेति ' तृप्तये भोजनं करोति ' इत्येव व्यवहार उपपद्यते ' तृप्तये गमनं करोति' इति व्यवहारापत्तिर्नास्तीत्येवमुक्तस्थले कृतेः खड्गाभिघातरूपोपायविषयतापि मरणरूपफलोपरागेणैत्र भवतीति तादृशखड्गाभिघातस्यापि हिंसालं प्राप्तमेवेत्यर्थः । ननु 'तृप्तये भोजनं करोति' इत्यादावुपायांशे = भोजनादिव्यापारे यत् तृप्त्याद्यनुकूलखं तत् संबन्धभूतं वा प्रकारभूतं वेत्याशङ्क्यात्रोपेक्षामाह - उपायांश इत्यादिना । उपसंहरति- एवं चेति, उभयत्र यत्र खड्गाभिघातस्य खड्गाभिघातत्वेन कृतिसाध्यत्वं यत्र च मरणानुकूलव्यापारत्वेन कृतिसाध्यत्वं तत्रोभयत्रैव कृतेर्मरणावच्छिन्न ( अनुकूल ) व्यापारविषयकत्वमस्त्येवेति तादृशव्यापारकतुरयुक्तोभयस्थले विशेषण । वच्छिन्न विषयककृतिमत्त्ररूपम् = सरणावच्छिन्नव्यापारविषयक कृतिमत्त्वरूपं विशिष्टकर्तृत्वम्=वधकर्तृस्वमस्त्येवेति न काचिदनुपपत्तिः । ननु हिंसालक्षणे हि मर. णोदेशेनानुष्ठीयमानत्वस्य निवेशोस्ति न तु फलोपरागेगेत्यादिकस्य येन त्वदुक्तरीत्या दोषपरिमरणोद्देशेनानुष्ठीयमानत्वं हारः स्यादित्याशङ्कयाह- मरणोदेशेनेति, हिंसालक्षणघटकं यद् व्यापारविशेषणं तद् मरणानुकूलत्वोपरागेण कृतिविषयत्वरूपम् = मरणानुकूलकृतिविषयत्वरूप' इत्यत्र ‘“मरणह्यानुकूलत्वम्” मेवास्तीति न का चिदनुपपत्तिरित्यर्थः । फलस्यानुकूलत्वम् LC इत्यपि पाठः, प्रकृते मरणं फलमेव । यद्यपीति - अदृष्टद्वारा पाकानुकूलकृतिमतोपि पाकादिकर्तृत्वं न भवतीति तत्तत् क्रियाक तृत्वघटका या कृतिस्तादृशकृतिनिष्ठं यत् तत्तत् क्रियानुकूलत्वं तस्मिन्नेवाद्यष्टाद्वारकत्वं विशेषणमपेक्षितमस्ति न तु क्रियानिष्ठे फलानुकूलत्वे अन्यथा ( यद्यदृष्टाद्वारकत्वं क्रियानिष्टफलानुकू विशेषणं स्यात् कृतिनिष्ठपाकादिव्यापारानुकूलत्वे च विशेषणं न स्यात्तदा ) यः पुरुषः पोकार्थ व्यापारं न करोत्यदृष्टद्वारा च पाकानुकूलकृतिमानस्ति पाकानुकूलादृष्टजनकमन्त्रादिद्वारों पाकसंपादकत्वात् तस्यापि पाककर्तृत्वं स्याद् न चैतदिष्टम्, तथा च मणिकारेण हिंसाल "Aho Shrutgyanam" Page #424 -------------------------------------------------------------------------- ________________ (४१२) सादर्श: [तृतीयाकारकेविशेषणस्य न कर्तृताघटकत्वम्, तथाप्यनुष्ठीयमानत्वप्रविष्टकृतेरेवाऽदृष्टाद्वारकमरणानुकूलत्वं विवक्षितं विशिष्टकर्तृत्वं चाऽदृष्टाद्वारकत्वविशषितमरणानुकूलत्वेन कृतिविशेषणेन घटितमिति मिश्राशयः। तथा चैवं पर्यवसितम्-हिनस्तेः प्रवृत्तिनिमित्तं मरणरूपफलावच्छिन्नव्यापारत्वमेव “न हिंस्यात्" इत्यादौ फलविशिष्टस्वनिरूपितकर्तृत्वसंबन्धेन हिनस्त्याधर्थस्यानिष्टविशेषसाधनत्वं प्रतीयते, श्येनस्य हिनस्त्याद्यर्थत्वपि न तस्य ता. शकारणतावच्छेदकसंबन्धेन कचिदपि सत्त्वम्- तत्कर्तुरदृष्टाद्वारकानुकूलताघटितफलकर्तृत्वविरहेण विशिष्टाकर्तृत्वादिति नाऽनिष्टविशेष प्रति हिंसात्वेन साधनत्वमिति न क्रियायां विध्यर्थान्वयमतेपि श्येनविध्यर्थबाधः ।। क्षणे यद् व्यापारनिष्ठे मरणरूपफलानुकूलत्वेऽदृष्टाद्वारकत्वं विशेषण प्रक्षिप्तं तत् यद्यपि कर्तृताघटकं नास्ति-क्रियानिष्ठफलानुकूलत्वघटकत्वेन कृतिनिष्ठक्रियानुकूलत्वघटकत्वाभावात् तथाप्यनुष्ठीयमानत्वघटका या कृतिस्तनिष्ठं यन्मरणानुकूलत्वं तस्मिन्नेवाऽदृष्टाऽद्वारकत्वं विशेषण विवक्षितमस्ति विशिष्टकर्तृत्वम्-वधकर्तृत्वं च कृतिविशेषणेनाऽदृष्टाद्वारकत्वविशिष्टमरणानुकूलत्वेन घटितमस्ति-अदृष्टाद्वारकमरणानुकूलकृतिजन्यव्यापारकर्ता हिंसक इति बोधोदयादिति एवं चाहष्टाद्वारकत्वविशेषणस्य कर्तृताधटकत्वं लभ्यते इति मिश्राशयः । तथा च कर्तृत्वमदृष्टाद्वारकमपेक्ष्यते अन्यथा श्येनकर्तुरपि वधकर्तृत्वप्राप्त्या संपूर्णप्रायश्चित्तं स्यादिति भावः । यः खलु मन्त्रादिद्वारा पाकं करोति सोऽदृष्टद्वारा पाकानुकूलकृतिमान् विज्ञेयः । अनुष्ठीयमानत्वं च कृतिविषयत्वमेवेत्यनुष्ठीयमानत्वस्वरूपे कृतिप्रवेशो विज्ञेयः। पर्यवसन्नमर्थमाह-तथा चेति, मरणानुकूलव्यापार एव हिंसार्यकधात्वर्थः । " न हिस्यात् " इत्यत्र च जनकतासंबन्धेन फलविशिष्टं यत्स्वं व्यापारः अदृष्टाद्वारकमरणानुकूलव्यापारस्तादृशव्यापारकर्तृत्वसंबन्धेन हिनस्त्याद्यर्थस्य हिंसाया अनिष्टविशेषसाधनत्वम्-नरकादिसाधनत्वं प्रतीयते अर्थात् अदृष्टाद्वारकमरणानुकूलव्यापरकर्तुरनिष्टं भवतीति प्रतीयते,हिंसके उक्तविशेषकर्तृत्वेन वर्तमाना हिंसा तत्रानिष्टं नरकादिकमुत्पादयन्ती तेन कर्तृत्वसंबन्धेनानिष्टस्य साधनं भवतीत्यर्थः । श्येनश्च शत्रुमरणार्थमेव क्रियते इति श्येनस्य हिनस्त्याद्यर्थत्वेपि हिंसार्थव्यापाररूपत्वेपि न तस्य-श्येनस्य तादृशकारणतावच्छेदकसंबन्धेन उक्तफलविशिष्टव्यापारनिरूपितकर्तृत्वसंबन्धेन कचिदपि सत्त्वं येन श्येनोऽनिष्टसाधनं स्यादित्यर्थः । उक्तसंबन्धेन श्येनस्य सत्त्वाभावे हेतुमाह-तत्कर्तुरिति, श्येनकर्तुरदृष्टाऽद्वारकानुकूलताघटितफलकर्तृत्वाभावेन विशिष्टकर्तृत्वाभावात अदृष्टाऽद्वारकवधकर्तृत्वाभावात्. श्येनकर्तुरदृष्टद्वरिव वधकर्तृत्वात् श्येनकर्तरि संबन्धभूतमदृष्टाद्वारकमरणविशिष्टव्यापारकर्तृत्वमेव नास्ति येन तादृशकर्तृत्वसंबन्धेन श्येनस्य सत्त्वमनिष्टसाधनत्वं च स्यादित्यर्थः । तथा च श्येनस्यानिष्टसाधनत्वेपि हिंसास्वेनाऽनिष्टसाधनत्वं नास्ति श्येनस्य हिंसाफलकत्वेन हिंसारूपत्वाभावात् । तथा च विध्यर्थस्य इष्टसाधनत्वस्य क्रियायामेवान्वयो भवतीत्यस्मिन् "Aho Shrutgyanam" Page #425 -------------------------------------------------------------------------- ________________ श्येनयागविषयकविचारः] युत्पत्तिकादः। वस्तुतः श्येनानुकूलकृतेर्मरणप्रयोजकत्वमेव न तु मरणकारणत्वम्-अन्यथासिद्धत्वाद, मरणोपलक्षितान्यकर्तृकखड्गाभिघातादिरूपवैरिवधं प्रत्येव श्येनस्य हेतुताया वेदेन बोधितत्वात् । क्रियाजन्यकायें तक्रियानुकूलकृतिहेतुताया नियमोप खड्गाभिवातादावेव श्येनकृतेर्हेतुत्वात् । तथा चाऽनिष्टविशेषफलजनकतोवच्छेदकप्रत्यासत्तिप्रविष्टमरणानुकूलत्वं मरणजनकत्वमेव न तु प्रयोजकत्वम. अतोऽदृष्टाद्वारकत्वं न तत्र निवेशनीयम्, कारणत्वपर्यन्तनिवेशलाभायैव वा तदुपादानम् । यदि. च विशिष्टान्वयपरताया वेदे औत्सर्गिकत्वेन वधसाधनतामतेपि " श्येनेनाभिचरन् यजेत " इत्यत्र श्येनयागक्रियायामनिष्टसाधनत्वाभावात् श्येनयागे विध्यर्थस्य इष्टसाधनत्वस्य बाधो नास्त्येव, श्येनयागप्रयोज्यशत्रुमरणस्यैव हिंसात्वेनाऽनिष्टसाधनत्वादित्यर्थः । फलविशिष्टस्वनिरूपितकर्तृत्वसंबन्धेनानिष्टसाधनत्वमस्तीति तस्य संबन्धस्य कारणतावच्छेदकसंबन्धत्वं विज्ञेयम् । - सिद्धान्तमाह-वस्तुत इति, श्येनानुकूलकृतेर्मरणकारणत्वामावे हेतुमाह-अन्यथेति । अन्य. थासिद्धत्वे हेतुमाह-मरणोपलक्षितेति, श्येने कृते मरणलक्ष्यभूतशत्रौ श्येनप्रभावादन्येन केनापि खगाद्यभिघातः क्रियते तेन च तस्य शत्रोर्मरणं भवतीति चैरिवधकारणीभूतखड्गाभिधातादिकं प्रत्येव वेदेन श्येनस्य कारणत्वं बोध्यते न तु साक्षान्मरणं प्रतीति मरणं प्रत्यन्यथासिद्धत्व प्राप्तम् । कार्यकारणयोरभेदोपचारेणात्र खङ्गाभिघातस्य वैरिवधरूपत्वमुक्तम्--" खङ्गाभिघातादिरूपवैरिवधम् " इति । ननु यथा संयोगानुकूलक्रियाजन्यसंयोगे संयोगानुकूलक्रियानुकूलकृतेहेतुत्वमस्त्येव एवं खड्गाभिघातजन्यशत्रुमरणे तादृशखगाभिघातकारणीभूतश्येनानुकूलकृतेरपि कारणत्वे प्राप्ते श्येनस्य शत्रुमरणं प्रति कारणत्वं स्यादेवेत्याशङ्क्याह-क्रियाजन्येति । तथा चानिष्टविशेषरूपफलस्य यो जनकतावच्छेदकसंबन्ध उक्त फलविशिष्टस्वनिरूपितकर्तृत्वसंबन्धः ( अदृष्टाद्वारकमरणानुकूलव्यापारनिरूपितकर्तृत्वं संबन्धः) तङ्घटकं यन्मरणानुकूलत्वं तन्मरणजनकलमेव न तु मरणप्रयोजकत्वं श्येनस्य च मरणप्रयोजकत्वमेवास्ति न तु मरणकारणत्वमित्युक्तसंबन्धेः कारणत्वनिवेशेनैव श्येनन्यवच्छेदे जाते तत्र उक्तमणिकृद्धिंसालक्षणे श्येनव्यवच्छेदाय · अदृष्टाद्वारकत्वम् ' विशेषणं न निवेशनीयमित्यर्थः । पक्षान्तरमाह-कारणत्वेति, उक्तसंबन्धकोटौ कारणत्वनिवेशलाभायैव अदृष्टाद्वारकत्वविशेषणस्योपादानमस्ति । किं वा कारणत्वपर्यन्तलाभायैवाऽदृष्टाद्वारकत्वविशेषणस्योपादानमस्ति कारणत्वलाभस्तु संबन्धकोटी कारणत्वनिवेशेनापि जात एवेत्यदृष्टाद्वारकत्वविशेषणं न निवेशनीयमित्यर्थः । ननु वेदवाक्येन विशिष्टान्वय एव प्रतिपाद्यते विशिष्टान्वयस्थले च विशेषणेप्यन्वयो भवत्येवेति " श्येनेनामिचरन् यजेत " इति श्रुत्या श्येनस्य मरणसाधनीभूतो यो वधः खड्गाभिघातस्तत्साधनताबोधनेन मरणानुकूलखगाभिघातरूपवधविशेषणीभूतं यन्मरणं तादृशमरणसाधनत्वमपि प्रत्याय्यते इति श्येनस्य मरणकारणत्वमेव प्राप्तं न तु मरणप्रयोजकत्वमित्याशङ्क्याह-यदि चेति । उत्तरमाह-तदा "Aho Shrutgyanam" Page #426 -------------------------------------------------------------------------- ________________ ( ४१४ ) सादर्श: [ तृतीयाकारकेबोधकश्रुत्या विशेषणीभूतमरणसाधनतापि श्येनस्य प्रत्याय्यते तदापि श्येनानुकूल कृतेर्मरणसाधनत्वमप्रामाणिकमेव- क्रियाजनक कृते स्तज्जन्यजनकतानियमस्याsप्रामाणिकत्वात् । 'अथाऽन्योद्देशेन नाराचक्षेपकर्तुर्विशिष्टविषयककृतिमत्त्वघटित विशिष्टकर्तृताविर - हेपि यथार्धवधजन्यपापप्रायश्चित्तं तथा श्येनकर्तुर्विशिष्टाऽकर्तृत्वात् पापार्धस्थावइयकत्वादू बलवदनिष्ठाननुबन्धित्वबाधो दुर्वार एवेति चेत् ?, न-अकामकृतेप्यर्धप्रायश्चित्तस्मरणेन मरणावच्छिन्नव्यापारस्य विषयतामनन्तर्भाव्य विशिष्टजनककृतिमत्त्व संबन्धेन न्यूनपापे स्वतन्त्रहेतुत्वकल्पनात् तद्बलेन विशिष्टाकर्तुः श्येनकर्तुर्दिसाजन्य पापानुत्पत्तेः । न च लाघवेन मरणोपलक्षितव्यापारजनकत्वमेव प्रत्यासत्तिमध्ये निवेश्यतामिति वाच्यम्, श्रुत्यर्थबाधापादकलाघवस्याप्रयोजपीति, श्येनस्य मरणकारणत्वे प्राप्तेपि श्येनानुकूलकृतेर्मरणकारणत्वमप्रामाणिकमेवेत्यर्थः । अत्र हेतुमाह-क्रियाजनकेति, क्रियाजनककृतेः क्रियाजन्यं यन्मरणादिरूपफलं तज्जनकतापि भवतीति नियमस्याऽप्रामाणिकत्वात् । तस्माच्छयेनस्य खड्गाद्यभिघातं प्रत्येव कारणता न तु मरणं प्रतीति न श्येनकर्तुः संपूर्णप्रायश्चित्तप्रसङ्ग इत्यर्थः नन्वन्योद्देशेन नाराचक्षेपाद् यत्र ब्राह्मणमरणं भवति तत्र विशिष्टविषयका = मरणानुकूला या कृतिस्तादृशकृतिमत्त्वघटितम् = तादृशकृतिमत्त्वरूपं यद् विशिष्टकर्तृत्वं वधकर्तृत्वं तदभावेपि यथा तादृशनाराचक्षेप्तुरर्धवधप्रायश्चित्तं भवति तथा श्येनकर्तुरपि विशिष्टाकर्तृत्वात् = चधकर्तृत्वाभावेपि शत्रुमरणार्थमेव श्येनानुष्ठानात् पापार्ध स्यादेव तथा च श्येनस्य बलवदनिष्टाननुबन्धित्वं न स्यादिति श्येनविध्यर्थबाधः प्रसज्येतेत्याशङ्कते - अथेति । परिहरति-नेति, कामकृते पापे कामकृतपापापेक्षयाऽर्धप्रायश्चित्तं भवतीति कामकृतपापस्य संपूर्णप्रायश्चित्ते हेतुत्वं कल्प्यं मरणावच्छिन्नव्यापारस्य = कामकृतमरणानुकूलव्यापारस्य विषयतामऽनन्तर्भाव्याऽकामकतमरणानुकूलव्यापारस्य च न्यूनपापे पृथगेव हेतुत्वं कल्प्यमिति तद्बलेन = उक्तहेतुहेतुमद्भावकल्पनाबलेन श्येनकर्तरि संबन्धभूतस्य विशिष्टजनककृतिमत्त्वस्य = मरणोद्देश्यकमरणजनक कृतिमत्त्वस्याऽभावाद्द्द्विशिष्टाकर्तुः =मरणजनक खड्गाद्यभिघाताद्यनुकूलकृतिरहितस्य श्येनकर्तुः हिंसाजन्यं पापं नोत्पद्यते यत्र पुरुषे विशिष्टजनककृतिमत्त्वं भवति तत्रैव पापमुत्पद्यते इत्यर्थः । ननु मरणानुकूलव्यापारस्य मरणानुकूलव्यापारजनककृतिमत्त्वसंबन्धेन पापोत्पत्तिं प्रति हेतुत्वे ह्यकामकृतव्यापारेण मरणस्थलेऽर्धप्रायश्चित्तप्रयोजकपापोत्पत्तिं प्रति पृथग् हेतुत्वकल्पनापत्त्या गौरवं स्यादिति तदपेक्षया मरणोपलक्षितव्यापारजनककृतिमत्त्व संबन्धेन व्यापारस्य पापोत्पत्तिं प्रति हेतुत्वं कल्प्यताम् एवं च पृथक् पृथग् हेतुहेतुमद्भावकल्पनापेक्षा नास्तीति लाघवं स्यादित्याशङ्क्याहन चेति । परिहारमाह-- श्रुत्यर्थेति, एवं हि श्येनस्यापि शत्रुमरणेच्छयेवानुष्ठानेन श्येनव्यापारस्यापि मरणोपलचितत्वात् श्येनस्यापि पापजनकत्वं स्यात् तथा च श्येनबोध कश्रुत्यर्थस्येष्टसाधन "Aho Shrutgyanam" Page #427 -------------------------------------------------------------------------- ________________ श्येनयागविषयक विचारः ] व्युत्पत्तिवादः । ( ४१५ ) कत्वात् । वेदस्यले विशिष्टान्वयस्यात्सर्गिकत्वेपि श्येनस्य मरणजनकत्वे विध्यर्थबाथप्रसङ्गेन मरणं प्रति श्येनस्यान्यथासिद्धताया एवोपगन्तव्यतया तस्य जनकतागर्भहिनस्त्यर्थतावच्छेदकरूपशून्यताया व्याप सूपपादत्वात् । न च यदि खड्गाभिघातजन काऽदृष्टव्यवहितस्य श्येनस्य मरणेऽन्यथासिद्धत्वं तदा हननकर्तृव्यापारोपि तत्रान्यथासिद्धः स्यात् यश्च व्यापारो मरणेऽव्यवहितसाधनं तत्र तद्धेतुः कृतिरेवान्यथासिद्धेति मरणकारणव्यापारकारणकृतिमखं न कस्यापि हेतुः स्यादिति वाच्यम्, तण्डुलविक्लित्त्यादिरूपफलव्यवहितस्यापि तुषादिप्रक्षेपस्य तत्करणदशायाम् 'पचति' इत्यादिव्यवहारानुरोधेन यथाऽनन्यथासिद्धत्वं तथा खड्गप्रक्षेपादिकरणदशायाम् 'हन्ति' इतिव्यपदेशानुरोधेन तत्र व्यवहितस्यापि मरणेऽनन्यथासिद्धत्वमवश्याभ्युपेयमिति सामञ्जस्यात् । वस्य बाधः स्याद् न चेतदिष्टमिति नैतादृशं लाघवमिष्टमिति पृथक् पृथगेव हेतुत्वं कल्य्यमित्यर्थः । वेदस्थले ति - वेदस्थले विशिष्टान्वयस्यौत्सर्गिकत्वेन श्येनस्य मरणसाधनीभूतखड्गाद्यभिघातं प्रति साधनत्वेन विशेषणीभूतमरणं प्रति साधनत्वे प्राप्तेपि यदि श्येनस्य मरणजनकत्वं स्यात्तदा श्येनविध्यर्थस्य = इष्टसाधनत्वस्य बाधः स्याद् न चैतदिष्टमिति मरणं प्रति श्येनस्यान्यथासिद्धत्वमेव तथा च तस्य येनस्य जनकतागर्भः = मरणजनकताविशिष्टो यो हिनस्त्यर्थः = मरणानुकूलव्यापारस्तादृशहिनस्त्यर्थतावच्छेदकं यद्रूपम् = मरणानुकूलव्यापारस्वं तच्छून्यत्वमपि प्राप्तमिति न श्येनस्य पापजनकत्वं न वा श्येन कर्तुर्हिसामूलकप्रायश्चित्तं भवतीत्यर्थः । श्येनप्रयुक्तरात्रुहिंसया तु नरको मत्येवेति विज्ञेयम् । ननु यदि श्येनस्यादृष्टव्यवधानेन मरणेऽन्यथासिद्धत्वं तदा हननकर्तृव्यापारस्यापि तत्रभरणेऽन्यथासिद्धत्वं स्यात् पीडादिना व्यवधानात् तादृशव्यापारस्य पीडामात्रजनकत्वात् पश्च व्यापारो मरणेऽव्यवहितसाधनं तद्धेतुभूता कृतिरपि तत्रान्यथासिद्धैव स्यात् तादृशव्यापारविषयकक्कत्यनन्तरं कटिबन्धनशस्त्रमहणादीनामावश्यकत्वेन तैर्व्यवधानादिति मरणकारणीभूतव्यापारस्य कारणीभूता या कृतिस्तादृशकृतिमत्त्वमपि श्येनवत् न कस्यापि पापस्थ हेतुः स्यात् न चैतदिष्टमिति यथा व्यवहितस्याप्येतादृशकृतिमत्त्वस्य पापजनकत्वं तथाऽदृष्टेन व्यवहितस्यापि श्येनस्य पीपजनकत्वं युक्तमित्याशङ्क्याह- न चेति । परिहारमाह- तण्डुलेति, तत्करणदशायाम् = तुषादिप्रक्षेप करणदशायाम् । यथा तुषादिप्रक्षेपकरणदशाम् 'पचति' इतिव्यवहारात् तुषादिप्रक्षेपस्य विलित्तिरूपफलव्यवहितस्यापि नाऽन्यथासिद्धत्वं तथा खड्गाभिघातदशायाम् "हन्ति इतिव्यवहारात् न खड्गाभिघातस्य मरणेऽन्यथासिद्धत्वम् । श्येनस्य च मरणेऽनन्यथासिद्धत्वे न विध्यर्थबाधः स्यात् श्येनानुष्ठानकाले 'हन्ति' इति व्यवहाराभावाच मरणे श्येनस्याऽन्यथासिद्धत्वमेवेत्यर्थः : । "Aho Shrutgyanam" Page #428 -------------------------------------------------------------------------- ________________ ( ४१६) सादर्श: [ तृतीयाकारकेतण्डुलक्रयणदशायाम् 'पचति'इत्याद्यभाववत् खड्गादिनिर्माणदशायाम् हन्ति' इत्यऽव्यवहारात् तव्यापारो मरणेऽन्यथासिद्धतया न हिंसा । व्याघ्रमरणोद्देशेन कृतो यन्त्रार्पणादिर्यथा तत्र देवाद्गवादिमरणेपि न हिंसारूपस्तथा न व्याघ्रादि. हिंसारूपोपि- तत्करणदशायाम् 'हन्ति' इत्यप्रयोगात् । अतथात्वेपि तन्मरणोद्देश्यकाऽदृष्टाद्वारकतन्मरणप्रयोजककृतिजन्यव्यापारस्थापि हिंसावत् पापजनकत्वादुक्तस्थले गोवधाभिसंधाने गोवधप्रायश्चित्ताऽऽचरणमित्यवधेयम् । . एवं च 'चैत्रः पचति' इत्यादौ विषयताघटितकर्तृत्वबोधनिर्वाहाय यथा कृती पाकादेरुपधायकत्वविषयित्वोभयसंबन्धनान्वयः, विषयितायाः संबन्धत्वेप्युपधायकत्वनिवेश आवश्यक:- पाकाद्यनिष्पत्तिस्थले 'पचति-पश्यात' इत्यादिप्रयोगस्य प्रामाण्यवारकत्वात्, तथा 'चैत्रेण पच्यते' इत्यादावपि तृतीयार्थकृतेर्जन्य : तण्डुलेति-- खड्गादिनिर्माणदशायाम् 'हन्ति' इति व्यवहारो न भवति तद्व्यापारः= खड़गादिनिर्माणव्यापारो न हिंसा न वा निर्माणकर्तुः प्रायश्चित्तमित्यर्थः । अस्मिन् यन्त्रे प्रविष्टो व्याघ्रो मरिष्यतीति गृह्यतामयं यन्त्र इत्येवं यत्र व्याघ्रमरणोदेशेनापि यन्त्रार्पण कृतं तत्र तस्मिन् यन्त्रे दैवात् प्रविष्टगवादिमरणेपि सति यथा यन्त्रार्पणव्यापारो न गोहिंसारूपस्तथा तस्मिन् प्रविष्टव्याघ्रमरणेपि न व्याघ्रहिंसारूप:- तत्करणदशायाम्-यन्त्रार्पणकरणदशायाम् ‘हन्ति' इति प्रयोगव्यवहारयोरभावात्, न वा यन्त्रार्पणकर्तुः प्रायश्चित्तमित्याह- व्याघ्रमरणेति । अतथात्वेपीति- यत्र परमरणार्थ कृतेन व्यापारेण मरणं न जातं तत्र तादृशव्यापास्थाऽतथात्त्वेपि3 अहिंसारूपत्वेपि किं वा मरणरूपफलानुत्पादकत्वेपि तादृशस्य तन्मरणोद्देश्यकादृष्टाद्वारकतन्मरणप्रयोजककृतिजन्यव्यापारस्य हिंसाबद् यथा पापजनकत्वं भवति तथोक्तस्थले व्याघ्रमरणोद्देशेन यन्त्रार्पणस्थले यदि गोवधाभिसंधानं भवति तदा तस्मिन् यन्त्रे गोमरणे सति गोवधप्रायश्चित्तं भक्त्येवेत्यर्थः । व्याघ्रमरणोदेशेन यन्त्रार्पणस्थले व्याघ्रमरणेपि न सद् व्याघ्रादिहिंसारूपो गोवधाभिसंधाने तु गोवधप्रायश्चित्तमित्युक्तवैषम्ये गोवधस्य प्राबल्यमेव हेतुरित्युन्नेयम् । उपसंहरति- एवं चेति, “ चैत्रः पचति । इत्यत्र पाकविषयक( पाकानुकूल )कृतिमांश्चैत्र इत्याकारकबोधो जायते तनिहाय कृतौ उपधायकत्व (जनकत्व ) विषयित्वैतदुभयसंबन्धन यथा पाकस्यान्वयो भवति, कृतौ विषयित्वं जनकत्वं चास्त्येव, संबन्धमध्ये उपधायकत्वनिवेशस्य फलमाह- विषयिताया इति, पाकाद्यनिष्पत्तिस्थलेपि कृतौ विषयितायाः सत्त्वेन विषयितासंबधेन कृतौ पाकान्वयसंभवात् “पचति' इत्यादिप्रयोगस्य प्रामाण्यं स्यात्. न चैतदिष्टमिति संबन्धे उपधायकत्वनिवेशः कार्यस्तथा च पाकाद्यनिष्पत्तिस्थले कृतौ पाकादिजनकत्वाभावात 'पचति. पश्यति' इत्यादिप्रयोगस्य प्रामाण्य न भवति, प्रकृतमाह-तथेति. तथा 'चैत्रेग पच्यते' इत्यत्र तृतीयार्थकृतेर्जन्यत्वविषयत्वेतदुभयसंबन्धेन पाकादावन्वयो भवति, पाके कृतिजन्यत्वं कृतिविषयत्वं. "Aho Shrutgyanam" Page #429 -------------------------------------------------------------------------- ________________ तृतीयाविभक्त्यर्थविचारः] व्युत्पत्तिवादः। त्वविषयत्वोभयसंबन्धेनान्वयो बोध्यः ( पाकादौ)। कृतिजन्यत्वस्य तृतीयार्थत्वे जन्यत्वसंबन्धमध्ये एव स्वनिरूपकविषयत्वं प्रवेशनीयम् । कृतिविषयत्वमेव वा तुंतयिार्थः, स्वनिरूपकजन्यत्वं विषयतायाः संबन्धमध्येऽन्तर्भावनीयम् । __ 'काष्ठेन पचति ' इत्यादौ करणत्वं तृतीयार्थः, तच्च व्यापारवत्कारणत्वम्, व्यापारे कर्तृव्यापाराधीनत्वं निशमीयम्, अन्यथा कर्तुरपि करणतापत्त्या 'चैत्रश्चैत्रेण पचति ' ' काष्ठं चैत्रेण पचति' इत्यादिप्रयोगापत्तेः । न च कर्तु. श्चेष्टादिरूपव्यापारस्य तदीयकृत्यादिरूपव्यापाराधीनतया तद्विशेषणदानपि कर्तुः करणत्वं दुर्वारमेवेति वाच्यम्, स्वभिन्नत्वेन कर्तुविशेषणीयत्वात् । चास्त्येव, अत्रापि पाकाद्यनिष्पत्तिस्थले 'पच्यते' इत्यादिप्रयोगप्रामाण्यपरिहाराय संबन्धमध्ये जन्यत्वनिवेश आवश्यक एवेत्यर्थः । पक्षान्तरमाह- कृतिजन्यत्वस्येति, 'चैत्रेण पच्यते' इत्यत्र कृतिजन्यत्वस्य तृतीयार्थत्वे तादृशस्य तृतीयार्थभूतकृतिजन्यस्वस्य स्वनिरूपकविषयत्वसंबन्धेन पाकेऽन्वयः, स्वं कृतिजन्यत्वं तच्च कृतिजन्यत्वं पाकनिष्ठं पाकनिष्ठा या कृतिविषयता तन्निरूपितमेवेति तादृशविषयत्वे कृतिजन्यत्वनिरूपकत्वं प्रासमिति स्वनिरूपकविषयत्वसंबन्धेन पाके तृतीयार्थकृतिजन्यत्वस्यान्वयः- कृतिजन्यत्वनिरूपकविषयत्वस्य ( कृतिविषयत्वस्य) पाके सत्त्वादेवे. त्यर्थः । पक्षान्तरमाह-कृतिविषयत्वमिति,अन्तर्भावनीयमिति-कृतिविषयत्वस्य तृतीयार्थस्य स्वनिरूपकजन्यत्वसंबन्धेन पाकेऽन्वय इत्यन्वयः, अत्र स्वं कृतिविषयत्वं तच्च पाकनिष्ठं कृतिविषयत्वं पाकनिष्ठकृतिजन्यत्वनिरूपितमेवेति तादृशजन्यत्वे कृतिविषयत्वनिरूपकत्वं प्राप्तमिति स्वनिरूपकजन्यत्वसंबन्धेन तृतीयार्थकृतिविषयत्वस्य पाकेऽन्वयः कृतिविषयत्वनिरूपकजन्यत्वस्य पाके सत्त्वादेवेत्यर्थः । चैत्रवृत्तिकृतिजन्यत्वविशिष्टपाकजन्यविलित्याश्रयः-चैत्रवृत्तिकतिविषयत्वविशिष्टपाकजन्यविक्लित्याश्रयस्तण्डुल इति यथासंख्यं शाब्दबोधी विज्ञेयो।। करणतृतीयार्थ निरूपयति-काष्ठेनेति । तत् करणत्वम् । व्यापारे इति- कर्तृव्यापाराधीनव्यापारवत्कारणत्वं करणत्वमित्यर्थः । विपक्षे बाधंकमाह- अन्यथेति, कर्तृव्यापाराधीनत्वनिवेशाभावे केवलं व्यापारवत्कारणत्वं तु कर्तुरप्यस्त्येवेति कर्तुरपि करणत्वं स्यात्तथा च 'चैत्रश्चैत्रेग पचति' 'काष्ठं चैत्रेण पचति' इत्यादिरपि प्रयोगः स्याद् न चैतदिष्टम्, उक्तरीत्या कर्तृव्यापाराधीनत्वनिवेशे तु चैत्रस्य स्वतन्त्रत्वेन चैत्रकाष्ठा दिव्यापाराधीनव्यापारवत्त्वाभावात् न करणत्वापत्तिस्तथा च न 'चैत्रश्चैत्रेण' इत्यादिप्रयोगापत्तिरपि । ननु तद्विशेषणदानेपि=उक्तकर्तृव्यापाराधीनत्वविशेषणदानेपि कर्तुः करणत्वं स्यादेव कर्तुः पाकादिव्यापारस्यापि तदीयपाकाद्यनुकूलकत्यादिरूपव्यापाराधीनत्वादेवेत्याशङ्क्याह- न चेति । परिहारमाह-वभिन्नेति, तया च 'स्वभिमकर्तृव्यापाराधीनव्यापारवत्कारणत्वं करणत्वम्' इति वक्तव्यं तथा च चैत्रव्यापारस्य चैत्रवृत्तिकृत्याद्यधीनत्वेपि चैत्रभिन्नकर्तृन्यापाराधीनत्वं नास्तीति न चैत्रस्य करणत्वापत्तिः । काष्ठादिश्यापारस्य तु काष्ठादिमिन्नचैत्रव्यापाराधीनत्वमेवेति काष्ठादोनां करणत्वं प्राप्तमित्यर्थः । २७ "Aho Shrutgyanam" Page #430 -------------------------------------------------------------------------- ________________ (४१८) सादर्श: [ तृतीयाकारकेयत्रैकैव पाकादिक्रिया चैत्रेण काष्ठादिना मैत्रेण तुषादिप्रक्षेपेण निष्पाद्यते तत्र 'चैत्रस्तुपैमैत्रः काष्ठैः पचति' इतिप्रसङ्गः समभिव्याहृतकर्तृव्यापाराधीनत्वस्य तत्तत्करणव्यापारे भानमुपगम्य वारणीयः । न च समभिव्याहृतकत्रन्तर्भावेण तृतीयार्थत्वे कत्रऽसमभिव्याहारस्थले करणे तृतीयाया अप्रयोगाप. त्तिरिति वाच्यम्, तत्रापि “ हेतौ " इतिसूत्रेण हेतुतामात्रार्थकतृतीयासंभवात् 'धनेन कुलम् ' 'विद्यया यशः । इत्यादिवत् । न हि तत्र करणे तृतीयाक्रियायोगाभावात् । न चैवमुक्तस्थले चैत्रस्तुषेण पचति ' इति प्रयोगस्य “हेतौ” इतिसूत्रबलादापत्ताविष्टापत्ति विनोत्तराभावात् समभिव्याहृतकञन्तर्भावस्य करणे स्वतन्त्रतृतीयानुशासनस्यैव वा वैयमिति वाच्यम्,उक्तस्थले पाके तुषहेतुकत्वाभाववा नन्वेवमपि यत्रैकैव पाकक्रिया चैत्रेण काष्ठेन संपाद्यते मैत्रेण च तुषेण संपाद्यते तत्र करणभूततुषकाष्ठाद्यपेक्षया चैत्रमैत्रयोर्मिनत्वादेव ' चैत्रस्तुङ्गमैत्रः काष्ठैः पचति' इति प्रयोगः किं न स्थादित्याशझ्याह- यत्रेति । एतत्प्रयोगापत्तिपरिहारोपायमाह- समभिव्याहृतेति, तथा च समभिव्याहृतस्वमिनकर्तृव्यापाराधीनव्यापारवत्कारणत्वं करणत्वमिति वक्तव्यम्, अत्र च तुषव्यापारे सममिव्याहृतचैत्रव्यापाराधीनवं नास्ति काष्ठव्यापारे च मैत्रव्यापाराधीनवं नास्तीति नोक्तस्थले 'चैत्रस्तुषैः । इत्यादिप्रयोगापत्तिः । किं तु काष्ठव्यापारस्य चैत्रव्यापाराधीनत्वात् तुषव्यापारस्य च मैत्रव्यापाराधीनत्वात् ' चैत्रः काष्ठमैत्रस्तुषैः पचति । इत्येवोक्तस्थले प्रयोगो भवतीत्यर्थः । ननु यदि 'समभिव्याहतस्वभिन्नकर्तृव्यापाराधीनव्यापारवत्कारणत्वं करणत्वम्' इत्येवं सममिव्याहृतक–न्तर्भावेन करणवस्य तृतीयार्थत्वम् करणत्वे सममिव्याहृतकर्तुरप्यन्तर्भावस्तदा कर्बऽसमभिव्याहारस्थले ' काष्ठेन पचति । इत्यादौ करणत्वे तृतीया न स्यात्- विशेषणीभूतकर्तुः समभिव्याहाराभावेन करणत्वस्याप्यसंभवादित्याशङ्क्याह- न चेति । परिहारमाह- तत्रापीति, काष्ठेन पचति । इत्यत्र ‘धनेन कुलम् ' इत्यत्रेव “ हेतौ " इति सूत्रेण हेतुतृतीया बोध्या । ननु — धनेन कुलम् ' इत्यत्र करणतृतीयैव किं न स्यादित्याशङ्क्याह- न हीति । तत्र= धनेन कुलम्' इत्यादौ । क्रियायोगाभावात्-क्रियावाचकपदाभावेन क्रियायोगाभावः। ___ ननु ' काष्ठेन पचति ' इत्यत्र यदि " हेतो " इति सूत्रेण तृतीया संभवति तदोक्तस्थले= यत्रैकैव पाकक्रिया चैत्रेण काष्ठादिना मैत्रेण तुषेण च निष्पाद्यते तत्र पाके तुषस्यापि हेतुत्वेन तुषपदोत्तरम् “ हेतौ " इतिसूत्रेण तृतीयासंभवात् चैत्रकर्तृकपाकस्य तुषकरणकत्वाभावेपि 'चैत्रस्तुषेण पचति' इति प्रयोगः स्यादेवेति करणत्वे समभिव्याहृतकन्तर्भावस्य वा करणे पृथक् तृतीयानुशासनस्य वा वैयर्थ्य स्यादेवेत्याशझ्याह- न चेति । उत्तरमाह- उक्तस्थले इति, उक्तस्थले=" यत्रैकैव पाकादिक्रिया " इत्युक्तस्थले पाके तुषहेतुकत्वस्यापि सत्त्वेन तुषहेतुकस्वाभावस्य वाधेपि ' चैत्रस्तुषेण न पचति किं तु काष्ठेन । इतिप्रयोगोपपत्त्यर्थं समभिव्याहृत "Aho Shrutgyanam" Page #431 -------------------------------------------------------------------------- ________________ तृतीयामित्यर्थविचार 1 व्युत्पत्तिवादः । ( ४१९ ) 6 धेपि ' चैत्रस्तुषेण न पचति किं तु दारुणैव ' इतिप्रयोगोपपत्तये समभिव्याहतकर्त्रन्तर्भावेण तृतीयायाः शक्तिकल्पनाया आवश्यकत्वात् तद्ब्राहकतयैव करणे तृतीयानुशासनस्यावश्यकत्वात् । शरैः शातितपत्रोयम् इत्यादौ तृतीयायाः कारकविभक्तित्वे एव तदर्थान्वितार्थ कशातितादिपदेन समासस्य साधुतानिर्वाहाच्च । न च तृतीयायाः समभिव्याहृतकर्त्रन्तर्भावेण करणत्वार्थत्वे तत्र समभिव्याहृत कर्त्रेऽभावादकारकविभक्तित्वं करणे तृतीयानुशासनेपि दुर्वारमेवेति वाच्यम्, एतदनुरोधेन तत्र कर्तुरध्याहरणीयत्वात् । " वस्तुतः समभिव्याहृतकर्तृव्यापाराधीनत्वे व्यापारवत्कारणत्वे च तृतीयायाः शक्तिद्वयम् कर्त्रसमभिव्याहारस्थले व्यापारवत्कारणत्वमात्रं प्रतीयते, कर्तृसमभिव्याहारस्थले च व्यापारे तद्व्यापाराधीनत्वमपीति सामञ्जस्यम् । कर्त्रन्तर्भावेण तृतीयायाः करणत्वे शक्तिकल्पनाया अपेक्षास्ति तादृशशक्तिमहार्थं च करणे तृतीयानुशासनस्यावश्यकतास्तीति न समभिव्याहृतकर्त्रन्तर्भावस्य वा करणे तृतीयानुशासनस्य वा वैयर्थ्यम्, एवं हि तुषव्यापारस्य मैत्रव्यापाराधीनत्वेन चैत्रव्यापाराधीनत्वाभावात् तुषस्य पाक हेतुत्वेपि ' चैत्रस्तुषेण न पचति ' इति प्रयोग उपपद्यते. करणत्वे समभिव्याहृतकर्त्रन्तर्मावस्याभावे तु तुषस्यापि पाकहेतुत्वेन चैत्रस्य च पाककर्तृत्वेनोक्तस्थले ' चैत्रस्तुषेण पचति ' इति स्यादेव ' चैत्रस्तुषेण न पचति ' इति न स्यात्, न चैतदिष्टमित्यर्थः । तद्माहकतया=ठक्तशक्तिग्राहकतया । करणतृतीयाया आवश्यकत्वे हेत्वन्तरमाह-- शरैरिति, ' शरैः शातितपत्रोयम्' इत्यत्र शातितपदार्थैकदेशशातनक्रियायां हेतुतृतीयार्थस्यान्वयो न संभवति क्रियायां कार - कस्यैवान्यनियमात् तथा च शरपदोत्तरतृतीयायाः कारकविभक्तितत्वे एव : तदर्थान्वितार्थकशातितपदेन=कारकविभक्तिरूपतृतीयार्थेन करणत्वेनान्वितार्थकं यत् शातितपदं तेन सह पत्रपदसमासस्य साधुत्वं संभवतीत्येतदर्थमपि करणे तृतीयाया आवश्यकतेत्यर्थः । ननु यदि समभिव्याहृतकर्तृव्यापाराधीन व्यापारवत्कारणत्वं करणत्वमित्युच्यते तदा तत्र = ' शरैः शातितपत्रोयम् ' इत्यत्र कर्तृसमभिव्याहाराभावेन समभिव्याहृत कर्तृव्यापाराधीनव्यापारवत्त्वं शराणां न संभवतीति शरदोत्तरतृतीयायाः कथं कारकविभक्तित्वं स्यादित्याशङ्क्याह- न चेति । उत्तरमाह-- एतदनुरोनेति, कर्तृसमभिव्याहारं विना शराणामुक्तकरणत्वं न संभवति इष्टं च करणत्वमित्यनुरोधेन तत्र='शरैः शातितपत्रः' इत्यत्र कर्तुरप्याहारः कर्तव्यस्तथा चाव्याहृत कर्तृव्यापाराधीनव्यापारवत्त्त्रं शराणां भविष्यतीति न शरपदोत्तरवृतीयायाः कारकविभक्तित्वानुपपत्तिरित्यर्थः । स्वाभिप्रायमाह - वस्तुत इति, शक्तिद्वयम् = खण्डशः शक्तिद्वयम् । कर्त्रऽसमभिव्याहारस्थळे= 'शेरेः शातितपत्र: ' इत्यादौ व्यापारवत्कारणत्वमात्ररूपं करणत्वं प्रतीयते । कर्तृसमभिव्याहारस्थले = ' चैत्रः काष्ठेन पचति ' इत्यादौ व्यापारे काष्ठादिरूपकरणव्यापारे तद्व्यापाराधीनत्वम् = कर्तृव्यापाराधीनत्वमपि प्रतीयते इति न कोपि दोष इत्यर्थः । "Aho Shrutgyanam" Page #432 -------------------------------------------------------------------------- ________________ (४२०) सादर्शः [तृतीयाकारकेएवं हेत्वनुशिष्टतृतीयायाः “ अकर्तर्येणे" इत्यनेन बाधनात् करणत्ववियक्षायाम् ' धनवता ऋणेन बद्धोयम् ' इत्यत्र तृतीयाया, उपपत्तये करणे तृतीयानुशासनस्यावश्यकता । कारणत्वं च फलोपधानतारूपमेव करणताघटकम्, अन्यथा कुठारादिकरणकच्छिदादौ दात्रादेरपि स्वरूपयोग्यतया. करणत्वापत्तेः। लिङ्गज्ञानस्यानुमितिकरणतामते 'धूमेन वहिमनुमिनोमि' इत्यादौ धूमादिपदं तज्ज्ञानपरम्, व्याप्तिविशिष्टहेतुज्ञानस्य व्यापारस्तद्विशिष्टवैशिष्टयावगाही परामर्शः, स चात्ममनोयोगादिरूपानुमातृपुरुषव्यापाराधीन इति सस्प निरुक्तकरणत्वमबाधितमेव । धूमादिलिङ्गकवड्यनुमितौ यत्र लिङ्गान्तराद् घटादिभानं तत्र'धूमेन घटमनुमिनोमि ' इति न प्रयोगः-अन्वयितावच्छेदकतद्विधेयकानुमितित्वावच्छेदेनैवाऽन्वयितावच्छेदकधूमादिविषयकज्ञानत्वावच्छिन्नत्वेन भास करणतृतीयाया आवश्यकत्वे उपपत्त्यन्तरमाह-एवमिति, हेत्वनुशिष्टतृतीयाया:=" हेतौ" इति सूत्रोक्ततृतीयायाः " अकर्तर्यणे " इतिपञ्चमी विधायकसूत्रेण बाधो भवतीति करणतृतीयाया अभावे 'धनवता ऋगेन बद्धः ' इत्यत्र तृतीया न स्यादिति ऋणस्य करणत्वविवक्षायामत्र तृतीयोपपत्त्यर्थमपि करणे तृतीयानुशासनस्यावश्यकतास्तीत्यर्थः । स्वाभिप्रेत कारणस्वस्वरूपमाह-कारणत्वमिति, ' व्यापारवत्कारणत्वं करणत्वम् । इतिकरणत्वस्वरूपप्रविष्टं यत्कारणत्वं तत्फलोपधानतारूपम् फलजनकतारूपं ग्राह्यम् । विपक्षे बाधकमाह-अन्यथेति, फलोपधानतारूपस्य कारणत्वस्याग्रहणे कुठारादिकरणकच्छेदनक्रियायां दात्रादेरपि स्वरूपयोग्यतारूपकारणतायाः सत्त्वात् करणत्वं स्यात्, न चैतदिष्टमित्यर्थः।। लिङ्गेति, तज्ज्ञानपरम्=धूमादिज्ञानपरम्, तथा च धूमज्ञानज्ञाप्यो वह्रिरित्यर्थः । धूमज्ञानस्यानुमितिकरणत्वसिद्धयर्थं कर्तृव्यापाराधीनव्यापारवत्त्वमुपपादयति-व्याप्तीति, व्याप्तिविशिष्टो यो धूमादिर्हेतुस्तज्ज्ञानस्य तविशिष्टवैशिष्ट्यावगाही व्याप्तिविशिष्टो यो हेतुस्तवैशिष्ट्यावगाही 'वहिव्याप्यधूमवान् पर्वतः ' इत्याकारको यः परामर्शः स एव व्यापारः सः परामर्शरूपव्यापारश्चात्ममनःसंयोगादिरूपस्यानुमातृपुरुषव्यापारस्याऽधीन एव-आत्ममनःसंयोगं बिना परामर्शानुत्पत्तेरिति तस्य हेतुज्ञानस्य निरुक्तकरणत्वम् कर्तृव्यापाराधीनव्यापारवत्त्वरूपं करणत्वं प्राप्तमेवेत्यर्थः । धूमादिलिङ्गेन वपनुमितो यदा लिङ्गान्तराद् घटादिभानं भवति तदापि 'धूमेन घटमनुमिनोमि ' इति प्रयोगो न भवतीत्याह-घूमादिलिङ्गकेति । उक्ते हेतुमाह-अन्वयितावच्छेदकेति, धूमादिलिङ्गकवयनुमितौ यत्र लिङ्गान्तराद् घटादिभानं तत्राऽन्वयितावच्छेदकं पदमादिविषयकज्ञानत्वं तदवच्छिन्ननिष्ठं यद् भासमानं करणत्वं तादृशकरणत्वनिरूपकत्वम् अन्वयितावच्छेदकं यत् तद्विधेयका ( वयादिविधेयका) नुमितित्वं तदवच्छिन्ने एव स्वीक्रियते तथाच धूमझाननिष्ठकरणत्वनिरूपकत्वं वह्निविधेयकानुमितावेवास्ति न तु घटाद्यनुमितावपीति न "Aho Shrutgyanam" Page #433 -------------------------------------------------------------------------- ________________ तृतीयाविभक्त्यर्थविचारः] व्युत्पत्तिवादः । (४२१) मानस्य करणत्वस्य निरूपकत्वभानोपगमात् । निरूपकत्वं तु करणतामात्रस्य नृतीयार्थतावादिनां प्राचां मते संसर्गः, नव्यमते तु करणतानिरूपकत्वस्यैव नर्थाभावे प्रतियोगित्वेनाऽन्वयानुरोधात् तावत्पर्यन्तस्प तृतीमार्थत्या प्रकार एक्त्यन्यदेतत् । परे तु लिङ्गज्ञानस्प करणत्वेपि 'धूमेन पनिमनुमिनोमि ' इत्यादौ धूमादिपवं मुख्यार्थपरमेव “हेतौ” इति सूत्रेण तत्र तृतीया-हेतुत्वस्य कारणतावच्छे. दकसाधारणप्रयोजकत्वरूपस्य तत्र विवक्षितत्वाद, जनकज्ञानविषयधूमादेश्चानुमितिकारणतावच्छेदकतया प्रयोजकत्वमक्षतमेव । उक्तसमूहालम्बनस्थले 'धूमेन घटमनुमिनोमि' 'घटेन वह्निमनुमिनोमि । इति वा प्रयोगापत्तिरित्यर्थः । धूमज्ञाने धूमज्ञानत्वमप्यस्ति करणत्वमप्यस्तीति करणत्वस्य धूमज्ञानत्वावच्छिन्नत्वेन मासमानत्वं प्राप्तम् । अनुमितौ यत्करणतानिरूपकत्वमुक्तं तनिरूपकत्वं संसर्गो वा प्रकारो वेत्याशङ्क्याहनिरूपकत्वमिति, करणत्वं तृतीयार्थ इति प्राचीनमतं तत्र हेतुनिष्ठतृतीयार्थकरणत्वस्य निरूपकवसंबन्धेनानुमितावन्वय इति निरूपकत्वं संसर्गः । करणत्वनिरूपकत्वमनुमितावुक्तमेव तथा च निरूपकत्वसंबन्धेन करणत्वविशिष्टानुमितिरित्यर्थः । नवीनमते ' घूमेन वह्निमनुमिनोमि न घटेन । इत्यत्र घटज्ञानकरणतानिरूपकत्वस्य नार्थाभावे प्रतियोगित्वरूपेणान्वयो :मवति तादृशविशिष्टाभावस्य च वह्नयनुभितावऽन्वयो मवति-'घटज्ञानकरणतानिरूपकत्वाभावविशिष्टा चयनुमितिः' इति तावत्पर्यन्तस्य करणतानिरूपकत्वस्य तृतीयार्थत्वेन तद्घटकस्य निरूपकस्वस्यापि तृतीयार्थत्वात् प्रकारत्वं प्राप्तमेवेत्यर्थः । अन्न च निरूपकत्वं प्रकार एवेत्यन्वयः । एकमेव 'जलसेकेन घठमनुमिनोमि न धमेलः । इत्थर कानुमिली धूमज्ञाननिष्ठकरणतानिरू, पकत्वाभाववैशिष्टयं बोध्यम् ।। ___ मतान्तरमाह-परे विति, लिङ्गज्ञानस्यापि करणत्वे इत्यन्वयः । धूमं विना धूमज्ञानस्याऽसंभवादनुमितिकारणतावच्छेदकरूपप्रयोजकत्वरूपं हेतुत्वं धूमस्याप्यस्त्येव धूमस्य च हेतुत्वे प्राप्ते तत्र धूमादिपदोत्तरम् “हेतो" इति सूत्रेण तृतीया उपपद्यते एवेति धूमादिपदं मुख्यार्थपरमेव तथा चानुमितौ धूमादिज्ञानकरणकत्वं किं वा धूमादिवानस्य करणत्वमार्थमेवेत्यर्थः । "हेतौ इति सूत्रघटकहेतुत्वस्वरूपमाह-हेतुत्वस्येति, हेतुत्वं हि प्रयोजकत्वरूपमेव तच्च द्विविधं भवति कारणतावच्छेदकस्वरूपं साक्षात् कारणत्वरूपं च तथा च तत्र" हेतौ " इतिसूत्रे कारणतावच्छेदकसाधारणप्रयोजकत्वरूपं हेतुलं विवक्षितमस्ति जनकज्ञानविषयधूमादे-अनुमितिजनकं बडूमज्ञानं तद्विषो यो धूमस्तादृशधूमस्य चानुमितिकारणे धूमनाने विशेषणत्वादनुमितिकारणतावच्छेदकलं प्राप्त तेन चानुमितिप्रयोजकत्वं प्राप्तं तथा च प्रयोजकत्वरूपहेतुत्वस्य धूमे सत्त्वादूमपदात् 'धूमेन वह्निम् ' इत्यत्र " हेतौ " इति सूत्रेण तृतीया प्राप्तेति नेयं करणतृतीयेत्यर्थः। नन्वेवं धूमलिङ्गकवयनुमितौ यत्र लिङ्गान्तराद् घटादिभानं तत्र तादृशसमूहालम्बनात्मकानुमि-. "Aho Shrutgyanam" Page #434 -------------------------------------------------------------------------- ________________ सादर्श:-- ( ४२२ ) [ तृतीयाकारके ऽतिप्रसङ्गश्च वह्निविधेयकानुमितित्वावच्छेदेन प्रयोजकतानिरूपकत्वभानाभ्युप गमेन वारणीयः 1 वस्तुतो जनकादिनिष्ठप्रयोजकतानिरूपकत्वं कार्यस्येव कार्यतावच्छेदकस्याप्यक्षतं प्रतीतिसाक्षिकं च तथा चानुमितिविशेषणतत्तद्विधेयकत्वरूपसुबन्तार्थे एव तृतीयार्थान्वय उपगम्यते । समूहालम्बनानुमितिनिष्ठघटादिविधेयकत्वस्य धूमाद्यप्रयोज्यतया नोक्तातिप्रसङ्गः । ' धूमेन वह्निमनुमिनोमि न घटेन' इत्यादावनुमितौ घटादिप्रयोज्यत्वाभावो नान्वेति, अपि तु नञर्थाभावप्रतियोग्यन्वयिनि वयादिविधेयकत्वे एव. अतो यत्र धूमादिलिङ्गकवचनुमितौ घटाटिरूपलिङ्गाधीनं द्रव्यत्वादिभानं तत्र 'धूमेन वह्निमनुमिनोमि न घटेन ' इति प्रयोगोपपत्तिःसमूहालम्बनरूपतादृशानुमितौ घटादिरूपलिङ्गप्रयोज्यत्वाभावस्याऽसवेपि वहया तिप्रयोजकत्वं धूमेऽस्त्येवेति 'धूमेन घटमनुमिनोमि " इति प्रयोगापत्तिरूपोत्तिप्रसङ्गः स्यादित्याशङ्क्याह-उक्तेति, तत्र धूमनिष्ठप्रयोजकतानिरूपकत्वमुक्तरीत्या वह्निविधेयकानुमितित्वावच्छेदेन=वह्निविधेयकानुमितावेवास्ति न तु बढविधेयकानुमितावपीति न ' धूमेन घटमनुमिनोमि इति प्रयोगापत्तिरित्यर्थः । स्वाभिप्रायमाह - वस्तुत इति, जनकनिष्टं यत्प्रयोजकत्वं तन्निरूपकलं यथा कार्यस्य तथा कार्यतावच्छेदकस्यापि भवति - कार्यतावच्छेदकविशिष्टस्यैव कार्यस्य निरूपकत्वेन तद्विशेषणीभूतकार्यतावच्छेदकस्यापि प्रतीतिसाक्षिकं निरूपकत्वं प्राप्तमेव तथा च कार्यतावच्छेदकरूपं यदनुमितिविशेषणं तत्तद्विधेयकत्वम् वह्यादिविधेयकत्वं तदेव 'वह्निम्' इति सुबन्तार्थस्तस्मिन् प्रयोजकतानिरूपकत्वस्य सत्त्वात् तादृशनिरूपकतासंबन्धेन तत्र तृतीयार्थस्य = प्रयोज्यत्वस्यान्वयो मवतीत्यर्थः । धूमलिङ्गकवयनुमितौ यत्र लिङ्गान्तराद् घटादिभानं तादृशसमूहालम्बनानुमितौ यद् घटविधेयकत्वं तस्य लिङ्गान्तरप्रयोज्यत्वेन धूमप्रयोज्यत्वाभावात् 'धूमेन घटमनुमिनोस ' इत्यतिप्रसङ्गापत्तिर्नास्तीत्याह- समूहेति । धूमेनेति - 'धूमेन वह्निमनुमिनोमि न घटेन' इत्यत्र न घटेन ' इत्यस्य यो घटप्रयोज्यत्वाभावरूपोर्थस्तस्यानुमितावन्वधो न भवति किं तु नञभावस्य प्रतियोगिभूतं यत्प्रयोज्यत्वं निरूपकत्वसंबन्धेन तदन्वयिनि वह्निविधेयकत्वे एवान्वयो भवति तथा च यत्र धूमादिलिङ्गकवयनुमितौ घटादिरूपलिङ्गेन द्रव्यत्वादिमानं भवति तत्र घूमेन वह्निमनुमिनोमि न घटेन' इति प्रयोग उपपद्यते - वह्निविधेयकत्वे घटप्रयोज्यत्वाभावस्य सत्त्वादेव, यदि घटादिप्रयोज्यत्वाभावस्यानुमितावेवान्वयः स्यात्तदात्रानुमितौ घटेन द्रव्यत्वमानेन घटप्रयोज्यत्वस्यैव सत्त्वाद् घटप्रयोज्यत्वाभावस्य चासत्त्वात् ' धूमेन वह्निमनुमिनोमि न घटेन ' इति प्रयोगो न स्यादित्यर्थः । उक्तमुपपादयति- समूहालम्बनेति, यत्र धूमादिलिङ्गकवह्नयनुमितौ घटेन द्रव्यत्वादिभानं तादृशसमूहालम्बनानुमितौ घटादिरूप लिङ्गप्रयोज्यत्वस्यैव सत्त्वेन घटादिरूपलिङ्गप्रयोज्यत्वाभावस्याऽसत्त्वेपि तादृशानुमित्येकदेशभूतत्रह्निविधेयकत्वे 6 "Aho Shrutgyanam" 2 Page #435 -------------------------------------------------------------------------- ________________ तृतीयाविभक्त्यर्थविचारः] व्युत्पत्तिवाद । (४२३ ) दिविधेयकत्वे तदबाधात् । न ह्यनुमितावपि द्रव्यत्वादिविधेयकत्वावच्छिन्नस्य घटोदिलिङ्गप्रयोज्यत्वत्य वयादिविधेयकत्वावच्छेदेनाऽभावो बाधित इति संभवति-प्रयोज्यताया व्याप्यवृत्तित्वविरहात् । एतेन- अनुमितौ धूमादिलिङ्गज्ञानकरणकत्वं तृतीयया प्रत्याय्यते करणे एव तृतीया तत्रेतिमतं प्रत्युक्तम्-उक्तस्थलेऽनुमितौ नअर्थान्वययोग्यताया अनुपपत्तेः। वढ्यादिविधेयकत्वे धूमादिज्ञानरूपकरणजन्यतावच्छेदकत्वतदभावौ तृतीयान्तत समाभिव्याहृतनञ्भ्यां प्रत्याय्यते इत्यपि न सत्- कारकविभक्त्यर्थस्य क्रियातिरिक्तेऽनन्वयात् । तदबाधात्-घटादिरूपलिङ्गप्रयोज्यत्वाभावस्थाऽबाधात् 'धूमेन वह्निमनुमिनोमि न घटेन' इति प्र. योग उपपद्यते एवेत्यर्थः । ननु यद्युक्तसमूहालम्बनानुमितो घटप्रयोज्यत्वाभावो बाधितस्तदा तदेकदेशभूतवतिविधेयकत्वेपि घटप्रयोज्यत्वाभावो बाधित एव भविष्यतीत्याशङ्क्याह- न हीति, उक्तसमूहालम्बनानुमितावपि वहिविषधेयकत्वावच्छेदेन नाम वह्निविधेयकत्वे घटग्रयोज्यत्वस्यामावो बाधितो नास्ति- प्रयोज्यताया व्याप्यवृत्तित्वाभावात् तथा चोक्तस्थले द्रव्यत्व विधेयकत्वे घटप्रयोज्यत्वसत्त्वेपि वह्निविधेयकत्वे घटप्रयोज्यत्वाभावोप्युपपद्यते एवेत्यर्थः । यत्र घटप्रयोज्यत्वं तत्रैव द्रव्यत्वविधेयकत्वमिति द्रव्यत्वादिविधेयकत्वावच्छिन्नस्येति घटप्रयोज्यत्वस्य विशेषणम् । अपिभिन्न. क्रमस्तेन 'वह्निविधेयकत्वावच्छेदेनापि' इत्यन्वयः । __ एतेनेति- यत् केनाप्युक्तम्- 'धूमेन वह्निमनुमिनोमि ' इत्यत्र तत्र धूमपदोत्तरं करणस्वे एव तृतीया तथा च तृतीयया धूमादिलिङ्गज्ञानकरणकत्वमनुमितो प्रत्याय्यते इति तदपि परास्तं वेदितव्यम्- यदि धूमादिलिङ्गज्ञानकरणकत्वमनुमितावेव प्रत्याय्यते न विशेषरूपेण वह्नयादिविधेयकत्वे तदोक्तस्थले यत्र धूमादिलिङ्गकंवह्नयनुमितो घटेन द्रव्यत्वभानं तत्रानुमितौ घटज्ञानकरणकत्वस्यैव सत्त्वेन नअर्थान्वयस्य घटप्रयोज्यत्वाभावान्वयस्य योग्यताया अनुपपत्तेः असत्त्वात् *धूमेन वह्निमनुमिनोमि न घटेन ' इति प्रयोगो नोपपद्येत, यदा च लिङ्गज्ञानप्रयोज्यत्वस्य तत्तत्साध्यविधेयकत्वेऽन्वय उपगम्यते तदा तूक्तरीत्यायं प्रयोग उपपद्यते इत्यर्थः । वयादिविधेयकत्वे इति-यत् केनाप्युक्तम्-धूमादिज्ञानरूपं यत् करणं तादृशकरणनिष्ठजनकतानिरूपितजन्यतावच्छेदकत्वं करणतृतीयार्थभूतं तृतीयान्तेन धूमादिपदेन वह्नयादिविधेयकत्वे एव प्रत्याय्यते तथा तृतीयान्तसमभिव्याहृतनत्रा च 'न घटेन ' इत्यादी घटादिज्ञानरूपकरणजन्यतावच्छेदकत्वाभावोपि धयादिविधेयकत्वे एव प्रत्याय्यते तथा च ' धूमेन वह्निमनुमिनोमि न घटेन ' इति प्रयोगानुपपत्तिर्नास्तीति, तदपि न युक्तम्- धूमादिपदोत्तरतृतीयायाः कारकविभ क्तित्वाश्रयणात् कारकविभक्त्यर्थस्य च क्रियातिरिक्ते वयादिविधेयकत्वेऽन्वयासंभवादित्यर्थः तस्माद्भूमादिपदोत्तरं हेतुतृतीयेवेति यदुक्तं तदेव युक्तम् । "Aho Shrutgyanam" Page #436 -------------------------------------------------------------------------- ________________ (४२४) सादर्शः [ तृतीयाकारके - न चोक्तस्थले बढ्यादिविधेयकत्वावच्छेदेन घटादिरूपालङ्गज्ञानजन्यसावदनुमितिमत्वाभावः पुरुषनिष्ठो नना प्रत्याय्यते तादृशानुमितिघंटादौ वयादिालेङ्गस्वभ्रमदशायां प्रसिद्धति वाच्यम्, 'धूमेन वझेरनुमानमिदं न घटेन' इत्यादावनुमितिमत्वाधभावबोधानुपपत्तेरिति प्राहुः । 'पर्वतो धूमेन वहिमान् ' इत्यादौ क्रियायोगाभावाद्धेतुतृतीयैव सत्र ज्ञापकज्ञानविषयत्वरूपं हेतुत्वं ज्ञानज्ञाप्यत्वरूपं वा हेतुमत्वं तृतीयार्थः। हेतुशब्दो यद्यपि कारणपर्यायो न तु नापकपर्यायस्तथापि “ हेतौ " इति सूत्रस्थहेतुपदं न सम ननूक्तस्थले= धूमेन वहिमनुमिनोमि न घटेन । इत्यत्र घटरूपलिङ्गज्ञानजन्यतावती याऽनुमितस्तादृशानुमितिमत्त्वस्याभावो योऽनुमातृपुरुषनिष्ठः स एव नत्रा सामानाधिकरण्यसंबन्धेन वह विधेयकत्वावच्छिन्नायामनुमितो प्रत्याय्यते तथा च नोक्तः कोपि दोषः, सादृशानुमिति:घटादिरूपलिङ्गज्ञानजन्यतावत्यऽनुमितिश्च घटादौ यदा वहयादिलिङ्गत्वप्रमो भवति तदा घटादिना वह्नयनुमितेर्जायमानत्वान्नाऽप्रसिद्धति तादृशानुमितिमत्वस्यापि प्रसिद्धत्वान्नाऽप्रसिद्धप्रतियोगिकाभावप्रत्यायनोपालम्भोपि संभवतीत्याशझ्याह- न चेति । अत्र वह्नयादिविधेयकत्वावच्छिभानुमितिरपि पुरुषे एव घटादिलक्षणलिङ्गज्ञानजन्यतावदनुमितिमत्त्वाभावोपि पुरुषे एवेति सामाना• धिकरण्येन तादृशानुमितिमत्वाभावो वयादिविधेयकानुमितौ प्राप्त इति ध्येयम् । परिहारमाहधमेनेति, 'धूमेन वहिमनुमिनोमि न घटेन । इत्यत्र तिपाऽऽप्रयोपस्थितिसंभवेन तादृशाश्रयीभूतानुमातरि वर्तमानस्यानुमितिमत्त्वाभावस्य वह्निविधेयकानुमिती सामानाधिकरण्येन नना प्रत्यायनसमवेपि 'धूमेन वहेरनुमान मिदं न घटेन' इत्यत्र सिपोऽभावासन्न संभवति तथा वहिपदो. सरद्वितीयाया विधेयत्वार्थिकाया अभावाद् वह्निविधेयकत्वस्याप्युपस्थितिर्न संभवति यदवच्छिन्ने पुरुषनिष्ठानुमितिमत्त्वाभावस्यान्वयः स्यादित्यर्थः । पर्वतेति- 'धूमेन वह्निमनुमिनोमि । इत्यत्र क्रियापदोपस्थाप्यक्रियायोगसंभवात् करणततीयासमवेपि 'धूमेन वहिमान् ' इत्यत्र तु हेतुतृतीयेव न करणतृतीया संभवति क्रियायोगाऽसंभवादित्यर्थः । तत्र 'धूमेन वहिमान् ' इत्यत्र । तृतीयार्थ:-धूमपदोत्तरहेतुतृतीयार्थः । ज्ञापकं यद्भूमज्ञानं तद्विषयत्वरूपं हेतुत्वं धूमेस्ति- ज्ञापकहेतो पकज्ञानविषयत्वरूपत्वस्वीकारात्, धूमज्ञानज्ञाप्यत्वरूपं हेतुमत्वं तु वहो- ज्ञाप्यत्वसंबन्धेन वहौ हेत्वन्वयात् । ननु हेतुशन्दः कारणपर्याय एव न तु ज्ञापकपर्यायो धूमश्च बहेपिक एव न कारणमिति कथमत्र घूमपदोत्तरम् " हेतो" इति सूत्रेण तृतीया स्यादित्यत्राह- हेतुशब्देति, यद्यपि हेतुशब्दः कारणपर्यायो न ज्ञापकपर्यायस्तथापि “हेतौ" इति सूत्रघटकं हेतुपदं न समभिव्याहृतं यद्वयादि तन्निरूपितहेतुतामात्रपरं किं तु यथा समभिव्याहृतं यत्कार्य तन्निरूपितहेतुतापरं तथा सममिव्याहृतं यद् "Aho Shrutgyanam" Page #437 -------------------------------------------------------------------------- ________________ हेतुतृतीया } व्युत्पत्तिवादः। (४२५) भिव्याहृतनिरूपितहेतुतामाऋपरमपि तु समभिव्याहवतज्ज्ञानान्तरनिरूपितहेतुतापरमेवेति समभिव्याहृतवयादिज्ञानहेतुज्ञानविषयधूमादिपदादापिः तृतीया तत्सूत्रेणानुशिष्यते । गुणहेतौ पञ्चम्या विकल्पेन विधायकसूत्रान्वमप्यऽन्यतरनिरूपितहेत्तुताविषयकमेव. अत: 'जाड्यान्दो जाडचेन बा' इत्यत्र जाड्य. स्य हेतुतावद् 'धूमाडिमान् धमेन वा' इत्या धूमादेवव्यादिज्ञानहेतुवा प्रती. यते। हेतुत्वं च पूर्वोक्तं प्रयोजकत्वमेव । गुणपदं च न चतुर्विशतिपरम्धूमादिहेतौ तत्त्वासंभवात् । न च तत्र धूमादिपदं तज्ज्ञानपरमेवेवि तादृशगुणत्वमेव. वयादिहेतोरिति वाच्यम्, तत्र धूमादिपदस्य ज्ञानलाक्षणिकत्वेपि 'अज्ञानाद्रदः' इत्यादावs. वहयादि तज्ज्ञाननिरूपितहेतुतापरमपि तस्माद् यथा 'दण्डेन घटः' इत्यत्र सममिन्याहृतघटरूपकार्यनिरूपितहेतुवाचकदण्डपदात्तृतीया तथा 'धूमेन वह्निमान् ' इत्यत्र धूमपदं समभिव्याइतो यो वहिस्तज्ज्ञाननिरूपितहेतुतापरमस्तीति सममिव्याहृतो यो वह्विस्तादृशवविज्ञानस्य हेतुभूतं यमज्ञानं सद्विषयो यो धूमस्तादृशधूमवाचकधूमपदादपि तत्सूत्रेण=" हेतौ " इति सूत्रेण तृतीया प्रामोत्येवेत्यर्थः । एवं गुणरूपहेतुवाचकपदात विकल्पेन एकपक्षे “ विभाषा गुणेऽस्त्रियाम् " इति पञ्चमी भवति तत्रास्मिन् सूत्रेपि “हेतौ " इति सूत्रादेव हेतुपदस्य प्राप्तत्वाद् विधायकसूत्रान्तरम्="विभाषा गुणेऽस्त्रियाम्" इति सूत्रमपि अन्यतरनिरूपितहेतुताविषयकमेव नाम यथा समभिव्याइतकार्यनिरूपितहेतुताविशिष्टहेतुवाचकपदोत्तरं पश्चमी विधायकं तथा समभिव्यातविषयकज्ञाननिरूपितहेतुताविशिष्टहेतुवाचकपदोत्तरमपि पञ्चमीविधायकं तथा च यथा "जाड्याद्वद्धः ' इत्यत्र जाड्यस्य बन्धहेतुता प्रतीयते तेन च जाडयपदात् पञ्चमी प्राप्ता तथा 'धूमावहिमान्' इत्यत्र धूमस्य वह्निज्ञानहेतुता प्रतीयते इति धूमपदादपि पञ्चमी प्राप्तेत्याह-गुणहेताविति । गुणरूपहेतुवाचकपदात् पञ्चमी भवतीत्यत्र यद्धेतुवं तत्स्वरूपमाह- हेतुत्वमिति । पूर्वोक्तम्-(४२१) " हेतुत्वस्य " इत्यादिनोक्तम् । गुणपदार्थमाह- गुणप. चेति । चतुर्विशतिपरम् नैयायिकोक्तचतुर्विंशतिसंख्याकगुणघटककिंचिद्गुणपरं नेत्यर्थः । तत्त्वाऽसंभबार-ताशगुणत्वासंमवात् । “हेतुतावत्" इत्यत्र ‘बन्धहेतुतावत् ' इत्येवं पाठो युक्तः। नम्वत्र धूमपदं धूमज्ञानपरमेव ज्ञानं च चतुर्विंशतिगुणमध्यप्रविष्टमेवेति वह्नयादिहेतुभूतधूमादिज्ञानस्य तादृशगुणत्वम् चतुर्विशतिगुण-मूहघटककिंचिद्गुगत्वं प्राप्तमेवेत्याशक्याह- न चेति । उत्तरमाह- तत्रेति, तत्र धूमादहिमान् ' इत्यत्र धूमपदस्य धूमज्ञानपरत्वेन हेतुभूतस्य धूमझानस्य चतुर्विशतिगुणत्वसंभवेपि 'अज्ञानारदः । इत्यत्र बन्धहेतुभूतस्याऽज्ञानस्य ज्ञानाभावरूपत्वात् चतुर्विशतिगुणघटकगुणत्वं न संभवताति गुणपदं न चतुर्विंशतिगुणपरम् । नापि गुणपदं धर्ममात्रपरम् - कालिकसंबन्धेन गगनादेरपि धर्मतया सर्वेषामेव पदार्थानां धर्मत्वं संभयतीति गुगपदं कस्यापि व्यावर्तकं न स्यात्. अस्ति च धनेन कुलम्' इत्यादौ धनादिव्या "Aho Shrutgyanam" Page #438 -------------------------------------------------------------------------- ________________ सादर्श: [ तृतीयाकारकेभावरूपबन्धादितास्तथात्वासंभवात् । नापि धर्ममात्रपरम्- गगनादेरापे कालिकसंबन्धेन धर्मतयाऽव्यावर्तकत्वात् । समवायादिना धर्मत्वं चाऽभावाद्यसंग्रा हकम् । नापि द्रव्याश्रितत्वम्- 'सत्तावान् गुणत्वात् ' इत्यादौ पञ्चम्यन्तस्याsorक्षणिकत्वपक्षे पञ्चम्यनुपपत्तेः । किं तु कार्यस्य ज्ञाप्यस्य वाऽऽश्रये आश्रितत्वम्, जाडयादेः स्वप्रयोज्यबन्धाश्रये धूमादेश्व स्वज्ञाप्यवह्नयाद्याश्रये आश्रित - त्वाद् गुणत्वम् । हेतौ तद्विशेषणप्रयोजनं च ' पितुः पाण्डित्येन पुत्र आहूतः धूमस्य स्वस्मिन् सत्त्वेन पर्वतो वह्निमान् ' इत्यादौ पञ्चमीवारणम् । C ज्ञापकत्वं च तज्ज्ञानजनकप्रमाविषयत्वम्- ज्ञाप्यत्वमपि प्रमाजन्यज्ञानविषय त्वम् अतो वहयादेव्र्व्याप्यताभ्रमेण धूमादिज्ञापकत्वसत्त्वेपि वह्निना वह्नेर्वा धूमवानयम्' इत्यादयो न प्रयोगाः । प्रमात्वं च यावद्धमभिन्नत्वरूपं विवक्षणीयं तेन 'धूमव्याप्यो वह्निः' इत्यादिज्ञानस्य वह्नित्वाद्यंशे प्रमात्वमादाय नोक्ताति 6 ( ४२६ ) L वर्तकमिति न गुणपदं धर्ममात्रपरमित्याह - नापीति । नापि समवायसंबन्धेन धर्मत्वं गुणत्वमिति युक्तम् - अभावादीनां समवायेन धर्मत्वाभावात् ' विद्याऽभावाद् दरिद्रः ' इत्यत्र विद्याभावपदात् पञ्चमी न स्यादित्याह - समवायादिनेति । नापि गुणत्वं द्रव्याश्रितत्वम्- सत्तावान् गुणस्वात् ' इत्यत्र गुणत्वस्य गुणवृत्तित्वेन द्रव्याश्रितत्वाभावाद् गुणत्वपदात् पञ्चमी न स्यादित्याहनापीति, गुणत्वपदस्य लक्षणया गुणबोधकत्वे तु गुणस्य द्रव्याश्रितखेन गुणत्वपदात् पञ्चमी संभवत्येवेत्युक्तम् - अलाक्षणिकत्वपक्षे इति । गुणपदार्थमाह- किं त्विति, उदाहरति- जाड्या देरिति । तौ गुणत्वविशेषण प्रयोजनमाह - हेताविति, ' पितुः पाण्डित्येन पुत्र आहूतः ' इत्यत्राह्नाने पाण्डित्यस्य हेतुत्वेपि पितृवृत्तित्वेन पुत्रवृत्तित्वाभावात् पुत्रगुणत्वं नास्तीति पञ्चमीपरिहारस्तथा धूमस्य स्वस्मिन् सत्त्वेन पर्वतो वह्निमान् ' इत्यत्र सत्त्वस्य धूमगुणत्वमस्ति न तु पर्वतगुणत्व मिति सत्त्वपदात् पञ्चमीवारणमेव प्रयोजनमित्यर्थः । अत्र च " विभाषा गुणेsस्त्रियाम् "" इति सूत्रं द्रष्टव्यम् । ज्ञापकत्वमिति - यथा - वह्निज्ञानजनिका या धूमप्रमा तादृशप्रमाविषयत्वं ज्ञापकत्वं धूमस्य । घूमप्रमाजन्यं यद्वह्निज्ञानं तादृशज्ञानविषयत्वं ज्ञाप्यस्वं तच्च वह्नेरित्यर्थः । प्रमात्वप्रवेशस्य फलमाहअत इति, वह्नौ धूमव्याप्यत्वभ्रमे जाते वह्नेर्धूमज्ञापकत्वसंभवेपि धूमज्ञानजनकप्रमाविषयत्वरूपस्य धूमज्ञापकत्वस्य वह्नावऽसत्त्वात् ' वह्निना धूमवान्' 'वह्नेर्धूमवान्' इत्यादयः प्रयोगा न भवन्ति । उक्तज्ञाप्यज्ञापकलक्षणप्रविष्टप्रमायां यावद्भमभिन्नत्वस्य ( व्याप्यवृत्तित्वस्य ) विवक्षायाः फलमाह - तेनेति, 'धूमव्याप्यो वह्निः" इत्यादिज्ञानस्य वह्नयाद्यंशे प्रमात्वाद् वह्नेस्तादृशप्रमाविषयत्वेपि उक्तातिप्रसङ्ग := ' वह्नेर्धूमवान्' इत्यादिप्रयोगापत्तिर्नास्ति- 'धूमव्याप्यो वह्निः ' इत्यादिज्ञानस्य धूमव्याप्यत्वांशे भ्रमात्मकत्वाद् वशे प्रमात्वेपि साकल्येन प्रमात्वाभावेन यावद्मभिन्नत्वाभावा " "Aho Shrutgyanam" Page #439 -------------------------------------------------------------------------- ________________ तृतीयान्तप्रयोगविशेषविचारः ] व्युत्पत्तिवादः। (४२७) प्रसङ्गः । द्रव्यत्वादेः प्रमेयत्वावच्छिन्नवत्यादिज्ञापकत्वेपि विशिष्टद्रव्यत्वत्वादिना वह्रित्वाद्यवच्छिन्नज्ञापकत्वेपि च 'पर्वतो पहिमान् द्रव्यत्वाद् द्रव्यत्वेन वा' इत्यादिर्न प्रयोगः-अन्वयितावच्छेदकवद्वित्वद्रव्यत्वत्वादिना ज्ञाप्यज्ञापकभावस्य तृतीयादिना बोधनात् तत्र तेन रूपेण ज्ञाप्यज्ञापकभावविरहात् । एवं ज्ञाप्यवढ्यादिमत्त्वान्वयितावच्छेदकपर्वतत्वावच्छिन्नांशे ज्ञापकत्वं ज्ञाप्यत्वं वा प्रतीयते इत्यपि नियमस्तेन 'पर्वतो वहिमान् महानसत्वात् तेन वा' इत्यादयो न प्रयोगाः। अत्रेदमवधेयम्- 'पर्वतो वहिमान् धूमान्न द्रव्यत्वान्नापि महानसत्वात्' इत्यादौ ना वह्नयादौ द्रव्यत्वमहानसत्वादिज्ञानज्ञाप्यत्वाभावबोधने बाधः, तत्र प्रमेय. त्वादिना द्रव्यत्वादिज्ञानज्ञाप्यत्वस्य महानसादौ महानसत्वादिज्ञानज्ञाप्यत्वस्य च सत्त्वात्( सत्त्वेपि ) वह्नित्वादिना द्रव्यत्वादिज्ञाप्यत्वस्य पर्वतादौ महानसदित्यर्थः । द्रव्यत्वादेरिति-यत्र द्रव्यत्वं तत्र प्रमेयत्वं भवत्येवेति व्याप्त्या यद्यपि प्रमेयत्वेन रूपेण वढेझपकत्वं द्रव्यत्वस्यास्त्येव तथा वह्नित्वेन वढेझपकत्वमपि विशिष्टद्रव्यत्वत्वेन रूपेण द्रव्यत्वम्यास्त्येव यथा विशिष्टद्रव्यत्वं हि धूमविशिष्टपर्वतवृत्तित्वाद् धूमविशिष्टपर्वतत्वरूपमेव तच्च पर्वतेस्त्येवेति तस्य तत्र पर्वते वह्नित्वेन वह्वीपकत्वं विज्ञेयम् तथापि ' पर्वतो वह्निमान् द्रव्यस्वात् ' ' पर्वतो वह्निमान् द्रव्यत्वेन ' इत्यादयः प्रयोगा न भवन्ति-अत्रान्वयितावच्छेदकं यद् वह्नित्वं द्रव्यत्वत्वं च ताभ्यामेव रूपाभ्यां तृतीयादिना ज्ञाप्यज्ञापकभावो बोधयितुं शक्यते न तु प्रमेयत्वादिना रूपेण. तत्र उक्तोदाहरणे च तेन रूपेण वह्नित्वद्रव्यत्वत्वरूपेण वह्निद्रव्यत्वयोर्जाप्यज्ञापकभाव एव नास्ति यस्य तृतीयादिना बोधनं स्यादिति न ' पर्वतो वह्निमान् द्रव्यत्वात् , इत्यादिप्रयोगापत्तिरित्यर्थः । __एवमिति-यथा वद्वित्वेन धूमत्वेनैव ज्ञाप्यज्ञापकभावोस्ति एवं ज्ञाप्यो यो वह्निस्तादृशवह्निमत्त्वस्य यदन्वयितावच्छेदकं पर्वतत्वं तादृशपवर्तत्वावच्छिन्नस्यापि ज्ञापकत्वं ज्ञाप्यत्वं वा प्रतीयते यथा धूमविशिष्टपर्वतस्य ज्ञापकत्वं वह्निविशिष्टएर्वतस्य च ज्ञाप्यत्वमित्यपि नियमस्तथा च यथा ‘पर्वतो वह्निमान् धूमविशिष्टपर्वतत्वात् । इति प्रयोगो भवति तथा महानसत्वस्य पर्वतेऽसत्त्वेन ज्ञाध्यवह्निमत्त्वान्वयितावच्छेदकत्वाभावात् पर्वतवृत्तिवह्निज्ञापकत्वं न संभवतीति ' पर्वतो वह्निमान् महानसत्वात् । इत्यादयः प्रयोगा अपि न भवन्तीत्यर्थः। ___स्वाभिप्रायं प्रकटयति-अन्नेदमिति, यद्यपि तत्र पर्वते वह्नौ प्रमेयत्वेन रूपेण द्रव्यत्वज्ञानज्ञाव्यत्वमस्त्येव महानसे च वर्तेर्वह्नित्वरूपेणापि महानसत्वज्ञानज्ञाप्यत्वमस्ति तथापि 'पर्वतो वह्निमान् धूमान्न द्रव्यत्वान्नापि महानसत्वात् ' इत्यादौ नत्रा वह्नयादी द्रव्यत्वमहानसत्वादिज्ञानज्ञाप्यत्वाभावबोधनं न संभवति-वह्नित्वेन रूपेण बढेव्यत्वज्ञाप्यत्वस्याऽप्रसिद्धत्वात् पर्वते च वढेमहानसत्वज्ञाप्यत्वस्याऽप्रसिद्धत्वाद् अप्रसिद्धप्रतियोगिकामावस्य बोधनासंभवादिति "Aho Shrutgyanam" Page #440 -------------------------------------------------------------------------- ________________ (४२८) सादर्श: [ तृतीयाकारकेत्वादिज्ञाप्यत्वस्प चाप्रसिद्ध्या नाभावप्रत्यायनसंभव इति ज्ञानप्रयोज्यत्वं ज्ञानजन्यवावच्छेदकलरूपं समभिव्याहतपर्वतादिविशेष्यतानिरूपितं विधेयत्वं च विश. कलितं पञ्चम्यर्थः, विशिष्टलाभोऽन्वयबलात्, एवं चोक्तस्थले नबा. विधेयतार्या द्रव्यत्वमहानसत्वादिज्ञानप्रयोज्यत्वाभावः प्रत्यारपते, तत्प्रयोज्यत्वं च प्रमेय. स्वाद्यवच्छिन्नविधेयतायां प्रसिद्धम् । न चैवम् 'पर्वतो वरिमान न धूमात्' इत्यादेरपि प्रसन:- धूमत्वाबवच्छिन्नविषयकज्ञानाप्रयोज्यतत्तद्वित्वाद्यवच्छिन्नविधेयताया वह्नयादावऽबाधितत्वादिति वाच्यम्, पर्वतादिविशेष्यतानिरूपित्तवहित्वाद्यवच्छिन्नविधेयतात्वावच्छेदेन विधेयतायां नजाऽभावान्वयबोधोपगमात् । हैतो नजन्यतावच्छेदकत्वरूपं यज्ज्ञानप्रयोज्यत्वं समभिव्याहृतपर्वतादिविशेष्यतानिरूपितं यद् विधेयत्वं च तयोः पञ्चम्या विशकलिता खण्डश एव शक्तिः स्वीक्रियते विशिष्टलाभः ज्ञानप्र. योज्यविधेयत्वलाभश्चाकाङ्क्षावशादेव जायते तथा चोक्तस्थले द्रव्यत्वज्ञानप्रयोज्यवह्निविधेयत्वस्य महानसत्वज्ञानप्रयोज्यपर्वतीयवह्निविधेयत्वस्य च विशिष्टस्याऽप्रसिद्धया तदऽभावबोधनाऽसंभवेपि वहिविधेयतायां द्रव्यत्वमहानसत्वादिज्ञानप्रयोज्यत्वाभावो नना बोधयितुं शक्यते-द्रव्यत्वज्ञानप्रयोज्यत्वस्य प्रमेयत्वावच्छिन्नविधेयतायां प्रसिद्धत्वात्. महानसत्वज्ञानप्रयोज्यत्वस्य महानसीयवहिविधेयतायां प्रसिद्धत्वान् तदभावबोधने विरोधाभावादित्यर्थः। ननु ज्ञानप्रयोक्फ्रके विशेयवे च पृथक पृथक् शक्तिस्वीकारेण यथोक्तरोत्या. वहिविधेयतायां द्रव्यत्वज्ञानप्रयोज्यत्वामावस्य सत्वात् 'पर्वतो वन्हिमान् धूमान द्रव्यत्वात् ' इति प्रयोगो मदिर एवं तत्तद्वह्नित्वावच्छिन्नविधेयता हि तत्तद्धमत्वावच्छिन्नविषयकज्ञानप्रयोज्या भवति न तु सामान्यतो धूमत्वावच्छिन्नविषयकज्ञानप्रयोज्येति धूमत्वावच्छिन्नविषयकज्ञानाऽप्रयोज्यायास्तत्तद्वहित्वावच्छिन्नविधेयताया वह्नावऽबाधितत्वात् ' पर्वतो वह्निमान् न धूमात् । इत्यपि प्रयोगः स्पादित्याशङ्क्याह-न चैवमिति । उत्तरमाह-पर्वतादीति, 'पर्वतो वहिमान् न घूमात ' इत्यत्र नत्रा पर्वतनिष्ठविशेष्यतानिरूपिता या बह्नित्वावच्छिन्ना यावद्विधेयता ताइविधेयतास्वावच्छेदेन धूमत्वावच्छिन्नविषयकज्ञानाऽप्रयोज्यत्वं बोधयितुं शक्यते तत्तु न संभवतिपर्वतनिष्ठविशेष्यतानिरूपितवद्वित्वावच्छिन्नविधेयतात्वावच्छेदेन धूमस्वावच्छिन्नविषयकज्ञानाऽप्रयोज्यत्वस्याऽसत्त्वादिति न ' पर्वतो वहिमान् न धूमात् । इति प्रयोगस्यापत्तिरित्यर्थः । ननु ' पर्वतो वह्निमान् न धूमात् । इत्यत्र विधेयतात्वेनेक विधेयता पञ्चम्यर्थोस्ति न तु बहित्वावच्छिन्नविधेयता पञ्चम्यों न वा वहित्वावच्छिन्न विधेयत्तात्वमन्वयितावच्छेदकं तथा च पत्र वह्नित्वावच्छिन्नविधेयतात्वमन्वयितावच्छेदकं स्यात्तत्रैव तदवच्छेदेन बहित्वावच्छिन्नविधे. यतात्वावच्छेदेनेतरस्य=अभावादिपदार्थस्यान्वयः संभवति न त्वत्रापि-अत्र तुवहिवावच्छिन्नत्वेना "Aho Shrutgyanam" Page #441 -------------------------------------------------------------------------- ________________ प्रकृतविवाद: व्युत्पत्तिवादः। यत्र पद्वित्वावच्छिन्नविधेयतात्वमन्वयितावच्छेदकं तत्रैव तदवच्छेदेनेतरान्वयः संभवति. अत्र च वद्वित्वावच्छिन्नत्वाविशेषितं विधेयतास्वमेव तथेति कथं तदरच्छेदेनाभावान्वय इति तु न शक्यम्-पञ्चम्याद्यर्थविधेयताया वहयादौ वहित्वाधवच्छेदेनाऽन्वयोपगमात् तदवच्छेदेन तदन्वये चावच्छेदकतद्रूपस्य तद्विशेषणांशे धर्मिपारतन्त्र्येण प्रकारस्वात् । प्रकृते स्वरूपसंबन्धरूपवदित्वाद्यवच्छिन्नत्वेन सहितस्य विधेयतात्वस्यैवान्वयितावच्छेदकत्वात् ।। _ वयादिपदमेव तदवच्छिन्नविधेयताशालिज्ञानपरं तदुसरमतुबादिप्रत्ययो विशेष्यतारूपसंबन्धपर इति प्राचीनमते तु बहित्वाद्यवच्छिन्नविधेयतात्वस्यान्वयितावच्छेदकत्वमविवादमेव ।। ऽविशेषितमेव विधेयतात्वं तथा अन्वयितावच्छेदकमस्तीति कथं तदवच्छेदेन वह्नित्वावच्छिन्नविधेयतात्त्रावच्छेदेनाऽभावान्वयः धूमत्वावच्छिन्नविषयकज्ञानप्रयोज्यत्वाभावस्यान्वयः स्यात् ? तथा च किंचिद्विधेयतायामभावान्ययो वक्तव्यस्तद्विधेयतायां च धूमत्वावच्छिन्नविषयकज्ञानप्रयोज्यत्वाऽभावस्य न बाध इति 'पर्वतो वह्निमान् न धूमात् । इति प्रयोगः स्यादेवेति “ पर्वतादिविशेष्यतानिरूपित " इत्यादिपरिहारो न युक्तिसंगत इत्याशङ्कायामाह-योति । परिहारमाह-पञ्चम्याद्यर्थेति, तदवच्छेदेन-वह्नित्वावच्छेदेन तदन्वये पञ्चम्यर्थविधेयताया अन्वये चावन्छेदकतद्रूपस्य-वह्रित्वस्य तद्विशेषणांशे वह्निविशेषणीभूतपञ्चम्यर्थविधेयतायां धर्मिपारतन्त्र्येण= पहिद्वारा प्रकारत्वादित्यन्वयः । उपसंहरति-प्रकृते इति, अत्र विधेयतायां यद्यप्यनतिप्रसक्तत्वरूपं वह्नित्वावच्छिन्नत्वं न संभवति-जलत्वाद्यवच्छिन्नत्वस्यापि संभवात् तथापि स्वरूपसंवन्धरूपं तु संभवतीति स्वरूपसंबग्धरूपं यद् वह्नित्वावच्छिन्नत्वं तेन सहितस्यैव विधेयतात्वस्यान्वयितावच्छेदकत्वं प्राप्त तथा च वह्नित्वस्य विधेयताविशेषणत्वे प्राप्ते वह्नित्वावच्छिन्नविधे. यतात्वमेवाऽन्वयितावच्छेदकं जातं वह्नित्वावच्छिन्नविधेयतात्वावच्छेदेन तु धूमत्वावच्छिन्नविषयकज्ञानाऽप्रयोज्यत्वं नास्त्येवेति न ' पर्वतों वहिमान् न धूमात् ' इति प्रयोगस्यापत्तिरित्यर्थः । प्राचीनमतमाह-वयादिपदमिति, वह्निपदं वहित्वावच्छिन्नविधेयताशालिज्ञानपरं वयादिपदोत्तरवर्तमानमतुबादिप्रत्ययश्च विशेष्यतारूपसंबन्धपरः पञ्चम्यर्थश्च पूर्ववत् प्रयोज्यत्वं तथा च 'पर्वतो वहिमान् । इत्यत्र 'धूमज्ञानप्रयोज्यं यद् वहिवावच्छिन्नविधेयताकज्ञानं तद्विशेष्यताश्रयः पर्वतः । किं वा 'विशेष्यतासंबन्धेनोक्तविधेयताकज्ञानवान् पर्वतः । इति शाब्दबोधः, उक्तानुमिती पर्वते विशेष्यता भासते एव । एतादृशप्राचीनमते तु कह्नित्वावच्छिन्नविधेयतात्वस्याऽन्वयिसावच्छेदकत्वमऽविवादमेव-वह्निपदस्यैव वहित्वावच्छिन्नविधेयताशालिज्ञानपरत्वात्, वह्नित्वाव. च्छिन्नविधेयतात्वावच्छेदेन तु धूमत्वावच्छिन्नविषयकज्ञानप्रयोज्यत्वाभावस्य बाधात् ' पर्वतो यहिमाल धूमात् । इत्यादिप्रयोगस्यापत्तिर्नास्त्येवेत्यर्थः । "Aho Shrutgyanam" Page #442 -------------------------------------------------------------------------- ________________ ( ४३० ) सादर्श: [ तृतीयाकारके विधेयतायास्तत्तत्संबन्धावच्छिन्नविधेयतात्वेन पञ्चम्याद्यर्थत्वं स्वीकरणीयं तेन 'अयं जानाति आत्मत्वान्न द्रव्यत्वात्' इत्यादौ विषयतासंबन्धावच्छिन्नायां प्रकृत विशेष्यतानिरूपितज्ञानविधेयतायां द्रव्यत्वादिरूपलिङ्गज्ञानप्रयोज्यत्वसत्त्वेपि नावच्छेदकावच्छेदेनाऽभावान्वयायोग्यत्वम्- संबन्धविशेषावच्छिन्नविधेयतात्वरूपाऽन्वयितावच्छेदकावच्छेदेनाऽभाववत्त्वबोधात् । एवं ज्ञानप्रयोज्यत्वमविष्टं ज्ञानमपि तत्तत्संबन्धावच्छिन्नप्रकारकत्वविशेषितमर्थ:, तेन समवायेन हेतुत्वपरस्य ' अयं वह्निमान् तद्रूपान्न तु धूमात् ' इति - प्रयोगस्य नाऽयोग्यता - वह्निविधेयतायां संयोगेन धूमप्रकारकज्ञानप्रयोज्यत्वसत्त्वेपि समवायसंबन्धावच्छिन्नतत्प्रकारताशा लिज्ञान प्रयोज्यतात्वरूपान्वयितावच्छेदकावच्छिन्नाभावस्यांऽबाधात् । संबन्धविशेषघटितधर्मस्यान्वयितावच्छेद नवीनमतं परिष्करोति - विधेयताया इति, तत्तत्संबन्धावच्छिन्नैव विधेयता पञ्चम्यर्थ इत्यर्थः । फलमाह - तेनेति, यदि तत्तत्संबन्धावच्छिन्नविधेयता पञ्चम्यर्थो न स्यात्तदा " अयं जानाति आत्मत्वान्न द्रव्यत्वात् ' इति प्रयोगस्याप्रामाण्यं स्यात् वटादिद्रव्येपि विषयतासंबन्धेन ज्ञानं वर्तते इति तत्र ज्ञानत्वावच्छिन्नविधेयत्तायां द्रव्यत्वज्ञानाप्रयोज्यत्वस्याभावात् तत्र द्रव्यत्वस्यैव ज्ञानप्रयोजकत्वात् यदा च तत्तत्संबन्धावच्छिन्नविधेयता पञ्चम्यर्थस्तदा विषयतासंबन्धावच्छिनायां प्रकृत ( घटादिनिष्ट ) विशेष्यतानिरूपितज्ञाननिष्टविधेयतायां द्रव्यत्वरूपलिङ्गज्ञान प्रयोज्यत्वस्य सत्त्वेपि अवच्छेदकावच्छेदेन ज्ञानत्वावच्छिन्नविधेयतात्वावच्छेदेनाऽभावान्त्रयस्य== द्रव्यत्वज्ञानप्रयोज्यत्वाभावान्वयस्याऽयोग्यत्वं नास्ति - संबन्धविशेषावच्छिन्नविधेयतात्वरूपं यदन्वयितावच्छेदकं तदवच्छेदेनैवाऽमाववत्त्वबोधात् = अभावान्वयबोधस्य जायमानत्वात्, तथा च 'भयं जानाति ( ज्ञानवान् ) आत्मत्वान्न द्रव्यत्वात् ' इत्यत्र समवायसंबन्धावच्छिन्नैव विधेयता पञ्चम्यर्थोस्ति समवायसंबन्धावच्छिन्नज्ञानीयविधेयतायां च आत्मत्वज्ञानप्रयोज्यत्वमेवास्ति न तु द्रव्यत्वज्ञानप्रयोज्यत्वमिति द्रव्यत्वज्ञानप्रयोज्यत्वामात्राऽन्वययोग्यतायाः सत्त्वान्न अयं जानाति आत्मत्वान्न द्रव्यत्वात् ' इति प्रयोगस्यानुपपत्तिरित्यर्थः । साध्यनिष्ठविधेयतां परिष्कृत्य विधेयताप्रयोजकज्ञानं परिष्करोति - एवमिति, यथा विधेयतायां तत्तत्संबन्धावच्छिन्नत्वस्य निवेशः कृत एवं ज्ञानप्रयोज्यत्वमपि यद्विधेयतायां वर्तते तत्प्रविष्टं यज्ज्ञानं प्रयोजकीभूतज्ञानं तन्निष्ठप्रकारकत्वेपि तत्तत्संबन्धावच्छिन्नत्वस्य निवेशः कार्य इति यद् धूमपदस्य धूमज्ञानमर्थ इत्युक्तं तत्र धूमपदस्य तत्तत्संबन्धावच्छिन्नप्रकारकत्वविशिष्टं ज्ञानमर्थ इत्यर्थः । फलमाह - तेनेति, अयम् = वयवयवः वह्निमान् तद्रूपात् = यह्नित्वात् वह्न्यवयवे समवायेन वह्नित्वं वर्तते तदेव हेतुः, वह्नयवयवे समवायेन धूमस्य वह्निज्ञापकत्वं न संभवतीत्युक्तम् ' न धूमात् ' इति । अयोग्यताsभावमुपपादयति-वहीति । यदि तत्तत्संबन्धावच्छिन्नप्रकारकत्व विशिष्टज्ञानस्य ज्ञानप्रयोज्यत्वाशे प्रवेशो न स्यात्तदा ' अयं वह्निमान् तद्रूपान्न तु घूमात् ' इति प्रयोगस्य " Aho Shrutgyanam" Page #443 -------------------------------------------------------------------------- ________________ केनहेतुनेस्यादिप्रयोगाः व्युत्पत्तिवादः। (४३१) कतया.भाननियामकं तु तात्पर्यमेव । वहयादिविधयताया व्याप्त्यादिघटकाभावादिज्ञानप्रयोज्यत्वसत्त्वेपि ' पर्वतो वद्विमानऽभावात् ' इत्यादिर्न प्रयोगः-मुख्यविशेष्यतानिरूपितप्रकारताया एव निवेशनीयत्वादिति दिक। __ 'केन हेतुना' 'कस्मै हेतवे' इत्यादौ विभक्तिभिर्हेतुताविशिष्टे हेतुता बोधयितुम शक्या-पौनरुत्त्यादिति तु नशक्यम्-हेतुशब्दस्य स्वरूपयोग्यपरत्वात् विभक्तेः प्रामाण्यं न स्यात्-संयोगसंबन्धावच्छिन्नप्रकारकत्वविशिष्टधूमज्ञानप्रयोज्यत्वस्यैव वहिनिष्ठविधेयतायां सत्त्वेन संयोगसंबन्धावच्छिन्नप्रकारकत्वविशिष्टधूमज्ञानप्रयोज्यत्वाभावस्याऽसत्त्वात्, यदा च तत्तत्संबन्धावच्छिन्नप्रकारकत्वविशिष्टमेव ज्ञानं ज्ञानप्रयोज्यत्वांशे प्रविष्टं तदा तु 'अयं वह्निमान् तपाद् न तु धूमात् । इत्यत्र समवायेनैव हेतोहेतुत्वममीष्टमस्तीति प्रयोजकीभूतहेतुज्ञाननिष्ट प्रकारकत्वं समवायसंबन्धावच्छिन्नं जातमिति समवायसंबन्धावच्छिन्नप्रकारकत्वविशिष्टहेतुज्ञानं प्रयोजकं ग्राह्य तथा च वह्निविधेयतायां संयोगेन धूमप्रकारकं यज्ज्ञानं तत्प्रयोज्यत्वसत्त्वेपि-संयोगसंबन्धावच्छिन्नप्रकारकत्वविशेषितधूमज्ञानप्रयोज्यत्वसत्त्वेपि समवायसंबन्धावच्छिन्ना या तत्प्रकारता धूमनिष्ठा प्रकारता तादृशप्रकारताशालि (समवायसंबन्धावच्छिन्नप्रकारकत्वविशिष्टम् ) यज्ञानं समवायेन धूमज्ञानं तादशज्ञानप्रयोज्यतात्वरूपं यदन्वयितावच्छेदकं तदवच्छिन्नाभावस्य समवायेन धूमज्ञानप्रयोज्यत्वाभावस्यात्र वह्निविधेयतायामऽबाधात्-संभवात्-चह्निविधेयतायां समवायेन धूमज्ञानप्रयोज्यत्वस्याऽसंभवात् वह्नित्वज्ञानप्रयोज्यत्वस्य च संभवात् ' अयं वह्निमान् तद्रूपान्न तु धूमात् । इति प्रयोगस्याऽयोग्यता=अनुपपत्तिर्नास्तीत्यर्थः । ननु साध्यनिष्ठविधेयतायां प्रयोजकीभूतज्ञाननिष्ठप्रकारतायां चामुकसंबन्धावच्छिन्नत्वमस्ति अमुकसंबन्धावच्छिनत्वं नास्तीत्यत्र किं नियामकमित्याशझ्याह-संबन्धविशेषेति, धर्मस्य=विधेयतात्वादेः । ननु वह्निविधेयतायां व्याप्तिविशिष्टधूमज्ञानप्रयोज्यत्वं वक्तव्यं व्याप्तिश्च साध्याभाववदऽवृत्तित्वमिति वह्निविधेयतायां व्याप्तिविशिष्टधूमज्ञानघटकाभावप्रयोज्यत्वमपि प्राप्तमिति ‘पर्वतो वह्निमानऽभावात् ' इत्यपि प्रयोगः स्यादित्याशङ्क्याह-वह्नयादीति । प्रयोगापत्त्यऽभावे हेतुमाहमुख्येति, अत्र मुख्यविशेष्यता पर्वतनिष्ठा प्राह्या तथा च पर्वतनिष्ठमुख्यविशेष्यतानिरूपिता प्रकारता धूमे एवं वर्तते न तूक्ताभावे इति न 'पर्वतो वह्निमानऽभावात् ' इति प्रयोगापत्तिः । धूमनिष्ठापि सा प्रकारता स्वनिरूपितप्रकारितावत्त्वसंबन्धेन धूमज्ञाने वर्तते स्वं धूमनिष्टप्रकारता । उक्ताभावे तु व्याप्तिनिष्ठविशेष्यतानिरूपितप्रकारता वर्तते. व्याप्तौ च धूमनिष्ठ. विशेष्यतानिरूपितप्रकारता वर्तते. धूमे च पर्वतनिष्ठविशेष्यतानिरूपितप्रकारता । मुख्यविशेध्यता पर्वते एवेत्यर्थः । __ केनेति- 'केन हेतुना' इत्यत्र तृतीयया हेतुत्वं बोध्यते प्रकृतिभूतहेतुशब्देन च हेतुत्वविशिष्टहेतुपदार्थों बोभ्यते हेतुत्वविशिष्ट हेतुत्वं च न बोधयितुं शक्यते पौनरुक्त्याद् उद्देश्यतावच्छेदकविधेययोरेक्यापाताचेत्यर्थः । उत्तरमाह-- हेतुशब्दस्येति, हेतुशब्देन स्वरूपयोग्यतामात्रविशिष्टो हेतुर्बो "Aho Shrutgyanam" Page #444 -------------------------------------------------------------------------- ________________ ( ४३२ ) सादर्श: [ तृतीयाकारकेफलोपधानपरत्वात्, ' दण्डवान् रक्तदण्डवान्' इतिवत् कार्यविशेषानुपरक्तहेतुताविशिष्टे कार्यविशेषोपरक्तहेतुताबोधेऽनाकाङ्क्षताविरहाच्च । न चान्वय बोधसंभवेपि हेतुशब्दप्रयोगवैयर्थ्यम् - फलोपधायकतालाभे स्वरूपयोग्यताया अर्थालाभ संभ वादिति वाच्यम्, विभक्तेरन्यार्थताया अप्यन्यत्र दृष्टत्वाद् हेतुतापरस्त्वनिश्वयार्थं तत्प्रयोगात् । सहार्थयोगेपि साहित्यप्रतियोगिवाचकपदात् तृतीया - 'पुत्रेण सहागतः' इत्यादौ । अथ यदि सहशब्दार्थः समभिव्याहृत पदोपस्थाप्यक्रियासमानकालीनक्रियान्वयित्वम्, तदन्वयित्वं च समभिव्याहृतक्रियाबोधकपदेन क्रियाया यादृशः संबन्धः साहित्यान्वयिनि प्रत्याय्यते तादृशतत्संबन्ध एव स च 'पुत्रेण' इत्यादी कर्तृत्वम्, 'दध्ना सहौदनो भुज्यते' इत्यादौ कर्मत्वादिः, तृतीयार्थीपि स एव संबन्धः, तथा च पुत्रकर्तृकागमनसमानकालीनागमनकर्तृत्व-दधिकर्मकभोजनसमानकालीन भोजनकर्मत्वादिकं पुरुषौदनादौ तत्रतत्र प्रतीयते इत्युच्यते ? " भ्यते तृतीयया च फलजनकत्वविशिष्टहेतुत्वं बोध्यते तथा च यथा दण्डवान् रक्तदण्डवान् इत्यत्र पूर्वोक्तरीत्या नान्वयबोधानुपपत्तिस्तथात्रापि नान्वयबोधानुपपत्तिरित्यर्थः । ननु यत्र फलोपधायकता=फलजनकता भवति तत्र स्वरूपयोग्यतापि भवत्येवेति तृतीयया फलोपधायकताया लाभे स्त्ररूपयोग्यताया अप्यर्थालाभसंभवाद्धेतुशब्दप्रयोगवैयर्थ्यं तु स्यादेवेत्याशङ्क्याहन चेति । परिहारमाह- विभक्तेरिति, तृतीया तु करणत्वादावपि भवतीति हेतुशब्दप्रयोगं विना तृतीयाया हेतुत्व परत्वनिश्चयो न संभवतीति न हेतुशब्दप्रयोगवैयर्थ्यम् । तत्प्रयोगात् = हेतु शब्दप्रयोगात् । सहार्थेति - सहार्थयोगे - प्रतियोगित्वसंबन्धेन साहित्यार्थः साहित्यप्रतियोगिपुत्रादौ वर्तते इति पुत्रादिपदात् सह युक्तेऽप्रधाने " इत्यनेन तृतीया भवतीत्यर्थः । ८ शङ्कते - अथेति, ' पुत्रेण सहागतः ' इत्यत्र समभिव्याहृतपदम् आगतः इति क्रियाबोधकपदं तदुपस्थाप्या या पुत्रनिष्ठाऽऽगमनक्रिया तत्समानकालिका या पितृनिष्ठाऽऽगमनक्रिया तदन्वयित्वं ( तदाश्रयत्वम् ) सहशब्दार्थः । उक्तक्रियान्वयित्वस्वरूपमाह - तदन्वयित्वमिति, साहित्यान्वयिनि - पितरि पुत्रे वा तादृशतत्संबन्ध एव तादृश एव तत्संबन्ध: - क्रियासंबन्धस्तदन्वयिश्वपदार्थः । सः क्रियासंबन्धश्व ' पुत्रेण सहागतः ' इत्यादौ कर्तृत्वम् ' दघ्ना सहौदनो मुज्यते ' इत्यादी कर्मप्रत्ययस्थले कर्मत्वं तथा च ' पुत्रेण सहागतः ' इत्यत्र सहशब्दार्थ आग - मनकर्तृत्वम् ' दध्ना सहौदनो भुज्यते ' इत्यादौ च भोजनक्रियाकर्मत्वं सहशब्दार्थः । तृतीयाथपि स एव = कर्तृश्वकर्मत्वादिरूपः संबन्ध एव । एतेन य एव सहशब्दार्थः स एव तृतीयार्थ इति प्राप्तम, तथा च पुत्रेण सहागतः ' इत्यत्र पुत्रकर्तृकागमनसमानकालीनागमनकर्तृत्वं पुरुषे प्रतीयते ' दना सहौदनो भुज्यते ' इत्यत्र च दधिकर्मकभोजनसमानकालीनभोजनकर्मत्व C f " Aho Shrutgyanam" " 3 Page #445 -------------------------------------------------------------------------- ________________ सहशब्दार्थविचारः ] व्युत्पत्तिवादः । ( ४३३) तदा सहशब्देनैव तत्तक्रियाकर्तृत्वबोधने क्रियापदवैयर्थ्यम् - द्विधाक्रियाभानस्वाऽनुपयुक्तत्वात्, क्रियान्वयिनि क्रियान्वयबोधस्योद्देश्यतावच्छेदकविधेययोरभेदेन निराकाङ्क्षतयाऽसंभवाच्च । न च तत्तत् क्रियासमानकालीनत्वमात्रं सहशब्दार्थः तस्य च क्रियापदोपस्थापित क्रियायामेवान्वय इति क्रियापदसहित सहशब्दादेवोक्तविशिष्टार्थलाभ इति वाच्यम्, एवं सति 'पुत्रेण सहागतः ' इत्यादी सहशब्दार्थस्य क्रियापदार्थान्वायत्वेनान्यसापेक्षतया तेन सह पुत्रशब्दस्य समासाऽसंभवेन सपुत्रः इत्यादिप्रयोगानुपपत्तिः, न ह्यत्र समासे सहार्थस्य प्राधान्यं येनान्यसापेक्षत्वेपि समासो भवेत् किं तु बहुव्रीहित्वादन्यपदार्थप्राधान्यमेवेति चेत् ?, " न - समभिव्याहृत पदोपस्थाप्यक्रियाकाल एक सहशब्दार्थः तस्य क्रियान्व मोदने प्रतीयते इत्यन्वयः । स्वाभिप्रायं प्रकटयति - तदेति, एवं हि सहशब्देनापि क्रियाकतृत्वादिकं बोध्यते क्रियापदेनापि क्रियाकर्तृत्वं बोध्यते तत्र द्विधा क्रियाकतृत्वबोधनस्योपयोगाभावात् क्रि पापदवैयर्थ्यम्, किं च क्रियान्वयिनि क्रियान्वयः संभवत्यपि न - क्रियान्वयन उद्देइयत्वेन क्रियाया एवोद्देश्यतावच्छेदकत्वात् क्रियाया एव च विधेयत्वात् उद्देश्यतावच्छेदकविधेययोरैक्ये च शाब्दबोधस्यानभिमतत्वादित्याह - क्रियान्वयिनीति | " द्विधाक्रियामानस्यानुपयुक्त • स्वात् " इति पाठस्तु काचित् एत्र । अत्र च " क्रियाभानस्य " इत्यत्र समानक्रियामानस्य ' इत्येवं पाठो युक्तः । ननु न क्रियाकर्तृत्वं सहशब्दार्थः किं तु तत्तत् क्रियासमानकालीनत्वमात्रम् = पुत्रादिकर्तृकागमनादिक्रियासमानकालीनत्वम्ः दध्यादिकर्मकभोजनादिक्रियासमानकालीनत्वम्, तस्य च सह - शब्दार्थस्य क्रियापदोपस्थापित क्रियायाम् = पित्रादिकर्तृकक्रियायामन्वयः - पुत्रकर्तृकागमनक्रियासमानकालीना याssगमनक्रिया तत्कर्ता पितेति वाक्यार्थस्तथा च क्रियापदसहितादेव सहशब्दादुक्तविशिष्टार्थस्य = पुत्रादिकर्तृकागमनादिक्रियासमानकालीन क्रियाकर्तृत्वस्य लाभः संभवति नः तु क्रियापदरहितादपि सहशब्दादिति न क्रियापदवैयर्थ्यमित्याशङ्कयाह- न चेति । उक्ते दोषमाह - एवमिति, यदि ' पुत्रेण सहागतः इत्यादौ सहशब्दार्थस्य क्रियायामन्त्रयः स्यात्तदा सहशब्द प्याऽन्यसापेक्षतया=क्रियासापेक्षतया तेन सहशब्देन सह पुत्रशब्दस्य समासो न स्यात् परस्परसापेक्षयोरेव समाससंभवादिति ' सपुत्र भागतः ' इति प्रयोगो नोपपद्येतेत्यर्थः । उक्ते हतुमाह- न हीति, प्राधान्ये सति त्वन्यसापेक्षत्वेपि समासो भवति यथा 9 राजपुरुषः इत्यत्र पुरुषपदार्थस्य प्रधानत्वात् तेन सह सुन्दरपदसमासेन सुन्दरराजपुरुषः' इत्येवं समासो भवति । सपुत्रः' इत्यत्र तु बहुव्रीहिसमासत्वादन्यपदार्थस्य - पितृपदार्थस्यैव: प्राधान्यं न सहार्थस्य येनान्य सापेक्षत्वेपि समासो भवेदित्यर्थः । " ८ 7 < "Aho Shrutgyanam" 7. C अथेत्यादिनाशङ्क्तिं परिहरति-- नेति, समभिव्याहृतपदम् = भागत इत्यादिपदम् । तस्य= २८ Page #446 -------------------------------------------------------------------------- ________________ (४३४) सादर्श: [ तृतीयाकारके - यिनि नामार्थे एवान्वयः । तादृशकालविशिष्टे नामार्थे क्रियान्वये च क्रियायामपि ताशकालावच्छिन्नत्वं भासते- उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्य व्युत्पत्तिसिद्धत्वात्, अतः क्रियाद्वयसमानकालीनत्वलाभ इति सामञ्जस्यात् । अथ वागमनसमानकालीनाऽऽगमनादिकमेव सहशब्दार्थः तस्य कर्तृत्वादिसंबन्धेन पुरुषादावन्वयः, तादृशसंबन्धेन तद्विशिष्टे च 'आगतः' 'आगच्छति' इत्यादिपदोपस्थाप्याऽऽगमनकर्तृत्वादीनामन्वये न व्युत्पत्तिविरोधःविधेयस्योद्देश्यतावच्छेदकप्रकाराऽभेदविरहात् । न च सहशब्दार्यान्वयबलादेव तक्रियाकर्तृत्वस्य पुरुषादौ लाभे प्रकारतयापि क्रियापदेन तत्प्रतिपादनमफलमिति तत्प्रयोगो व्यथे इति वाच्यम् , समभिव्याहृतपदेन तत्तक्रियाया अनुपस्थाने सहशब्देनापि तत्तक्रियाघटितसाहित्यस्य शक्यस्य बोधनं न संभवसहशब्दार्थभूतस्यागमनादिक्रियाकालस्य । क्रियान्वयिनामार्थे=पित्रादौ । तादृशेति- उक्तसहशब्दार्थभूतकालविशिष्ट नामार्थे पित्रादावागमनादिक्रियान्वये कृते क्रियायामपि पित्रादिसमवेतागमनादिक्रियायामपि तादृशकालावच्छिन्नत्वम् सहशब्दार्थभूतपुत्रकर्तृकागमनक्रियाकालावच्छिन्नत्वं भासते-- क्रियाया उक्तसहार्थभूतकालस्य च पित्रादौ सत्त्वात् सामानाधिकरण्येन सहार्थभूतकालावच्छिन्नत्वं पित्रादिकर्तृकक्रियायां प्राप्तमित्यर्थः । उक्ते हेतुमाह- उद्देश्यतेति, उद्देश्यतावच्छेकावच्छेदेन उद्देश्यतावच्छेदकावच्छिन्ने विधेयान्वयस्य स्वीकारात्- उद्देश्यतावच्छेदकं चात्र सहशब्दार्थभूत उक्तकालः कालाधिकरणे क्रियान्वये कृते क्रियायामपि तादृशकालावच्छिन्नत्वं प्राप्तमेव । उपसंहरति- अत इति, क्रियाद्वयस्य-पुत्रकर्तृकागमनादिक्रियायाः पितृकर्तृकागमनादिक्रियायाश्च समानकालिकत्वलाम इत्यर्थः। · पक्षान्तरमाह- अथ बेति । तस्य उक्तसहशब्दार्थस्य । आदिपदात् कर्मत्वादिसंग्रहः । तादशसंबन्धेन कर्तृत्वसंबन्धेन तद्विशिष्टे-सहशब्दार्थीभूतागमनसमानकालीनागमनादिविशिष्टे । व्युत्पत्तिविरोधाभावे हेतुमाह- विधेयस्येति, 'पुत्रेण सहागतः । इत्यत्र विधेयमागमनकर्तुत्वं तस्योक्तागमनविशिष्टेऽन्वयाद् उद्देश्यमाऽऽगमनविशिष्टम् उद्देश्यतावच्छेदकीभूतप्रकारश्चागमनमेव तयोश्चागमनकर्तृत्वागमनयोः परस्परं भेदान्न व्युपत्तिविरोधः- उद्देश्यतावच्छेदकविधेययोरभेदे एव न्युत्पत्तिविरोधस्योक्तत्वात् । ननूक्तसहशब्दार्थस्य कर्तृत्वादिसंबन्धेनैव पित्रादावन्वय उक्तः संबन्धभूतं कर्तृत्वं च तत्क्रियाकर्तृत्वमेव तथा च सहशब्दार्थान्वयबलादेव पित्रादौ तक्रियाकर्तखादिकस्य लाभः संभवतीति पुनः प्रकारतयापि क्रियापदेन तत्प्रतिपादनम् कर्तत्वप्रतिपादनम् निष्फलमेवेति तादृशकर्तृत्वप्रतिपादकक्रियापदस्य प्रयोगो व्यर्थ एवेत्याशडक्याहन चेति, "आगच्छति' 'गच्छति' 'भुङ्क्ते' इत्यादिक्रियापदप्रयोगे सत्येव क्रियापदोपस्थाप्यतत्तक्रियाघटितस्य स्वशक्यार्थस्य सहशब्देन बोधनं संभवति सममिव्याहृतक्रियापदोपस्थाप्याया एव क्रियाया सहशब्दार्थेन्तर्भावादिति न क्रियापदप्रयोगो व्यर्थः किं त्वावश्यक एवेत्यर्थः । "Aho Shrutgyanam" Page #447 -------------------------------------------------------------------------- ________________ सहशब्दार्थविचारः] व्युत्पत्तिवादः। (४३५) तीति क्रियापदप्रयोगस्यावश्यकत्वात् । सहशब्दार्थक्रियायाः कर्तृत्वादिसंबन्धेन नामार्थेऽन्वयश्च न व्युत्पत्तिविरुद्धः-सहशब्दस्याऽधातुत्वाद् निपातत्वाच।। न च "प्रासोष्ट शत्रुघ्नमुदारचेष्टमेका सुमित्रा सह लक्ष्मणेन" इत्यादौ शत्रुनप्रसवलक्ष्मणप्रसवयोः समानकालीनत्वाभावात् क्रियाद्यसमानकालीनतायाः सहशब्दार्थत्वाऽसंभव इति वाच्यम्, तत्रापि स्थूलकालघटितसमानकालीनत्वसवात् । न च कालत्वेनैव कालस्य तदर्थान्तर्भावे पुत्रागमनपूर्वमागन्तार 'आगतोयं न पुत्रेण सह' इति प्रयोगानुपपत्तिः-पुत्रागमनाधिकरणस्थूलकालवृत्त्या. गमनकर्तृत्वसत्त्वेनाऽन्वयितावच्छेदकरूपावच्छिन्नप्रतियोगिताकसाहित्याभावबाधादिति वाच्यम्, तत्र क्षणत्वेनैव कालस्य सहशब्दार्थेऽन्तर्भावनीयत्वात् । . एवं यत्रैककालोप विभिन्नस्थले भुञ्जानमधिकृत्य 'न सह भुङ्क्ते' इति ननु कर्तृत्वसंबन्धो हि भेदसंबन्ध एवेति सहशब्दार्थस्य नामार्थे पुरुषे कथं भेदसंबन्धेनान्वयः स्यात् "निपातातिरिक्तनामार्थयोः ६८ " इत्याद्युक्तव्युत्पत्तिविरोधादित्याशङ्क्याह- सहशब्दार्थेति, नामार्थे निपातातिरिक्तनामार्थस्य धात्वर्थस्य च भेदसंबन्धेनान्वयो व्युत्पत्तिविरुद्धोस्ति न तु निपातार्थस्यापि सहशब्दश्च निपात एव न धातुरिति सहशब्दार्थस्य पुरुषे कर्तृत्वलक्षणभेदसंव धेनाप्यन्वये न व्युत्पत्तिविरोध इत्यर्थः । ' दना सहौदनो भुज्यते' इत्यत्र तु भोजनसमानकालीनभोजनं सहशब्दार्थस्तस्य कर्मत्वसंबन्धेनौदनेऽन्वयः । प्रथमं सहार्थमतमुद्दिश्याशङ्कते- न चेति, प्रसवद्वयस्यैकस्मिन् काले ह्यऽसंभवात् लक्ष्मणप्रसवक्रियायाः शत्रुघ्नप्रसवक्रियायाश्चैककालिकत्वं न संभवतीत्यर्थः । उत्तरमाह-- तत्रापीति. तत्र प्रसोष्ट ' इत्युक्तोदाहरणे, स्थूलकालगतैक्येन शत्रुघ्नप्रसवलक्ष्मणप्रसवक्रिययोः समानका लिकत्वं संभवतीत्यर्थः । ननु यदि कालत्वेनैव रूपेण कालस्य सहशब्दार्थघटकत्वमस्ति तदा पुत्रापेक्षया यः पुरुषः पूर्वमेवागतस्तमुद्दिश्य 'आगतोयं न पुत्रेण सह' इतीष्टोपि प्रयोगो नोपपछेत- पितृपुत्रागमनक्रिययोः सूक्ष्मकालस्य भेदेपि स्थूलकालस्यैक्येन समानकालिकत्वसंभवात. पुत्रागमनपूर्वमागन्तरि पुरुषे पुत्रागमनाधिकरणीभूतो यः स्थूलकालस्तादृशस्थूलकालवृत्ति यदागमनं तत्कर्तृत्वस्य सत्त्वेन अन्वयितावच्छेदकं यद्रूपमाऽऽगमनकर्तृत्वसमानाधिकरणपुत्रत्वं तादृशरूपावच्छिन्नप्रतियोगिताकं यत्साहित्यं तादृशसाहित्याभावस्य बाधात् अत्र स्थूलकालघटितस्य पुत्रप्रतियोगिकसाहित्यस्यैव सत्त्वात्, साहित्याभावे एव च 'आगतोयं न पुत्रेण सह' इति प्रयोगस्येष्टत्वादित्याशङ्क्याह- न चति । उत्तरमाह-तत्रेति, तत्र''आगतोयं न पुत्रेण सह ' इत्यत्र कालस्य क्षणत्वेनैव रूपेण- सहशब्दार्थेऽन्तर्भावो विज्ञेयस्तथा च पुत्रागमनपित्रागमनयोरेकक्षणऽसत्वेन साहित्याभावस्य सत्त्वादेव नोक्तप्रयोगानुपपत्तिरित्यर्थः । एवमिति-- यथोक्तस्थले क्षणत्वेनैव कालस्य सहशब्दार्थेन्तर्भावस्तथा एककालेपि विभिन्न स्थल मजानमधिकृत्य 'न सह भुङ्क्ते' इति प्रयुक्तस्थ वाक्यस्योपपत्त्यथै शालादिरूपभोजनाधिकरण "Aho Shrutgyanam" Page #448 -------------------------------------------------------------------------- ________________ ( ४३६ ) सादर्श: [ तृतीयाकारके - प्रयुज्यते तत्रैकशालारूप भोजनाधारोपि सहशब्दार्थेऽन्तर्भावनीयः । अत एव “ आलापाद् गात्रसंस्पर्शान्निश्वासात सहभोजनात्" इत्यादिना पतितभीजनसमानकालीनभोजनमात्रस्य पापजनकत्वं न बोध्यते - एकपङ्क्तेरपि विवक्षणात् । एवम् - ८८ याजनं योनिसंबन्धं स्वाध्यायं सह भोजनम् । सद्यः पतति कुर्वाणः पतितेन न संशयः ॥ " इत्यादावेकदेकपात्रभोजनस्यैव सद्यःपातहेतुत्वं प्रतीयते तत्र तादृशार्थस्यैव सहशब्देन विवक्षणात् । C अथ नामार्थस्यैव सहार्थविशेष्यतयाऽन्वयोपगमे 'पुत्रेण सह नाऽऽगच्छत्ययम्' इत्यादौ सहशब्दार्थपुत्रसाहित्याभाव एव पुरुषांशे नत्रा बोध्यते इत्युपगन्तव्यं तच्च नोपपद्यते, तथा सत्याख्यातार्थोद्देश्यतावच्छेदकतयैव नञर्थमानस्यो - पगन्तव्यतया प्रसज्यप्रतिषेधस्थले निषेधस्य प्राधान्येन भाननियमव्याघातात् । स्यापि सहशब्दार्थन्तर्भावो विज्ञेयस्तथा च समानाधिकरणकभोजनं सहशब्दार्थस्तस्योक्तरीत्या कर्तृत्वसंबन्धेन भोजनकर्तर्यऽन्वय इत्येकस्मिन् स्थले भोजने सति 'सह भुङ्क्ते' इति संभवति सहशब्दार्थीभूतसमानाधिकरणकभोजनाभावे च न सह भुङ्क्ते' इत्यप्युपपद्यते, अन्यथा समानकालिकभोजनस्य सत्त्वादेव 'न सह भुङ्क्ते' इति नोपपद्येतेत्यर्थः । अत एवेति - सहशब्दार्थे दैशिकसामानाधिकरण्यस्यापि प्रवेशात् " आलापाद् गात्रसंस्पर्शात्" इत्यत्र पतितभोजनसमानकालिकभोजनस्य न पापजनकत्वं प्रत्याय्यते अन्यथैकस्मिन् काले विभिन्नस्थलेपि भोजनेन पापं स्यादित्येकस्मिन् काले एकपङ्क्तौ पतितेन सह मोजनेन पापं भवतीति बोध्यते तथा चात्र समानपङ्क्तिकभोजनं सहशब्दार्थ इत्यर्थः । एवमिति - यथोक्तस्थले समानपङ्क्तिकत्वस्य सहशब्दार्थेन्तर्भावस्तथा समानपात्रकत्वस्यापि सहशब्दार्थेन्तर्भावो विज्ञेयस्तथा च " याजनं योनिसंबन्धम्" इत्यत्रैककालिकैकपात्रभोजनस्यैव सद्यः पातहेतुत्वं प्रतीयते न तु विभिनपात्रकभोजनस्यापीत्यर्थः । पतितेन = पतितेन सहेत्यर्थः । तादृशार्थस्य = ऐककालिकैकपात्रभोजनस्य सहशब्दार्थत्वात् । यदुक्तम् - " तस्य ( सहशब्दार्थस्य ) क्रियान्वयिनि नामार्थे एवान्वयः " इति तत्राशद्कते - अथेति, यत्र प्रतियोगिनोऽन्वयों भवति तत्रैव तदभावस्याप्यन्वयो भवतीति नामार्थस्यैव यदि सहार्थविशेष्यत्वं नाम 'पुत्रेण सहागच्छति' इत्यत्र सहार्थस्योक्तरीत्या यदि नामार्थे पुरुषेऽन्व यस्तदा 'पुत्रेण सह नागच्छत्ययम्' इत्यत्र सहशब्दार्थ पुत्र साहित्याभावस्यापि नञर्थस्य पुरुषे एवान्वयः स्यात् स च न संभवति तथा सति= सहशब्दार्थ पुत्रसाहित्याभावस्य पुरुपेऽन्वये सति आख्यातार्थो य आश्रयत्वं तदुद्देश्यः पुरुषस्तनिष्ठा योद्देश्यता तादृशोद्देश्यतावच्छेदकत्वं नञर्थाभावस्य स्यादिति नञर्थाभावस्य पुरुषविशेषणत्वात् प्राधान्यं न स्याद् इष्टं व प्रसज्यप्रतिषेध " Aho Shrutgyanam" Page #449 -------------------------------------------------------------------------- ________________ सहशब्दार्थविचारः] व्युत्पत्तिवादः। (४३७) एवमनागच्छन्तमाप पुरुषमधिकृत्य तथाप्रयोगात् तत्राऽयोग्यताप्रसङ्गाच । एतेन तत्र पर्युदासनवत् क्रियायोगपरित्याग इत्युक्तावपि न प्रतीकारः । न च तत्राऽऽगमनाभावकाल एव पुरुषान्वयी सहशब्दार्थः. तथा च पुत्राऽ. गमनाभावकालावच्छिन्नपुरुषे वर्तमानकालावच्छिन्नागमनकर्तृत्वाभावः प्रतीयते इति न काचिदनुपपत्तिरिति वाच्यम्, यत्रास्य पुत्र आयाति न त्वयं तत्रापि ताशप्रयोगाद् तत्र च पुत्रागमनकालावच्छिन्नस्याऽऽगमनकर्तृत्वाभावस्य सत्तेपि पुत्रागमनाभावकालावच्छिन्नपुरुषे वर्तमानकालावच्छिनांगमनकर्तृत्वाभावस्याऽसत्वेनाऽयोग्यतापातात् । स्थले निषेधस्य ननर्थाभावस्य प्राधान्यमिति प्राधान्येन भाननियमस्य व्याघातः स्यात, अस्ति चात्र प्रप्तज्यप्रतिषेध एव नमोऽसमस्तत्वाऽदित्यर्थः । दोषान्तरमाह- एवमिति, सहशब्दार्थपुत्रसाहित्यस्य पुरुषेऽन्वयसंभवे एव तदभावस्यापि पुरुषेऽन्वयः संभवति तत्र यः खलु कदापि पुत्रेण सह नागच्छति तस्मिन् सहार्थीभूतपुत्रसाहित्यस्य बाधेन योग्यताया अभावात् सहार्थप्रतियोगिकामावस्यापि योग्यता न स्यात्, भवति च तादृशमनागच्छन्तमपि पुरुषमधिकृत्य तथा= पुत्रेण सह नागच्छत्ययम्' इति प्रयोग इत्यर्थः । ननु यथा पर्युदासनगर्थस्य नामार्थेऽन्वयो भवति न क्रियायां तथा तत्र पुत्रेण सह नागच्छत्ययम्' इत्यत्रापि न नमर्थस्य :क्रियायामन्वयः स्वीक्रियते तथा चोक्तस्थले न नर्थाभावस्य प्राधान्यापेक्षा येन तस्य नामार्थे विशेषगत्वेनाऽप्रा. धान्ये काचिदनुपपत्तिः स्यादित्याशङ्याह- एतेनेति, एवमप्युक्तरीत्याऽनागच्छन्तं पुरुषमधिकृत्य तथाप्रयोगे ह्यऽयोग्यताप्रसङ्गः स्यादेवेति नायमपि पक्षो युक्त इत्यर्थः । ननु तत्र='पुत्रेण सह नागच्छत्ययम्' इत्यत्र पुत्रो नागच्छतीति पुत्रागमनाभावस्य सत्वात तादृशामावकाले पुरुषस्य च सत्त्वात् पुरुषे पुत्रागमनाभावकालावच्छिन्नत्वं वर्तते एवेति पुरुषान्वयी यः पुत्रागमनाभावकालः स एव सहशब्दार्थस्तथा चात्र पुत्रागमनाभावकालावच्छिन्ने पुरुषे ना धर्तमानकालावच्छिन्नागमनकर्तृत्वाभावः प्रतीयते इति नामावस्य कर्तृत्वेन्वयेन तद्द्वारा क्रियाथामप्यन्वयसंभवान्न प्रसज्यप्रतिषेधत्वानुपपत्ति:- नत्रामावस्यैव प्राधान्येन मानलाभादित्याशङ्क्याह- न चेति । परिहारमाह- यत्रेति, यदा पुत्र एवायाति न तु तदनन्तरमपि पिता तदापि 'पुत्रेण सह नागच्छत्ययम् ' इति प्रयोगो भवति तत्र च पुत्रागमनकालावच्छिन्नस्यागमनकर्तृत्वाभावस्य पुत्रागमनकालावच्छिन्ने पुरुषे वर्तमानकालावच्छिन्नागमनकर्तृत्वामावस्य सत्त्वेपि (पुत्रागमनस्य सत्त्वेन पुत्रागमनकालावच्छिन्नत्वस्य पुरुष संभवात् ) पुत्रागमनाभावकालावच्छिन्ने पुरुषे वर्तमानकालावच्छिन्नागमनकर्तृवाभावो नैव संभवति पुत्रागमनस्य जातत्वेन पुरुषे पुत्रागमनकालावच्छिन्नत्वस्यैव सत्त्वेन पुत्रागमनाभावकालावच्छिन्नत्वस्यासत्त्वात् पुत्रागमनामावकालावच्छिन्नपुरुषे ह्यसद्भूते वर्तमानकालावच्छिन्नागमनकर्तृत्वाभावस्यान्वयाऽसंभवेनाऽयोग्य. तापातादित्यर्थः । "Aho Shrutgyanam" Page #450 -------------------------------------------------------------------------- ________________ (४३८) सादर्श: [ तृतीयाकारकेमैवम्-सहशब्दार्थस्तक्रियाकालः क्वचित् तक्रियान्वयिनि प्रथमान्तपदार्थेन्वेति कचिच्च सममिव्याहृतक्रियायाम् । 'सपुत्र आगच्छति' इत्यस्य 'पुत्रेण सहागच्छति यः'इतिविग्रहात् प्रथमान्तान्यपदार्थे एव पुत्रागमनकालान्वयो न तु क्रियायामिति न समासानुपपत्तिः, न वाऽन्यपदार्थपुरुषाऽलाभः । __ न चैवं समासलभ्यस्य पुत्रागमनकालावच्छिन्नस्य पुंसो विग्रहवाक्येनापि प्रतिपादनाद् बहुव्रीहिमात्रस्यैव नित्यसमासत्वमिति भज्यतेति वाच्यम्, बहुव्रीहिमात्रस्य तथात्वाऽनियमात् । प्रथमान्तानुपस्थाप्याऽन्यपदार्थबोधकबहुव्रीहरेव तत्त्वाभ्युपगमात् । अत्र चान्यपदार्थस्य पुरुषस्य प्रथमान्तोपस्थाप्यत्वात् । अयेत्यादिना शङ्कितं परिहरति- मैवमिति, तक्रियाकाला-पुत्रकर्तृकागमनक्रियाकालः । कचित्-'पुत्रेण सहागतः' इत्यादिनसमभिव्याहारहीनस्थले तक्रियान्वयिनि यादृशक्रियायाः सहशब्दार्थे प्रवेशस्तादृश्या आगमनादिक्रियाया अन्वयिनि प्रथमान्तपदार्थे-पुरुषादावन्बयो भवति तथा च पुत्रागमनकालावच्छिन्नः पुरुष आगमनक्रियाकर्तेति शाब्दबोधः पुत्रागमनकाले आगत इति यावत् । कचित्='पुत्रेण सह नागच्छति' इत्यादौ स सहशब्दार्थ उक्तक्रियाकालः समभिव्याहृतक्रियायामन्धेति तथा च पुत्रागमनकालिका याऽऽगमनक्रिया तत्कर्तत्वाभावस्य पुरुषेऽन्वयो भवति पुत्रागमनकालिकागमनकर्तृत्वाभाववान् पुरुष इति शाब्दबोधः । सपुत्र इति-'सपुत्र आगच्छति' इत्यस्य पुत्रेण सहाऽऽगच्छति यः । इत्येवं विग्रहवाक्यं भवतीति प्रथमान्तयत्पदप्रतिपाद्यस्यान्यपदार्थस्यैव प्राधान्यात् तस्यैव — सपुत्रः - इति पदेन बोधनात् तस्मिन्नेव प्रथमान्तान्यपदार्थे प्रथमान्तपदवाच्यभूतेऽन्यपदार्थे पुरुषे पुत्रागमनकालस्य सहशब्दार्थस्यान्वयो भवति न तु क्रियायामिति या पूर्व ( ४३३ ) समासानुपपत्तिः प्रदर्शिता सापि नास्ति, अन्यपदार्थस्यैव प्राधान्यात् सहशब्दार्थान्वयित्वाचान्यपदार्थभूतपुरुषस्य प्रतीत्य. भावप्रसङ्गोपि नास्तीति पूर्वोक्ताः सर्वे दोषाः समुद्धृता ज्ञेयाः। 'सपुत्र आगच्छति' इत्यत्र पुत्रागमनकालविशिष्टपुरुषे आगमनकर्तृत्वान्वयः, 'सपुत्रो नागच्छति' इत्यत्र च पुत्रागमनकालिकागमनकर्तृत्वाभावस्य पुरुषेन्वयो विज्ञेयः। । ननु यदि य एव पुत्रागमनकालावच्छिन्नः पुरुषः ' सपुत्रः । इतिसमासेन प्रतीयते स एवोक्तविग्रहवाक्येनापि प्रतीयते तदा बहुव्रीहिमात्रस्यैव= ( एवकारोऽयोगव्यवच्छेदार्थः) सकलबहुव्रीहिसमासस्य नित्यत्वमस्तीति नियमव्याघातः स्यात्- समासलभ्यार्थस्य विग्रहवाक्येनाऽलभ्यत्वे ( समासस्थाने विग्रहवाक्यासंभवे ) एव समासस्य नित्यत्वस्वीकारादित्याशझ्याहन चैवंमिति । उत्तरमाह- बहुव्रीहीति, सकलबहुव्रीहिसमासस्य तथात्वानियमात्-नित्यत्वान-. भ्युपगमात, प्रथमान्तानुपस्थाप्यो योऽन्यपदार्थस्तद्बोधकबहुव्रीहेरेव तत्त्वाभ्युपगमात् नित्यत्वाभ्युपगमाद् यथा ' प्राप्तमुदकं यं स प्राप्तोदको ग्रामः ' ' पीतमम्बरं यस्य स पीताम्बरः । इत्यादौ द्वितीयाद्यन्तयत्पदेनान्यपदार्थोपस्थितिर्भवतीत्येतादृशबहुव्रीहिसमासस्य नित्यत्वम्, अत्र "Aho Shrutgyanam" Page #451 -------------------------------------------------------------------------- ________________ . व्युत्पत्तिवादः । ८ इत्थम्भूतलक्षण तृतीया ] ( ४३९ ) न च प्रथमार्थे बहुव्रीहिरेवाऽसाधुस्तदुक्तम्- प्रथमार्थे न भवति- ' वृष्टे देवे गतः ' इति " इति वाच्यम्, “ अनेकमन्यपदायें " इतिसूत्रानुशिष्टबहुव्रीहावेक तनियमात्, अत्र च सूत्रान्तरेणैव समासविधानात् एतदर्थमेव तत्सूत्रप्रणयनात् । ' पुत्रेण सह नागच्छति' इत्यादौ च क्रियायामेव तादृशसहार्थान्वय इति पुत्रागमनकालीनागमनकर्तृत्वाद्यभावः प्रथमान्तार्थे प्रतीयते इति सबै सुस्थम्, तथापि ' सपुत्रो नागच्छाते' इत्यादौ पूर्वोक्तदिशानुपपत्तिर्द्रष्टव्या । भारमनुद्वहन्तं पुत्रमनुद्वहन्त्यामपि गर्दभ्याम् ' सहैव दशभिः पुत्रैः' इत्यादौ वर्तमाना ' इत्यध्याहाराद्वर्तमानत्वक्रियामादायैव साहित्यबोध इति वदन्ति । "6" " इत्थंभूतलक्षणे " इत्यनेन लक्षणवाचिपदात् तृतीयानुशिष्यते । लक्षणत्वं च ८८ * सपुत्र: इत्यत्र स्वन्यपदार्थस्य पुरुषस्य प्रथमान्तेनैव यत्पदेनोपस्थितिर्भवति - उक्तविप्रहवाक्ये प्रथमान्तस्यैव यत्पदस्य प्रवेशादिति न समासस्य नित्यत्वमित्यर्थः । विग्रहवाक्येऽन्यपदार्थोंपस्थापकयत्पदस्य यद्विभक्त्यन्तत्वं भवति बहुव्रीहेरपि तद्विभक्त्यन्तबहुव्रीहित्वं ज्ञेयम् । ननुं प्रथमार्थे बहुव्रीहिरेव न भवति अन्यथा ' वृष्टे देवे गतः ' इति विग्रहवाक्येपि बहुव्रीहिसमास" अनेकमन्यप्राप्तौ तन्निषेधो नोपपद्येतेत्याशङ्क्याह- न चेति । परिहारमाह- अनेकेति, पदार्थों " इतिसूत्रेण प्रथमार्थे बहुव्रीहिर्न भवतीति तत्सूत्रानुशिष्ट प्रथमार्थबहुव्रीहावेव तन्नियमात्=असाधुत्वनियमात्, अत्र = ' सपुत्रः ' इत्यत्र तु सूत्रान्तरेण = " तेन सहेति तुल्ययोगे " इति सूत्रेणैव समासविधानमस्तीति नाऽसाधुत्वम्, एतदर्थमेव = : ' सपुत्र: ' इतिप्रयोगसिद्धयर्थमेव " तेन सह " इतिसूत्रं प्रणीतमस्तीति कथम् ' सपुत्रः' इतिसमासस्यासाधुत्वं स्यात्, अन्यथैतत्सूत्रमेव व्यर्थं स्यादित्यर्थः । समभिव्याहृतक्रियायां सहशब्दार्थान्वयस्योदाहरणमाह- पुत्रेणेति, नञ्समभितादृशसहार्थान्वयः = पुत्रकर्तृकागमनक्रियाकालान्वयः । उपसंहरति- इतिसर्वमिति, व्याहारस्थले सहार्थस्य क्रियायामन्वयो भवतीत्युक्तमिति सहशब्दार्थस्य क्रियासापेक्षतया तेन सहशब्देन पुत्रशब्दस्य समासो न स्यादिति ' सपुत्रो नागच्छति' इति प्रयोगः पूर्वोक्तंदिशा ( ४३३ पृष्ठोक्तदिशा ) नोपपद्यते इत्याह- तथापीति । भारमिति-- गर्दभीपुत्रो न भारमुद्वसहैव दशभिः पुत्रैर्भारं हति तादृशपुत्रं च गर्दभ्यपि नोद्वहति किं तु भारमाश्रमुद्वहतीति 'वहति गर्दभी " इत्यत्र 'वर्तमाना' इतिपदस्याध्याहारः कर्तव्यः अध्याहृतवर्तमानपदबोध्यक्रियायामेव सहशब्दार्थसाहित्यस्यान्वयो ज्ञेयः - ' दशभिः पुत्रैः सह वर्तमाना ( दशसंख्याकपुत्रवर्त - नकालिकवर्तनक्रियावती ) गर्दभी भारं वहति ' इत्यन्वयः, ' वर्तमाना ' इतिपदस्याऽनध्याहारे ' पुत्रैः सह भारं वहति ' इत्यन्वयापत्त्या गर्दमीपुत्राणामपि भारवाहकत्वं प्राप्नुयात्. न चैतदिष्टमिति ' वर्तमाना ' इतिपदस्याध्याहारः कार्य इत्यर्थः । इत्थंभूतलक्षणतृतीयानिरूपणमारभते- इत्थमिति । लक्षणवाचिपदात्-लक्षणभूतजटा दिवाचकपदात् तृतीया भवति यथा ' जटाभिस्तापसः ' इति । लक्षणत्वस्वरूपमाह- लक्षणत्व "Aho Shrutgyanam" LE Page #452 -------------------------------------------------------------------------- ________________ सादर्श: · (४४० ) व्यावर्तकत्वम्, तच्च विशेष्यतावच्छेदकसमानाधिकरणाभावाऽप्रतियोगित्वम्, तदाश्रयश्च धर्मो द्विविधः - विशेषणमुपलक्षणं च । विद्यमानं सद् व्यावर्तकं विशे षणम् - पुरुषादौ वर्तमानकालावच्छेदेन विद्यमानो दण्डादिः । अविद्यमानं सद् व्यावर्तकमुपलक्षणम्- तापसादेः कालान्तरणजटादिकम् । विशेवणस्य संबन्धो मतुबादिभिः प्रत्याय्यते- अस्तीत्यर्थे विहितानां वर्तमान संबन्धार्थकत्वात्, अतः 'जटाभिस्तापसः इत्यादावsविद्य नानजटादेः संबन्धावेवसायां मतुवाद्यनवकाशात् तृतीयैव । तृतीयया चाऽविद्यमानत्वस्येव विद्यमानत्वस्यापि प्रत्यायनाद विशेषणवाचिपदादपि तृतीया यथा- ज्ञायमानत्वेन लिङ्गं करणम्' इत्यादौ । " 6 मिति । व्यावर्तकत्वम् = व्यवच्छेदकत्वम् ( परिचायकत्वमिति यावत् ) तञ्च = व्याकत्वं च । विशेष्यतावच्छेदकेति- यया विशेष्यतावच्छेदकं यत्तापसत्वं तत्समानाधिकरणाभावाऽप्र तयो गत्वं जटायामस्त्येव तापसत्वावच्छिन्ने कस्मिंश्चित्तापसे जटाया वर्तमानत्वात्, सकछेषु तापनेषु जटा C संभवाद् विशेष्यतावच्छेदकावच्छेदेनेति त्यक्त्वा विशेष्यतावच्छे दक समानाधिकरणेत्युक्तम् । सदाश्रयः उक्ष गत्वाश्रयः । विशेषगोदाहरणमाह- पुरुषादाविति । यथेत्यादिः । उपलक्षणोदा- हरणमाद - तापसादेरिति, ' काकवन्तो देवदत्तस्य गृहाः ' इति वत् तापसे जटानामसत्त्वेप्युपलक्षणत्वं भवत्येव, जटानां वर्तमानकाले तु तापसविशेषणत्व मेव । विशेषणत्वोपलक्षणत्वयोः परिचायकमाह-- विशेषणस्येति । अस्तीत्यर्थ इति- " तदस्याऽस्त्यऽस्मिन्निति मतुप् ” इत्यादिसूत्रैर्विहितानां मतुत्रादिप्रत्ययानां वर्तमानसंबन्धार्थ कत्वात् = वर्तमानपदार्थ संबन्धबोधकत्वाद् विशेषगस्य वर्तमानत्वाच्च विशेषणत्राचकपदात् मतुवादयः प्रत्यया भवन्ति यथा दण्डवान् दण्डो' इत्यादि । एतावत्पर्यन्तन तेपादनस्य निष्कर्षमाह-- अत इति, यतो मनुत्रादयो विद्यमानस्यैव संबन्धत्रोवका नाऽविद्यमानस्यापि जटादीनां चाविद्यमानानामेव तापसाद्युपलक्षगत्वं मवति अतो जटादिवाचकपदान्मतुवाद्य नवकाशात् तृतीयैव भवति यथा--- C जटाभिस्तापसः इति । मतुवायपेक्षया तृतीयाया विशेषमाह - तृतीयेति मतुवादयस्तु विद्यमानमात्रस्य संबन्धवोधका भवन्ति तृतीया तु विद्यमानाविद्यपानयोरुभयोरपि संबन्धवोधिका भवतीति विशेषवाचकपादपि कचित् तृतीया भवति यथा- 'ज्ञायमानखेन लिङ्गं करणम् ' इत्यत्र लिङ्गविशेवाचकाज्ज्ञायमानत्वपदात् तृतीया जाता । जटाभिस्तापसः' इत्यत्र तृतीयया जटानामवियमानत्वं प्रत्याय्यते, ' ज्ञायमानत्वेन लिङ्गं करगम् ' इत्यत्र ज्ञायमानत्वस्य विद्यमानत्वं प्रत्याययते--- ज्ञायमानस्यैव लिङ्गस्य करणत्वस्वीकारात् । तृतीयया विद्यमानत्वात्रियमानत्वयोः प्रत्यायने योग्यतैव निपामिकेति विज्ञेयम् - कचिज्जटानां विद्यमानत्वेपि 'जटाभिस्तापसः * इतिप्रयोगदर्शनादिति । 6 "Aho Shrutgyanam" [ तृतीयाकारके " " Page #453 -------------------------------------------------------------------------- ________________ -इत्थम्भूतलक्षणतृतीया ] व्युत्पत्तिवादः । ( ४४१ ) अथ तत्र ज्ञायमानत्वादिवैशिष्ट्यं तृतीयया लिङ्गादौ न प्रत्याय्यते. अपि तु पदार्थकदेशे करणत्वादावेव तदवच्छिन्नत्वमिति चेत् ?, तथापि सा विशेषण - यैव- अनुशासनान्तराभावात् । वस्तुतो लिङ्गादो ज्ञायमानत्वादिवैशिष्ट्यबोसिंबन्धविधा करणत्वज्ञायमानत्वाद्योवच्छेद्यावच्छेदक मावभान संभवादेकदेशान्वस्वीकारोऽनुचितः । न च संबन्धविधया करणत्वे एकदेशेऽवाच्छन्नभनेप्येकदेशान्वयौव्यमिति वाच्यम्, करणाभेदरूपे करणत्वे करणस्य संबन्धविधया भासमाने ज्ञायमानत्वावच्छिन्नत्वस्याऽवच्छेदकतया भानोपगमेनै"कदेशान्वयं विनाप्यवच्छेद्यावच्छेदकभावभानात् । 7 प्रसङ्गसङ्गत्या शङ्कते - अथेति, लिङ्गमेव करणमिति करणत्वं लिङ्गैकदेशत्वात् पदार्थैकदेशः । तदवच्छिन्नत्त्रम्=ज्ञायमानत्वावच्छिन्नत्वम् । धूमादौ करणत्वज्ञाने वर्तमाने सत्येव धूमादीनां करणत्वस्वीकाराज्ञायमानत्वं करणत्वविशेषणमिति भावः । उत्तरमाह - तथापीति, तथापि = ज्ञायमानत्वस्य करणत्वविशेषणत्वेपि सा = ' ज्ञायमानत्वेन इतिवृतीया विशेषणतृतीयैव. अनुशासनान्तराभावात्=" इत्थंभूतलक्षणे " इतिसूत्रेणैव प्राप्तत्वादिति यावत् । स्वाभिप्रायमाह - वस्तुत इति ज्ञायमानत्वस्य करणत्वविशेषणाभ्युपगमस्य करणत्वे ज्ञायमानत्वावच्छिन्नत्व प्राप्तिरेव फलं करणत्वस्य ज्ञायमानत्वावच्छिन्नत्वं तु ज्ञायमानत्वस्य लिङ्गविशेषणत्वेपि प्राप्नोत्येव यथा लिने एव ज्ञायमानत्वमस्ति लिने एव च करणत्वमिति करणत्वज्ञायमानत्वयोः संबन्धविधयासामानाधिकरण्येन परस्परमऽवच्छेद्यावच्छेदकभावः प्राप्त इति करणत्वे ज्ञायमानत्वावच्छिनत्वं प्राप्तमेवेति ज्ञायमानत्वस्य करणत्वरूपै कदेशेऽन्ययस्वीकारो नोचित इत्यर्थः । नन्वेवमपि करणत्वरूरैकदेशे ज्ञायमानत्वस्यान्वयः प्राप्त एवेत्याशङ्क्याह-न चेति । परिहारहेतुमाह- करणादरूपे इति, त्वया हि करणत्वे ज्ञायमानत्वस्यान्वय उक्तस्तत्र करणकरणत्वयोरमेदपक्षे करणत्वे ज्ञायमानत्वस्यान्वयेन करणेपि तदन्वयः प्राप्त इति करणे करणत्वसंबन्धेन ज्ञायमानत्वस्यान्वयः कर्तव्यः, करणत्वं चाभेदपक्षे करणे तादात्म्येन वर्तत एव संबन्धमूतं करणत्वं ज्ञायमानत्वं च करणे एवेति सामानाधिकरण्येन करणत्वमपि ज्ञायमानत्वावच्छिन्नं जातमित्तिरीत्या ज्ञायमानत्वावच्छिन्नत्वस्य अवच्छेदकतया = संसर्गतावच्छेदकतया मानोपगमेनैकदेशान्वयं विनापि करणत्वज्ञायमानत्वयोरवच्छेद्यावच्छेदकभावस्य मानं संभवत्येवेत्येकदेशान्वयस्वीकारोऽनुचित एवेत्यर्थ: । प्रकारभूत पदार्थैकदेशेनान्वयस्यैव व्युत्पत्तिविरुद्धत्वात् संसर्गभूतपदार्थैकदेशे नान्वये दोषाभावाद् अत्र च करणत्वस्य करणामिन्नत्वं संसर्गत्वं च स्वीकृतमिति तेनान्वये न कोपि दोष इति भावः । करणाभिन्नस्यैव करणत्वस्य ज्ञायमानत्वान्वये संसर्गत्वाश्रयणादुक्तम्- " करणस्य संबन्धविधया भासमाने " इति । > ननु यदि मतुबादयो विद्यमानमात्रस्यैव संबन्धबोधकास्तदा ' दण्डवानयमासीद् दण्डी गतवान् ' इत्यादौ दण्डादिपदोत्तरं मतुबादयो न स्युः - दण्डादीनामतीतत्वेन विद्यमानस्वामा " Aho Shrutgyanam" “ Page #454 -------------------------------------------------------------------------- ________________ (४४२) सादशे: [ तृतीयाकारके___ अथ · दण्डवानयमासीद् दण्डी गतवान् ' इत्यादौ दण्डस्याऽतीततया विशेषणत्वासंभवाद् मतुबाद्यनुपपत्तिरिति चेत् ?, न-प्रकृतशब्दप्रयोगाधिकरणकालावच्छिन्नस्येव विधेयान्तरसमभिव्याहारस्थले तदधिकरणकालावच्छिन्नसंबन्धस्यापि मतुबादिना प्रत्यायनात् तत्राऽतीतकालिकसत्त्वादिरूपविधेयाधिकरणाऽतीतादिकालावच्छिन्नसंबन्धस्यैव मतुबाद्यर्थत्वात् । अविद्यमानोपि दण्डा. दिर्धर्मान्तरसंबन्धसमानकालीनतया धर्मान्तरान्वयिनि विशेषणम्. तत्प्रकारेण भासमाने धर्मान्तरान्वयबोधो विशिष्टवैशिष्टयमित्युच्यते, न त्वसावऽन्वयिन्युपलक्षणम्. न वा तादृशबोधस्तदुपलक्षितान्वयबोध इत्युच्यते । कचिद्विधेयान्तरसमानकालीनमपि विशेषणं तदनन्वयितया तदन्वयिन्युपलक्षणमुच्यते यथा-' रूपवान् रसवान् , इत्यादी रूपादिकं रसान्वयिनि, 'सास्त्रावान् गोपदवाच्यः' इत्यादौ सास्त्रादिकं गवादिपदवाच्ये । क्वचिद्रमिसंबद्धधर्मान्तरसंबन्ध्यपि धर्मों धर्मान्तरसंबन्धितानवच्छेदकतया धर्मान्तरवादित्याशङ्कते--अयेति । परिहरति-नेति, मतुबादिना दण्डादीनां यथा प्रकृत=दण्डादिशब्दप्रयोगाधिकरणकालिकः संबन्धः 'दण्डवानस्ति ' इत्यादौ प्रत्याय्यते तथा विधेयान्तरसममिव्याहारस्यले तदधिकरणकालावच्छिन्नसंबन्धः-विधेयान्तराधिकरणकालावच्छिन्नसंबन्धोपि प्रत्याय्यते तथा च तत्र=' दण्डवानयमासीद् , 'दण्डी गतवान् ' इत्यत्राऽतीतकालिकं यत्सत्त्वादिरूपं विधेयं तादृशविधेयाधिकरणीभूतो योऽतीतकालस्तादृशातीतकालावच्छिन्न एव संबन्धःदण्डादिसंबन्धो मतुबाद्यर्थोस्ति तस्य चात्र बाधाभावात् न मतुबाद्यनुपपत्तिरित्यर्थः । ननु विशेषगवाचकपदान्मतुबादयो भवन्ति विशेषणत्वं च विद्यमानस्यैव भवतीति कयमविद्यमानस्य दण्डादेविशेषणत्वं येन मतुबादय उपपद्यरन्नित्याशङ्याह-अविद्यमानोपीति, यथात्र धर्मान्तरसंबन्धसमानकालीनतया अतीतकालिकसत्त्वसंबन्धसमानकालिकतया ( यस्मिन् काले सत्त्वमासीत् तस्मिन् काले दण्डोप्यासीदेव ) धर्मान्तरान्वयिनि-अतीतकालिकसत्त्वान्वयिनि पुरुषे दण्डो विशेषणमेव, तत्प्रकारेण:-दण्डप्रकारेण (बहुव्रीहिः) भासमाने पुरुषे धर्मान्तरान्वयबोधःअतीतकालिकसत्त्वबोधो विशिष्टवैशिष्टयबोध इत्युच्यते- दण्डविशिष्टेऽतीतकालिकसत्त्ववैशिष्टयस्य सत्त्वात्, न त्वसौदण्डः अन्वयिनि-पुरुषे उपलक्षणम्, न वा तादृशबोधः= दण्डवानयमासीत् । इत्यादिवाक्यजन्यबोधस्तदुपलक्षितान्वयबोधः-दण्डोपलक्षितविषयकशाब्दबोध इत्यविद्यमानोपि दण्डादिविशेषणमेवात्र न तूपलक्षणमित्यर्थः । विशेषणोरलक्षणयोः परिभाषामाह-कचिदिति, यथा विधेयान्तरसमानकालीनमपि रससमानकालिकमपि विशेषगं रूपं तदनन्वयि तया रसानन्वयितया तदन्वयिनि-रसान्वयिन्युपलक्षणमित्युच्यते इत्यन्वयः, सास्नेति-यथा विधेयान्तरं गोपदवाच्यत्वं तत्कालिकमपि विशेषणं सास्ना तदनन्वयितया गोपदवाच्यत्वानन्वयि तया गवि उपलक्षणमित्यन्वयः । उपलक्षणस्य स्वरू "Aho Shrutgyanam" Page #455 -------------------------------------------------------------------------- ________________ विशेषणोपलक्षणपरिभाष ] व्युत्पत्तिवादः । (४४३) संबन्धिन्युपलक्षणम्. अत: ' दण्डपुरुषौ ' इत्यादिसमूहालम्बनबोधो दण्डाद्युपलक्षित पुरुषादिविषयको न तु विशिष्टविषयक इत्युच्यते । विशेष्यसंबद्धा संबन्ध्यपि तत्संबन्धितावच्छेदकतया तद्वति विशेषणम्, अतः एव संज्ञाविशिष्टसंज्ञादिज्ञाने संज्ञादेर्विषयत्वमनङ्गीकुर्वतां प्राभाकराणां प्राचीननैयायिकानां च मते तटस्थज्ञानविषयतयैव विषयतावच्छेदकत्वात् संज्ञादेः 14 पान्तरमाह कचिदिति । उदाहरति-अत इति, यथा ' दण्डपुरुषौ ' इत्यत्र धर्मी पुरुषः तत्संबद्धधर्मान्तरं वर्तमानकालिकसत्त्वादिकं तत्सबन्ध्यपि धर्मो दण्डः - दण्डेपि वर्तमानकालिक सत्त्वस्य सत्वात् स च दण्डो धर्मान्तरस्य = उक्तवर्तमानकालिकसत्त्वस्य संबन्धितावच्छेदकं नास्ति संबन्धितावच्छेदकत्वेनाऽप्रतीयमानखादिति धर्मान्तरसंबन्धिनि = उक्तसत्त्वविशिष्टे पुरुषे दण्ड उपलक्षणमिति 'दण्डपुरुषौ ' इति समूहालम्बनात्मको बोधो दण्डोपलक्षितविषयक एव न तु दण्ड विशिष्टविषयक इत्यन्वयः । यस्य धर्मस्य धर्मिणि स्वसमानकालिकधर्मान्तरे चान्वयो भवति स विशेषणमित्युच्यते यथा ' अस्ति दण्डी ' इत्यत्र वर्तमानकालिकं सत्त्वं पुरुषे तदन्वितदण्डे चान्वेतीति विशेषणमित्युच्यते । उक्तवैपरीत्येन विशेषणपरिभाषामाह - विशेष्येति, धर्मि संबद्धधर्मान्तरसंबन्ध्यपि धर्मो धर्मा - न्तरसंबन्धितानवच्छेदकतयोपलक्षणं भवतीति यदुक्तं तद्वैपरीत्ये विशेष्यसंबद्धा संबन्ध्यपि धर्मो तत्संबन्धितावच्छेदकतया - विशेष्य संबद्धधर्मान्तरसंबन्धितावच्छेदकतया तद्वति धर्मान्तरवति विशेष्ये विशेषणं भवतीत्यभिप्रायः, यथा 'घटो घटपदवाच्यः' इत्यत्र विशेष्यो घटस्तत्संबद्धो घटत्वं सदऽसंबन्ध्यपि = घटत्वासंबन्ध्यपि संज्ञा तत्संबन्धितावच्छेदकतया = घटसंबद्धघटत्वसंबन्धितावच्छेदकतया = घटे वाच्यत्वसंबन्धेन संज्ञा विशेषणं तत्र च घटे घटत्वसंबन्धिता वर्तते इति संज्ञायां घटत्वसंबन्धितावच्छेदकतास्त्येवेति संज्ञा तद्वति घटत्ववति घटे विशेषणमित्यन्वयः, तथा च विशेष्यसंबद्धधर्मान्तरसंबन्धितानवच्छेदकमुपलक्षणम्, विशेष्यसंबद्धधर्मान्तरसंबन्धितावच्छेदकं विशेषणमिति फलितम् । उदाहरति- अत एवेति, तटस्थेति-- संज्ञाया घटज्ञानविषयत्वं नास्ति घटस्य प्रत्यक्षादिविषयत्वात् संज्ञायाश्च स्मर्यमाणत्वेन स्मृतिविषयत्वादिवि संज्ञायास्तटस्थज्ञानविषयत्वं तटस्थज्ञानविषयत्वेपि संज्ञाया विषयतावच्छेदकत्वमस्त्येव - 'घटो घटपदवाच्यः' इत्यत्र संज्ञाया घटे विशेषणतया घटनिष्ठविषयतावच्छेदकत्वेन भासमानत्वात्, विषयता विच्छेदकत्वाच्च संज्ञाया ज्ञानविषये घटे विशेषणत्वं प्राप्तमिति भावः । उक्तं च प्रामाकरैः - " नामकल्पनापि प्रत्यक्षा- इन्द्रियानुविधायित्वात् ' देवदत्तोयम् ' इति । तत्र यद्यपि वर्णात्मकं नाम स्मरणनिष्ठम् ( न प्रत्यक्षविषयः ) तेन सह वाच्यवाचकभावोपि स्मृति समारूढ एव ( न प्रत्यक्षविषयः ) तथापि संज्ञा प्रत्यक्षतां न मुञ्चति, न हि संज्ञा तत्संबन्धो वा तदानीमेकज्ञाने विशेष्यत्वेन प्रतिभातः किं तु तौ स्मृत्यारूढावेव, संज्ञिनि हि दृश्यमाने प्रागनुभूतौ तौ स्मृतिमारोहत अत एवोक्तम् "Aho Shrutgyanam" Page #456 -------------------------------------------------------------------------- ________________ ( ४४४ ) सादर्श: [ तृतीयाकारके " प्रकारस्य ज्ञानविषयविशेषणत्वम् । अत एव द्वित्वनाशकालीनायाम् ' दे द्रव्ये ' इतिबुद्धौ न द्वित्वविषयकत्वमपि तु द्वित्वविशिष्टविषयकत्वमेव- द्वित्वरूपविशे'षधीजन्यत्वादित्याचार्याः । एवमप्रतियोगित्वाविशेषेपि घटसामान्याभावादिप्रतियोगिनि घटत्वादिकं . विशेषणं नीलादिकमुपलक्षणमित्युच्यते । क्वचिच्च विद्यमानमप्यतदूव्यावृत्तिन्यूनाधिकवृत्तितया तत्र न विशेषणमित्युच्यते किं तूपलक्षणं यथा विद्यमानापि जटा तापसे उपलक्षणं न तूपलक्ष्यतावच्छेदकशमदमादिवद्विशेषणम्, इत्यलमप्रस्तुत परिभाषाविचारबाहुल्यन । ८८ 'संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते । न संज्ञिनः, सा तटस्था हि न रूपाच्छादनक्षमा || " इति " इति । ( हि यतः ) विशेषणस्य स्वरूपान्तरमाह - अत एवेति प्रत्यक्षात्मकज्ञानस्य नष्टपदार्थविषयकत्वं संभवतीति द्वित्वनाशकालिकायाः 'द्वे द्रव्ये' इत्याकारक बुद्धेर्नष्टद्वित्वविषयकत्वाभावेपि द्वित्वविशिष्टविषयकत्वमक्षतमेव- द्वित्वरूप विशेषणज्ञानजन्यत्वात् तथा च नष्टस्याप्यत्र द्वित्वस्य द्रव्यविशेषणत्वमेव - उक्तबुद्धेर्द्वित्वविशिष्टविषयकत्वात्, अपेक्षाबुद्धिजन्यस्य द्वित्वस्यापेक्षाबुद्धिनाशेन नष्टत्वादुक्त बुद्धिविषयत्वं नास्तीत्यन्यदेतत्. नैतावता विशेषणत्वस्य काचित् क्षतिरित्यर्थः । अत एव = विशेष्य संबद्धा संबन्धिनोपि तत्संबन्धितावच्छेदकतया तद्वति विशेषणत्वस्वीकरादेव. अत्र च द्रव्यलक्षणविशेष्य संबद्धं यद् वर्तमानकालिकसत्त्वादिकं तदसंबन्धिनोपितेंद्रहितस्यापि द्वित्वस्य तत्संबन्धितावच्छेदकतया तद्वति-उक्तसत्त्ववति द्रव्ये विशेषणत्वमित्यर्थः । विशेषणोपलक्षणयोः स्वरूपान्तरमाह - एवमिति, नीले घंटे नष्टे यथा घटत्वस्य समवायस्तथा नीलस्याप्यस्त्येव - समायस्य नित्यत्वादिति घटत्वनीलयोरभावाऽप्रतियोगित्वाविशेपेपि घटत्वं प्रतियोगितावच्छेदकत्वेन विशेषणं नीलं च प्रतियोगितानवच्छेदकत्वेनोपलक्षणमित्यैव परिभाषास्तीत्यर्थः । उपलक्षणस्य स्वरूपान्तरमाह- कचिदिति, अतद्व्यावृत्तिरदेन विशेष्यतावच्छेदकरूपा जातिर्ग्राह्या, तत्र = अन्वयिनि । अत्र तापसत्वमेव विशेष्यतावच्छेदकम तद्द्व्यावृत्तिपदेन ग्राह्यं यत्र यत्र च तापसत्वं तत्र तत्र जटा वर्तते इत्यपि नियमो नास्ति यत्र तापसत्वं नास्ति तत्र जटा न भवतीत्यपि नियमो नास्तीति तापसत्वन्यूनाधिकवृत्तितया तत्र तापसे जटा न विशेषणं किं तूपलक्षणमेव । शमदमादिकं तु तापसे विशेषणमेव शमादिकं विना तापसत्वानुपपत्तेरित्यर्थः । विशेषणोपलक्षणपरिभाषाप्रतिपादनमुपसंहरतिइत्यलमिति । "Aho Shrutgyanam" Page #457 -------------------------------------------------------------------------- ________________ प्रकृतोपसंहारः ] व्युत्पत्तिवाद | ( ४४५ } कचिदविशेषणस्यापि संबन्धो मत्वर्थीयेन बोध्यते ' घटोयं विनाशी ' इत्यादिप्रयोगदर्शनादिति दीधितिकृतः, तदसत् - आवश्यकार्थधातूत्तरणिनिप्रत्ययेनापि तत्र विनाशिपदव्युत्पत्तेरिति ॥ ॥ इति वृतीया ॥ एवं च मत्वर्थीयेन प्रत्ययेन विशेषणस्यैव संबन्धः प्रत्याय्यते न तूपलक्षणस्य तृतीयया तु विशेषणोपलक्षणयोरुभयोरपि संबन्धः प्रत्याय्यते इति सिद्धं तत्र दीधितिकारेण यदुक्तमऽविशेबगस्य=उपलक्षणस्यापि संबन्धो मत्वर्थीयेन प्रत्यास्यते यथा ' वटोयं विनाशी ' इत्यत्र घटे: विनाशस्याविद्यमानखेन विशेषणत्वं न संभवतीत्यऽविशेषणस्यापि विनाशस्य संबन्धो विनाशपदोत्तरमत्वर्थीयणिनिप्रत्ययेन प्रतिपाद्यते इति तत्परिहारायानुवदति-- कचिदिति, परिहरति-तद प्रदिति, ' घटोयं विनाशी ' इत्यत्र विनाशपदोत्तरं मत्वर्थीयणिनिप्रत्यय एव नास्ति येनोक्तरीत्या मत्वर्थीयप्रत्ययस्याऽविशेषणसंबन्धप्रतिपादकत्वं प्राप्नुयात् किं तु आवश्यकार्थेन धातू'तराणनिप्रत्यये न " आवश्यकाधमर्णयोः " इतिसूत्रात् प्राप्तेन' विनाशी ' इति पदं सिद्धमस्तीत्यर्थः । ॥ इति व्युत्पत्तिवादादर्शे तृतीयाकारकम् ॥ "Aho Shrutgyanam" Page #458 -------------------------------------------------------------------------- ________________ अथ चतुर्थी 4 ब्राह्मणाय गां ददाति ' इत्यादौ संप्रदानचतुर्थ्या : ब्राह्मणादिसंप्रदानकत्वं दानादौ बोध्यते । संप्रदानत्वं च मुख्यभाक्तसाधारणं क्रियाकर्म संबन्धितया कर्त्रभिप्रेतत्वम् । क्रियाकर्मत्वं क्रियाजन्यफलशालित्वम् । तद्वता संबन्धश्व तन्निष्ठफलभागित्वमेव, तथा च क्रियाजन्यफलभा गितया: कर्तुरिच्छाविषयत्वं पर्यवसन्नम् । " कर्मणा यमभिप्रैति " इतिसूत्रस्याप्ययमेवार्थ:- " कर्मणा यमभिप्रैति ” इत्यस्य कर्मणा यमभिसंबद्धुमिच्छति' इति शाब्दि कैर्विवरगात् । उक्तस्थले त्यागरूपक्रियाजन्यगोनिष्ठस्वत्वभागिवया दातुरिच्छाविषयो ब्राह्मण इति तस्य संप्रदानत्वम् । " अथ निरुक्तस्य संप्रदानत्वस्यः कर्मत्वाऽविशेषः - " कर्तुरीप्सित " इतिसूत्रेण कर्तुः क्रियया व्याप्तुमिष्टस्य कर्मसंज्ञाविधानात् क्रियया व्याप्तुमिष्टत्वमपि हि कियाजन्यफलभागितयेच्छाविषयत्वमेव । न च तथायुक्तं चानीप्सितम् " 26 क्रमप्राप्तं चतुर्थ्यर्थनिरूपणमारभते - ब्राह्मणायेति । यतः संप्रदानचतुर्थ्या दानादौ ब्राह्मणादिसंप्रदानकत्वं बोध्यतेऽतः संप्रदानचतुर्थ्याः संप्रदानत्वमर्थस्तदुक्तम् - " चतुर्थी संप्रदाने १ इति । संप्रदानत्वस्वरूपमाह - संप्रदानत्वमिति, क्रियाकर्मसंवन्धितया कर्त्रभिप्रेतत्वमेव संप्रदानत्वं यथा ब्राह्मणाय गां ददाति ' इत्यत्र दानक्रियाकर्मभूता या गौस्तत्संबन्धितपा=तत्स्वा मित्वेन दानकर्त्रभिप्रायविषयत्वं ब्राह्मणेस्तीति ब्राह्मणस्य संप्रदानस्वं प्राप्तम् इदमेव च मुद्दासंप्रदानत्वं भाक्तं संप्रदानत्वमत्रे वक्ष्यति । कर्मत्वस्वरूप माह-क्रियाकर्मत्वमिति । तद्वता कर्मत्वयं चता । तन्निष्ठफळभागित्वम् = कर्मत्ववनिष्ठफलभागित्वम् । यथोक्तस्थले दानक्रियाकर्मत्ववती या गौस्तन्निष्टं फलभूतं यत्स्वत्वं तादृशस्वत्वभागित्वमेव गवा ब्राह्मणस्य संबन्धः । पर्यवसितार्थमाहतथा चेति । संप्रदानत्वमिति शेषः । दानक्रियाजन्यं यद् गोनिष्ठं स्वत्वरूपं फलं तद्भागितय दानकर्तुरिच्छाविषयत्वं ब्राह्मणेस्त्येवेत्यर्थः । उक्तसंप्रदानत्वस्वरूपे सूत्र प्रमाणयति-- कर्मणेति । " कर्मणा यमभिप्रेति " इति सूत्रस्याप्ययमेवार्थ इत्यत्र हेतुत्वेनोक्तसूत्र व्याख्यामनुवदतिकर्मणेति । गवादिरूपकर्मणा यं ब्राह्मणादिकमभिसंबद्धुमिच्छति स संप्रदानभूतो विज्ञेय इत्यर्थः । लक्षणसमन्वयमाह-उक्तस्थल इति । उक्तस्थले = ' ब्राह्मणाय गां ददाति ' इत्यत्र । तस्य=ब्राह्मणस्य । 6 66 उक्तप्रतिपादनेन कर्मत्वसंप्रदानत्वयोर्विशेषो न प्राप्त इत्यभिप्रायेणाशङ्कते - अथेति । उक्त. संप्रदानत्वस्य कर्मत्वाविशेषमुपपादयति- कर्तुरित्यादिना | व्याप्तुम् = प्राप्तुम् । क्रियया व्यासुमिष्टस्य " इत्यस्यार्थमाह-क्रिययेति, तथा च क्रियाजन्यफलभागितयेच्छाविषयत्वमेव कर्मत्वं क्रियाजन्यफलभागितयेच्छाविषयत्वमेव च संप्रदानत्वमुक्तमिति कर्मत्वसंप्रदानत्वयोर्विशेषामावादैक्यं " Aho Shrutgyanam" Page #459 -------------------------------------------------------------------------- ________________ • संप्रदानत्वनिर्वचनम् ] sयुत्पत्तिवादः । ( ४४७ ) इत्यनेन क्रियाजन्यफलभागितयाऽनभिप्रेतस्यापि क्रियाजन्यफलाश्रयस्य कर्मसंज्ञाविधानात् कर्मत्वं क्रियाजन्यफलशालित्वमेव न त्विच्छागर्भम्- संप्रदानत्वं विच्छागर्भमतो भेद इति वाच्यम्, कर्मत्वस्येच्छयाऽघटितत्वे सूत्रभेदवैयर्थ्यांपत्तेः। न च फलाश्रयत्वेनानभिप्रेतस्यापि कर्मत्वे तत्साधारणक्रियाजन्यफलाश्रयतमेष्टस्थापि ग्रामादेः कर्मत्वोपपत्ताविच्छाघटिततत्सूत्रवैयर्थ्य दुर्वारमेवेति वाच्यम्, इच्छाघटितस्य निरुक्तरूपस्य यत्र बांधस्तत्र कर्मप्रत्ययेन तादृशमपि रूपं बोध्यते इत्येत्प्रतिपादनाय सूत्रद्वयप्रणयनात् । अत एव यत्रौदनस्य गलाघः संयोगेप्राप्तमित्यर्थः । ननु ' ग्रामं गच्छंस्तृणं स्पृशति' इत्यादौ तृणादीनामिच्छाविषयत्वाभावेपि कर्मत्वस्येष्टत्वात् कर्मत्वशरीरे इच्छानिवेशो नास्ति संप्रदानत्वशरीरे चेच्छानिवेशोस्तीति क्रियाजन्यफलशालित्वमात्रं कर्मत्वं क्रियाजन्यफलभागितयेच्छा विषयत्वं च संप्रदानत्वमित्येवमस्ति कर्मत्वसंप्रदानत्वयोर्विशेष इत्याशङ्क्याह--न चेति । परिहारमाह- कर्मत्वस्येति । यदि कर्मत्वशरीरे इच्छानिवेशो न स्यात्तदा कर्मसंज्ञाविधायकयोः " कर्तुरीप्सिततमं कर्म " तथायुक्तं इति सूत्रयोर्मध्ये एकस्य सूत्रस्य वैयथ्यं स्यात् - एकेनैव सूत्रेण ग्रामस्य तृणस्य च कर्मसंज्ञाप्राप्तिसंभवात्, न च सूत्रवैयर्थ्य युक्तम् ? तस्मात् कर्मत्वशरीरेपीच्छानिवेशोस्त्येव तथा च कर्तुरीप्सिततमं कर्म " इति सूत्रेण क्रियाजन्य फलाश्रयतयेच्छाविषयस्य ग्रामादेः कर्मसंज्ञा विधीयते, तथायुक्तं च " इत्यनेन चेच्छाया अविषयस्यापि क्रियाजन्यसंयोगादिरूपफला श्रयमात्रस्य तृणादेः कर्मसंज्ञा विधीयते इति विवेकः । तथा चोक्तरीत्या कर्मत्वसंप्रदानस्वयोस्तुव्यतापत्तिस्तदवस्थैवेत्यर्थः । 62 च " LL GA ननु यदि फलाश्रयत्वेनाऽनभिप्रेतस्यापि = क्रियाजन्यफलभागितयेच्छाया अविषयस्यापि तृणादेः कर्मत्वमिष्टमस्ति तदा तत्साधारणम् - तृणादिसाधारणं यत् क्रियाजन्यफलाश्रयत्वं तेन रूपेणेष्टस्य ग्रामादेरपि " तथायुक्तं च " इतिसूत्रेणैव कर्मत्वोपपत्तिः संभवतीति इच्छाघटितसूत्रस्य = " कर्तुरीप्सिततमं कर्म " इति सूत्रस्य वैयर्थ्य दुर्वारमेवेत्याशङ्क्याह-न चेति । परिहारमाह- इच्छाघटितस्येति, अयमर्थ:- " कर्तुरीप्सिततमं कर्म " इत्येतदिच्छाघटित सूत्राभावे तथायुक्तं चानीप्सितम् " इत्यनेन सूत्रेणानीप्सितस्य = क्रियाजन्यफलाश्रयतया इच्छाया अविषयस्यैव तृणादेः कर्मसंज्ञा स्यान्न त्विच्छाविषयस्य ग्रामादेरपीति ग्रामादेः कर्मसंज्ञाप्राप्त्यर्थम् कर्तुरीप्सिततमम् " इतीच्छाघटितसूत्रस्यावश्यकता । न चैवम् तथायुक्तं च" - इतिसूत्र वैयर्थ्यम्-" कर्तुरीप्सिततमम् " इत्यनेनैव सर्वत्र कर्मसंज्ञासंभवादिति वाच्यम्, इच्छाघटितस्य निरुक्तरूपस्य = क्रिया जन्यफलाश्रयतयेच्छाविषयत्वस्य यत्र = गुणादौ बाधस्तत्र तृणादौ कर्मप्रत्ययेन द्वितीयया तादृशमपि रूपम् = इच्छाविषयत्वरहितमपि कर्मस्वरूपं बोध्यते इत्येतत्प्रतिपादनाय = इच्छाविषयस्य ग्रामादेरिच्छाया अविषयस्य तृणादेश्व कर्मत्वप्रतिपादनाय कर्मसंज्ञाविधानाय वोक्तसूत्रद्वयं प्रणीतमस्ति - एकेन सूत्रेणोमयत्र कर्मसंज्ञायाः प्राप्तेरसंभवादिति । अत्र RS 6 "Aho Shrutgyanam" C Page #460 -------------------------------------------------------------------------- ________________ (४४८) सादर्श: [ चतुर्थीकारकेच्छया यो व्यापारस्ततो विषादेराप गलाधस्तंयोगस्तत्र विषादौ क्रियाजन्यफलशालिवाभावबाधेपि तेन रूपेणेच्छाविषयत्वाभावोऽवाधितस्तत्र 'विषमनेन न भुज्यते' इतिप्रयोगोपपत्तिः । इच्छायघटितकर्मत्वतात्पर्येण च 'देवाद्विषं भुज्यते ' इतिप्रयोगस्य चोपपत्तिः । न च धात्वर्थतावच्छेदकफलशालित्वेनोद्देश्यत्वं कर्मत्वं तदनवच्छेदकफल-. शालित्वेनोद्देश्यत्वं संप्रदानत्वमिति विशेषः, स्वस्वत्वध्वंसावच्छिन्नत्याग एव ददात्यर्थो न तु परस्वत्वरूपफलावच्छिन्नोपीति वाच्यम्, उपेक्षाया अपि ददातेर्मुख्यार्थतापत्तेः। च “ इच्छाघटितस्य " इत्येतत्पाठात्पूर्वमुक्तदिशेच्छाघटितसूत्रसार्थक्योपपादकग्रन्थोऽक्ष्यते मन्ये स लेखकप्रमादादेव भ्रष्ट इति । "इच्छाघटितस्य " इत्यस्य ‘इच्छया अघटितस्य । इतिव्यात्ययाप्युक्तस्येच्छाघटितसूत्रयर्यस्य परिहारो यद्यपि संमवति तथापि नायं पक्षः स्वरसः प्रतिभाति । सूत्रद्वयसार्थक्यमाह-अत एवेति, व्यापारः भोजनव्यापारः । यदौटनेन सहाऽज्ञातं. विषं भुज्यते तदा विषे भोजनरूपक्रियाजन्यस्य गलाघःसंयोगरूपफलस्य सत्त्वेन तादृशक्रियाजन्यतादृशफलशालित्वाभावस्याऽसत्त्वेपि तेन रूपेण-उक्तक्रियाजन्यफलशालिवरूपेणेच्छाविषयत्वस्याभावोस्त्येवेति तत्र विषे इच्छाघटितकर्मत्वस्य प्रतिषेधार्थम् ' विषमनेन न भुज्यते' इति प्रयोग उपपद्यते, इच्छाघटितकर्मत्वप्रतिपादकसूत्राभावे उक्तस्थले इच्छानिवेशरहितकर्मत्वस्य विषेपि सत्त्वेन कर्मत्वापत्त्या 'विषमनेन न भुज्यते' इति प्रयोगो नोपपद्यतेति इच्छाघटितकर्मत्वनतिपादकस्य "फर्तरीप्सिततमं कर्म " इतिसूत्रस्यावश्यकता, 'देवाद्विषं मुज्यते' इत्यत्रेच्छाविषयत्वहीनस्यापि विषस्य कर्मत्वोपपत्त्यर्थमिच्छाद्यऽघटितकर्मत्वप्रतिपादकस्य " तथायुक्तं च" इति सूत्रस्यावश्यकतेति सूत्रद्वयमेव सार्थकम् । प्रकारान्तरेण कर्मत्वसंप्रदानत्वयोर्भेदं पूर्वरक्ष्युपपादयति- न चेति, 'ग्रामं गच्छति । इत्यत्र संयोगानुकूलव्यापारो धात्वर्थ इति धात्वर्थतावच्छेदकीभूतसंयोगरूपफलशालित्वेनोद्देश्यत्वम् इच्छाविषयत्वं ग्रामस्यास्तीति ग्रामस्य कर्मत्वं प्राप्तम्, ‘ब्राह्मणाय गां ददाति । इत्यत्र स्वस्वस्वध्वंसानुकूलत्याग एव धात्वर्थो न तु स्वस्वत्वध्वंसपूर्वकपरस्वत्वानुकूलत्यागो येन धात्वर्थतावच्छेदकीभूतपरस्वत्वरूपफलशालित्वेनोद्देश्यस्य ब्राह्मणस्य कर्मत्वं स्यात् तथा च दाधात्वर्थताऽनवच्छेदकीभूतं यत् परस्वत्वरूपं फलं तादृशफलशालित्वेनोद्देश्यत्वाद् ब्राह्मणस्य संप्रदानवं प्राप्तम्- स्वत्वस्य निरूपकत्वसबन्धेन ब्राह्मणेपि सत्तादित्यर्थः । ब्राह्मणस्योक्ततप्रदानत्व. प्रतिपादनार्थ परस्वत्वस्य दाधात्वर्थतानवच्छेदकत्वमाह- न विति । परिहारमाह- उपेक्षाया इति, स्वस्वत्वध्वंसावच्छिन्नत्यागमात्रस्य ददात्यर्थत्वे उपेक्षाया अपि स्वस्वत्वध्वंसानुकूलत्यागरूप. त्वेन मुख्यं ददात्यर्थत्वं स्यात्. न चैतदिष्टमिति न स्वस्वत्वध्वंसानुकूलत्यागमानं ददात्यर्थः किं तु स्वस्वत्वध्वंसपूर्वकपरस्वत्वानुकूलत्यागो ददात्यर्थस्तथा च संप्रदानस्यापि धात्वर्थतावच्छेदकी-- भूतपरस्वत्यरूपफलशालित्वं प्राप्तमिति कर्मत्वसंप्रदानत्वयोर्विशेषाभावस्तदवस्थ एवेत्यर्थः । "Aho Shrutgyanam" Page #461 -------------------------------------------------------------------------- ________________ संप्रदानवनिर्वचनम् ] ध्युत्पत्तिकादः। (४४१) मैवम्- फलाश्रयतयेष्टत्वमेव हि कर्मत्वम्. फलसंबन्धितयेष्टत्वं संप्रदानत्वम्, ब्राह्मणादिश्च न त्यागजन्यस्वत्वाश्रयतया दातुरिष्टा, अपि तु तन्निरूपकतयैवाऽतो न तस्य कर्मता । न चाश्रयत्वमपि संबन्धविशेष इति गवादपि संप्रदानत्वं दुर्वारम्, आश्रयत्वेनाभिप्रायस्थले कर्मसंज्ञया बाधादन्य एव हि संबन्धः संप्रदानताघटक इति यद्युच्येत ? तदा 'वृक्षायोदकमासिञ्चति ' 'पत्मे शेते' इत्यादौ सेकजन्यजलसंयोग-शयनजन्यमीत्याद्याश्रयतयाभिप्रेतस्य वृक्षपत्यादेः संप्रदानत्वानुपपत्तिरिति वाच्यम्, धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नफलसंबन्धस्य संप्रदानत्वशरीरे निवेशेन सामञ्जस्यात् । 'वृक्षायोदकमासिश्चति ' इत्यादौ द्रवद्रव्यक्रियानु अथेत्यादिना शङ्कितं परिहरति- मैवमिति । कर्मत्वसंप्रदानत्वयोर्विशेषमाह- फलेति । यथा- 'प्रामं गच्छति । इत्यत्र क्रियाजन्यसंयोगरूपफलाश्रयतया ग्रामस्य कर्मत्वम्, 'ब्राह्मणाय गां ददाति ' इत्यत्र च ब्राह्मणस्य त्यागरूपक्रियाजन्यं यद् गोनिष्ठं स्वत्वरूपं फलं तत्संबन्धितया तादृशस्वत्वनिरूपकतयेष्टत्वमस्तीति संप्रदानत्वं प्राप्तमित्यर्थः । उपपादयति- ब्राह्मणादिश्चेति । तन्निरूपकतया त्यागजन्यस्वरवनिरूपकतया ब्राह्मणो दातुरिष्टः। तस्य ब्राह्मणस्य । ननु यदि " फलसंबन्धितयेष्टत्वं संप्रदानत्वम् " सदाऽऽश्रयत्वमपि संबन्धविशेष एवेत्यत्र फलाश्रयतयेष्टाया दानकर्मभूताया गोरपि फलसंबन्धितयेष्टत्वप्राप्त्या संप्रदानत्वं प्राप्तमित्याश ङ्कते-न चेति । नन्वाश्रयत्वस्य संबन्धविशेषरूपत्वेपि फलाश्रयत्वेनाभिप्रायस्थले संप्रदानसंज्ञापेक्षया परभूतया कर्मसंज्ञया संप्रदानसंज्ञाया बाधाद् गवादेः फलाश्रयत्वेनाभिप्रायविषयत्वात् कर्मसंज्ञव भवतीति न संप्रदानत्वापत्तिस्तथा च ब्राह्मणादीनां संप्रदानसंज्ञासिद्धयर्थं संप्रदानत्वशरीरघटकः संबन्ध आश्रयत्वसंबन्धापेक्षया मिन्न एवेत्युच्यते इत्याशङ्कते- आश्रयत्वेनेति । उक्त दोषमुद्घाटयति- तदेति, यदि संप्रदानत्वशरीरघटकः संबन्ध माश्रयत्वसंबन्धापेक्षया भिन्न एव तदा फलाश्रयतयाभिप्रेतस्य संप्रदानत्वं न स्यादिति ' वृक्षायोदकमासिञ्चतिः' इत्यत्र सेकक्रियाजन्यजलसंयोगरूपफलाश्रयतयाभिप्रेतस्य वृक्षस्य संप्रदानत्वं न स्यात् ' पत्ये शेते ' इत्यत्र च शयनजन्यप्रीत्याश्रयतयाभिप्रेतस्य पत्युः संप्रदानत्वं न स्यात्, न चैतदिष्टमिति न संप्रदानत्वशरीरघटकः संबन्धः भाश्रयत्वसंबन्धभिन्न एवेति युक्तं तथा चाश्रयत्वस्यापि संबन्धंविशेषरूपलात् फलाश्रयतयाभिप्रेताया गोरपि संप्रदानत्वं प्राप्तमेवेत्यर्थः। परिहारमाह- धात्वर्थतेति, धात्वर्थतावच्छेदकीभूतं यत् फलं तादृशफलाश्रयत्वापेक्षया भिन्नो यः फलसंबन्धस्तस्यैव संप्रदानत्वशरीरे निवेशोस्ति तथा च धात्वर्थतावच्छेदकीभूतत्यागजन्यस्वत्वरूपफलाश्रयतया गो: कर्मत्वमेव न तु संप्रदानत्वमित्यर्थः । ' वृक्षायोदकमासिञ्चति । इत्यादौ वृक्षादेः संप्रदानत्वमुपपादयति- वृक्षायेति, अत्र द्रवद्रव्यसमवेतक्षरणरूपक्रियानुकूलव्यापारो धात्वर्थोस्ति संप्रदानतानिर्वाहको यः खलु वृक्षसमवेतो जलसंयोगः स च नोक्तधात्वर्थतावच्छेदक इति तदा "Aho Shrutgyanam" Page #462 -------------------------------------------------------------------------- ________________ (४५०) सादरी: [ चतुर्थीकारककूलव्यापारो धात्वर्थ, संप्रदानतानिर्वाहकसंयोगश्च न ताशधात्वर्थतावच्छेदक इति तदाश्रयत्वं निरुक्ताश्रयताभिन्नमेवेति तत्प्रकारकाभिप्रायविषयवृक्षादे: संप्रदानतानिर्वाहात् । न च 'पत्ये शेते' इत्यादौ धात्वर्थतावच्छेदकफला प्रसिद्ध्या तदनुपपत्तिः- भेदप्रतियोगिप्रविष्टे धात्वर्थतावच्छेदके फलत्वानिवेशेन प्रसिद्धिसंभवात् । एवं च ब्राह्मणाय मां ददाति ' इत्यादी ब्राह्मणनिरूपितत्त्वेनेच्छाविषयगोनिष्ठस्वत्वजनकत्यागकर्तेति बोधः । निरूपितत्वेन कर्तुरिच्छाविषयत्वं द्वितीयान्तार्थगोवृत्तित्वान्वयिधात्वर्थतापच्छेदकस्वत्वान्वाये चतुर्थ्यर्थः, स्वत्वजनकत्यागश्च ददात्यः । अत्र केचित्- ददातियोगे धास्वर्थतावच्छेदकस्वत्वनिरूपकत्वमेव संप्रदानत्वं श्रयत्वम् उक्तजलसंयोगाश्रयत्वं निरुक्ताश्रयतामिन्नम् धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नमेवेति तप्रकारकाभिप्रायविषयस्य-धात्वर्थतानवच्छेदकीभूतजलसंयोगाश्रयत्वेनाभिप्रायविषयस्य वृक्षादेः संप्रदानत्वं युक्तमेव एवम्, ' पत्ये शेते ' इत्यत्र पतिवृत्तिः प्रीतिर्न धात्वर्थतावच्छेदकफलमिति तादृशधात्वर्थतानवच्छेदकीभूतप्रीतिरूपफलाश्रयत्वात् पत्युः संप्रदानत्वमित्यर्थः । “ धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नफलसंबन्धस्य " इत्यत्र 'धात्वर्थतावच्छेदकफलभिन्नफलस्य ' इत्येवं पाठो युक्तः, भेदस्य फलेनान्वयाभिप्रायात् । ‘ननूक्तप्रतिपादनेन 'धात्वर्थतावच्छेदकफलाश्रयत्वमिन्नफलसंबन्धितयेष्टत्वं संप्रदानत्वम् । इति प्राप्तं तत्र ‘पत्ये शते ' इत्यत्र धातोरकर्मकत्वेन धात्वर्थतावच्छेदकफलाऽप्रसिद्धया धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नफलस्याप्यऽप्रसिद्धस्तदनुपपत्तिः पत्युः संप्रदानत्वानुपपत्तिरित्याशङ्कयाहन चेति । उत्तरमाह- भेदेति,धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नफलसंबन्धितयेष्टत्वं संप्रदानत्वमिति नोच्यते येनोक्तदोषापत्तिः स्यात् किं तु धात्वर्थतावच्छेदकभिन्नफलाश्रयतयेष्टत्वं संप्रदानत्वमित्येवोच्यते तथा चाऽत्र धात्वर्थतावच्छेदकं यच्छयनत्वादिकं तद्भिन्नं यत् प्रीतिरूपमुक्तं फलं तदाश्रयत्वात् पत्युः संप्रधानत्वं युक्तमेवेत्यर्थः । ब्राह्मणाय गाम् ' इति वाक्याज्जायमानबोधस्वरूपमाह-- एवं चति । ब्राह्मणनिरूपितमिच्छाविषयीभूतं गोनिष्ठं यत्स्वत्वं तादृशस्वत्वजनकत्यागकर्तेत्यर्थः । चतुर्थ्यर्थमाह- निरूपितत्वेनेति, गामिति द्वितीयान्तार्थभूतं यद् गोवृत्तित्वं तदन्वयिगोवृत्तित्वान्वयि ( तादृशगोवृत्ति ) यद् धात्वर्थतावच्छेदकीभूतं स्वत्वं तादृशस्वत्वान्वयि यत् कर्तुरिच्छाविषयत्वम्-दानकर्तुः स्वत्वविषयकेच्छाविषयत्वं तदेव चतुर्थ्यर्थः, निरूपितत्वेनेत्यस्य ब्राह्म गनिरूपितमित्यर्थः । धात्वर्थमाह- स्वत्वजनकेति । तथा चात्र ब्राह्मणस्य धात्वर्थतानबच्छेदकीभूतोक्तेच्छाश्रयत्वात्संप्रदानत्वम् , गोश्च धात्वर्थतावच्छेदकीभूतस्वत्वाश्रयतया कर्मत्वमिति बोध्यम् । मसान्तरमनुवदति- अत्रेति, ददातियोगे= ब्राह्मणाय गां ददाति । इत्यादी स्वस्वत्वबंस "Aho Shrutgyanam Page #463 -------------------------------------------------------------------------- ________________ संप्रदानत्वनिर्वचनम् ] व्युत्पत्तिवादः । ( ४५१ ८८ 57 तदेव मुख्यं तथा च तत्र निरूपितत्वमात्रं चतुर्थ्यर्थो धात्वर्थतावच्छेदकस्वत्वेइन्देति, अत एव श्राद्धस्य पित्रपेक्षया यागत्वमेव दानत्वं तु ब्राह्मणापेक्षया " इति शूलपाणिः । तत्र त्यज्यमानेऽन्ने पितॄणां स्वत्वामुत्पत्या संप्रदानत्वासंभवात् । स्वत्वभागित्वेनोद्देश्यत्वं यदि संप्रदानत्वं स्यात्तदा पितॄणामपि तथात्वाक्षतेः पित्रापेक्षयापि दानत्वं स्यात्, न हि श्राद्धे पितॄणां स्वत्वभागित्वेन नोहेइयत्वम् - " पितरेतत्तेऽन्नं स्वधा इत्यादिश्राद्धरूपत्यागाभिलापस्वधार्थे त्यागे चतुर्थ्याः स्वत्वभागित्वेन पित्रादेरुद्देश्यत्वबोधकत्वात् । स्वत्वभागित्वेनोद्देश्यभूतस्यापि पित्रादेः स्वीकाराभावान्न स्वत्वम्, ब्राह्मणानां तत्रानुद्देश्यत्वेपि स्वत्वं पूर्वकपरस्वत्वानुकूलस्त्यागो दाधात्वर्थस्तत्र धात्वर्थतावच्छेदकं यत् परस्वत्वं तन्निरूपकत्वं ब्राह्मस्तीति तदेव स्वत्वनिरूपकत्वं मुख्यं संप्रदानत्वम् उक्तधात्वर्थतावच्छेदकस्वत्वे यद् ब्राह्मणनिरूपितत्वमस्ति तदेव चतुर्थ्यर्थस्तस्य च स्वत्वे आश्रयतासंबन्धेनान्त्रय इत्यन्वयः । उक्ते प्रमामाह - श्राद्धस्येति, अत एव = यत एव धात्वर्थतावच्छेदकस्वत्वनिरूपकत्वमेव संप्रदानत्वमत एव श्राद्धस्य पित्रपेक्षया यागत्वमेव न तु दानत्वं पितॄणां स्वत्वनिरूपकत्वाभावात् : श्राद्धस्य दानत्वं तु ब्राह्मणापेक्षयैव ब्राह्मणस्यैव स्वत्वनिरूपकत्वेन तत्र संप्रदानत्वात् । उक्ते हेतुमाह-तत्रेति, तत्र=श्राद्धे न्यज्यमानेऽन्ने पितॄणां स्वत्वं नोत्पद्यते तत्स्वीकाराभावादिति न पितॄणां संप्रदानत्वं संप्रदानत्वाभावाच न पित्रपेक्षया श्राद्धस्य दानत्वभित्यर्थः । विपक्षे बाधकमाहस्वत्वमागत्वेनेति, यदि स्वत्वभागित्वेनोद्देश्यत्वं संप्रदानत्वं स्यात्तदा पितॄणामपि तथात्वाऽक्षतेः श्राद्धे स्वत्वमागित्वेनोद्देश्यत्वस्य सत्त्वेन संप्रदानत्वप्राप्तत्या पित्रपेक्षयापि श्राद्धस्य दानत्वं स्यादेव, श्राद्धे पितॄणां स्वत्वभागित्वेनोद्देश्यत्वं व्यतिरेकमुखेनाह- न हीति । श्राद्धे पितॄणां स्वत्वभागित्वेनोद्देश्यत्वे प्रमाणमाह- पितरेतदिति, श्राद्धमपि त्याग एव स्वधाशब्दार्थोपि एवेति श्राद्धरूपत्यागस्याभिलापरूपो यः स्वधेतिशब्दस्तदर्थभूते त्यागे ते इतिचतुर्थी पितॄणां स्वत्वमागत्वेनोद्देश्यत्वं बोधयतीति श्राद्धे पितृणामपि स्वत्वमागित्वेनोद्देश्यत्वस्य सत्त्वात् संप्रदानत्वं स्यात् संप्रदानत्वाच्च पित्रपेक्षवापि श्राद्धस्य दानत्वं स्यात् न च पित्रपेक्षया श्राद्धस्य दानत्वमिष्टमिति न स्वत्वमागित्वेनोद्देश्यत्वं संप्रदानत्वं किं तु स्वत्वनिरूपकत्वमेव संप्रदानत्वमित्यर्थः । ननु श्राद्धे पितॄणां स्वत्वनिरूपकत्वमेव कथं नेत्याशङ्क्याह-- स्वत्वभागित्वेनेति यः खलु स्वीकरोति तस्यैव स्वत्वमुत्पद्यत इति तस्यैव स्वत्वनिरूपकत्वं भवति न खलु पितरः श्राद्धानं स्वीकुर्वन्तीति न पितॄणां स्वत्वं न च स्वत्वनिरूपकत्वं स्वत्वनिरूपकत्वाभावाच न संप्रदानत्वम् । ब्राह्मणानां च तत्र श्राद्धे उद्देश्यत्वाभावेपि पित्रुदेश्वत्वेन त्यक्तं द्रव्यं ब्राह्मणाय दीयते इति तादृशप्रतिपत्तिभूतदानात् स्वत्वं जायते स्वत्वोत्पत्त्या स्वत्वनिरूपकत्वं स्वत्वनिरूपकत्वाच्च संप्रदानत्वं तथा च ब्राह्मणापेक्षया श्राद्धस्य दानत्वम् । अप्रधानं कर्म प्रतिपत्तिरित्युच्यते इतिमीमांसाशास्त्रे द्रष्टव्यम् । ननु ब्राह्मणानामनुद्देश्यत्वे कथं संप्रदानत्वं स्यादित्या त्याग 7 "Aho Shrutgyanam" Page #464 -------------------------------------------------------------------------- ________________ (४५२) सादर्श: [ चतुर्थीकारकेमंतिपत्तितो जायते । अनुद्देश्यत्वेपि च संप्रदानत्वमुपपादितमेव । पितृणामिक बाह्मणानामाप च स्वत्वभागित्वेनोद्देश्यत्वमप्यविरुद्धम् ।। · धात्वर्थतानवच्छेदकफलभागितया यत्र संप्रदानत्वम् ' वृक्षायोदकं सिञ्चति' पत्ये शेते' इत्यादौ तत्रोद्देश्यत्वांशनिवेश आवश्यकः- यत्रान्योद्देशेन क्षिप्तजलस्य दैवाद् वृक्षसंयोगोऽन्योद्देशेन शयनादितश्च पत्यादेः फलसंबन्धस्तत्र तथाप्रयोगविरहात् । अत एव तत्र चतुर्थ्यर्थः स्वनिष्ठतया कत्रभिप्रेततत्फलं प्रति जनकत्वं तच्च सेकादिक्रियायामन्वेति, भाक्तं च तत्र संप्रदानत्वम्- उद्देश्यत्वागर्भसंप्रदानत्वे एव लाघवाच्छक्तेः, इतरत्र लक्षणाया अभ्युपगमात् । 'पितृभ्यो दद्यात्' इत्यादावनिर्धारितकर्तृकसंप्रदाने चतुर्थी तत्त्वं च तत्र त्यागजन्यस्वत्वभागितयोदश्यत्वमेवः। शक्याह- अनुद्देश्यत्वेपीति, उपपादितमिति- :स्वत्वनिरूपकत्वमेव संप्रदानत्वं न तु स्वत्वमागित्वेनोद्देश्यत्वम् अस्ति च श्राद्धद्रव्यनिष्ठस्वत्वस्य निरूपकत्वं ब्राह्मणानां स्वीकर्तृत्वादिति युक्तं संप्रदानत्वम् । पक्षान्तरेण श्राद्धे ब्राह्मणानामपि स्वत्वभागित्वेनोद्देश्यत्वमाह- पितृणामिति, तथा च ब्राह्मणानामपि स्वत्वभागित्वेनोद्देश्यत्वात् संप्रदानत्वं प्राप्तमेवेत्यर्थः । मुख्यं संप्रदानत्वमुक्त्वा माक्तमाह- धात्वर्थतेति, ' वृक्षायोदकमासिञ्चति । इत्यत्र द्रवद्रव्यक्रियानुकूलव्यापार एव धात्वर्थ इति वृक्षवृत्तिजलसंयोगो न धात्वर्थतावच्छेदक इति ताहशधात्वर्थतानवच्छेदकीभूतसंयोगरूपफलभागितया संप्रदामत्वमिष्टमस्तीति तत्रोद्देश्यत्वनिवेश आवश्यक एव तथा च धात्वर्थतानवच्छेदकफलमागितयोद्देश्यत्वं संप्रदानत्वमित्येव वक्तव्यम्. अस्ति चात्र तादृशजलसंयोगरूपफलगितयोद्देश्यत्वं संप्रदानभूतवृक्षस्य 'पत्ये शेते ' इत्यत्र च तादृशप्रीतिरूपफलमागितयोद्देश्यत्वं संप्रदानभूतपत्युः । उद्देश्यत्वांशनिवेशस्यावश्यकत्वे हेतुमाह- यत्रेति । तथाप्रयोगविरहात्='वृक्षायोदकमासिञ्चति ' 'पत्ये शेते । इत्यादि प्रयोगाभावात् । यद्यत्रोद्देश्यत्वनिवेशो न स्यात्तदाऽन्योद्देशेनापि क्षिप्तजलस्य दैवाद् वृक्षसंयोगे जाते , वृक्षायोदकमासिञ्चति' इति प्रयोगः स्यादेव न चैतदिष्टम् , उद्देश्यत्वनिवेशे कृते तु तत्र वृक्षस्य जलसंयोगभागितयोद्देश्यत्वाभावान्न तथाप्रयोगापत्तिरित्यर्थः । अत एवेति- उद्देश्यत्वांशनिवेशादेव यत्र वृक्षोद्देशेन जलः क्षिप्यते तत्र ' वृक्षायोदकमासिञ्चति' इति प्रयोगो भवति तत्र स्वनिष्ठतया चतुर्थ्यन्तार्थभूतवृक्षनिष्ठं यत् कर्मभिप्रेतम् सेकक्रियाकभिप्रेतं जलसंयोगरूपं फलं तज्जनकत्वमेव चतुर्थ्यर्थः, तच्च जनकत्वं सैकक्रियायामस्ति, अत्र च वृक्षकर्तृकस्वीकाराभावाद् भाक्तमेव संप्रदानत्वमित्याह- भाक्तमिति । एतत्संप्रदानत्वस्य भाक्तत्वे हेतुमाहउद्देश्यत्वेति, उद्देश्यत्वागर्भसंप्रदानत्वं हि स्वस्वनिरूपकत्वरूपं पूर्वमेवोक्तम् । इतरत्र' वृक्षायो. दकम् ' इत्यादिस्थले वृक्षादिनिष्ठे उद्देश्यत्वगर्भसंप्रदानत्वे लक्षणायाः चतुर्यो लक्षणायाः । "पितृभ्यो दद्यात् " इत्यादि चनस्य सामान्यतः प्रवृत्तत्वेन दानव-तुर्विशेषतो निर्धारणाभा "Aho Shrutgyanam" Page #465 -------------------------------------------------------------------------- ________________ संप्रदानत्त्रनिर्वचनम् ] व्युत्पत्तिवादः। (४५३ अथ यत्र : जनान्तरस्य वृक्षादिनिष्ठजलसंयोगादिरिच्छाविषयोऽन्येन च जनेनाऽन्योद्देशेन क्षिप्तजलादेवृक्षादिसंयोगस्तत्रापि — वृक्षायोदकमासिञ्चति जनः' इत्यादिप्रयोगापत्तिः-तत्तद्व्यक्तित्वस्य पदेनानुपस्थानात्. तेन रूपेण विशेष्यभू. तकर्तृव्यक्तीनामिच्छांशे भानासंभवाद् उपस्थितजनत्वावच्छिन्नेच्छाविषयत्वस्य च वृक्षसंयोगादावऽवाधात् । एवं तदीयकालान्तरीणेच्छामादायाप्यतिग्रसङ्गतादेवस्थ्यमिति चेत् ?, न-वृक्षादिनिष्ठत्वेनेच्छैव हि चतुर्थ्यन्तार्थस्तस्याश्च स्वविषयसंयोगादिजनकत्वस्वजन्यत्वोभयसंबन्धेन सेकादिक्रियायामन्यः, उक्तस्थले च यक्रियाव्यक्त्या जलसंयोगादिवृक्षादौ जन्यते तत्र कालान्तरीणपुरुषान्तरीणेच्छायाः स्वविषयसंयोगादिजनकत्वसंबन्धसत्त्वेपि स्वजन्यत्वाभावान्नोभयसंबन्धेनेच्छावैशिष्टयमित्य योग्यतैवेति वदन्ति । बात्=अभिलापाभावादत्रानिर्धारितकर्तृकसंप्रदाने-अनिर्धारितः कर्ता यस्य दानस्य तादृशदाननिरूपितसंप्रदाने चतुर्थी ।:तत्त्वम्-संपदामत्वम् । ___ ननु यदा कस्यचित् जनस्य ' वृक्षस्य जलसंयोगो भवतु । इत्याकारिकेच्छा स्याद् अन्येन च जनेनान्योद्देशेन क्षिप्तजलस्य वृक्षसंयोगो जातस्तत्रापि वृक्षस्य जनत्वावच्छिन्नसमवेतेच्छाविषयसंयोगरूपफलभागितयोद्देश्यत्वात् ' वृक्षायोदकमासिञ्चति । इतिप्रयोग आपघेतेत्याशडकते-अथेति । उपपत्तिमाह-तत्तद्व्यक्तित्वस्येति, जनादिपदेन देवदत्तादितत्तव्यतीनामुपस्थितिरेव न भवतीति तेन-तत्तद्व्यक्तित्वेन रूपेण विशेष्यभूतकर्तृव्यक्तीनाम् सेकादिकर्तृव्यक्तीनामिच्छांशे इच्छासमवायित्वेन भानासंभवात्, उपस्थितं च यज्जनत्वावच्छिन्नेच्छाविषयत्वं तस्य तु वृक्षनिष्ठजलसंयोगे बाधो नास्त्येव जलसंयोगस्य किंचिजनेच्छाविषयत्वादेव, एवं पूर्वकाले ' वृक्षस्य जलसंयोगो भवतु ' इतीच्छा जाता कालान्तरे तेनैव जनेनान्योद्देशेन क्षिप्तजलस्य वृक्षसंयोगे जाते तादृशजलवृक्षसंयोगस्यापि पूर्वकालिकेच्छाविषयत्वसंभवात् 'वृक्षाथोदकमासिञ्चति । इतिप्रयोगः स्यादित्याह-एवमिति । परिहरति-नेति, — वृक्षायोदकम् । इत्यत्र वृक्षोदकसंयोगस्येच्छाविषयत्वाद् वृक्षस्थापीच्छाविषयत्वं प्राप्तं सा चेच्छा विषयतासंबन्धेन वृक्षे वर्तते इति वृक्षनिष्ठत्वेन वृक्षनिष्ठा सेच्छेव — वृक्षाय ' इति चतुर्थ्यन्तपदस्यार्थस्तस्याथेच्छायाः स्वविषयसंयोगादिजनकत्वस्वजन्यत्वैतदुभयसंबन्धेन सेकक्रियायामन्वयः क्रियते स्वम्इच्छा । तथा च यत्र तेनैव जनेन बुद्धिपूर्वकं जलस्य वृक्षसंयोगेच्छयोदकमासिध्यते तत्र स्वमिच्छा तद्विषयो यो वृक्षजलसंयोगस्तजनकत्वमपि सेकक्रियायां भवति स्वमिच्छा तज्जन्यत्वमपि सेकक्रियायां भवति तादृशसेकक्रियाया उक्तेच्छाजन्यत्वादेवेति स्वविषयसंयोगजनकत्वस्वजन्यत्वेतदुभयसंबन्धेनेच्छायाः सेकक्रियायामन्वयस्य संभवात् ' वृक्षायोदकमासिञ्चति । इतिप्रयोगो भवति, उक्तानिष्टस्थले च यत्सेकक्रियाव्यतया जलसंयोगो वृक्षे जायते तत्रतत्सेकक्रियाव्यक्ती उक्तकालान्तरीणेच्छायाः पुरुषान्तरीणेच्छायाश्च स्वविषयसंयोगजनकत्वसंबन्धेनान्वयसंभवेपि तत्से "Aho Shrutgyanam" Page #466 -------------------------------------------------------------------------- ________________ (४५४) [चतुर्थीकारके अत्रेदं सोम-उद्देश्यत्वाऽगर्भस्थैव त्यागजन्यस्वत्वभागित्वस्य ददातिसं. प्रदानतालपत्वे चैत्राकोदेशेन यदत्तं बत्र तादृशदानेन “ दम्पत्योर्मध्यगं धनम् " इत्यास्वत्पल्या अपि स्वत्वस्य प्रामाणिकतया संप्रदानत्वेन 'चैत्रपत्न्यै दत्तम्' इति व्यवहारापत्तेः । न च पत्युः स्वत्वमेव पत्नीस्वत्वं जनयति न तु तत्सामीति वाच्यम्, स्वत्ववति स्वत्वान्तरानुत्पत्तेः, तथा च सर्वत्रैवोद्देश्यत्वान्तर्भावः । भवतु च " पितृभ्यो दद्यात " इत्यत्रापि मुख्यमेव संग्रदानत्वं चतुर्थ्यर्थः। ___ अस्तु वा स्वस्वत्वेच्छाधीनतत्कत्वमेव मुख्यं दानक्रियासंप्रदानत्वं पितृस्वत्वाप्रसिद्धया न तेषां संप्रदानत्वम् । चतुर्थ्यर्थों धात्वर्थतावच्छेदकस्वत्वान्वयि कक्रियाव्यक्तेरुक्तकालान्तरीणपुरुषान्तरीणेच्छाजन्यत्वाभावात् स्वजन्यत्वसंबन्धेनान्वयाऽसंभवानोक्तानिष्टस्थले ' वृक्षायोदकमासिञ्चति । इति प्रयोगापत्तिः । एवं शयनक्रियायामपि स्वविषयप्रीतिजनकत्वस्वजन्यत्वेतदुभवसंबन्धेन चतुर्थ्यन्तार्थेच्छाया अन्वयमुपगम्योक्तातिप्र. सगो वारणीयः । उद्देश्यत्वनिवेशरहिते स्वत्वनिरूपकत्वरूपे संप्रदानत्वे दोषमुद्घाटयति-अत्रेदमित्यादिना, यद् धनं केवलं चैत्राय दत्तं सत्र यथा चैत्रस्य स्वत्वं तथा चैत्रपल्या अपि स्वत्वस्य जायमानत्वात संप्रदानत्वशरीरे उद्देश्यत्वनिवेशाभावाच यथा ' चैत्राय दत्तम् ' इति व्यवहारो भवति तथा 'वैत्रघरम्यै दत्तम् । इत्यपि व्यवहारः स्यात् " दम्पत्योर्मध्यगं धनम्" इतिप्रमाणेन देवतत्पल्योरुभयोरपि स्वत्वनिरूपफत्वसाम्यादित्यर्थः । ननु चैत्रस्वत्वमेव चैत्रपन्याः स्वत्वमुत्पादयति न तु तत्सामग्री-चैत्रस्वत्योत्पादिका दानादिसामग्रीति दानस्य चैत्रपत्नीस्वत्वानुत्पादकत्वादेव ' चैत्रपत्न्यै दत्तम् । इतिव्यवहारापत्तिरुक्तस्थले नास्तीत्याशङ्कयाह-न चेति । परिहारमाह-स्वत्ववतीति । तथा च " दम्पत्योर्मध्यगं धनम्" इतिप्रमाणेन दानक्रियया दम्पत्योरेकदेव स्वत्वमुत्पद्यते इति स्वीकार्य तथा च. चैत्राय दत्ते चैनपल्या अपि स्वत्वस्य जातपात् चैत्रपल्ये दत्तम् । इति व्यवहारः स्यादेव न चैतदिष्टमिति सर्वत्रैव संप्रदानत्वशरीरे उद्देश्यत्वनिवेशः कर्तव्यस्तथा चोक्तस्थले चैत्रपन्या उद्देश्यत्वाभावात् 'चैत्रपल्यै दत्तम् । इति व्यवहारापत्तिर्नास्त्येवेत्यर्थः । नन्वेवं यदि सर्वत्रैव संप्रदानत्वशरीरे उद्देश्यत्वनिवेशः स्यासदा मुख्यसंप्रदानस्वेप्युद्देश्यत्वनिवेशात् “ पितृभ्यो दद्यात् " इत्यत्र पितॄणामप्युद्देश्यत्वान्मुख्यमेव संप्रदानत्वं स्यादित्याशङ्क्योक्तं स्वीकरोति-भयतु चेति । पक्षान्तरमाह-अस्तु वेति । प्रथमस्वपदस्येच्छयान्वयः-स्वकीया या स्वत्वेच्छा परस्वत्वेच्छा सदधीनं यत तत्कत्वम् पूर्वोक्तं स्वत्वनिरूपकत्वं तदेव दानक्रियाया मुख्यं संप्रदानत्वं यथा गोनिष्ठस्वत्वस्य ब्राह्मणो निरूपको भवतु इत्याकारकेच्छाधीनं स्वस्वनिरूपकत्वं चैत्रादेरेवोक्तस्थले मवति न तत्पल्याः -'चैत्रपल्या इदं भवतु' इत्याकारकप्रधानेच्छाया अभावादिति न तत्र चैत्रपरल्यै "Aho Shrutgyanam" Page #467 -------------------------------------------------------------------------- ________________ संप्रदानत्व निर्वचनम् ] व्युत्पतिः । ( ४५५ ) CL निरूपितत्वम् स्वत्वस्य च स्वस्वत्वध्वंसेच्छारूपे त्याने स्वजनकत्वस्वेच्छाधीनत्वोभयं संबन्धः, तल्लाभश्च विशिष्टस्य धातुशक्यतामते शक्तित एव तदन्तर्भा वेनैव शक्तयुपगमात् । फलव्यापारयोः पृथग् धात्वर्थतामते आकाङ्क्षावलादेव तादृशसंबन्धलाभः | पितृभ्यो दद्यात् इत्यत्र च चात्यर्थान्तर्गस्वत्वे चतुर्थ्या पित्राद्यन्वयी निरूपितत्वरूपो मुरूयो बाधितत्वान्न प्रत्याय्यते. अपि तु निरूपितत्वे नेच्छाविषयत्वरूपो लक्ष्यार्थ एव, ददातिस्तु तत्र मुख्य एव श्राद्धस्यापि ब्राह्मणापेक्षया दानत्वात् । " श्राद्धे ब्राह्मणस्य संप्रदानतानिर्वाहायाऽस्ति चोद्देश्यतापि ब्राह्मणस्य " इत्यादिकमभिधानस्य शूलपाणेरपि संप्रदानत्वशरीरे उद्देश्यत्वांशापरित्यागे निर्भरोऽवगम्यते, कर्मणा यमभिप्रैति ” इति प्रणयतो महर्षेः पाणिनेपेि संमतोयमर्थः । " शत्रवे भयं ददाति " इत्यादौ जनयतीति भाक्तोर्थः एव चोत्पादकव्यापाररूपे धात्वर्थे भयरूपं कर्म तद्योगितयोद्देश्यत्वाच्छ्रुत्वादेः संप्रदानत्वम् । 17 दत्तम् ' इति व्यवहारापत्तिरिति भावः । स्वत्वान्वयि = स्वत्वनिष्ठम् । त्यागो हि स्वस्वत्वध्वंसेच्छारूप एव तादृशत्यागस्य ब्राह्मणस्वत्व जनकत्वमप्यस्ति तादृशस्वत्वेच्छाधीनत्वमप्यस्ति - तादृशस्वत्वोस्पत्तीच्छयैव व्यागस्योत्पत्तेरिति स्वत्वस्य = ब्राह्मणस्वत्वस्य त्यागे स्वजनकत्वस्वेच्छाधीन स्वैतदुभयसंबन्धेनान्वय इति नोक्तस्थले ' चैत्रपल्यै दत्तम् इतिप्रयोगापत्तिः । तल्लाभः = उक्तसंबन्धप्र तीतिः । विशिष्टस्य = खजनकत्वस्वेच्छाधीनत्वैतदुभयसंबन्धेन स्वत्वविशिष्टत्यागस्य । फलब्यापारयोः=श्यागरूपव्यापारे स्वत्वरूपफले च । तादृशसंबन्धकामः स्वजनकत्वस्वेच्छाधीनत्यैतत्संघन्वप्रतीतिः । अस्मिन् पक्षे " पितृभ्यो दद्यात् " इतिवाक्यस्य गतिमाह- पितृम्य इति, दीयमानद्रव्ये पितॄणां स्वत्वं नोत्पद्यते स्वीकाराभावादिति तादृशस्वत्वे पितृनिरूपितत्वं नास्त्येवेति बाधितमेव किं तु निरूपितत्वेनेच्छाविषयत्वमेव पित्रान्वयिस्वत्वे चतुर्थ्या प्रत्याय्यते तच चतुर्थ्या लक्ष्यार्थ एव न मुख्यार्थ इत्यर्थः । श्राद्धस्य ब्राह्मणापेक्षया तु दानत्वं मुख्यमेवेति तत्र - " पितृभ्यो दद्यात् " इत्यत्र ददातिस्तु मुख्यार्थ एवेत्याह- ददातीति । संप्रदानस्वशरीरे उद्देश्यत्व निवेशे शूलपाणेरप्यनुमितिमाह श्राद्धे इत्यादिना । पाणिन्यनुमितिमाहकर्मणेति । अयम् = उद्देश्यत्वनिवेशः । " अभिप्रेति ” इति सूत्रस्थपदेन संप्रदानभूतब्राह्मणादेरुदेश्यत्वं प्राप्तम् - अभिप्रायविषयत्वस्योद्देश्यत्वरूपत्वात् " अभिप्रेति " इत्यनेनाभिप्रायविषयत्वस्य प्राप्तत्वादित्यर्थः : । } प्रयोगान्तरमुदाहरति-- शत्रव इति, ' भयं ददाति इत्यस्य ' भयं जनयति' इत्यर्थः । उत्पादकव्यापाररूपे==जनयतीत्युत्पत्त्यनुकूलव्यापाररूपे धात्वर्थे धात्वर्थस्य भयमेव कर्म ता कर्मभूतभययोगितयोद्देश्यत्वाच्छत्रोः संप्रदानत्वमित्यर्थः । "Aho Shrutgyanam" Page #468 -------------------------------------------------------------------------- ________________ ( ४५६ ) [ चतुर्थी कारके ८८ L युद्धाय संनह्यते ' इत्यादौ संनहनादिक्रियाजन्यफलाऽसंबन्धाद् युद्धादेर्न संप्रदानता निर्वाह इति नेयं संप्रदानचतुर्थी. अपि तु ' एधानाहर्तुं व्रजति इत्यर्थे ' एघेभ्यो व्रजति ' इत्यत्रेव ' युद्धं कर्तुं सोढुं वा संनह्यते ' इत्यर्थविवक्षया क्रियार्थोपपद " इति सूत्रान्तरेण तस्य च स्थानिनोऽश्रूयमाणस्य क्रियार्थोपपदस्य तुमुन्नन्तधातोः कर्मणि - स्वार्थनिष्ठ कर्मत्वे विवक्षिते स्वोत्तरं चतुर्थी' इत्यर्थस्तथा चाऽऽहरणकरणसहना युद्देश्यकत्वं तादृशचतुर्थ्यर्थ्य इत्यवधेयम् । अथ " यदग्नये च प्रजापतये च सायं जुहोति इत्यादावग्न्यादेवि " सर्वभूतेभ्य उत्सृष्टं मयैतज्जलमूर्जितम् इत्यादौ सर्वप्राणिनामिव च "पशुना रुद्रं यजते" इत्यादावपि त्यागविशेषरूपक्रियायां रुद्रादेरानराकर्तृसंप्रदानत्वं दुर्वारमिति तत्रापि चतुर्थी स्यादिति चेत्, न - गौरवितप्रीतिहेतुक्रिया 77 17 तादर्श: 6 " 1 प्रयोगान्तरमुदाहरति--- युद्धायेति, संनहनादिक्रियाजन्यफलस्य जयादिरूपस्य जनके युद्धे निरूपकत्वादिरूपः संप्रदानस्वनिर्वाहकः संबन्धो नास्तीति न युद्धस्य संप्रदानत्वमिति न युद्धपदोत्तरचतुर्थी संप्रदानचतुर्थी किंतु " क्रियार्थोपपदस्य च कर्मणि स्थानिनः " इति सूत्रेणायैव चतुर्थीत्यर्थः । अत्रोदाहरणमाह- एधानिति । एधान् = काष्ठानि । उक्तसूत्रस्यार्थमाहतस्येति, यथा ' एघानाहर्तुं व्रजति ' इत्यत्र ' आहर्तुम् ' इति तुमुन्नन्तधातुरेव स्थानी व्रजतीतिक्रियार्थोपपदं चास्ति नाम माहरणादिक्रियार्था या व्रजनादिक्रिया तद्बोधक जतीत्यादिक्रिया - पदमुपपदं यस्यास्ति स च तुमुन्नन्तधातुः ' एधेभ्यो व्रजति ' इत्यत्र श्रूयमाणं नास्तीन शतुमुन्नन्तधातोः कर्मणि= कर्मभूतेष्वेधेषु स्त्रार्थनिष्ठ कर्मत्वे घनिष्ठ कर्मत्वे विवक्षिते स्वोत्तरम्== एधपदोत्तरं चतुर्थी स्यादित्यनेन ' एधेभ्यो व्रजति ' इति सिद्धम् एवमेव ' युद्धाय मनह्यते इत्यत्रापि चतुर्थी ज्ञेया । अत्रत्यचतुभ्यर्थमाह- तथा चेति, 'फलान्याहर्तुं व्रजति- फलेम्यो व्रजति ' इत्यत्राहरणोद्देश्यकत्वम्, 'युद्धं कर्तुं संनह्यते-- युद्धाय संनह्यते ' इत्यत्र क णोद्देश्यकत्वम्, 'युद्धं सोढुं संनह्यते - युद्धाय संनह्यते ' इत्यत्र सहनोद्देश्यकत्वं चतुर्थ्यर्थम्त व्रजनादिव्यापारेऽन्वपस्तथा च ' एधाहरणोद्देश्यकत्रजनानुकूलकृतिमान् ' युद्ध सहनोद्देश्यकसंनहनानुकूलकृतिमान् ' इत्यादिः शाब्दबोधः । उद्देश्यत्वं च फलाहरणादीनां प्राप्तम् । . शङ्कते - अधेति, संप्रदानत्वं द्विविधं भवति स्वीकर्तृसंप्रदानत्वमनिराकर्तृसंप्रदानत्वं च तत्र " दीयताम् ' इत्यादियाचनासंभवात् ब्राह्मणादीनां स्वीकर्तृसंप्रदानत्वम् 'सूर्याया ददाति इत्यादौ ' दीयताम् ' इत्यादिरूपायाः सूर्यादिकर्तृकपाचनाया असत्त्वेपि सूर्येण < मा दीयताम्' इत्यादिरूपो निराकारः = परिहारोपि न क्रियते इति तत्र सूर्यस्याऽनिराकर्तृसंप्रदानत्वम् एवम् यदनये " इत्यादावग्न्यादिकर्तृकपरिहाराभावाद् यथाम्यादेरनिराकर्तृ संप्रदानत्वं यथा च सर्वभूतेभ्यः " इतितडागोत्सर्गवाक्ये सर्वभूतानाम निराकर्तृ संप्रदानत्वं तथा << 66 66 "Aho Shrutgyanam" 7 पशुना रुद्र यजते " इत्यत्र रुद्रकर्तृकपशुकर्मकत्यागविषयकस्य " मह्यं पशुर्न देयः " इत्यादिरूपस्य परिहारस्याभाषाद् रुद्रस्यानिराकर्तृसंप्रदानत्वं किं न स्थात् १ प्राप्ते च संप्रदानत्वे Page #469 -------------------------------------------------------------------------- ________________ दाधातुघटितप्रयोगाः ] व्युत्पत्तिवादः । ( ४५७ ) यज्य येस्तदर्थतावच्छेदकफलं प्रीतिस्तदाश्रयतया रुद्रस्य विवक्षितत्वात् कर्मसंज्ञकत्वेन द्वितीयैव न तु चतुर्थी, त्यागात्मकताहशक्रियायां निरुक्ताऽनिराकर्तृसंप्रदानत्वे सत्यपि तदविवक्षणात् । प्रीतिभागितयोद्देश्यत्वरूपसंप्रदानत्वविवक्षायां च 'रुद्राय यजते ' इत्यपि प्रयोगः । उभयविवक्षायां परत्वेन कर्मसंज्ञया बाधाद् द्वितीयैव । जुहोत्युत्सृजत्यादेः प्रीतिरूपफलावच्छिन्नत्यागाऽबोध कतया त्यागरूपक्रियाजन्यप्रीतिभागिनो देवतादेस्तत्कर्मताविरहान्नैव 'प्रजापति जुहोति' 'भूतान्युत्सृजति ' इत्यादयः प्रयोगाः । रजकस्य वस्त्रं ददाति ' इत्यत्र ददातिर्न त्यागार्थकोऽपि तु परायत्तीकरणार्थको गौणः, तदायत्तीकरणं च प्रकृते तत्कर्तृकनिर्णेजनेच्छाप्रकाशको व्यापारः, तदेकदेशे कर्तृत्वे रजकस्य संबन्धविवक्षायां शैषिकी षष्ठी । " हन्तुः पृष्ठं ददाति ' इत्यत्र तत्कर्तृकताडनानुमतिप्रकाशको व्यापार एव सत्रापि = रुद्रपदोत्तरमपि चतुर्थी स्यादित्यर्थः । परिहरति- नेति, गौरवमस्त्यस्यामिति गौरविता या प्रीतिस्तादृशप्रीतिहेतुभूता क्रिया यजधात्वर्थ इति धात्वर्थतावच्छेदकं फलं सा प्रीतिरेवेति तादृशप्रीत्याश्रयतया रुद्रस्य विवक्षितत्वात् कर्मसंज्ञेव भवतीति रुद्रपदोत्तरं द्वितीयैव न चतुर्थीप्राप्तिः - पूर्वमेव धात्वर्थतावच्छेदकफलाश्रयत्वे कर्मत्वमित्युक्तत्वादित्यर्थः । किं च त्यागात्मकतादृशक्रियायाम्=यज्यर्थभूतत्यागरूपप्रीतिहेतुक्रियायामऽनिराकर्तृसंप्रदानत्वस्य रुद्रे सत्यपि विवक्षाभावान संप्रदानत्वमित्याह - त्यागात्मकेति । वस्तुतस्त्वत्र " कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा " इति वार्तिकेनैव रुद्रस्य कर्मसंज्ञेति बोध्यम् । रुद्राय यजते इतिप्रयोगमुपपादयति- प्रीतिभागितयेति । विशेषान्तरमाह-- उभयेति, यदि कर्मत्वसंप्रदानत्वयोरुभयोविवक्षा स्यात्तदापि परया कर्मसंज्ञया संप्रदानसंज्ञाया बाधाद् द्वितीयैव भवति न चतुर्थीत्यर्थः । जुहोत्यादिप्रयोगस्थले प्रीतिरूपफलस्य धात्वर्थतावच्छेदकत्वमेव नास्ति येन धात्वर्थतानवच्छेदकीभूतप्रीतिरूपफलभागितया तादृशस्यागक्रियाजन्यप्रीतिभागिनो देवतादेः कर्मत्वं स्यात् किं तु धार्थतावच्छेदकीभूततादृशप्रीतिभागितयोद्देश्यत्वात् संप्रदानत्वमेवेति " यदद्मये च प्रजापतये च " " सर्वभूतेभ्यः " इत्येवं चतुर्थ्यन्त एव प्रयोगो भवति न तु ' प्रजापति जुहोति इत्यादिरित्याह-- जुहोतीति । ननु रजकस्य व ददाति ' इत्यत्र रजकस्य कथं न संप्रदानसंज्ञा ? ददाति योगादित्याशङ्क्याह- रजकस्येति । परायत्तीकरणम् = पराधीनीकरणम् । तत्कर्तृक= रजककर्तृक । तदेकदेशे = उक्तव्यापारैकदेशे । उक्तकर्तृत्ववत्त्वं रजकस्येति संबन्धविवक्षायां षष्ठषेव रजकपदोत्तरं भवति न चतुर्थीत्यर्थः । रजककर्तृकवस्त्र कर्म क निर्णेज नेच्छाप्रकाशकव्यापारानुकूलकृतिमानिति शाब्दबोधः । • पृष्ठे मे ताडयताम् प्रयोगान्तरमुदाहरति- हन्तुरिति । तत्कर्तृक= हन्तृकर्तृक । अत्र & "Aho Shrutgyanam" " Page #470 -------------------------------------------------------------------------- ________________ ( ४५८ ) सादर्श: " ददात्यर्थः, तदेकदेशे कर्तृत्वे हन्तुः संबन्धविवक्षायां षष्ठी । एवम् चरणं ददाति' इत्यादावूहनीयम् । .4 इत्यादौ 'नारदाय रोचते कलहः रुच्यर्थानाम् इत्यनुशासनेन प्रीतिजन कतारूपरुच्यर्थघटकप्रीतिभागिनः संप्रदानसंज्ञा विहिता, तत्र चतुर्थ्यर्थ आश्रितत्वं प्रीतावन्वेवि तादृशक्रियाश्रयतया प्रीतिजनककलहादेः कर्तृता । पुष्पेभ्यः स्पृहयति ' इत्यत्र स्पृहाविषयपुष्पस्य " स्पृहेरीप्सितः " नेन संप्रदानत्वाच्चतुर्थी तदर्थों विषयित्वं तस्येच्छारूपक्रियायामन्वयः । " इत्य 'पुत्राय क्रुध्यति' इत्यत्र " क्रुधदुह" इत्यादिसूत्रेण कर्मणः संप्रदानसंज्ञा तत्रापि चतुर्थ्यर्थी विषयित्वं कोपेऽन्वेति क्रोधस्य द्वेषविशेषात्मकतया भक्तिश्रद्धादि - वज्ज्ञानविशेषरूपत्वेन वा सविषयकत्वात् । एवम् ' शत्रवे दुह्यति' इत्यादावपि तेनैव संप्रदानत्वम्, द्रोहोऽपचिकीर्षा. अहितेच्छेति यावत्, अहितभागितया येच्छाविषयता तन्निरूपकत्वं चतुर्थ्यर्थ्य इच्छान्वयी, अहितान्वय्याधेयत्वं वा, अतः कर्मणा इत्यादिसूत्रस्याविषयः । ईर्ष्या =अक्षान्तिः परोत्कर्षास - इत्याकारकाऽनुमतिप्रकाशको व्यापारो ददात्यर्थः स च गौण एवेति न हन्तुः संप्रदानत्वम् । तदेकदेशे = उक्तव्यापारैकदेशे । प्रयोगान्तरमुदाहरति-- एवमिति, अत्र संवाहककर्तृकं यत्संवाहनं तदनुमतिप्रकाशको व्यापारो ददात्यर्थः, तदेकदेशे कर्तृत्वे संवाहकस्य संबन्धविवक्षास्तीति संवाहकपदोत्तर षष्ठयेव न चतुर्थीत्यर्थः । 66 "" प्रयोगान्तरमुदाहरति- नारदायेति, प्रीतिजनकत्वमेव रुच्यर्थत्वमिति प्रीतिजनकतारूपो यो रुच्यर्थस्तदूघटकप्रीतेर्भागिनः संप्रदानसंज्ञा संप्रदानत्वाच्च नारदपदोत्तरं चतुर्थी । चतुर्थ्यर्थमाह - तत्रेति, कलहजन्यप्रीतेर्नारदाश्रितत्वाच्चतुर्थ्यर्थभूतमाश्रितत्वं प्रीतावन्वेति । तादृशकि याश्रयतया = प्रीतिजननानुकूल क्रियाश्रयतया । स्पष्टार्थीयं ग्रन्थः । नारदाश्रितप्रीतिजनकताश्रयः कलह इति शाब्दबोधः । प्रयोगान्तरमुदाहरति पुष्पेभ्य इति, तदर्थः = चतुर्थ्यर्थः । तस्य विषयित्वस्य । पुष्पनिष्ठविषयतानिरूपितविषयिताविशिष्टच्छाश्रयश्चैत्र इति शाब्दबोधः । विषयितासंबन्धेनेच्छायां पुष्पान्वयस्येष्टत्वाद् विषयित्वं चतुर्थ्यर्थः । प्रयोगान्तराण्युदाहरति- पुत्रायेत्यादिना चतुर्थ्यर्थस्य विषयित्वरूपोपपत्त्यर्थं क्रोधस्य सविषयकत्वमुपपादयति- क्रोधस्येति । एवमिति - तेनैय== " क्रुधदुह " इत्यादिसूत्रेणैव । द्रोहपदार्थमाह-- द्रोह इति । चतुर्थ्यर्थमाह- अहितेति, शत्रोरहितभागित्वेन येच्छाविषयता तन्निरूपकत्वमिच्छायामस्ति तदेव चतुर्थ्यर्थः । किं वाऽहिते यच्छत्रुवृत्तित्वं तदेव चतुर्थ्यर्थ इत्याहअहितान्चयीति । अत इति - यतोत्र पुत्रादीनां गवादिरूपकर्मणा संबद्धुमभिप्रायविषयत्वं नास्त्यतः. पुत्रादीनाम् "कर्मणा यमभिप्रेति" इतिसूत्रेण संप्रदानसंज्ञा न संभवतीति तदर्थम् " क्रुधद्रुह " 26 "Aho Shrutgyanam" [ चतुर्थी कारके. संवाहकस्य 79 “ Page #471 -------------------------------------------------------------------------- ________________ धारयत्यर्थनिर्वचनम् ] व्युत्प्रधिवाहः । ( ४५९.) हिष्णुता परोत्कर्षगोचरो द्वेष इति यावत् तद्विषयस्य परस्य तेनैव संप्रदानता । अनूपा = युपिनि दोषाविष्करणं तद्विषयस्याप्यनेन संप्रदानता विषयताविशेषस्तत्र चतुर्थ्यर्थः । L विप्राय शतं धारयति ' इत्यादौ " धारेरुत्तमर्णः " इत्यनेन धनिकविप्रादेः संप्रदानता । अथ कोयं धार्यर्थः ? न तावद् द्रव्यान्तरदानमङ्गीकृत्य परदत्तद्रव्यादानम्तथा सत्यादानात् परतः धारयति ' इति प्रयोगानुपपत्तेः-- आदानस्याऽवर्तमानत्वात् । न चेष्टापत्तिः- आविशोधनं तथा प्रयोगात् । नापि तादृशादानध्वंस:अधमर्णस्य तदकर्तृत्वात् । न चादानमिच्छाविशेषस्तद्वतः पुंसस्तदाश्रयतया तत्कर्तृत्ववत् तद्ध्वंसाश्रयतया तत्कर्तृत्वमप्यक्षतमिति वाच्यम्, एवमप्यादानध्वंसस्य परिशोधनोत्तरमपि सत्त्वेन तदानीमपि धारयति ' इति प्रयोगापत्तेः । ८८ इत्यादिसूत्रारम्भ इव्यर्थः । सूत्रघटकेर्ष्या पदार्थमाह- ईष्येति । तद्विषयस्य ईर्ष्याविषयस्य | तेनैव= " क्रुधदुहेर्ष्यासूयार्थानाम् " इतिसूत्रेणव । सूत्रघटकाऽसूयापदार्थमाह- असूयेति । तद्विषयस्य=असूयाविषयस्य । अनेन = क्रुधद्रुह " इतिसूत्रेण । विषयताविशेषः विषयितारूयविषयता चतुर्थ्यर्थः सा चाऽसूयायामन्वेति - असूयाया अपि क्रोधवत् सविषयकपदार्थत्वादित्यर्थः । ' पुत्रादिनिरूपितविषयिताविशिष्टक्रोधादिव्यापारवान् ' इति शाब्दबोधः । प्रयोगान्तरमुदाहरति- विप्रायेति । धनिक्रविप्रादेः - उत्तमर्णस्येत्यर्थः । " धारयत्यर्थ निरूपणायाशङ्कते - अथेति । नतु द्रव्यान्तरदानमङ्गीकृत्य = अहं तुभ्यं कालान्तरे मुद्रासह दास्यामीत्येवं द्रव्यान्तरव्यक्तिदानमङ्गीकृत्य यत् परदत्तद्रव्यस्य = उत्तमर्णदत्तद्रव्यस्याऽऽदानम् = ग्रहणं तदेव धार्यर्थः = धारयत्यर्थ इत्याशङ्क्याह- न तावदिति, परिहारे हेतुमाह - तथा सतीति, तथा सति = यद्युक्तादानमेत्र धारयत्य र्थस्तदाऽऽदानस्य क्रियारूपत्वेन स्वयमेव सद्यो विनाशित्वादाऽऽदानानन्तरमृणपरिशोधनपूर्वमपि ' धारयति ' इति प्रयोगो न स्यात्वारयत्यर्थभूतस्यादानस्याऽसत्त्वादित्यर्थः । न च परिशोधनपूर्वम् ' धारयति इति प्रयोगान भाव इष्टः प्रयोगस्यैवेष्टत्वादित्याह - न चेष्टापतिरिति । ननु यद्याऽऽदानानन्तरं सद्य एवादानं विनश्यति तदोक्तादानस्य ध्वंस एव धारयत्यर्थस्तथा चादानानन्तरमप्यादानध्वंसस्य सत्त्वात् नादानानन्तरम् धारयति इतिप्रयोगानुपपत्तिरित्याशङ्क्याह - नापीति । परिहारहेतुमाह-अधमर्णस्येति, आदानस्य ध्वंसस्तु स्वयमेव भवति न त्वधमर्णकर्तृक इति अधमर्णेनाकृतं धारत्यर्थभूतमादानध्वंसमादाय ' धारयति ' इति प्रयोगः कथं स्यात् न हि देवदत्तेनाऽकृतपाकमव्यादाय देवदत्तः पचति - आकाशं करोति' इत्यादिप्रयोगो भवतीत्यर्थः । ननूक्तादानमिच्छेक तथा चाधमर्णस्येच्छारूपादानाश्रयत्वेनेच्छा कर्तृत्वमस्त्येवेति तादृशादान रूपेच्छाध्वंसस्याप्याश्रयत्वं. 6 ' "Aho Shrutgyanam" Page #472 -------------------------------------------------------------------------- ________________ (४६०) सादर्श: [चतुर्थीकारकेन च परिशोधनप्रागभावविशिष्टो निरुक्तादानध्वंसस्तथा ऋणीकृतद्रव्यान्तरपरिशोधनप्रागभावदशायां परिशुद्धमृणमादाय 'धारयति ' इति प्रयोगापत्तेः । न च स्वप्रतियोगिनिर्वाहकाङ्गीकारविषयद्रव्यदानप्रागभावविशिष्टादानध्वंसस्तथा-यद् ऋण परिशोधितं तावद् द्रव्यं च पुनर्ग्रहीत्वा पुनः परिशोधनीयं तदादाय · धारयति । इतिव्यवहारापत्तेः, उदीच्यपरिशोधनस्यापि स्वकर्तव्यतया पूर्वाभ्युपगमविषयत्वात् तत्प्रागभावस्य पूर्वपरिगृहीतपरिशोधनोचरमपि सत्त्वात् । तेन च तत्कर्तृत्वं युक्तमेव धंसस्य स्वप्रतियोग्याश्रये एवाश्रितत्वस्वीकारादिति नाऽऽदानानन्तरम् ‘धारयति । इति प्रयोगानुपपत्तिरित्याशयाह-न चादानमिति, परिहारहेतुमाह-- एवमिति, यद्यादानध्वंस एवं धारयत्यर्थस्तदा ध्वंसस्याऽविनाशित्वेन परिशोधनोत्तरमपि वर्तमानत्वात् तदानीम्=परिशोधनोत्तरमपि 'धारयति । इतिप्रयोगः स्यात्, न चैतदिष्टमित्यर्थः । ननु परिशोधनप्रागभावविशिष्ट उक्तादानध्वंसस्तथा धारयत्यर्थस्तथा च परिशोधनोत्तर परिशोधनप्रागभावस्य विनाशेन तद्वैशिष्टयमुक्तध्वंसे न संभवतीति परिशोधनोत्तरं परिशोधनप्रा. गमावविशिष्टध्वंसस्य धारयत्यर्थस्याऽसत्त्वान्न परिशोधनोत्तरम् ' धारयति । इतिप्रयोगापत्तिरित्याशङ्कयाह-न चेति, परिहारमाह-ऋणीकृतेति, यत्र ऋणद्वयं कृतमेकं च यदा ऋणं परिशो. धितमेकं च न परिशोधितं तत्राऽपरिशोधितर्णपरिशोधनप्रागभावविशिष्टस्यादानध्वंसस्य सत्त्वाव परिशोधितर्णमादाय 'धारयति । इतिप्रयोगः स्यादेव न चैतदिष्टमित्यर्थः । ननूक्तध्वंसस्य प्रतियोगिभूतं यदाऽऽदानं तन्निर्वाहको योङ्गीकारः= ऋणमिदं परिशोधयिष्यामि' इत्पङ्गीकार: ( अधमर्गकृतपरिशोधनाङ्गीकारं विना ऋणप्राप्तेरसंभवादङ्गीकारस्याऽऽदाननिर्वाहकत्वम् ) ताहशाङ्गीकारविषयीभूतं यद् द्रव्यदानम् परिशोधनं तादृशद्रव्यदानस्य प्रागभावेन विशिष्टो य उक्तादानध्वंसः स तथा धारयत्यर्थस्तथा च द्रव्यान्तरपरिशोधनप्रागभावदशायां परिशुद्धमृणमादाय नोक्ता — धारयति । इतिप्रयोगापत्तिः-द्रव्यान्तरपरिशोधनप्रागभावस्यैतद्धारयत्यर्थघटकत्वाभावात् तद्र्व्यपरिशोधनप्रागमावस्यैव धारयत्यर्थघटकत्वात् तद्र्व्यपरिशोधनप्रागभावकाले च तद्रव्यमादाय 'धारयति । इति प्रयोगस्येष्टत्वादेवेत्याशझ्याह-न चाते । स्वम् आदानध्वंसः । परिहारमाह-यदिति, यत्र मुद्रासहस्रदयग्रहणपरिशोधनयोः संकेतो जातः किं तु प्रथममऽर्धमेवर्ण मुद्रासहस्ररूपं गृहीतं परिशोधितं च पुनश्च शेषभूतमेकसहस्रं कालान्तरे ग्राह्यं परिशोधनीयं चास्ति तत्रोदीच्यस्य:-भाविनः परिशोधनस्यापि स्वीकृतत्वेनागाकारविषयत्वात् तत्प्रागभावस्य तादृशोदीच्यपरिशोधनप्रागमावस्य पूर्वपरिगृहीतपरिशोधनोत्तरमपि सत्त्वात् पूर्वादानध्वंसस्यापि च सत्त्वात् तदादाय परिशोधितमृणमादाय ' धारयति । इति प्रयोगः स्यादेव. न चैतदिष्टमित्यर्थः । "Aho Shrutgyanam" Page #473 -------------------------------------------------------------------------- ________________ धारयत्थर्थनिर्वचनम] :: व्युत्पत्तिषादः । (४६१) - न च स्वप्रतियोग्यादाननिर्वाहकाभ्युपगमविषयीभूतं यद् द्रव्यदानमेकक्षणा. वच्छिन्नैकाधिकरणवृत्तित्वसंबन्धेन तद्विशिष्टान्यप्रागभावविशिष्टादानध्वंसस्तथा उक्तस्थले चोदीच्यपरिशोधनप्रागभावः प्रथमादानप्रयोजकाभ्युपगमविषयप्रथ. मपरिशोधनविशिष्टः प्रथमपरिशोधनप्रागभावश्च प्रथमपरिशोधनोत्तरं नास्त्येवेति. नोक्तातिप्रसङ्ग इति वाच्यम्, एवमपि यस्य ऋणस्य परिशोधनमप्रसिद्धं तदादानपूर्वकालीनस्थ 'एतावद् द्रव्यं मया तुभ्यं देयम् ' इत्यभ्युपगमस्य तदुत्तमोद्देश्यकत्वेन स्वकर्तृकान्योद्देश्यकतावद्रव्यदानमेव विषय इत्युपेयम्-तदुत्तमोंदेश्यकतत्कर्तृकतावद्रव्यदानस्याप्रतिद्धत्वात् तथा चान्योद्देश्यकतत्कर्तृकतावद् ननूक्तध्वंसस्य प्रतियोगिभूतं यदाऽऽदानं तन्निर्वाहको योभ्युपगमः= ऋणमिदं परिशोधयिष्यामि ' इत्यङ्गीकारस्त द्विषयीभूतं यद् द्रव्यदानम् परिशोधनं तेन एकक्षणावच्छिन्नैकाधिकरण ( अधमर्णतव्यक्ति ) वृत्तित्वसंबन्धेन विशिष्टो यः प्रागभावः नाम प्रथमादानप्रयोजका (निर्वाहका ) भ्युपगमविषयप्रथमपरिशोधनविशिष्ट उदीच्य (ग्रहीष्यमाणधनविषयक ) परिशो. धनप्रागभावस्तदन्यो यः प्रागभावः प्रथमपरिशोधनप्रागभावस्तद्विशिष्टो य आदानध्वंसः स तथा धारत्यत्यर्थस्तथा चोक्तस्थले उदीच्यपरिशोधनप्रागभावस्तु प्रथमादाननिर्वाहकाभ्युपगमविषयप्रथमपरिशोधनविशिष्ट एवोक्तसंबन्धेन भवति-यस्मिन् क्षणे तदधमर्णव्यक्तौ प्रथमादाननिर्वाहकाभ्युपगमविषयप्रथमपरिशोधनं तिष्ठति तस्मिन्नेव क्षणे तदधमर्णव्यक्तौ उदीच्यपरिशो. धनप्रागभावोपि तिष्ठतीति वैशिष्टयम् एतादृशोदीध्यपरिशोधनप्रागभावश्च न धारयत्यर्थघटक इति नोक्तस्थले प्रथमपरिग्रहीतपरिशोधनोत्तरमपि परिशोधितमृणमादाय 'धारयति' इतिप्रयोगापत्तिः, धारयत्यर्थघटकस्तु तत्रोक्तोदीच्यपरिशोधनप्रागभावान्यः प्रथमपरिशोधनप्रागभाव एवं स च प्रथमपरिशोधनेन विनाश्यमानत्वात् प्रथमपरिशोधनोत्तरं न तिष्ठतीति प्रथमपरिशोधनोत्तरं प्रथमादानध्वंसस्याऽविनाशिस्वेन सत्त्वेपि धारयत्यर्थैकदेशभूतस्य प्रथमपरिशोधनप्रागभावस्याऽमत्त्वान्न प्रथमपरिशोधनोत्तरं तादृशप्रथमपरिगृहीतपरिशोधितमृणमादाय ' धारयति । इति प्रयोगापत्तिः, प्रथमपरिशोधनपूर्वकाले च प्रथमपरिशोधनप्रागभावोप्यस्ति प्रथमादानध्वंसोप्य. स्तीति तदा 'धारयति' इतीष्टप्रयोगस्योपपत्तिरप्यस्त्येवेति न कोपि दोष इत्याशङ्क्याह-न चेति, परिशोधनस्य क्रियारूपत्वेनैकमात्रक्षणस्थायित्वेनोक्तम्-एकक्षणावच्छिन्नेति । अत्रापि दोषमाह-एवमपीति, यस्य ऋणस्य परिशोधनमसंभवित्वादप्रसिद्धं जातम्-येन केनापि कारणेन गहीतधनपरिमितधनस्य दात्रे वा तदुत्तराधिकारिणे वाऽदेयत्वात् तादृशस्य ऋणस्य पूर्वकाले यः 'एतावद् द्रव्यं मया तुभ्यं देयम्' इत्यभ्युपगमः कृतस्तस्य तदुत्तमर्णोद्देश्यकत्वेन स्व ( अधमर्ण) कर्तृकमऽन्योदेश्यकम् तदुत्तमोत्तराधिकार्युद्देश्यकमेव द्रव्यदानम्-परिशोधनं विषय इत्युपेयम्= स्वीकार्यम्-- तदुत्तमद्देश्यकस्य-साक्षात्तद्वत्तमाय तत्कर्तृकतावद्रव्यदानस्य-अधमर्णकर्तृकर परिशोधनस्याऽप्रसिद्धत्वात् तथा चन्तादृशस्थले अन्योद्देश्यकतत्कर्तृकतावद्व्यदानोत्तरं यथा "Aho Shrutgyanam" Page #474 -------------------------------------------------------------------------- ________________ ( ४६२ ) [ चतुर्थीकर द्रव्यदानीत्तरं तदभ्युपगम विषयद्रव्यदानविशिष्टान्यप्रागभावासत्वात् ' धारयति इति व्यवहारामुपपत्तिरिति चेत् ?, अत्राहुः - ऋणग्रहणेनाधमर्णानिष्ठः परिशोधननाश्योऽदृष्टविशेषो जन्यते तेनैचादृष्टेन ऋणमपरिशोध्य मृतस्य नरकादिकमुत्पद्यते तथा च द्रव्यान्तरदानाभ्युपगमपूर्वक परदत्तद्रव्यादानजन्याऽदृष्टविशेषवस्वमेव धारयतेरर्थः, तद्घटकदाचैत्रेण मैत्राद् यावद्द्रव्यं ऋगत्वेन गृहीतं तावद्द्रव्यं देवदत्ताय दत्तं न च स देवदत्तो मैत्रोत्तराधिकार्यस्ति तत्र चैत्र कर्तृकेतादृशद्रव्यदानोत्तरम् ' धारयति ' इति व्यवहारो न स्यादेव द्रव्यदानरूपपरिशोधनस्य जातत्वेन धारयत्यर्थैकदेशस्य परिशोधनप्रागभावस्याऽसत्त्वात् एतदेवाहतदभ्युपगमविषयद्रव्यदानविशिष्टान्यप्रागभावाऽसत्त्वादिति भत्र हि धारयत्यर्थभूतादानध्वंसे विशेषणीभूतोपि परिशोधनप्रागभावो नास्ति-परिशोधनस्य जातत्वात् एतादृशपरिशोधनप्रागभावे विशेषणीभूतो यो भेदस्तत्प्रतियोगिभूतपरिशोधनप्रागभावोपि नास्ति तस्य पूर्वोक्तॠणद्वयस्थले एव संभवात् इष्टश्वेतादृशस्थ लेप्यऽन्योद्देश्यकलत्कर्तृकसानद्द्रव्यदानोत्तरमपि ' धारयति' इतिव्यवहारः-येन ऋणं दत्तं तस्मै वा तदुत्तराधिकारिणे वा गृहीतधनप्रतिदानस्वाऽजतत्वात् यच ताषद्द्रव्यं प्रतिदत्तं तद्धि तटस्थायैव कस्मैचित् प्रतिदत्तमस्तीति । एतावद्रव्यं मया तुभ्यं देयम् इत्यभ्युपगमेन च साक्षाद् दात्रे वा तदुत्तराधिकारिणे वा प्रतिदानप्रतिज्ञाषा: 'कृतस्थात् 'मंत्र' चान्योद्देश्यक्तावद्द्रव्यदानेनापि कृतप्रदर्शितप्रतिदानप्रतिज्ञापरिपालनस्याजातत्वात्, दात्रुदेश्यके एवं परिशोधनरूपे प्रतिदानं जाते एव ' धारयति ' इति व्यवहारनिवृत्तेरिष्टत्वादित्यर्थः । अत्र धान्योद्देश्यतत्कर्तृक तावद्द्रव्यदानात् पूर्वमादानध्वंसोप्यस्ति तादृशादानध्वंसविशेषणीभूतः परिशोधनप्रागभावोप्यस्तीति ' धारयति ' इति व्यवहारानुपपतिर्नास्तीत्युक्तम् - " अन्योद्देश्य कताबद्द्रव्यदानोत्तरम् " इति । वस्तुतस्त्वत्र कृताभ्युपगमविषपरिशोधनस्याजातत्वादाऽऽदानध्वंसे साक्षाद्विशेषणीभूतस्य परिशोधनप्रागभावस्य सत्त्वेपि तादृशप्रागभावविशेषणीभूतो यो भेदस्तत्प्रतियोगिभूतप्रागभावस्याऽप्रसिद्ध्यैव ' धारयति' इति व्यचहारानुपपत्तिर्ज्ञेया तथा चैकर्णस्थले सर्वत्रैव 'धारयति' इतिव्यवहारस्यानुपपत्तिरस्ति ऋणद्वयस्थले एवैतत्परिष्कारस्य समन्वय संभवात्तदर्थमेवो हितत्वादिति ध्येयम् । ¿ अथेत्यादिनाऽऽशङ्कितं समाधत्ते - अत्राहुरित्यादिना । स्पष्टार्थोयं ग्रन्थः । धारयत्यर्थमाहतथा चेति । द्रव्यान्तरदानाभ्युपगमः = ' कालान्तरे एतावद् द्रव्यमहं तुभ्यं दास्यामि' इत्याकारको यः परिशोधनविषयकोभ्युपगमस्तत्पूर्वकं यत् परदत्तद्रव्यस्याऽऽदानम् ऋणग्रहणं सज्जन्याऽदृष्टविशेषवत्त्वमेव धारयत्यर्थः । 'विप्राय शतं धारयति' इत्यत्रत्यचतुर्थ्यर्थमाह- तद्घटकेति, धारयत्यर्थघटकं यद्दानं परदत्तेतिदाधात्वर्थदानं तदन्वयिकर्तृत्वं दाननिरूपितकर्तृत्वम् चतुर्थ्यर्थः - दानस्य कर्तृत्वनिरूपकत्वेन निरूपकत्वसंबन्धेन कर्तृत्वस्य दानेऽन्वयस्तथा च “विप्रकर्तृकं यद् ऋणदानं सदादानजन्याऽदृष्टविशेषाश्रयश्चैत्रः' इति शाब्दबोधः । ऋणादानजन्या साद "Aho Shrutgyanam" Page #475 -------------------------------------------------------------------------- ________________ धारयत्यर्थनिर्वचनम् ] व्युत्पत्तिवादः । ( ४६३ ) नान्वाय कर्तृत्वं तत्र चतुर्थः । न च ऋणापरिशोधनमेव दुरदृष्टजनकम् - उपपातकमध्ये तस्य परिगणनात् न तु ऋणादानम्- तस्य तथात्वें मानाभावादिति वाच्यम, ऋणादानस्य दुरदृष्टविशेषजनकत्वोपे परिशोधनेन तस्य नाश इति बोधनायाsपरिशोधनस्य नरकरूपफलोपधानप्रयोजकत्वाभिप्रायेण तस्योपपातकमध्ये परिगणनोपपत्तेः । ऋणमादायापरिशोधकस्य नरकभागितया ऋणादानस्यैव दुरदृष्टसाधनतायाः कल्पनीयत्वात्, गृहीतर्णापरिशोधनापेक्षया लघुत्वात् । अपरिशोधनस्य हेतुत्वे परिशोधन पूर्वका लेप्यऽपरिशोधनसत्त्वेन दुरदृष्टोत्पतेरावश्यकतया परिशोधनस्य तन्नाशकताया. आवश्यकतयाऽस्माकं तत्क ल्पनाधिक्पविरहात् । परिशोधनोत्तरकालं परिशोधनाभावसत्त्वेन तद्वलात् तदुत्तरं दुरदृष्टवारणाय परिशोधनध्वंसस्य प्रतिबन्धकतायाः कल्पनीयतया भवन्मते गौरवाच्च । दृष्टस्य ऋणाऽऽदानोत्तरमेव जायमानत्वेन ऋगादानात्पूर्वमसत्त्वाद् ऋणादानात् पूर्वकाले ' विप्राय शतं धारयति ' इतिप्रयोगापत्तिर्नास्ति, एवं तस्य ऋणादानजन्यादृष्टस्य परिशोधननाश्यत्वेन परिशोधनानन्तरमसत्त्वात् परिशोधनानन्तरम् ' विप्राय शतं धारयति' इतिप्रयोगापत्तिरपि नास्ति, ऋणादानादनन्तरमापरिशोधनं तादृशादृष्टस्य सत्त्वादेवोक्तप्रयोगानुपपत्तिरपि नास्तीति न कोपि दोष इत्यर्थः । शङ्कते - न चेति । तस्य ऋणापरिशोधनस्यैव । तस्य = ऋणादा नस्य । तथात्वे = दुरदृष्ट ( पाप ) जनकत्वें । परिहारमाह- ऋणादानस्येति, यद्यपि ऋणादानस्यैव दुरदृष्टजनकत्वमस्ति तथापि परिशोधनं विना तस्य ऋणादानजन्यदुरदृष्टस्य नाशों न भवतीति परिशोधनावश्यकत्वबोधनायैवाऽपरिशोधनस्य नरकरूपफलोपधान ( उत्पत्ति ) प्रयोजकत्वाभिप्रायेण तस्य=अपरिशोधनस्य निन्दितत्वादुपपातकमध्ये परिगणनास्ति न तु वस्तुतो दुरदृष्टजनकत्वेनेत्यर्थः । मतद्वयमध्ये ऋणादानस्य दुरदृष्टजनकतामते लाघवमाह - ऋणमाबायेति । उक्ते हेतुमाह- गृहीतर्णेति, ऋगापरिशोधनं हि ऋणपरिशोधनाभाव एवेति तत्राभावपदार्थप्रवेशेन तादृशाभावज्ञानार्थं प्रतियोगि भूतपरिशोधनपदार्थज्ञानापेक्षया चापरिशोधनस्य गुरुत्वात् तदपेक्षया ऋणाऽऽदानस्य लघुत्वात्तस्यैव दुरदृष्टजनकत्वं स्वीकार्यमित्यर्थः । अपरिशोधनस्य दुरदृष्टजनकत्वे गौरवान्तरमाह- अपरिशोधनस्येति अपरिशोधनस्य हेतुत्वे = दुरदृष्टजनकता मते परिशोधनपूर्वकालेपि नाम न केवलमृणग्रहणादनन्तरमेत्र परिशोधनपूर्वकालेऽपरिशोधनमस्तिकिंतु ऋणग्रहणात् पूर्वमप्यऽपरिशोधनमस्त्येवेति ऋणग्रहणात् पूर्वमेव विद्यमानतादृशाऽपरिशोधनेन दुरदृष्टमुत्पद्येत तस्यापि परिशोधनेन: विनाशो भवन्मते कल्पनीयो न चैतादृशकल्पनाऽस्मनमस्ति - ऋणादानस्यैव दुरदृष्टजनकत्वादिति भावः प्रतीयते । गौरवान्तरं प्रदर्शयति- परिशोधनोत्तरकालमिति, परिशोधनस्य क्षणिकत्वेन परिशोधनोत्तरमप्यऽपरिशोधनसत्वेन दुरदृष्टमुत्पयेतेति तदुत्तरम्= परिशोधनोत्तरं तद्बलात् = परिशोधनाभाव ( ध्वंस ) बलात् दुरदृष्टवारणाय 1 "Aho Shrutgyanam" Page #476 -------------------------------------------------------------------------- ________________ ( ४६४ ) सादर्श: [ चतुर्थी कार के -- न च परिशोधनानुत्तरमरणमेव पापजनकं वाच्यं तथा च नोक्तातिप्रसङ्ग इति वाच्यम्, गृहीतद्रव्यमपरिशोध्य मरणस्थले तद्द्रव्य परिशोधनाप्रसिद्धया तदनुत्तरत्वादिघटितरूपेण हेतुतायाः कल्पयितुमशक्यत्वादित्यलम् | " 4 6 'यूपाय दारु ' इत्यादौ न सप्रदानचतुर्थी. अपि तु तादर्थ्ये सूत्रान्तरेण सा, तादर्थ्यं च स एवार्थः-प्रयोजनं यस्य तखम् । समभिव्याहतपदार्थे तादर्थ्यविवक्षायां तद्वाचकपदाच्चतुर्थी' इति तत्सूत्रार्थः । प्रयोजनत्वं चात्र न जन्यत्वम् - दुःखादेः पापादिजन्यतया 'दुःखाय पापम् ' इत्यादिप्रयोगापत्तेः । नापि जन्यतयेच्छाविषयत्वम्- स्वर्गादेः पुण्यादिजन्यत्वेने च्छाविषयत्वात् स्वर्गाय पुण्यम् ' इत्याद्यापत्तेः, न चेष्टापत्तिः- तथा सति 'पक्तुं व्रजति' इत्यर्थे ' पाकाय व्रजति ' इति निर्वाहाय तुमर्थाच्च भाववचनात् " इति सूत्रप्रणयनवैयर्थ्यात्परिशोधनध्वंसस्य दुरदृष्टप्रतिबन्धकत्वमपि कल्पनीयमित्यपि गौरवम्, अस्मन्मते च ऋणादानस्यैव दुरदृष्टजनकत्वेन ऋणादानजन्यदुरदृष्टे परिशोधनेन: नष्टे पुनश्च ऋणादानं विना दुरदृष्टोत्पत्तिरेव न संभवतीति न परिशोधनध्वंसस्य दुरदृष्टप्रतिबन्धकत्वकल्पनापत्तिरितिभावः प्रतीयते । ८५ - पुनराशङ्कते -- न चेति । नोक्तातिप्रसङ्गः = परिशोधनोत्तरकाले दुरदृष्टोत्पत्तिलक्षणातिप्रसङ्गो नास्त्येव - परिशोधनानन्तरं दुरदृष्टोत्पादकस्य परिशोधनानुत्तरमरणस्याऽसत्त्वात् तस्यैव दुरदृष्टोत्पादकत्वस्वीकारादित्यर्थः 1 परिशोधनानुत्तरमरणम् = अपरिशोध्यमरणम् । परिहारमाह - गृहीतेति, विशेषणीभूतस्य परिशोधनस्य सत्त्वे एव परिशोधनानुत्तरत्वस्य प्रसिद्धिः . संभवति गृहीतद्रव्यमपरिशोध्यैव मरणस्थले च तद्रव्यपरिशोधनस्याप्रसिद्धया परिशोधनानुत्तरत्वस्याप्यप्रसिद्धिर्जातेति परिशोधनानुत्तरत्वघटितस्य परिशोधनानुत्तर मरणस्याप्यऽप्रसिद्धया दुरदृष्टहेतुत्वं न संभवति प्रसिद्धस्यैव पदार्थस्य हेतुत्वसंभवात् । परिशोध्य मरणस्थलेपि परिशोधनानुत्तरमरणप्रसिद्धिर्नास्ति - परिशोधनोत्तरमरणस्यैव सत्त्वादिति ऋणादानस्यैव दुरदृष्टोत्पादकत्वं युक्तमित्यर्थः । प्रयोगान्तरमुदाहरति- यूपायेति । सूत्रान्तरेण = " तादृयें चतुर्थी वाच्या" इतिवार्तिकेन । तादर्थ्यस्वरूपमाह— तादर्थ्यं चेति, यथा सः = यूप एवार्थः = प्रयोजनं यस्य दारुणस्तदेव तत्त्वम् = तादर्थ्यम् ( यूपार्थत्वम् ) । अत्र चतुर्थीप्रापकवार्तिकार्थमाह- समभिव्याहृतेति, यथा समभिव्याहृतपदार्थे==दारुपदार्थे तादर्थ्यविवक्षायाम् = यूपार्थत्वविवक्षायां तद्वाचकपदातू = यूपवाचकपदात् चतुर्थीत्यर्थः । उक्ततादर्थ्यलक्षणघटकप्रयोजनपदार्थमाह- प्रयोजनत्वमिति । अत्रउक्ततादलक्षणे । यदि जन्यत्वमेव प्रयोजनत्वं स्यात्तदा दुःखस्य पापजन्यत्वात् ' दुःखाय पापम् ' इतिप्रयोगः स्याद् न चैतदिष्टम् । जन्यतयेच्छाविषयत्वमपि प्रयोजनत्वं न संभवतीत्याह - नापीति । विपक्षे बाधकमाह- न चेति । तथा सति 'स्वर्गाय पुण्यम्' इति प्रयोगस्येष्टत्वे सति ' पक्तुं व्रजति ' इत्यर्थे ' पाकाय व्रजति ' इति प्रयोगः " तादर्थ्ये चतुर्थी " Aho Shrutgyanam" Page #477 -------------------------------------------------------------------------- ________________ यूपाय दारु इत्यदि ] व्युत्पत्तिवादः । ( ४६५ ) पाकादैर्निरुक्तव्रजनाद्यर्थतयैव तद्वाचकपदाच्चतुर्युपपत्तेः । आपे तु समभिव्याहतपदार्थनिष्ठ व्यापारेच्छानुकूलेच्छाविषयत्वं तत्प्रयोजनत्वम्, तत्प्रयोजनकत्वरूपतादर्थ्य च तदिच्छाधीनेच्छाविषयव्यापाराश्रयत्वम्- दारुणो यूपेच्छाधीनेच्छाविषयतक्षणादिरूपव्यापारवत्तया यूपार्थत्वमिति तद्विवक्षया यूपपदाच्चतुर्थी, इच्छाधीनेच्छाविषयव्यापाराश्रयत्वं चतुर्थ्यर्थः, प्रथमेच्छायां यूपादेः प्रकृत्यर्थस्य विषयतयाऽन्वयः । एवम्- ( रन्धनाय स्थाली' इत्यादावूह्यम्, तत्र तादृशव्यापार स्तण्डुलधारणादिः । " पुण्यादेः स्वर्गेच्छाधीनेच्छाविषयव्यापारानाश्रयतया न 'स्वर्गाय पुण्यम् इत्यादिप्रयोगः । ब्रजनादेः पाकानुकूलव्यापारानाश्रयतया नृ पाकाय व्रजति इत्यादावनेन चतुर्थीति " तुमर्थाच्च " इत्यादिसूत्रम्, तदर्थश्व - 'तुमुन्नन्तयद्धातुना यादृशोर्थः प्रत्याय्यते समभिव्याहृतक्रियान्विततदर्थपरात् तद्धातुघटितभाववाच्या " इतिवार्तिकेन चतुर्थीप्राप्त्या उपपद्येतेति "तुमर्थाच्च" इतिसूत्रं व्यर्थमेव स्यादित्यर्थः । उक्तवैयर्थ्ये हेतुमाह-- पाकादेरिति । तद्वाचकपदात् = पाकपदात् । स्वाभीष्टं प्रयोजनत्वपदार्थमाह - अपित्विति, समभिव्याहृतपदार्थो दारुपदार्थस्तनिष्ठं यत् तक्षणादिरूपव्यापारविषयकेच्छाया जनकीभूता या यूपेच्छा तादृशेच्छाविषयत्वं तदेव तत्प्रयोजनत्वम्, ( दारुणो यूपप्रयोजनकत्वम् ), अत्र यूपेच्छया तक्षणादिव्यापारेच्छा जायते इति यूपेच्छायास्तक्षणादिव्यापारेच्छाजनकत्वमस्तीति तक्षणादिव्यापारेच्छानुकूलेच्छाविषयत्वं यूपस्य प्राप्तम् । तादर्थ्यपदार्थमाहतत्प्रयोजनकत्वेति, तदिच्छा- यूपेच्छा यूपेच्छाधीना या व्यापारविषयकेच्छा तादृशेच्छाविषयो यो तक्षणादिव्यापारस्तदाश्रयत्वमित्यर्थः । लक्षणसमन्त्रयमाह- दारुण इति । चतुर्थ्यर्थमाह- इच्छाधीनेति, तथा च यूपेच्छाधीनेच्छा विषयतक्षणादिव्यापाराश्रयो दारु इति वाक्यार्थः । प्रथमेच्छाविषयमाह - प्रथमेच्छायामिति । उक्तप्रतिपादनमन्यत्रातिदिशति - एवमिति, तादृशव्यापारः = चतुर्थ्यर्थादिघटकव्यापारः । रन्धनेच्छाधीनेच्छाविषयतण्डुलधारणादिव्यापाराश्रयत्वं स्थाल्यास्तदेव चतुर्थ्यर्थः । , पुण्यस्यादृष्टरूपत्वेन गुणत्वाद् व्यापाराश्रयत्वमेव न संभवति येन "तादर्थ्ये चतुर्थी" इतिया+ तिकेनोक्तरीत्या 'स्वर्गाय पुण्यम् इतिप्रयोगः स्यादित्याह - पुण्यादेरिति । स्वर्गेच्छाधीनेच्छाविषयव्यापारश्च यागादिर्विज्ञेयः । 'पाकाय व्रजति' इतिप्रयोगस्य साधुत्वेपि व्रजनस्य व्यापाररूपत्वेन व्यापाराश्रयत्वाऽसंभवादत्र पाकपदोत्तरं न अनेन = " तादर्थे चतुर्थी " इत्यनेन चतुर्थी प्राप्नोति किं तु तुमर्थाच्च भाववचनात् " इतिसूत्रेणेत्याह- व्रजनादेरिति । पाकानुकूलेत्यत्र "पाकेच्छाधीनेच्छा विषयव्यापारानाश्रयतया' इत्येवं वक्तव्यम्, पाकेच्छाधीनेच्छाविषयव्यापारश्चात्र जनव्यापार एव तदनाश्रयत्वं व्रजने स्पष्टमेव । अत्र " गुणादिर्निर्गुणक्रियः" इति स्मर्तव्यम् । तुमर्याच्च " इति सूत्रस्यार्थमाह- तदर्थश्चेति, यथात्र तुमुन्नन्तेन यद्धातुना-पक्तुमिति पच् 66 ३० 64 " " Aho Shrutgyanam" Page #478 -------------------------------------------------------------------------- ________________ ( ४६६ ) सादर्श: [ चतुर्थी कारके 66 कृदन्ताच्चतुर्थी ' इति । ' पक्तुं व्रजति ' इत्यत्र तुमुन्नन्तेन व्रजने पाकसमान - कर्तृकत्वसहितपाकविषयकेच्छाधीनेच्छाविषयत्वं बोध्यते- तुमुन्ण्वुलौ " इतिसूत्रेण समभिव्याहृतक्रियायां प्रकृतक्रियासमानकर्तृकत्वसहिततदिच्छाधीनेच्छाविषयत्वरूपतदर्थकत्वेन विवक्षितायां तुमुन्ण्वुलोर्विधानात् । एतत्सूत्रस्यापि स्वर्गाय पुण्यम् ' इत्यादिर्न विषय इति सोऽसाधुरेव । ' 66 33 "S एधानाहर्तुं व्रजति ' इत्यर्थे ' एवेभ्यो व्रजति ' इत्यत्रैवस्य न व्रजनप्रयोजनत्वम् - सिद्धतया व्रजनेच्छानुकूलेच्छाया अविषयत्वात्. व्रजनस्य तदनुकूलव्यापारानाश्रयत्वाचेति न "तादर्थ्ये" इतिसूत्रस्य प्रवृत्तिनापि " तुमर्थात् " इत्याक्रियार्थोपपदस्य दे:- एधपदस्य क्रियारूपभाववचनत्वाभावादिति तत्र इतिचतुर्थी तदर्थश्च : क्रियार्थोपपदस्तुमुन्नन्तो यो धातुरप्रयुक्तस्य तस्य यत्कर्म - तत्प्रयोग विना तदर्थकर्मतया यद्विवक्षितं तद्वाचकपादाचतुर्थी ' इति तत्र च आहर्तुम् ' इतितुमुन्नन्तार्थः समभिव्याहत क्रियान्वयिस्वार्थकर्मत्वान्वधातुना यादृशोर्थः =पाकरूपार्थः प्रत्याय्यते समभिव्याहृता या वजनक्रिया तदन्विततदर्थपरात् = पाकरूपार्थपरात् तद्वातुघटितः पच्धातुघटितो यो भावार्थ कृत्प्रत्ययस्तदन्तात् पाकपदात् चतुर्थी स्यादिति ' पक्तुं व्रजति इत्यर्थे ' पाकाय व्रजति ' इति सिद्धम् । पक्तुं व्रजति ' इत्यत्र व्रजनक्रियायां पाकसमानकर्तृकत्वं पाकविषयकेच्छाधीनेच्छाविषयत्वं च तुमुन'प्रत्ययेन प्रत्याय्यते इत्याह- पक्तुमिति । उक्तार्थे सूत्रं प्रमाणयति - तुमुन्ण्वुलाविति । समभिव्याहृतक्रिया = यथात्र व्रजनक्रिया । प्रकृतक्रिया = यथात्र पाकक्रिया । तदिच्छा=पाकेच्छा | 'तदर्थकत्वेन पाकार्थकत्वेन ।' स्वर्गीय पुण्यम् ' इत्यत्र स्वर्गपदात् " तुमर्थाच्च " इतिसूत्रे - णापि चतुर्थी न प्राप्नोतीति ' स्वर्गाय पुण्यम् ' इतिप्रयोगोऽसाधुरेवेत्याह- एतदिति । , एवानिति - असिद्धस्यैवेच्छाविषयत्वात् सिद्धस्यैवस्व नेच्छाविषयत्वम्, अजनस्य च व्यापाररूपत्वेन न व्यापाराश्रयत्वमिति न ' एधेभ्यो व्रजति ' इत्यत्र " तादर्थ्ये " इत्यनेन चतुर्थी नापि " तुमर्थाच्च भाववचनात् " इत्यनेन चतुर्थी - एधपदस्य क्रियारूपभावबोधकत्वाभावा दिति " क्रियार्थोपपदस्य " इत्यनेनात्र चतुर्थी भवतीत्यर्थः । " क्रियार्थोपपदस्य " इतिसूत्रस्यार्थमाह - तदर्थश्चेति, यथा ' एधानाहर्तुं व्रजति इत्यत्र क्रियार्थपदम् ' व्रजति ' इति पदं तादृशक्रियार्थोपपदस्तुमुन्नन्तो यो धातुः- धातुस्तस्याऽप्रयुक्तस्य यत्कर्मभूत एधपदार्थस्तद्वाचकादेवपदादत्र चतुर्थी प्राप्तेति ' एधेभ्यो व्रजति ' इतिसिद्धम् । अप्रयुक्तस्य तस्य यत्कर्म " इति स्ववाक्यं स्वयं व्याचष्टे - तत्प्रयोगं विनेति, हृधातुप्रयोगं विना तदर्थकर्मतया= आङ्पूर्वकवात्वर्थाहरणकर्मतया यद्विवक्षितमेधस्तद्वाचकादेघपदाच्चतुर्थी इत्यर्थः । उक्तार्थं लक्ष्पभूतप्रयोगे समनुगमयति- तत्रेति । ' आहर्तुम् ' इति, तुमुन्नन्तस्यार्थमाह- समभिव्याप्रेति, समभिव्याहृतक्रिया वजनक्रिया स्वकर्मकत्वसंबन्धेन तदन्वयी स्वार्थ एधपदार्थस्तनिष्ठकर्म ८८ " "Aho Shrutgyanam" Page #479 -------------------------------------------------------------------------- ________________ पाकाय ब्रजति इत्यादि] व्युत्पत्तिवादः। (४६७) य्याहरणं तादृशार्थकर्मतयैधस्य विवक्षितत्वात्तत्र चतुर्थी, चतुर्था एवार्थ:-तत्कमकाहरणप्रयोजनकत्वम् । 'पाकाय व्रजति ' इत्यादौ 'पाकं कर्तुम् ' इत्यर्थविवक्षायामनेनैव सूत्रेण चतुर्युपपत्तावपि यदा पाककृतीच्छाधीनेच्छाविषयत्वरूपं पाककर्मककरणप्रयोजनकत्वं न व्रजनस्य विवक्षितमपितु पाकेच्छाधीनेच्छाविषयत्वरूपं पाकार्थकत्वमेव तत्रापि चतुर्युपपत्तये 'तुमर्थात् " इतिसूत्रम् । 'अश्वाय घासः' इत्यादावश्वपदस्याऽश्वभोजनपरतया तादर्थ्यचतुर्थेव । * भातियते ' इत्यस्याध्याहारेण 'अश्वं भोजयितुमाहियते । इत्यर्थविवक्षया " क्रियार्थोपपद" इत्यादिसूत्रेण चतुर्युपपत्त्याऽश्वपदस्य मुख्यार्थपरत्वोपपादनेपि 'अश्वघासः' इत्यत्राश्वपदस्य तद्भोजनपरतायास्तादर्थ्यचतुर्थ्याश्चावश्यकता, अन्यथाऽहृतपदसापेक्षतया चतुर्थीसमासानुपपत्तेः । न च तथापि समासानुपपत्तिः-' रन्धनाय स्थाली' इत्यादौ तद्वारणाय " चतुर्थीतदर्थार्थ ” इतिसूत्रेण त्वान्वयि ( स्वनिरूपितत्वसंबन्धेन ) आहरणम् । तादृशार्थकर्मतया उक्ताहरणकर्मत्वेन । चतु र्थ्यर्थमाह- चतुर्थ्या इति, तत्कर्मक-एधकर्मक । तथा च 'एधकर्मकाहरणप्रयोजनकबजनक्रियाश्रयः । इति शाब्दबोधः। : 'पाकाय ब्रजति ' इत्यत्र पाकं कर्तुं व्रजति' इत्यर्थविवक्षायामनेन=" क्रियार्थोपपदस्य " इतिसूत्रेण चतुर्थी, व्रजने पाकेच्छाधीनेच्छाविषयत्वरूपपाकार्थकत्वस्य' पक्तुं व्रजति । इत्येवं विवक्षायां च “ तुमर्थाच्च " इतिसूत्रेण चतुर्थी भवति पाकपदस्य क्रियारूपभावबोधकवादित्याह- पाकायेति । पाककर्मककरणमित्यत्र करणेतिपदेन धात्वर्थभूतकरणं ग्राह्यम् । प्रयोगान्तरमुदाहरति- अश्वायेति, तादर्थ्यचतुर्थी=" तादर्थ्य चतुर्थी " इतिवार्तिकेन चतुर्थी । तथा च ' अश्वभोजनार्थो धासः ' इतिबोधः । यद्यपि भाहियते' इतिपदस्या. ध्याहारेण · अश्वं भोजयितुमाहियते ' इत्यर्थविवक्षयाऽश्वपदस्य मुख्यार्थपरत्वेपि “क्रियार्थोंपपदस्य " इतिसूत्रेण चतुर्युपपत्त्या · अश्वाय घास: ' इति प्रयोग उपपद्यते तथापि 'अश्वघासः ' इतिसमासोपपत्त्यर्थम् — अश्वाय घासः । इतिविग्रहवाक्येऽश्वपदस्याश्वमोजनपरत्वमश्वपदात्तादर्थ्यचतुर्थी चापेक्ष्यते, अन्यथाऽऽहृतपदसापेक्षतया “ सापेक्षमसमर्थवद्भवति " इतिनियमेन सामर्थ्याभावादऽश्वपदार्थस्य भोजनान्वयित्वेनः घासेनान्वयाभावाच 'अश्वघासः' इतिसमासो न स्यादित्याह-आहियत इति । ननु 'अश्वघासः' इत्यत्र " चतुर्थी तदर्थार्थ ” इतिसूत्रेणेव समासः कर्तव्यस्तत्र च 'रन्धनाय स्थाली' इत्यत्र तद्वारणाय चतुर्थीसमासवारणाय प्रकृतिविकृतिभावस्थले एव समासो भवति यथा 'यूपाय दारु-यूपदारु' इति तदुक्तम्-- " तदर्थेन प्रकृतिविकृतिभाव एव " इति तथा चाश्वघासयोः प्रकृतिविकृतिभावस्थामावादश्वर-दस्याश्वभोजनपरत्वेपि तादृशाश्वपदात्तादर्थ्यचतुर्थीसत्त्वेपि च ' अश्वघासः:' इतिचतुर्थीसमासो "Aho Shrutgyanam" Page #480 -------------------------------------------------------------------------- ________________ (४६८) सादर्श: [चतुर्थीकारके चतुर्थीसमासे प्रकृतिविकारभावस्य नियामकत्वानुसरणादिति वाच्यम्, आवास, गृहाऽश्वघासादौ चतुर्थीतियोगविभागेन शाब्दिकैः समासोपपादनात् । नमःस्वस्त्यादिशब्दयोगेपि तदर्थविशेषणवाचकपदात् " नमःस्वस्ति " इत्यादिसूत्रेण चतुर्थ्यनुशिष्यते । नम:शब्दार्थस्त्यागो नमस्कारश्च 'एषोऽर्थ्य: शिवाय नमः' इत्यादी त्यागार्थको नमःशब्दः, चतुर्था च तत्र प्रकृत्यर्थस्य शिवादेरुद्देश्यत्वं प्रत्याय्यते । त्यागश्च यदि शिवस्यायं भवतु ' इत्यादिफलेच्छाधीनस्वस्वत्वाभावेच्छारूपस्तदा त्यागोद्देश्यत्वं त्यागजनकेच्छायाः स्वत्वभागितया विषयत्वम् । यदि च त्यागरूपेच्छैव स्वस्वत्वाभावमिवान्यदीयत्वेन त्यज्यमानगतं स्वत्वमपि तत्र विषयीकरोति न तु तजनकेच्छा तदा स्वत्वभागि: तया त्यागविषयत्वमेव तदुद्देश्यत्वम् । शिवाविग्रहवत्वेपि स्वीकाराभावात तदाकारतया ध्यातमन्त्रस्य त्यागोदेश्यतामते तदभावाच त्यज्यमानोपचारादौ स्वत्वाभावेपि तदीयत्वेन तत्तद्रव्ये स्वत्वावगाहिनीच्छा विसंवादिरूपैव-द्रव्यनिष्ठेऽन्यदीयस्वत्वे बाधितं शिवादिनिरूपितत्वं शिवादिनिरूपित प्रसिद्धस्वत्वान्तरें वा बाधितं तत्तद्रव्यसंबन्धमवगाहते । नोपपद्यत इयाशङ्कयाहन चेति । परिहारमाह-आवासेति, " चतुर्थी तदर्थार्थ " इतिसूत्रे " चतुर्थी " इतिपदस्य योगविभागेन — चतुर्थ्यन्तं सुबन्तेन सह समस्यते ' इत्यर्थलाभात् "भावासाय गृहम्-आवासगृहम्' ' अश्वाय वास:-अश्वघासः ' इति समास उपपद्यते इत्यर्थः। वस्तुतस्तु · अश्वघास: । इतिषष्ठीसमास एवेति, कौमुद्यां द्रष्टव्यम् । . प्रयोगान्तरमुदाहरति-नम इति, रामाय नमः ' इत्यादौ रामायुद्येश्यकनमस्कारप्रतीत्या नमः पदार्थादीनां विशेष्यत्वेन तत्र रामादिपदार्थस्य विशेषणत्वमिति रामादिपदेभ्यः"नमःस्वस्ति" इतिसूत्रेण चतुर्थीत्यर्थः । नम:पदार्थमाह-नमःशब्दार्थ इति । तत्र=नमःशब्दार्थत्यागे । 'शिवोद्देश्यकार्यत्यागः' इतिबोधः । त्यागपदार्थमाह-त्यागश्चेति । फलमत्र शिवस्वत्वं ग्राह्यम् । अस्मिन् प्रथमकल्पे त्यागोद्देश्यत्वस्य स्वरूपमाह त्यागोद्देश्यत्वमिति । स्वत्वभागितया त्यागजनकेच्छाविषयत्वं त्यागोद्देश्यत्वमित्यन्वयः, अस्ति चात्रैतादृशोद्देश्यत्वं शिवस्य । त्यागोद्देश्यत्वस्य स्वरूपान्तरमाह- यदि चेति । तजनकेच्छा=परस्वत्वजनके च्छा त्यागजनकेच्छावा । परस्वत्वस्येच्छारूपत्यागविषयत्वमनेन प्राप्तमिति स्वत्वमागितया त्यागविषयत्वमेव त्यागोद्देश्यत्वमित्यर्थः । अन च द्वितीयकल्पेपि त्यागस्वरूपं पृथग्रवक्तव्यमासीदिति ध्येयम् । शिवादेविग्रहवत्त्वेपि शिवादिकर्तृकस्वीकारासंभवेन त्यज्यमानोपचारादौ-नैवेद्यादौ शिवादिस्वत्वाभावेप्युक्तत्यागरूपेच्छा तदीयस्वत्वमवगाहते इति विसंवादिरूपा आन्तिरूपैवेत्याह-शिवादेरिति । शिवस्वरूपेण ध्यातमन्त्रस्य त्यागोदेश्यतामते च सुतरां विसंवादः-तदभावात विग्रहवस्वस्यैवाभावाद् दूरे स्वीकर्तृत्वमित्याह- तदाकारतयेति । विसंवादिरूपत्वे हेतुमाह-द्रव्यनिष्ठेति, शिवायुद्देशेन त्यव्यमानो "Aho Shrutgyanam" Page #481 -------------------------------------------------------------------------- ________________ स्यागर्थकनमः शब्दयोगे चतुर्थी ] व्युत्पत्तिवादः । (४६९ ) न च स्वत्थान्तररूपफलेच्छां विना स्वस्वत्वाभाव गोचरेच्छेव न संभवतीति * शिवादिस्वत्वं त्यागस्यैव विषयः इतिपक्षोऽसंभवदुक्तिक इति वाच्यम्, स्वस्व - त्वाभावविषयकेच्छायाः पुण्यादिरूपफलजनकत्वात् तद्विषयस्य पुण्यादिजनकतावच्छेदकस्यापि पुण्यादिफलकत्वात्, अन्यथा तत्स्वत्वस्यापीष्टान्तराऽजनकतया स्वतोsपुरुषार्थतया च प्रथममपि तदिच्छाया असंभवेन प्रथमकल्पस्यापि हेयत्वापातात्, तत्र च प्रथमकल्पे स्वत्वप्रकारकेच्छाजन्यत्वं जन्यतासंबन्धेन त्यागान्वयिनी तादृशेच्छैव वा चतुर्थ्यर्थस्तत्र प्रकृत्यर्थस्य शिवादेर्विषयिताविशेषसंबन्धेनान्वयः । द्वितीयकल्पे च विषयिताविशेष एव चतुर्थ्यर्थस्तत्र च: निरूपितत्वसंबन्धेन शिवादेरन्वयः नमः पदार्थत्यागस्य च विषयताविशेषसंबन्धेन द्रव्येऽन्वयः, द्रव्यस्यैव वा विशेष्यतया भासमानत्यागे विषयिताविशेषसंवन्धेनान्वयः । पचारादिरूपद्रव्ये ब्राह्मणादीनामेव स्वत्वं जायते तादृशस्वत्वे ब्राह्मणादिनिरूपितत्वस्य सत्त्वेन शिवादिनिरूपितत्वस्य च बाधितश्वेन तादृशबाधितशिव निरूपितत्वस्यावगाहनाद्विसंवादिरूपता यदि त्रिशूलावस्थे शिवादिनिरूपिते प्रसिद्धस्वत्वे त्यज्यमानद्रव्यसंबन्धमवगाहते तदा एतादृशसंबन्धस्यापि बाधितत्वाद् बाधितावगाहनेन विसंवादिरूपतैव प्राप्तेत्यर्थः । त्रिशूलादिनिष्ठे स्वत्वे त्रिशूळादीनामेव संबन्धो न त्वस्मदादित्यज्यमानद्रव्यस्य संबन्ध इति ज्ञेयम् । ननूद्देश्यत्वद्वितीयस्वरूपे यत् " यदि च त्यागरूपेच्छेव " इत्यादिना शिवादिस्वत्वस्यापि त्यागरूपेच्छाविषयत्वमुक्तं तन्न संभवति- शिवादिस्वत्वरूपफलविषयकेच्छा विना स्वस्वत्वाभा - चविषयकत्यागरूपेच्छाया असंभवादित्याशङ्क्याह- न चेति । उत्तरमाह - स्वस्वत्वेति, स्वस्वत्वाभावविषयकेच्छयापि पुण्यमुत्पद्यते इति पुण्यादिजनकता स्वस्वत्वाभावेच्छायामस्ति पुण्यादिननकतावच्छेदकं च स्वस्वत्वाभाव एव स एव स्वस्वत्वाभावेच्छाया विषय इति स्वस्वत्वामाचेच्छाया पुण्यजनकत्वे प्राप्ते पुण्यजनकतावच्छेदकस्य स्वस्वत्वाभावस्यापि पुण्यजनकत्वं प्राप्तमेवेति स्वस्वभावस्य पुण्योत्पादकत्वज्ञाने जाते परस्वत्वरूपफलेच्छां विनापि स्वस्वत्वाभावगोचरेच्छा संभवत्येवेत्युक्तपक्षे नाऽसंभवदुक्तिकत्वं दोष इत्यर्थः । विपक्षे बाघकमाह - अन्यथेति, यदि स्वस्वत्वाभावस्य पुण्योत्पादकत्वं न स्यात् तदा पुण्योत्पादकत्वज्ञानेपि परस्वत्व विषयकेच्छां विना स्वस्वस्वाभावविषयकेच्छा न संभवेत्तथा च तत्स्त्वत्वस्य = परस्वत्वस्याप्येकेष्टजनकत्वेनेष्टान्तराजनकतया स्वयं च सुखदुःखाभावयोः पुरुषार्थयोर्मध्येऽन्यतररूपत्वाभावेनाऽपुरुषार्थतया प्रथमं तदिच्छा. याः = परस्वत्वविषयके च्छाया अप्यसंभवात् प्रथमकल्पस्य = "" त्यागश्च यदि ” इत्यादिनोक्तस्थ परस्वत्वेच्छानन्तरं स्वस्वत्वाभावेच्छेतिकल्पस्यापि हेयत्वं स्यात् = असंभवदुक्तिकत्वं स्यात् उक्तरीत्या परस्वत्वेच्छाया अपि प्रथममसंमवादित्यर्थस्तथा चोक्तं पक्षद्वयमपि संभवदुक्तिकमेव रक्तप्रथमकल्पे चतुर्थ्यर्थमाह-तत्रेति । स्वत्वप्रकारकेच्छाजन्यत्वं त्यागे ज्ञेयम् । तत्र चतुर्थ्यर्थरू " Aho Shrutgyanam" Page #482 -------------------------------------------------------------------------- ________________ (४७०) सादर्श: [चतुर्थीकारकेन च प्रथमान्तपदार्थस्य मुख्यविशेष्यतानियमः- 'भूतले न घटः' इत्यादौ निपातार्थस्यापि मुख्यविशेष्यतया भानात् । “ शिवायोत्सृजति ' इत्यादाविव. नात्राऽनिराकर्तृसंप्रदानता-त्यागपदार्थस्य क्रियात्वाभावात् । _ नमःपदेन च स्वप्रयोक्तृपुरुषकर्तृकत्वोपरागेणैव त्यागोऽभिधीयते- अन्योचरितनमःपदेनाऽन्यदोयत्यागावोधनात् । तत्पुरुषोचरितनमःपदात् त्यागबोधे सति त्यागे त्यज्यमाने द्रव्ये चान्यदीयत्वसंशयानुदयात् , अत एव त्यागे तदीयत्वबोधनाय ' अहं ददे' इत्यादिवत् ' अहं नमः' इति न प्रयुज्यते, न वा परकीयत्वबोधनाय 'चैत्रो नमः' इत्यादि । ऋत्विजा च यजमानरूपपुरुषान्तरीयतत्तद्रव्यत्यागे स्वीयत्वमारोप्यैव पूजायां नमःपदं प्रयुज्यते स चारोपस्तस्य विशेषदर्शनदशायामप्याहार्यतयोपपद्यते इति प्रतिनिधिप्रयुक्तस्य दानवाक्यस्येव पूजायां तादृशनमापदघटितवाक्यस्य बाधितार्थत्वेप्यदृष्टजनकत्वं न विरुद्धम् । पेच्छायाम् । “ यदि च त्यागरूपेच्छैव " इत्याधुक्तद्वितीयकल्पे चतुर्थ्यर्थमाह-द्वितीयकल्पेति । शिवनिष्ठोद्देश्यताख्यविषयतानिरूपितविषयिताश्रयीभूतेच्छाजन्याऽर्थ्यविषयकस्त्याग इतिशाब्दबोधः। स्पष्टमन्यत् । ननु प्रथमान्तपदार्थस्यैव विशेष्यत्वं भवतीति नियमे सत्यपि कथं नमःपदार्थत्यागस्य विशेष्यत्वमुक्तमित्याशङ्क्याह- न चेति । उत्तरमाह- भूतले इति । निपातार्थस्य नअर्धाभावस्य । 'घटाभावो भूतलवृत्तिः । इत्याकारकशाब्दबोधोदयादित्यर्थः । ननु ' एषोर्ध्यः शिवाय नमः' इत्यत्र शिवस्यानिराकर्तृसंप्रदानत्वं स्वीकार्य तथा च संप्रदानचतुर्थेव शिवपदात् संभवेदिति " नमःस्वस्ति" इति सूत्रं व्यर्थमेवेत्याशङ्कयाह- शिवायेति । त्यागपदार्थस्येच्छारूपत्वेन गुणत्वात् न क्रियारूपत्वम्, अनिराकर्तृसंप्रदानत्वं चोत्सृजतीत्यादिकियासत्त्वे एव भवतीत्यत्र नमःस्वस्त्यादिशब्दयोगे चतुर्युपपत्त्यर्थम् “ नमःस्वस्ति " इत्या. दिसूत्रं सार्थकमावश्यकं चेत्यर्थः ।। __ नम इति- स्वम् नमःपदम् । तथा च चैत्रोच्चारितनमःपदेन चैत्रकर्तृक एव त्यागो बोध्यते नान्यकर्तृक इत्यर्थः । उक्तेः हेतुमाह- अन्येति । हेत्वन्तरमाह- तत्पुरुषेति, चैत्रोच्चारतनमःपदाद् यदा त्यागबोधो भवति तदा तस्मिन् त्यागे त्यज्यमानद्रव्ये चान्यदीयत्वस्य संशयोपि न भवतीति नमःपदेन स्वोच्चारणकर्तृकर्तृक एक त्यागो प्रत्याय्यते इत्यर्थः । अत एवेति- यत एवोक्तान्यदीयत्वसंशयोपि नमःपदार्थत्यागे न भवत्यत एव । न वेति- परोचारितनमापदात् परकीयस्यैव त्यागस्य बोधो जायते इति न चैत्रादिनामोच्चारणापेक्षेत्यर्थः । ऋत्विगुच्चारितनमःपदाद् यजमानीयत्यागस्यैव बोधो भवतीत्याह- ऋविजेति । तस्य-ऋत्विजः। विशेषदर्शनदशायाम्= इदं द्रव्यं मदीयं न । इत्याकारकस्वकीयत्वाभावज्ञानदशायामपि । आहार्यतया बाधितत्वरूपेण । प्रतिनिधिप्रयुक्तस्येति दानवाक्यस्य विशेषणम् । तादृशनमः "Aho Shrutgyanam" Page #483 -------------------------------------------------------------------------- ________________ त्यागार्थकनमःपदम् ] व्युत्पत्तिवादः । ( ४७१ ) अस्मच्छन्दादिवत्- स्वोच्चारणकर्तृत्वोपलक्षितपुरुष विशिष्टवाचकान्नमः पदाद् विशेषरूपेण पुरुषभानम् । व्यशक्यस्य चैत्रत्वादेर्भानासंभवे तस्यापि वाच्येऽन्तर्भावः स्वीकरणीयः । तदनुगमकं चोपलक्षणीभूतमेककालीनोभयावृत्त्युच्चारबिवृशरीरजातित्वम् स्वत्वाननुगमेपि शक्त्यैक्यं कथंचिदुपपादनीयं सर्वनामशक्त्यैक्यवत् । , उपलक्षणरूपप्रविष्टमुच्चारणं वेदीयत्वेन विशेषणीयम्. अतः पूजाभिन्नयाहच्छिकान्नत्यागबोधनाय ' अन्नं नमः ' इति न प्रयोगः | योग्यतासत्त्वेपि तत्र नमः - पदप्रयोगस्य वेदाबाधितत्वेन तद्घटिततत्पदशक्य पुरुषोपलक्षणरूपाऽप्रसिद्धयावाचकत्वात् । अत एव यथा नीचप्रीतिहेतुक्रियास्थले पूजयति' इत्यादिप्रयोगवारणाय पूजयतीत्यादिवाच्यमीतौ गौरवितवृत्तित्वं स्वसमभिव्याहृतकर्तृपदघटितवाक्यस्य=ऋत्विगुञ्चारितनमः पदघटितवाक्यस्य किं वा “प्रतिनिधिप्रयुक्तस्य" इत्युभयत्रैव विशेषणम् । अत्र चैतदऽदृष्टं यजमानसमवेतमेवोत्पद्यते न ऋत्विक्समवेतमिति शास्त्रफलं प्रयोक्तारं " इतिमीमांसाधिकरणे ( ३ । ७ । ८ ) द्रष्टव्यम् । अस्मदिति— यथाऽस्मच्छन्दस्य स्वोच्चारणकर्तृत्वोपलक्षितधर्मावच्छिन्ने शक्तिस्तथा नमः पदस्यापि स्वोच्चारण कर्तृत्वोपलक्षितपुरुषविशिष्टत्यागे शक्तिरिति स्वोच्चारणकर्तृत्वो पलक्षित पुरुषस्य शक्यांशे प्रवेशाद् नमः पदात् तस्य स्वोच्चारयितुर्विशेषरूपेण = चैत्रत्यादिरूपेण मानं भवतीत्यर्थः । यद्यपि चैत्रत्वादेर्न शक्यत्वं तथाप्युक्तरीत्या स्वोच्चारणकर्तृत्वरूपेण चैत्रत्वादेरपि नमः - पदवाच्यत्यागेऽन्तर्भावः संभवतीत्याह- अशक्यस्येति । चैत्रत्वादेरनुगमकमाह--तदनुगमकमिति, एककाले उभयशरीरावृत्ति यदुच्चारयितृशरीरजातित्वं तदेवोपलक्षणीभूतमनुगमकं तच चैत्रत्वाद्येव भवति चैत्रत्वस्यैकस्मिन् काले उभयशरीरावृत्तित्वात्, मनुष्यत्वादिकं तूमयशरीरवृत्त्येवेति तन्न ग्राह्यमित्यर्थः । चैत्रद्वयसत्त्वेपि तन्नमः पदोच्चारयितृत्वं त्वेकस्यैवैकस्मिन् काले संभव - तीति ज्ञेयम् । स्वोच्चारणेत्यत्र स्वत्वाननुगमेपि शक्तयैक्यं शक्तिवादोक्तरीत्या कर्तव्यमिति सूचयतिस्वत्वाननुगमेपीति । विशेषान्तरमाह - उपलक्षगेति, यत्र वेदेन नमःपदोच्चारणं विहितमस्ति तत्रैव नमःपदेन त्यागबोधो भवति नान्यत्रेति स्वोच्चारेणेत्यत्र वेदबोधितस्वोच्चारणेत्येवं वक्तव्यमित्यर्थः । उक्तस्य फलमाहअत इति । उक्ते हेतुमाह- योग्यतेति नमः पदस्य त्यागबोधने त्योग्यतास्त्येवेत्यर्थः । तत्र= यादृच्छिकत्यागे । तद्द्घटितेति- तदुद्घटितम् = यादृच्छिकत्यागविषयीभूतवाचकन्नादिपदघटितं यत् तत्पदम् = नमः पदं तच्छक्यं यत् पुरुषोपलक्षणरूपम् - वेदीयनमः पदोच्चारणं तस्याऽप्र'सिद्ध्या=असत्त्वात् ' अन्नं नमः ' इत्यादौ नमः पदस्य त्यागावाचकत्वं प्राप्तम् - वेदबोधितं यत् नमःपदोच्चारणं तत्कर्तृत्वोपलक्षितपुरुषोच्चारितस्यैव नमःपदस्य त्यागबोधकत्वादित्यर्थः । अत एवेति - पुरुषोपलक्षणीभूतोच्चारणे वेदीयत्वविशेषणप्रवेशादेवेत्यर्थः । गौरवितवृत्तित्वम् = पूज्यवृ " Aho Shrutgyanam" S 66 Page #484 -------------------------------------------------------------------------- ________________ (४७२) सादर्श: :[ चतुर्थी कारकेपुरुषाऽवधिकोत्कर्षववृत्तित्वरूपमुपलक्षणमुपेयते उक्तस्थले च योग्यतासत्त्वेपि नीचवृत्तिप्रीतेः स्वसमभिव्याहृतकत्रऽवधिकोत्कर्षववृत्तित्वरूपोपलक्षणानाका. न्तत्वेन तत्प्रीतिहेतुक्रियावाचकत्वविरहेण तत्तात्पर्येण 'पूजयति' इत्यादेन प्रयोगः, तथा नीचोद्देश्यकत्यागतात्पर्येण नमःपदाप्रयोगात् तदतिप्रसङ्गवारणाय गौरवितोद्देश्यकत्यागे एव नमःपदशक्तिरित्यनादेयम्- गौरवितोद्देश्यकस्वस्य नमःपदार्थशरीरे निवेशेपि गौरवितोद्देश्यकपूजातिरिक्तद्रव्यत्यागबोधनाय नमःपदप्रयोगवारणायोक्तविशेषणस्योच्चारणेऽवश्यं निवेशनीयतया तत एव तदतिप्रसङ्गवारणात् । 'इन्द्राय स्वाहा ''तुभ्यं स्वधा' इत्यादावनिप्रक्षेपोपहितदेवोद्देश्यकत्यागबोधकस्वाहापद पित्रुद्देश्यकत्यागबोधकस्वधापदयोरपि नमःपदवद् देशनादेशितो. बारणकर्तृत्वोपलक्षितपुरुषीयत्यागवाचकता, अन्यथा पूर्ववदेवातिप्रसङ्गः । एवं च देवोद्देश्यकत्वादेरपि न वाच्यान्तीवः, अतादृशत्यागतात्पर्येण स्वाहादिग्रयोगस्य देशनादेशितत्वविरहेणैवाऽनतिप्रसङ्गात्, अत एव तान्त्रिकपूजायातित्वम् । स्वेति- यथा 'चेत्रः पूजयति हारिम्' इत्यत्र स्वम्=पूजयतिपदं तत्सममिव्याहृतः कर्तृपुरुषश्चैत्रस्तदवधिको य उत्कर्षस्तद्वान् हरिस्तवृत्तिवं पूजधात्वर्थप्रीतावस्त्येवेति स्वसमभिव्याहृतकर्तृपुरुषावधिकोत्कर्षववृत्तित्वविशिष्टा प्रीतिः पूजधात्वर्थः । उक्तस्थले= मृत्यं पूजयति । इत्यादौ । तत्प्रीति-नीचप्रीति । पूजयतिपदस्येत्यादिः । तत्तात्पर्येणः-नीचप्रीतिहेतुक्रियातात्पर्येण । नमःपदाप्रयोगादिति- नीचोद्देश्यकत्यागाय नमःपदप्रयोगो न भवतीति तदतिप्रसङ्गवारणाय नीचोद्देश्यकत्यागे नमःपदप्रयोगापत्तिवारणाय गौरवितोदेश्यकत्यागे एव नमःपदशक्तिरस्तीत्यऽनादेयम्-न वक्तव्यम् । उक्त हेतुमाह- गौरवितोद्देश्यकत्वस्येति, गौरवितोद्देश्यकयादृच्छिकत्यागार्थमपि नमःपदप्रयोग इष्टो नास्तीति नमःपदेन गौरवितोद्देश्यकयादृच्छिकत्यागबोधस्यापि वारणाय उक्तविशेषणस्यवेदीयत्वविशेषणस्य नमःपदोच्चारणेऽवश्यं निवेश्यत्वात् ततःवेदीयत्वविशेषणादेव तदतिप्रसङ्गस्य-नीचोद्देश्यकत्यागतात्पर्येण नमःपदप्रयोगापत्तेारणस्य संभवान्- वेदेन दानरूपस्त्याग उत्कृष्टोदेश्यकत्वेनैव बोधितो न तु नीचोद्देश्यकत्वेनेति न नीचोद्देश्यकल्यागतात्पर्येण नमःपदप्रयोगापत्तिरित्यर्थः । इन्द्रायेति- अग्निप्रक्षेपोपहितः अमिप्रक्षेपोपलक्षितो देवोद्देश्यकत्यागः स्वाहापदार्थः, पित्र्युद्देश्यकत्यागः स्वधापदार्थ इत्यन्वयः । देशना-चोदना । देशनादेशितोचारणम् वेदबोधितोचारणं तत्कर्तृत्यो ग्लक्षितपुरुषोयत्यागे एव स्वधास्वाहापदयोः शक्तिारति यादृच्छिकत्यागार्थ न स्वधास्वाहापदयोः प्रयोगापत्तिरित्यर्थः । अन्यथा देशनादेशितेत्यादिविशेषणाभावे । पूर्ववदेव नमःपदवदेव । अतिप्रसङ्गः यादृच्छिकत्यागे स्वधास्वाहापदयोः प्रयोगापत्तिः । एवं चन्देशनादेशितेत्यादिविशेषणात । वाच्ये त्यागे । अतादृशत्यागतात्पर्येण= "Aho Shrutgyanam" Page #485 -------------------------------------------------------------------------- ________________ नतिरूपो नमःपदार्थः ] व्युत्पत्तिवादः । (४७३) माचमनीयादिदानेऽग्निप्रक्षेपोपहितत्वपित्रुद्देश्यकत्वविरहेपि स्वाहास्वधाप्रयोगस्य नाऽसमवेतार्थता. एवं च सति : नमःस्वाहास्वधाशब्दानामेकस्थानेऽन्यप्रयोगस्यापि वेदबोधितत्वाभावेनैव नातिप्रसङ्गः।। नतिरूपो नमःपदार्थश्च स्वापकर्षबोधनानुकूल: स्वीयव्यापारः, चतुर्थ्या चाप. कर्षान्वय्यांवधित्वमऽवधिमत्त्वं वा प्रत्याय्यते. स्वमुच्चारयिता. तथा च चैत्रायुच्चारितात् ' नमो हरये' इत्यादिशब्दाद्धर्यऽवधिकचैत्रापकर्षबोधानुकूलश्चैत्रीयव्यापार इत्याकारको बोधः । नारायणं नमस्कृत्य ' इत्यादौ नमाशब्दयोगेपि न चतुर्थी- द्वितीयया कारकविभक्तित्वेन बलीयस्या बाधात् । __अथात्र नारायणादेर्नमस्कारघटकापकर्षावधित्वमेव तच्च न कर्मत्वं कर्मत्वं च क्रियाजन्यफलशालित्वादिरूपमेव तच्च न तस्येति द्वितीयाया नायं विषयः । न चापकर्षबोधरूपफलाश्रयत्वरूपकर्मत्वं तत्राबाधितमेवेति तद्विवक्षयैव द्वितीयोपपत्तिरिति वाच्यम्, एवं सति नारायणावधिकाऽपकर्षबोधकदण्डवत्प्रणिपाताअदेवोद्देश्यकत्यागतात्पर्येण । अत एव देशनादेशितेतिविशेषणादेव । देवोद्देश्यकाOदिदानरूपत्यागेऽमिप्रक्षेपोपहितत्वं पित्रुद्देश्यकत्वं च नास्येवाऽथापि स्वधास्वाहाप्रयोगस्याऽसमवेतार्थता=बाधितार्थकता नास्ति तान्त्रिकपूजाया अपि वेदबोधितत्वेन तद्घटकाया॑दिदानस्यापि वेदबोधितत्वप्राप्त्या तद्बोधकत्वं स्वधास्वाहापदयोर्युक्तमेवेत्यर्थः । देशनादेशितेत्यादिविशेषणस्योपयोगान्तरमाह- एवं चेति, वेदेन देवोद्देश्यकत्यागे एवं स्वाहापदं निर्दिष्टमिति न स्वाहापदस्य पित्रुद्देश्यकत्यागे प्रयोगापत्तिरेवं स्वधापदस्य न देवोद्देश्यकत्यागे प्रयोगापत्तिरित्यर्थः । नतिरूपनमःपदार्थमाह- नतिरूप इति । अपकर्षावधित्वमपकर्षनिरूपितमिति निरूपकता. संबन्धेनाऽपकर्षेऽवधित्वान्वयः । अपकर्षनिरूपितावधित्वं च नमस्कार्ये । वाक्यार्थबोधस्वरूप. माह- तथा चेति । ननु यदि नमःपदयोगे “ नमःस्वस्ति" इतिसूत्रेण चतुर्थी भवति तदा “नारायणं नमस्कृत्य ' इत्यत्र कथं न नमःपदयोगेपि चतुर्थीत्याशङ्क्याह- नारायणमिति, 'नारायणं नमस्कृत्य ' इत्यत्र नारायणस्य धात्वर्थनिरूपितकर्मत्वाद् द्वितीयैव भवति- “ नमः स्वस्ति " इतिसूत्रप्राप्तचतुर्था उपपदविभक्तित्वाद् द्वितीयायाश्च कारकविमक्तित्वाद् उपपदवि. भक्त्यपेक्षया कारकविभक्तबलीयस्त्वादुपपदविभक्तिबाधकत्वादत्र द्वितीयेत्यर्थः ।। शकते- अथेति । अत्र' नारायणं नमस्कृत्य ' इत्यत्र । तच नमस्कारघटकापकर्षावधित्वं च । कर्मत्वस्वरूपमाह- कर्मत्वं चेति । तत्-क्रियाजन्यफलशालित्वम् । तस्य-नारायणस्य । तथा च नारायणस्यात्र क्रियाजन्यफलशालित्वाभावान्न कर्मवं कर्मत्वामावाच्च न द्विती. याप्राप्तिरित्यर्थः । ननु स्वापकर्षबोध एव फलं तदाश्रयत्वं च सत्र नारायणेऽस्त्ययेति युक्तं कर्मत्वमित्याशङ्कयाह-- न चेति । परिहारहेतुमाह- एवमिति, यदि स्वापकर्षबोधाश्रयतया नारायणस्य कर्मत्वं तदा यदा नारायणाने दण्डवत्प्रणामः क्रियते तदा तत्रस्थपुरुषस्यापि 'भयं "Aho Shrutgyanam" Page #486 -------------------------------------------------------------------------- ________________ (४७४) सादर्श: चतुर्थीकारकेदिलिङ्गकताहशापकर्षबोधाश्रयतायाः पुरुषान्तरसाधारणतया नारायणप्रणाम: दशायाम् ' मनुष्यं नमस्करोति' इत्यादिप्रयोगापत्तिः । यदि चापकर्षावधित्व.. प्रकारकबोधानुकूलव्यापारो नमस्कारस्तद्घटकबोधविशष्यतया नारायणादेः कर्मत्वं क्रियाजन्यफलशालित्वरूपे कर्मत्वे च व्यापारांशेऽनुकूलतासंबन्धेन विशेपणीभूतं फलमेव विवक्षणीयमत्र चानुकूलत्वमेव व्यापारांशे विशेषणमित्यपकर्षावधित्वबोद्धः पुरुषान्तरस्य न कर्मतेत्युच्यते ?, तदापि ‘नारायणं प्रणम्य ' इत्यादावेव कर्मत्वमुपपद्यते न तु ' नारायणं नमस्कृत्य' इत्यादौ- नम:पदार्थघटकज्ञानस्य धात्वर्थताविरहेण तद्विषयतायाः कर्मतानात्मकत्वात् कृतिविषयतायाश्च नमःपदार्थव्यापारे एव सत्त्वात् ।। मैवम्-'नमस्करोति' इत्यादौ कृधातुनैव व्यापारबोधात्. अत्र च स्वापकर्षावधिवप्रकारकबोधविषयतामात्रं निपातार्थः, अत्र स्वं समभिव्याहृतः कर्ता तया च तादृशबोधविषयताप्रयोजकव्यापारानुकूलकृतिमानिति समुदायाधीनो स्वात्मानमपकृष्टं मन्यते ' इत्याकारकस्तदपकर्षबोधो जायते एवेति तादृशबोधाश्रयतया तस्यापि मनुष्यस्य कर्मत्वापत्त्या नारायणोद्देश्यकप्रणामदशायाम् “मनुष्यं नमस्करोति' इतिप्रयोगः स्थादेव न चैतदिष्टमित्यर्थः । नन्वपकर्षावधित्वप्रकारकबोधानुकूलव्यापारो नमस्कारस्तथा च नारायणावधित्वप्रकारकस्य स्वापकर्षबोधस्य विशेष्यता=आश्रयता हि नारायणे एव न तत्रस्थ. मनुष्ये इति न नारायणप्रगामदशायां मनुष्यस्य प्रणामकर्मतापत्तिः, क्रियाजन्यफलशालित्वरूपकर्मत्वशरीरप्रविष्टं च फलं व्यापारांशेऽनुकूलतासंबन्धेन विशेषणीभूतमेव फलं प्राह्यमिति नारा. यणसमवेत एव बोधो नमस्काररूपव्यापारेऽनुकूलतासंबन्धेन विशेषणं भवति–नारायणसमवेतबोधस्यैव तादृशव्यापारजन्यत्वाद् न तु मनुष्यसमवेतोपीति नारायणप्रणामदशायामत्र-पुरुषान्तरसमवेतस्वारकर्षबोधे, विषयत्वं सप्तम्यर्थ इति पुरुषान्तरसमवेतस्वापकर्षबोधविषयकानुकूलत्वमेव नमनव्यापारे विशेषणं भवति न त्वनुकूलतासंबन्धेन पुरुषान्तरसमवेनस्वापकर्षबोधरूपं फलमिति तादृशस्याऽपकर्षावधित्वबोद्धः पुरुषान्तरस्य न कर्मतापत्तिरित्याऽऽशड्क्याह-- यदि चेति । उत्तरमाह- तदापीति । नमःपदार्थघटकझानस्य- स्वापकर्षबोधस्य । ननु कृतिविषयस्वादेव नारायणस्यात्र कर्मत्वं भविष्यतीत्याशङ्कयाह- कृतीति । कृतिविषयता तु नमनानुकूलव्यापारे एव न तु नारायणे इत्यर्थः । अथेत्यादिनाशङ्कितं परिहरति- मैवमिति । अपकर्षावधित्वप्रकारकबोधानुकूलव्यापारो न नमस्कारपदार्थः किं तु तत्र व्यापारमात्रं कृधात्वर्थः, स्वापकर्षावधित्वप्रकारकबोधविषयता च निपातार्थ:-नमः पदार्थस्तथा च 'नमस्करोति । इत्यस्य स्वापकर्षावधित्वप्रकारकबोधविषयतानुकूलव्यापारोर्थस्तत्र व्यापारविशेषणीभूत (व्यापारप्रयोज्य ) तादृशविषयताश्रयतया नारायणस्य कर्मत्वं न तु मनुष्यस्य- तादृशबोधविषयताश्रयत्वाभावादिति न नारायणप्रणामदशायाम् "Aho Shrutgyanam" Page #487 -------------------------------------------------------------------------- ________________ नमःपदवटितप्रयोगाः ] व्युत्पत्तिवादः । (.४७५) बोधः, तादृशविषयताश्रयतया नारायणादेः कर्मत्वम्- यतः 'धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् ' इत्यत्र धात्वर्थतावच्छेदकत्वं न धातुशक्यतावच्छेदकत्वम्. आपे तु व्यापाररूपार्थेऽनुकूलतासंबन्धेन विशेषणतया धातुप्रति पाद्यत्वम् । प्रकृते च निपातार्थस्य धात्वर्थे साक्षादन्वयेन ताशबोधविषयत्वरूपस्य नमःपदार्थस्य धात्वर्थतावच्छेदकत्वमक्षतमेव । न चैवं पूर्वदेशादेर्गम्यादिकर्मत्वं दुर्वारम्, विभागादौ क्रियाजन्यत्वसत्त्वेपि निरुक्तधात्वर्थतावच्छेदकत्वाभावात्, न हि विभागादिर्गम्याद्यर्थे कथमपि विशेषणतया भासते । एवं च नारायणादेः करोतिकर्मत्वेपि नमःपदादिकं विना न तद्योगे नारायणादिपदोत्तरं द्वितीया-तदर्थान्वयिफलोपस्थापकाभावेन तदर्थानन्वयात् । नापि 'नारायणं फलं करोति' इतिप्रयोगापत्तिः-फलस्यात्र धात्वर्थव्यापारे साक्षादविशेषणत्वातू. निपातातिरिक्तनामार्थस्य धात्वर्थे भेदेनान्वयस्याव्युत्पन्नत्वात्. धात्वर्थे साक्षाद्विशेषणीभवत्येव फले द्वितीयार्थाः 'मनुष्यं नमस्करोति ' इति प्रयोगापत्तिरित्यर्थः । ननु यद्युक्तविषयता नमःपदार्थ एव न धात्वर्थस्तदा तस्या विषयताया धात्वर्थतावच्छेदकत्वाभावात्कथं तदाश्रयस्य नारायणस्य कर्मत्वं स्या दित्यत्राह- यत इति, धात्वर्थतावच्छेदकत्वं हि व्यापारेऽनुकूलतासंबन्धेन विशेषणतया धातुप्रतिपाद्यत्वमेव तथा च प्रकृते नम:पदार्थभूतोक्तविषयताया धात्वर्थे साक्षादेवान्वयोस्ति नमस्करोतीतिधातुप्रतिपाद्यत्वमप्यस्त्येवेति धात्वर्थतावच्छेदकत्वं प्राप्तं धात्वर्थतावच्छेदकत्वाच्च ताद. शविषयताश्रयस्य नारायणस्य युक्तं कर्मत्वमित्यर्थः । तादृश निपातार्थभूत ।। मनु यदि व्यापारेऽनुकूलतासंबन्धेन विशेषणतया धातुप्रतिपाद्यत्वमेव धात्वर्थतावच्छेदकत्वं तदा 'गच्छति । इत्यत्र गमनव्यापारस्य पूर्वदेशविभागजनकत्वमप्यस्त्येवेति विभागस्याप्यनुकूलतासंबन्धेन व्यापारविशेषणत्वात् तादृशविभागाश्रयतया पूर्वदेशस्यापि गम्यादिकर्मत्वं स्यादित्याशङ्याहन चेति । परिहारमाह- विभागादाविति । निरुक्तधातु गम्यादिधातु । विशेपान्तरमाह-एवं चेति । तद्योगे= करोति' इतिपदयोगे । नारायणे नित्ये करोत्यर्थकर्मस्वाभावादिति भावः । तदर्थान्वयि द्वितीयार्था ( वृत्तित्वाद्य ) ऽन्वयि यत्फलं निरुक्तबोधवि. षयतारूपं तदुपस्थापकस्य नमःपदस्याभावेन तदर्थानन्वयात्-द्वितीयान्वयाऽसंभवात् । विशेषान्तरमाह-नापीति, ' फलं करोति ' इत्यत्र द्वितीयार्थस्यैव व्यापारे साक्षादन्वयो द्वितीयार्थे च फलस्यान्वय इति न फलस्य व्यापारे साक्षादन्वयो धात्वर्थव्यापारे साक्षाद्विशेषणभूते एव च फलें द्वितीयार्थाधेयत्वस्यान्वयो भवतीति नात्र फले द्वितीयार्थान्वयः संभवति । किं च नामार्थस्य फलस्य धात्वर्थे भेदेन साक्षादन्वयो न संमवति-निपातातिरिक्तनामार्थस्य धात्वर्थे भदेनान्वयस्याऽव्युत्पन्नत्वादिति ' नारायणं फलं करोति ' इतिप्रयोगापत्तिर्नास्ति । अत "Aho Shrutgyanam" Page #488 -------------------------------------------------------------------------- ________________ (४७६) सादर्श: [ चतुर्थी कारकेधेयत्वान्वयात, अत एव — पुरस्कृत्य शिखण्डिनम्' इत्यादावपि शिखण्डयादेः कृतिकर्मता- धात्वर्थव्यापारविशेषणपुरःपदरूपनिपातार्थायदेशावस्थानरूपफलाश्रयत्वात् ।। - 'नारायणो नमस्क्रियते ' ' ज्यायान् पुरस्क्रियते ' इत्यादौ निपातार्थफलं धात्वर्थव्यापारे विशेष्यतयैव भासते । तदन्वितमाश्रयत्वं कर्माख्यातादिना प्रत्याय्यते। । अथैवमपि कारकविभक्तेः साक्षाद्धात्वर्थान्वयित्वनियमभङ्ग इति चेत् ?, नताशनियमे निपातातिरिक्तार्थमन्तराऽकृत्वेत्यस्यैव साक्षादर्थत्वात् । अन्यथा 'घटो दण्डाज्जायते न पारिमाण्डल्यात्' इत्यादी कारकपञ्चम्या जन्याद्यन्वयिनि नर्थाभावे प्रतियोगितया स्वार्थप्रयोज्यत्वादिबोधनासंभवात् । पारिमाएवेति- यथा नमःपदार्थस्य धात्वर्थविशेषणत्वात्तदाश्रयस्य नारायणस्य कर्मत्वं तथा पुर:पदार्थस्याग्रावस्थानरूपस्य निपातार्थत्वेन साक्षाद् धात्वर्थविशेषणत्वात् तदाश्रयस्य शिखण्डिनः कर्मत्वात् 'पुरस्कृत्य शिखण्डिनम्' इति प्रयोग उपपद्यते । कृतिकर्मता पुरस्कृत्येति कृधात्वर्थकर्मता ।। ___ कर्मप्रत्ययान्तप्रयोगमुदाहरति-नारायण इति, नमइतिनिपातार्थफलमुक्तबोधविषयता, पुरहतिनिपातार्थरूपं फलमप्रावस्थानम् । तदन्वितम्-उक्तनिपातार्थरूपफलनिरूपितम्, तथा च नमनानुकूलव्यापारजन्यस्वापकर्षावधित्वप्रकारकबोधविषयताश्रयो नारायण इति, पुरस्कृतिरूपव्यापारजन्याऽमावस्थानाश्रयो ज्यायानिति वाक्यार्थबोधः । ननूक्तरीत्या 'नारायणं नमस्करोति' इत्यत्र नारायणवृत्तिर्या स्वापकर्षबोधविषयता तत्प्रयोजकव्यापारानुकूलकृतिमानित्याकारकबोधोदयाद् द्वितीयार्थाधेयत्वस्य निपातार्थरूपफलेनान्वयो जातो न च निपातार्थो धात्वर्थो द्वितीया च कारकविभक्तिः कारकविभक्तेश्च धात्वर्थेनैवान्वयः साक्षाद्भवति यो नियमस्तस्य व्यभिचारः प्राप्त इत्याशङ्कते-अथेति । परिहरति-नेति, उक्तस्थले .नमइतिनिपातार्थद्वारा द्वितीयाया धात्वर्थेऽन्वयोस्ति स नोक्तनियमभङ्गकरः-निपाता. तिरिक्तार्थमन्तराकृत्वा कारकविभक्त्यर्थस्य धात्वर्थेन्वयो न भवतीत्येव तादृशनियमार्थ इत्यर्थः । विपक्षे बाधकमाह--अन्यथेति, यदि कारकविभक्त्यर्थस्य निपातार्थेऽन्वयो न स्यात्तदा 'षटो दण्डाजायते न पारिमाण्डल्यात् ' इत्यत्रापि निपातरूपनार्थाऽभाचे कारकविभक्तिरूपपञ्चम्यर्थस्य प्रयोज्यत्वस्यान्वयो न स्याद् भवति चान्वय इति निपातार्थेपि कारकविभक्त्यर्थस्यान्वयो भवत्येव । जन्येति-जन्यो घटस्तदन्वयी यो नर्थाभावः पारिमाण्डल्यनिरूपितप्रयोज्यत्वामावस्तत्र प्रतियोगितया प्रतियोगित्वरूपेण स्वप्रतियोगिकत्वसंबन्धेन च पञ्चम्यर्थस्य पारिमाण्डल्यनिरूपितप्रयोज्यत्वस्यान्वयो भवतीत्यर्थस्तथा च घटः पारिमाण्डल्यनिरूपितप्रयोज्यत्वाभाववानिति बोधाकारः । ननु " पारिमाण्डल्यभिन्नानां कारणत्व ( प्रयोज्यत्व ) मुदाहृतम् " इत्युक्तं तथा च पारिमाण्डल्यनिरूपितप्रयोज्यत्वमेव प्रसिद्धं नास्ति यदभावस्य घटेऽन्वयः स्यादित्याश "Aho Shrutgyanam" Page #489 -------------------------------------------------------------------------- ________________ नमःपदार्थविचारः] व्युत्पत्तिवावा। (४७७) ण्डल्यादिनिरूपितमपि प्रयोज्यत्वं विषयितया तदवच्छिन्नजनकताकज्ञानादौ प्रसिद्धम् । प्रयोज्यत्वविशिष्टोत्पत्तिरेव वा तत्र धात्वर्थः, तत्र पञ्चम्यन्तार्थपारिमाण्डल्यनिरूपितत्वस्याभावो नजा बोध्यते । उक्तरीत्या क्रियायोगेन नमस्कार्यस्थ कर्मत्वेपि 'स्वयम्भुवे नमस्कृत्य' इत्यादौ चतुर्थी- अपकर्षावधित्वमात्रविवक्षया । केचित्तु- 'नारायणं नमस्कृत्य ' इत्यादौ नम:पदं नतिकर्मपरं तथा च 'नारायणं नतिकर्मीकृत्य ' इत्यर्थविवक्षया 'घटं शुक्लं करोति शुक्लो करोति' इत्यादी घटादेरिख नारायणादेः कृतिकर्मता। 'शिखण्डिनं पुरस्कृत्य ' इत्यादौ पुर:पदमनस्थितपरम् । एवम् “ घटं साक्षात्करोति ' इत्यादौ साक्षात्पदं स्वीयप्रत्यक्षविषयपरं न तु धर्मपरम् । एवम् ‘दुःखमाविष्करोति ' ' अस्त्रं प्रादुष्करोति ' इत्यादावप्याऽविरादिपदं ज्ञानगोचरार्थकमिति सर्वत्र पूर्ववद् द्वितीयानिर्वाह इत्याहुः। क्याह-पारिमाण्डल्येति, पारिमाण्डल्यस्यापि स्वविषयकज्ञानादौ प्रयोज्यत्वमस्त्येवेति पारिमाण्डल्यनिरूपितप्रयोज्यत्वं तदवच्छिन्ना=पारिमाण्डल्यत्वावच्छिन्ना जनकता यस्य तादृशपारिमाएडल्यविषयकज्ञानादौ विषयितया विषयितासंबन्धेन प्रसिद्धम्, ज्ञाने विषयिता वर्तते इति विषयितयेत्युक्तम् । पक्षान्तरमाह-प्रयोज्यत्वविशिष्टेति, तत्र घटो दण्डाज्जायते न पारिमाण्डल्यात' इत्यत्र, तत्र यात्वर्थीभूतप्रयोज्यत्वविशिष्टोत्पत्तौ,तथा च दण्डप्रयोज्या घटोत्पत्तिः पारिमा एडल्यनिरूपितत्वाभाववतीति वाक्यार्थबोधः । :विषयान्तरमाह-उक्तरीत्येति, उक्तरीत्या नारायणस्य कर्मत्वप्राप्तिरीत्या नमस्कार्यस्य स्वयम्भुवः कर्मत्वेपि स्वापकर्षावधित्वमात्रविवक्षया 'स्वयम्मुवे नमस्कृत्य ' इत्यत्र चतुर्युव न द्वितीया तथा च स्वापकर्षावधिवप्रकारकबोधविषयताश्रयत्वविवक्षायां नमस्कार्यवाचकपदाद् द्वितीया भवति यथा' नारायणं नमस्कृत्य ' इति, स्वापकर्षावधित्वमात्रविवक्षायां च चतुर्थी भवति यथा ' स्वयम्भुवे नमस्कृत्य ' इति निष्पन्नम् । मतान्तरमाह-केचित्त्विति । स्पष्टो ग्रन्थः । पूर्व नमआदिपदानां धर्मपरत्वमुक्तमऽनेन तु धर्मिपरत्वमुच्यते इति विशेषः । घटमिति-तथा च घटं स्वीयप्रत्यक्षविषयं करोतीत्यर्थः । न तु धर्मपरमिति-साक्षात्पदस्य धर्मपरत्वे स्वीयप्रत्यक्षविषयतारूपधर्मपरत्वं स्यात्तत्र च घटं स्वीयप्रत्यक्षविषयताश्रयं करोतीत्यर्थः स्यात् । ज्ञानगोचरार्थकमिति-तथा च दुःखं परकीयज्ञानगोचर ( विषयम् ) करोतीत्यर्थः । अयमेवार्थः प्रादुष्करोतीत्यस्य ज्ञेयः । पूर्ववदिति-' नारायणं नमस्कृत्य ' इत्यत्रेव धात्वर्थकर्मतया घटादिपदोत्तरं द्वितीयेत्यर्थः । नमादिपदानां धर्मपरत्वे तदर्थधर्मस्य धात्वर्थतावच्छेदकत्वाभावात् तदाश्रयस्यापि नारायणादेः कर्मत्वं न स्याद् धर्मिपरत्वे तु तदर्थस्य धर्मिणाऽभेदान्वयो धर्मिणश्च कृतिविषयत्वेन कर्मत्वं तेन च द्वितीया संभवतीति भावः । "Aho Shrutgyanam" Page #490 -------------------------------------------------------------------------- ________________ (४७८) सादर्श: [ चतुर्थीकारके-- तन्न- नमःपदस्य धर्मिबोधकत्वे ' हरिराविर्भवति' इत्यादिवत् 'नमो भवति इतिप्रयोगमसङ्गात्, तस्मात् 'नमस्करोति ' ' आविष्करोति ' 'पुरस्करोति' 'अलं करोति ' इत्यादौ नमःप्रभृतयो निपाता धर्मवाचका एव लाघवात् , तत्तद्धमश्रियस्य दर्शितरीत्यैव कर्मतोपपत्तेः। 'आविर्भवति' इत्यादिप्रयोगानुरोधेन चाऽऽविरादिशब्दानां प्रकटताश्रये धर्मिणि लक्षणोपेयते 'शुक्लः पटः' इत्यादी शुक्लादिशब्दानामिव । अस्तु वा तत्रापि प्रकटतारूपो धर्म एव तदर्थस्तस्यैव धात्वर्थभावे धर्मरूपेऽभेदान्वयः, क्रियायां स्वार्थाभेदान्वये आविरादेरेवाकाङ्क्षा स्वीक्रियते न तु नमःपदादेरिति न 'नारायणो नमो भवति' इत्यादेः प्रसङ्गः। 'शुक्ली करोति' इत्यादौ विप्रत्ययान्तस्यापि शौक्लयादिधर्म एवार्थ:-- अभूततद्भावे तदनुशासनात् । अभूततद्भावश्च- अभूतस्य-पूर्वकालावच्छेदेन शुक्लादिभावरहितस्य तद्भाव:-शौक्लयादिः । अथ वा 'अभूतः पूर्वकालावच्छेदेन धर्मिण्यविद्यमानस्तद्भाव:-शौक्लयादिः । 'शुक्ली भवति' इत्यादौ तु दर्शिता गतिः । उक्तमतं पराचष्टे- तन्नेति, नमःपदस्य धर्मिवाचकत्वे नमःपदार्थस्य हरिपदार्थेन सामानाधिकरण्यप्राप्त्या 'हारनमो भवति ' इत्यादिप्रयोगः स्यादेव न चैवं प्रयोगो भवतीत्युक्तधर्मवाचकत्वमेव युक्तं लाघवात् नाम धर्मिवाचकवे धर्मविशिष्टस्यैव धर्मित्वाद् धर्मिधर्मोभयवाचकत्वं स्याद् धर्मवाचकत्वे च धर्मिवाचकत्वं न प्राप्नोतीति लाघवमित्यर्थः । तत्तद्धर्माश्रयस्य-स्वापक'विधित्वप्रकारकबोधविषयतादिरूपधर्माश्रयस्य हर्यादेः । ननु यदि धर्मवाचकत्वमेव तदा 'हारराविर्भवति , इत्यादिः सामानाधिकरण्येन कथं प्रयोगः स्यादित्याशङ्क्याह- आविर्भवतीति । धर्मिणिहर्यादौ । धर्मिणि लक्षणास्वीकारे दृष्टान्तमाह- शुक्ल इति । नमआदिपदानां धर्मिबोधकत्वं नास्ति आविरादिपदानां च धर्मिबोधकत्वमस्तीति वैषम्यमसहमानः पक्षान्तरमाह= अस्तु वेति । तत्र=हरिराविर्भवति । इत्यादिस्थले तदर्थः--आविष्पदार्थः । तस्यप्रकटतारूपधर्मस्य भूधास्वर्थे भावे भवने भवनमपि हरेधर्म एवेति तत्राऽभेदान्वयस्तथा च प्रकटीभवनाश्रयो हरिरिति वाक्यार्थबोधः । नन्वेवं नमःपदार्थस्यापि धात्वर्थभवनेऽभेदान्वयः स्यादेव तथा च ' नारायणो नमो भवति ' इति प्रयोगोपि स्यादित्याशक्याह-क्रियायामिति । तस्यैवेत्येवकारेण नमःपदार्थादेर्व्यवच्छेदः । विप्रत्ययान्तस्यापि धर्मवाचकत्वमेव न तु धर्मिवाचकत्वं येन तदृष्टान्तेन नमआदिपदानां धर्मिवाचकत्वं स्यादित्याह- शुक्लीति । अभूततद्भावपूर्वमविद्यमानधर्मे तदनुशासनात्-च्चिप्रत्ययस्य विधानात् । भावपदेनात्र धर्म एव ग्राह्यः । अभूततद्भावपदार्थ प्रकारद्वयेनाइ- अभूततद्भावश्चेति । 'घटो शुक्ली भवति' इत्यत्र तु चिप्रत्ययान्तस्य धर्मिणि लक्षणोपेयते शुक्लतारूपधर्मपरत्वं वेत्याह- शुक्लीति । दर्शितेति- 'आविर्भवति ' इत्यत्र लक्षणाश्रयणेन धर्मपरत्वाश्रयणेन च या गतिर्दर्शिता सैव ' शुक्ली भवति । इत्यत्रापि ज्ञेयेत्यर्थः । "Aho Shrutgyanam" Page #491 -------------------------------------------------------------------------- ________________ च्चिप्रत्ययार्थविचारः ] व्युत्पत्तिवादः । ( ४७९) न चाभूततद्भाव पर्यन्तस्य च्चिप्रत्ययवाच्यत्वे गौरवाच्छुक्लादिपदोपस्थाप्यपदार्थतावच्छेदक शौक्याद्यन्वय्य भूतत्वमेव विप्रत्ययार्थोस्तु. 'शुक्लतरः" इत्यादौ तरवाद्यर्थोत्कर्षस्येव च्व्यर्थस्यापि व्युत्पत्तिवैचित्र्येण पदार्थतावच्छेदकेऽन्वय संभवादिति वाच्यम्, मन्मतेपि शौक्कयादिभावस्यैव चित्रप्रत्ययार्थतोपगमेन गौरवानवकाशात्, पूर्वकालावच्छिन्न स्वनिष्ठाभावप्रतियोगित्वसहितस्याऽऽधेयत्वस्य प्रत्ययार्थे प्रकृत्यर्थसंबन्धतया भानोपगमात् शौक्छ्यादावऽभूतत्वलाभेनैव 'जलपरमाणुः शुक्की भवति ' इतिप्रयोगाप्रसङ्गात् । शौक्यादेर्धर्मत्वेनैव वाच्यता न तु ताद्रूप्येणेति न शक्त्यानन्त्यम् । प्रकृत्यर्थतावच्छेदकतत्तद्धर्मनिष्ठाधेयताविशेषाणामेव संबन्धतया भानोपगमाद् धर्मान्तरस्याऽभूतत्वमादाय न जलपरमाणुः शुक्की भवति' इत्यादिप्रसङ्गः । L आशङ्कते - न चेति, अभूततद्भावस्य विप्रत्ययवाच्यस्वे शौक्कनाऽभूतत्वयोरुभयोर्वाच्यत्वं स्यादिति गौरवम् । शौक्कयादि - शुक्लत्वादि । ननु शौक्कचाद्यन्वयिनोऽभूतत्वमात्रस्य विप्रत्ययार्थत्वे - पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन " इतिनियमात् पदार्थस्य विप्रत्ययार्थस्याभूतत्वस्य पदार्थैकदेशेन शुक्लत्वादिना कथमन्वयः स्यादित्याशङ्क्याह- शुक्लतर इति, यथा तर - र्थोत्कर्षस्य पदार्थैकदेशे एत्र शुक्लगुणन्वयो भवति तथा च्चिप्रत्ययार्थाभूतत्वस्यापि पदार्थैकदेशे शुक्लत्वेऽन्वयो न विरुद्ध इत्यर्थः । उत्तरमाह - मन्मते पीति, अभूतत्वं न चिप्रत्ययार्थः किं तु शौक्लयमेव तथा चैकपदार्थवाचकत्वान्न गौरवम् । अत्राभूतत्वलाभप्रकारमाह- पूर्वकालेति, 'घटं शुक्की करोति' इत्यत्र पूर्वकाले स्वनिष्ठः घटनिष्ठो योऽभावः शौक्रयाभावस्तत्प्रतियोगिस्वेन शौक्लचनिष्ठेन सहितं यद् द्वितीयार्थभूतमाधेयश्वं तदेव प्रत्ययार्थे - सौक्लये प्रकृत्यर्थस्य = शुक्लपदार्थस्य घटादेः संबन्धस्तथा च शौक्लयस्य पूर्वकालावच्छिन्नाऽभावप्रतियोगिताप्राप्त्या अभूतत्वं प्राप्तमेवेति ' जलपरमाणुः शुक्ली भवति इति प्रयोगापत्तिर्नास्ति - जलपरमाणुनिष्ठशौक्लथेऽनादित्वेनाऽभूतत्वाभावादित्यर्थः । शौक्कवादेरिति - शौक्लयनैल्यादीनां यदि ताद्रूप्येण = तत्तद्रूपत्वेन शौक्लयनेल्यादिरूपत्वेन विप्रत्ययवाच्यत्वं स्यात्तदा शौक्कयनेल्यादीनामनन्तत्वाच्छत्यानन्त्यं स्यादिति शौक्यनैल्यादीनां धर्मत्वेन रूपेणैव वाच्यतेति न शक्त्यानन्त्यमित्यर्थः । ननु जलपरमाणुगतशौक्लयेऽभूतत्वाभावेपि जलपरमाणौ पूर्वमविद्यमान संयोगादिगताभूतत्वमादाय जलपरमाणुः शुक्ली भवति इतिप्रयोगः किं न स्यादित्याशङ्क्याह-- प्रकृत्यर्थतावच्छेदकेति, प्रत्ययार्थे प्रकृत्यर्थस्य यदाधेयत्वं संबन्ध उक्तस्तदाधेयत्वं प्रकृत्यर्थतावच्छेदकी भूतशौक्कवादिनिष्ठमेव ग्राह्यं तचाधेयत्वं पूर्वोक्तदिशा पूर्वकालावच्छिन्नस्व निष्ठाभावप्रतियोगित्वसमानाधिकरणमेत्र ग्राह्यं तथा च शौक्लये घटनिरूपिताधेयत्वमप्यस्ति पूर्वकालावच्छिन्नो यो घटनिष्ठोऽऽभावस्तत्प्रतियोगित्वमप्यस्तीति' घटः शुक्ली भवति' इत्यादिप्रयोगस्तूपपद्यते, शौक्लये जलपरमाणुनिरूपिताधेयत्वस्य सत्त्वेपि पूर्वकालावच्छिन्नो यो जलपरमाणुनिष्ठोऽभावस्तत्प्रतियोगित्वं तु 6 " Aho Shrutgyanam" Page #492 -------------------------------------------------------------------------- ________________ ( ४८० ) बादर्श: [ चतुर्थी कारके+ प्रकृत्यर्थतावच्छेदकगतमागविद्यमानत्वस्य विप्रत्ययार्थत्वमते तु 'अशुली भवति' इत्यादी प्रकृत्यर्थतावच्छेद कशौक्लया द्यभावस्य प्रागपि क्वचिद्र विद्यमा नतया तदभावान्वये योग्यतानुपपत्तिः । तत्तद्धर्मिण्यविद्यमानत्वस्य व्यर्थत्वे शक्त्यानन्त्यमिति पूर्वकालावच्छिन्नोऽभाव एवाविद्यमानत्वं तस्य च प्रकृत्यर्थतावच्छेद के सामानाधिकरण्यसहित प्रतियोगित्वसंबन्धेनाऽन्वयो वाच्यः, प्रकृत्यर्थे च तादृशसंबन्धेनाभावविशिष्टस्य वैशिष्ट्यमानमुपेयम्, अन्यथाऽन्यत्र स्वाभाव - समानाधिकरणस्याऽशौक्यादेः सर्वदाऽशुक्ले काकादावपि सत्त्वेन 'काको शुक्ली नास्त्येवेति शौक्ये उक्त प्रतियोगित्वसमानाधिकरणाधेयत्वस्य संबन्धभूतस्याऽभावात् प्रकृत्य • र्थस्य शुक्लाभिन्नस्य जलपरमाणोरन्वयो न संभवतीत्युक्तधर्मान्तरगताऽभूतत्वमादाय ' जलपरमाणुः शुक्ली भवति इतिप्रयोगापत्तिर्नास्त्येव, अभूतत्वं हि पूर्वकालावच्छिन्नाभावप्रतियोगित्वमेव शौक्ये च जलपरमाणु निष्टाभावप्रतियोगित्वरूपमभूतत्वं नास्त्येव संयोगादिरूपधर्मान्तरगताभूतत्वं च नात्र ग्रहीतुं शक्यते तस्य शौक्लयनिष्ठाचेयत्वसमानाधिकरणत्वाभावात्, आधेयत्वोक्तप्रतियोगित्वयोः समानाधिकरणयोरेव प्राह्यत्वेनात्र शौक्यनिष्ठयोरेवोक्तप्रतियोगित्वरूपाभूतत्वाधेयत्वयोर्ग्राह्यत्वादित्यर्थः । " अभूतत्वस्य च्चिप्रत्ययार्थत्वमते दोषमाह - प्रकृत्यर्थतेति, अभूतत्वमेव प्रागविद्यमानत्वम् । चिच्चप्रत्ययेन प्रागविद्यमानत्वबोधे ह्यऽविद्यमानत्वमभाव एवेत्यऽमावस्य - शौक्कयाभावस्य प्राग विद्यमानत्वं प्राप्तं तथा: च यत्र शौक्कयाभाषः प्रागेवास्ति तत्राऽशुक्कीपदघटक नञ्बोध्यस्य शौक्याभावस्यान्बयो न संभवति तद्विशिष्टे तदन्वयाऽसंभवादिति तदमावान्वये - शौक्लयाभावान्व - यस्य योग्यतानुपपत्ति:- 'अशुक्लो भवति' इत्यनेन शौक्लयाभावान्वयबोधस्यैवेष्टत्वादित्यर्थः । किं च तत्तद्घार्मगताविद्यमानत्वस्य च्व्यर्थत्वे तत्तद्धर्मेनानात्वेन व्यर्थाविद्यमानत्वानामपि नानात्वापत्त्या च्चिप्रत्ययशक्त्यानन्त्यं स्यादिति सामान्यतः पूर्वकालावच्छिन्नोऽभाव एवाऽविद्यमानत्वं व्यर्थ इति वक्तव्यं तस्य = एतादृशाविद्यमानत्वस्य च प्रकृत्यर्थतावच्छेदके शौक्यादौ सामानाधिकरण्य विशिष्टप्रतियोगित्वसंबन्धेनान्वयो वाच्यस्तथा हि प्रकृत्यर्थतावच्छेदके तादृशाविद्यमानत्वस्य प्रतियोगित्वमपि वर्तते तादृशाविद्यमानत्वमपि वर्तते इति स्वसामानाधिकरण्यसहित प्रतियोगित्वसंबन्धेनाविद्यमानत्वस्य प्रकृत्यर्थतावच्छेदकेऽन्वयो जात इति तादृशसंबन्धेन= स्वसामानाधिकरण्यसहितप्रतियोगित्वसंबन्धेनाऽभावविशिष्टस्य = अविद्यमानत्वविशि ष्टस्य प्रकृत्यर्थतावच्छेदकस्य प्रकृत्यर्थे - शुक्लादिपदार्थे ( घटादौ ) वैशिष्ट्यम् = अन्वयः स्वीकार्यः, अन्यथा= एवं विशिष्टवैशिष्ट्य भावानभ्युपगमेऽन्यत्र - घटादौ कदाचिदऽशौक्यमपि भवति कदाचिदSaturभावोपि भवत्येवेति स्वाभावसमानाधिकरणस्याशौक्कयादेः सर्वदाऽशुक्के काकादावपि सत्त्वेन ' काकोऽशुक्लो भवति' इतिप्रयोगः स्यादेव - उक्तसामानाधिकरण्यसहित प्रतियोगित्वसंबन्धेन स्वाभावविशिष्टस्य प्रकृत्यर्थतावच्छेदकस्य प्रकृत्यर्थेऽन्वयाऽस्वीकारात, उक्तसामानाधि "Aho Shrutgyanam" Page #493 -------------------------------------------------------------------------- ________________ च्चिप्रत्ययार्थविचारः ] व्युत्पत्तिवादः । ( ४८१ ) भवति ' इति प्रयोगः स्यात्, अत्राऽभावरूपपदार्थान्तर विशिष्टप्रकृत्यर्थताव - च्छेदक वैशिष्ट्यमानं च प्रकृत्यर्थे न संभवति - प्रकृत्या स्ववृत्तिसहकारेण स्वार्थे यादृशविशेषणावच्छिन्नः प्रकृत्यर्थतावच्छेदकीय संबन्धो न प्रत्याय्यते पदान्तरसमभिव्याहाररूपाकाङ्क्षयापि पदार्थद्वयसंबन्धमानमात्रप्रयोजिकया प्रकृत्यर्थे प्रकृत्यर्थतावच्छेदकीयतादृश विशेषणावच्छिन्नसंबन्धात्यायनेन प्रकृत्यर्थता - वच्छेदकीय संबन्धे विप्रत्ययार्थाभावविशिष्टप्रतियोगित्वरूपविशेषणस्य प्रकृतिवृत्त्या भासमानस्य भानासंभवादित्यनुपपत्तिः । & करण्यसहित प्रतियोगित्वसंबन्धेन स्वाभावविशिष्टस्य प्रकृत्यर्थतावच्छेदकस्य प्रकृत्यर्थेऽन्वयस्वीकारे तु प्रकृत्यर्थे का शौक्याभावः कदापि न भवतीति अशौक्यामावविशिष्टस्याऽशौक्लयस्य प्रकृत्यर्थतावच्छेदकस्याप्यन्वये बाध एवेति काकोक्की भवति' इतिप्रयोगस्यापत्तिर्यद्यपि नास्ति तथाप्यत्र = उक्तस्थलेऽभावरूप पदार्थान्तर ( स्वाभाव ) विशिष्टस्य प्रकृत्यर्थतावच्छेदकस्योक्तवैशिष्ट्यमानं प्रकृत्यर्थे न संभवतीत्यर्थः, अत्र हेतुमाह - प्रकृत्येति, प्रकृत्या=वटकाकादिपदेन स्त्रवृत्तिसहकारेण स्वनिष्ठवृत्तिसाहाय्येन स्वार्थे= घटकाकादिपदार्थे यादृशविशेषणावच्छिन्नो यथात्र सामानाधिकरण्यसहित प्रतियोगित्वविशेषणावच्छिन्नः प्रकृत्यर्थतावच्छेदकस्य संब-वो न प्रत्यायते तादृशविशेषणावच्छिन्नः प्रकृत्यर्थतावच्छेदकीय संबन्ध आकाङ्क्षयापि न प्रत्याय्यते इत्युक्तस्थलेऽभावरूप पदार्थान्तरविशिष्टस्य प्रकृत्यर्थतावच्छेदकस्य प्रकृत्यर्थे नैशिष्ट्यमानं न संभवति तथा च ' काकोऽशुकीभवति ' इतिप्रयोगः प्राप्त एवेत्येषा प्रकृत्यर्थतावच्छेदकगतः प्रागविद्यमानत्वस्य त्रिप्रत्ययार्थस्वमतेऽनुपपत्तिरित्यर्थः । भाकाङ्क्षायाः स्वरूपमुक्तम् - पदान्तरेति, कार्यमुक्तम्- पदार्थद्वयेति, पदार्थद्वयसंबन्धमानप्रयोजिकयाऽऽकाङ्क्षयापि पदार्थद्वयस्य तादृशः संबन्धो न प्रत्याय्यते यादृशः प्रकृत्या न प्रतिपाद्यते ' शुक्की भवति' इत्यत्र च प्रकृतिप्रतिपाद्यः संबन्धः समवायः 'अशुकी भवति' इत्यत्र च शौक्कयाभावस्य प्रकृतिप्रतिपाद्यसंबन्धो विशेषणता न तूक्तसामानाधिकरण्यसहितप्रतियोगित्वसंबन्ध इति ध्येयम् । अत्र शुकी भवति' इत्यत्र तु प्रकृत्यर्थतावच्छेदकगतप्रागविद्यमानत्वस्यापि व्यर्थतामते दोषो नास्ति यतः - अत्र प्रकृत्यर्थतावच्छेदकं शौक्कयमस्ति तस्य च्चिप्रत्ययेन प्रागविद्यमानत्वे प्राप्ते शौक्याभावस्य प्राग् विद्यमानत्वं प्राप्तं यत्र च शौक्याभावः प्रागस्ति घटादौ तत्र शौचस्यान्वयः कर्तव्यो न तु शौक्ल्याभावस्य येन दोषः स्यात् शौक्ल्याभावविशिष्ट च घटादौ शौक्ल्योत्पत्तौ विरोधाभावेन शौक्ल्यान्वये विरोधाभावाद् योग्यतानुपपत्तिर्नास्तीति ' शुक्की भवति इतिप्रयोग त्यक्त्वा 'अशुक्की भवति' इत्यत्र दोषः प्रदर्शितः । 6 ३१ "Aho Shrutgyanam" Page #494 -------------------------------------------------------------------------- ________________ ( ४८२ ) [ चतुर्थी कारके -- अस्मन्मते तु भवत्यर्थे भावे विप्रत्ययान्तार्थस्याधेयतासंबन्धेन पूर्वकालावच्छिन्नस्वाभावाधिकरणविशिष्टस्याऽशौक्यादेः सामानाधिकरण्यसंबन्धेनैवान्वयस्योपगन्तव्यतया तेन संबन्धेन चाधिकरणविशिष्टाऽशौक्यादिना विशिष्टस्य _भवत्यर्थस्यैवाख्याताद्यर्थे आश्रयत्वे निरूपितत्वसंबन्धेनैव भानात् तादृशविशिष्टनिरूपिताश्रयत्वस्य च पूर्वकालावच्छेदेनाऽशौक्लयाद्यभावाधिकरणे एव सत्त्वेन नोक्तातिप्रसङ्गः । अन्यत्स्वयमूहनीयम् । स्वस्ति भवते ' इत्यादावाशीः स्वस्त्यर्थः सा च परहितविषयकस्वेच्छा, सादर्श: A स्वमतेऽनुपपत्त्यभावमाह - अस्मन्मत इति, अस्मन्मते तु यथा ' शुक्क़ी भवति ' इत्यत्र शौक्कयं च्चिप्रत्ययार्थस्तथा 'अशुक्क़ी भवति' इत्यत्राऽशौक्कयमेव च्चिप्रत्ययार्थो न त्वभूतत्वरूपं प्रागविद्यमानत्वं तथा च यत्र पूर्वमऽशौक्लयाभावो भवति तत्रैवाऽशौक्यमुत्पद्यते किं चाऽशौक्याधिकरणस्य धर्मिणोऽशौक्लये आधेयतासंबन्धेनान्वयः किं च ' अशुक्की भवति ' इत्यत्र यत्रैव धर्मिणि घटादौ भवत्यर्थो भावः = भवनानुकूलव्यापारो वर्तते तत्रैवाशौक्कयमपि वर्तते इति भवत्यर्थभावस्याऽशौक्यस्य च सामानाधिकरण्यं जातम् एतेन पूर्वकालावच्छिन्नस्य स्वाभावस्य ( अशौयाभावस्य ) यदधिकरणं घटादि तस्याधेयतासंबन्धेन विप्रत्ययान्तार्थे भशौक्कये वैशिष्टयं प्राप्तं ततश्चाधेयतासंबन्धेन पूर्वकालावच्छिन्न स्वाभावाधिकरण विशिष्टस्याऽशौक्लयस्य सामानाधिकरण्यसंबन्धेन भवत्यर्थ भावेऽन्वयः स्वीक्रियते तथा च सामानाधिकरण्यसंबन्धेनाऽधिकर·ण विशिष्ट = पूर्वकालावच्छिनस्वाभावाधिकरणविशिष्टं यदऽशौक्लयं तेन विशिष्टस्य भवत्यर्थस्य निरूपितत्वसंबन्धेनाऽऽख्यातार्थे आश्रयत्वेऽन्वयः स्वीक्रियते-आश्रयत्वस्य भवत्यर्थनिरू पितत्वात् तादृशविशिष्ट - अशौक्कयविशिष्टो यो भवत्यर्थ भावस्तनिरूपितस्याश्रयत्वस्य च पूर्वकालावच्छेदेनाऽशौक्याभावो यत्र भवति शुक्तघटादौ तादृशाधिकरणे एव सत्त्वेन 'घटोशुक्की भवति' इति प्रयोगस्तूपपद्यते काकादौ च सदाऽशौक्लयस्यैव सत्त्वेन पूर्वकालावच्छेदेनाशौक्याभावस्याऽसत्त्वान्न तत्रोक्ताश्रयत्वं संभवतीत्युक्तातिप्रसङ्गः = ' काकोऽशुक्ली भवति ' इत्युक्तप्रयोगापत्तिर्नास्तीत्यर्थः । प्रकृत्यर्थतावच्छेदकगताविद्यमानत्वस्य चित्रप्रत्ययार्थत्वमते त्वस्मदुक्तरीत्या पदार्थानां विशिष्टवैशिष्ट्य भावासंभवाद् भवत्यर्थनिरूपिताश्रयत्वस्याऽशौक्कयाभावस्य च वैयधिकरण्यसत्त्वेपि अशुक्ली भवति ' इतिप्रयोगस्य संभवात् ' काकोऽशुक्ली भवति इतिप्रयोगः स्यादेव तद्वारणाय तस्य च प्रकृत्यर्थतावच्छेदके " इत्याद्युक्तरीत्या पदार्थानां विशिष्टवैशिष्ट्यभावः स्वीकार्यः स तु " अत्राभावरूपपदार्थान्तर " इत्याद्युक्तरीत्या न संभवतीत्यलमधिकेन । अन्यत्स्वयमेवोहनीयम् । <6 प्रयोगान्तरमुदाहरति-स्वस्तीति । आशिष्पदार्थमाह-सेति । हितनिरूपकत्वं भवत्पदार्थेस्तीति निरूपितत्वं हिते वर्तते तदेव संबन्धश्चतुर्थ्यर्थ इत्यर्थः । वाक्यार्थबोधस्वरूपमाह एवं चेति । "Aho Shrutgyanam" 7 Page #495 -------------------------------------------------------------------------- ________________ स्वस्तिपदार्थः ] व्युत्पत्तिवादः । ( ४८३ ) 6 6 स्वम् = उच्चारयिता । हितान्वयी संबन्धश्चतुर्थ्यर्थः, एवं च भवदीय हितविषयिणी मदीयेच्छा' इति बोधः । कल्याणाद्यर्थकोपि स्वस्तिशब्दः स्वस्त्यस्तु मम ' इत्यादौ तत्रापि चतुर्थ्यर्थः स्वस्त्यर्थान्वयी संबन्ध इत्यल पल्लवितेन ॥ ॥ इति चतुर्थ्यर्थनिरूपणं समाप्तम् ॥ C भवदीयहितविषयिणी=भवन्निरूपितहितविषयिणी । कल्याणार्थकस्वस्तिशब्दमुदाहरति-- कल्याणेति । स्वस्त्यस्तु मह्यम्' इत्यत्राशीर्न संभवति आशिष्पदार्थे परकीयत्वनिवेशात् स्वस्य च स्वापेक्षया परत्वाभावादित्यर्थः । अत्रापि कल्याणात्मक स्वस्त्यर्थान्त्रयि निरूपितत्वमेव चतुर्थ्यर्थस्तच्च संबन्धभूतमेव तादृशचतुर्थ्यर्थनिरूपितत्वेन संबन्धेन प्रकृत्यर्थस्य स्वस्त्यर्थेन्वयात्, मन्निरूपितहितविषयिणी मदीयेच्छा ' इति शाब्दबोधः । वस्तुतस्तु परत्वनिवेशं विना हितविषयस्वेच्छा स्वस्तिपदार्थो वक्तव्यस्तेन चोक्तोभयत्रैकगत्यैव समन्वयः संभवति ॥ ८ ॥ इति व्युत्पत्तिवादादर्शे चतुर्थीकारकम् ॥ "Aho Shrutgyanam" Page #496 -------------------------------------------------------------------------- ________________ अथ पञ्चमी 'वृक्षात् पर्ण पतति' इत्यादौ पञ्चम्याः प्रकृत्यर्थस्य वृक्षादेः पतनादिक्रियाउपादानत्वं प्रत्याय्यते । अपादानत्वं च स्वनिष्ठभेदप्रतियोगितावच्छेदकीभूतक्रियाजन्याविभागाश्रयत्वम् । पर्णादेः स्वनिष्ठवृक्षादिविभागजनकस्वपतनावपादानत्ववारणाय भूतान्तं क्रियाविशेषणम् । भेदप्रतियोगितावच्छेदकत्वे विभागे च पञ्चम्याः शक्तिद्वयम् । भेदे विभागे च वृक्षादेः प्रकृत्वर्थस्याधेयतासंबन्धेनान्वयः । प्रतियोगितावच्छेदकत्वमाश्रयत्वसंबन्धेन विभागश्च जनकतासंबन्धन क्रियायामन्वेति । जनकतासंबन्धस्य प्रतियोगितानवच्छेदकतया नबा तत्संबन्धावच्छिन्नविभागाभावः क्रियायां बोधयितुं न शक्यते इतिचे ?, तर्हि विभागजनकत्वमेव पञ्चम्यर्थोस्तु. प्रतियोगितावच्छेदकत्वस्येव तस्याप्याश्रयतासंबन्धेन क्रियाया क्रमप्राप्त पञ्चम्यर्थनिरूपणमारभते- वृक्षादिति । स्पष्टार्थोयं ग्रन्थः । अपादानस्वस्वरूपमाह-- अपादानत्वमिति । स्वं वृक्षः । भेदपदेनात्र विभागजनकीभूता या पतनादिक्रिया ताहशक्रियावान्नेत्याकारको ग्राह्यः स च भेदो वृक्षे एव संभवति न तु पणें-- पर्णे विभागजनकीभूतपतनक्रियाया एव सत्त्वात् तथा च वृक्षनिष्ठो य उक्तभेदस्तत्प्रतियोगि पर्ण तत्र पणे प्रतियोगितापि वर्तते पतनक्रियापि वर्तते इति उक्तभेदप्रतियोगितावच्छेदकत्वं क्रियायां प्राप्त भेदप्रतियोगितावच्छेदकीभूतक्रियाजन्यविभागो वृक्षे वर्तते इति वृक्षस्य स्वनिष्ठभेदप्रतियो. गितावच्छेदकीभूतक्रियाजन्यविभागाश्रयत्वं प्राप्तं तदेवाऽपादानत्वमित्यर्थः । क्रियायां भूतान्सविशेषणस्य फलमाह- पर्णादेरिति, 'क्रियाजन्यविभागाश्रयत्वमऽपादानत्वम् । इत्युक्ते पर्णस्याप्यत्राऽपादानत्वं स्यात्-पर्णनिष्ठपतनक्रियाजन्यविभागाश्रयत्वात्, भूतान्तविशेषणे सति तु ‘क्रियावान , इत्याकारको भेदः पर्णे न संभवति पर्णस्य क्रियावत्त्वादेव, पर्णनिष्ठक्रियायाश्च पर्णनिष्ठभेदनिरूपितप्रतियोगिताया अवच्छेदकत्वं न संभवतीति भेदेन वृक्षनिष्ठ एव भेदो ग्राह्यस्तथा च लक्षणघटकस्वपदस्य वृक्षबोधकत्वाद् वृक्षस्यैवाऽपादानत्वं प्राप्तं न पर्णस्य लक्षणघटकस्वपदबोध्यत्वे सति तादृशविभागाश्रयस्यैवाऽपादानत्वेनेष्टत्वादिति भावः । पञ्चम्यर्थमाहमेदेति । भेदो विभागश्च वृक्षे वर्तते इति वृक्षस्य तयोराधेयता संबन्ध इत्याह- भेद इति । पतनक्रियायां भेदप्रतियोगितावच्छेदकत्वं विभागजनकत्वं चास्तीत्यभिप्रायेणाह-- प्रतियोगितेति । वृक्षनिष्ठविभागानुकूलक्रियावत् पर्णमिति शाब्दबोधः । विभागस्य क्रियायां जनकतासंबन्धेनान्वये शकते- जनकतेति । उत्तरमाह- तीति । तस्य विभागजनकत्वस्य । उक्तस्थलीयबोधस्वरूपमाह- एवमिति । तन्निष्ठ-वृक्षनिष्ठ। तथा च वृक्षविष्टभेदस्य प्रतियोगितावच्छेदकं वृक्षनिष्ठविभागस्य जनकं च यत्पतनं तदाश्रयः पर्णमित्यर्थः। "Aho Shrutgyanam" Page #497 -------------------------------------------------------------------------- ________________ पञ्चम्यर्थविचारः ] व्युत्पत्तिवादः । मन्वयः, एवं च वृक्षनिष्ठ भेदप्रतियोगितावच्छेदकतन्निष्ठविभागजनकपतनाश्रयः पर्णमित्याद्याकारक उक्तस्थले बोधः । अथ पञ्चमीसमभिव्याहृतनञोक्तयोः पञ्चम्यर्थयोर्द्वयोरेवाऽभावद्वयं बोध्यते यथायोगमेकतरस्य वा ? नाद्यः पक्षः- ' पर्ण वृक्षात्पतति न स्वस्मात् ' इत्यत्र स्वनिष्ठपतने स्वनिष्ठ भेदप्रतियोगितावच्छेदकत्वाभावसत्त्वेपि स्वनिष्ठविभागजनकत्वाभावाऽसस्वेन- वृक्षात्पतति न भूतलात् ' इत्यत्र च पतने भूतलादिनिष्ठविभागादिजनकत्वाभावसस्वेपि तन्निष्ठ भेदप्रतियोगितावच्छेदकत्वाभावासत्वेनाऽयोग्यतापत्तेः । नापि द्वितीयः- 'वृक्षात् पत्रं पतति न पत्रात् इत्यत्र पत्रनिष्ठपतने पत्रनिष्ठविभागाजनकत्वस्येव पत्रान्तरनिष्ठ भेदप्रतियोगितावच्छेदकतया पत्रनिष्ठ भेदप्रतियोगितानवच्छेदकत्वस्यापि बाधाद् योग्यताया निर्वाहयितुमशक्यत्वादिति । £ ( ४८५ ) "Aho Shrutgyanam" , शङ्कते - अथेति । पञ्चमीसमभिव्याहृतनत्रा = 'पर्ण वृक्षात् पतति न स्वस्मात्' इत्यादौ । उक्तयोः = भेदप्रतियोगितावच्छेदकत्वविभागजनकत्वयोः । आद्यपक्षासंभवमाह - नाद्य इति, 'पर्ण वृक्षात् पतति न स्वस्मात्' इत्यत्राद्यपक्षस्वीकारे नत्रा स्वनिष्ठ भेदप्रतियोगितावच्छेदकत्वाभावः स्वनिष्ठविभागजनकत्वाभावश्च बोधनीयः ( स्वं पर्णम् ) तन्न संभवति पर्णनिष्टपतने पर्णनिष्टभेदप्रतियोगितावच्छेnarratosस्ति पर्णनिष्ठ मेदानुयोगितावच्छेदकत्वस्यैव संभवात् तथापि पर्णनिष्ठविभागजनकत्वाभावो नास्त्येव पर्णनिष्ठपतने पर्णनिष्ठविभागजनकत्वस्यैव सत्त्वाद् असतश्च बोधनासंभवादित्यत्राऽमात्रद्वयबोधनयोग्यताया अभावः प्राप्तस्तथा 'पर्ण वृक्षात् पतति न भूतलात्' इत्यत्र यद्यपि पर्णनिष्ठपतने भूतलनिष्ठविभागजनकत्वाभावोस्ति तथापि भूतलनिष्ठ भेदप्रतियोगितावच्छेदकत्वाभावो नास्येव-भूतलनिष्ठो यः पर्णभेदस्तत्प्रतियोगितावच्छेदकत्वस्यैव सत्त्वादित्यभावद्वयबोधनयोग्यता नास्तीति नाद्यः पक्षः संभवतीत्यर्थः । द्वितीयपक्षासंभवमाह - नापीति, 'वृक्षात् पत्रं पतति न पत्रात्' इत्यत्र पञ्चम्यन्तपत्र पदार्थः प्रथमान्तार्थः पतमानपत्रपदार्थ एव वृक्षात् पत्रं पतति न स्वस्मात् ' इत्यर्थस्तत्र पतनक्रियया जायमानो विभागो यथा वृक्षेस्ति तथा पतमानपत्रेप्यस्त्येवेति पतनक्रियायां पत्रनिष्ठविभागजनकत्वं प्राप्तमिति पत्रनिष्ठविभागाऽजनकत्वस्य बाधोस्ति विभागाजनकत्वं च विभागजनकत्वाभाव एव तस्य बाधे प्राप्ते पञ्चम्यर्थस्य पत्रनिष्ठविभागजनकत्वस्य पत्रनिष्ठपतनेऽभावो नास्तीति प्राप्तं तथा पत्रनिष्ठपतने पत्रान्तरनिष्ठो यः क्रियावान्नेतिभेदस्तत्प्रतियोगितावच्छेदकत्वमस्ति पत्रपदस्य च पत्रत्वावच्छिन्नं वाच्यमिति पत्रनिष्ठमेदप्रतियोगितानवच्छेदकत्वस्य बाधे प्राप्त पञ्चम्यर्थस्य भेदप्रतियोगितावच्छेदकत्वस्याप्यभावो नास्तीति प्राप्तं तथा चैकतरस्यापि पञ्चम्यर्थस्यात्राभावो नास्ति येन नञा तद्बोधनमुपपद्येतेत्यर्थः । योग्यता हि शाब्दबोधे कारणं बाधाभावश्च योग्यता अत्र च पत्रनिष्ठविभागाजनकत्वस्य = पत्रनिष्ठविभाग जनकत्वाभावस्य पत्रनिष्ठ भेदप्रतियोगितानवच्छेदकत्वस्य = पत्र निष्ठ भेदप्रतियोगिताव C Page #498 -------------------------------------------------------------------------- ________________ (४८६) सादर्श: [ पञ्चमीकारकेअत्राहुः-विभागो जनकत्वं च पञ्चम्यर्थः, विभागे प्रकृत्यर्थस्याऽवधिकत्वं संबन्धस्तेन संबन्धेन प्रकृत्यर्थविशिष्टस्य विभागस्य निरूपितत्वविशेषसंबन्धेन जनकत्वेऽन्वयः, जनकत्वं च फलोपधानरूपम्, विशिष्टनिरूपिततादृशजनकत्वस्य क्रियायाम्, नसमभिव्याहारस्थले च क्रियान्वयिन्यऽभावे प्रतियोगित्वेनान्वयः। वृक्षपत्रादिविभागजनकं पत्रादिकर्म च न पत्राद्यवधिकत्वविशिष्टविभागोपधायकम्- पत्रादेः स्वावधिकत्वविशिष्टविभागानधिकरणत्वेन तत्कर्मणि विशिष्टविभागसामानाधिकरण्याभावात्, फलोपधायकत्वस्य सामानाधिकरण्यगर्भत्वानोक्ताऽनुपपत्तिः। * वृक्षाद्विभजते' इत्यादावपि वृक्षावधिकत्वं विभागे प्रतीयते-तत्राऽपादाच्छेदकत्वाभावस्य च नअर्थस्य बाधाद योग्यतैव नास्तीति कथं ना पञ्चम्यर्थस्याभावबोधनं स्यादित्यर्थः । अत्र च " पत्रनिष्ठविभागजनकत्वस्येव " इति पाठस्तु प्रामादिक एव प्रतिभाति विभागजनकत्वस्य बाधे प्राप्ते विभागजनकत्वरूपपञ्चम्यर्थस्यात्राभाव एव प्राप्नुयादित्यनु. पपत्तिप्रदर्शनं नोपपद्येतेति विवेचनीयम् । पूर्वत्र — न स्वस्मात् ' अत्र च ' न पत्रात् ' इति कथनादुदाहरणयोर्भेदः । __ अथेत्यादिना शङ्कितं समाधत्ते-अत्रेत्यादिना, प्रकृत्यर्थस्य वृक्षस्य । फलोपधानरूपम् = फलोपधायकं विभागसंपादकं जनकत्वं ग्राह्यं न तु स्वरूपयोग्यतारूपमित्यर्थः । विशिष्टनिरूपिततादृशजनकत्वस्य-प्रकृत्यर्थवृक्षविशिष्टविभागनिरूपितफलोपधायकजनकत्वस्य पतनादिक्रिया. यामन्धयः । नसमभिव्याहारस्थलीयान्वयविशेषमाह- ननिति, क्रियान्वयिन्यऽभावे (विभाग. जनकत्वाभावे) प्रतियोगित्वरूपेणोक्तजनकरवस्यान्वयः-क्रियायां विभागजनकत्वाभावबोधोदवात् । वृक्षपत्रयोर्विभागस्य जनकेन पतनादिकर्ममा पत्रनिष्ठेन हि न पत्रावधिकविभागो जन्यते पन्ने पत्रावधिकविभागाधिकरणत्वासंभवेन तत्कर्मणि-पत्रनिष्ठक्रियायां पत्रावधिकविभागसामानाधिकरण्याभावात, फलोपधायकत्वं च जन्यसामानाधिकरण्यगर्भमेव यत्र जनकं तत्रैव जन्यमिति सामानाधिकरण्यं तथा च नोक्तानुपपत्तिः= वृक्षात् पत्रं पतति न पत्रात् ' इत्यत्र पत्रावधिकविभागोत्पत्तेरभावान्नबा पञ्चम्यर्थभूतयोः पत्रावधिकविभागस्य जनकत्वस्य चाभावः प्रत्याय्यते 'पणे वृक्षात् पतति न स्वस्मात् । वृक्षात् पतति न भूतलात् ' इत्यादावपि पर्णकर्मणा वृक्षावधिकविभागस्यैव जन्यत्वात् पर्णाद्यवधिकविभागस्याऽजन्यत्वाच नत्रा पर्णाद्यवधिकविभागनिरूपितजनकत्वस्याभावः क्रियायां बोध्यते इति न योग्यतानुपपत्तिरित्यर्थः । योग्यतानुपपत्तिर्हि भेदप्रतियोगितावच्छेदकत्वस्य पञ्चम्यर्थत्वस्वीकारे एवासीत् तत्पक्षस्येदानीं त्यक्तत्वात् विभागजनकत्वयोरेव पञ्चम्यर्थत्वस्वीकारादिति भावः । अत्र " अवधिकत्वम् " इत्यत्र ' स्वावधिकत्वम् । इत्येवं पाठो युक्तः । प्रयोगान्तरमुदाहरति-वृक्षादिति । वृक्षावधिकविभागप्रतीतौ हेतुमाह-तत्रेति । तथा च वृक्षावधिकविभागनिरूपिताश्रयतावान् पक्षीत्येवं विभागानुकूलव्यापारवति पक्ष्यादौ वृक्षावधिक "Aho Shrutgyanam" Page #499 -------------------------------------------------------------------------- ________________ पञ्चम्यर्थविचारः] व्युत्पत्तिवादः। (४८७) नताया अवधितारूपत्वाद्, वृक्षाद्यवधिकत्वविशिष्टविभागनिरूपितमेवाश्रयत्वमाख्यातेन बोध्यतेऽतः 'वृक्षः स्वस्माद्विभजते ' इति न प्रयोगः । यथा हि स्वप्रतियोगिकत्वविशिष्टसंयोगः स्वस्मिन्न वर्तते तथा स्वावधिकस्य विभागस्य स्ववृत्तित्वपि स्वस्य न विशिष्टविभागाधिकरणत्वमित्यऽविवादमेव । अवधित्वादिकं च स्वरूपसंबन्धविशेषः।। ___ यदा विभागोऽधिकरणता प्रयोजकत्वं च 'वृक्षात् पतति । इत्यादौ पश्चम्यर्थः, विभागे स्वावधिकत्वसंबन्धेन प्रकृत्यर्थान्वयः तद्विशिष्टविभागस्य निरू. पितत्वविशेषसंबन्धेनाधिकरणतायामन्वयः, पत्रादिकर्मणि च न तदवधिकत्वविशिष्टविभागनिरूपितान्यमात्रनिष्ठाधिकरणताप्रयोजकत्वम्- कारणस्यापि स्वा श्रयनिष्ठकार्याधिकरणतामात्रप्रयोजकत्वादिति सामञ्जस्यम् । विभागनिरूपिताश्रयत्वमाख्यातेन बोध्यते । विभागे वृक्षावधिकत्ववैशिष्टयस्य फलमाह-अत इति, स्वावधिकविभागः स्वस्मिन्न संभवति किं तु परावधिक एवेति वृक्षे वृक्षावधिकविभा. गासंभवात् ' वृक्षः स्वस्माद्विभजते ' इतिप्रयोगापत्तिर्नास्तीत्यर्थः । अत्र विनिगमकमाहयथेति, यथा स्वप्रतियोगिकत्वविशिष्टः संयोगः स्वस्मिन्न वर्तते तथा स्वावधिकत्वविशिष्ट विभागोपि स्वस्मिन्न वर्तते इत्यर्थः । स्वावधिकविभागस्य स्ववृत्तित्वे स्वस्य कथं विशिष्ट= स्वावधिकत्वविशिष्टविभागाधिकरणत्वं नेति चेत् ? स्ववृत्तिविभागे स्वावधिकेपि स्वावधिकत्ववैशिष्टयं न स्वीक्रियते किं तु स्वावधिकत्वोपलक्षितत्वमेव स्वीक्रियते इति भावः । अपादानताभूतावधित्वस्य स्वरूपमाह-अवधित्वादिकमिति । * वृक्षात् पतति ' इत्यत्र पक्षान्तरमाह- यद्वेति । विभागोऽधिकरणता प्रयोजकत्वं चेति त्रयं पृथक् पृथगेव पञ्चम्यर्थः । प्रकृत्यर्थस्य वृक्षस्य । तद्विशिष्टविभागस्य वृक्षविशिष्टविभागस्य । अधिकरणतायाश्च निरूपितत्वसंबन्धेन प्रयोजकत्वेऽन्वयः । प्रयोजकत्वस्याश्रयत्वसंबन्धेन पत्रादिनिष्ठपतनादिक्रियायामन्वय इति पदार्थनिर्देशः । पत्रकर्मणि च तदवधिकत्ववृक्षावधिकत्वविशिष्टविभागनिरूपिताधिकरणताया वृक्षनिष्ठाया एव प्रयोजकत्वमस्ति न तु पत्रान्यमात्रनिष्ठाया अपीति ' पत्रं वृक्षात् पतति न भूतलात् ' इत्यादौ वृक्षावधिकत्वविशिष्टविभागनिरूपिताधिकरणतायाः पत्रक्रियया भूतलादावापत्तिर्नास्त्येवेति नजा वृक्षावधिकत्वविशिष्टविभागनिरूपितभूतलनिष्ठाधिकरणताप्रयोजकत्वस्य पञ्चभ्यर्थस्याभावः पत्रपतने बोध्यते इत्येवंरीत्यापि नोक्तयोग्यतानुपपत्चिरित्यर्थः । उक्त विनिगमनामाह-कारणस्येति । स्वाश्रयनिष्ठं यत्कार्यं तदधिकरणतामात्रप्रयोजकत्वादित्यर्थस्तथा च पत्रकर्माश्रयः पत्रं तन्निष्ठो यः पत्रकर्मकार्यभूतो विभागस्तादृशविभागाधिकरणताप्रयोजकत्वं पत्रपतने प्राप्तं तादृशविभागश्च वृक्षपत्रयोरेव न भूतलादाविति भूतलनिष्ठायास्तादृशविभागनिरूपिताधिकरणतायाः प्रयोजकत्वस्याभावान्वयः पतने ना संभवत्येवेति न कोपि दोषः । "Aho Shrutgyanam Page #500 -------------------------------------------------------------------------- ________________ (४८८) सादर्श: [ पञ्चमीकारके-- अथ 'वृक्षात् पतात' ' वृक्षाद्विभजते ' इतिवत् — वृक्षात् त्यजति ' इत्यादिः कथं न प्रयोगः- पञ्चभ्यर्थस्य विभागजनकत्वस्य विभागावच्छिन्नक्रियारूपत्यागेऽवधिमत्त्वरूपपञ्चम्यर्थस्य च विभागरूपधात्वर्थतावच्छेदकफलेऽन्वये बाधकाभावात् । नच विभागावच्छिन्नक्रियायां विभागान्वयोऽव्युत्पन्न:-उद्देश्यतावच्छेदकविधेययोरैक्पादिति वाच्यम्, जनकतासंबन्धेन विभागावच्छिन्ने प्रकृत्यर्थविशेषितविभागजनकत्वान्वये व्युत्पत्तिविरोधविरहात् । न च पञ्चम्यर्थविभागजनकत्वाऽवधिमत्त्वयोरन्वयबोधे धातुविशेषाधीनव्यापारविभागोपस्थितेर्हेतुत्वोपगमात्तदभावेन त्यजधातूपस्थिततत्तदर्थे न पञ्चम्यन्वय इति वाच्यम्, त्यजिपत्योस्त्यजिविभज्योश्च पर्यायताभ्रमदशायां त्यजत्यर्थव्यापारविभागयोः पञ्चम्यान्वयात् त्यजधातुजन्यतत्तदर्थोपस्थितेरपि पञ्चम्यान्वयहेतुताया अवश्यं वाच्यत्वात्। न च पश्चम्यर्थविभागजनकत्वान्वयबोधे धातुजन्यविभागरूपफलानवच्छिन्नव्यापारोपस्थितिस्तादृशावधिमत्त्वान्वयबोधे च धातुजन्यविभागमुख्यविशेष्यकोपस्थितिहेतुरिति त्यजधातुजन्यविभागावच्छिन्नव्यापारोपस्थितिविषयव्यापारविभाग ननु त्यजधातोरपि विभागावच्छिन्नक्रियाबोधकत्वात् तदर्थक्रियायां पश्चम्पर्थस्य विभागजनकत्वस्य विभागे च पञ्चम्पर्थभूतावधिमत्त्वस्याऽन्वयसंभवात् 'वृक्षात् त्यजति ' इति प्रयोगः कथं न स्यादित्याशङ्कते-अथेति । उक्तरीत्याऽपादानताया अवधितारूपत्वेऽवधिमत्त्वस्य पञ्चम्यर्थस्वं प्राप्तमिति विज्ञेयम् । शङ्कते-न चेति, विभागावच्छिन्नक्रियाया विभागान्वये विभागावच्छिन्नक्रियाया उद्देश्यस्वादुद्देश्यतावच्छेदकत्वमपि विभागस्येच प्राप्तं विधेयत्वमपि विभागस्यैव प्राप्तमिति ज्ञेयम् । परिहारमाह-जनकतेति, विभागविच्छिन्न कर्मणि विभागस्योदेश्यतावच्छेदकत्वेपि विधेयत्वं विभागस्य नास्ति किं तु वृक्षविशिष्टविभागजनकत्वस्येति नोक्तव्युत्पत्तिविरोध इत्यर्थः । ननु पञ्चम्यर्थभूतविभागजनकत्वावधिमत्त्वयोविभजत्यादिधातुविशेषोपस्थितयोरेव व्यापारविभागयोरन्वयो भवति न तु त्यजधातूपस्थितयोरपि व्यापारविभागयोरिति ' वृक्षात् त्यजति । इत्यत्र तदभावेन व्यापारविभागयोविभजत्यादिधातुविशेषजन्योपस्थित्यभावेन त्यजधातूपस्थितव्यापारविभागयोः पञ्चम्यर्थभूतविभागजनकत्वावधिमत्त्वयोरन्वयो न संभवतीत्याशङ्कयाह- न चेति । उत्तरमाह- त्यजिपत्योरित्यादिना, त्यजधातोर्विपूर्वकमजधातोश्च पर्यायताश्रमदशायां त्यजधातूपस्थितयोरपि व्यापारविभागयोः पञ्चम्यर्थभूतविभागजनकत्वावधिमत्त्वयोर्यथाक्रममन्वयस्येष्टत्वाद् अन्यत्रापि त्यजधातुजन्यव्यापारविभागयोरुपस्थितेः पञ्चभ्यर्थान्वयहेतुत्वं प्राप्तमिति तादृशान्वयसंभवात् ' वृक्षात् त्यजति । इति प्रयोगः स्यादेवेति प्राप्तं न चैतदिष्टमित्यर्थः । ननु विमागानवच्छिन्न व्यापारे एव विभागजनकत्वस्यान्वय इष्टस्तथा मुख्यविशेष्यतयोपस्थितविभागे एवावधिमत्त्वस्यान्वय इष्टः, त्यजधातुना च विभागावच्छिन्नस्यैव व्यापारस्योपस्थितिर्भवतीति न तत्र विभागजनकत्वान्वयापत्तिः, विभागस्य "Aho Shrutgyanam" Page #501 -------------------------------------------------------------------------- ________________ पचम्यर्थविचारः ] व्युत्पत्तिवादः । ( ४८९ ) योः पञ्चम्यर्थविभागजनकत्वावधिमत्त्वान्वयाऽसंभव इति वाच्यम्, फलव्यापारयोः पृथग् धात्वर्थतामते त्यजधातोरपि प्राधान्येन विभागस्य तदनवच्छिन्नस्पन्दस्य चोपस्थित्या तदुपस्थितिविषयतादृशार्थयोरपि तत्तत्पञ्चम्यर्थान्वयसंभवादिति चेत् ?, न - फलावच्छिन्नव्यापारस्य धात्वर्थतामते उक्तरीत्यैव सामञ्जस्यात्, तयोः पृथग धात्वर्थतामते च फलविषयकञ्यापारविषयकबोधं जनयतु धातुपदमित्येतादृशेच्छारूपा फलव्यापारयोरेकैव शक्तिः पुष्पवन्तादिपदवद् न तु फलविषयकं. व्यापारविषयकं च बोधं जनयत्वितिसमूहालम्बनात्मकबोधनिष्ठा तत्तद्विषयकत्वावच्छिन्नविभिन्नविषयताशालिस के तरूपा तथा सति नानार्थत्वाविशेपेण कदाचित् फलव्यापारयोरेकैकपरित्यागेनाप्येकैकस्य बोधप्रसङ्गात् तथा च विभागे पञ्चम्यर्थावधिमत्त्वान्वयबोधे संकेतीयबोधनिष्ठ विषयत्वांशे विभागेच व्यापारविशेषणतयैवोपस्थितिर्भवति न तु मुख्यविशेष्यतयेति न तादृशविभागेऽवधिमत्त्वान्वयापत्तिरिति न वृक्षात् त्यजति ' इति प्रयोगापत्तिरित्याशङ्क्याह- न चेति । उत्तरमाहफलव्यापारयोरिति । त्यजधातोरिति पञ्चम्यन्तम् । तदनवच्छिन्नस्पन्दस्य=विभागानवच्छिन्नव्यापारस्य । तादृशार्थयोरिति सप्तम्यन्तम् । तदुपस्थितिविषयतादृशार्थयोः त्यजधातुजन्योपस्थितिविषययोरपि व्यापारविभागयोस्तत्तत्पञ्चम्यर्थस्य विभाग जनकत्वस्यावधिमत्त्वस्य चान्वयः संभवत्येवेति वृक्षात् त्यजति ' इति प्रयोगः कथं न स्यादित्यन्वयः । ८ अथेत्यादिना शकित परिहरति-नेति, विभागावच्छिन्नव्यापारस्य त्यजधात्वर्थतामते उत्तरीत्यैव="पञ्चम्यर्थविभागजनकत्वान्वयबोधे धातुजन्यविभागरूपफलानवच्छिन्नव्यापारोपस्थितिस्ताशामियान्वयबोधे च धातुजन्य विभागमुख्य विशेष्यको पस्थितिर्हेतुः " इत्युक्तरीत्यैव सामअस्यम् । तयोः = विभागव्यापारयोः पृथग् धात्वर्थतामते च फलव्यापारयोः = विभागव्यापारयोः 'फलविषयकव्यापारविषयकबोधं जनयतु धातुपदम् ( त्यजवातुपदम् ) इत्याकारिकैकैव भगवदिच्छारूपा शक्तिः स्वीक्रियते न तु ' फलविषयकं व्यापारविषयकं च बोधं जनयतु धातुपदम् ' इत्याकारिका, एतादृशसमूहालम्बनात्मकबोधनिष्ठा हि संकेतरूपा शक्तिस्तत्तद्विषयकत्वावच्छिन्नविभिन्नविषयताशालिन्यस्ति तत्तद्विषयकत्वेन = फलविषयकत्वेन व्यापारविषयकत्वेन चावच्छिना या विभिन्नविषयता = फलव्यापारयोर्विषयता तच्छालित्वात् तथा सति = 'फलविषयकं व्यापारविषयकं च बोधं जनयतु ' इत्याकारकसमूहालम्बनात्मकं शक्तिस्वीकारे तादृशषातुपदस्य नानार्थत्वमेव स्यात् तथा च फलं विनापि व्यापारस्य व्यापारं च विना फलस्य धातुपदेन बोधः स्याद् न चैवं भवतीति ' फलविषयकव्यापारविषयकबोधं जनयतु धातुपदम् ' इत्याकारिका फलव्यापारयोर्धातोरेकैव शक्तिः स्त्रीक्रियते तथा च विभागे पञ्चम्यर्थावधिमत्त्वान्वयबोधं प्रति संकेतीयबोधनिष्ठविषयतांशे विभागेतरविषयकत्वेनाऽनवच्छिन्नत्वावगाहि धातुशक्तिज्ञानं हेतुरुपेयते अत्र चोक्तरीत्या फलव्यापारयोर्धातोरेकशक्तेः स्वीकारात् संकेतीयबोधनिष्ठविषयता " "Aho Shrutgyanam" " Page #502 -------------------------------------------------------------------------- ________________ (४९०) सादर्श: { पञ्चमीकारकेतरविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं क्रियांशे विभागजनकत्वरूपपश्चम्यान्वयबोधे च तादृशबोधनिष्ठविषयतांशे विभागविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं हेतुरुपेयते इति त्यजधातोस्तादृशज्ञानमभ्रान्तस्याऽसंभवीत्यऽतिप्रसङ्गानवकाशाद । शक्तिद्वयादिवद् दर्शितैकशक्तेरपि कर्मप्रत्ययस्थले फलव्यापारयोर्विशेषणविशेष्यभाववैपरीत्येन शाब्दबोधसंभवात्, विशिष्टशक्तावेव विशेषणविशेष्यभावविपर्यासाऽनिर्वाहात् । यदि च फलव्यापारयोः शक्तिभेदे एकार्थपरित्यागेनाऽपरार्थबोधप्रसङ्गवद् उक्तरूपसंकेतोपगमपि पुष्पवन्तपदशक्त्यविशेषेण तत इव सकर्मकधातुतोपि विशेषणविशेष्यभावानापन्नस्यैवाऽर्थद्वयस्यान्वयबोधः स्यान्न तु तदापन्नार्थद्वयविषयक इत्युच्येत ? तदा संकेतस्य बोधांशे विशेषणतया भासमानयोः फलव्या पारविषयकत्वयोरवच्छेद्यावच्छेदकभावावगाहित्वमपि स्वीकरणीयं विशेषणविशेविभागेतरो यो व्यापारस्तद्विषयकत्वावच्छिन्नैवास्तीति न ' वृक्षात् त्यजति । इत्यत्र विभागे पञ्चम्यर्थावधिमत्त्वान्वयापत्तिस्तथा क्रियायां विभागजनकत्वरूपपञ्चम्यान्वयबोधं प्रति तादृश: संकेतीयबोधनिष्ठविषयतांशे विभागविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं हेतुरुपेयते अत्र चोक्तरीत्या फलव्यापारयोर्धातोरेकशक्तेः स्वीकारात् । संकेतीयबोधनिष्ठविषयता विभागविषयकत्वेनाऽवच्छिन्नेवास्तीति न क्रियायां पञ्चम्यर्थविभागजनकत्वान्चयापत्ति:- त्यजधातुतस्तादृशज्ञानम्-संकेतीयबोधनिष्ठविषयतायां विमागेतरविषयकत्वानवच्छिन्नत्वावगाहिज्ञानं वि मागवि षयकत्वानवच्छिन्नत्वावगाहिज्ञानं चाऽभ्रान्तस्य न संभवतीति अतिप्रसङ्गः त्यजधातूपस्थिते व्यापारे विमागजनकत्वस्य विभागे चावधिमत्त्वस्य पञ्चम्यर्थस्यान्वयातिप्रसङ्गो नास्तीत्याहतयोरित्यादिना । ननु फलव्यापारयोरेकशक्तिस्वीकारे हि यत्कर्माख्यातस्थले फलस्य विशेष्यत्वं भवति कळख्यातस्थले च व्यापारस्य विशेष्यत्वं मवति तादृशविशेषणविशेष्यभाववैपरीत्यं न स्यादित्याशङ्क्याह- शक्तिद्वयेति । विशिष्टशक्तावेव विशेषणविशष्यभाववैपरीत्यं न भवति न चात्र फलव्यापारयोर्धातोरेकशक्तिस्वीकारेपि विशिष्टशक्तिरुपेयते पुष्पवन्तपदशक्तिवदित्यर्थः । “ दार्शतेकशक्तेः" इति पञ्चम्यन्तम् । ___ यदीति- यदि फलव्यापारयोः पृथक् शक्तिस्वीकारे एकार्थपरित्यागेनाऽपरार्थबोधप्रसङ्गवद् उक्तरूपस्य= फलविषयकव्यापारविषयकबोधं जनयतु धातुपदम्। इत्याकारकसंकेतस्य स्वीकारेपि पुष्पक्तपदशक्तितुल्यत्वेन ततः पुष्पवन्तपदाद् यथा विशेषणविशेष्यभावानापन्नयोरेव चन्द्रसूर्ययोर्बोधो भवति तथा सकर्मकधातुतोपि अर्थद्वयस्य-फलव्यापारयोविशेषणविशेष्यभावानापन्नयोरेव बोधः स्यान्न तु तदापन्न विशेषणविशेष्यमावापन्नयोरित्युच्यते तदा बोधांशे विशेषणतया भासमानयोः फलविषयकत्वव्यापारविषयकत्वयोरवच्छेद्यावच्छेदकभावावगाहित्वमपि संकेतस्य स्वीकार्य तथा च फलव्यापारयोविशेषणविशेष्यभावेन माने एव फलविषयताव्यापारविषयतयो "Aho Shrutgyanam" Page #503 -------------------------------------------------------------------------- ________________ पञ्चम्यर्थविचारः } व्युत्पत्तिवादः । व्यभावेन भासमानयोरेव फलव्यापारयोर्विषयताद्वयमवच्छेद्यावच्छेदकभावापनमिति तथैव तयोर्भानम् । पुष्पवन्तपदसंकेते च चन्द्रसूर्यविषयतयोरवच्छेद्यावच्छेदकभावो न भासतेऽतस्तयोर्विशृङ्खलमेव भानमिति न काप्यनुपपत्तिः । यादे च ' वृक्षात् स्पन्दते ' इत्यादिने प्रयोगस्तदा सकर्मकधातोः फलविशिष्टव्यापारवाचकतामते पञ्चम्यर्थविभागजनकत्वबोधे विभागानवच्छिन्न फलावच्छिन्नव्यापारविषयकधातुशक्तिज्ञानजन्योपस्थितिः फलव्यापारयोर्वैशिष्टयानुपरक्तयोर्धात्वर्थतामते च संकेतीयबोधनिष्ठविषयतांशे विभागविषयकत्वानवच्छिन्नत्वफलान्तरविषयकत्वावच्छिन्नत्वोभयावगाहिज्ञानजन्योपस्थितिः कारणमभ्युपगन्तव्येत्यलमधिकेन । रप्यवच्छेद्यावच्छेदकभावः स्यादिति तयोः = फलव्यापारयोस्तथैव = विशेषणविशेष्यभावेनैव मानं संभवतीत्यर्थः । न चैवं कर्माख्यातस्थले विशेषणविशेष्यभाववैपरीत्याऽसंभवात् फलस्य विशेष्यतया भानं न स्यादिति शङ्क्यं कर्माख्यातेनापि फलोपस्थितिस्वीकारात् तत्र धातूपस्थितफलस्य व्यापारविशेषणतया कर्माख्यातोपस्थितफलस्य व्यापारविशेष्यतया मानाद् अत एव 'ग्रामो गम्यते ' इत्यत्र संयोगानुकूलव्यापारजन्यसंयोगाश्रयो ग्राम इत्येवं बोधः स्वीक्रियते अत्र च संयोगरूपफलस्य द्विवामानमस्तीति विज्ञेयम् । सकर्मकधातोर्हि नियमेन फलव्यापारयोबाधो भवतीत्यु - क्तम्- सकर्मक धातुतोपीति । पुष्पवन्तपदविशेषमाह - पुष्पवन्तपदसंकेत इति । तयो:चन्द्रसूर्ययोः । सर्वमिदं शक्तिवादे स्पष्टम् | श्रीमद्गदाधर भट्टाचार्यस्त्यजधातुवत् स्पन्दधातुमपि भ्रान्त्या सकर्मकं मत्वा तद्योगेन 'वृक्षात् स्पन्दते ' इति प्रयोगवारणोपायमाह- यदि चेत्यादिना । स्पन्दधातौ सकर्मकत्वभ्रान्त्यभावे 'वृक्षात् स्पन्दते' इति प्रयोगवारणाम " सकर्मकधातोः" इत्यादिनात्र सकर्मकधातुमुद्दिश्य पञ्चम्यर्थान्वयनिर्वचनमनुपपन्नमेव स्याद् अकर्मकधातोरेवैतादृशनिर्वचनस्य युक्तत्वादिति चिन्त्यम् | स्पन्दधातोः फलावच्छिन्न व्यापारवाचकत्वमेव नास्तीति न स्पन्दधातूपस्थितव्यापारे पञ्चम्यर्थविभागजनकरखान्वयापत्तिः, तथा स्पन्दधातुसंकेतीयबोधनिष्ठविषयतायां फलान्तरविषयकत्वावच्छिन्नत्वमेव नास्तीति फलव्यापारयोर्वैशिष्ट्यानुपरक्तयोर्धात्वर्थतामते = फलव्यापारयोर्धातोः पृथक् शक्तिस्वीकारमतेपि स्पन्दधातूपस्थितव्यापारे न पञ्चम्यर्थ विभागजनकत्वान्वयापत्तिरिति न ' वृक्षात् स्पन्दते ' इति प्रयोगापत्तिः । एवं सकर्मकत्यजधातोर्विभागावच्छिन्नव्यापारबोधक - त्वात् त्यजधातुसंकेतीयबोधनिष्ठविषयताया विभागविषयकत्वेनावच्छिन्नत्वाच्च न 'वृक्षात् व्यजति' इत्यपि प्रयोगापत्तिः । एतत्कार्यकारणभावस्य सकर्मकधातुस्थलीयत्वेन पतत्यादियोगे प्राप्तेरभावात् वृक्षात् पतति विभजते ' इत्यादयः प्रयोगा भवन्ति । 'ग्रामाद् गच्छति' इत्यत्र धातोः सकर्मकत्वाद् विभागेतरसंयोगरूपफलावच्छिन्न व्यापारबोधकत्वादेवाऽनेन कार्यकारणभावेन धातूपस्थितव्यापारे पञ्चम्यर्थविभागजनकत्वान्वयः संभवत्येवेति ' ग्रामाद् गच्छति' इति सिद्धमित्यर्थः । ८ "Aho Shrutgyanam" ( ४९१ ) Page #504 -------------------------------------------------------------------------- ________________ ( ४९२ ) सादर्श: [ पञ्चमीकारके व्याघ्राद्विति दस्युभ्यो रक्षति' इत्यादौ " भीत्रार्थानां भयहेतुः " -इत्यनेनाऽपादानत्वम् । भयं चः परतोऽनिष्टसंभावना, त्राणं चानिष्टनिवृत्त्यनुकुलो व्यापारः तदर्थकधातुयोगे तादृशानिष्टप्रयोजकमपादानसंज्ञमिति सूत्रार्थः, एवं च पञ्चम्यर्थस्तत्र प्रयोज्यत्वं तच्च निरुक्तधात्वर्थघटकाऽनिष्टेऽन्वेति । 7 “ णम् अथ यस्य व्याघ्राधीनं भयमप्रसिद्धमऽथ च व्याघ्राधीनत्वेनासौ स्वीयमरणाकिं संभावयति तत्पुरुषपरः ' व्याघ्रादयं विभेति' इति कथं प्रयोगः प्रमाअनिष्टे व्याघ्राधीनत्वस्य बाधादिति चेत् ?, भयार्थकधातुयोगे प्रयोज्यतापकारकत्वं पञ्चम्यर्थस्तच्चानिष्टसंभावनायामन्वेति प्रकृते च व्याघ्राधीनत्वस्य तत्पुरुषीयाऽनिष्टे बाघेप्यऽनिष्टसंभावनायां तत्प्रकारकत्वमबाधितमेवेति नानुपपत्तिः । एवं च शत्रुभ्रमेण मित्रादपि 'विभेति' इत्यादिवाक्यस्यापि प्रामायनिर्वाहः । एवं च भयार्थकधातुयोगे भयहेतुत्वेन संभावितमपादानमित्येकः सूत्रार्थ:, अनिष्टविरहानुकूलव्यापाररूपत्राणार्थकधातुयोगे तदनिष्टप्रयोजकं तदित्यपरः । अनिष्टं च दुःखमेव सर्वत्रानुगतम् । ८ प्रयोगान्तरमुदाहरति- व्याघ्रादिति । तदर्थकधातुयोगे=मीत्रार्थकधातुयोगे ( मयार्थकत्राणार्थधातुयोगे ) । अनिष्टप्रयोजकम् = व्याघ्रादि । तथा च व्याघ्नाद्विमेति ' इत्यत्र ' व्याघ्रप्रयोज्यानिष्टसंभावनाश्रयः' इति 'दस्युभ्यो रक्षति ' इत्यत्र च दस्युप्रयोज्यानिष्टनिवृत्त्यनुकूलव्यापाराश्रयः ' इति शाब्दबोधः । ८ प्रका शङ्कते - अथेति । यस्य वीरस्य । उक्तप्रयोगाऽप्रामाण्ये हेतुमाह- अनिष्ट इति, यद्यपि मरणमप्यनिष्टमेव तत्र च व्याघ्राधीनत्वस्य न बाधस्तथाप्यत्रानिष्टं मयमेव ग्राह्यं न मरणं भये च व्याघ्राधीनत्वं नास्त्येव - वीरस्य व्याघ्रप्रयोज्यभयस्याऽसंभवादित्यर्थः । अनिष्टपदेन मरणस्यैव ग्रहणे तु मरणसंभावनायां व्याघ्राधीनत्वस्य ( व्याघ्रप्रयोज्यत्वस्य ) सत्त्वेपि वीरमरणे व्याघ्राधीनत्वं नास्ति व्याघ्रमरणे एव वीराधीनत्वसंभवादित्येवं मरणलक्षणानिष्टे व्याघ्राधीनत्वस्य बाधो व्याख्येयः । उत्तरमाह - भयार्थकेति, प्रयोज्यता = प्रकृत्यर्थव्याघ्रादिप्रयोज्यता तत्प्रकारकत्वं तादृशप्रयोज्यताप्रकारकसंभावनायामन्वेति - उक्तसंभावनायामुक्त प्रयोज्यतायाः रतया भासमानत्वात्, व्याघ्रादिप्रयोज्यानिष्टसंभावनाश्रयः ' इतिशाब्दबोधोदयादित्यर्थः । अनेन व्याघ्रादिनिरूपितप्रयोज्यताप्रकारकानिष्टसंभावना तु वीरस्यापि संभवत्येवेति लब्धम् । एतदेवाह - प्रकृते इति । तत्प्रकारकत्वम् व्याघ्रादिनिरूपितप्रयोज्यताप्रकारकत्वं । नानुपपत्तिः = वीरमुद्दिश्यापि ' व्याघ्रादयं बिभेति ' इतिप्रयोगस्यानुपपत्तिर्नास्तीत्यर्थः । एवं च =अनिष्टसंभावनायामुक्तप्रयोज्यताप्रकारकत्वनिवेशात् । मित्रादनिष्टबाधेप्यनिष्टसंभावनाया बाबामावात् ' मित्राद्विमेति ' इतिवाक्यस्यापि प्रामाण्यमुपपन्नम् । द्विधा सूत्रार्थमाह- एवमिति । अनिष्टविरहः =अनिष्टनिवृत्तिः 1 तदनिष्टप्रयोजकम् उक्ततादृशा ( संभाविता ) ऽनिष्टप्रयो & "Aho Shrutgyanam" Page #505 -------------------------------------------------------------------------- ________________ वारणार्थानामितिसूत्रोदाहरणम् ] व्युत्पत्तिवादः । यज्जन्यं दुःखं कस्यापि न प्रसिद्धयति तादृशस्याप्यहिकण्टकादेरपादानत्वं कथमिति चेत् ?, तर्हि यन्निष्ठस्वदुःखोपधाय कव्यापारविरहानुकूलव्यापारस्तदपादानकं स्वकर्मकरक्षणमिति वक्तव्यम् । घटाद्यचेतनकर्मकं च रक्षणं विनाशोपarunserer वरहगर्भ निर्वाच्यम् । 'यवेभ्यो गां वारयति कूपादन्धं वारयति' इत्यादौ "वारणार्थानाम " इत्यनेन यवकूपादेरपादानत्वम् कारणं क्रियाप्रतिषेधस्तदर्थकधातुयोगे ईप्सितः -- तत्रक्रियाजन्यफलभागितया तत्तत्क्रियाकर्तुरभिप्रेतोऽपादानमिति सूत्रार्थः, क्रिया च भक्षणगमनादिरूपा, तात्पर्यवशात् क्वचित् कस्याश्चित् प्रतिषेधो वारयत्यादिना बोध्यते, प्रतिषेधः कर्तुत्वाभावानुकूलव्यापारः । कर्तृत्वाजकं व्याघ्रादि, तत्=अपादानं भवति इत्यपरः सूत्रार्थ: । तत्र प्रथमेन सूत्रार्थेन वीरमुद्दिश्य व्याघ्राद्विभेति ' इतिप्रयोगोपपत्तिः, द्वितीयेन सूत्रार्थेन 'दस्युम्यो रक्षति इतिप्रयोगोपपत्तिरिति विवेकः । अनिष्टानां नानात्वेनाऽनुगतस्वरूपमाह- अनिष्टमिति । 7 ननु ' कण्टकादात्मानं रक्षति ' इत्यादिस्थळे तत्कण्टकादितः कस्यापि दुःखमेव प्रसिद्धं नास्ति येन तादृशदुःखनिवृत्यनुकूलव्यापारार्थकधातुयोगे कण्टकादेरपादानत्वं स्यादित्याशङ्कते - यज्जन्यमिति । उत्तरमाह - तर्हेति, यथा यनिष्ठ: - कण्टकनिष्ठः स्त्रदुःखोपधायकः = स्वदुःखजनको वेधनरूपो व्यापारस्तादृशव्यापारविरहा ( निवृत्य ) ऽनुकूलोऽपसरणादिरूपो व्यापार एव तदपादानकम्== कण्टकाद्यपादानकं स्वकर्मकरक्षणं तत्रास्तीति तादृशत्राणार्थ करक्षधातुयोगेन अनिष्टजनककण्टकादेरपादानत्वं प्राप्तमित्यर्थः किं चात्र प्रयोज्यत्वं पञ्चम्यर्थस्तदन्वयस्य दुःखे बाधेपि दुःखसंभावनायां न बाध इति तादृशसंभावनयैव स्वरक्षणं कण्टकादित आव-श्पकमिति ज्ञेयम् । ननु चेतनगतानिष्टसंभवात्तस्य रक्षणं संभवति घटाद्यचेतनस्य स्वनिष्टमेव भयादिकं न संभवतीनि कथं तद्रक्षणमुपपद्येत तादृशधातुयोगे च कथं कस्यचिदपादानत्वं स्यादित्याशङ्क्याह-- घटादीति । विनाशोपधायकव्यापारविरहगर्भमिति- यन्निष्ठविनाशोपधायकव्यापार निवृत्त्यनुकूलव्यापारस्तदपादानकं घटादिरक्षणमिति वाच्यं यथा बालनिष्ठो यो घटविनाशजनक व्यापारस्तन्निवृत्त्यनुकूलव्यापार एव बालापादानकं घटरक्षणमस्तीति बालस्यापादानत्वं प्राप्तमिति ' बालाद् घटं रक्षति ' इत्यादिप्रयोगः संभवतीत्यर्थः । बालकर्तृकघटनाशानुकूलव्यापारं निरुणद्धि ' इति शाब्दबोधः । ८ प्रयोगान्तरमुदाहरति-- यवेभ्य इति । तदर्थकधातुयोगे वारणार्थकधातुयोगे । तत्तत्क्रियाजन्यफलभागितया वारणादिक्रियाजन्य विभागरूप फळभागितया ( वारणेन यवेभ्यो गोर्विभागो भवति ) तत्तत्क्रियाकर्तुः = त्रारणादिक्रियाकर्तुरभिप्रेतो यवादिरपादानं भवति, कूपोप्यन्धप्रतियोगिकविभागरूपफलभागित्वेन रूपेण वारणकर्तुरभिप्रेत एवेति विज्ञेयः । क्रियाप्रतिषेधः " इत्यत्रत्यक्रियापदार्थमाह- क्रियेति । प्रतिषेधपदार्थमाह- प्रतिषेध इति, येन व्यापारेण "Aho Shrutgyanam" (४९३ ) Page #506 -------------------------------------------------------------------------- ________________ सादर्श: [ पञ्चमीकारके- भावरूपधात्वर्थतावच्छेदकफलशालितया गवान्धादेः कर्मता । यवादिपदोत्तरपञ्चम्या यवादिगतत्वेने च्छाविषयफलकत्वं भक्षणादौ प्रत्याय्यते, इच्छा च भक्षणादिक्रियाकर्तृगवादिनिष्ठा तदर्थेऽन्तर्भावनीया: एवं चोक्तस्थले यवकूपादिनिष्ठत्वेन गवान्वादीच्छाविषयो यो गलाधस्संयोगोत्तरदेश संयोगादिर्गवादिनिष्टतत्तत्फलकव्यापारविशेषकर्तृत्वाभावानुकूलव्यापारानुकूलकृतिमानित्याकारको बोधः । अन्धादेर्यद्यपि कूपगमनत्वादिना नेच्छा तथाप्यभिमुखदेशगमनत्वादिना कूपगमनादरिच्छा वर्तत एवेति, वस्तुगत्या यः कूपादिदेशस्तद्गतत्वेन क्रियाजन्यसंयोगस्य तदिच्छाविषयत्वमक्षतमेव । न च प्रकृते यवकूपादिनिष्ठफलविशेषजनकत्वमेव पश्ञ्चम्यर्थोस्तु किमिच्छान्तर्भावेनेति वाच्यम्, यत्र चैत्रादेर्नान्तरीयकतया विषभोजनादिकं प्रसक्तं न तु स्वेच्छातस्तत्र तद्भोजन विरोधिव्यापारकर्तरि चैत्रं विषाद्वारयति ' इति न प्रयोगोऽपि तु ' सविषान्नाद्वारयति ' इत्यादिरेव तत्र पूर्वप्रयोगवारणाय सूत्रकृता ईप्सितः " इत्यत्र सन्प्रत्ययेनेच्छोपदानात्, अत एव यद् यवादिकं केनापि ( ४९४ ) "L ८ गवादौ भक्षणादिकर्तृत्वं निवर्तेत स एव व्यापारः प्रतिषेधः । तथा च वारणं हि कर्तृत्वाभा वानुकूलव्यापार एव तत्र धात्वर्थतावच्छेदकं फलं कर्तृत्वाभावस्तादृशफलाश्रयतयाः गवान्धादेः कर्मत्वमित्याह - कर्तृत्वाभावरूप इति । पञ्चम्यर्थमाह- यवादीति, यवादिगतत्वेनेति तृतीयार्थः प्रकारत्वम्, यवादिगता येच्छा तादृशेच्छाविषयीभूतं फलं गलाधस्संयोगादिरूपं तत्फलकत्वं भक्षयादौ पञ्चम्या प्रत्याय्यते - यवादिगलाधः संयोगफलकं भक्षणमित्यर्थः । तदर्थे= उक्तपञ्चम्यर्थे । उक्त प्रयोगयोर्वाक्यार्थस्वरूपमाह - एवं चेति । गवादिनिष्ठेति - गवादिनिष्ठो यस्तत्तत्फलकन्या"पारविशेषः–गलाधस्संयोगोत्तरदेशसंयोगादिफलको भक्षणगमनादिव्यापारस्तत्कर्तृत्वाभावानुकूलव्यापारो वारणव्यापारस्तदनुकूलकृतिमान् वारको चैत्रादिरित्यर्थः । ननु नान्धः कूपमुद्दिश्य गच्छति येनान्धस्य कूपगमनेच्छा स्यादित्याशङ्क्याह---अन्धादेरिति । अत्र स्वमतमाह-वस्तुगत्येति । यः =अभिमुखीभूतः । तदिच्छाविषयत्वम् = अन्धेच्छाविषयत्वम् । แ ननु पञ्चम्या भक्षणादौ प्रतीयमानस्य यवादिगतत्वेने च्छा विषयफलकत्वस्य यत् पञ्चम्यर्थत्वं आप्तं तन्न युक्तमिच्छान्तर्भावस्य व्यर्थत्वादिति वारणे यद् यवकूपादिनिष्ठविभागरूपफलस्य जनकत्वं तदेव पञ्चम्यर्थो युक्त इत्याशङ्क्याह- न चेति । उत्तरमाह - यत्रेति, न प्रयोगः " इत्यत्र भवतीति शेषः । पूर्वप्रयोगवारणाय = ' चैत्रं विषाद्वारयति ' इतिप्रयोगवारणाय । सूत्रका - रेणेच्छाया उपादानादस्माभिरपि पूर्वप्रयोगवारणाय पञ्चम्यर्थे इच्छाया अन्तर्भावः कृतः, अन्यथा सविषान्न भोजनवारणेनान्नादिव विषादपि भक्षकस्य विभागो जात एवेति तादृशविभागजनकत्वस्य वारणव्यापारे सत्त्वात् ' चैत्रं विषाद्वारयति ' इत्यप्युक्तस्थले प्रयोगः स्यात् न चैतदिष्टम् । इच्छान्तर्भावे चोक्तस्थले विषगतत्वेने च्छाविषयफलकत्वं भक्षणे नास्तीति न ' विषाद्वारयति "Aho Shrutgyanam" Page #507 -------------------------------------------------------------------------- ________________ आख्यातोपयोगेत्यादिसूत्रोदाहरणम् ] व्युत्पत्तिवादः । ( ४९५ ) न मुक्तं तत्कर्मकभोजनाप्रसिद्धावपि भोजनफले संयोगविशेषे तद्यवादिगतत्वेनेच्छाविषयत्वप्रसिद्धया तद्यवाद " गां वारयति ' इत्यादिप्रयोगोपपत्तिः । एवं च तत्र भक्षणादौ तद्यवादिकर्मकत्वगवादिकर्तृकत्वोभयाभावबोधाय केषां चित् प्रयासोऽनादेय एवेति । 6 पण्डितात पुराणं शृणोति उपाध्यायाद्वेदमधीते रामादधीत संदेशः ' इत्यादावाख्यातुः " आख्यातोपयोगे ” इत्यनेनाऽपादानता, तत्र प्रकृत्यर्थपण्डि - तादिकर्तृकोच्चारणाधीनत्वं पश्चम्यर्थः, तस्य च श्रवणोच्चारणार्थविशेषज्ञानादिक्रियायामन्वयः । 7 “ G > मृत्पिण्डाद् घटो जायते ' इत्यादौ "जनिकर्तुः इत्यनेनापादानत्वम, तत्र प्रकृतित्वं न विकारित्वम् - प्रकृतिविकृतिभावाभावेपि "प्राक् केकयीतो भरतस्ततोऽभूत् "" वायोर्जातः ' इत्यादौ पञ्चमीदर्शनात्. न हि सुतवपुषो मातापितृशरीरविकारत्वमपि तु तदीयशुक्रशोणितादिविकृतित्वमेव शुक्रशोणितादेः शरीरस्थत्वेपि मलमूत्रादेखि शरीरावयवत्वाभावात् तदवयवारभ्यत्वस्यैव तद्विकारतारूपत्वात् । *" 看 " Aho Shrutgyanam" 6 इति प्रयोगापत्तिः, सविषान्नगतत्वेनेच्छाविषय फलकत्वं भक्षणेऽस्तीति सविषान्नाद्वारयति ' इति प्रयोग उपपद्यते इत्यर्थः । इच्छान्तर्भावस्य फलान्तरमाह- अत एवेति । संयोगविशेषे = गलाधस्संयोगे । भोजनकर्मत्वासंभवेपि भोजनेच्छाविषयत्वं तु संभवत्येवेत्यर्थः । एवं चेति - यत्र यद्यवादिकर्मकभोजनमप्रसिद्धं तत्र भक्षणादौ तद्यवादिकर्मकत्वस्य गवादिकर्तृकत्वस्य चाभावबोधनाय यः खलु प्रयासविशेषः स न ग्राह्यः व्यर्थ एव-उक्तरीत्या मक्षणफले गलाधस्संयोगे इच्छाविषयत्वसत्त्वेपि भक्षणे तदूयवादिकर्मकत्वगवादिकर्तृकत्वयोरमावः स्वयमेव प्रतीयते इति तत्प्रतीत्यर्थं प्रयासविशेषस्य व्यर्थत्वादित्यर्थः । प्रयोगान्तरमुदाहरति- पण्डितादिति । आख्यातुः = वक्तुः पण्डितादेः । तस्य = उक्तपञ्चम्यर्थस्य । श्रवणेति - ' पुराणं शृणोति ' इत्यत्र श्रवणक्रियायां पञ्चम्यर्थान्वयः, 'वेदमधीते, इत्यत्रोच्चारणक्रियायां पञ्चम्यर्थान्वयः - उपाध्यायकर्तृकोच्चारणसदृशच्छात्र कर्तृकोच्चारणस्यैवाध्ययनपदार्थत्वादुक्तमुच्चारणेति, ' अधीतसन्देशः ' इत्यत्रार्थविशेषविषयकज्ञानक्रियायां पञ्चम्यर्थान्वयः, तथा च ' पण्डितकर्तृकोच्चारणाधीनश्रवणाश्रयः ' " रामकर्तृको चारणाधीन संदेशविषयकज्ञाना' इत्यादिः शाब्दबोधः । श्रयः 3. प्रयोगान्तरमुदाहरति- मृत्पिण्डादिति । तत्र = " जनिकर्तुः प्रकृतिः " इतिसूत्रे | जनिकर्तुः = जायमानस्य । विकारित्वम् = उपादानकारणत्वम् । यदि सूत्रे प्रकृतिपदेनोपादानकारग्रहणं स्यात्तदा केकय्या भरतोपादानत्वाभावाद् वायोश्च रोगाद्युपादानत्वाभावात् ' केकयीतः ' 'वायो:' इत्यादौ पञ्चमी न स्यादित्यर्थः । उपादानत्वाभावमेवाह- न हीति । विकार Page #508 -------------------------------------------------------------------------- ________________ ( ४९६ ) सादर्श - [ पञ्चमीकारके 6 जावे न च तत्र हेतुपञ्चस्येव नाऽपादानपञ्चमीति वाच्यम्, ऋणगुणातिरिक्तहेतौ पञ्चम्यनुशासविरहात्, अन्यथा ' दुग्धाद दधि जायते '' मृत्तिकाभ्यो घथे शृङ्गाद् धनुर्जायते ' इत्यादेरपि हेतुपञ्चम्यैवोपपत्तौ “जनिकर्तुः " इत्यादिसूत्रस्यैव वयर्थ्यापत्तेः, तस्मात् कारणत्वमेव प्रकृते प्रकृतित्वम् |' दण्डाद् घटो जायते ' इत्यादयापि प्रयोगा इष्यन्त एव । अत एवेश्वरस्य द्रव्यादिकार्याप्रकृतित्वेपि " यतो द्रव्यं गुणाः कर्म " इत्यादौ पञ्चमी । न च प्रकृतिपदेन कारणमात्रविवक्षायामपि क्रियायोगाभावादपादानपञ्चम्यनुपपत्तिः. हेतुपञ्चमी चोक्तक्रमेण प्रकृतेऽनुपपन्नैवेति वाच्यम्, अगत्या 'जायते ' इत्यादिक्रियाध्याहारेण तत्र पश्चम्या उपपादनीयत्वात् । 'हिमवतो गङ्गा प्रभवति' इत्यादौ " भुवः प्रभवः इत्यनेनाऽपादानता, यत्संबन्धात् प्रभवनम् = प्रथमः प्रकाशः स प्रभवः, प्रथमप्रकाश एव प्रभवत्यर्थः । पञ्चम्यर्थः संबन्धाधीनत्वं तादृशक्रियायामन्वेति संबन्धे च हिमवदादेः प्रकृत्यर्थस्यान्वयः । , 2 11 विकृतित्वं चोपादेयकार्यस्वम् । तदवयवारभ्यत्वे सत्येव कार्यकारणयोः प्रकृतिविकृतिभावो भवति नान्यथेत्याह- तदवयवारम्यत्वेति । निगदव्याख्यातोयं ग्रन्थः । शङ्कते - न चेति । उत्तरमाह - ऋणेति, ऋणस्य हेतुत्वे " अकर्तर्वृणे पञ्चमी " इतिसूत्रेण पञ्चमी भवति ' शताद्वद्ध: ' इति, गुणस्य हेतुत्वे " विभाषा गुणेऽस्त्रियाम् " इति - सूत्रेण पचमी " - जाडयाद्वद्ध: : इति नान्यत्र । विपक्षे बाधकमाह - अन्यथेति । प्रकृतमाहतस्मादितिः । प्रकृते =" जनिकर्तुः प्रकृतिः " इत्यत्र । अस्ति चोक्तस्थले केकय्या बायोश्च कारणत्वमिति पञ्चमी । दण्डादिति - दण्डस्यापि कारणत्वेन प्रकृतित्वाद् दण्डपदात् पञ्चमीत्यर्थः * अत एव = प्रकृतिपदेन कारणस्यैव ग्रहणादेव, अप्रकृतित्वेपीति – न्यायमते परमात्मनः प्रपञ्चं प्रति निमित्तकारणत्वेनोपादानत्वाभावेपि परमात्मबोधकाद् यच्छब्दात् ८८ यतः " इति पञ्चमी प्राप्तेत्यर्थः । ननूक्तसूत्रे प्रकृतिपदेन कारणमात्रविवक्षायामपि " जनिकर्तुः " इत्यनेनोत्पत्तिकारणस्याऽपादानसंज्ञामात्रं भवति पञ्चमी तु अपादाने पञ्चमी " इतिसूत्रेणैव वक्तव्या सा च कारकपञ्चमी कारकत्वं च क्रियायोगाभावे : न भवतीति कथं पञ्चमी स्यात् हेतुपञ्चमी चोक्तक्रमेण ऋणगुणातिरिक्तपदार्थस्य हेतुत्वे नैव भवतीति 66 ८८ यतः 19 इत्यत्र << यतः " इत्यत्र कथं पञ्चमी स्यादित्याशङ्क्याह-न चेति । परिहारमाह- अगत्येति, क्रियाध्याहारे हि तादृशक्रियायोगेन कारकत्वापत्त्याऽपादानपञ्चम्येव बोध्येत्यर्थः । "Aho Shrutgyanam" प्रयोगान्तरमुदाहरति - हिमवत इति । प्रभवनपदार्थमाह-प्रथमेति । तादृश क्रियायाम = प्रथमप्रकाशरूपप्रभवनक्रियायाम् । संबन्धे हिमवतो निरूपितत्व संबन्धेनान्वयः तथा च हिमवरसंघन्वाधीनप्रथमप्रकाशाश्रयो गङ्गेति शाब्दबोधः । Page #509 -------------------------------------------------------------------------- ________________ अन्तर्की येनादर्शनमिच्छतीति ] व्युत्पत्तिवादः। (४९७) 'उपाध्यायादन्तर्धत्ते छात्रः ' इत्यादौ “ अन्तौं येनादर्शनमिच्छति" इत्यपादानता । अन्तर्द्धि: अन्तर्धानं स्वनिष्ठान्यकर्तृकदर्शनविषयताविरहोद्देश्यको व्यापारः, एवं च व्यापारानुकूलतयाऽन्त नघटको यत्कर्तृकदर्शनविषयताविरहोद्देशः सोऽपादानमिति सूत्रार्थः । उक्तस्थलीयपश्चम्या अन्तर्दियटकदर्शनान्वयि कर्तृतानिरूपकत्वमेवार्थ इत्युपाध्यायकर्तृकदर्शनविषयताया यः स्वनिष्ठोऽभावस्त. दुद्देश्यकव्यापारकर्ता छात्र इति तत्रान्वयबोधः।। इदं तु बोध्यम्- 'अस्मादयं दीर्घः' 'अस्मादयं तारः' इत्यादौ नापादा. नपञ्चमी- दैाद्यवधेरपादानत्वस्याननुशासनात् । “ ध्रुवमपायेऽपादनम् इत्यनेन ह्यपाये-विभागरूपक्रियायां क्रियान्तरजन्यविभागे च यदवधिभूतं तस्याऽपादानत्वं विधीयते न त्ववधिमात्रस्यः । यदि चापायपदं वस्तुमात्रोपलक्षकमुच्यते तदा तदुपादानमनर्थकं स्यात् । ___ अथ तत्पदेन क्रियामात्रमुपलक्ष्यते - अस्माद् दीर्घः' इत्यादौ च ' भवति । इत्यध्याहार्य दीर्घभवनं च दीर्घतैवेति क्रियायाः सावधित्वम् , आवश्यकश्च प्रयोगान्तरमुदाहरति-- उपाध्यायादिति । स्वनिष्ठेति- स्वं छात्रः, छात्रनिष्ठा योपाध्यायः कर्तृकदर्शनविषयता तदभावानुकूलो व्यापारोऽन्तर्धानम् । सूत्रार्थमाह- एवं चेति । व्यापारानुकूलतया-व्यापारीनुकूल इतियावत्, उद्देशविशेषणम् । सः=उपाध्यायादिः । उद्देश: इच्छा सा च छात्रस्य स्वनिष्ठा योपाध्यायकर्तृकदर्शनविषयता तदभावोद्देश्यको योऽन्तर्धानव्यापारस्तादृशव्यापारानुकूलास्ति- अन्तर्धानन्यापार प्रति उपाध्यायकर्तृकदर्शनविषयताविरहवि: षयकेच्छायाः कारणत्वात्, एतदेवोक्तम्- व्यापारानुकूलतयेत्यनेन । पञ्चम्यर्थमाह-उक्तेति, उपाध्याये या दर्शनकर्तृता तनिरूपकत्वं दर्शनक्रियायामेवेत्यर्थः । शाब्दबोधस्वरूपमाहउपाध्यायकर्तृकेति, "उपाध्यायकर्तृकदर्शनविषयतायाः" इत्यस्य 'उपाध्यायनिष्टकर्तृत्वस्य निरूपकं यद्दर्शनं तद्विषयतायाः । इत्यर्थः । विषयान्तरमाह- इदमिति । देाद्यवधेरपादानत्याभावे हेतुमाह- ध्रुवमिति । अपायपदार्थमाइ- विभागेति । अनर्थकमिति-अपायपदस्य वस्तुमात्रोपलक्षकत्वे वस्तुमात्रनिरूपितावधेरपादानत्वं स्यात् तत्रावधेः किंचिद्वस्तुनिरूपितत्वमेव संभवति न चाऽवस्तुनिरूपितत्वमपि येनाऽवस्तुव्यवच्छेदकत्वात्सार्थक्यं स्यादित्यऽपायपदस्य वस्तुमात्रोपलक्षकस्वे व्यवच्छेदकत्वाभावादानर्थक्यमेव स्यादित्यर्थः । शङ्कते- अथेति । सत्पदेन अपायपदेन, न वस्तुमात्रमिति शेषः । सावधित्वमिति'दीर्घता हि सावधिकैव भवति किंचिन्निरूपितत्वादिति दीर्घतारूपाया दीर्घभवनक्रियाया अपि सावधित्वं प्राप्तमेवेति दीर्घभवनरूपसावधिकक्रिया नेम्पितावधित्वमिदंपदवाच्यस्य प्राप्तमिति 'अस्मादयं दीर्घः । इत्यत्राऽपादानपञ्चमी युक्तैवेत्यर्थः । अत्र क्रियाध्याहारावश्यकतामाह "Aho Shrutgyanam" Page #510 -------------------------------------------------------------------------- ________________ ( ४९८ ) सादर्श: [ पञ्चमीकारके L क्रियाध्याहारस्तद्योगमन्तरेण कारकत्वस्याऽनिर्वाहात् । एवम् बलाहकाद्विद्योतते विद्युत् ' इत्यादौ द्योतनादिक्रियायाः सावधिकत्वविरहेण ' निसृत्य इत्यध्याहियते । अत एव नैतदपादानं निर्दिष्टविषयमपि तूपात्तविषयमिति वैयाकरणाः । निर्दिष्टत्वम् = उच्चरितत्वम् । उपात्तत्वम् - अध्याहृतत्वम् । विषयः =अवधित्वनिरूपकः । निस्सरणं च विभाग एवेत्युक्तस्थलेऽघ्याहत क्रियायाः सावधिक्रत्वमिति चेत् ?, एवं सति ' वृक्षात् पतति ' इत्यादी वृक्षादेरसंग्रहः । तत्रापि विभागक्रियाऽध्याहियते इति चेत्, तत्र निर्दिष्टविषयतामवादविरोधः । एवम् 'अस्माद् दीर्घः ' इत्यादावपि क्रियाध्याहारे तत्समशीले ' माथुरा: सौम्य आढ्यवराः' इत्यादावपि क्रियाया अध्याहरणीयतया तत्राऽपादान 7 इत्यपा आवश्यक इति । तद्योगम् = क्रियायोगम् । एवमिति - निस्सरणस्य विभागरूपत्वेन सावधित्वं प्राप्तमिति तादृशनिस्सरणनिरूपितावधिभूतस्य बलाहकस्यापादानत्वं प्राप्तं तेन च पञ्चमीत्यर्थः । अत एव = निसृत्येतिक्रियाध्याहारादेव । एतदपादानम् = ' बलाहकात् ' दानम् । निर्दिष्टत्वादीनां स्वरूपमाह - निर्दिष्टत्वमिति । निर्दिष्ट उच्चरितो विषयोऽवधिनिरूपको यस्य तग्निर्दिष्टविषयमपादानम्, उपात्तोऽध्याहृतो विषयोऽवधि निरूपको यस्य तदुपात्तविषयमपादानमित्यर्थः । उपसंहरति- निस्सरणं चेति । उक्तस्थळे - 'बलाहकाद्विद्योतते विद्युत् इत्यत्र । अध्याहृतक्रियायाः = निसृत्येत्यऽध्याहृतपदबोध्यनिस्सरणक्रियाया विभागरूपत्वात् सावधिकत्वमस्ति, " ध्रुवमपायेऽपादानम् " इतिसूत्रस्य च अपाये - सावधिक क्रियायां ध्रुवमपादानसंज्ञम् ' इत्यर्थः संपन्नः, निस्सरणक्रिया च सावधिकेवेत्यत्र बलाहकपदादपादानपञ्चम्येवेति भावः । एवं सूत्रव्याख्यानेऽनुपपत्तिमाह- एवमिति । असंग्रह इति- पतनं ह्यऽधोदेशसंयोग एव स च न सावधिक इति ' वृक्षात् पतति ' इत्यत्र वृक्षस्याऽपादानत्वं न स्यादित्यर्थः । ननु तत्रापि = ' वृक्षात् पतति ' इत्यत्रापि ' वृक्षाद् विभज्य पतति इत्येवं विभागक्रियाध्याहारः कर्तव्यो विभागस्य सावधिकत्वेन विभागनिरूपितावधित्वाद् वृक्षस्याऽपादानस्वमित्याशङ्क्याह- तत्रापीति । उत्तरमाह- तत्रेति । 'वृक्षात् पतति ' इत्यत्र वृक्षस्य निर्दिष्टविषयाऽपादानत्वमुच्यते क्रियाध्याहारे सत्युपात्तविषयत्वप्राप्त्या निर्दिष्टविषयत्वं न स्यादिव्यर्थः । • वृक्षात् पतति ' इत्यत्र स्वावधिकविभागजनकत्वस्य पञ्चम्यर्थत्वाश्रयणेन वृक्षाव. धिकविभागजनकपतनव्यापारवान् एतादृशशाब्दबोधोदयसंभवात् तदर्थम् विभज्य ' इति - क्रियाया अध्याहारापेक्षाया अमावादेतस्याऽपादानस्य निर्दिष्टत्रिषयत्वमुपपद्यते । L 6 > एवमिति - यदि ' अस्माद् दीर्घः' इत्यत्र क्रियाध्याहारः स्यात्तदा तत्तुल्यत्वात् ' माथुराः -सोध्नेभ्य आढ्यतराः ' इत्यत्रापि क्रियाध्याहारः स्यादेव तथा चास्योपातविषयोपादानेऽन्तर्भावः स्यादित्युपात्तविषयस्याऽपेक्षितक्रियस्य चाऽपादानस्य विशेषो न स्यात्तथा चाऽपादा "Aho Shrutgyanam" Page #511 -------------------------------------------------------------------------- ________________ अपादानवैविध्यम् ] व्युत्पत्तिवादः। (४९९) स्याऽपेक्षितक्रियारूपस्योपात्तविषयान्तर्भावप्रसङ्ग इति तादृशाऽपादानयोरविशेयापत्तिः । एवं च “उपात्तविषयं किंचिनिर्दिष्टविषयं तथा। अपेक्षितक्रियं चेति त्रिधाऽपादानमुच्यते ॥" इतिशाब्दिकविभागविरोधः । __ अथाऽपायपदेन क्रियासामान्य क्रियाजन्यविभागश्च विवक्षित एवं च 'वृक्षात् पतति' इत्यादौ न विभागात्मकक्रियाध्याहार इति तदपादानमपिं निर्दिष्टविषयम् । यत्राऽपादानतानिर्वाहार्थमेव क्रियाध्याहारः ‘बलाहकात्' इत्यादौ तदपादानमुपात्तविषयम्, यंत्र वाक्यसमाप्त्यर्थं तदध्याहारस्तत एव चाऽपादानतानिर्वाहो यथा 'माथुराः सौन्नेभ्यः' 'अस्माद् दीर्घः' इत्यादौ तत्रापक्षितक्रियत्वमिति चेत् ?, एवमाप 'अयमस्मात्तारः' इत्यादावगतिः- तत्राहि तारत्वं जातिर्जातेश्च न सावधिकत्वमिति कुतोऽपादानता । अन्यथा ' अयमस्माद् गौः' इत्याद्यापत्तिः । न च जातेरपि तारत्वस्य' अयमस्मात्तारः । इतिप्रतीतिबला भवत्येव सावधिकत्वमिति वाच्यम्, यदेव ह्येकापेक्षं तारत्वं तदेवान्यापेक्षं मन्दनस्य त्रिधाविभागकरणं विरुध्येतेत्यर्थः । संग्राहकश्लोकमाह- उपात्तमिति, उपात्तविषयमपादानं यथा- 'बलाहकाद्विद्योतते विद्युत् । इति, निर्दिष्टविषयं यथा 'वृक्षात् पतति , इति, अपेक्षितक्रियं यथा- 'माथुराः सौन्नेम्य आढयतराः ' 'अस्माद् दीर्घः' इत्यादि, अत्राऽस्तीत्यादिक्रियाया अपेक्षासत्त्वात् । (एतद्भागत्रयवैशा चाग्रिमवाक्ये द्रष्टव्यम् )। शकते- अथेति । फलमाह- एवं चेति, तथा. च ' वृक्षात् पतति । इत्यत्र क्रियासामान्यमस्त्येवेति विभागात्मकक्रियाध्याहारं विनवाऽपादानत्वं प्राप्तमित्यर्थः । उपात्तविषयमपादानमाह- यत्रेति । अत्र ‘निस्सत्य ' इतिविभागात्मकक्रियाया अध्याहारः । अपेक्षितक्रियमपादानमाह- यत्रेति । तदभ्याहारः क्रियाध्याहारः । ततःवाक्यसमाप्स्यर्थाध्याहतक्रियातः । माथुराः सौन्नेभ्य आढयतराः' इत्यादौ सन्तीत्यादि क्रियाध्याहारं विना वाक्यसमाप्तिरेव नास्ति । उत्तरमाह- एवमपीति । भगतिः इदंपदवाच्यस्याऽपादानत्वोपपादनगति - स्तीत्यर्थः । 'माथुराः' इत्यत्राढयतरत्वस्य सावधिकत्वेन सोध्नानामपादानत्वं संभवति अस्माद् दीर्घः' इत्यत्र दैर्ध्यस्य सावधिकत्वादिदंपदवाच्यस्यापादानत्वं संभवति 'अयमस्मात्तारः । इत्यत्र तु तारत्वं जातिरेव तस्या सावधिकत्वासंमवात् क्रियाध्याहारे सत्यपि इदंपदवाच्यस्यापादानत्वं न संभवति पूर्वत्र हि क्रियां विना कारकत्वरूपाऽपादानत्वं न. संभवतीति क्रियाध्याहा रापेक्षा न तु सावधिकत्वार्थमिति विशेषः । अगतिमेवोपपादयति- तत्र हीत्यादिना । अन्यथाजातेरपि सावधिकत्वे । सावधिकत्वमस्ति न वेति प्रतीतिसिद्धमेवेति वक्तव्यमित्याशयेनाशङ्कतेन चेति । जातेरपि तारत्वस्येति- जातिभूतस्यापि तारत्वस्येत्यर्थः । उत्तरमाह--- यदेवेति । सम "Aho Shrutgyanam Page #512 -------------------------------------------------------------------------- ________________ सादर्श: (५०० ) [ पञ्चमीकारके - त्वं - समनियतजातिद्वयानभ्युपगमात् समनियताभ्युपगमे जातिसङ्करप्रसङ्गात् वया च तारत्वादेः सावधिकत्वे स्वापेक्षया यस्तारस्तमपेक्ष्य स्वस्मिन् मन्दव्यवहार इव तारव्यवहारोपि स्यात् स्वापेक्षया यो मन्दस्तमपेक्ष्य तारव्यवहार - वत तमपेक्ष्य स्वस्मिन् मन्दव्यवहारोपि स्यात् । अथ तदपेक्षया तार व्यवहारस्तत्सजातीयत्वे सति तत्साक्षात्कारप्रतिबन्धकतावच्छेदकजातिमत्त्वमवलम्बतेऽतो न स्वापेक्षया यस्तारस्तदपेक्षया ताख्यवहारोऽन्यापेक्षया तारेपि भवतीति चेत् ?, तर्हि ' अस्मात्तारः ' इत्यत्र साजात्यसमानाधिकरणसाक्षात्कार मैतिबन्धकतावच्छेदक जातिरूपतारपदप्रवृत्तिनिमितघटक साजात्ये साक्षात्कारे च पञ्चम्यर्थान्वयो वाच्यस्तावतैव दर्शितातिप्रसङ्गवारण संभवात् । तत्र साजात्यं तद्वृत्तिशब्दत्वजातिस्तस्याः साक्षात्कारस्य चन सावधिकत्वमिति न सावधिकत्वरूपमऽपादानत्वं तत्र पश्ञ्चम्यर्थः । नियतेति यदपेक्षया तारत्वं तदपेक्षयैव मन्दत्वमिति समनियतस्य = एकनिरूपितस्य जातिद्व यस्य = तारत्वमन्दत्ययोरस्वीकारात्, एकापेक्षं यदेव तारत्वं तदन्यापेक्षमेव मन्दत्वमिति सिद्धम् । समनियताभ्युपगमे जातिसांकर्येण तारत्वमन्दत्वयोर्जातित्वमेव न स्यात्, सांकर्ये च तन्निरू पितं यत्र तारत्वं न तत्र तन्निरूपितं मन्दत्वं यत्र च तन्निरूपितं मन्दत्वं न तत्र तन्निरूपितं तारत्वं अत्र च तन्निरूपितमेव तारत्वं मन्दत्वं चेति सांकर्य स्यादेवेत्यर्थः । तारत्वे सावधिकत्वे दोषमुद्घाटयति - तथा चेति, तारत्वादेः सावधिकत्वेनावधिमात्रापेक्षित्व प्राप्त्या यस्मिन् यदक्षया तारव्यवहारस्तस्मिन् तदपेक्षयापि मन्दव्यवहारनिरोधो न स्यादेव किंचिदवधिमात्रापेक्षित्वात्, तारव्यवहारे यस्यावधित्वं तस्य मन्दव्यवहारे नाऽवधित्वमित्यत्र विनिगमनाभावादिति भावः प्रतिभाति । शङ्कते - अथेति । यथा शङ्खद्वयध्वनिद्वये शङ्खध्वनित्येन साजात्यमस्ति तत्र यस्य द्वितीयशङ्खध्वनिसाक्षात्कारप्रतिबन्धकत्वं तस्य तदपेक्षया तारत्वम् । अन्यापेक्षया १ तारेपि १ तदपेक्षया २यस्तारस्तादृश २ तारापेक्षया १ तस्मिन् न : तारव्यवहार इत्यन्वयः । उत्तरमाह-तति, साक्षात्कार: प्रत्यक्षं तच्च स्वविषये शब्दे विपयतासंबन्धेन वर्तते इति विषयतासंबन्धे साजात्यसमानाधिकरणो यः साक्षात्कारस्तत्प्रतिबन्धकतावच्छेदकीभूतं यज्जातिरूपं तारपदप्र वृत्तिनिमित्तम् ( साजात्यसमानाधिकरणसाक्षात्कारप्रतिबन्धकतावच्छेदकत्वम् ) तद्घटकसा जात्ये साक्षात्कारे च पञ्चम्यर्थस्याऽपादानत्वस्यान्वयः कर्तव्यस्तावतैव साजात्ये साक्षात्कारे च पञ्चम्यर्थान्वयेनैव यद्यपि दर्शितातिप्रसङ्गः = यदपेक्षया तारव्यवहारस्तदपेक्षया मन्दव्यवहार इत्यतिप्रसङ्गो न संभवति - साजात्ये साक्षात्कारे च पञ्चम्यर्यान्वयेन तादृशस्त्र साक्षात्कार प्रतिबन्धक - साक्षात्कार विषयस्य ध्वनेः स्वापेक्षया तारत्वापत्त्या तदपेक्षया स्वस्मिन् मन्दव्यवहारस्यैव योग्यतया तारव्यवहारस्याऽयोग्यत्वात् तथापि तत्र = उक्तस्थले अस्मिन् यत्तत्साजात्यं तत् तद्वृत्ति "Aho Shrutgyanam" Page #513 -------------------------------------------------------------------------- ________________ अवधित्वविचारः } व्युत्पत्तिवादः । (५०१ ) न च साजात्यघटकजातेः सावधिकत्वाभावेपि वृत्तेः सावधिकत्वमस्त्येव. एवं साक्षात्कारो विलक्षणविषयिताशालिज्ञानं तदूविषयिता च सावधिकैवेति तत्र पञ्चम्यर्थान्वयेन सामञ्जस्यमिति वाच्यम्, यतो वृत्तेविषयितायाश्च स्वाधारविषयमतियोगित्वमेव न तु तदवधिकत्वम्, तदवधिकत्वतत्प्रतियोगिकत्वयोर्वस्तुनोर्भेदात्, अन्यथा घटे वर्तते ' 'घटमवगाहते ' इत्यत्र ' घटाद्वर्तते C शब्दत्वजातिरेव - अन्यद्रूपसाजात्यस्य वक्तुमशक्यत्वात् जातेः साक्षात्कारस्य च न सावधिक संभवति अपादानत्वं च सावधिकत्वरूपमेवेति तत्र = 'अस्मात्तार: इत्यत्र नाऽपादानत्वं पञ्चम्यर्थः संभवतीत्यर्थः । 专家 ननु साजात्यं तद्वृत्तिशब्दश्वजातिः " इत्युक्तं तत्र साजात्यघटकाया वृत्तेः - आधेय 46 L वस्य ( वृत्तित्वस्य ) सावधिकत्वं किं न स्यात्तथा साक्षात्काररूपज्ञाननिष्ठविषयितायाः सावचिकत्वं किं न स्यात् सावधिकत्वे च तत्रैव वृत्तौ विषयितायां चापादानत्वरूपपञ्चम्यर्थस्यान्वयः संभवत्येवेत्याशङ्क्याह- न चेति । अत्र विषयिता इत्यस्य स्थाने विषयता " इत्यपि पाठः । परिहारहेतुमाह- यत इति, यथा घटे वर्तते रूपम् ' इत्यत्र स्वं वृत्ति: ( आधेयत्वम् ) तदाधारो रूपं तद्विषयः ( तदाधारः ) घट इति वृत्तौ घटलक्षणस्वाधारविषयप्रतियोगित्वं प्राप्तम्- घटस्य रूपे आधेयत्वरूपवृत्तित्वसंबन्धेनान्वयात् यस्यान्वयः स प्रतियोगी भवतीति संबन्धे तत्प्रतियोगिकत्वसंभवात्, यथा 'भूतले घटः' इत्यत्र संयोगे घटप्रतियोगिकत्वम् । स्वं विषयिता तदाधारो ज्ञानं तद्विषयो घटस्तस्य घटस्य ज्ञाने विषयितासंबन्धेनान्वयाद् विषयितायां तादृशघटप्रतियोगिकत्वं प्राप्तम्, किं वा प्रतियोगिकपदस्य निरूपितपदस्थानेपि कचित् प्रयोगदर्शनान् " स्वाधारविषयप्रतियोगिकत्वम् " इत्यस्य स्वाधारविपयनिरूपितत्वम् ' इत्यर्थः अत्रापि स्वं वृचिस्तदाधारो रूपं तद्विषयो घटस्तादृशघटनिरूपितत्वं रूपनिष्ठाधे यत्त्वलक्षणवृत्तावस्त्येव विषयितापक्षे च स्वं विषयिता तदाधारो ज्ञानं तद्वियो घटस्तादृशघटादिलक्षणविषय निरूपितत्वं च ज्ञाननिष्ठविषयितायां सुस्पष्टमेवेत्यर्थः । ननु -स्वाधारविषयप्रतियोगिकत्वं स्वाधारविषयावधिकत्वस्वरूपमेवास्तु तथा च ' अयमस्मात् तारः " इत्यत्र न पञ्चम्यनुपपत्तिरित्याशङ्क्याह- तदवधिकरवतत्प्रति योगिकत्वयोरिति, यथा वृक्षात् पर्ण पतति ' ' वृक्षाद्विभजते ' इत्यादौ विभागे वृक्षावधिकत्वमस्ति न तु वृक्षप्रतियोगिकत्वं पर्णादिप्रतियोगिकत्वं चास्ति न तु पर्णाद्यवधिकत्वं तदवधिकत्वतृत्प्रतियोगित्वयोरैक्ये स्वयं व्यतिरेको न स्यादिति पर्णादेः प्रतियोगित्वेनावधित्वप्राप्तौ पर्णादिपदादपि पञ्चमी स्याद् न चैतदिष्टमिति तदवधिकत्वतस्प्रतियोगि कत्वयोर्नैक्यं संभवतीति भाव: : भेदश्च स्वानुभवसाक्षिक एक, 'अवधिकत्वं चावधिभूतपदार्थनिरूपितं भवति न च प्रतियोगिकत्वं तथा मवतीत्यपि विज्ञेयम् ॥ स्वयमपि विपक्षे बाधकमाह- अन्यथेति, यदि वृत्तेः स्वाधारविषयप्रतियोगिकत्वं स्वाधारविषयावधिक रूपमेव स्यात्तदा 'घटे वर्तते ' इत्यस्य स्थाने घटाद्वर्तते इत्यपि स्याद् घटस्य C "Aho Shrutgyanam" ८ 29 7 ८ ८८ Page #514 -------------------------------------------------------------------------- ________________ (५०२) सादर्श: [पञ्चमीकारके'घटादवगाहते ' इतिप्रयोगस्य घटस्याऽपादात्वेन दुर्वारत्वात्, अत एवं प्रतियोगिताया अपादानत्वानात्मकतयाऽन्यादिशब्दयोगे प्रतियोगिवाचकपदात् पञ्चमी सूत्रान्तरेणानुशिष्टा प्रतियोगित्वस्याउपादानतारूपत्वे तद्वैयर्थ्यांपत्तेः। अथान्यादिशब्दार्थभेदादेः क्रियात्वाभावेन कारकत्वासंभव इति मुनिः सूत्रान्तरं प्रणिनायेति चेत् ?, तत् किं तारादिघटकवृत्त्यादेः क्रियात्वमनुमन्यते भवता ? तस्मादत्र पञ्चम्युपपादकं सूत्रान्तरमनुसर्तव्यमिति ।। . “गुणो द्रव्याद् भिन्नः' इत्यादौ “अन्यारात् ” इतिसूत्रेणेव पञ्चमीअन्यपदस्याऽन्यार्यकपदपरत्वादिति बहवः । न चान्यपदेन तदर्थकत्वविवक्षणे तत्समानार्थकेतरपदोपादानवैयर्यमिति वाच्यम्, अन्येतरपदयोरेकस्याऽन्योन्याभावविशिष्टार्थकपरत्वात्. अपरस्य पृथक्त्वरूपगुणविशिष्टार्थकपरतयोपादानसार्थक्यात् । “पृथग्विना " इत्यादिसूत्रे पृथकपदोपादानं तयोगे वैकल्पि. वृत्त्ववधित्वेनापादानत्वापत्तेः, यदि च विषयितायाः स्वाधारविषयप्रतियोगिकत्वं स्वाधारविषयावधिकत्वरूपमेव स्यात्तदा 'घटमवगाहते ' इत्यस्य स्थाने ' घटादवगाहते' इत्यपि प्रयोगः स्यात्. न चैवं भवतीत्यर्थः । प्रतियोगिताया अपादानत्वाऽस्वरूपत्वे विनिगमनामप्याह- अत एवेति । प्रतियोगिताया अपादानत्वानात्मकत्वेऽवधियानात्मकत्वमपि प्राप्तमेव । सूत्रान्तरेण= " भन्यारादितर " इत्यादिसूत्रेण । प्रतियोगित्वस्याऽपादानतारूपत्वे ! घटादन्य' इत्यत्र " अपादाने पञ्चमी " इतिसूत्रेणेव पञ्चम्युपपत्त्या "अन्यारात्" इतिसूत्रं व्यर्थमेव स्यादित्यर्थः। ___ ननु न खलु प्रतियोगिता वपादानतास्वरूपा नास्तीति प्रतिसंधाय भगवता पाणिनिना ऽन्यादिशब्दयोगे पञ्चमीविधानार्थम् “ अन्यारादितर " इत्यादिसूत्रं प्रणीतं किं त्वऽन्यादिशब्दार्थभेदादेः क्रियात्वाभावेन तद्योगे कारकत्वासंभवात् कारकविभक्तिरूपाया अपादानपञ्चम्या असंभवादेवेत्याशङ्कते- अथेति । उत्तरमाह- तकिमिति । येन तादृशतादृशतारत्वादिरूपक्रियायोगादत्राऽपादानपञ्चमी स्यादिति शेषः । अत्र='अयमस्मात्तारः ' इत्यत्र, सूत्रान्तरम् - “ल्यन्लोपे कर्मण्यधिकरणे च " इति वार्तिकम्, तथा च ' अयमिममपेक्ष्यतारः ' इत्यर्थे ल्यब्लोपे इति वार्तिकेन कर्मवाचकेदंपदात् पञ्चम्या 'अयमस्मात्तारः' इतिप्रयोगः संपन इत्यर्थः । तस्मात् उक्तरीत्या सूत्रान्तरेण पञ्चम्याः प्राप्यसंभवादिति । प्रयोगान्तरमुदाहरति- गुण इति । “ अन्यारात्" इतिसूत्रेऽन्यपदमन्यार्थकपदपरं भिन्नपदं चान्यार्थकमेवेति तद्योगे पञ्चमी प्राप्तेत्यर्थः । शङ्कते- न चेति । तदर्थकरव=अन्यार्थकत्व । उत्तरमाह- अन्येतरेति । अन्योन्याभावो हि भेदः पृथक्त्वं च गुण इति विशेषः । ननु " भन्यारादितर " इतिसूत्रस्थयोरन्येतरशब्दयोर्मध्ये एकस्य पृथक्त्वविशिष्टार्थपरत्वे हि पुनः "पृथग्विना " इतिसूत्रे पृथपदोपादानमनर्थकं स्यादित्याशक्याह- पृथन्धिनति । स्वमत "Aho Shrutgyanam" Page #515 -------------------------------------------------------------------------- ________________ अन्वेतरपदयोर्विचारः र: ] व्युत्पत्तिवादः । (५०३ ) कतृतीयोपपत्त्यर्थम् । वस्तुतस्तत्र पृथक्पदमासाहित्यार्थकं न तु गुणवदर्थकम् दुनोति चन्द्रात् पृथगप्यनङ्गः ” इत्युदाहरणेऽसाहित्यस्यैव प्रतीतेः । 6 न चान्यादिपदं नाऽन्योन्याभावार्थकं किं तु पृथक्त्वरूपगुणविशिष्टार्थकं. तथा सति 'घटः पटो न ' इत्यादावपि नञस्तदर्थकतया तद्योगे पञ्चम्यापत्तेः, न च तद्विशिष्टार्थकपदपरम्- तस्यापि विशिष्टार्थवाचकत्वात्, नञ्पदं च न तथा तदुपस्थिताभावस्य नामान्तरायें भेदान्वयसंभवेन लाघवेन तस्य धर्ममात्रवाचकत्वादितिं न तद्योगे पञ्चमीप्रसङ्ग इति वाच्यम्, 'द्रव्याद् गणस्य भेदः' इत्यादी पञ्चमीनिर्वाहाय भेदार्थकपदस्यैवोपादेयत्वात् अन्यादिपदस्यापि वाच्यविशेषणभेदार्थकत्वादित्याऽचार्यानुसारिमतम् 1 तत्र अन्योन्याभाववाचकपदस्य पञ्चम्यनुपयोगित्वे ' द्रव्यादन्यो गुणः ' इत्यादौ पञ्चम्यनुपपत्तेः, गुणादौ पृथक्त्वरूपगुणासंभवेनाऽन्योन्याभावस्यैवान्यपदार्थत्वात् । अन्योन्याभावार्थकपदमाह - वस्तुत इति । तत्र" पृथग्विना " इतिसूत्रे | गुणवदर्थकम् = पृथक्त्वगुणविशिष्टपरम् । उक्ते विनिगमकमाह- दुनोतीति । नवन्यादिपदम् (अन्यमिन्नादिपदम् ) पृथक्त्वरूपगुणविशिष्टार्थकमेव नस्वन्योन्याभावार्थकं तथा सति = अन्यादिपदस्याऽन्योन्याभावार्थकत्वे नञोपि तदर्थकतया = अन्योन्याभावार्थकतया तद्योगे = नञ्योगे 'घटः पटो न ' इत्यादावपि घटादिपदात् पञ्चमी स्यादिति नाव्यादिपदमन्योन्याभावार्थ कम्, न चाप्यऽन्यादिपदं तद्विशिष्टार्थकपदपरम्-अन्योन्याभावविशिष्टार्थकपदपरं तस्यापि = इतर शब्दस्याप्यन्योन्याभावविशिष्टार्थवाचकत्वेनाऽन्यपदोपादानवैयर्थ्यप्रसङ्गात्, नञ्पदं च न तथा=अन्योन्याभावविशिष्टार्थकं किं त्वन्योन्याभावमात्रवाचकमेव तदुपस्थिताभावस्य=नञ्पदोपस्थिताभावस्य निपातार्थत्वेन नामार्थे भेदेन = प्रतियोगिभूत घटादौ स्वप्रतियोगित्वसंबन्धेनानुयोगिभूतपटादौ च स्वानुयोगित्वेन स्वाश्रयत्वेन वा संबन्धेनान्वयसंभवात् तस्य==नञ्पदस्य धर्ममात्र = अन्योन्याभावमात्रवाचकत्वमिति न नञ्पदयोगे पञ्चम्यापत्तिः, पृथक्त्वरूपगुणविशिष्टार्थक पदस्याऽन्योन्याभावविशिष्टार्थकस्यैव च पदस्य पञ्चमीप्रयोजकत्वाश्रयणादित्याशक्याह-- न चेति । परिहारमाह - द्रव्यादिति, 'द्रव्याद् गुणस्य भेदः ' इत्यादौ पञ्चमीप्राप्त्यर्थं दार्थ पदमेव सूत्रे उपादेयमस्तीति सूत्रोक्तान्यादिपदं वाच्यविशेषण मेदार्थकमेव न पृथक्त्वरूप - गुणविशिष्टार्थकं पृथक्त्वरूपगुणविशिष्टार्थक पृथक्पदस्य सूत्रान्तरे उपात्तत्वादित्यर्थः । अत्र प्रथमनचपदस्थाने अथपदपाठस्तु प्रामादिक एव प्रतिभाति । उक्तपूर्वपक्षे स्वयमपि दोषमुद्घाटयति-तत्रेति । अनुपयोगित्वे अप्रयोजकत्वे । ' द्रव्यादन्यो गुणः ' इत्यत्र गुणसामान्ये पृथक्त्वरूपगुणो न संभवतीत्यत्रान्यपदस्य पृथक्त्ववाचकत्वमपि न संभवतीत्यगत्याऽन्यपदस्याऽन्योन्याभाववाचकत्वमेत्र स्वीकार्यमित्याह- गुणादाविति । ननु यद्यऽन्योन्याभाववाचकपदयोगे पञ्चमी स्यात्तदा 'वटः पटो न' इत्यादौ नञ्पदयोगेपि पञ्चमी स्यात् नञ्पदस्याप्यन्योन्याभाववाचकत्वादित्याश 66 " Aho Shrutgyanam" Page #516 -------------------------------------------------------------------------- ________________ (५०४) सादर्श: [पञ्चमीकारकेप्रयोगस्य पञ्चमीप्रयोजकत्वे तत्र निपातातिरिक्तत्वविशेषणप्रवेशेनापि नज्योगे पञ्चमीवारणसंभवात् । वस्तुतस्त्वन्योन्याभावीयप्रतियोगित्वरूपार्थविवक्षायां पञ्चमी, नपदोपस्थापिताभावस्य च प्रतियोगिता न विभत्त्या बोध्यते- नअर्थे प्रतियोगितयैवाऽऽधेयत्वातिरिक्तविभक्त्यर्यान्वयस्थ व्युत्पन्नत्वात् 'न चैत्रस्य' इत्यादी षष्ट्याद्यर्थस्य नजर्थप्रतियोगित्वादतो न तद्योगे पञ्चमी ।। ___ अथ पृथक्त्वगुणानङ्गीकर्तृमीमांसकमते सूत्रेऽन्येतरपदयोरेकतरोपादानवैययं दुरिम्- उक्तरीत्या सार्थकत्वासंभवादिति चेत् ?, न- तन्मतेप्येकपदस्य प्राधान्यनाऽन्योन्याभाववाचकस्याऽपरपदस्थ चान्योन्याभावविशिष्टवाचकस्य संग्राहकतया सार्थक्यात् । न च 'पटाद् भेदः' इत्यादौ क्रियायोगादपादानपञ्चम्येव. धातूपस्थाप्य. क्याह- अन्योन्याभावार्थकपदप्रयोगस्येति, तत्रेति-निपातातिरिक्तस्यान्योन्याभाववाचकपदस्य योगे पञ्चमी भवतीति वक्ष्यामस्तथा च नञ्पदस्य निपातत्यान्न तद्योगे पञ्चम्यापत्तिरित्यर्थः । स्वाभिप्रायमाह- वस्तुत इति, 'द्रव्यादन्यो गुणः । इत्यादौ द्रव्यादावन्योन्याभावीयप्रतियोगिता विवक्षितास्तीति तामाश्रित्य पञ्चमी भवति पञ्चम्या तादृशप्रतियोगिताबोधसंभवात्. नपदोपस्थापितान्योन्याभावस्य प्रतियोगिता तु पञ्चम्या न बोधयितुं शक्यते- नार्थ-अभावे माधेयत्वातिरिक्तविभक्त्यर्थस्य प्रतियोगितारूपेणैवान्वयः स्वीक्रियते यथा ' न चैत्रस्य ' इत्यत्र षष्ठयर्थस्वत्वस्य ननर्थाऽभावे प्रतियोगित्वेनैव रूपेणान्वयो भवति- चैत्रीयस्वत्वप्रतियोगिकामावस्य प्रतीयमानत्वात् , पञ्चभ्यर्थस्य च नअर्थाभावे प्रतियोगित्वरूपेणान्वयाऽसंभवात् तद्योगे= नपदयोगे 'घटः पटो न ' इत्यादौ न पञ्चम्यापत्तिरित्यर्थः । 'ग्रामं न गच्छति । इत्यत्र ग्रामवृत्तिसंयोगानुकूलव्यापाराभावस्य प्रतीयमानत्वादभावे वृत्तित्वस्य प्रतियोगितावच्छेदकता. वच्छेदकत्वेन रूपेणान्वयोस्ति ' भूतले घटो नास्ति । इत्यत्र च भूतलवृत्तिघटामावस्य प्रतीयमानत्वादभावे वृत्तित्वस्य प्रतियोगितावच्छेदकतारूपेणान्त्रयोस्ति न तु प्रतियोगिवेन रूपेणेत्यभिप्रायेणोक्तम्-- आधेयत्वातिरिक्तेति । मीमांसकमतमुद्दिश्याशङ्कते- अथेति । उक्तरीत्येति-उमयोरप्यन्येतरपदयोरेकार्थत्वादेकस्यानर्थक्यमित्यर्थः । परिहरति- नेति । एकपदस्येति- अन्येतरपदयोर्मध्ये एकस्यान्योन्याभावाचरुभेदादिपदसंग्राहकतया सार्थक्यमपरस्थाऽन्योन्याभावविशिष्टवाचकभिन्नादिपदसंग्राहकतया सार्थक्यमित्यर्थः । मिन्नादिपदस्य भेदविशिष्टवाचकत्वं सुस्पष्टमेव । __ शङ्कते- न चेति, 'पटाद् भेदः । इत्यत्राऽपादानपञ्चम्यपि संभवत्येव भेदपदप्रकृतिभूतभिदधातुना क्रियाया उपस्थितत्वादिति “अन्यारात्" इतिसूत्रेऽन्यतरपदयोर्मध्येऽन्योन्याभाववाचकभेदादिपदसंग्राहकस्यैकस्योपादानमनर्थकमेवेत्याशयः । यद्यपि धातूपस्थाप्यक्रियापदार्थप्रतियोगिताया अपादानतारूपत्वे ' घटे वर्तते' इत्यत्रापि घटस्यापादानत्वापत्त्या तदुत्तरं "Aho Shrutgyanam" Page #517 -------------------------------------------------------------------------- ________________ पञ्चमीप्रयोगविचारः] व्युत्पत्तिवादः। (५०५) पदार्थप्रतियोगिताया अपादानतारूपत्वे 'घटे वर्तते ' इत्यादी पञ्चमीप्रसङ्गस्य परत्वेनाधिकरणसप्तम्यादिना बाधादेवानवकाशात्. अभावीयविलक्षणप्रतियोगिताया एवं वा तथात्वात्. “घटादन्यत्वम्' इत्यादौ चाऽपादानत्वासंभवेप्यन्यपदयोगेनैव पञ्चमी तत्रान्यपदाविशेषणतया भासमानभेदे एव पञ्चम्यान्वयोपगमात् न तु भावप्रत्ययात् प्राधान्येन भासमाने तस्मिन् . पदार्थैकदेशे इव वृत्त्येकदेशे ससंबन्धिके प्रतियोगिसंबन्धान्वयस्य व्युत्पत्तिसिद्धत्वादिति वाच्यम्, प्राधान्येन भावप्रत्ययाद् भासमानेप्यन्यत्वे घटपटादिप्रतियोगिकरवान्वयविवक्षया 'घटादन्यत्वम् ' इतिप्रयोगात् तन्निर्वाहायैवाऽन्येतरपदद्वयोपादानात् । _ अथ वा “ ध्रुवमपाये" इत्यत्रावधित्वमेव विवक्षितं न तु प्रतियोगित्वम्उभयानुगमकरूपाभावादिति 'पटाद् भेदः' इत्यादी पञ्चम्युपपत्तयेऽन्येतरपदोपादानम् । पञ्चमी संभवति तथाप्यत्र पञ्चम्याः सप्तम्या बाधो भवति परत्वादिति नात्र पञ्चमीप्रसङ्ग इत्याहधातूपस्थाप्येति । धातूपस्थाप्यक्रियापदार्थ प्रति घटस्य कारकत्वेन प्रतियोगित्वं विज्ञेयम् । पक्षान्तरमाह- अमावीयेति । तथात्वात् अपादानतारूपत्वात् तथा चान्यादिपदप्रयोगे एवाऽमावीयतादृशविलक्षणप्रतियोगितायाः प्रतीयमानत्वादन्यादिपदयोगे पञ्चमी भवति अन्यत्र च तस्या अप्रतीयमानत्वान्न ' घटे वर्तते ' इत्यादौ पञ्चम्यापत्तिरित्यर्थः । प्रयोगान्तरमुदाहरति- घटादन्यत्वमिति । अत्र क्रियायोगाभावादपादानत्वासमवः । ननु 'घटादन्यत्वम् ' इत्यत्रान्यपदोदस्थापितभेदे पञ्चम्यर्थप्रतियोगिकत्वस्य यद्यऽन्वयः स्यात्तदाऽन्यपदयोगेनात्र पञ्चमो स्यादपि न त्वेवं संभवति-- भवान्यपदोत्तरत्वप्रत्ययार्थभेदस्यैव प्रधानत्वात् तत्रैव पञ्चम्यान्वयः स्थानवन्यपदोपस्थितभेदे इत्याशङ्याह- तत्रेति । मावप्रत्ययात्=त्वप्रत्ययात् । स्वप्रत्ययस्य भावे सत्त्वेनात्र भेदबोधकत्वं ज्ञेयम् । तस्मिन् भेदे । ननु 'अन्यत्वम्' इति तद्धितवृत्तिरस्ति तत्रान्यपदोपस्थापितो भेदो वृत्त्येकदेश एव तादृशवृत्येकदेशे पञ्चम्यर्थस्य कथमन्वयः स्यादित्यायाह- पदा. थैकदेशे इति, भेदो हि ससंबन्धिकपदार्थः- अन्यसापेक्षत्वादिति तादृशे ससंबन्धिके वृत्त्येकदेशभूतेप्यन्यपदोपस्थापितभेदे प्रतियोगिभूतघटादिपदार्थसंबन्धरूपस्य पञ्चम्यर्थस्यान्वयः संभवत्येवेत्यर्थः । परिहारमाह- प्राधान्येनेति, ' घटादन्यत्वम् । इत्यत्र त्वप्रत्ययोपस्थापितभेदेपि विवक्षायां सत्यां पञ्चम्यर्थस्य घटादिप्रतियोगिकत्वस्यान्वयो भवत्येवेति तन्निर्वाहायैवान्येतरपदयोरुपादानं तत्रैकस्य प्राधान्येन भासमाने भेदे पञ्चम्यान्वयार्थ पञ्चमीप्रयोजकत्वात्सार्थक्यमऽपरस्य विशेषणतया मासमाने भेदे पञ्चम्यन्वयार्थ पञ्चमीप्रयोजकत्वेन सार्थक्यं यथा 'घटाद् भिन्नः' इत्यत्र । पक्षान्तरमाह- अथ वेति । विवक्षितमित्यत्र ध्रुवपदेनेति शेषः । उभयानुगमकरूपस्य अवधित्वप्रतियोगित्वैतदुभयानुगमकरूपस्य । तथा च 'पटाद् भेदः । इत्यादौ पटादेः “ध्रुवम "Aho Shrutgyanam" Page #518 -------------------------------------------------------------------------- ________________ (५०६) सादर्श: { पञ्चमीकारकेवस्तुतस्त्वऽन्येतरपदं स्वरूपपरमेव. अर्थपरत्वे 'घटादन्यः' इतिवद् ‘घटादेकः इतिप्रयोगापत्तेः। याद चैकपदस्यान्यत्वरूपेण नाऽन्यार्थकतापि तु समभिव्याहृतान्यत्वोपलक्षिते वस्तुनि वक्तृबुद्धिविषयतावच्छेदकघटत्वादिनैव- 'चैत्र एकमानयति मैत्रश्वापरम् ' इत्यादी घटत्वपटत्वादिनैवाऽऽनयनकर्मतादिप्रतीतेन तु पटघटान्यत्वादिना-अन्यत्वान्वयिप्रतियोगिवाचकपदासमभिव्याहारात्, अन्यथा तद्योगे पञ्चम्या असाधुत्वेपि 'घटस्यैकः' इतिप्रतियोगिनि षष्ठयापत्तेर्दुरित्वादित्युच्यते ? तदाप्यन्यार्थकतदादियोगे पञ्चमीप्रयोगापत्त्याऽर्थग्रहणासंभव इति, तथा च 'पटाद् भिन्नम् । 'घटाद् भिद्यते' इत्यादौ पञ्चमीनिहाय तत्रापादानत्वमेव कथंचिदुपपादनीयम् । पाये " इत्यनेनाऽपादानत्वं न संभवतीति पञ्चमी न स्यादिति पञ्चमीप्राप्त्यर्थमन्येतरपदोपादानं तत्रैकस्य भेदवाचकपदसंग्राहकत्वादपरस्य भेदविशिष्टवाचकपदसंग्राहकत्वात्सार्थक्यमिति ' पटाद् भेदः । 'पटाद् भिन्नः ' इत्याद्युपपन्नमित्यर्थः। ____ वस्तुत इति- तथा च " अन्यारादितर " इतिसूत्रेण 'पटादन्यः ' ' पटादितरः ' इत्यत्रैव पञ्चमी न तु 'पटाद् भेदः' इत्यादावपि, अत्र पञ्चमीप्राप्तेरुपायं वक्ष्यति । विपक्षे बाधकमाह- अर्थपरत्वे इति, एकशब्दस्याप्यन्यार्थकत्वात्तदुक्तममरेण “ एके मुख्यान्यकेवलाः" इति । नन्वेकपदस्य हि वक्तबुद्धिविषयतावच्छेदकं यद् घटत्वादिकं तेन रूपेणैवान्यार्थकतास्ति' चैत्र एकमानयति मैत्रश्चापरम् ' इत्यादावेकपदबोध्ये वस्तुनि समभिव्याहतैकपदोपस्थितान्यत्वोपलक्षिते बुद्धिविषयतावच्छेदकेन घटत्वादिरूपेणैवानयनकर्मतायाः प्रतीयमानत्वाद् न त्वत्र पटाद्यन्यत्वरूपेणानयनकर्मता प्रतीयते- निरूपकत्वसंबन्धेनान्यत्वान्वयी यः प्रतियोगी तद्वाचकघटादिपदप्रयोगस्यात्राभावात् प्रतियोग्युपस्थिति विनाऽन्यत्वान्वयाऽसंभवात् तस्मादकपदस्य नाऽन्यत्वरूपेणाऽन्यार्थकता येनैकपदयोगे पञ्चम्यापत्त्या ' घटादेकः ' इतिप्रयोगापत्तिः स्यादित्याशङ्कते- यदि चेत्यादिना । अन्यथेति-अन्येतरपदयोः स्वरूपमात्रपरत्वेनैकपदाऽसंप्राहकत्वे तद्योगे एकपदयोगे पञ्चम्या असाधुत्वेप्येकपदस्यान्यत्वरूपेणान्यार्थकत्वे 'घटस्यैकः । इत्येवं प्रतियोगिवाचकघटपदात् षष्ठी स्यादेव प्रतियोगिवाचकघटपदोपस्थितघटे एकपदोपस्थितान्यत्वस्यान्वयसंभवात्, तस्मान्नैकपदस्यान्यत्वरूपेणान्यार्थकता तथा चान्येतरपदयोः स्वसमानार्थकपदसंग्राहकत्वेप्येकपदयोगे पञ्चम्यापत्तिर्नास्ति-एकपदेन घटादेर्घटत्वादिनैव प्रतिपादनादन्यत्वरूपेण चाऽप्रतिपादनात् अन्यत्वेनाऽन्यत्वार्थकपदयोगे एव “अन्यारात्" इतिसूत्रेण पञ्चमीसंभवादिति नाऽन्येतरपदयोः स्वरूपमात्रपरत्वमित्यर्थः । उत्तरमाहतदापीति, अन्येतरपदयोरर्थपरत्वेन स्वसमानार्थकपदसंग्राहकरचे युक्तरीत्या एकपदाऽग्राहकत्वेपि यत्र 'यः खलु नीलघटादन्यः स घटो ग्राह्यः ' इत्यादौ तत्पदस्याप्यन्यार्थकतास्तीति तत्र ता. "Aho Shrutgyanam" Page #519 -------------------------------------------------------------------------- ________________ पञ्चमोप्रयोगविचारः ] व्युत्पत्तिवादः। (५०७) तथा हि-भिदधातो ऽन्योन्याभावोऽर्थः ‘घटाद् भिनत्ति पटः ' इतिप्रयोगापत्तेः 'भिद्यते पटः' इत्यादिप्रयोगानुपपत्तेश्च-कर्तरि यगात्मनेपदासंभवात. अदेवादिकत्वात् परस्मैपदित्वाच्च श्यन्कात्मनेपदयोरनवकाशात्. अकर्मकधातुयोगे कर्मकर्तृविवक्षाया अप्ययोगात्. कस्यचिदकर्मकस्य ण्यर्थान्तर्भावन कर्मकर्तृत्वमुपपादनीयम्. अन्योन्याभावस्याऽजन्यतया. तदर्थकधातोरर्थेपि ण्यान्तर्भावस्य दुष्करत्वात् । 'भिद्यः। कुसूलः' इत्यादौ भिदेविदारणार्थकत्वेन सकर्मकतया कुमूलादेः कर्मकर्तृत्वसंभवात्, अतोऽन्यत्वेन ज्ञापनं भिदेरर्थः, ज्ञापनम्-ज्ञानविषयताप्रयोजकव्याप्तिपक्षधर्मता तदाश्रयोऽसाधारणधर्म एव भिदाशतदादिपदयोगे पञ्चम्यापत्त्या 'सं घटात् । इत्यादिप्रयोगापत्तिः स्यादित्यऽन्येतरपदयोरर्थपरत्वं न युक्तं किं तु स्वरूपमात्रपरत्वमेवेत्यर्थः । नन्वऽन्येतरपदयोः स्वरूपपरत्वे हि ' पटाद् भिन्नम् ' इत्यादौ पञ्चमी न स्यादित्याशङ्याह-तथा चेति । ‘पटाद् भिन्नम् । इत्यादौ पटादेरपादानत्वमुपपादयति-तथा हीत्यादिना । मिदधातोरन्योन्याभावार्थकत्वे " अन्योन्याभावीयप्रतियोगित्वार्थविवक्षायां पञ्चमी ५०४ । इत्युक्तरीत्या पञ्चम्यापत्त्या ' घटाद् भिनत्ति पटः ' इतिप्रयोगः स्यादेव । 'भिद्यते पटः' इतिप्रयोगश्च न स्यादित्यर्थः । प्रयोगानुपपत्ति प्रदर्शयति-कर्तरीति । ननु 'भिद्यते पटः' इत्यत्र कर्मभूतपटस्य कर्तृ. त्वविवक्षायां यगात्मनेपदयोरापत्त्या 'भिद्यते ' इति किं न स्यादित्याशङ्कयाह अकर्मकेति, कर्म हि सकर्मकधातोर्भवति तत्र कर्मणः कर्तृत्वविवक्षा संभवति, अकर्मकधातोस्तु कर्मैव न भवतीति कस्य कर्तृत्वविवक्षा स्यात् ? अयं च सकर्मकविदारणार्थकभिदधात्वपेक्षयाऽन्य एवाऽकर्मको भिदधातुरित्यर्थः । पद्यपि कस्य चिदकर्मकधातोरपि.ण्यर्थान्तर्भावेन अकर्मकधात्वर्थे ण्यर्थस्य प्रेरणाया अन्तर्भावेन कर्मकर्तृत्वं भवति यथा 'भूयते ओदनः' इति भूधातोरकर्मकत्वेऽपि तदर्थे ण्यर्थभावनाया अन्तर्भावे कृते ण्यर्थभावनानुकूलव्यापार प्रति चौदनस्य कर्मत्वसंभवात् तादृशौदनस्य कर्मभूतस्य कर्तृत्वविवक्षासंभवाच्च तत्रौदनस्योत्पत्तिमत्त्वेन कर्मत्वं संभवति तथाप्यन्योन्याभावार्थक. भिदधातोस्तु व्यर्थान्तर्भावेनापि कर्मकर्तृत्वं न संभवति-अन्योन्याभावस्य नित्यत्वेनाजन्यतया ण्यर्थन्यापार प्रत्यपि कर्मत्वासंभवात् जन्यस्यैव कर्मत्वसंभवादिति तदर्थकधातोः अन्योन्यामावार्थकभिदधातोरर्थे ण्यर्थान्तर्भावस्यापि दुष्करत्वात् ( ण्यर्थस्यान्तर्भावासंभवात् ) इत्याहकस्यचिदिति । नन्वेवं हि — भिद्यते कुसूल: ' इति कर्मकर्तृत्वेनाभिमतोपि प्रयोगो न स्थादित्याशङ्कयाह- भिद्यते कुसूल इति, अयं हि विदारणार्थकत्वात्सकर्मक एव भिदधातुरिति तत्कर्मभूतकुसूलस्य कर्तृत्वेन विवक्षा संभवतीति न कर्मकर्तृत्वेन ' भिद्यते कुसूलः ' इति प्रयोगानुपपत्तिरित्यर्थः । एवं हि भिदधातोरन्योन्याभावार्थकत्वे — भिद्यते पटः' इतिप्रयोगो नोपपद्यते इति भिदधातोरर्थमाह- अत इति । ज्ञापनपदार्थमाह-ज्ञानेति, ज्ञानविषयता साध्यवि. षयकज्ञानविषयता तत्प्रयोजिका या व्याप्तिः पक्षधर्मता च तदेव ज्ञापनपदार्थों यथा 'पृथिवी "Aho Shrutgyanam" Page #520 -------------------------------------------------------------------------- ________________ (५०८) सादर्श: [पञ्चमीकारकेदिकर्तृत्वाद् भेदक उच्यते. अन्यत्वप्रकारकानुमितिविषयतारूपधात्वर्थतावच्छेदकफलाश्रयो भिदादिकर्मतया भेद्यः, एवं च पृथिवीतरेभ्यो भिद्यते' इत्यादी पृथिव्यादेः कर्मतैव न केवलकर्तृता । अन्योन्याभावे साध्ये सर्वतान्त्रिकाणां तादृशप्रतिज्ञालेखनं केषां चिदनवधानेन । प्रतिज्ञास्थवद्यादिपदं वयादिज्ञानविषयतार्थकम् । हेत्ववयवस्थपञ्चम्या ज्ञाप्यत्वं नार्थोऽपि तु प्रयोज्यत्वमेवेति । मणिकारादिमतानुसारेण केषां चिदिति सूक्ष्मविवेचनचतुराः । 'अर्जुनः क्रोशालक्ष्यं विध्यति ' ' अद्य भुक्त्वाऽयं व्यहाद् भोक्ता' इत्यादौ " सप्तमीपञ्चम्यौः कारकमध्ये " इतिपञ्चमी प्रकृत्यर्थयोरध्वकालयोः तरेभ्यो भिद्यते । इत्यस्य 'पृथिवीतरेभ्योऽन्यत्वेन ज्ञाप्यते 'इत्यर्थो जातः । तदाश्रयः=उक्तज्ञापनाश्रयोऽसाधारणधर्म एव यथात्र गन्धवत्त्वं तदेव गन्धवत्वमितरभेदज्ञापकतया पृथिव्या इतरेभ्यो भेदक इत्युच्यते भिदादिकर्तृत्वात्-भेदकत्वात् तथाऽन्यत्वप्रकारिका या 'पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् ' इत्यनुमितिस्तदीयविषयतैवात्र ज्ञापनार्थकभिदधात्वर्थतावच्छेदकं फलमस्तीति तदाश्रयो या पृथिवी सैवात्र भिदधातुकर्मतया ( धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमिति स्मर्तव्यम् ) भेद्याऽस्तीत्यर्थः । ज्ञापनं हि ज्ञापकधर्म एव ज्ञापकं च हेतुरेव भवतीत्यत्र गन्धवत्त्वरूपहेतुनिष्ठा या व्याप्तिविशिष्टपक्षधर्मता सेव ज्ञापनपदार्थ:-- व्याप्तिविशिष्टपक्षधर्मताविशिष्टस्यैव हेतोझपकत्वसंभवादिति यावत् । ' पृथिवीतरभ्यो भिद्यते । इत्यत्र पृथिव्याः केवलम्= शुद्धं कर्तृत्वं नास्ति किं तु कर्मकर्तृत्वमेव-अत्र भिदधातोपिनार्थकत्वेन सकर्मत्वात् सकमकधातोश्च कर्मकर्तृत्वसंभवादित्याशयेनाह-एवं चेति । ननु सर्वे शास्त्रकारा अन्योन्यामावसिद्ध्यर्थमेव — पृथिवीतरेभ्यो भिद्यते' इति प्रतिज्ञा विलिखन्ति तत्तु भिद्धातोरन्योन्याशवार्थकत्वे एवोपपद्यते न तु ज्ञापनार्थकत्वे तथा सति पृथिव्या अन्यत्वेन ज्ञानविषयत्वमेव सिद्धचेत न तु भिन्नत्वमित्याशङ्कयाह- अन्योन्याभावेति, कैश्चित्प्रमादाद् भिदधातुरन्योन्याभावार्थको ज्ञात इत्यन्यैरप्यन्योन्याभावार्थक एवात्र ज्ञातो वस्तुतस्त्वत्र भिदधातुओपनार्थक एवेत्यर्थः । तादृशप्रतिज्ञालेखनम्= पृथिवीतरेभ्यो भिद्यते । इतिप्रतिज्ञालेखनम् । वस्तुतस्त्वेषानुमितिरन्यत्वेन ज्ञापनार्थमेव विज्ञेया नाऽन्योन्याभावसाधनार्थमिति यावत् । प्रसङ्गसङ्गत्याऽन्यदपि किंचिदाह- प्रतिज्ञास्थेति । हेतुपरधूमादिपदं च धूमादिज्ञानपरमिति शेषस्तथा च ' वह्निमान् धूमात् ' इत्यस्य 'धूमज्ञानप्रयोज्या या वह्निविषयकज्ञानविषयता तदाश्रयः पर्वतः । इति बो. धाकार:- वह्निमानित्याकारकवह्निविषयकज्ञानविषयतायाः वह्निप्रकारकज्ञानीयविशेष्यताख्यविषयतायाः पर्वतेपि सत्त्वादिति भावः । 'पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्' इत्यस्य च गन्धवत्वज्ञानप्रयोज्या याऽन्यत्वप्रकारकज्ञापनविषयता तदाश्रयः पृथिवीति वा बोधः ।उक्तकेषांचिदितिपदेनाभिप्रेतमुद्घाटयति- मणिकारादीति । प्रयोगान्तरमुदाहरति-अर्जुन इति । प्रकृत्यर्थयोरिति-प्रयमोदाहरणे 'क्रोशात्' इतिपञ्चम्यन्त "Aho Shrutgyanam" Page #521 -------------------------------------------------------------------------- ________________ सप्तमीपञ्चम्य कारक मध्येइति ] व्युत्पत्तिवादः । कारकद्वयव्यवधायकतामभिधत्ते तथा च स्वाधिष्ठितदेशानन्तरक्रोशात्मकाध्वभागानन्तरदेशस्थं लक्ष्यं विध्यत्यर्जुन इत्यादिः प्रथमस्थले बोधः, समभिव्याहतकर्त्रधिष्ठितदेशानन्तर्य विशेषणतया प्रकृत्यर्थान्वयि विशेष्यतया प्रकृत्यर्थान्वयि चानन्तरदेशस्थत्वं पञ्चम्यर्थः | स्वीयैकार्यान्वितापरपदार्थान्वितापरस्वार्थवोधकत्वमप्यत्र व्युत्पत्तिवैचित्र्यादेकपदस्य स्वीक्रियते । भोजनकृत्यधिकरणैतद्दिवसानन्तरद्र्यहानन्तरदिनवृत्तिभोजनकृतिमानयमित्याकारक बोधश्चरमस्थले । 66 ८ प्रकृत्यर्थभूतस्याध्वनः कारकद्वयव्यवधायकताम् = अर्जुनरूपकर्तृ कारकस्य लक्ष्यभूतकर्मकारकस्य च मध्ये व्यवधानभूतः कोशात्मकोध्वा वर्तते इति क्रोशपदोत्तरपञ्चम्यभिधत्ते, तथा द्वितीयोदाहरणे ' द्र्यहात् ' इति पञ्चम्यन्तप्रकृत्यर्थभूतस्य कालस्य कारकद्वयव्यवधायकतामभिधत्ते= अद्यभोजनकर्तृरूपकारकस्य द्वयहानन्तरभोजनकर्तृरूपकारकस्य च मध्ये द्वयहात्मकः कालो वर्तते इति द्वयहपदोत्तरपञ्चम्यभिधत्तेः इत्यर्थः, यद्यप्यत्राद्य द्र्यहादनन्तरं चैक एव भोजनकर्तेति न कालस्य व्यवधायकत्वं संगच्छते पदार्थद्वयमध्यपतितस्यैव व्यवधायकत्वात्तथाप्यत्र कर्तृकारकपदेन कृतिरूपं कर्तृत्वं ग्राह्यं तच्च भोजनक्रियाव्यक्तिभेदाद् भिन्नं भिन्नमेवेति तद्व्यवधायकता कालस्य नानुपपन्ना, इदं च स्वयमेवाग्रे वक्ष्यति - कारकद्वयमध्यवर्तितेत्यादिना । अर्जुन: क्रोशात् ' इत्यस्य वाक्यार्थमाह- स्वाधिष्टितेति । स्वम् = अर्जुनः । यस्मिन् देशेऽर्जुनस्तिष्ठति ततः कोशात्मकाध्वभागादनन्तरदेशस्थं लक्ष्यं विध्यतीत्यर्थः । अत्रत्यपञ्चम्या अर्थमाह- समभिव्याहृति, स्वाधिष्ठितदेशानन्तरकोशात्मकाध्वभागानन्तरदेशस्थम् " इत्यत्र पूर्वपूर्वपदार्थ - स्योत्तरोत्तरपदार्थे विशेषणत्वादुत्तरोत्तरस्य च विशेष्यत्वात् समभिव्याहृतो योऽर्जुनरूपः कर्ता तदधिष्ठित देशानन्तरखं विशेषणतया = विशेषणत्वेन रूपेण प्रकृत्यर्थे = कोशपदार्थेऽन्वेति सच कोशपदार्थोपि अनन्तरदेशस्थत्वपदार्थे विशेषणमस्तीति तादृशानन्तरदेशस्थत्वं विशेष्यतया= विशेष्यत्वेन रूपेण प्रकृत्यर्थे कोशपदार्थेऽन्वेतीति पदार्थास्तत्र प्रकृत्यर्थभूतक्रोशपदार्थे यद्विशेषणतयान्वयि अनन्तरदेशस्थत्वं यच्च विशेष्यतयान्वयि अनन्तरदेशस्थत्वं तदुभयमेवाऽनन्तरदेशस्थत्वं पञ्चम्यर्थ: इत्यर्थः । नन्वेकस्य पञ्चमीरूपपदस्यैकस्मिन्नेवोदाहरणे कथमुक्तानन्तरदेशस्थत्व - द्वयबोधकत्वं स्यात् ? सकृदुच्चरितः शब्दः सकृदेवार्थं गमयति ” इति नियमादित्याशङ्क्याह - स्वीयैकार्थेति, स्वम् = पञ्चमी | स्वीय: पञ्चम्या य एकोर्थ: स्वा ( अर्जुना ) धिष्ठित देश - स्यानन्तर्य तदन्वितो योऽपरपदार्थ: कोशात्मकाध्वभागपदार्थस्तदन्वितो योऽपरः स्वार्थः = म्यर्थभूतमनन्तरदेशस्थत्वं तद्बोधकत्वमप्यत्र व्युत्पत्ति ( बोध ) वैचित्र्यादेकपदस्य पञ्चम्याः स्वीक्रियते तथा चात्र स्वाधिष्ठित देशानन्तरत्वविशिष्टकोशात्मकाध्वभागानन्तरदेशस्थत्वं विशिष्टमेकमेव पञ्चम्यर्थोस्तीति न सकृदुच्चरित : " इत्यादिनियम विरोधोपीत्यर्थः । द्वितीयोदाहरणस्य वाक्यार्थबोधस्वरूपमाह - भोजनकृतीति, भोजनानुकूलकृत्यधिकरणीभूतो य एतद्विवसस्तदनन्तरभूतो यो द्वयहकालस्तदनन्तरवर्तितृतीयदिने यद् भोजनं तदनुकूलकृतिमानित्यर्थः 1. ८८ :-पश्च <5 ( ५०९ ) " Aho Shrutgyanam" Page #522 -------------------------------------------------------------------------- ________________ (५१०) सादर्श: [ पञ्चमीकारकेकारकपदेन क्रियानुकूलव्यापाररूपकारकपदार्थतावच्छेदकस्यापि विवक्षया एकक्रियानुकूलकृत्यन्वयिनः प्रकृत्यर्थकालानन्तरकालीनत्वस्य प्रकृत्यर्थविशेषणीभवदऽपरक्रियानुकूलकृत्यधिकरणकालानन्तर्यस्य च बोधकत्वेपि पञ्चम्युपपत्तिः । कारकद्वयमध्यवर्तिता चात्र कालस्य नोपपद्यते-कर्तुरेक्यात्. अत एवोक्तम्-“कर्तृशत्तयोर्मध्ये चैकः कालः" इति ॥ ॥ इति पञ्चम्यर्थनिरूपणं समाप्तम् ॥ यद्यपि कारकपदं क्रियाविशिष्टस्य वाचकं तथाप्यत्र भोजनक्रियाकर्तुरेक्यात्तद्व्यवधायकत्वं कालस्य न संभवतीत्यत्र कारफपदेन भोजनानुकूलकृतिरूपो व्यापार एव विवक्षितोस्ति स च कृतिरूपो व्यापारः क्रियानुकूलोस्ति कारकपदार्थतावच्छेदकोप्यस्ति तादृशव्यापारविशिष्टस्य कारकत्वेन तत्र तादृशव्यापारस्य विशेषणत्वादित्याह- कारकपदेनेति । अत्रत्यं पञ्चम्यर्थमाह- एकक्रियेति, एकक्रियानुकूलकृश्यन्वयिनः जनकतासंबन्धेन कृत्यन्वयिनो द्वयहानन्तरकालवृत्तिभोजनव्यापारस्य प्रकृत्यर्थकालानन्तरकालीनत्वम्-प्रकृत्यर्थकालो द्वघहकालस्तदनन्तरकालिकत्वं तृतीयदिनवृत्तित्वम्. उक्तवाक्यार्थबोधे हि प्रकृत्यर्थेद्ववहकाले विशेषणीभूता याऽपरक्रिया अद्यतनभोजनव्यापारस्तदनुकूला या कृतिस्तदधिकरणीभूतो योद्यतनकालस्तदानन्तर्य तदनन्तरकालवृत्तित्वं च पञ्चम्या बोध्यते. एतदर्थद्वयस्य पञ्चम्या बोध्यमानस्य प्रकृते भोक्तेतिप्रकृतिप्रतिपाद्यभोजनव्यापारे बाधो नास्तीति तत्प्रतिपादनार्थ पञ्चम्या उपपत्तिारेत्यर्थः । अत्र द्वयहानन्तरकालिकभोजने यहानन्तरत्वमद्यतनकालानन्तरत्वं च पञ्चम्या प्रतीयते इति यावत् । यद्यप्यत्र यहानन्तरकालवृत्तित्वबोधनेनाऽद्यतनकालानन्तर्यमर्थादेव प्राप्नोतीति न तबोधनापेक्षा तथापि क्त्वाप्रत्ययवशात् अद्यपदसमभिव्याहारवशाच्च तद्बोधकत्वमपि प्राप्तमित्यवधेयम् । अद्यतनभोजनस्य द्वयहानन्तरकालवृत्तिभोजनस्य च कर्ता एक एवेति कारकद्वयाभावात कारकद्वयमध्यवर्तिताऽत्र कालस्य नोरपद्यते इत्यस्माभिरत्र कारकपदेन कारकतावच्छेदककृतिरूपव्यापारो गृहीतस्तादृशव्यापारस्य कालभेदेन भेदात् तन्मध्यवर्तिता कालस्य नानुपपन्नेत्याह- कारकद्वयेति । अन्यैरप्यत्र कारकपदेन कर्तृत्वं ( कृतिः ) गृहीतं तच्च तन्निरूपकव्यापारभेदात् कालभेदाच भिन्नमेवेति सन्मध्यवर्तिता कालस्योपपद्यते इत्याह- एत एवेति । कर्तृशक्त्योः कर्तृत्वयोः । ॥ इति व्युत्पत्तिवादादर्श पञ्चमीकारकम् ।। "Aho Shrutgyanam' Page #523 -------------------------------------------------------------------------- ________________ अथ षष्ठी ८ " $ स्वसंबन्धविवक्षायां कारकविभक्त्यप्रसक्तेः " शेषे षष्ठी " इत्यनेन 'चैत्रस्वेदम् ' इत्यादौ षष्ठी । ' चैत्रस्य द्रव्यम् ' घटस्य कारणम् चैत्रस्य इस्त: ' इत्यादी स्वत्वनिरूपितत्वावयवत्वादीनां संबन्धत्वेनैव षष्ठयर्थता न तु विशिष्य - शक्त्यानन्त्यप्रसङ्गात् । संयोगादिसंबन्धसत्वेपि 'चैत्रस्य नेदं वासः ' इत्यादौ स्वत्वादिसंबन्धविशेषाभावबोधतात्पर्येण यत्र नञ्प्रयुज्यते तत्र विशेपरूपेण षष्ठ्या लक्षणैव, " सुविभक्तौ न लक्षणा इतिप्रवादस्य अनु· शासनासत्त्वे एकविभक्त्यर्थेऽपरविभक्तेर्न लक्षणा ' इत्येतत्परत्वात् । अत एव च कृद्योगापि हि षष्ठी संबन्धत्वेनैव बोधयति ” इति मिश्राः । इत्यमेव च संबन्धत्वेन कर्मत्वादिविवक्षया ' मातुः स्मृतम् इत्यादौ " अधीगर्थ " इत्यादिषष्ठ्यनुशासनस्य नियमपरतया सार्थक्योपपादनं वृत्तिकृतामुपपद्यते, संबन्धत्वविशिष्टसंबन्धविवक्षायाम् " शेषे षष्ठी ” इत्यस्य षष्ठाऽविधायकत्वे तादृशानुशा 番 ? 66 . 6 I क्रमप्राप्तं षष्ठ्यर्थनिरूपणमारभते- स्वसंबन्धेति, 'चैत्रस्येदस्' इत्यत्रेदं पदबोध्ये चैत्रप्रतियोगिक स्वत्वबोधकत्वं कस्यापि कारकविभक्तेर्नास्ति - कर्मत्यादिबोधकत्वादिति षष्ठयेव जायते इत्यर्थः । स्त्रत्वेति - ' चैत्रस्य क्रव्यम् ' इत्यत्र स्वस्थ घटस्य कारणम्' इत्यत्र निरूपितवस्य ( वढनिरूपितकारणम् ) चैत्रस्य हस्तः ' इत्यत्रावयवत्वस्य च सामान्यतः संबन्धत्वेन रूपेण षष्ठयर्थता | विशिष्य = स्वत्वत्वादिरूपेण । ननु यदि संबन्धस्य संबन्धत्वेनैव रूपेण षष्ठयर्थता न तु विशेषरूपेण तदा चैत्रस्य नेदं वासः' इत्यादौ चैत्रसंयोगस्य वाससि सत्त्वादेव कथं संबन्धाभावो नत्रा बोध्येतेत्याशङ्क्याह- संयोगादीति । तत्र स्वत्वादिसंबन्धे लक्षणा तदभावो नञा बोध्यते इत्यर्थः । विशेषरूपेण = विशेषरूपावच्छिन्ने स्वत्वादिसंबन्धे । ननु सुविभक्तौ तु लक्षणा न भवतीति कथं षष्ठ्याः स्वत्वादौ लक्षणा स्यादित्याशङ्क्याहसुविभक्ताविति । अनुशासनसत्वे त्वेकविभक्त्यर्थेऽपरविभक्तेर्लक्षणा भवत्येव यथा तृतीयाद्वितीयार्थभूतयोः कर्तृकर्मणोः कृद्योगे षष्ठ्या इत्यर्थः । अत एव = षष्ठयाः संबन्धत्वेनैव संबन्धविशेषबोधकत्वादेव कृद्योगापि षष्ठी ' कृष्णस्य कृति:' इत्यादौ कर्तृत्वादिकं संबन्धत्वेनैव रूपेण बोधयतीति मिश्रा इत्यर्थः । नियमपरतयेति - यद्यपि ' मातुः स्मरणम्' इत्यादौ शेष षष्ठी संभवतीति " अधीगर्थ " इतिसूत्रं व्यर्थमेव स्यात्तथापि अधीगर्थदयेशां योगे कर्मत्वस्यैव संबन्धत्वेन विषक्षायां षष्ठी स्यान्न तु कर्तृत्वादीनामपि संबन्धवेन विवक्षायामिति नियमे• नास्य सूत्रस्य वैयर्थ्य नास्तीत्यर्थः । यदि संबन्धत्वविशिष्टसंबन्धविवक्षायाम् = संबन्धत्वेन रूपेण संवन्धविवक्षायाम् " शेषे षष्ठी" इत्यस्य षष्ठीविधायकत्वं न स्यात् किं तु स्वत्वादिविशेषरूपेणैव संबन्धविवक्षायां षष्ठी विधायकत्वं स्यात्तदा 'मातुः स्मृतम्' इत्यत्र स्मरणकर्मभूतमातृवाचकमातृ "Aho Shrutgyanam" 79 6 Page #524 -------------------------------------------------------------------------- ________________ ( ५१२ सादर्श: [ षष्टीविभक्तौ LE सनस्य विधित्वमेव स्यात् । अत एव च आमं शूद्रस्य पक्वान्नं पक्कमुच्छिष्टमुच्यते " इत्यत्र पक्कम् ' इत्यत्रानुषज्यमानायाः षष्ठ्याः संबन्धत्वेन कर्तृत्वमर्यो न तु स्वत्वम् - शूद्रकर्तृकवृषोत्सर्गे चरुहोमानुपपत्तेरितिं नवीनस्मार्तानां मतमप्युपपद्यते । 66 न च तत्र कृद्योगा षष्ठी कर्तृत्वत्वेनैव बोधयतीति वाच्यम्, निष्ठायोगे तस्था निषेधात् । अत एव नाग्निस्तृप्यति काष्ठानां न पुंसां वामलोचना " इत्यादी करणत्वादेः संबन्धत्वेन विवक्षया षष्ठयुपपत्तिः, तृतीयादिविधिविषयतया विशेपरूपेण करणत्वादिसंबन्धविवक्षायां षष्ठयनुपपत्तेः । 6 " पदात् " शेषे षष्ठी " इत्यनेन षष्ठ्य संभवात् " अधीगर्थ " इत्यनुशासनस्य विधित्वमेव स्यान्न तूक्तनियमपरत्वम्, " शेषे " इत्यस्य संबन्धत्वेन रूपेण संबन्धविवक्षायां षष्ठीविधायकत्वे तु मातुः स्मृतम् ' इत्यत्रापि " शेषे " इत्यनेन षष्ठी संभवत्येवेति तत्र कर्मत्वेनैव रूपेण संबन्धविवक्षायामत्र षष्ठी स्यादिति नियमपरत्वम् " अधोगर्थ " इतिसूत्रस्य संभवतीत्यर्थः । अत एव = षष्ठ्याः संबन्धत्वेनैव रूपेण कर्तृत्वादिबोधकत्वादेव । " आमं शूद्रस्य पक्कान्नम् " इत्यत्र शूद्रस्येति षष्ठ्यर्थः स्वत्वं तथा च शूद्रनिरूपितस्वत्वाश्रयीभूतमाऽऽमान्नं पक्कान्नसदृशं विज्ञेयमिस्यर्थः, " पक्कमुच्छिष्टमुच्यते " इत्यत्रानुषज्यमानायाः शूद्रस्येति षष्ठ्याः कर्तृत्वमेवार्थो न तु स्वत्वं तथा च शूद्रकर्तृकपाकाश्रयीभूतम्-शूद्रेण पकमन्नमुच्छिष्टसदृशं विज्ञेयमित्यर्थः, नन्वत्रापि पूर्ववत् शूद्रस्येति षष्ठ्यर्थः स्वत्वमेव किं न स्यादित्यत्र हेतुमाह किं वात्र स्वत्वस्य षष्ठयर्थत्वाभावे हेतुमाह - शूद्रकर्तृकेति, शूद्रेण यदा वृषोत्सर्गः क्रियते तदा कोपि ब्राह्मणश्वरुं पक्त्वा तेन होमं करोति यदि ह्यत्र स्वत्वं षष्ठयर्थः स्यात्तदोक्तवचनस्य शूद्रनिरूपितस्वत्वाश्रयीभूतं पकमन्त्रमुच्छिष्टम् ' इतिवाक्यार्थः स्यात् शूद्रकर्तृकवृषोत्सर्गे च ब्राह्मणेनापि पकाने शूद्रस्वत्वस्य सत्त्वात् तादृशचरोरुच्छिष्टतुल्यत्वप्राप्या चरुहोमो नोपपद्येत भवति च शूद्रकर्तृकवृषोत्सर्गे ब्राह्मणेन पक्कचरुणा होम इति तदुपपत्त्यर्थमत्र द्वितीयपादेऽनुषज्यमानायाः शूद्रस्येति षष्ठ्याः कर्तृत्वमेवार्थो वक्तव्यस्तथा च ब्राह्मणेन पकचरौ शूद्रस्वत्वसत्त्वेपि शूद्रकर्तृकत्वाभावादुच्छिष्टतुल्यत्वं न प्राप्नोतीति तेन चरुणा होम उपपद्यते एवं हि नवीन स्मार्तानां मतम् = शूद्रकर्तृकवृषोत्सर्गे चरुहोमकरणमप्युपपद्यते इत्यर्थः । नवीनस्मार्तानाम् = रघुनाथभट्टाचार्याणाम् । “ 25 शङ्कते - न चेति, कर्तृत्वत्वेनैव रूपेण कर्तृत्वं बोधयति न तु संबन्धत्वेनेत्यर्थः । तत्र = "" आमं शूद्रस्य इत्यत्र । परिहारमाह- निष्ठेति । तस्याः कर्तृषष्ठ्याः, पकपदघटकक्तप्रत्ययरूपनिष्ठायोगे “ न लोकाव्ययनिष्ठा " इत्यनेन कर्तृत्वादौ षष्टीनिषेवोस्तीति न कर्तृत्वत्वेन कर्तृत्वबोधकत्वं किं तु संबन्धत्वेनैवेत्यर्थः । अत एव = षष्ठ्याः कर्तृत्वादीनां संबन्धत्वेनैव बोधकत्वादेव । करणत्वादिविशेषरूपेण संबन्धविवक्षायां तु तृतीयैव स्यादिति ' काष्ठान पुंसाम् ' इति पष्ठी नोपपद्येतेत्यर्थः । " Aho Shrutgyanam" Page #525 -------------------------------------------------------------------------- ________________ षष्ठयर्थविचारः व्युत्पत्तिवादः। (५१३) अथ संबन्धत्वेन संबन्धस्य षष्ठीवाच्यत्वे — पुरुषस्य दण्डः ' इत्यादी 'दण्डस्य पुरुषः' इत्यादिरपि प्रयोगः स्यात् । एवम् 'दण्डी पुरुषः ' 'रूपवान् घटः' इत्यादिवत् दण्डरूपादे पुरुषघटाद्यनाधारत्वपि 'पुरुषी दण्डः । 'घटवद्रूपम् । इत्यादिः प्रयोगो दुर्वारः- “तदत्रास्ति' इत्यर्थे इव ' तदस्य' इत्यर्थेपि मतुपो विधानात्. · दण्डरूपादिपदोत्तरषष्ठया चैत्रघटादिनिष्ठतदर्थसंबन्धप्रतिपादने तदुत्तरमपि मत्वर्थीयस्य प्रसङ्गादिति चेत् ?, विशिष्य केषां चित्संबन्धानां षष्ठ्यर्थतोपगमेपि' घटस्य रूपम् ' इत्यादिप्रयोगानुरोधेन समवेतत्वादेः षष्ठ्यर्थताया आवश्यकत्वेन 'हस्तस्य चैत्रः' 'चैत्रवान् इस्तः । 'शाखाया वृक्षः' 'वृक्षवती शाखा' इति कथं न प्रयुज्यते ?, पूर्वप्रयोगाभावादिति समाधानं तु तुल्यम् । शङ्कते- अथेति, षष्ठयाः संबन्धत्वेनैव रूपेण संबन्धबोधकत्वे दण्डपुरुषयोः परस्परं संबन्वस्य समानत्वात् ' पुरुषस्य दण्डः । इत्यर्थे ' दण्डस्य पुरुषः । इत्यपि प्रयोगः स्यादेव, एवम् " तदस्यास्त्यस्मिन्निति मतुप्" इत्यनेन ' तदत्रास्ति ' इत्यर्थे इव —तदस्यास्ति । इत्यर्थेऽपि मतुविधीयते तत्र यथा 'रूपवान् घट: ' ' दण्डोस्त्यस्येति दण्डी पुरुषः' इति प्रयोगो भवति तथा पुरुषोस्त्यस्येति पुरुषी दण्डः ' 'घटवद्रूपम् ' इत्यादिरपि प्रयोगः स्यदेव षष्ठयाः संवन्धमात्रबोधकत्वात्, दण्डरूपादिपदोत्तरेति- यथा ' दण्डः पुरुषस्येति दण्डी ' इति भवति तथा दण्डादिपदोत्तरषष्ठया ' दण्डस्य पुरुष इति पुरुषी दण्डः, 'घटो रूपस्येति घटवद्रूपम् । इति स्यादेव तत्र चैत्रघटादिनिष्टो यस्तदर्थसंबन्धः दण्डरूपादीनां संबन्धस्तस्य षष्ठया प्रतिपादने तदुत्तरमपिः-पुरुषघटादिपदोत्तरमपि मत्वर्थीयप्रत्ययप्रसङ्गः स्यादेव, षष्ठया विशेषरूपेण संबन्धबोधकत्वे तु दण्डप्रतियोगिकपुरुषानुयोगिकसंयोगबोधकत्वात् ' दण्डी दण्डवान् पुरुषः । इत्येव प्रयोगः संभवति न तु 'पुरुषी दण्डः' इत्यादिरपि. एवं रूपप्रतियोमिकघटानुयोगिकसमवायबोधकत्वात् 'रूपी रूपवान् घटः । इत्येव प्रयोगः संभवति न तु 'घटवद्रूपम् । इत्यादिरपि- प्रतियोगिवाचकदण्डरूपादिपदोत्तरमेव मत्वर्थीप्रत्ययोत्पत्तेः स्वीकारादित्यर्थः । उत्तरमाह- विशिष्येति, यदि षष्ठया विशेषरूपेणैव संबन्धबोधकत्वं स्यात्तदा 'घटस्य रूपम् ' इत्यत्र घटसमवेतं रूपमिति बोधोदयाद् रूपे घटसमवेतत्वं प्रतीयते इति समवेतत्वमपि षष्ठ्यर्थः स्यादेव तथा च हस्ताद्यवयवेषु चैत्रस्यावयविनः समवेतत्वसिद्धान्तात् 'हस्तस्य चैत्रः ' ' चैत्रवान् हस्त: । इति कथं न प्रयुज्यते ? तस्य ' हस्तसमवेतश्चैत्रः ' इत्यर्थः स्यादेव. तथा वृक्षस्य शाखायां समवेतत्वात् ' शाखाया वृक्षः' 'वृक्षवती शाखा ' इति कथं न प्रयुज्यते ? इति प्रतिबन्धुत्तरम् । ननु — चैत्रस्य हस्तः' इत्यादिरेव पूर्वेषां प्रयोगोस्ति न तु ' हस्तस्य चैत्रः' इति तथा चार्थविरोधाभावेपि पूर्वप्रयोगामावादेव ' हस्तस्य चैत्रः। इत्यादि न प्रयुज्यते इत्याशक्याह- पूर्वप्रयोगेति । तुल्यमिति- एवमर्थ विरोधाभावपि पूर्वप्र ३३ "Aho Shrutgyanam' Page #526 -------------------------------------------------------------------------- ________________ ( ५१४ ) सादर्श: [पष्टीकरणे " " नराणां क्षत्रियः शूरो नरेषु वा अध्वगानां रथगामिनः शीघ्रतरा अध्वगेषु वा गवां कृष्णा संपन्नक्षीरा गोषु वा ' इत्यादौ " यतश्च निर्धारम " इत्यनेन षष्ठीसप्तम्यौ विधीयेते. तदर्थश्च - ' जात्यादिविशेषणविशिष्टयद्धर्मावच्छिन्नस्य तादृश विशेषणशून्यतद्धर्मावच्छिन्नव्यावृत्तत्वविशिष्टविधेयवत्तया प्रतिपादनं तद्धर्मावच्छिन्नार्थकपदात् ' षष्ठीसप्तम्यौ' इति, प्रकृते च क्षत्रियत्वादिविशेषणविशिष्टे नरादौ तच्छून्यनरादिव्यावृत्तत्वेन शौर्यविशेषादिरूपविधेयसंबन्धोऽभिमत इति नरादिपदात् षष्ठी । नरेभ्यो राक्षसाः शूरतमाः इत्यादौ राक्षसत्वादिविशेषणविशिष्टे तच्छून्यनरादिव्यावृत्तशूरतमत्वविवक्षायायोगाभावादेव ' पुरुषी दण्ड: १ घटवद्रूपम् ' इत्यादिरपि न प्रयुज्यते इति तुल्यमेव ममापि समाधानमित्यर्थः । ८ " 6 ८ " प्रयोगान्तरमुदाहरति- नराणामिति । अध्वगानाम् = गच्छताम् । शीघ्रतराः शीघ्रगामिनः । जात्यादीत्यादिपदेन क्रियागुणौ ग्राह्यौ क्षत्रिय इत्यत्र क्षभियत्वं जातिः, रथगामिन इत्यत्र गमनं क्रिया, कृष्णेत्यत्र कृष्णत्वं गुणः । सूत्रार्थमाह- तदर्थश्चेति, यथा नराणामित्यत्र - क्षत्रियत्वजातिरूपविशेषणविशिष्टस्य यद्धर्मावच्छिन्नस्य = नरत्वधर्मावच्छिन्नस्य तादृशविशेषणशून्यः-क्षत्रियत्वविशेषणशून्यो यस्तद्धर्मावच्छिन्न :- नरत्वधर्मावच्छिन्नो नरस्तद्व्यावृत्तत्वविशिष्टो यो विधेयः=शूरत्वं तद्वत्तया प्रतिपादनम् ( यद्धर्मावच्छिन्नस्य ) तद्धर्मावच्छिन्नार्थकपदात् तादृशनरत्वधर्मावच्छिन्नार्थकनरपदात् षष्ठीसप्तम्यौ भवत इति ' नराणां नरेषु वा क्षत्रियः शूरः ' इति सिद्धम्, नरेभ्यः शूरत्वेन रूपेण क्षत्रियस्य निर्धारणं पृथक्करणमस्तीति यावत् । अध्वगानामित्यत्र - रथकरणकगमनक्रियारूपविशेषणविशिष्टस्य यद्धर्मावच्छिन्नस्य = अध्वगत्यधर्मावच्छिन्नस्य तादृश= रथकरणकगमनक्रियारूपविशेषणशून्यो यस्तद्धर्मावच्छिन्नःअध्वगत्वधर्मावच्छिन्नोध्वगस्तद्व्यावृत्तत्वविशिष्टो यो विधेयः = शीघ्रतरत्वं तद्वत्तया प्रतिपादनं तद्धर्मावच्छिन्नार्थकपदात्= तादृशाध्वगस्वधर्मावच्छिन्नार्थकाऽध्वगपदात् षष्टीसप्तम्याविति ' अध्वगानामध्वगेषु वा रथगामिनः शीघ्रतरा:' इति सिद्धम् । गवामित्यत्र - कृष्णत्वगुणरूपविशेषणविशिष्टाया यद्धर्मावच्छिन्नायाः = गोलधर्मावच्छिन्नायास्तादृश = कृष्णत्वविशेषणशून्या या तद्धर्मावच्छिन्ना = गोत्वधर्मावच्छिन्ना गौस्तद्व्यावृत्तत्वविशिष्टो यो विधेयः = संपन्नक्षीरत्वं तद्वत्तया प्रतिपादनं ( यद्धर्मावच्छिन्नस्य ) तद्धर्मावच्छिन्नार्थकपदात्-तादृशगोत्वधर्मावच्छिन्नार्थकगोपदात् षष्ठीसप्तम्याविति ' गवां गोषु वा कृष्णा संपन्नक्षीरा' इति सिद्धम् । उक्तार्थमुदाहरणे समनुगमयति- प्रकृत इति । तच्छून्य क्षत्रियत्वादिशून्य । उक्तरूपनिर्धारणे सत्यपि ' नराणां नरेषु वा राक्षसाः शूरतमाः इतिप्रयोगो न भवति - येभ्यो नरेभ्यो राक्षसानां पृथक्करणं विवक्षितमस्ति तेषु राक्षसेषु क्षत्रियेष्वित्र नरत्वं सामान्यधर्मो नास्तीत्याह- नरेभ्य इतेि, तथा च पञ्चम्या 'नरेभ्यो राक्षसाः शूरतमाः इत्येव प्रयोगो भवतीत्यर्थः । षष्ठीसंपादकोक्तनिर्धारणाभावमाह- राक्षसत्वा 2 7 "Aho Shrutgyanam" Page #527 -------------------------------------------------------------------------- ________________ यतश्वनिर्धारणमितिसूत्रम् ] व्युत्पत्तिवादः । ( ५१५ मपि न निरुक्तनिर्धारणम्- राक्षसत्वादिविशिष्टस्य नरत्वादिरूपसामान्यधनवच्छिन्नत्वात् । ' नराणां क्षत्रियः शूरतमः ' इत्यादी क्षत्रियादिनिष्ठशूरतमत्वादौ नरादिसामान्यव्यावृत्तत्वबाधाच्छून्यत्वान्तं व्यावृत्त्यवधेर्विशेषणम् । तद्धर्माश्रययत्किंचिद्व्यक्तिव्यावृत्तत्वविवक्षणे 'द्रव्येषु घटो गन्धवान्' इत्यपि स्यात् गन्धादेकचिद्रव्यव्यक्तिव्यावृत्तत्वात् । तादृशविशेषणशून्यसामान्यव्यावृत्तत्वनिवेशे 'नराणां क्षत्रियः शूरतमः ' इत्यादावेव तदसंभव:- शूरतमत्वादेः क्षत्रियत्वादिशू - न्यराक्षसाद्यव्यावृत्तत्वात् अतस्तद्धर्मावच्छिन्नेति । दीति । तच्छून्य = राक्षसत्वादिशून्य । उक्तनिर्धारणाभावे हेतुमाह- राक्षसत्यादिविशिस्येति । तथा च सामान्यधर्मावच्छिन्नत्वे सति किंचिद्विशेषधर्मावच्छिन्नस्य सामान्यधर्मावच्छिन्नेभ्यो यत्र पृथक्करण विवक्ष्यते तत्र षष्ठीसप्तम्यौ भवतो यथा नरेभ्यः क्षत्रियस्य पृथक्करणे इत्यर्थः । उक्तसूत्रार्थघटकपदार्थानां सार्थक्यमाह--नराणामिति । यदि “ तादृशविशेषणशून्यतद्धर्मावच्छिन्न व्यावृत्तत्वविशिष्टविधेयवत्तया " इत्यत्र तादृशविशेषणशून्य " इति नोच्येत तदा विधेये शूरतमत्वे नरत्वावच्छिन्नसामान्यव्यावृत्तत्वं प्राप्नुयात् तत्तु न संभवति नरत्वधर्मावच्छिन्ने एव क्षत्रिये शूरतमत्वस्य विवक्षितत्वादिति शून्यत्वान्तम् = " तादृश ( क्षत्रियत्वादि ) विशेषणशून्य " इति व्यावृत्त्यवधिभूतस्य नरत्वावच्छिन्नस्य विशेषणमुपात्तं तथा च क्षत्रियत्वशून्यनरे सूरतमत्वं नास्तीति विधेये शूरतमत्वे क्षत्रियत्वशून्यनरव्यावृत्तत्वस्य बाधो नास्तीत्यर्थः । अत्र शूरतमत्वे क्षत्रियान्यनरापेक्षया व्यावृत्तत्वं विवक्षितमस्तीति नरस्य व्यावृत्त्यवधित्वं ज्ञेयम् । तद्धर्माश्र येति - यदि “ तादृशविशेषणशून्यतद्धर्मावच्छिन्नव्यावृत्तत्व" इत्यत्र "तद्धर्मावच्छिन्न" इति नोध्येत तदा विवेये तादृशविशेषणशून्यं यत् किंचिद्व्यक्तिमात्रव्यावृत्तत्वं लभ्येत तथा च ' द्रव्येषु घटो गन्धवान् ' इत्यपि प्रयोगः स्यात्- विधेये गन्धे यत्किंचिद्द्रव्यव्यक्तिर्यदाऽऽकाशादिकं तद्द्व्यावृत्तत्वस्य == तदऽवृत्तित्वस्य सत्त्वात् न चैतदिष्टमिति " तद्धर्मावच्छिन्न " इत्युक्तं तथा च गन्धे द्रव्यत्वावच्छिन्नन्यावृत्तत्वं नास्ति घटादिपार्थिवद्रव्यमात्रे गन्धस्य सत्त्वादिति ' द्रव्येषु घटो -यन्धवान् ' इति प्रयोगापत्तिर्नास्तीत्यर्थः । तादृशविशेषणेति- यदि “ तादृशविशेषणशून्यतद्धर्मावच्छिन्नव्यावृत्तत्व : 77 इत्यस्य स्थाने तादृश ( क्षत्रियत्वादि ) विशेषणशून्यसामान्य ( यावन्मात्र ) व्यावृत्तत्व " इत्युच्येत तदा विधेये शूरतमत्वे क्षत्रियभिन्नव्यक्तिमात्रव्यावृत्तत्वं प्राप्नुयात् तथा च नराणां क्षत्रियः शूरतमः ऐव स्यात् - शूरतमस्त्रादेः क्षत्रियभिन्नराक्षसादावपि सत्त्वेन क्षत्रियत्वादिशून्य राक्षसाद्यव्यावृतत्त्रात् तस्मात् " तद्धर्मावच्छिन्न " इत्युक्तं तथा च क्षत्रियत्वशून्यो यो नरत्वधर्मावच्छिन्नो नरस्तद्व्यावृत्तत्वं शूरतमत्वेऽस्त्येवेति नासंभव इत्यर्थः । अत्र इत्युक्तम् ' इति शेषः 1 ८ 3 इत्यत्राप्युक्तसूत्रार्थसमन्त्रयस्यासंभव 66 26 "Aho Shrutgyanam" Page #528 -------------------------------------------------------------------------- ________________ (५१६) सादर्श: [ षष्ठीप्रकरणेअथ विधेये जात्यादिविशेषणशून्यसाधारणधर्मावच्छिन्नान्वितं व्यावृत्तत्वं साधारणधर्मावच्छिन्नवाचकपदोत्तरषष्ठचादरेवार्थों वाच्यस्तावता च नरत्वादिरूपसाधारणधर्मावच्छिन्नव्यावृत्तत्वस्यैव लाभ: संभवति न तु क्षत्रियत्वादिशून्यत्व. विशेषितनरादिव्यावृत्तत्वस्य-प्रकृत्यर्थे नरादौ तादृशविशेषणशून्यत्वबोधकाभावात् । न च षष्ट्या एव तदर्थः-शत्त्यानन्त्यप्रसङ्गात् । न च भेद एव षष्ठ्यर्थस्तत्र च क्षत्रियादिपदार्थस्य प्रतियोगित्वेनाऽन्वयात् क्षत्रियाद्यन्यनरादिव्यावृत्तत्वलाभः शक्तिभेदं विनैवेति वाच्यम्, एवमपि संख्यातिरिक्तविभक्त्यर्थस्य प्रकृत्यर्थविशेष्यतयैव भानमिति व्युत्पत्तिविरोधाऽपरिहारात् । ' नरेषु क्षत्रियाणामेव शौर्यम् ' इत्यादौ क्षत्रियादेविभक्त्यर्थविशेषणतयोपस्थितस्य भेद विशेषणतया भानोपगमे व्युत्पत्त्यन्तरविरोधाच्च । अस्तु लक्ष शङ्कते- अथेति, क्षत्रियत्वादिजातिरूपविशेषणशून्यो यः साधारणधर्मावच्छिन्ना-नरत्व. धर्मावच्छिन्नो वैश्यादिस्तदन्धितम् निरूपितत्वसंबन्धेन तद्विशिष्टम् (व्यावृत्तत्वस्यास्योक्तवैश्यादिनिरूपितत्वात् । व्यावृत्तत्वं यदा विधेये वर्तते तत् साधारणधर्मावच्छिन्नवाचकनरपदोत्तरषष्ठीसप्तम्योरेधार्थ इति वक्तव्यम् एवं हि विधेये शूरतमत्वे नरत्वादिरूपसामान्यधर्मावच्छिन्नाद् व्यावृत्तत्वं लभ्यते न तु क्षत्रियत्वादिशून्यनरत्वधर्मावच्छिन्नव्यावृत्तत्वम्- प्रकृत्यर्थे षष्टीप्रकृत्यर्थभूतनरे तादृशविशेषग=क्षत्रियत्वविशेषणशून्यत्वबोधकपदाभावात्, न च नरत्वरूपसामान्यधर्मावच्छितव्यावृत्तत्वं शूरतमत्वे संभवति शूरतमत्वस्य नरत्वरूपसामान्यधर्मावच्छिन्ने एवं क्षत्रिये सत्त्वाद् विवक्षितत्वाचेत्यर्थः । ननु नरत्वधर्मावच्छिन्नविशेषणीभूतं क्षत्रियत्वादिशून्यत्वं षष्ठया एवार्थ इत्याशझ्याह- न चेति । परिहारहेतुमाह-शक्त्येति, एवंहि क्षत्रियत्वादिधर्माणामनन्तत्वात षष्ठयाः शक्त्यानन्त्यं स्यादित्यर्थः । नन्वत्र नरपदोत्तरषष्ठया भेद एवार्थस्तत्र षष्ठ्यर्थभूतभेदे क्षत्रियस्य प्रतियोगित्वेन रूपेणान्वयः क्षत्रियप्रतियोगिकस्यैव भेदस्य षष्ठयर्थत्वेन विवक्षितत्वात् तथा च क्षत्रियप्रतियोगिकभेदविशिष्टो यो नरस्तव्यावृत्तं शूरतमत्वमित्येवं शूरतमत्वे क्षत्रियान्यनरव्यावृत्तत्वं लभ्यते न चापि शक्त्यानन्त्यम्-भेदत्वावच्छिन्ने एव षष्ठयाः शक्तिस्वीकारादित्याशङ्कयाह-न चेति । अत्रापि दोषमाह-- एवमपीति, विभक्त्यर्थसंख्याया एव प्रकृत्यर्थे विशेषणत्वेनान्वयो भवति न तु संख्यातिरितस्यापि विभक्त्यर्थस्येति व्युत्पत्तिरस्ति या तस्या विरोध एवं प्राप्तः-- अत्र षष्ठयर्थस्य भेदस्य प्रकृत्यर्थे नरे विशेषणत्वेनान्वयस्य जातत्वादित्यर्थः । किं चात्र क्षत्रियप्रतियोगिकभेदे क्षत्रियस्य विशेषणत्वं यथास्ति तथा ' नरेषु क्षत्रियाणामेव शौर्यम् ' इत्यत्रोक्तनरपदोत्तरषष्ठीसमानार्थकत्वात् सप्तम्या अपि क्षत्रियप्रतियोगिकभेद एवार्थः स्यादिति तत्रापि क्षत्रियस्य क्षत्रियपदोत्त. रपष्टयर्थविशेषणतयोपस्थितस्यैव नरपदोत्तरसप्तम्यर्थभेदे विशेषणत्वेनान्वयः कर्तव्यस्तत्र च "Aho Shrutgyanam" Page #529 -------------------------------------------------------------------------- ________________ पतश्च निर्धारणमितिसूत्रम् ] व्युत्पत्तिवादः। णया नरादिपदादेव क्षत्रियान्यनरत्वादिविशेषरूपेणोपस्थितिरितिचेत ?, अस्तु । व्यावृत्तत्वं किं तावत् कुत्र वा तदन्वयः ? । व्यावृत्तत्वं तदवृत्तित्वं शूरतमादिपदोपस्थापिते धर्मे: तदन्वय इति चेत् ?, न-पदार्थतावच्छेदकेन पदार्थान्तराऽनन्वयात् , ' पदार्थानां जातिमति सत्ता' इत्यादौ जातिमदन्यपदार्थवृत्तित्वसामान्याभावस्थ सत्तादौ वारितत्वाद. तादृशपदार्थसमवेतत्वाद्यभावस्य चाऽप्रसिदेयावृत्तिबोधासंभवाच्च । एवम्- 'द्रव्येषु कम्बुग्रीवादिमान् घटः' इत्यादौ घटत्वादिधर्मस्याऽन्वयितावच्छेदकरूपेणानुपस्थितत्वात् तत्र व्यावृत्तत्वान्वयबोधो दुर्घट इति । " एकत्र विशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वेनान्वयोऽव्युत्पन्नः " इतिव्युत्पत्तिविरोध: स्यादित्यर्थः । ननु ययुक्तरीत्या भेदः षष्ठ्यर्थो नोपपद्यते तदा नरे क्षत्रियान्यत्वलाभार्थ नरपदस्येव क्षत्रियान्यनरे लक्षणां वक्ष्याम इति क्षत्रियान्यनरव्यावृत्तत्वं शूरतमत्वे विधेये नानुपपनमित्याशङ्कते- अस्त्विति । एनं पक्षं विषयान्तरोपस्थापनार्थ स्वीकरोति- अस्त्विति ।। .. व्यावृत्तस्वस्य स्वरूपमाश्रयं चेदानीं पृच्छति-- व्यावृत्तत्वमिति । व्यावृत्तत्वस्वरूपमाह- व्यावृतत्वमिति । तदवृत्तित्वम्-तस्मिन्नरादावऽवृत्तित्वमेव तव्यावृत्तत्वम् । तस्याश्रयमाह- शूरेति । धर्मेशूरतमत्वादौ । परिहरति- नेति, " पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन" इतिव्युत्पत्त्यनुरोधेन पदार्थतावच्छेदकीभूते पदार्थैकदेशे शूरतमत्चे पदार्थान्तरस्य षष्ठयर्थभूतव्यावृ. 'तत्वस्यान्वयो न संभवतीत्यर्थः । उक्त विनिगमनामाह- पदार्थानामिति, “पदार्थानां जातिमति सत्ता । इत्यस्याप्युक्तोदाहरणतुल्यस्वादत्रापि व्यावृत्तत्वमेव षष्टयर्थोस्ति तत्र जातिमत्यदादार्थस्य पदार्थतावच्छेदकीभूतायां सत्तायां जातिमदन्यपदार्थवृत्तित्वसामान्यामावस्य-जातिमदन्यपदार्थव्यावृत्तत्वस्य षष्ठयर्थस्थान्वयो वारितः. यदि पदार्थतावच्छेदकेपि पदार्थान्तरान्वयः स्यात्तदा तद्वारणं नोपपद्यतेत्यर्थः । ननूक्तव्युत्पत्तिविरोधमुपेक्ष्य वयं तत्रापि सत्तायां जातिमदन्यपदार्थव्यावृत्तत्वस्यान्वयं करिष्याम इत्याशङ्याऽसंभवमाह- तादृशपदार्थेति, सत्ताया जातिमदन्यसामान्यादिपदार्थे समवायसंबन्धावच्छिन्नप्रतियोगिताक एव वृत्तित्वाभावो वक्तव्यः स च न संभवति-- जातिमदन्यसामान्यादौ समवायसंबन्धेन किंचिद्वृत्तित्वस्यैवाऽप्रसिद्धत्वात् तथा च व्यावृत्तिबोधासंभव एव, असंभविपदार्थप्रतिपादनाऽसंभवादित्यर्थः । दोषान्तरमाह-एवमिति, 'द्रव्येषु कम्बुप्रीवादिमान् घटः । इत्यत्र कम्बुग्रीवादिमत्त्वमुद्दिश्य घटत्वं विधीयते इति द्रव्य'पदोत्तरसप्तम्यर्थस्य व्यावृत्तत्वस्य विधेये घटत्वे एवान्वयः कर्तव्यः सोपि न संभवति- घटत्वस्यात्र स्वरूपेणवोपस्थितत्वेन अन्वयितावच्छेदकरूपेण-घटत्वत्वेन रूपेणानुपस्थितत्वात् पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धिवावच्छिन्नं प्रत्यन्वयितावच्छेदकरूपेणोपस्थितेः कारणात्वादित्यर्थः । अत्र हि 'कम्युग्रीवादिमदन्यद्रव्यव्यावृत्तं घटत्वम् ' इति, शाब्दबोधो विज्ञेयः । "Aho Shrutgyanam" Page #530 -------------------------------------------------------------------------- ________________ (५१८ ) सादर्श: [ षष्ठीप्रकरणे अत्र केचित् - ' नराणां क्षत्रियः शूरः ' इत्यादौ क्षात्रय इव लक्षणया क्षात्रे ? यान्यपि क्षत्रियपदार्थः शूरपदस्यापि शूर इव तदन्योप्यर्थः षष्ठयर्थोऽभेदः क्षत्रिये चदन्यस्मिंश्चान्वेति तथा च नराभिन्नः क्षत्रियः शूरो नराभिन्नक्षत्रियान्यो न शूर इत्यर्थः । ' नराणां क्षत्रियेषु शौर्यम्' इत्यत्रापि क्षत्रियपदं प्राग्वदुभयार्थकं शौर्यपदं च तत्तदत्यन्ताभावार्थकं तथा च नराभिन्नक्षत्रिये शौर्यं तदन्यस्मिंस्तदभाव इति बोधः । उद्देश्यविधेययोर्यादृशसंबन्धो, भावान्वयबोधे भासते तत्संबन्धावच्छिन्नविधेयाभाव उद्देश्यवाचकविधेयवाचकपदयोर्वैयधिकरण्यस्थले विधेयपदलक्ष्यार्थः, तयोः सामानाधिकरण्यस्थले तु विधेयधर्मिभिन्न इति सामान्यतो व्युत्पत्तिरित्याहुः । “ परिहर्तुं मतान्तरमनुवदति - अत्र केचिदिति 1 अत्र क्षत्रियपदं क्षत्रियक्षत्रियान्यो भयपर शूरपदमपि शूरशून्योमयपरमित्यर्थः । तदन्यस्मिन् क्षत्रियान्यस्मिन् । नराणां क्षत्रियः शूरः : इतिवाक्यस्यार्थमाह- तथा चेति, ' नराभिन्नः क्षत्रियः शूरः ' इत्यत्र नराभेदस्य क्षत्रियेऽन्वयः, 1 नराभिन्नक्षत्रियान्यो न शूरः ' इत्यत्र च नराभेदस्य क्षत्रियान्यस्मिन्नऽन्वय इति विवेकः । उदाहरणान्तरपदार्थानाह - नराणामिति, पूर्वत्रोद्देश्य विधेयवाचकपदयोः सामानाधिकरण्यमस्ति - समानविभक्तिकत्वादत्र तु वैयधिकरण्यमिति विशेषः । उभयार्थकम् = क्षत्रियक्षत्रियासौमयार्थकम् । तत्तदत्यन्ताभावार्थकम् = शौर्यशौर्यात्यन्ताभावैतदुभयार्थकम् । वाक्यार्थमाहतथा चैति । तदन्यस्मिन् क्षत्रियान्यस्मिन् । तदमा वः =शौर्यात्यन्ताभावः । उक्तशाब्दबोधोप्रपादकव्युत्पत्तिमाह- उद्देश्येति, यथा ' नराणां क्षत्रियेषु शौर्यम् ' इत्यत्रोद्देश्यविधेययोः क्षत्रि• शौर्ययोर्यादृशसंबन्धः = आश्रयत्व संबन्धः ( शौर्यस्य क्षत्रियाश्रितत्वात् ) भावान्वयबोधे- 'क्षत्रिये शौर्यम्' इत्यत्र भासते तत्संबन्धावच्छिन्नविधेयाभावः = आश्रयत्वसंबन्धावच्छिन्नप्रतियोगिताक सौर्यामाव उद्देश्यवाचकविधेयवाचकपदयोर्वैयधिकरण्यस्थले = ' नराणां क्षत्रियेषु शौर्यम् ' इत्यत्र विधेयपदलक्ष्यार्थो भवति तथा चात्र क्षत्रियान्यस्मिन् शौर्यपदलक्ष्यार्थस्योक्तरूपसौर्याभावस्थान्ययो भवति तदेवोक्तम् " तदन्यस्मिंस्तदभावः " इति । सामानाधिकरण्यस्थलीयव्युत्पत्तिमाह - तयोरिति, तयोः उद्देशवाचकविधेयवाचकपदयोः सामानाधिकरण्यस्थले 'नराणां क्षत्रियः शूरः' इत्यादौ विधेयधर्मिभिन्नः = विधेयधर्मिभ्यां शूरत्वक्षत्रियाभ्यां भिन्नो विधेयवाचकधर्मिवाचकपदयोर्लक्ष्यार्थः, अत्र ' विधेयधर्मभिन्नः' इति पाठे तु विधेयरूपो यो धर्मः शूरत्वं तद्मिन्न:- अशूरत्वमेव विधेयपदस्य शूरपदस्य लक्ष्यार्थ इत्यर्थस्तथा च लक्ष्यार्थभूते क्षत्रियान्यस्मिन्न लक्ष्यार्थभूतस्याऽशूरत्वस्यात्रान्वयो जातस्तदेवोक्तम्- “ नराभिन्नक्षत्रियान्यो न शूरः" इति, शूरमिन्नाऽशूरस्य क्षत्रियान्येन सह सामानाधिकरण्यं संभवतीति भावः । पूर्वत्रायन्तामा उत्तरत्र च भेदविशिष्टे लक्षणेति सारः । "Aho Shrutgyanam" Page #531 -------------------------------------------------------------------------- ________________ यतश्च निर्धारणमितिसूत्रम् ] व्युत्पत्तिवादः । ( ५१९) तन्न शोभनम्-तथा सति ' तस्मै पुरुषोत्तमाय नमः । इत्यत्र तत्पदार्थतदन्ययोरेव पुरुषपदार्थाऽभेदविवक्षणे उत्तमपदेनाऽसामर्थ्यात् समासाप्रसक्तेः “न निर्धारणे" इतिनिषेधाश्रयणेन प्रकाशकृतां निर्धारणषष्ठीसमासखण्डनानौचि. त्यप्रसङ्गात् । एवम् — नरेषु शूरस्य क्षत्रियस्येदं राज्यम्' इत्यादी शूरपदार्थाशूरान्वितक्षत्रियपदार्थक्षत्रियान्यस्य षष्ठ्यर्थसंबन्धादी नान्वयः किं तु शूराबयिक्षत्रियादेरन्वय इत्येतन्नोपपद्यते- 'श्वेतं सैन्धवं भुङ्क्ते ' इत्यादौ (तु) कर्मवादिविशेषणतया लवणादिबुद्धौ मुख्यविशेष्यतयाऽश्वादेरभानाद्. एकपदो. पस्थापितयोईयोस्तत्प्रकृतिकविभक्त्यर्थे एकस्य विशेषणतयाऽपरस्य तदविशेषणतया भानस्थाऽव्युत्पन्नत्वात् । परिहरति- तनेति, यदि — नराणां क्षत्रियः शूरः । इत्यत्रोक्तरीत्या षष्ट्यर्थाभेदस्य क्षत्रियतदन्ययोरन्वयः स्यात्तदा तद्दष्टान्तेन ' तस्मै पुरुषोत्तमाय ' इत्यस्य ' पुरुषाणां तस्मै उत्तमाय । इत्येवमपि विग्रहवाक्ये कृते तत्रापि तत्पदस्य तत्पदार्थतदन्यपदार्थेतदुभयबोधकत्वं स्यात पुरुषपदोत्तरषष्ठयर्थस्याभेदस्य च तत्पदार्थतदन्ययोरेवान्वयः- स्यादिवि पुरुषपदार्थतत्पदार्थयोरेवाभेदो लभ्येत न तु पुरुषपदार्थोत्तमपदार्थयोरिति पुरुषपदार्थस्योत्तमंपदार्थेन सह साम र्थ्याभावादेवात्र ' पुरुषोत्तमाय ' इति समासो न संभवति इत्येवं समासामावे प्राप्तेपि प्रकाशकारेण यदत्र “न निर्धारणे " इति निषेधमाश्रित्य 'पुरुषाणां तस्मै उत्तमाय ' इति निर्धारणषष्ठीसमासखण्डनं कृतं तस्यानौचित्यं प्रसज्येत न चैतदिष्टं तस्मान्नोक्तोपपादनं शोमनमित्यर्थः । सिद्धान्ते तु 'पुरुषोत्तमपदे.' न निर्धारणषष्ठीसमासः किं तु कर्मधारय एवेति विजें. यम् । केचित्तु मते विरोधान्तरमाह- एवमिति, 'नरेषु शूरस्य क्षत्रियस्येदं राज्यम् ' इत्यत्र तव मतेन शूरपदस्य शूरशूरान्यबोधकत्वं क्षत्रियपदस्य च क्षत्रियक्षत्रियान्यबोधकत्वमस्ति तंत्र षष्ठधर्यभूसे स्वत्वसंबन्धे निरूपितत्वसंबन्धेन शूरपदार्थों योऽशूरोऽभेदेन तदन्वितो यःक्षत्रियपदार्थ: क्षत्रियान्यस्तस्य(क्षत्रियभिन्नाारस्य)अन्वयो नास्ति किं तु शूरान्वयि-शूराभिन्नक्षत्रियस्यान्वयोस्ति इति यदुक्तं तन्नोपपद्यते-एकपदोपस्थितयोयोरर्थयोर्मध्ये तत्पदप्रकृतिकविभक्त्यर्थे एकस्य विशेष मतयाऽपरस्य तदऽविशेषणतया विभक्त्यर्थाविशेषणतया भानं व्युत्पत्तिविरुद्धमस्ति तयोर्द्वयोरेवार्थयोस्तुल्यत्वात् तथा चात्र शूरक्षत्रियपदाम्यामुपस्थितस्य शूराभिन्नक्षत्रियस्य षष्ठयर्थसंवन्ये विशेषणतयाऽन्चयोस्ति अशूरामिभक्षत्रियान्यस्य च विशेषणतयान्वयो नास्ति इतिवैषम्यं न संभवति, ययुच्यते ' श्वेतं सैन्धवं मुस्ते ' इत्यत्र लवणबुद्धौ जातायां सन्धषपदार्थयोलवणाव. योर्मध्ये एकस्यैवार्थस्य लवणस्य यया सैन्धवपदोत्तरद्वितीयार्थकर्मतायां विशेषणतयान्वयभानं भवति न त्वश्वस्यापीति तथा प्रकृतेप्येकस्यैवार्थस्य विभक्त्यर्थविशेषणतया मानं न विरुद्धं तदपि न युक्तम्- 'सैन्धवं भुङ्क्ते ' इत्यत्र भुङ्क्तेपदसमभिव्याहारप्रमाचेन लवणबुद्धिरेव जायते लवणो. पस्थितौ जातायां च सैन्धवपदेनाऽश्वस्य मुख्यविशेष्यतया मानम्-उपस्थितिरेव न भवतीत्यऽत्रा. "Aho Shrutgyanam" Page #532 -------------------------------------------------------------------------- ________________ (५२०) सादर्शः [ षष्ठीप्रकरणे एवम्-'द्रव्येषु क्षितिपाथसी रसवती' इत्यादौ क्षितिजलाभयत्वाद्यवच्छिनभिन्न रसवदाद्यन्यत्वबोधो न संभवति-रसादिमत्यपि. प्रत्येकमुभयत्वावच्छिन्नभेदसत्त्वात्, नापि प्रत्येकभेदावच्छिन्ने-तथैव बाधात्, नाप्येकभेदविशिष्टापरभेदावच्छिन्ने- एकपदस्य तादृशभेदावच्छिन्नलक्षकत्वेऽपरपदार्थे रसवदाद्यन्यत्वरूपविधेयानन्वयात्, इन्दघटकैकपदार्थमात्रे विधेयान्वयस्याऽव्युत्पन्नत्वात् । नापि पदाभ्यां लक्षणया तत्तद्भिन्नोपस्थितावऽभेदेनकभिन्नान्वितेऽपरभिन्ने. तथापि श्वस्य सैन्धवपदार्थस्यापि सैन्धवपदोत्तरद्वितीयार्थकर्मतायामविशेषणत्वं युक्तं प्रकृते तु द्वयोरेवार्थयोरुपस्थितयोस्तुल्यत्वादेकस्य विभक्त्यर्थं विशेषणतयाऽपरस्याऽविशेषणतया भानमिति वैषम्यं न संभवतीत्यर्थः प्रतिभाति । - केचित्तुमतेऽनुपपत्त्यन्तरमुद्घाटयति-एवमिति, 'द्रव्येषु क्षितिपाथसी रसवती' इत्यत्रापि त्वदुक्तरीत्या क्षितिपाथःपादाभ्यां क्षितिजलयोस्तदन्ययोश्च बोधो रसवतीपदेन रसवतीतदन्ययोश्च बोधः प्राप्तस्तत्र क्षितिजलोभयत्वावच्छिन्नभिन्ने रसवदन्यत्वस्यान्वयः कर्तव्यः सोपि न संभवति-प्रत्येकमुभयत्वावच्छिन्नभेदस्वीकाराद् रसवत्यामपि क्षितौ :क्षितिजलोभयत्वावच्छिन्नभेदोस्त्येव तथा जलेप्यस्त्येव न च तत्र रसवदन्यत्वान्वयः संभवति रसवत्त्वस्यैव सत्त्वादित्यर्थः । यदि प्रत्येकभेदावच्छिन्ने जलभेदावच्छिन्ने क्षितिभेदावच्छिन्ने च रसवदन्यत्वान्वय उच्यते तदपि न संभवति- तथैव बाधात् नाम जलभेदः क्षितावप्यस्ति क्षितिभेदश्च जलेप्यस्ति न च तत्र स्सवदन्यत्वान्त्रयः संभवति-रसवत्त्वस्यैव सत्त्वादित्याशयेनाह-नापि प्रत्येकेति । यदि चैकमेकविशिष्टापरभेदावच्छिन्ने रसवदन्यत्वान्वय उच्यते यथा तेजसि क्षितिभेदोप्यस्ति जलभेदोप्यसीति एकेन क्षितिपदार्थस्य भेदेन विशिष्टो यो जलभेदस्तदवच्छिन्नत्वं क्षितिजलातिरिक्तेष्वेक तेजादिष्वस्ति तत्र च रसवत्त्वमपि नास्ति तदाप्यत्रैकपदस्य-क्षितिपदस्य जलपदस्य वा साहशभेदावच्छिन्नलक्षकत्वे एकभेदविशिष्टापरभेदावच्छिन्नलक्षकत्वे तादृशभेदावच्छिन्नस्यैकपदस्यैवार्थत्वे प्राप्ते एकपदस्यार्थे एव रसवदन्यत्वान्वयः प्राप्तो न त्वऽपरपदस्यार्थे इत्यपरपदार्थे रसवदन्यत्वरूपविधेयस्याऽनन्वय एव प्राप्त इत्याशयेनाह-नाप्येकभेदेति । अस्त्वेकपदार्थे एव विधेयान्वय इत्याशङ्कय तत्र व्युत्पत्तिविरोधमाह-द्वन्द्वति, यथा ' धवखदिरौ छिनत्ति । इति. द्वन्द्वे छेदनस्य द्वन्द्वघटकधवखदिरयोरुभयोरेवान्वयस्तथा 'क्षितिपाथसी ' इतिद्वन्द्वघटकोभयपदवोध्ययोरुभयोरेवार्थयोर्विधेयस्य रसवदन्यत्वस्यान्वयो युक्तो न त्वेकमात्रपदार्थे इत्यर्थः । यदि च क्षितिपदेन क्षितिभिन्नं पाथस्पदेन च पाथोभिन्नमुपस्थितं तत्राभेदसंबन्धेनकमिन्नन= क्षितिमिन्ननान्वितं यदऽपरभिन्नम=पाथोभिन्नं तेजआदिकं तत्र रसवदन्यत्वान्वयः क्रियते क्षितिभिन्नं पाथोभिन्नं चैकमेवाभेदेन भवति तथाच द्वन्द्वघटकोभयपदार्थे एव विधेयान्वयो जात इति न पूर्वोक्तदोषोपीत्युच्यते? तदापि पदार्थद्वये विधेयान्वयो न प्राप्नोति “ पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन " इति भ्यायेन किं वा विशेष्ये एव विशेषणान्त्रयो भवतीतिन्याये "Aho Shrutgyanam" Page #533 -------------------------------------------------------------------------- ________________ यतश्च निर्धारणमितिसूत्रम् ] व्युत्पत्तिवादः । (५२१) पदार्थद्वये विधेयान्वयाऽनुपपादनात्, इन्दे समस्यमानपदार्थानां परस्परमन न्वयादित्यपि चिन्त्यम् । यनु ' नराणां शूरः क्षत्रियः' इत्यादौ शूराद्यन्वय्यऽभेदः षष्ठयर्थः, नराभिन्नशूरत्वाद्यवच्छेदेन च क्षत्रियाऽभेदान्वयः, एवं च क्षत्रियान्ये नरेऽर्थतः शौर्यव्यवच्छेदलाभ इति, तदत्यन्तमसत्-नराणां क्षत्रिये शौर्यम् ' इत्यादौ क्षात्रेयाणां कर्णः प्रचुरं ददाति ' इत्यादी चाऽनिर्वाहात् । इदं तु तत्त्वम्-निर्धारणावभक्तेावृत्तत्वमेवार्थः, व्यावृत्तत्वं चाऽभेदान्वयिविधेयसमभिव्याहारस्थलेऽन्योन्याभावप्रतियोगित्वं भेदान्वायतत्स्थले चाऽत्यन्ताभावप्रतियोगित्वं तस्य च विधेयतावच्छेदकावच्छेदेनाऽन्वयोऽतो न द्वित्वाधव. नैकभिन्नान्त्रितेऽपरभिन्न एव विधेयान्वयः स्यानत्वऽपरभिन्नविशेषणीभूते एकभिन्नेपि तथा च पूर्वोक्तः “ द्वन्द्वघटकैकपदार्थमात्रे" इतिव्युत्पत्तिविरोधस्तदवस्थ एवेत्याशयेनाह-नापि पदाभ्यामिति । किं चास्मिन् पक्षे एकपदार्थस्यापरपदार्थेनान्वयो जातः सोपि द्वन्द्वे न भवति न हि 'धवखदिरौ छिनत्ति' इत्यत्र धवखदिस्योः परस्परमप्यन्वयो भवतीत्याशयेनाह-द्वन्द्वे इति । अनन्वयादिति-द्वन्द्वघटकपदार्थानां परस्परमन्वयो न भवतीति नियनादित्यर्थः । परिहाराय मतान्तरमुपस्थापयति-यत्त्विति, अनेन मतेन ' नराभिन्नशूराभिन्नः क्षत्रियः । इति वाक्यार्थो लब्धस्तथा चार्थादेव क्षत्रियान्यो नरो न शूर इति लब्धमिति भावः । परिहरतितदिति, ' नराणां क्षत्रियः शूरः' इत्यत्र समानविभक्तिकत्वप्रयुक्तसामानाधिकरण्यवशाद् नराभिन्नशूरस्य क्षत्रियस्य चाऽभेदे संभवत्यपि ' नराणां क्षत्रिये शौर्यम् ' इत्यत्र शौर्यस्य क्षत्रियेण वा नरेण वाऽमेदो न संभवति सामानाधिकरण्याभावात् बाधितत्वाच्च, एवम् 'क्षत्रियाणां कर्णः' इत्यत्रापि क्षत्रियाभिन्नकर्णेन सह तिर्थप्रचुरदानकृतेरभेदो न संभवति-कृतिकोरभेदस्य बाधितत्वादित्यर्थः-- अनिर्वाहात् अभेदाऽनिर्वाहात् ।। ___ एवं परमतानि पराकृत्य सिद्धान्तमाह-इदमित्यादिना । निर्धारणविभक्तेः “ यतश्च निर्धारणम् " इति सूत्रविहितषष्ठीसप्तम्योः । उक्तविभक्त्यर्थीभूतव्यावृत्तत्वस्य स्वरूपमाह-व्यावृत्तत्वं चेति । अभेदान्वयिविधयसमभिव्याहारस्थले-' नराणां क्षत्रियः शूरः' इत्यादी. अत्र शूरपदार्थक्षत्रिययोरभेदेनेवान्वयसंभवात् । अन्योन्याभावप्रतियोगित्वमिति-क्षत्रियभिन्ननरे शूरभेदो वर्तते इति शूरे यत्तादृशभेदप्रतियोगित्वं तदेव क्षत्रियभिन्ननरव्यावृत्तत्वं विज्ञेयम् । क्षत्रियमिन्ननरे क्षत्रियभेदोपलब्धेरुपायमनुपदमेव वक्ष्यति । भेदान्वयितरस्थले भेदान्वयिविधेयसमभिव्याहारस्थले* नराणां क्षत्रिये शौर्यम् ' इत्यादी. अत्र क्षत्रियशौर्ययोरमेदासंभवात् क्षत्रिये शौर्य विधीयते इति भेदान्वयिविधेयः । अत्यन्ताभावप्रतियोगित्वमिति-क्षत्रियभिन्ननरे शौर्य नास्तीति शौर्य यत्तादृशारयन्ताभावप्रतियोगित्वं तदेव क्षत्रियभिन्ननरल्यावृत्तस्वम् । तस्य अन्योन्याभावप्रतियोगि "Aho Shrutgyanam" Page #534 -------------------------------------------------------------------------- ________________ ( ५२२ ) सादर्श: [ षष्ठीप्रकरणे च्छिन्नाभावमादायातिप्रसङ्गः । अभावे च प्रकृत्यर्थस्य नरादेः क्षत्रियत्वादिरूपोहेश्यतावच्छेदकावच्छिन्नभेदविशिष्टप्रकृत्यर्थतावच्छेदकनरत्वादिव्यापकाधिकरणता: निरूपिताssधेयता संबन्धेनान्वय एतावतैव जात्यादिरूपविशेषणशून्यप्रकृत्यर्थनरादिसामान्यव्यावृत्तेर्विधेयधमें लाभः । द्रव्याणां क्षितिपाथसी रसवती ' इत्यादौ भेदद्वयादिविशिष्टद्रव्यत्वादि * स्वस्याऽत्यन्ताभावप्रतियोगित्वस्य च विधेयतावच्छेदकावच्छेदेनान्वय इति - ' नराणां क्षत्रियः शूरः" इत्यत्र विधेयः शूरो विधेयतावच्छेदकं शूरत्वं तदवच्छेदेन तथा च शूरत्वावच्छेदेन शूरे क्षत्रियभिन्नमरवृत्तिशूरान्योन्याभावप्रतियोगित्वस्यान्त्रयः, ' नराणां क्षत्रिये शौर्यम्' इत्यत्र विधेयतावच्छेदकं शौर्यत्वं तदवच्छेदेन शौर्ये क्षत्रियमिन्ननरवृत्तिशौर्यात्यन्ताभावप्रतियोगित्वस्यान्वय इत्यर्थः । विधेयतावच्छेदकावच्छेदेनोक्तान्त्रयस्य फलमाह- अत इति, यद्युक्तप्रतियोगित्वस्थ विधेयतावच्छेदकावच्छेदेनान्वयो न स्यात्तदा क्षत्रिये शूरभेदस्य शौर्यात्यन्ताभावस्य चासत्त्वेपि शूरराक्षसेतदुभयभेदोस्त्येव तथा शौर्य राक्षससत्त्वैतदुभयात्यन्ताभावो व्यस्त्येवेति एतादृशद्वित्वावच्छिभावमादाय विधेये शौर्यशूरादौ क्षत्रियव्यावृत्तत्वस्याप्यतिप्रसङ्गः स्यात्, यदा चोक्तप्रतियोगि त्वस्य विधेयतावच्छेदकावच्छेदेनान्वयस्तदा शूरत्वावच्छिन्नप्रतियोगिताकान्योन्याभावः शौर्यत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावश्च लभ्यते तथा च क्षत्रिये उक्तद्विश्वावच्छिन्नप्रतियोगिताकाभावस्य सत्त्वेपि शूरत्वावच्छिन्नप्रतियोगिताकान्योन्याभावः शौर्यत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावश्च नास्त्येवेति न विधेये शौर्यशूरादौ क्षत्रियव्यावृत्तत्वस्यातिप्रसङ्ग इत्यर्थः । श्रभावे-क्ष--- त्रियमिन्ननर निष्ठे शूरान्योन्याभावे शौर्यात्यन्ताभावे च प्रकृत्यर्थस्य निर्धारणविभक्तिप्रकृत्यर्थस्य नरादेरुच्यमानाधेयतासंबन्धेनान्वयः - अभावस्य नरादौ वृत्तित्वेनाभावे आधेयता वर्तते एव सैक् संबन्ध इत्याह- अभावे चेति । स्वाभिप्रेतावेयतामाह- क्षत्रियत्वादीति, क्षत्रियत्वादिरूपोद्देश्यतावच्छेदकेनाऽवच्छिन्नो यः क्षत्रियस्तभेदेन विशिष्टम् = समानाधिकरणं यत् प्रकृत्यर्थतावच्छे दकं नरत्वादिकं सद्व्यापकीभूता याधिकरणता उक्ताभावनिष्ठाधेयतानिरूपिताधिकरणता यत्र यत्र क्षत्रियभेद विशिष्टनरत्वं वर्तते क्षत्रियभिन्ननरे तत्र तत्र शूरान्योन्याभावः शौर्यात्यन्ताभावश्च वर्तते एवेति तादृशाभावाधिकरणतापि वर्तते इत्यधिकरणतायामऽस्यां क्षत्रियभेदसमानाधिकरणनरत्वव्यापकत्वं प्राप्तम् । एतादृशनरत्वादिव्यापकीभूताधिकरणतानिरूपिता चाधेयता विवक्षिताभावे प्राप्तेति एतादृशाधेयतासंबन्धेनाऽभावे प्रकृत्यर्थनरादेरन्वयः क्रियते । अत्र व नरे क्षत्रियवैशिष्ट्यस्य निवेशाद् नरपदेन क्षत्रियमिन्ननरो गृह्यते तथा चैतावतैव=आधेयतारूपसंबन्धस्वरूपे एव क्षत्रियभेदनिवेशेनैव क्षत्रियत्वादिजातिरूपविशेषणशून्यनरसामान्यव्यावृत्तत्वं विधेयलक्षणधर्मे लभ्यते एवेति न पूर्वोक्तमतानि युक्तानीत्यर्थः । द्रव्याणामिति - ' द्रव्याणां क्षितिपाथसी रसवती' इत्यत्रापि व्यावृत्तत्वं षष्ठयर्थ इत्यादिकं "Aho Shrutgyanam" Page #535 -------------------------------------------------------------------------- ________________ यतश्च निर्धारणमितिसूत्रम् ] व्युत्पत्तिवादः । ( ५२३ ) व्यापकतैव संबन्धः । विधेयस्य शूरतमादेर्निर्धारण विभक्तिप्रकृत्यर्थतावच्छेदकनरत्वादिविशिष्टतादात्म्यादिव संबन्धतया भासतेऽतो 'नराणां राक्षसः शूरः ' इत्यादेर्नापत्तिः । अन्यत्स्वयमूह्यम् ॥ ॥ इति षष्ठ्यर्थनिरूपणं समाप्तम् ! ८ सर्व पूर्ववदेव किं तु रसवदन्योन्याभावे द्रव्यस्य भेदद्वयविशिष्टद्रव्यत्वादिव्यापकता मात्र संबन्धेनान्वय इत्येव विशेष इत्यर्थः । भेदद्वयेति-- तेजआदौ क्षितिभेदः पाथोमेदश्व वर्तते तत्र द्रव्यत्वमपि वर्तते इति भेदद्वयविशिष्टं द्रव्यत्वं यत्र यत्र तेजआदौ वर्तते तत्र तत्र रसवदन्योन्याभावोपि वर्तते इत्यभावे व्यापकता प्राप्ता तादृशव्यापकतासंबन्धेनाभावे द्रव्यपदार्थस्याऽन्वय इति विधेये रसवत्त्वे क्षितिजलोमयभिन्नद्रव्यव्यावृत्तत्वलाभ इत्यर्थः । एवं पूर्वत्रापि क्षत्रियत्वावच्छिन्नभेदविशिष्टनरत्वव्यापकतायाः संबन्धस्त्वं संभवत्येवेत्याधेयतापर्यन्तानुधावनं चिन्त्यम् । विधेयस्येतिनराणां क्षत्रियः शूरतमः' इत्यत्र विधेयस्य शूरतमादेर्निधारणविभक्तिप्रकृत्यर्थतावच्छेदकं यनरत्वं तादृशनरत्वादिविशिष्टतादात्म्यसंबन्धेन क्षत्रिये उद्देश्यभूतेऽन्वयो ज्ञेय:- क्षत्रिये च संबन्ध - भूतं नरतादात्म्यमस्त्येव तस्मात् ' नराणां राक्षसः शूरः इति प्रयोगस्यापत्तिर्नास्ति यतोत्राप्युक्तरीत्या निर्धारणविभक्तिप्रकृत्यर्थतावच्छेदकनरत्वविशिष्टतादात्म्येन=नरतादात्म्येनैव राक्षसे शूरान्वयः कर्तव्यो नरतादात्म्यं च राक्षसे नास्त्येव - राक्षसानां नरभिन्नत्वादित्यत्रोद्देश्यभूते राक्षसे विधेयभूतशूरान्वयाऽसंभवात् नैतत्प्रयोगापत्तिः किं तु ' नरेम्यो राक्षसाः शूराः ' इत्येव प्रयोगो भवतीत्यर्थः । ' नरांणां कर्णः प्रचुरं ददाति इत्यत्रापि कर्णे प्रचुरदानकृतेरभेदासमवाद् मेदान्वय एवेत्यनेन वाक्येन कर्णमिन्नक्षत्रिये प्रचुरदानकृतेरत्यन्ताभावो बोध्यते इति तादृशात्यन्ताभावप्रतियोगित्वं यत् प्रचुरदानकृतौ प्राप्तं तदेव कर्णमिन्नक्षत्रियव्यावृत्तत्वमिति बोध्यम् ॥ ॥ इति व्युत्पत्तिवादादर्शे षष्ठयर्थनिरूपणं समाप्तम् ॥ "Aho Shrutgyanam" Page #536 -------------------------------------------------------------------------- ________________ अथ सप्तम आधारसप्तम्या आधेयत्वमर्थस्तस्य क्रियायामन्वयः । आधाराधेयभावश्व न संयोगादिरूप संबन्धात्मकः - कुण्डादिसंयोगिनो बदरादेरपि कुण्डाधारताप्रसङ्गात् अपि तु पदार्थान्तरमेव स च संबन्धविशेषावच्छिन्नः - संयोगेनाधिकरणं समवायेनाधिकरणमित्यादिव्यवहारात् । अथ वोक्तातिप्रसङ्गभिया संयोगेनाधारत्वमेवातिरिक्तं समवायसंबन्धावच्छिन्नं च समवायादिरूपमेव । न च समवायस्यापि संबन्धत्वेन द्विष्ठतया रूपादेरपि पटाद्यधिकरणताप्रसङ्गः, तथा सति तुल्ययुक्वाऽधिकरणत्वस्यापि द्विष्ठतया तादृशातिप्रसङ्गस्य दुर्वारत्वात् । यदि चाधारताया आधारेऽनुयोगित्वं संबन्ध आधेये च प्रतियोगित्वामेति संबन्धवैलक्षण्यानातिप्रसङ्गः- आधारतानुयोगिताया एवाधारव्यवहारप्रयोजकत्वादित्युच्यते ? तदा समवायस्यापि तद्वैलक्षण्येनातिप्रसङ्गवारणादतिरिक्ताधारतायां मानाभावात् । क्रमप्राप्तं सप्तम्यर्थनिरूपणमारभते- 'आधारेति । आधारस्यैवाधिकरणत्वादधिकरणे च सूत्रकृता सप्तम्या विहितत्वादुच्यते- आधारसप्तम्या इति । तस्य = आधेयत्वस्य । ' स्थाल्यां पचति इत्यादी पाकादिक्रियायां स्थाल्यायाधेयकत्वं स्पष्टमेव ' भूतले वर्तते घटः' इत्यादी क्रियायां सप्तम्यर्थान्वयव्यवस्थां स्वयमेवाग्रे अथेत्यादिना प्रतिपादयिष्यतीति ध्येयम् । आधेयत्वं च वृत्तित्वमेवेति ' भूतले घटः ' इत्यस्य भूतलवृत्तिर्घट इति शाब्दबोधः संपन्नः । आधाराधेयभावमाह - आधारेति । सः = पदार्थान्तरभूत आधाराधेयभावः । बदरकुण्डयोराधाराधेयभावः संयोगसंबन्धावच्छिन्नः- कुण्डबदरयोः संयोगस्यैव सत्त्वात् । घटतद्रूपयोराधाराधेयभावः समवायसंबन्धावच्छिन्नः - तयोः समवायस्यैव संत्रम्यत्वात् । पक्षान्तरमाह- अथवेति । उक्तातिप्रसङ्ग भिया=बदरस्य कुण्डाधारताप्रसङ्गवारणाय, संयोगसंबन्धावच्छिन्नाधारत्वस्यातिरिक्तत्वेन तत् कुण्डे एव स्वीक्रियते न बदरेपि येन बदरस्य कुण्डाधारत्वं प्रसज्येतेत्यर्थः । ननु यदि समवायसंबन्धावच्छिन्नमाधारत्वं समवायस्त्ररूपमेव तदा पटतद्रूपयोः समवायस्य तुल्यत्वादेव रूपस्यापि पटाधारत्वं स्यादित्याशङ्क्याह- न चेति । उत्तरमाह - तथा सतीति । नन्वाधारताऽऽधारेऽनुयोगित्वरंबधेन वर्तते आधेये च प्रतियोगित्वसंबन्धेनेति संबन्धवैलक्षण्यात् = अनुयोगित्वप्रतियोगित्वरूपसंबन्धयोर्वैलक्षण्यमस्ति तत्राधारतानुयोगिन एकाधारत्वं स्वीक्रियते इति नाधारताप्रतियोगिनो रूपादेः पटायाधारताप्रसक्तिरित्याशयेनाह - यदीति । उत्तरमाह- तदेति, तद्वैलक्षण्येन = अनुयोगिता प्रतियोगित्वयोर्वैलक्षण्येन -- समवायस्यानुयोगित्वमाधारे प्रतियोगित्वं चाधेये तत्र समचायानुयोगिन एवाधारत्वस्वीकारान्न रूपस्य पदाधारताप्रसक्तिः, एत्रमेत्र कुण्डबदरादिसंयोगस्थलेपि न बदरादेः कुण्डाधारताप्रसक्तिरस्तीति संयोगसमवायाद्यतिरिक्ताधारत्वसंबन्वस्वीकारो व्यर्थ एवेत्यर्थः । "Aho Shrutgyanam" Page #537 -------------------------------------------------------------------------- ________________ आधारताविचारः ] व्युत्पत्तिवादः । स्पर्शायाधारवाय्वादे रूपाद्याधारतावारणायाऽऽधेयभेदेनाधारत्वमतिरिक्तम्, इति न सत् - आधेयभेदभिन्नाधिकरणतानामऽतिरिक्तसमवायस्य च कल्पना - मपेक्ष्याऽऽधेयभेदेन समवायभेदस्यैवोपगन्तुमुचितत्वात् । ( ५२५) अथ संयोगेनाधिकरणत्वमपि संयोगरूपमस्तु कुण्डबदरादिसंयोगानां कुण्डादिकमनुयोगि नतु बदरादिकमिति नातिप्रसङ्गः । न चैवमपि बदरादेः कुण्डादिनिष्टसंयोगानुयोगितया आधारतापत्तिः- तादृशसंयोगस्य कुण्डादिनिष्ठस्वेपि तत्प्रतियोगिकत्वानुपगमात् तत्प्रतियोगिकसंबन्धानुयोगिताया एव तदाधारव्यवहारप्रयोजकत्वात् । न चासौ संयोगो बदरादौ कुण्डादिविशिष्टबुद्विमयोजकतयोभयानुयोगिक एवमुभयप्रतियोगिकोपीति वाच्यम्, आधेये संयोगेनाधिकरणविशिष्टबुद्धेरप्रामाणिकत्वात्, 'कुण्डे बदरम्' इत्यादिवि " नन्वेवं हि वायौ स्पर्शसमवायोस्त्येव समवायश्चैक एवेति वायौ रूपसमत्रायप्रसक्त्या रूपा -- धारतापि प्रसज्येत न चैतदिष्टमिति तद्दारणायाऽधेयभेदेनाधारत्वं समवायाद्यतिरिक्तं स्वीक्रियते तथा च वायौ स्पर्शाधारतासत्त्वेपि रूपाधारताप्रसक्तिर्नास्ति- रूपाधारतायाः स्पर्शाधारतापेक्षयाऽतिरिक्तत्वात्तस्याश्च वायाबस्वीकारादित्याशयेनाह - स्पर्शेति । परिहारमाह- इति न सदिति । एवं ह्याधारमेदेनाधारतानामनन्तानां स्वीकारः प्राप्तः समवायस्यापि प्राप्त इति गौरखं स्यादित्याय भेदेन समत्रायभेद एव स्वीकर्तुमुचितस्तथा च वायौ स्पर्शसमवायसत्त्वेपि रूपसमवायाभावाद्रूपाधारताप्रसक्तिर्नास्तीत्यर्थः । शङ्कते - अथेति । संयोगानुयोगिनः कुण्डादेरेवाधारत्वस्वीकारान बदरादेः कुण्डाद्याधारतातिप्रसङ्ग इत्यर्थः । नन्वेषमपि कुण्डबदरयोः संयोगस्यैक्यात् यः स्खलु कुण्डे संयोगः स बदरेप्यस्त्येवेति कुण्डनिष्ठसंयोगानुयोगिता बदरेपि प्राप्तेति कुण्डनिष्टसंयोगानुयोगितया बदरस्य कुण्डाधारत्वं स्यादेव - अनुयोगिन आधारत्वस्वीकारादित्याशङ्क्याह- न चेति । अनुयोगिताया इति पाठे तु पञ्चम्यन्तं तत् । अत्र " बदरादेः" इत्यस्य स्थाने "कुण्डादेः" इति पाठस्त्वऽसङ्गत एव भाति । उत्तरमाह - तादृशेति । तादृशसंयोगस्य = कुण्डबदर संयोगस्य । तत्प्रतियोगिकत्वानुपगमात् कुण्ड प्रतियोगिकत्वानुपगमात् । नियामकमाह- तत्प्रतियोगिकेति, तथा च बदरे कुण्डानुयोगिकसंयोगानुयोगिता वर्त्तते न तु कुण्डप्रतियोगिकसंयोगानुयोगितेति न बदरस्य कुण्डाधारताप्रसक्तिः कुण्डे च बदर प्रतियोगिकसंयोगानुयोगिता वर्तते इति कुण्डस्य बदराधारता प्राप्तेत्यर्थः । ननु कुण्डबदरयोः संयोग एक एव तेन च कुण्डे बदरविशिष्टबुद्धिवद् बदरेपि कुण्डविशिष्टबुद्धिर्जायते एवेति स संयोग एकत्वाद् यथा कुण्डबदरोभयानुयोगिकस्तथोभयप्रतियो गिकोप्यस्त्येव तथा च बदरेपि कुण्डप्रतियोगिकसंयोगानुयोगिता प्राप्तेति बदरस्य कुण्डाधारत्वं किं न स्यादित्याशङ्क्याह- न चेति । परिहारमाह- आधेये इति, आधेये अधिकरणाधार ताज्ञानस्याप्रामाणिकत्वादेव नाधेयस्य बदरादेः कुण्डादिलक्षणत्वाधिकरणाधारतापत्तिरित्यर्थः । नियामकमाह- कुण्डे इति, यद्यपि ' बदरवत् कुण्डम् ' इत्यादौ कुण्डस्य प्रथमा - "Aho Shrutgyanam" Page #538 -------------------------------------------------------------------------- ________________ १५२६) सादर्श: [ सप्तमीकारकेशिष्टवुद्धौ संयोगप्रतियोगिताया एव संबन्धत्वात् ‘पटे रूपम् ' इत्यादौ समबायप्रतियोगितावद, अन्यथा तादृशविशिष्टबुद्धिबलाद् रूपादावपि पटादिसमवायानुयोगिताप्रसङ्गादिति चेत् ?, मा भूत्तत्संबन्धावच्छिन्नमप्यतिरिक्तम् । ___ यत्तु तत्पतनप्रतिबन्धकसंयोगवत्वं तदाधारत्वं कुण्डादिपतनप्रतिबन्धकसंयोगवत्वं च न बदरादौ- तत्संयोगसत्त्वेपि तस्य पतनादिति, तदसत्- यस्य पतनमप्रसिद्धं तदाधारत्वाऽसंग्रहात्, स्वस्मिन् स्वपतनप्रतिबन्धकसंयोगसत्वेन स्वस्यापि स्वाऽऽधारताप्रसङ्गाच्च । स्वान्यत्वे सति स्वनिष्ठपतनानुत्पादप्रयोजकन्तार्थत्वेन ' बदरप्रतियोगिकसंयोगवत् कुण्डम् । इति शाब्दबोधोदयात् संयोगप्रतियोगिता बदरे एव प्रतिभाति मतुप्प्रत्ययेन च बदराधारता कुण्डे भासते, तथापि 'कुण्डे बदरम् ' इत्यत्र तु बदरस्य प्रथमान्तार्थत्वेन विशेष्यत्वात् 'कुण्डसंयोगवद् बदरम् ' इत्याकारकशाब्दबोधोदयात् कुण्डसंयोगस्प बदरवृत्तित्वेन प्रतीयमानत्वात् संयोगप्रतियोगिता कुण्डे प्राप्ता सा संयोगप्रतियोगितैव चाधारतानियामकसंबन्ध इति कुण्डस्य बदराधारता प्राप्ता न तु बदरस्यापि कुण्डाधारता- बदरस्यैतादृशसंयोगेऽनुयोगित्वेन प्रतियोगित्वाभावादित्यर्थः, उक्ते दृष्टान्तमाह- पटे इति, यथा 'पटे रूपम् ' इत्यत्र ‘पटसमवायवद् रूपम्। इति शाब्दबोधोदयात् पटसमवायस्य रूपवृत्तित्वेन भानात् ताशसमवायप्रतियोगिता पटे. एवेति पटस्यैव रूपाधारतास्ति न तु रूपस्य पटाधारता तथा प्रकृतेपि कुण्डस्यैवोक्तरीत्या बदराधारता प्राप्तेत्यर्थः । विपक्षे बाधकमाह- अन्यथेति, यदि संयोगसमवायादिप्रतियोगिताया आधारतानियामकत्वं न स्यात्तदा तादशविशिष्टबुद्धिश्रलात कुण्डे बदम् । “पटे रूपम् । इत्यादिविशिष्टबुद्धिबलाद् रूपबदरादावपि समवायसंयोगाद्यनुयोगिता प्राप्नोत्येव- रूपबदरादावपि समवायसंयोगादेत्तिस्वेनं भानादिति रूपबदरादीनामपि पटकुण्डाद्याधारस्वं प्रसज्येत. न चैतदिष्टमिति संयोगसमवायादिप्रतियोगितैव संबन्ध इत्युक्तरीत्या पटकुण्डादेरेवाधारत्वं प्राप्नोति न तु रूपबदरादेरपीत्यर्थः । इत्येचमाशङ्कायामाह-मा भूदिति, तथा च तत्संबन्धावच्छिन्नम् संयोगसंबन्धावच्छिन्नमप्यधिकरणत्वं संयोगरूपमेवास्तु न तु संयोगातिरिक्तमिति न संयोगसंबन्धावच्छिन्नातिरिक्ताधारता. स्वीकारप्रयुक्तं गौरवमित्यर्थः । अस्मिन् पक्षे बदरादेराधारत्वातिप्रसङ्गः शङ्कारभ्भेपि “कुण्डादिकमनुयोगि न तु वदरादिकम् " इत्यादिना निवारितः, संयोगप्रतियोगितायाः संबन्धप्रतिपादनेन चात्रापि निवारित एवेत्यनुसंधेयम् । . यत्त्विति । तत्संयोगसत्त्वेपिबदरसंयोगसत्त्वेपि । तस्य-कुण्डस्य । तस्मान्न बदरादौ कुण्डाद्याधारताप्रसक्तिरित्यर्थः । परिहरति- तदसदिति, शब्दस्य पतनमेव न संभवतीत्याकाशे शब्दपतनप्रतिबन्धकत्वासंभवात् 'आकाशे शब्दः । इत्यादावाकाशादीनां शब्दाधारत्वं न स्यादित्यर्थः । अतिप्रसक्तिमाह= स्वस्मिन्निति । ननु स्वभिन्नो य: स्वनिष्ठस्तत्पतनप्रतिबन्धकसंयोगवत्त्वं तत्-तदाधारत्वं तथा च न स्वस्य स्वाधारताप्रसक्ति:- स्वस्य स्वभिन्नत्वाभावादित्याश "Aho Shrutgyanam Page #539 -------------------------------------------------------------------------- ________________ सप्तम्यर्थ विश्वारः ] व्युत्पत्तिवादः । ( ५२७ ) , संयोगवत्त्वं तादेति चेत्, न- एतदनुपस्थितावप्यधिकरणव्यवहारादित्यलम् । ressure सप्तम्या आधेयतार्थकत्वे ' भूतले वर्तते घटः इत्यादौ धात्वर्थस्य वृत्तेराधेयतारूपत्वेन तत्र भूतलाद्याधेयत्वाभावेनाऽयोग्यताप्रसङ्ग इतिचैत्र, न- तत्र निरूपकत्वस्यैवाधारतारूपत्वेन निरूप्यत्वस्यैव सप्तम्यर्थत्वात् भूतलादिनिरूप्यत्वस्य च घटादिनिष्ठवृत्तावबाधात, अत एव ' इति हेतुस्तदुद्भवे' इत्यादी देती हेतुतायां चोद्भवपदार्थोत्पत्तिवृत्तित्वाभावेपि हेतुतायामुत्पत्तिनिरूपितत्त्वसत्त्वेन सप्तम्युपपत्तिः । अथ वा वृद्धातोरप्याधारत्वमेवार्थस्तानरूपकत्वमेव घटादेस्तत्कर्तुत्वम् एवं च तादृशधात्वर्थे भूतलाद्यधिकरणकत्वमेव सप्तम्यन्तेन बोध्यते तत्र तदबाधात् । 17 1 crissurrearer क्रियायां प्रकृत्यर्थाविकरणकत्वं यदि बोध्यते तदा चैत्रे चैत्रो गच्छति' इत्यादिप्रयोगापत्तिः- तत्र धात्वर्थस्य स्पन्दादेः कर्त्रा - वृत्तित्वात्,' भुवि गच्छति' इत्यादिश्च न स्यात्- चैत्रनिष्ठक्रियाया भुवि ङ्कते - स्वान्यत्वे इति । परिहारमाह- नेति । एतदनुपस्थितौ = उक्ताधारतालक्षणानुपस्थितौ । तथा चैतलक्षणमपि न युक्तमित्यर्थः । , शङ्कते - अथेति, ' भूतले वर्तते घटः ' इत्यत्र सप्तम्यर्थस्याधेयत्वस्य धात्वर्थाधेयत्वेऽन्वयो न संभवति समानरूपत्वादित्यर्थः । परिहरति- नेति, तत्र = ' भूतले वर्तते घटः इत्यत्र निरूयत्वं सप्तम्यर्थः घटादिनिष्ठा धात्वर्थभूता वृत्तिः- आधेयता च भूतल निरूपितैवास्तीति घटादिनिष्ठवृत्तौ भूतल निरूप्यत्वस्यान्वयः क्रियते इति नोक्ताऽयोग्यताप्रसक्तिः । अत एव = उक्तस्थलादौ निरूप्यत्वस्यैव सप्तम्यर्थत्वादेव " इति हेतुस्तदुद्भवे " इत्यत्र हेतौ हेतुतायां चोद्भवपदार्थभूता योत्पत्तिस्तद्द्वृत्तित्वाभावेपि हेतुतायामुत्पत्तिनिरूपितत्वमस्त्येवेति तादृशनिरूपितत्वरूपार्थ• माश्रित्यात्रोद्वत्रपदात् सप्तम्युपपद्यते, न हि काव्योत्पत्तौ काव्यहेतुभूतशक्त्यादिर्वा तन्निष्ठहेतुता वा तिष्ठति येनात्रवृत्तित्वं सप्तम्यर्थ उपपद्येतेत्यर्थः । अत्र काव्योत्पत्तिनिरूपितहेतुताश्रयः शक्त्यादित्रयमिति शाब्दबोधः । पूर्वत्र च भूतल निरूपितवृत्तित्वाश्रयो घट इति शाब्दबोधः । पक्षान्तरमाह - अथ वेति । तन्निरूपकत्वम् = वृद्धात्वर्थभूताधारत्व निरूपकत्वमेव वृद्धात्वर्थकर्तृत्वं घटेस्ति-- घटस्यैव तन्निरूपकत्वात् । तादृशधात्वर्थे = आधारत्वरूपे । तत्र = धात्वर्थभूताधारतायाम् । तदबाधात्=भूतलाधिकरण कस्त्रस्याऽबाधात् भूतलस्यैवाधारताधारत्वादितिभावः । तथा च भूतलाधिकरणका ( भूतलनिष्ठा ) धारतानिरूपको घट इति शाब्दबोधः । शङ्कते– भथेति । प्रकृत्यर्थाधिकरणकत्वम् = सप्तमी प्रकृत्यर्थाधिकरणकत्वम् । कर्त्रादिवृत्तिह्वात्=चैत्रवृत्तित्वादित्यर्थः । चैत्रकर्तृकगमनादिक्रियायां चैत्राधिकरणकत्वस्य सत्त्वात् चैत्रपदादपि सप्तमी स्यादिति भावः । बाधात् =भवृत्तित्वात् । चैत्रनिष्टक्रियाया भूवृत्तित्वे एव स्वधिकरणकत्वं "Aho Shrutgyanam" Page #540 -------------------------------------------------------------------------- ________________ (५२८) सादर्श: । सप्तमीकारकेबाधादादितिचेत् ?, न - तंत्र कर्तृघटितपरम्परासंबन्धावच्छिन्नाधारताया एवं सप्तम्यर्थत्वेन सर्वसामञ्जस्यात, परम्परासंबन्धस्यापि प्रतीतिबलेन कचिदाधारतानियामकत्वोपगमात् ।। __ अवच्छेद्यतांविशेषोप्याधारसप्तम्यर्थो यथा वीणायां शब्द:: "कर्णे शब्दः ' 'वृक्षाग्रे कपिसंयोगः' इत्यादौ, एषु कारकतानिहाय भवति' इत्यध्याहारः । अथ, वा “ सप्तम्यविकरणे च" इति चकारेणाऽकारकाऽऽधारवाचिनोपि सप्तमी, अत एव " साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम् " इत्यत्र “साध्यवद्भिन्ने यः साध्याभावः " इतिसप्तमीतत्पुरुषेण व्याख्यानं संगच्छते: तत्र क्रियाध्याहारे सापेक्षतया सामर्थ्येन समासानुपपत्तेः। 'चमणि दीपिनम् ' इत्यादौ “निमित्ताकर्मयोगे" इत्यनेन सप्तमी प्रकृत्यर्थचर्मादेहननादिक्रियानिमित्तत्वं बोधयति । निमित्तत्वं च न कारणत्वम्-- चोदेहेनैनादिक्रियाकारणवे मानाभावात् पूर्ववर्तित्वेपीच्छाकृत्यादिनाऽन्यथासिस्यादित्याक्षेपः । पारहरति- नेति । कर्तृवटितेति- कर्तृघटितपरम्परासंबन्धावच्छिन्ना-स्वाश्रयाश्रयत्वसंबन्धावच्छिन्नाऽऽधारता सप्तम्यर्थः- स्वं क्रिया तथा: च ' भुवि गच्छति चैत्रः' इत्यत्र स्वंगमनक्रिया तदाश्रयः चैत्रस्तदाश्रयत्वं भव्यऽस्तीति स्वाश्रयाश्रयत्वसबन्धावच्छिन्नाऽऽधारता भुवि वर्तते सैव सप्तम्यर्थस्तादृशस्वाश्रयाश्रयत्वसंबन्धावच्छिन्नाधास्तासंबन्धन चैत्रनिष्टापि गमनक्रिया भुवि संभवतीति 'भुवि गच्छति । इतिप्रयोगानुपपत्तिर्नास्ति, 'चैत्रे चैत्रो गच्छति' इति प्रयोगापत्तिरपि नास्ति- अत्र स्वक्रिया तदाश्रयश्चैत्रस्तदाश्रयत्वस्य चैत्रे बाधादित्यर्थः । ननु ‘भूतले घटः ' इत्यादौ साक्षात्संबन्धस्यैव संयोगस्याधारतानियामकत्वमस्तीत्युक्तस्थले स्वाश्रयाश्रयत्वरूपपरम्परासंबन्धस्य कथमाधारतानियामकत्वं स्यादित्याशङ्क्याह- परम्परासंबन्धस्यापीति । सप्तम्याः सोदाहरणमर्थान्तरमाह- अवच्छेद्यतेति । तथा च वीणायाम् वीणावच्छेदेन. कर्णे कर्णावच्छेदन. वृक्षानेवृक्षापावच्छेदेनेत्यर्थः । एषुउक्तोदाहरणेषु । अकारकाधारवाचिन:अकारकरूपो य आधारस्तद्वाचिनः पदात्, तथा चोक्तोदाहरणेषु क्रियाध्याहारापेक्षा नास्तीत्यर्थः । उक्ते विनिगमकमाह- भत एवेति । अत एव=भकारकरूपाधारवाचकपदादपि सूत्रस्थचकारेण सप्तमीसंभवादेव. तत्रेति- “ साध्यवद्भिन्ने वर्तते यः साध्यामावः" इत्येवं क्रियाध्याहारेण व्याख्याने हि साध्यवभिन्नपदस्य क्रियापदसापेक्षतया " सापेक्षमसमर्थवद् भवति" इतिनियमेनाऽसामर्थ्य प्राप्ते साध्यामावपदेन समासो न स्यादित्यर्थः । न चैव कचिदपि समासो. न स्यादिति शक्यम्, समासानन्तरं क्रियाध्याहारेण समासे बाधकामावात् । प्रयोगान्तरमुदाहरति- चर्मणीति । हन्तीति शेषः । निमित्तत्वस्वरूपमाह-निमित्तत्वमिति । ननु चर्मणो हननक्रियातः पूर्ववर्तित्वात् कथं न कारणत्वं स्यादित्याशङ्क्याह- पूर्वेति, इच्छाकृत्यादिना हननसंपत्तिः संभवत्येवेति चर्मणोऽन्यथासिद्धत्वम्, अन्यथेच्छादिकं विनापि हनन "Aho Shrutgyanam" Page #541 -------------------------------------------------------------------------- ________________ यस्य च भावेन भावलक्षणमिति ] व्युत्पत्तिवादः । (५२९) द्धत्वात्, अपि तु क्रियाजनिका या विनियोज्यत्वेनेच्छा तद्विषयत्वम्, स्वविषयकतादृशेच्छाधीनत्वमेव तत्र क्रियान्वयी सप्तम्यर्थः, तदेकदेशविषयितायां निरूपकत्वन प्रकृत्यर्थान्वयः । चर्मादेर्घात्यव्याघ्रादेः संबन्धश्च न सप्तम्यर्थः आप तु सप्तम्याः साधुत्वे स्वरूपसनऽपेक्षितः । 'गोषु दुह्यमानासु गतः' इत्यादौ " यस्य च भावेन " इत्यनेन गवादिपदात्सप्तमी । तत्समानाधिकरणदुह्यमानादिपदाच्च ' नीलं घटमानय इत्यादी नीलादिपदाद् द्वितीयावद् विशेषणपदस्य विशेष्य पदसमानविभक्तिकत्वनियमात् सप्तमी । विधायकसूत्रे च भावपदं क्रियापरं तथा च 'यद्विशेषणकृदन्तार्थविशेषणतापन्नक्रियया क्रियान्तरस्य लक्षणम् = व्यावर्तनं तद्वाचकपदात्सप्तमी ' इति तदर्थः, उक्तस्थले गमनादिक्रिया दोहनादिसमानकालीनत्वादिविशेषणपुरस्कारेण बोध्यतयाऽभिप्रेता. अतो व्यावर्तकविशेषणप्रविष्टतादृशक्रियाया अपि व्यावर्तकतया तत्कर्माद्यभेदान्वयिगवादिपदात्सप्तमी । अतस्तादृशसप्तम्याः मापद्येत न चैवमस्तीत्यर्थः । अपि स्त्विति - विनियोज्यत्वे नेच्छा - विनियोज्यत्वप्रकारकचर्मविषयकेच्छा चर्मविनियोगेच्छेति यावत् तद्विषयत्वम् = तादृशेच्छाविषयत्वमेव निमित्तत्वमित्यर्थः । स्त्रविषयकेति - चर्मविषयक विनियोज्यत्वे नेच्छाधीनत्वं हननक्रियायां यदस्ति तदेव सप्तम्यर्थः, तदेकदेशविषयितायाम् == उक्तेच्छानिष्ठविषयितायां निरूपकत्वेन प्रकृत्यर्थचर्मणोन्वयः, एतद्विषयितायाश्वर्मण एव निरूपकत्वात् तथा च चर्मनिरूपितविषयिताश्रयेच्छा जन्यहनन व्यापारवानिति शाब्दबोधः । ननु चर्मादेर्घात्यव्याघ्रादेश्च यः समवायादिसंबन्धः स एव सप्तम्यर्थः किं न स्यात् ? तत्सत्त्वे एव" निमित्तात्कर्मयोगे " इतिवार्तिकेन सप्तमीविधानादित्याशङ्क्याह- चर्मादेरिति । स्वरूपसनिति- यदि चर्मद्विपिनोः संबन्धो न स्यात्तदा यथा वेतनधान्ययोः संबन्धाभावात् L वेतनेन धान्यं लुनाति ' इत्यत्र फलभूत वेतनवाचकवेतनपदात्तृतीयैव हेतौ " इतिसूत्रेण भवति तथात्रापि चमपदोत्तरं तृतीयैव स्यान सप्तमी, चर्मादेर्घात्यव्याघ्रादेश्व परस्परं संबन्धसत्त्वे एव सप्तमीविधानादिति स संबन्धः सप्तम्याः साधुस्वार्थे स्वरूपसन्नपेक्षितोस्ति न तु तस्य शाब्दबोध प्रकारतया मानापेक्षापि येन तस्य सप्तम्यर्थत्वं स्वीक्रियेतेत्यर्थः । ८८ प्रयोगान्तरमुदाहरति- गोष्विति । सूत्रार्थमाह- तथा चेति, यद्विशेषणम् = गोविशेषणं कृदन्तार्थ :- दुह्यमान पदार्थस्तत्र विशेषणतामापन्ना या दोहनक्रिया तथा क्रियान्तरस्य गमनस्य व्यावर्तनम् =कालिकव्यवच्छेदः क्रियते इति तद्वाचकपदात् = गोपदात्सप्तमी भवतीत्यर्थः । उक्तसूत्रार्थस्योक्तोदाहरणे समन्वयमाह - उक्तस्थले इति । अत इति - व्यावर्तकं यदोहनसमानका लिकत्वं विशेषणं तत्प्रविष्टा = तद्विशेषगभूता या तादृशक्रिया = दोहनक्रिया तस्या अपि व्यावर्तकतया तत्कर्मणाऽभेदान्वयिनी या गौस्तद्वाचकपदात् सप्तमी जातेत्यर्थः । परिहारायात्र मतान्तरं प्रदर्शयति- अतस्तादृशेति तादृशसप्तम्याः अत्रत्यगोपदोत्तरसप्तम्याः । तत्र = समानका - ३४ " Aho Shrutgyanam" , Page #542 -------------------------------------------------------------------------- ________________ ( ५३० ) सादर्श: [ सप्तमीकारके: समानकालीनत्वादिकमात्रमर्थस्तत्र दुह्याद्युपस्थापित दोहनादेर्निरूपकत्वेनाऽन्वयाद् दोहनसमानकालीनत्वादिकं गमनादौ लभ्यते इति न युक्तम्- दुह्याद्युपस्थापितक्रियायाः कृदन्तार्थविशेषणतयोपस्थितायाः समानकालीनत्वादिविशेषणत्वासंभवात्. प्रकृत्यर्थ गवादिनाऽनन्वितार्थस्य सप्तम्या बोधनासंभवाच्च । किं तु समभिव्याहत दोहनादिक्रियैव सप्तम्यर्थस्तस्याश्च समानकालीनत्वादिकं क्रियान्तरे संबन्धः, तत्र वर्तमानार्थ कक्कृत्समभिव्याहारस्थले समानकालीनत्वम्. 'दोग्धव्यासु गतः' इत्यादिभविष्यदर्थकृत्स्यले प्राक्कालीनत्वम्. दुग्धासु गतः " इत्यादावतीतार्थकृत्स्थले उत्तरकालीनत्वं संबन्धतया भासते । पाथासे पीते तृषा शाम्यति इत्यादावऽतीतार्थककृत्समभिव्याहारात् कार्यकारणभावोपि संबन्धतया भासते इत्यादिकमूहनीयम् । 6 6 " 66 लोनले । समानकालीनत्वस्य निरूपकं दोहनमेवात्रेति समानकालीनत्वे निरूपकत्वेन रूपेण दोहनस्यान्वयस्तस्मादित्यर्थः । परिहरति- इति न युक्तमिति । अयुक्तत्वे हेतुमाह- दुह्यादीति कृदन्तार्थो यो दुधमानपदार्थों गोपदार्थस्तद्विशेषणतयोपस्थिताया दोहनक्रियायाः समानकालीनत्वे विशेषणत्वं न संभवतीत्यर्थः एकत्र विशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वस्याव्युत्पन्नत्वात् " इतिव्युत्पत्तिविरोधादिति शेषः । किं च समानकालीनत्वं दोहने गमने च वर्तते न तु गवति कथं तस्य गोपदोत्तरसप्तम्या बोधनं स्यात् प्रकृत्यर्थ संबद्धपदार्थस्यैव तदुत्तरविभक्त्या बोधनस्य व्युत्पन्नत्वादित्याशयेनाह - प्रकृत्यर्थेति । स्वयं सप्तम्यर्थमाह-किं विति, तस्याः सप्तम्पर्थभूतसमभिव्याहृतदोहनादिक्रियायाः समानकालिकत्वसंबन्धेन क्रियान्तरे= गमनादावन्वयस्तथा च दुह्यमानगो वृत्तिदोहन क्रियासमानकालिकं गमनमिति शाब्दबोधः । दुह्यमानपदोत्तरविशेषणसप्तमी तु साधुत्वार्थकत्वाद् निरर्थकैवेत्युक्तमेव । सप्तम्यर्थदोहन क्रियाया गमनादौ समानकालिकत्व संबन्धेनान्त्रयो हि वर्तमानार्थककृत्समभिव्याहारस्थले एव भवति यथात्र गोषु दुह्यमानासु गतः इत्यत्र - अत्र वर्तमानार्थक शानच्प्रत्ययस्य सत्त्वात्, 'दोग्धव्यासु गोषु गतः इत्यादिभविष्यदर्थककृत्समभिव्याहारस्थले तु सप्तम्यर्थ दोहनक्रियाया गमनादौ प्राक्कालिकत्व संबन्धेनान्वयः - दोहनात् प्रागेव गतत्वात् तथा च दोग्धव्यगोवृत्तिदोहन क्रियाप्राक्कालिकं गमनमिति शाब्दबोधः । ' गोषु दुग्धासु गतः' इत्यायऽतीतार्थककृसमभिव्याहारस्थले तु सप्तम्यर्यदोहनक्रियाया गमनादावुत्तरकालिकत्व संबन्धेनान्वयस्तथा च दुग्धगोवृत्तिदोहनक्रियो तरकालिकं गमनमिति शाब्दबोच इत्याशयेनाह तत्रेति । प्रयोगान्तरमुदाहरति- पाथसीति, तृषाशमनरूप कार्यस्य जलपानं कारणमित्यर्थः । जलपानजन्यं तदुत्तरकालिकं च तृषाशमनमिति शाब्दबोधः । " " " ८ " Aho Shrutgyanam" Page #543 -------------------------------------------------------------------------- ________________ सतिसप्तमी व्युत्पत्तिवादः। (५३१) ‘गुणान्यत्वे सति सत्त्वात् ' इत्यादौ 'सति ' इत्यनन्तरम् ' सतः ' इत्यध्याहार्यम्, अन्यथा लक्षणीयक्रियाऽभावेनोक्तसूत्राविषयतया सप्तम्यनुपपत्तेः, तत्र चास्धातोरर्थ आधारता, गुणान्यत्वाद्याधारतायाश्च सत्ताधारतायां तद्वन्निछत्वं संबन्धतया भासते इतिचिन्तामणिकारोक्तसामानाधिकरण्यलाभनिर्वाहः। 'शयानेन चैत्रेण भुक्तम् ' इत्यादौ शयनभोजनादिक्रिययोः समानकालीनत्वभानेपि तत्र लट्प्रत्ययेनैव समभिव्याहाराद् भोजनादिसमानकालीनत्वं शयनादिक्रियायां बोध्यतेऽतो न सप्तमी-अन्यतस्तदनभिधाने एव सप्तमीविधानात् ।। ॥ इति सप्तम्यर्थविवेचनं समाप्तम् ॥ प्रयोगान्तरमुदाहरति-गुगान्यत्वे इति । 'सतः । इत्यध्याहाराभावे बाधकमाह अन्यथेति, " यस्य च भावेन भावलक्षणम् " इतिसूत्रेणेकपदार्थक्रियया क्रियान्तरस्य लक्षणे व्यावर्तने सप्तमी विधीयते तत्र क्रियान्तरस्य व्यावर्त्यस्यामावे कस्य व्यावर्तनं स्यादिति व्यावर्त्य क्रियाबोधकस्य 'सतः' इति पदस्याध्याहारः कर्तव्य एव. अन्यथा सप्तम्येव न स्यादित्यर्थः । 'सति सतः । इत्यत्र प्रकृतिभूताऽस्धातोरर्थमाह-तत्रेति । गुणान्यत्वं सत्त्वं चैकस्मिन्नेव वर्तेते इति गुणान्यत्वाधारतायाः सत्त्वाधारतायां तद्वनिष्ठत्वेन-गुमान्यत्वाधारतावन्निष्ठत्वेन संबन्धेन (सामानाधिकरण्येन ) अन्वय इत्युभयोराधारतयोः सामानाधिकरण्यलाभ इत्यर्थः । सत्त्वात् (सत्ताश्रयत्वात् ) इतिपञ्चम्यन्तसमभिव्याहारहेतोः 'सतः ' इति षष्ठयन्तं पक्षस्य बोधकम्, सतो नाम विद्यमानस्य सत्तारूपक्रिया विशिष्टस्येति यावत् । शयानेनेति । समभिव्याहारात स्वसमभिव्याहारात्, स्वं लट् । सप्तम्यभावे हेतुमाह--अन्यत इति । तदनभिधाने समानकालिकत्वानभिधाने । मत्र मोजनक्रिया शयनक्रिया चैकस्मिन्नेव चैत्रेस्ति कालभेदबोधकं च नास्तीति लट्प्रत्ययेन समानकालिकत्वं बोधयितुं शक्यते 'गोषु दुह्यमानासु गतः ' इत्यत्रापि यद्यपि लट्प्रत्ययोस्ति तथापि दोहनगमनक्रिययोरधिकरणभेदात् समानकालिकत्वं लटा न बोधयितुं शक्यते इति तत्र सप्तमी जातेत्यऽमिप्रायः प्रतिभाति । वस्तुतस्त्वत्र कर्तृतृतीयया सप्तम्या बाधो जातः, ' दुह्यमानासु ' इत्यत्र तु कर्तृतृतीयायाः प्राप्तिर्नास्तीति ' गोषु दुह्यमानासु सतीषु गतः ' इत्याकारकार्थस्य विवक्षितत्वात् :" यस्य च भावेन " इत्यनेन सतिसप्तमी जातेत्यर्थः ॥ ॥ इति व्युत्पत्तिवादादर्श सप्तमीकारकम् ॥ "Aho Shrutgyanam" Page #544 -------------------------------------------------------------------------- ________________ अथ संबोधनप्रथमा " " चैत्र त्वया भुज्यताम् ' इत्यादी " संबोधने च इति प्रथमा संबोधनमेवाह । तच वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छा । प्रथमार्थतादृशेच्छाया विषयतासंबन्धेन प्रकृत्यर्थविशेषणतया भानम् । अथ संबोध्यत्वज्ञानं विनापि त्वया भुज्यताम्' इत्यादिवाक्याधीनस्य चैत्रदेवक्यार्थबोधस्य भोजनादिप्रवृत्तेश्च निर्वाहात् ' चैत्र ' इत्यादिप्रथमान्तपदप्रयोगोऽनर्थक इति चेत् ?, न- संबोध्यतानुमापकाऽसाधारणाभिमुख्यादिविरहे विशिष्य चैत्रत्वाद्यवच्छिन्ने युष्मत्पदशक्तिग्रहनिर्वाहस्यैव तत्प्रयोजनत्वात्, चैत्रत्वाद्यवच्छिन्ने संबोध्यत्वग्रहं विना संबोध्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नवाचकतत्पदस्य विशिष्य चैत्रत्वाद्यवच्छिन्ने शक्तेर्निश्चेतुमशक्यत्वात् । न चैवमपि यत्रानन्तरवाक्यं न युष्मच्छब्दघटितम् ' चैत्राऽत्र घटोस्ति इत्यादी तत्र संबोधन पदसार्थक्यं दुरुपपादमेवेति वाच्यम्, तत्रापि तत्तद्वाक्ये ' ? क्रमप्राप्तं संबोधनप्रथमार्थनिरूपणमारभते- चैत्रेत्यादिना । संबोधनस्वरूपमाह - तच्चेति । तत् = संबोधनम् । अव्यवहितशब्दः == त्वयेतिशब्दः । त्वयेतियुष्मच्छब्दजन्यो बोधश्चैत्रसमवेतो भवत्वित्याकारकेच्छा वक्तुर्वर्तते एतादृशेच्छा विषयतासंबन्धेन चैत्रे वर्तते चैत्रस्य विषयत्वादित्याह-- प्रथमार्थेति, तथा चात्र ' त्वयेतिशब्द जन्यबोधाश्रयत्वप्रकारिका येच्छा तादृशेच्छाविषयी भूत चैत्र कर्तृकभोजनव्यापारो भवतु ' इति शाब्दबोधस्याकारः । अभिमुखीकरणेच्छाविषयत्वं संबोधनप्रथमार्थ इति युक्तमुत्पश्यामि । शङ्कते—अथेति । संबोध्यत्वज्ञानमिति चेत्रादेः स्वस्मिन् संबोध्यत्वज्ञानं विनापीत्यर्थः } चैत्रादेरिति कर्तृत्वं षष्ठ्यर्थः । परिहरति- नेति, संबोधनकर्तुः ( वक्तुः ) संबोध्यतानुमापक यदसाधारणं प्रेक्षणादिरूपमाभिमुख्यं तत्सत्त्वे तु तेनैव त्वयेत्यादियुष्मच्छब्दस्य चेत्रादौ शक्तिग्रहः संभवतीति संबोधनान्तं चैत्रेत्यादिपदमनर्थकमेव यद्यपि तथापि तादृशाभिमुख्याभावे तु संबोधनान्तपदं विना त्वयेत्यादियुष्मच्छन्दस्य चेत्रादौ शक्तिग्रहो न संभवतीति युष्मच्छब्दशक्तिग्रह निर्वाह एव तत्प्रयोजनम् = चैत्रेत्यादि संबोधनान्तपदप्रयोगप्रयोजनम् - संबोध्यतावच्छेदकवोपलक्षितधर्मावच्छिन्ने एव युष्मच्छब्दशक्तिस्वीकारादित्यर्थः । उक्तार्थमेव विशदयति-चैत्रत्वाद्यवच्छिन्ने इति । तत्पदस्य – युष्मच्छन्दस्य ! पुनराशङ्कते न चैवमपीति । युष्मच्छन्दशक्तिग्रहार्थमेव संबोधनपदसार्थक्यस्योक्तत्वादत्र च युष्मच्छन्दस्यासत्त्वादिति शेषः । उत्तरमाह - तत्रापीति, तत्रापि = युष्मच्छन्दरहितेपि तद्वाक्ये== ' चैत्रात्र घटोस्ति ' इति वाक्ये । अत्र स्वं वक्ता, खोयो यो घटानयनादिरूपो वाक्यार्थस्त " Aho Shrutgyanam" Page #545 -------------------------------------------------------------------------- ________________ -संबोधनप्रथमा] व्युत्पत्तिवादः। (५३३) स्वीयवाक्यार्थबोधार्थोचरितत्वरूपतात्पर्यनिश्चयार्थमेव तत्पदप्रयोगात् । तादृशतात्पर्यनिश्चयं विना श्रुतादपि तत्तद्वाक्याच्चैत्रादेः शाब्दबोधासंभवात् । चैत्रस्याऽश्वानयनादिबोधाय मैत्रस्य च लवणानयनादिबोधायोच्चरितात् सैन्धवमानय , इतिवाक्याद् वैपरीत्येन चैत्रमैत्रयोस्तत्तद्वाक्यार्थबोधवारणाय तदीयतदर्थबोधे तदीयतदोधार्थोचरितत्वरूपतात्पर्यनिश्चयस्य हेतुताया आवश्यकत्वात् । " संख्यातिरिक्तसुबर्थः प्रकृत्यर्थविशेष्यतयैव भासते” इतिनियमे संख्याभेदवत् संबोधनभेदोपि निवेशनीयः. अत: संबोधनस्य प्रकृत्यर्थविशेषणतया भानेपि न क्षतिः। संबोधनस्य (अपि) प्रकृत्यर्थविशेष्यतयैव वा भानमुपेयम् । वस्तुतो नामार्थस्य प्रत्ययार्थमन्तरा कृत्वैव क्रियान्वय इत्यनुरोधात् सुबर्थकर्मत्वादेः प्रकृत्यर्थविशेष्यतयैव भानमुपेयते न तूक्तनियमानुरोधेन- उक्तनियमे दोधार्थ यदुचरितत्वं तादृशोच्चरितत्वरूपतात्पर्यस्य निश्चयश्चैत्रस्य भवत्वित्येतदर्थमेव तत्र चैत्रेत्यादिसंबोधनपदं प्रयुज्यते- अन्यथा 'अत्र घटोस्ति तमानय' इत्यादिवाक्यजन्यार्थबोधः कस्यापि न मवेदित्यर्थः । चैत्रादेः स्वसमवेतबोधोत्पत्यर्थोच्चरितत्वरूपतात्पर्यनिश्वयाभावेऽनिष्टापत्तिमाहतादृशतात्पर्येति । मा भवतु तात्पर्य निश्चय इत्याशङ्कय वाक्यार्थबोधं प्रति तात्पर्यनिश्चयस्यावश्यकतामाह-चैत्रस्येत्यादिना । अत्र वैपरीत्येन नाम चैत्रस्य लवणानयनबोधस्य मैत्रस्य चाश्वानयनबोधस्य वारणायेत्यर्थः । तदीयतदर्थबोधे-श्रोतुरुक्तवाक्यार्थबोधं प्रतीत्यर्थः । तदीयतद्वोधार्थम् श्रोतुरुक्तवाक्यार्थबोधार्थमुच्चरितत्वरूपतात्पर्यनिश्चयस्य हेतुताऽवश्यमस्त्येवेति तात्पर्यनिश्चयस्य वाक्यार्थबोधं प्रति हेतुत्वे सिद्धे 'चैत्रात्र घटोस्ति '. इत्यादिवाक्येपि युष्मच्छन्दर. हिते एतद्वाक्यार्थबोधाय तात्पर्यनिश्चयार्थ चैत्रेतिसंबोधनपदस्यावश्यकतास्त्येवेत्यर्थः ।। ननु " प्रथमार्थतादृशेच्छाया विषयतासंबन्धेन प्रकृत्यर्थविशेषणतया भानम् " इत्यादिना संबोधनरूपप्रधमार्थस्य प्रकृत्यर्थविशेषणतया भानं यदुक्त तन्न संभवति- संख्यातिरिक्तसुबर्थस्य प्रकृत्यर्थविशेष्यतयैव भानस्वीकारादित्याशक्याह- संख्यातिरिक्तेति, तथा च संख्यासंबोधनाभ्यामतिरिक्त एव सुबर्थः प्रकृत्यर्थविशेष्यतया भासते इति नियमो जात इति संबोधनस्य प्रकृत्यर्थविशेषणतयापि माने क्षति: नियमविरोधो नास्तीत्यर्थः । पक्षान्तरमाह- संबोधनस्येति । स्वमतमाह- वस्तुत इति, संख्यातिरिक्तसुबर्थस्य कर्मत्वादेः प्रकृत्यर्थविशेष्यतयेव भानं भवतीत्यत्र “ नामार्थस्य प्रत्ययार्थमन्तरा कृत्वैव क्रियायामन्वयः ॥ इत्ययमेव नियमो बीजमस्ति न तूक्तनियमः="संख्यातिरिक्तसुबर्थः प्रकृत्यर्थविशेष्यतयैव भासते " इति नियमः स्वातन्त्र्येण बीजमस्ति- अस्मिन्नियमे मानाभावात् , “ नामार्थस्य प्रत्ययार्थमन्तरा कृत्वैव क्रियान्वयः" इतिनियमे स्वीकृते तु सुवर्थकर्मत्वादेः क्रियायामन्वयः कर्मत्वादौ च प्रकृत्यर्थ "Aho Shrutgyanam" Page #546 -------------------------------------------------------------------------- ________________ (५३४) सादर्शी व्युत्पत्तिवादः। मानाभावात् । संबोधनविभक्त्यन्तप्रकृत्यर्थस्यान्यत्र विशेषणतयाऽन्वयात् संबो धनस्य विशेष्यतया भानं नियुक्तिकमिति कृतं विस्तरेण ॥ ॥ इति संबोधनप्रथमार्थविवेचनं समाप्तम् ॥ स्यान्वय इत्यर्थादेव सुबर्थकर्मत्वादेः प्रकृत्यर्थविशेष्यत्वं प्राप्तमित्यर्थः । संबोधनस्य प्रकृत्यर्थविशेष्यतया भाने “ एकत्र विशेषणतयान्वितस्य नाऽन्यत्र विशेषणत्वम्" इतिव्युत्पत्तिविरोध. मप्याह- संबोधनविभक्तयन्तेति, प्रकृत्यर्थस्य चैत्रादेः संबोधने विशेषणत्वे एव संबोधनस्य प्रकृत्यर्थविशेष्यत्वं स्यात् तच न संभवति- प्रकृत्यर्थस्य चैत्रादेरन्यत्र भोजनव्यापारादौ कर्तृत्वादिद्वारा विशेषणत्वेनान्वयो भवतीति तस्य चैत्रस्य संबोधने विशेषणतयाऽन्वयो नैव संभवतीति न संबोधनस्य प्रकृत्यर्थविशेष्यत्वं किं तु प्रकृत्यर्थविशेषणत्वमेवेत्यर्थः । टीका व्युत्पत्तिवादस्य ह्याऽऽदशैंतिसमाहृया । कारकान्ता गता पूर्ति सुदर्शनविनिर्मिता ।। ॥ इति संबोधनप्रथमा ॥ "Aho Shrutgyanam" Page #547 -------------------------------------------------------------------------- ________________ अथ स्त्रीप्रत्ययाः प्रातिपदिकप्रकृतिकाः स्त्रियाम् इत्यनेन विहिताष्टाबादयः क्वचित् स्त्रीत्वं प्रकृत्यर्थविशेषणतया बोधयन्ति- 'अजाऽश्वा शूद्रा श्यामा चपला ब्राह्मणी गोरी सुकेशी गर्भिणी' इत्यादौ । स्त्रीत्वं च योनिमत्त्वम् । न च स्त्रीपरपदात् साधुत्वार्थष्टाबादिप्रत्ययो न तु स्त्रीत्वं तस्यार्थः, क्वचित् स्त्रीत्वबोधश्च स्त्रीप्रत्ययप्रकृतितात्पर्यविषयत्वरूपलिङ्गज एवेति वाच्यम्, खट्वादौ व्यभिचारेण ताशहेतोः स्त्रीत्वासाधकत्वात् । प्राणित्वेन विशेषणेपि देवतादौ व्यभिचाराव | वस्तुतस्तु ' अजवत्यप्याजा नास्ति ' इत्यादिप्रयोगात् स्त्रीत्वस्य नञर्थान्वयितावच्छेदकतया भानमावश्यकम् अन्यथा पुंसाधारणजातिविशेषाद्यवच्छिन्नाभावस्य बाधेन तादृशप्रयोगस्य प्रामाण्यानुपपत्तेः । ८८ 77 ८ क्रमप्राप्तं स्त्रीप्रत्ययार्थनिरूपणमारभते- : प्रातिपदिकेत्यादिना । कचिदिति - अजा इत्यादावेव स्त्रीप्रत्यया योनिमत्त्वरूपं स्त्रीत्वं बोधयन्ति न तु ' खट्वा ' इत्यादौ तत्र योनिमवरूपस्त्रीत्वस्यैव बाधेन तद्बोधनासंभवादिति ' खट्वा ' इत्यादौ साधुत्वार्थमेव टाबादयो मत्रन्तीत्यर्थः । उदाहरति- अजेति । स्त्रीत्वस्वरूपमाह - स्त्रीत्वमिति । योनिमत्त्वम् = भगवत्त्वम् । प्रत्ययानां द्योतकत्ववादी शङ्कते - न चेति, स्त्रीपरपदात्= स्त्रीवाचकादऽजादिपदात् । तस्य= स्त्रीप्रत्ययस्य । कचित् = ' अजा ' इत्यादी स्त्रीत्वबोधो हि स्त्रीप्रत्ययप्रकृतिभूतपदस्य यत् स्त्रीत्वबोधानुकूलं तात्पर्य तादृशतात्पर्यविषयत्वरूपा लिङ्गात् = हेतोरेव भवति तस्याजादौ सत्त्वात् न तु स्त्रीप्रत्ययेनेत्यर्थः । अत्र च पूर्वपक्षे " कचित् " इतिपदमसंगतत्वात् प्रक्षिप्तमेवेति प्रतिभाति । परिहारमाह- खट्वादाविति, योनिमत्त्वरूपस्त्रीत्वरहितपदार्थेपि खट्वादौ स्त्रीप्रत्ययप्रकृतिभूतखट्वादिपदतात्पर्यविषयत्वरूपो हेतुरस्त्येव न चास्ति तत्र खट्वादी स्त्रीत्वमिति हेतोर्व्यभिचारित्वं प्राप्तं व्यभिचारिणश्च नैव साधकत्वं भवतीत्यर्थः । ननु प्राणित्वसमानाधिकरणं यत् स्त्रीप्रत्ययप्रकृतिभूतपदतात्पर्यविषयत्वं तत् स्त्रीत्वानुमापकं लिङ्गमिति वक्ष्यामः खट्वादौ च प्राणित्वस्याभावात् प्राणित्वसमानाधिकरणं स्त्रीप्रत्ययप्रकृतितात्पर्यविषयत्वं नास्तीति न व्यभिचारित्वमित्याशङ्कयाहप्राणित्वेनेति, एवमपीन्द्रादिदेवतायां प्राणित्वसत्त्वात्प्राणित्वसमानाधिकरणं स्त्रीप्रत्ययप्रकृतिभूतदेवतापदतात्पर्यविषयत्वं लिङ्गं त्वस्ति नास्ति चानुमेयं स्त्रीत्वम् - इन्द्रादिदेवतानां पुंस्त्वविशिष्टत्वाद् देवतापदस्य पुंस्त्वविशिष्टव्यक्तिवाचकत्वाच्च देवतादौ व्यभिचारित्वं प्राप्तमित्यर्थः । स्त्रीप्रत्ययस्य स्त्रीत्ववाचकत्वे युक्तयन्तरमाह - वस्तुतस्त्विति । नञर्थेति - 'अजा नास्ति इत्यत्र स्त्रीत्वविशिष्टाजात्वावच्छिन्नप्रतियोगिताकाभावस्य प्रतीयमानस्य प्रतियोगित्वसंबन्धेनाजायामन्वयेन स्त्रीत्वमप्यस्वयितावच्छेदकतया भासते तद्मानं च स्त्रीप्रत्ययादेव वक्तव्यमिति स्त्रीप्रत्ययानां स्त्रीत्ववाचकत्वं प्राप्तमेवेत्यर्थः । स्त्रीत्वमानाभावे : बाधकमाह- अन्यथेति, अजवति देशेऽजत्वावच्छिन्नप्रति "Aho Shrutgyanam" Page #548 -------------------------------------------------------------------------- ________________ ( ५३६ ) सादर्श: [ स्त्रीप्रत्ययाः । न च प्रातिपदिकार्थ एव स्त्रीत्वं तस्य च तदर्थे एव जात्यादिमति विशेषणत्वेनान्वयः स्त्रीप्रत्ययास्तु द्योतका एव. अत एव - स्वार्थी द्रव्यं च लिङ्गं च संख्या कर्मादिरेव च । अमी पञ्चैव नामार्थास्त्रयः केषां चिदग्रिमाः ॥" इतिशाब्दिकानां कारिकापि संगच्छते, तत्र- स्वार्थः जात्यादिरूपो गवादिपदमुख्यार्थः, द्रव्यम् = गवादिरूपस्तद्धर्मी तन्मते औपचारिको गवादिपदार्थः, लिङ्गस्य प्रातिपदिकार्थत्वमावश्यकमेव - ' नात्र ब्राह्मणोऽपि तु ब्राह्मणी' इत्यादी पुंस्त्वबोधक पदान्तराभावेन तद्बोधानुपपत्तेः । ब्राह्मणादिपदाच्च जात्यादेर्द्रव्यस्य च भानं नियतमेव लिङ्गमानं तात्पर्ययोग्यताधीनं काचित्कम्- ब्राह्मणी इत्यादी पुंस्त्वाद्यबोधादिति वाच्यम्, उक्तयुक्त्या पुंस्त्वस्य प्रातिपदिकार्थत्वेऽप्यनन्तानां प्रातिपदिकपदानां स्त्रीत्वार्थकत्वे गौरवात् लाघवेनाल्पीयसां स्त्रीप्रत्ययानां तदर्थकत्वकल्पनौचित्यात् : अत एव स्त्रीत्वसंग्रहाय " प्रातिपदिकार्थ इत्यादिसूत्रे लिङ्गग्रहणम्, अन्यथा प्रातिपदिकार्थे एव तदन्तर्भावेन पृथक्. तदुपादानानुपपत्तेः । ?? कचित् स्त्रीप्रत्ययः स्त्रीत्वं भार्यात्वेन प्रकृत्यर्थविशेष्यतया बोधयतियोगिताका भावस्य बाधितत्वेन तद्बोधने अजा नास्ति ' इति वाक्यस्य प्रामाण्यं न स्यादेव. अस्ति च प्रामाण्यमित्युक्तस्थले स्त्रीत्वमानमावश्यकमित्यर्थः । वैयाकरणमतेनाशङ्कते - न चेति । तस्य= स्त्रीत्वस्य । तदर्थे = प्रातिपदिकार्थे । अत एव = स्त्रीस्वस्य प्रातिपदिकार्थत्वादेव । कर्मादिकर्मत्वादिकमपि प्रातिपदिकार्थ एव द्वितीयादिविभक्तीनामपि द्योतकत्व स्वीकारात् । केषांचित् केषांचिन्मते । अग्रिमा: स्वार्थद्रव्यलिङ्गानि । उक्तकारिकां व्याचष्टे-तत्रेत्यादिना । जात्यादिरूपः = गोत्वादिरूपः । तद्धर्मी = गोत्वाद्याश्रयभूता व्यक्तिः । तन्मते = वैयाकरणमते । मीमांसकमतवदिति शेषः । लिङ्गस्य प्रातिपदिकार्थत्वमाह - लिङ्गस्येति । तद्बो'धानुपपत्तेः लिङ्गबोधानुपपत्तेर्लिङ्गमपि प्रातिपदिकार्थो भवत्येवेत्यर्थः । स्वार्थद्रव्यलिङ्गानां मानस्य विशेषमाह-ब्राह्मणादिपदादिति । लिङ्गमानम् = लिङ्गविशेषभानम् । 'ब्राह्मण:' इत्यत्र तात्पर्य योग्यताभ्यां पुंस्त्वभानं भवति 'ब्राह्मणी' इत्यत्र च स्त्रीत्वभानमित्यर्थः । उक्ते हेतुमाह- ब्राह्मणीति । परिहरति- उक्तयुक्तयेति, उक्तयुक्तया " नात्र ब्राह्मणः " इत्यादियुक्त्या | तदर्थकत्व = स्त्रीत्वार्थकत्व । पुंप्रत्ययास्तु न सन्ति येषां पुंस्त्वबोधकत्वं स्यादिति पुंस्त्वं प्रातिपदिकार्थ: एव स्त्रीप्रत्ययास्तु पृथक् सन्तीति तेषामेव स्त्रीत्वबोधकत्वं युक्तमुक्तलाघवादिति भावः । स्त्रीप्रत्ययानां 'स्त्रीत्वबोधकत्वे मानमाह- अत एवेति । अत एव = स्त्रीप्रत्ययानां स्त्रीत्वबोधकत्वादेव । विपक्षे बाधकमाह - अन्यथेति, यदि स्त्रीत्वं प्रातिपदिकार्थ एव स्यात्तदा प्रातिपदिकार्थग्रहणेनैव स्त्रीत्वस्य प्राप्तत्वात् लिङ्गप्रहणमनर्थकं स्यादित्यर्थः । तदन्तर्भावेन = तस्य स्त्रीत्वस्यान्तर्भावेन । विशेषान्तरमाह-- कचिदिति । कचित् = " पुंयोगादाख्यायाम् " इत्यादिसूत्रविहितप्रत्ययस्थले । स्त्रीत्वम् " इत्यत्र स्त्रियम् " इति पाठस्तु न युक्तः - स्त्रीप्रत्ययानां स्त्रीत्वबोध 66 66 46 6 "Aho Shrutgyanam" , Page #549 -------------------------------------------------------------------------- ________________ स्त्रीप्रत्ययाः ] व्युत्पत्तिवादः । ( ५३७ ) * " "> " आचार्याणी ' ' मनावी ' शूद्री' इत्यादी । भार्यात्वं संबन्धविशेषः, तत्रैव च निरूपकत्वेन प्रकृत्यर्थान्वयः । खट्वाऽटवीदेवतादिपदे च स्त्रीप्रत्यया नार्थबोधकाः- तत्र प्रकृत्यर्थे योनिमत्त्वरूपस्त्रीत्वस्याऽयोग्य तयाऽनन्वयात् । न च शब्दगतं स्त्रीत्वादिरूपधर्मान्तरमेव तत्र परम्परासंबन्धेनाऽर्थगततया भासते इतिश्रीपतिदत्तोक्तं युक्तम्-तद्भाने मानाभावात् । • यूरुयाख्यौ इत्यत्र रूपाख्यपदं स्त्रीलिङ्गशब्दपरं न तु स्त्रीत्वविशिष्टार्थकशब्दपरं तेनाइटव्यादिशब्दानां स्त्रीत्वविशिष्टाऽबोधकत्वेपि न नदीसंज्ञानुपपत्तिः, अत एव श्रीभूप्रभृतीनां स्त्रीप्रत्ययान्तत्वाभावेन स्त्रीत्वविशिष्टाऽबोधकत्वेपि नदीसंज्ञाप्रसक्त्या " नेयडुस्थानी इतिनिषेधसंगतिः । न चैवम् ' सेनान्ये स्त्रियै ' इत्यादावपि नदीसंज्ञा स्यात् सेनान्यादिशब्दस्य तत्र विशेष्यनिघ्नतया स्त्रीलिङ्गत्वादिति वाच्यम्, प्रयोगानुसारेण विशेष्यसमभिव्याहारानधीनायाः स्त्रीलिङ्गताया विवक्षणीयत्वादिति संक्षेपः ॥ ॥ इति स्त्रीप्रत्ययविवेचनं समाप्तम् ॥ ८८ ८८ "" कत्वस्यैवोक्तत्वात् । भार्यात्वेन विशेषरूपेण न तु स्त्रीत्वेन सामान्यरूपेणेति भावः । भार्यात्वमाहभार्यात्वमिति । तत्र = भार्यात्वे प्रकृत्यर्थस्य आचार्यादेर्निरूपकत्वेन रूपेणान्वयः प्रकृत्यर्थाचार्यादेरेव तत्र भार्यात्वनिरूपकत्वात् निरूपितत्वं च तत्र संबन्धः । आचार्याणीत्यस्य आचामार्या आचार्यनिरूपितभार्यात्ववती वेत्यर्थः । विशेषान्तरमाह - खट्वेति । अर्थबोधकाः स्त्रीत्वबोधकाः । प्रकृत्यर्थे खट्वादिपदार्थे । शङ्कते - न चेति । धर्मान्तरम् = योनिमत्त्वाभिन्नम् । - तत्र = खट्वादौ । परम्परासंबन्धेन = स्वाश्रयशब्दवाच्यत्व संबन्धेन स्वं स्त्रीत्वरूपधर्मान्तरं तदाश्रयो यः खट्वादिशब्दस्तद्वाच्यत्वं खादिपदार्थेऽस्त्येवेति तेन संबन्धेनेत्यर्थः । अर्थगततया = खट्वादिपदार्थे । परिहरति- तद्भाने इति । तद्भाने शब्दगतधर्मस्य तद्वाच्यार्थगततया माने । विषयान्तरमाह - यूरुपाख्याविति । फलमाह - तेनेति । अत एव = " यूख्याख्यो नदी " इतिसूत्रे स्त्र्याख्यपदस्य स्त्रीलिङ्गशब्दपरत्वादेव श्रीभूप्रभृतिशब्दानां स्त्रीलिङ्गत्वान्नदीसंज्ञा प्राप्ता तस्याः नेयवस्थानी इत्यनेन निषेधः क्रियते, यदि ख्याख्यपदं स्त्रीत्वविशिष्टार्थकशब्दपरं स्यात्तदा श्रयादिशब्दानां स्त्रीत्वविशिष्टार्थकत्वाभावेन नदीसंज्ञाप्राप्तेरभावान्नदी संज्ञा निषेधो ऽसंगत एव स्यादित्यर्थः । ननु यदि रूपाख्यपदं स्त्रीलिङ्गशब्दपरमेव तदा ' सेनान्ये स्त्रियै सेनानीशब्दस्यापि नदीसंज्ञा स्यात्तया च नदीकार्य स्यादित्याशङ्क्याह- न चेति । परिहारमाह-- प्रयोगेति : तेषां स्त्रीलिङ्गशब्दानां नदीसंज्ञा भवति येषां विशेष्यसमभिव्याहारं विनापि स्त्रीलिङ्गत्वं भवति यथा गौर्यादिशब्दानां सेनानीशंब्दस्य त्वत्र स्त्रीशब्दसमभिव्याहारादेव स्त्रीलिङ्गत्वमस्ति न तु स्वातन्त्र्येणेति न सेनानीशब्दस्य नदीसंज्ञाप्राप्तिसंभवो येन नदीकार्येणाऽऽडागमेन 'सेनान्यै ' इति प्रयोगः स्यादित्यर्थः ॥ " इत्यत्र ॥ इति व्युत्पत्तिवादादशैं स्त्रीप्रत्ययाः ॥ "" 32 " Aho Shrutgyanam" Page #550 -------------------------------------------------------------------------- ________________ अथ तद्धितप्रत्ययाः तद्धितप्रत्यया अपि नामप्रकृतिकाः क्वचित् प्रकृत्यर्थेन स्वार्थंकदेशस्य क्वचिच तेन स्वार्थस्यान्वयबोधं जनयन्ति । तत्र 'मार्गिः ' इत्यत्रापत्यार्थविहिततद्धितार्थस्याऽपत्यस्यैकदेशे जन्यत्वे निरूपकतया प्रकृत्यर्थगर्गाधन्वयः । 'गाग्यः' इत्यादौ तद्धितार्थगोत्रापत्यैकदेशपुत्रत्ववटकजन्यत्वे तथा तदन्वयः । 'गाायणः ' इत्यादौ तद्धितार्थस्य युवापत्यस्यैकदेशे जन्यत्वे गार्ग्यस्य “ जीवति तु वंश्ये युवा " इतिपरिभाषितयुवार्थघटकजीवने च गर्गादेरन्वयस्तेन 'गर्गादिजीवनकालीनो गर्गगोत्रापत्यस्यापत्यमयम्' इति बोधः । 'मानिष्ठं वासः ' इत्यत्र " तेन रक्तम् " इत्यर्थ तद्धितो विहितः, तत्संबन्धाधीनतदीयरूपारोपविषयत्वं तेन रक्तत्वम् । 'शखः पीतः' इत्यारोपमादाय शवादेरारोप्यपीतिमाद्याश्रयहरितालादिरक्तत्वस्य वारणायाधीनान्तमारोपे विशेषणम् । पटादेश्चक्षुरादिना रक्तत्वस्य वारणाय तदीयत्वं रूप क्रमप्राप्तं तद्धितप्रत्ययार्थनिरूपणमारभते-तद्धितेत्यादिना । अपीति-यथा स्त्रीप्रत्यया नामप्रकृतिकास्तथा तद्धितप्रत्यया अपि नामप्रकृतिका इत्यर्थः । तेन प्रकृत्यर्थेन सह । उक्तान्वयबोधमुदाहरति-तत्रेति । तजन्यत्वमेव तदपत्यत्वमस्तीति जन्यत्वमपत्यैकदेश एव तञ्च जन्यत्वमत्र गर्गनिरूपितमेवेति तत्र निरूपकत्वेन रूपेण गर्गस्यान्वयः, गर्गनिरूपितजन्यताश्रयो गार्गिरिति शाब्दबोधः । गार्य इति गर्गस्य पौत्रपरस्तत्र तद्धितप्रत्ययार्थभूतं यद् गोत्रापत्यम् (पौत्रः ) तदेकदेशभूतं यत् पुत्रत्वं तद्घटकजन्यत्वे तथा निरूपकतया तदन्वयः-गर्गान्वयस्तथा च गर्गनिरूपितजन्यताश्रयपुत्रापत्यमिति शाब्दबोधः । गर्गप्रपौत्रो गाायणस्तत्र गर्गपौत्रभूतगार्यनिरूपितजन्यता वर्तते, जीवनं च तत्र गर्गस्यापेक्षितमिति जीवने गर्गान्वय इत्यर्थः । ___ प्रत्ययान्तरमुदाहरति-माजिष्टमित्यादिना । तेन रक्तत्वपदार्थमाह- तत्संबन्धेति, तत्संबन्धाधीनः मञ्जिष्ठासंबन्धाधीनो यस्तदीयरूपारूप: मञ्जिष्ठारागारोपस्तद्विषयत्वमित्यर्थः । मलि. ष्ठया रक्ते बस्ने मञ्जिष्ठासंबन्धोपि वर्तते वस्त्रोपरिस्थितमञ्जिष्ठावयवानामेव रूपस्य वस्त्रगततया भानं भवतीति मजिष्टारूपारोपविषयत्वमपि वर्तते इत्यर्थः । 'पीतः शङ्खः ' इत्यत्र यद्यपि शङ्ख पीतरूपारोपोस्त्येव तच्च पीतरूपं हरिताले वास्तवमप्यस्त्येव तथापि स पीतरूपारोपो हरितालसंबन्धप्रयुक्तो नास्तीति तद्वारणाय " तत्संबन्धाधीन " इत्युक्तम्. अन्यथा ' हारितालः शङ्खः' इत्यपि स्यादित्यर्थः । चक्षुषि विकारे सत्यपि वस्त्रस्य रक्तत्वं प्रतीयते तद्वारणाय तदीयत्वं रूपविशेषणमुक्तमित्याह-पटादेरिति, तत्र पटे प्रतीयमानं रूपं चाक्षुषं न भवतीति न ' चाक्षुषं वासः । इति प्रयोगापचिरित्यर्थः । किं वा तदीयेति विशेषणं त्यक्त्वा "Aho Shrutgyanam" Page #551 -------------------------------------------------------------------------- ________________ सास्मिन्पौर्णमासीतिसूत्रम् ] व्युत्पत्तिवादः । ( ५३९ ) विशेषणम् । अत्र च रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धिताथैकदेशसंबन्धे प्रतियोगितया रूपे चाश्रयतयाऽन्वयः । > ८ शूल्यम् उख्यम् ' इत्यादौ तद्धितार्थ संस्कृतैकदेशे. पाकादिरूपसंस्कारे शूलोखादेः प्रकृत्यर्थस्याधिकरणत्वेनान्वयः । ८ " पौषी रात्रिः' इत्यादौ नक्षत्रयुक्तकालार्थे तद्धितः कालस्य नक्षत्रयुक्तत्व च तन्नक्षत्रशशिभोगाश्रयत्वं तदेकदेशे शशिभोगे कर्मतया तन्नक्षत्रान्वयः । C ८ , 'पौषो मासः ' ' पौषो वर्ष : ' इत्यादौ " साऽस्मिन् " इत्यनेन विहितस्य तद्धितस्य पौर्णमासीघटितत्वावच्छिन्नोऽर्थः पौर्णमास्यां प्रकृत्यर्थपौष्यादेरभेदेनान्वयः । पौषादिपदं च न केवलं यौगिकम्- ' पौषः पक्षः ' इत्यादिव्यवहारविरहात्, अतो रूढमपि, अत एव सूत्रे संज्ञाग्रहणम् । रूढिनिरूपकतावच्छेदकं " तत्संबन्धाधीनरूपारोपविषयत्वं तेन रक्तत्वम् ” इत्युक्ते पटादौ यः खलु रूपारोपः स चक्षुस्संबन्धाधीन एव भवतीति चक्षुस्संबन्धाधीनरूपारोपविषयत्वं पटे प्राप्तं तदेव च तेन रक्तत्वमिति पटादेश्चक्षुरादिनापि रक्तत्वं प्राप्नुयात् तेन च ' चाक्षुषं वासः ' इति प्रयोगः स्याद् न चैतदिष्टमिति तदीयत्वं रूपविशेषणं दत्तं तथा चारोप्यमाणं रूपं न चक्षुषः किं तु मजिवादेवेति न पटादेश्चक्षुरादिना रक्तत्वापत्तिरित्यर्थः । ' माजिष्टम् ' इत्यत्र तद्धितप्रत्ययार्थस्तेन रक्तत्वं तच्च तत्संबन्धाधीनतदीयरूपारोपविषयत्वं तदेकदेशभूते तद्घटके संबन्धपदार्थे प्रकृत्यर्थमञ्जिष्ठायाः प्रतियोगितयाऽन्वयस्तद्घटकरूपे चाश्रयतयान्वय इत्याह-अन्नेति । तथा च मञ्जिष्ठाप्रतियोगिकसंबन्धाधीनो यो मञ्जिष्ठाश्रितरूपस्यारोपस्तद्विषय:पटः इति शाब्दबोधः । , ८ प्रत्ययान्तरमुदाहरति-- शूल्यमिति । शूले संस्कृतं शूल्यमित्यर्थः । शूलाधिकरणक संस्कारवदिति बोधः । प्रत्ययान्तरमुदाहरति--पौषीति, “नक्षत्रेण युक्तः कालः" इति सूत्रविहितोऽण्प्रत्ययः । सूत्रोक्तं कालस्य नक्षत्रयुक्तत्वं निर्वक्ति-कालस्येति, नक्षत्राणि हि राश्यवान्तरस्थानानि तथा च यदा पुष्यनक्षत्रे शशी भवति तदा पुष्यनक्षत्रमित्युच्यते तथा च तनक्षत्रकर्मकः शशिकर्तृको यो भोगस्तदाश्रयत्वं कालेप्यस्त्येव कालस्य सकलाश्रयत्वादिति तदेव कालस्य तन्नक्षत्रयुक्तत्वं तदेकदेशभूतभोगकर्मत्वं तन्नक्षत्रे एवेत्यर्थः । पुष्ययुक्ता हि रात्रिः पौषीत्युच्यते । प्रयोगान्तरमुदाहरति- पौष इति, पुष्येण युक्ता पौर्णमासी पौषी सा यस्मिन् मासे वर्षे वा समासो वर्षो वा पौष इत्युच्यते । पौर्णमासीघटितत्वावच्छिन्नः = पौर्णमासीघटितः । अभेदान्वय इति - पौवी चासौ पौर्णमासीत्यभेदान्वयः । तथा च पौष इत्यस्य पुष्यनक्षत्रयुक्तपौर्णमासीघटित इत्यर्थः । अत्र पौषादिपदं योगरूढमेवेत्याह- पौषादीति । अत एव = पौषादिपदस्य योगरूढत्वादेव । रूढं वा योगरूढं वा पदं संज्ञेत्युच्यते न तु यौगिक मपीत्यर्थः "Aho Shrutgyanam" Page #552 -------------------------------------------------------------------------- ________________ (५४०) सादर्श: [तद्धितप्रकरणेच मासनिष्ठशुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वं न तु विंशत्तिाथरूपमासत्वमात्रम्-'यत्किचित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासव्यवहारेपि चान्द्रसौरपौ'पादिबहिर्भूतपौष्यादिघटितत्रिंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहारविरहात् । ___ अथैवमपि सौरे पौषादिव्यवहारस्य निर्विवादतया धनुःस्थरविविशिष्टत्वमेव न कथं पोषादिपदशक्यतावच्छेदकमुपेयते इतिचत् ?, : न- सौरे पौषादौ पौष्यादिपूर्णिमाया अलाभे योगरूढिलभ्यपौषपदार्थविलोपापत्तेः । न च तत्र रूढिमात्रमवलम्ब्यैव पौषादिव्यवहारः सौरपौषादौ मुख्य इति वाच्यम्, तथा सति योगार्थव्युत्पादनवैयर्थ्यात् । अथ विलुप्यतां वर्षविशेषे पौषादिपदमुख्यार्थः (व्यवहारः) का क्षतिः ? " सास्मिन् " इति सूत्रे तु संज्ञाग्रहणं नास्ति किं तु " संज्ञायां श्रवणाश्वत्थाभ्याम् " इतिसूत्रात् संज्ञापदमनुवर्त्यते । ननु मासपरपौषपदस्य कुत्र रूढिरस्तीति जिज्ञासायामाह- रूढिनिरूपकतेति, व्यवच्छेद्यमाह- न विति, यद्यपि कृष्णचतुर्थ्यादितिथिमारभ्य तदग्रिमकृष्णतृतीयादितिथिपर्यन्तं त्रिंशत्तिथिषु मासत्वव्यवहारो भवति तथापि चान्द्रसौरमासत्वव्यवहारस्तु नैव भवति चान्द्रमासव्यवहारस्य प्रतिपदमारभ्येव प्रवृत्तत्वात् सौरमासव्यवहारस्य च संक्रान्तिमारभ्यैव प्रवृत्तत्वादिति चान्द्रसौरमासभूतपोषादिबहिर्भूतासु पौष्यादि-पुष्ययुक्तपूर्णिमावटितत्रिंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहाराभावात् पौषादिपदरूढिनिरूपकतावच्छेदकं मासनिष्ठशुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वमेव न तु त्रिंशत्तिथिरूपमासत्वमात्रमित्यर्थः । अत्र “तिथ्यन्तर्गत" इति पाठस्त्वधिक एवं प्रतिभाति । ननु सौरमासेपि पौषव्यवहारो मवत्येव तादृशसौरे पौषमासे कालिकसंबन्धेन धनुस्स्थरविधिक शिष्टत्वस्य सत्त्वाद् धनुस्स्थरविविशिष्टत्वमेव पौषपदशक्यतावच्छेदकमस्तु न तूक्तं मासनिष्ठशुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वमित्याशङ्कते- अथैवमिति । परिहरति- नेति, धनुस्स्थरविविशिष्टत्वस्य पौषपदशक्यतावच्छेदकत्वे यदा सौरे पौषमासे पुष्ययुक्ता पूर्णिमा स्यात्तदैव तत्र पौषव्यवहारः स्यान्न तु पुष्ययुक्तपूर्णिमाया अलामेपि. यस्मिंश्च मासे पुष्ययुक्ता पूर्णिमा तस्मिन् धनुस्थरविविशिष्टत्वस्याभावादिति पौषपदार्थस्याऽभाव एव प्रसज्येत, योगरूढिपक्षे तु मासनिष्ठ. शुक्लप्रतिपदादिदीन्ततिथिसमुदायत्वस्य पौषपदशक्यतावच्छेदकत्वेन पौषपदार्थविलोपापत्तिर्नास्तीत्यर्थः । पुनराशङ्कते- न चेति, तत्र चोष्यादिपूर्णिमाया अलाभस्थले । रूढीति- पौषपदनिष्टरूढिमात्रमवलम्व्येत्यर्थः । परिहारहेतुमाह- तथा सतीति, “ सास्मिन् ' इतिसूत्रेण योगार्थव्युत्पादनस्य यस्मिन् मासे पुष्ययुक्ता पूर्णिमा स मासः पौष इति योगार्थव्युत्पादनस्य रूढिमात्रपक्षे वैयर्थं स्यादित्यर्थः । ननु वर्षविशेषे=कस्मिंश्चिद्वर्षे नाम यस्मिन् वर्षे सौरपौषमासे ( धनुस्स्थरविविशिष्टकाले ) पुष्ययुक्तपूर्णिमा नोपलभ्येत तादृशवर्षे-ताशवर्षवटकसौरपौषमासे विलुप्यतां पौषादिपदमु "Aho Shrutgyanam" Page #553 -------------------------------------------------------------------------- ________________ उक्तपौषादिपदार्थविचारः] व्युत्पत्तिवादः। तत्र लक्षणया सौरमासे पौषव्यवहारस्योपगन्तव्यत्वात् स्थल पद्मादौ पङ्कजव्यवहारवदिति चेत् ?, तर्हि तत्र पोषादिपदमुख्यार्थमासनिमित्तकाऽब्दिकश्राद्धादिविलोपप्रसङ्गः। __ यथाश्रुतशूलपाणिग्रन्थानुसारिणस्तु-धनुरादिस्थरव्यारब्धशुक्ल प्रतिपदादिदर्शान्तेषु धनुरादिस्थरविसमाप्यमकरादिस्थरविसंक्रान्तिमन्मासभिन्नधनुरादिस्थरव्य.. ऽधिकरणशुक्लप्रतिपदादिदर्शान्तेषु वा पौषादिपदस्य रूढत्वमेव स्वीकुर्वन्ति न तु यौगिकत्वम्-" अन्त्योपान्त्यौ त्रिभौ ज्ञेयो ” इतिवचनात्, पौषादिमासीयख्यार्थः पुष्ययुक्तपूर्णिमाघटितत्वलक्षणपोषादिपदमुख्यव्यवहार एतावतापि क्षतिर्नास्ति- तत्र= एतादृशोक्तवर्षे नाम पुष्ययुक्तपूर्णिमारहितवर्षघटके पुष्पयुक्तपूर्णिमारहितसौरपौषमासे लक्षणया पौषव्यवहारो भविष्यति- एतादृशमासस्य पुष्ययुक्तपूर्णिमाघटितमाससदृशत्वात्, यथा स्थलपभादौ पङ्कजनिकर्तृत्वाभावेपि लक्षणया सादृश्यात् पङ्कजपदप्रयोगो भवति तथा, उक्तं सूत्रे योगार्थव्युत्पादनं च न व्यर्यम्- यस्मिन् वर्षे सौरपौषमासे पुष्ययुक्ता पूर्णिमा स्यात् तत्र मुख्यपौषपदव्यवहारलाभेन उक्तयोगार्थव्युत्पादनस्य सार्थक्यादित्याशङ्कते- अथेति । उसरमाह- तीति, एवं हि तत्रयस्मिन् वर्षे सौरपौषमासे पुष्ययुक्ता पूर्णिमा न स्यात्तादृशसौरपौषमासे पौषपदस्य लक्षणाश्रयणात् तादृशसौरपौषमासस्य मुख्यपौषमासत्वाभावात् तत्र प्राप्तस्थाब्दिकश्राद्धादेविलोप एव स्यात्- आब्दिकश्राद्धादेमुख्यपौषादिमासनैमित्तिकत्वात्, लक्ष्यार्थस्य च व्यवहारप्रयोजकत्वाभावात्, तादृशोक्तवर्षे च पौषादिपदमुख्यार्थभूतपौषमासस्य पुष्ययुक्तपूर्णिमायुक्तस्याभावादिति दोषः स्यात्, न चाब्दिकश्राद्धादिविलोप इष्ट इति पौषपदशक्य. तावच्छेदकं शुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वमेव न तु धनुस्स्थरविविशिष्टत्वमित्यर्थः । उक्ततिथिसमुदायस्तु पौषादिपदस्य मुख्यार्थ एव तस्य च प्रतिवर्ष लाभान श्राद्धादिविलोपापत्तिरिति । मतान्तरमाह- यथाश्रुतेति । धनुरिति- धनुरादिस्थरव्यारब्धेषु शुक्लप्रतिपदमारभ्य दर्शान्तेषु मासेषु किं वा धनुरादिस्थरविसमाप्या ये मकरादिस्थरविसंक्रान्तिमन्माधादिमासमिन्ना धनुरादिस्थरव्यधिकरणीभूताः शुक्ल प्रतिपदमारभ्य दर्शान्ता मासास्तेषु पौषादिपदानां रूढत्वमेव न तु यौगिकत्वमित्यर्थः । धनुरादिस्थरव्यारब्धशुक्लप्रतिपदमारभ्य माघादिमासीयदर्शान्तदिनेषु पौषादिपदानां रूढित्वनिरासाय मकरादिस्थरविसंक्रान्तिमन्मासभिन्नतिविशेषणं द्वितीयपक्षे प्रक्षिप्तम् । उक्त प्रमाणमाह- अन्त्येति, तथा हि “ अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः । शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यवस्थया ।।" अस्यार्थ:-कार्तिकमासमारभ्य गणनयाऽन्त्यो मास आश्विन उपान्त्यश्च भाद्रपदः फाल्गुनश्चैते त्रयो मासास्त्रिभा: नक्षत्रत्रयप्रयुक्ता विज्ञेयाः शेषा मासा द्विभाः-नक्षयद्वयप्रयुक्ता विज्ञेया यथा चैत्रस्य पूर्णिमा चित्रानक्षत्रेण वा स्वातिनक्षत्रेण वा युक्ता भवतीति. द्विभत्वम्, आश्विनस्य "Aho Shrutgyanam" Page #554 -------------------------------------------------------------------------- ________________ सादर्शः [ तद्वितप्रकरणे पौर्णमास्यां पुष्यादियोगस्यानियमात् । न च योगानादरे लायवात तत्तद्राशिस्थरविविशिष्टकालरूपसौरादिमासे एव पौषादिपदशक्तिरुचितेति वाच्यम्, “सा वैशाखस्याऽमावास्या या रोहिण्या संबध्यते " इत्यादिश्रुतिबलाच्चान्द्रे एव वैशाखादिपदशक्तिसिद्धेः । __वस्तुतः " नक्षत्रेण युक्तः कालः' इत्यत्र नक्षत्रयोगयोग्यत्वमेव विवक्षितम्- पुष्याद्ययुक्तायामाप पौषादिपूर्णिमायां पौष्यादिव्यवहारात्, अन्यथा "माध्यां यदि मवा नास्ति " इत्यादेरसंगत्यापत्तेः । पुष्यादियोगयोग्यता च पूर्णिमा रेवत्या वाऽश्चिन्या वा भरण्या वा संयुक्ता भवतीति त्रिभत्यं प्राप्तम्, एषमन्यत्रापि शेयम्कालमाधवेप्युक्तम्-- " दर्शान्तानां वा पूर्णिमान्तानां वा मासविशेषाणां चैत्रादिसंज्ञा नक्षत्रप्रयुक्ता यस्मिन्मासे पूर्णिमा चित्रानक्षत्रेग युज्यते स चैत्रः, एवं वैशाखादिषूनेयम्, चित्राविशाखादियोगस्योपलक्षणत्वात् कचित् चित्रादिप्रत्यासन्नत्वात्यनुराधादियोगेपि चैत्रवैशाखादिसंज्ञा न विरुध्यते । चैत्रादिश्रावणान्तानां चित्रादिनक्षत्रद्वन्द्वं प्रयोजकं भाद्रपदाश्वयुजोस्तु शतभिषारेवत्यादिकम् ( यथासंख्यम् ) त्रिकं कार्तिकादिमाघान्तानां कृत्तिकादिद्वन्द्वं फाल्गुनस्य पूर्वाफल्गुच्यादित्रयमिति विवेकः '' इति संकर्षणकाण्डेप्युक्तम्-- "द्वे वे चित्रादिताराणां परिपूर्णेन्दुसंगमे । ___ मासाश्चैत्रादयो ज्ञेयाः, त्रिकैः षष्ठान्त्यसप्तमाः " इति । षष्ठः भाद्रपदः । सप्तमः आश्विनः । अन्त्यः काल्गुनः । चैत्रादत्र गणना कर्तव्येत्यलम् । रूढस्वस्वीकारे हेतुमाह- पौषादीति, पुष्यादियोगसत्त्वे एव पौषादिपदस्य यौगिकत्वं संभवति न च पौषादिपौर्णिमायां पुष्यादियोगो नियत इति रूढत्वमेव युक्तमित्यर्थः । केवलरूढित्वस्वीकारपक्षे शङ्कते- न चेति, योगानादरे यौगिकत्वास्वीकारे । उक्तधनुरादिस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्तेषु पोषादिपदशक्तिस्वीकारे गौरवमस्ति- शक्यतावच्छेदकस्य गुरुत्वात् तत्त. द्राशिस्थरविविशिष्टकालरूपसौरादिमासे पौषादिपदशक्तिस्वीकारे च लाघवमस्ति- शक्यतावच्छेदकस्य लघुत्वादित्यर्थः। परिहारहेतुमाह- सेति, “सा वैशाखस्य " इत्यादिश्रुत्या चान्द्रमासे एव वैशाखादिपदशक्तिः सिध्यतीति न सौरमासे पौषादिपदानामपि शक्तिरित्यर्थः । अमावास्याया रोहिण्या संबन्धश्चान्द्रवैशाखे एव संभवति न तु नियमेन सौरवैशाखेपि- सौरवैशाखस्य ज्येष्ठचैत्रयोरप्युत्कर्षापकर्षसंभवात, किं वाऽमावास्यापूर्णिमादिव्यवहारश्चान्द्रमासप्रयोजक एव न तु सौरमासप्रयोजक इत्यमावास्याग्रहणादनया श्रुत्या चान्द्रवेशाखादौ वैशाखादिपदशक्तिसिद्धिरिति भावः प्रतीयते । स्वाभिप्रायमाह- वस्तुत इति, पुष्यनक्षत्रयोगयोग्यत्वं तु प्रत्येकपोषस्य पूर्णिमायामस्त्येवे - त्यर्थः । उक्ते हेतुमाह- पुष्यादीति । योगयोग्यत्वग्रहणाभावे बाधकमाह- अन्यथेति, यदि नियमेन तत्तत्पूर्णिमायां तत्तन्नक्षत्रयोगः स्यात्तदा “ माध्यां यदि मघा नास्ति " इति माघी "Aho Shrutgyanam Page #555 -------------------------------------------------------------------------- ________________ उक्तपौषादिपदार्थविचारः ] व्युत्पत्तिवादः । (५४३) वनुरादिस्थरव्यारब्धपक्षीयत्वं तद्रूपाक्रान्तपौर्णमासीघटितत्वरूपयोगलभ्यतावच्छेदकं नियतमेव पौषादेरिति नोक्तानुपपत्त्या यौगिकत्वनिराकरणसंभवस्तत्पदानाम् । अथैवं निरुक्तरूपस्य पुष्याद्यघटिततया तेन रूपेण पूर्णिमाबोधकपोष्यादिशब्दानां यौगिकत्वप्रसक्तिरेव नास्ति, 'पोषी रात्रिः' इत्यादौ पुष्यादियोग एव प्रतीयते न तु निरुक्तं योग्यत्वम्-मकरादिस्थरव्यारब्धकृष्णपक्षीयराज्यादावाप तथाव्यवहारादिति “ नक्षत्रेणः युक्तः कालः” इत्यत्र योग एव विवक्षणीयो न तु योगयोग्यत्वमिति पौर्णमास्यां पौष्यादिपदस्य न यौगिकत्वसंभव इति चेत् ?, भवतु पौष्यादिपदं निरुक्तरूपावच्छिन्नपूर्णिमारूढमेव । पौषादिपदानां तु तद्योगपुरस्कारेण मासवाचकत्वे बाधकाभावाद् यौगिकत्वं कथं प्रत्याख्येयम? पूर्णिमायां मघानक्षत्रयोगप्रतिषेधनिर्देशो नोपपद्यतेत्यर्थः । उक्तस्य नक्षत्रयोगयोग्यत्वस्य स्वरूपमाह- पुष्यादियोगेति, धनुस्संक्रान्त्यारब्धमासीयपक्षे प्राप्तत्वमेव पूर्णिमायाः पुष्ययोगयोग्यत्वं ज्ञेयमित्यर्थः । अत्र योगार्थतावच्छेदकमाह- तद्रूपाक्रान्तेति तद्रूपाक्रान्तावनुरादिस्थरव्यारब्धपक्षीयलरूपाक्रान्ता या पौर्णमासी तद्घटितत्वरूपं यद योगलभ्यतावच्छेदकम्-योगलभ्यार्थतावच्छेदकं तत्तु पौषादेर्नियतमेवास्ति- धनुरादिस्वरव्यारब्धपक्षीयत्वरूपाक्रान्तपौर्णमासीघटितत्वस्य पोषादिषु नियमेन संभवात् धनुरादिसंक्रमणानां चान्द्रपौषादिमासपूर्णिमातिक्रमणासंभवात् प्रत्येकमासस्य पूर्णिभायां तत्तत्सौरचान्द्रमासाना सामानाधिकरण्यनियमात् पूर्णिमायां धनुरादिस्थरव्यारेब्धपक्षीयत्वमेव (धनुरादिमासीयपक्षवृत्तित्वमेव) पुष्यादियोगयोग्यत्वम्, पौषादिमासे च तादृशार्गमाघटितत्वमेव यौगिकपोषादिपदार्थतावच्छेदकं विज्ञेयं तच पौषादौ नियतमेवेति उक्तानुग्पत्त्यागौषादिमासीयपौर्णमास्यां पुष्यादियोगनियमानुपपत्त्या ( पुष्यादियोगनियमाभावेन ) तत्पदानाम्= पौषादिपदानां यौगिकत्वस्य निराकरण न संभवति- प्रकारान्तरेण पुष्यादियोगयोग्यत्वस्य प्रतिपादितस्वादेवेत्यर्थः । " तत्पदानाम् " इत्यत्र " तत्तत्पदानाम् " इत्येवं पाठो युक्तः । शङ्कते- अथेति । निरुक्तरूपस्य धनुरादिस्थरव्यारब्धपक्षीयत्वरूपस्य । यदि निरुक्तरूपस्य पुष्यादिघटितत्वं स्यात्तदा तेन रूपेण पूर्णिमाबोधकपोष्यादिशब्दानां यौगिकत्वं प्राप्नुयादपि त्वन्मते व चैवमस्तीत्यर्थः। ननु पौष्यादिशब्दानां निरुक्तरूपपुरस्कारेणैव यौगिकत्वमस्ति न तु पुष्यादि. योगेनेत्याशङ्कय परिहरति-पौषीति । निरुक्तयोगार्थप्रतीत्यभावे हेतुमाह- मकरादीति, यदि पौष्यादिपदेन निरुक्तं धनुरादिस्थरव्यारब्धपक्षीयत्वमेव प्रतीयेत तदा पौष्यादिपदाना मकरादिस्थस्ज्यारब्धकृष्णपक्षीयराव्यां तया व्यवहार:-प्रयोगो न स्यात. भवति च मकरस्थरव्यारब्धकृष्णपसोयरात्र्यामपि पुष्यादियोगेन पौष्यादिपदप्रयोग इत्यर्थः, तस्मात् " नक्षत्रेण " इतिसूत्रे युक्तपदस्य योग एवार्थो न तु योगयोग्यत्वमिति पूर्णिमायां पौष्यादिसदस्य रूढिरेव न यौगि "Aho Shrutgyanam". Page #556 -------------------------------------------------------------------------- ________________ (५४४) सादर्श: [तद्धितप्रकरणे-- न च “सास्मिन् पौर्णमासी ” इतिसूत्रस्य' अस्मिन् पौष्यादिपूर्णिमायोग्यता ' इत्यर्थविवक्षया धनुरादिराशिस्थरव्यारब्धशुक्लपतिपदादिदर्शान्ते तद्धिवान्तसमुदायरूढिप्राहकतयोपपत्तौ योगरूढिस्वीकारोऽनुचित इतिवाच्यम्, केवलरूढिपक्षे समुदायशक्यतावच्छेदकशरीरे आरब्धान्तविशेषणप्रक्षेपण गौरवात, पौषतैषमाषादिनानापदानां गुरुधर्मावच्छिन्ने शक्तिकल्पनमपेक्ष्य " सास्मिन् " इत्यर्थेऽणः प्रत्ययस्यैकशक्तिकल्पनाधिक्यस्योचितत्वात् ।। न च योगरूढिपक्षे पौषादिपदानां योगार्थरूढयर्थाभेदान्वयबोधजनकत्वक. ल्पनाधिक्येन गौरवमिति वाच्यम्, भवन्मतेपि तत्तदर्थे यौगिकरूढत्वभ्रमदशायां सति च तत्तदाभेदान्वयपरत्वग्रहे तथान्वयबोधस्य दुरपहवतया तत्र तादृशबोधहेतुताकल्पनस्यावश्यकत्वादिति दिक् । त्वम्, यौगिकत्वं तु पुष्ययुक्तायां पूर्णिमाभिन्नायामेव तिथावित्यर्थः । किंचितस्वीकुर्वन्नुत्तरमाहभवत्विति । निरुक्तरूपावच्छिन्नपूर्णिमारूढम्-धनुरादिस्थरव्यारब्धपक्षीयत्वरूपावच्छिन्नपूर्णिमारूढम् । पौषीपदस्य केवलरूढत्वे सिद्धपि.मासादिपरपोषादिपदानां तु योगरूढत्वमेव- निरुक्तरूपावच्छिनपौर्णमासीयोगपुरस्कारेणैव मासादिवाचकवादित्यर्थः । भादिपदेन वर्षों ग्राह्यः । . पुनराशङ्कते-- न चेति । रूढिग्राहकता युक्तसूत्रस्य ज्ञेया । तद्धितान्तसमुदायस्य पौष इत्यादि पदस्य । अनुचित इति- योगरूढिपक्षे यौगिकार्थानुसंधानापत्त्या गौरवादित्यर्थः । परिहारमाह- केवलेति । समुदायशक्यतावच्छेदकशरीरे-पौषेत्यादितद्धितान्तसमुदायशक्यताव-. च्छेदके । त्वया हि धनुरादिस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्ते काले पौषादिपदस्य रूढिरूपा शक्तिरुक्तेति तत्रारब्धान्तस्य-धनुरादिस्थरव्यारब्धेतिविशेषणस्य प्रक्षेपण गौरवं तव मतेप्यस्त्ये. बेत्यर्थः । अनेकेषां तद्धितान्तसमुदायानां धनुरादिस्थरव्यारब्धशुक्ल प्रतिपदादिदर्शान्तकाले शक्तिकल्पनापेक्षयाऽण्प्रत्ययस्यैव " सास्मिन् " इत्यर्थे शक्तिकल्पना युक्ता-- अणूप्रत्ययस्यैकत्वात् तद्धितान्तसमुदायानां पौषतेषमाघादीनां नानात्वादित्यर्थः । तस्मात् पौषादिपदानां तु योगरूढत्वमेव न तु केवलरूढत्वमिति भावः । ननु योगरूढिपक्षे य एव यौगिकार्थः स एव रूढार्थ इति तयोरभेदेनैवान्वयः स्यादिति पौषादिपदानां योगार्थरूढयर्थयोरभेदान्वयबोधजनकत्वेनैव गौरवं स्थादित्याशङ्कयाह-- न चेति । उत्तरमाह- भवन्मतेपीति । तत्तदर्थे-पौषमासादौ । तत्तदर्थाभेदान्वयपरत्वग्रहे-योगा. र्थरूढयर्थाभेदान्वयपरत्वग्रहे । तथान्वयबोधस्य अभेदान्वयबोधस्य । तत्र-पौषादिपदे । तादृशबोधहेतुताकल्पनस्य योगार्थरूढयर्थाभेदान्वयबोधजनकत्वकल्पनस्यावश्यकत्वादुक्तं गौरवं भवन्मतेप्यस्त्येवेति पौषादिपदानां योगरूढत्वमेव युक्तं न तु केवलरूढत्वमित्यर्थः । प्रकृतवादमुपसंहरति-इति दिगिति । "Aho Shrutgyanam" Page #557 -------------------------------------------------------------------------- ________________ सास्यदेवतेतिसूत्रोदाहरणम् ] व्युत्पत्तिवादः । (५४५) 'वैष्णवी ऋक्' 'ऐन्द्रं हविः'इत्यादौ देवतार्थविहिततद्धितस्प तद्देवताकत्वमर्थः। मन्त्रस्य तद्देवताकत्वं तदुद्देश्यकत्यागकरणत्वेन वेदबोधितत्वम् । __ अथ मन्त्रस्य त्यागकरणत्वं बाधितमेव- विनापि मन्त्रमिच्छाविशेषरूपस्य तस्योत्पत्त्या व्यभिचारात्, इष्टसाधनताज्ञानघंटितक्लप्तसामय्या अन्यथासिद्धत्वाचेति मन्त्रस्य करणतां कथं वेदो बोधयेद् ? बोधयन् वा प्रमाणं भवेत् ?, सत्यम्- मन्त्रस्य त्यागकरणत्वं त्यागाङ्गोच्चारणकत्वं न तु तज्जनकत्वमतो न दोषः । हविषस्तद्देवताकत्वं च तदुद्देश्यकत्यागकर्मत्वम्- तत्त्यागोद्देश्यताया एव तद्देवतात्वपदार्थत्वात् । न चैवं घृतादिसंप्रदानब्राह्मणस्य घृतादिदेवतात्वापत्तिः, उद्देश्यपदेन वेदबोधितद्रव्यस्वामित्वप्रकारेणेच्छाविषयताया एवं विवक्षितत्वात् संप्रदाने च स्वामित्वस्याऽबोधितत्वात् । न च त्यागोद्देश्यतायाश्चतुथ्यापि बोधनात् तद्धितचतुर्योर्दैवतात्वबोधकतायामविशेषात प्रयोगान्तरमुदाहरति- धैष्णवीति, विष्णुर्देवताऽस्या इति वैष्णवी । तद्धितस्य="सास्य देवता " इतिसूत्रविहिततद्धितस्य । मन्त्रनिष्ठं तद्देवताकत्वपदार्थमाह- मन्त्रस्येति । मन्त्रेणेक हविरादित्यागः क्रियते इति मन्त्रस्य करणत्वम् । मन्त्रस्य त्यागकरणत्वं न संभवतीत्यभिप्रायेणाशङ्कते- अथेति । तस्य त्यागस्य । त्यागस्येच्छाविशेषरूपत्वं पूर्वमेवोक्तम् । इष्टेति- कारणीभूतेष्टसाधनताज्ञानादिनैव त्यागसंभवे मन्त्रस्याऽन्यथासिद्धत्वं तेन च करणत्वाभाव इत्यर्थः । करणताम्=त्यागकरणताम् । उत्तरमाह- सत्य. मित्यादिना । त्यागाङ्गेति-त्यागाङ्गभूतं यदुच्चारणं तादृशोच्चारणकत्वम् तादृशोच्चारणकर्मत्वमेव त्यागकरणत्वं तच्च मन्त्रेऽस्त्येव । तज्जनकत्वम्त्यागजनकत्वम् । न दोष इति- उक्तान्यथासिद्धत्वेपि मन्त्रस्य त्यागकरणत्वे एतद्रीत्या न दोष इत्यर्थः । हविर्निष्ठं तदेवताकत्वपदार्थमाहहविष इति, इन्द्रादिदेवतोद्देश्यकत्यागकर्मत्वं चास्त्येव हविषः । नन्वेवं हविष उद्देश्यतयैव संबन्धः स्थान तु देवतयेति कयमुक्तसूत्रेण तद्देवताकत्वे प्रत्ययः स्यादित्याशक्य त्यागोद्देश्यत्वस्यैव देवतात्वमाह- तत्त्यागेति, देवतायां त्यागोद्देश्यतायाः सत्त्वात् त्यागोद्देश्यत्वमेव देवतास्वमि. त्यर्थः। नन्वेवं ब्राह्मणाय धृते दत्ते तादृशवृतदेवतात्वं ब्राह्मणस्य स्यात- ब्राह्मणस्यैव तत्र घृतत्यागोद्देश्यत्वादित्याशङ्क्याह- न चैवमिति । परिहारहेतुमाह- उद्देश्यपदेनेति, वेदबोधितं यद् द्रव्यस्वामित्वं तत्प्रकारेण तत्कारिका येच्छाविषयंता-इच्छीयविषयता सैवोद्देश्यतात्र ग्राह्या सा चेन्द्रादिदेवतास्वेवास्ति- इन्द्रादीनामेव वेदेन हविरादिस्वामित्वस्य बोधितत्वात, संप्रदानभूतब्राह्मणादीनां च घृतादिस्वामित्वं तु वेदेन न बोधितमिति न ब्राह्मणादीनां घृतादिदेवतात्वापत्तिरित्यर्थः । ननु त्यागोद्देश्यत्वं यथा तद्धितप्रत्ययेन बोध्यते तथा चतुर्थ्यापि बोध्यते एव " इन्द्राय स्वाहा ।" इत्यादौ तथा च मीमांसकैः "तद्धितेन चतुर्थ्या वा " इत्यादिना कथं तद्धिता "Aho Shrutgyanam" Page #558 -------------------------------------------------------------------------- ________________ ( ५४६ ) 46 सादर्श: तद्धितेन चतुर्थ्यां वा मन्त्रलिङ्गेन वा पुनः । 'दवतासङ्गतिस्तत्र दुर्बलं तु परं परम् ॥ " [ तद्धितप्रकरणे. इत्यनेन विरोध इति वाच्यम्, त्यागोद्देश्यतायां वेदमेयत्वस्याधिकस्य निवेशनीयतया चतुर्थ्या तदंशाऽबोधनेन तस्योपायान्तरबोध्यतया चतुर्थ्यधीनदेवबोधस्य विलम्बिततया तद्धितापेक्षया चतुर्थ्या जघन्यतोपपत्तेः । देवताविहिततद्धितेन तु देवतात्वघटकतदेशस्यापि बोधनात् । अथ चतुर्थ्या वेदमेयत्वांशस्य साक्षादबोधनेपि त्यागोद्देश्यत्वस्य साक्षाद् बोधनेन पित्रादीनां साहित्यावच्छिन्नानाम् " पितृभ्यो दद्यात् " इति चतुर्थ्यघीनत्यागोद्देश्यताबोधस्य " पितरो देवता " इति तद्धितसमानार्थकदेवतापदाधीनानरपेक्षत्यागोद्देश्यत्वबोधापेक्षयाऽविलम्बितत्वेन साहित्यावच्छिन्नानां निरपेक्षाणां वा श्राद्धोद्देश्यत्वम् ” इत्यत्र चतुर्थ्यपेक्षया देवतापदस्य बलवत्त्वरूपं पेक्षया चतुर्थ्यां दुर्बलत्वमुक्तमित्यभिप्रायेणाशङ्कते न चेति । सङ्गतिः = प्रतीतिः प्राप्तिर्वा । • विरोधप्राप्तो वा शङ्काभिप्रायो विज्ञेयः । परिहारमाह- त्यागोद्देश्यतायामिति । वेदमेयत्वस्य = वेदवोधितत्वस्य । तदंशाबोधनेन = वेदमेयत्वाबोधनेन । तस्य वेदमेयत्वस्य । उपायान्तरबोध्यतयेति- चतुर्थ्यन्तस्मृतिवचनेन श्रुतिकल्पना कर्तव्या तया च कल्पितश्रुत्या वेदमेयत्वबोधः संभवतीत्यर्थः । विलम्बिततया=श्रुतिकल्पनया विलम्बः । चतुर्थ्यन्तपदेन स्मृतिभूतत्वाद् वेदमेयत्वबोधनार्थं श्रुतेः कल्पना कर्तव्येति विलम्बो भवति तद्धितप्रत्ययान्तपदस्य श्रुतिभूतत्वाद् वेदमेयत्वबोधनार्थं श्रुतिकल्पना ने कर्तव्येति शीघ्रकरत्वमस्तीत्येतद् विलम्बापेक्षयैव तद्धितापेक्षया चतुर्द्धा दुर्बलत्वमुक्तंमित्यभिप्रायः । देवतात्वघटकतदंशस्यापीति- उद्देश्यत्वमेव देवतात्वमुक्तमिति देवतात्वघटकस्य नाम उद्देश्यताघटकस्य तदंशस्य = वेदमेयत्वस्यापि तद्धितेन स्वयमेव बोधनादुक्तविलम्बापत्तिर्वाक्यार्थबोधे नास्तीति चतुर्थ्यपेक्षया तद्धितस्य प्रबलत्वं प्राप्तमित्यर्थः । 66 शूलपाणिप्रन्थानुपपत्तिमुद्दिश्याशङ्कते - अथेति, चतुर्थ्या वेदमेयत्वस्य स्वयमबोधनेपि " पितृभ्यो दद्यात् " इत्यादी त्यागोद्देश्यत्वं तु पित्रादीनां स्वयमेव बोध्यते एव स उद्देश्यत्वबोधश्च पितरो देवता " इत्यत्र तद्धितप्रत्ययसमानार्थकेन देवतापदेन जन्यो यो निरपेक्षस्त्यागोद्देश्यत्वबोधस्तदपेक्षयाऽविलम्बित एवेति देवतापदापेक्षया चतुर्थ्या एवं त्यागोद्देश्यत्वबोधने बलवत्त्वं वस्तुतः प्राप्तमेवं स्थितेपि यच्छूलपाणिना " साहित्यावच्छिन्नानाम् " इतिग्रन्थे देवतापदस्य बलवत्त्वमुक्तं तन्न सङ्गच्छते इत्यर्थः । " पितरो देवता " इत्यत्र देवतापदेन • त्यज्यमानद्रव्ये पितृदेवताकत्वं बोध्यते तदेव तद्धितप्रत्ययेनापि बोधनीयमिति देवतापदस्य तद्धितसमानार्थकता, किं चैतद्वाक्यस्य वेदीयत्वात् श्रुतिकल्पनापेक्षाभावेन सापेक्षत्वाभावात् निरपेक्ष एव. त्यागोद्देश्यत्वबोधो जायते इत्युक्तम्- निरपेक्षत्यागेति । चतुर्थ्याः संप्रदानार्थकवात संप्रदानत्वस्योद्देश्यत्वगर्भत्वाच्चतुर्थ्या स्वयमविलम्बेनोद्देश्यत्वं बोध्यते देवतापदे तु तथा " Aho Shrutgyanam" Page #559 -------------------------------------------------------------------------- ________________ तद्धितचतुर्योबेलाबलविचारः] व्युत्पत्तिवादः । (५४७) शूलपाणिपर्यालोचितं विनिगमकन संगच्छते इति चेत् ?, न- “ पितृभ्यो दद्यात्" इतिचतुर्थ्या साहित्यावच्छिन्नस्य त्यागोद्देश्यताबोधे तत्र वेदसमा. नार्थकस्मृतिवाक्यजन्यत्वग्रहे सत्येवाप्रामाण्यशङ्कानुदया. तादृशग्रहश्च विलम्बितः । देवतापदात् त्यागोद्देश्यताबोधश्च तदुद्देश्यतांशे वेदबोधितत्वावगाही स्वस्मिन्न प्रामाण्यशङ्काव्युदासाय न ज्ञानान्तरमपेक्षते-स्वस्यैव स्वात्मकोद्देश्यताबोधांशेऽप्रामाण्यव्यावर्तकवेदजन्यत्वावगाहनात्, अप्रामाण्यशङ्काकलङ्कितश्च बोधो जातोप्यऽकिंचित्कर इति देवतापदस्य झटिति निश्चीयमानप्रामाण्यबोधजनकतया बलवत्वेन विनिगमनाया उपपत्तेः। एवं श्राद्धार्थावाहनप्रकाशकात् " पितरः " इत्यादिमन्त्रादू बहुवचनोपस्थापितसाहित्यावच्छिन्नाऽऽवाहनबोधेन साहित्यावच्छिन्नानां श्राद्धदेवतात्वलाभेपि मन्त्रलिङ्गस्य विपक्षबाधकतर्कादिसापेक्षव्याप्तिनिश्चयाधीनतया :सुतराम् " पितरो देवता " इत्यतो दुर्बलतेति बोध्यम् । सामर्थ्य नास्तीत्युद्देश्यत्वबोधने देवतापदापेक्षया चतुर्थ्या एव बलवत्त्वमिति शङ्काभिप्रायः । परिहरति- नेति, “ पितृभ्यो दद्यात् ' इत्यत्र चतुर्थ्या स्वयं शीघ्रमेव पित्रादीनां त्यागोद्देश्यत्वबोधनेप्येतद्वाक्यजन्योद्देश्यताबोधे प्रामाण्यग्रहार्थ वेदसमानार्थकस्मृतिवाक्यजन्यत्वग्रहस्यापेक्षास्ति तादृशग्रहश्च वेदसमानार्थकस्मृतिवाक्यजन्यत्वग्रहश्चैतद्वाक्ये स्मृतिवाक्यत्वग्रहसापेक्षतया विलम्बेन भवति, देवतापदाच जायमानस्त्यागोद्देश्यताबोधस्तदुद्देश्यतांशे त्यागोद्देश्यतांशे ( विषयत्वं सप्तम्यर्थः ) स्वस्मिन्नप्रामाण्यशङ्काव्युदासाय ज्ञानान्तरं नापेक्षते स्वस्मिन् वेदबोधितत्वावगाहित्वादित्येवंरीत्या त्यागोद्देश्यताबोधनेपि चतुर्थ्यपेक्षया देवतापदस्य बलवत्त्वमस्त्येवेति शूलपाण्युक्तं देवतापदस्य बलवत्त्वं युक्तमेवेत्यर्थः । किं च चतुर्थ्याऽप्रामाण्यशङ्काकलङ्कितो जातोपि बोधो न कार्यकारी संभवतीत्याह-अप्रामाण्यशङ्केति । उक्तरीत्या तद्धितापेक्षया तद्धितसमानार्थकदेवतापदापेक्षया च चतुर्थ्या दुर्बलत्वं प्रतिपाद्य मन्त्रलिङ्गस्य दुर्बलत्वं प्रतिपादयति- एवमित्यादिना । "पितरः " इत्यादिमन्त्रात्=" आयन्तु नः पितरः " इत्यादिमन्त्रात् । विपक्षेति-विपक्षबाधको यस्तर्कस्तत्सापेक्षा या व्याप्तिस्तादृशव्याप्तिनिश्चयाधीनमेव लिङ्गं भवतीति मन्त्रलिङ्गस्योक्ततर्कव्याप्त्यादिबहुसापेक्षतया दुबर्लत्वमित्यर्थः। वस्तुतस्तु “ सामर्थ्य सर्वशब्दानां लिङ्गमित्यभिधीयते " इतिपारिभाषिकलिङ्गपदार्थमज्ञात्वैव तर्कशास्त्रसंस्कारवशाल्लिङ्गपदेनानुमापकलिङ्गं विज्ञाय व्याप्त्यादिसापेक्षतया दुर्बलत्वप्रतिपादनं गदाधरभट्टाचार्यस्येति ध्येयम् । मीमांसकैस्त्यत्र " चतुर्थीतः संप्रदानकदेशतया देवतात्वप्रतीतिरस्त्येव मन्त्रवर्णात्तु न देवतात्वं प्रतीयते किं त्वधिष्ठानमात्रमतश्च मन्त्रवर्णश्चतुर्थीतो दुर्बलः " इत्याधुक्तं विस्तरस्तु मीमांसाग्रन्थेष्वेव द्रष्टव्यः । "Aho Shrutgyanam" Page #560 -------------------------------------------------------------------------- ________________ (५४८) सादर्शो व्युत्पत्तिवादः। 'कापोतम् । 'राजतम् ' 'जनता' इत्यादौ समूहाविहितस्य तद्धितस्य. पर्याप्तसमुदायत्वावच्छिन्नोऽर्थः, पर्याप्तौ प्रकृत्यर्थकपोतत्वाधवच्छिन्नस्यान्वयः ।। कंपोतशुकसारिकादिपर्याप्तसमुदायत्वस्य पयोप्तिश्च न न्यूनवृत्तिकपोतत्वादिनाऽवच्छिद्यते. अतो न ताशसमुदाये कापोतादिव्यवहारः । पर्याप्त्यऽवच्छेदकत्वे चाऽन्यूनवृत्तित्वमेव तन्त्रं न त्वऽनतिरिक्तवृत्तित्वमपि. अन्यथाऽऽकाशत्वादेरिव घटत्वादेराप द्वित्वादिपर्याप्त्यवच्छेदकता न स्यात् ( तथा च) 'आकाशो' इतिवत् ' घटौ ' इत्यपि न स्यात् । इत्थं च कपोतमात्रवृत्तिशतत्वादिपर्याप्तावप्यतिरिक्तवृत्तिकपोतत्वाद्यवच्छिन्नवनिर्वाहात् कपोतशतादावपि कापोतादिव्यवहारोपपत्तिः । पर्याप्त्यतिप्रसक्तधर्मस्य तदनवच्छेदकत्वे गत्यनतरं चिन्तनीयम् ।। ॥ इति तद्धितप्रत्ययार्थविवेचनं समाप्तम् ॥ प्रयोगान्तरमुदाहरति- कापोतमित्यादिना । पर्याप्तसमुदायत्वावच्छिन्नः कपोतादिपर्याप्तसमुदायः । पर्याप्ताविति-कपोतादिपर्याप्तावित्यर्थः कपोतत्वाद्यवच्छिन्नपर्याप्तिकः समुदाय इति यावत् । ननु कपोतशुकसारिकादिसमुदायेपि कपोतानां समूहस्य सत्त्वात्तत्र 'कापोतम् । इति प्रयोगः कथं न भवतीत्याशङ्कयाह- कपोतशुकेति, पर्याप्त्यवच्छेदकत्वं न्यूनवृत्तिधर्मस्य न भवति कपोतशुकसारिकादिसमुदायस्थले च कपोतत्वं न्यूनवृत्त्येवेति कपोतत्वस्य पर्याप्त्यवच्छेदकत्वाभावादेव न तत्र कापोतादिव्यवहारः-पर्याप्तिर्यद्धर्मावच्छिन्ना भवति तद्धर्मावच्छिन्नसमुदा. यस्यैव व्यवहारास्पदत्वात् तद्धर्मावच्छिन्नवाचकादेव समूदार्थकतद्धितप्रत्ययप्राप्तिसंभवादित्यर्थः । प्रसङ्गसंगत्या पर्याप्त्यवच्छेदकस्वरूपमाह- पर्याप्त्यवच्छेदकत्वे इति । अनतिरिक्तवृत्तित्वम्= अतिरिक्तवृत्तित्वाभावः, अनतिप्रसक्तत्वमिति यावत् । विपक्षे बाधकमाह-अन्यथेति । घटत्वादरिति-अतिप्रसक्तधर्मस्य पर्याप्त्यवच्छेदकत्वाभावे हि द्वौ घटौ ' इत्यत्र घटत्वस्य द्वित्वपर्याप्त्यवच्छेदकत्वं यदिष्टं तन्न स्याद् घटत्वस्य तृतीयादिघटेष्यपि सत्त्वात् तथा च 'घटौ' इतिप्रयोगोपि न स्यादिति पर्याप्त्यवच्छेदकत्वे तद्धर्मस्यान्यूनवृत्तित्वमेव प्रयोजकं न त्वनतिप्रसक्तस्वमपीत्यर्थः । प्रकृतमाह- इत्थमिति, एवं हि शतसंख्याककपोतानामपि समुदाये ' कापोतम् । इति व्यवहार उपपद्यते- एकत्रीभूतशतकपोतातिरिक्तकपोतेष्वपि कपोतत्वस्य सत्त्वेपि कपोतमात्रवृत्तिशतत्वादिपर्याप्स्यवच्छेदकत्वसंभवात्-अन्यूनवृत्तित्वादित्यर्थः । तदनवच्छेदकत्वे पर्याप्त्यनवच्छेदकत्वे । गत्यन्तरमिति-तादृशसंख्याकव्यक्तित्वस्यैव पर्याप्त्यवच्छेदकत्वं वक्तव्यम्तस्य तादृशसख्याकपर्याप्त्यपेक्षयाऽतिरिक्तवृत्तित्वाभावादित्यर्थः । किं वातिप्रसक्तधर्मस्य स्वरूप संबन्धलक्षणमवच्छेदकत्वं वक्तव्यं तच्च तस्य संभवत्येवेति ॥ ॥ इति व्युत्पत्तिवादादर्श तद्धितप्रत्ययाः ॥ "Aho Shrutgyanam Page #561 -------------------------------------------------------------------------- ________________ अथ धातुप्रत्ययाः धातुप्रकृतिकाश्च लकारकृत्सन्यणिच्प्रभृतयः प्रत्ययाः केचिद्धात्वर्थान्वितमधिकमर्थं ब्रुवते. अर्थान्तरमनभिदधानाश्च केचिदाकाङ्क्षानिर्वाहकतया प्रकृतिभिः स्वीयार्थबोधने एवोपकुर्वते । तत्र लडादिदशलकाराणाम् " लः कर्मणि च भावे चाsकर्मकेभ्यः " • इतिसूत्रेण कर्तृकर्मभावेष्वनुशिष्टानां कर्तृत्वसामान्यमर्थः - तावन्मात्राभिधानेनैव प्रथमान्तपदोपस्थाप्ये विशेषणतया तदन्वयेन कृतिविशिष्टस्य कर्तुबोध निर्वाहात् । लकारस्य तद्बोधकतया न लः कर्मणि " इति सूत्रविरोधः - बोधकताया एव तंत्र सप्तम्यर्थत्वात् न तु वाचकतायाः, गौरवेण विशिष्टधर्मिणि शक्तेर्बाधात् । ' मैत्रः पचति ' इत्यादौ लकारे प्रथमान्तपदसामानाधिकरण्यप्रवादस्याऽभेदेन तदर्थान्वितस्वार्थबोधपरत्वाभावेपि कथंचिदुपपादनसंभवात् । £6 7 क्रमप्राप्तं धातुप्रकृतिकप्रत्ययार्थ निरूपणमारभते - धातुप्रकृतिका इत्यादिना । केचित् = सना - दयः । अधिकम् = इच्छादिरूपमधिकमर्थम् । केचित् = भावार्थकप्रत्ययाः । आकाङ्क्षानिर्वाहकतयेति-- यथा 'अनुभूयते ' इत्यादौ मात्रार्थविषयकशाब्दबोधं प्रति यगुत्तरतिप्पदज्ञानत्वेन कारणत्वमस्तीति भूधातूत्तरप्राप्तभावार्थ कयक्प्रत्ययस्य केवलमाकाङ्क्षामात्र निर्वाहकत्वमस्ति मावस्य धात्वर्थत्वादेवेत्यर्थः । विशेषनिरूपणमारभते तत्रेति । तत्र = धातुप्रकृतिकप्रत्ययेषु । कर्तृत्वमिति - कर्तरि प्राप्तानां लकाराणां कर्तृत्वे एव शक्तिर्लाघवान्न तु कर्तरि गौरवात् कर्तृव्यक्तीनां नानात्वादित्यर्थः । ननु यदि लकारस्य कर्तृत्वे एव शक्तिस्तदा ' पचति ' इत्यादौ कर्तृबोधानुपपत्तिरित्याशङ्कयाह — तावन्मात्रेति तावन्मात्राभिधानेन = कर्तृत्वमात्राभिधानेन, तदन्वयेन= कर्तृत्वान्त्रयेन, ' चैत्रः पचति ' इत्यादौ लकारेण कर्तृत्वे उपस्थिते तस्य प्रथमान्तपदोपस्थितचैत्रे विशेषणत्वेन रूपेणान्वयो भविष्यत्येवेति कृतिविशिष्टस्य कर्तृत्वविशिष्टस्य कर्तुर्न बोधानुपपत्तिरित्यर्थः । कर्तृत्वं च कृतिरेव । नन्वेवमन्वयबलेन कर्तृबोधे प्राप्ते लः कर्मणि " इति सूत्रविरोधः स्यादित्याशङ्क्याह- लकारस्येति, लकारस्य कर्तृबोधकत्वं त्वस्त्येव लकारस्य शक्तिः कर्तृत्वे एवेत्युच्यते न तु कर्त्रऽबोधकत्वमपीत्यर्थः । उक्तार्थमुपपादयति- बोधकताया इति । तत्र=उक्तसूत्रे । विशिष्टधर्मिणि कर्तृत्वविशिष्टे कर्तरि । ननु तिसमानाधिकरणे प्रथमा " इत्यादिवचनैस्तिङः प्रथमायाश्च सामानाधिकरण्यमुक्तं यत्र कर्तरि तिङ् तत्र प्रथमापि 'कर्तरि यत्र च कर्मणि तिङ् तत्र प्रथनापि कर्मणि यथा ' चैत्रः पचति पच्यते ओदनः इत्यर्थः तिबोध्यकारकबोधिका प्रथमेति यावत् तथा च चैत्रः पचति ' इत्यत्र प्रथमा कर्तरि भवतीति तिङोपि कर्तृवाचकत्वे एव प्रथमासामानाधिकरण्यं स्यादिति लकारस्य कर्तृवाचकत्वमावश्यकमेवेत्याशङ्कयाह - मैत्र इति, तदर्थान्वित = कर्तृपदार्थान्वितं । कथंचिदिति- 最喜 66 & "Aho Shrutgyanam" Page #562 -------------------------------------------------------------------------- ________________ (५५०) सादर्शः [आख्यातप्रकरणेतृतीयायाः साधुतानियामक लकारादिना कर्तुरनभिधानमाप कर्तृत्वविशिष्टाऽबोधनमेव न तु विशिष्टशक्त्या विशिष्टाऽबोधनपर्यन्तम् अतो विशिष्टस्य लकारावाच्यत्वेपि · चैत्रः पचति ' इत्यादौ न तृतीयांपत्तिः- अन्वयबलेन विशिष्टबोधात् । 'चैत्रः पक्ता' इत्यादौ कृत्प्रत्ययस्य धर्मिणि शक्तावपि न क्षतिः । शत्यधीनविशिष्टबोधसाधारणबोधस्यैवाऽनभिधानपदार्थप्रतियोगित्वात् " अनभिहिते कर्तरि तृतीया " इत्यनुशासनेपि सप्तम्यर्थों बोधकत्वमेव तथा च ‘चत्रेण पच्यते' इत्यादौ तृतीयार्थकर्तृत्वस्य प्रकृत्यर्थविशेष्यतयैव भानान्न कर्तृत्वविशिष्टधर्मिबोधकत्वमिति सूत्राविरोधः। यदि च तत्र कादिपदं धर्मपरं तथा च समभिव्याहृतलकाराधनभिहितं कर्तृत्वं ताशप्रथमान्तपदसामानाधिकरण्यमपि लकारबोध्यकर्तृपदार्थमाश्रित्येवोक्तं न तु लकारवाच्यकर्तृपदार्थमाश्रित्य. कर्तृबोधकत्वं तु स्वीकृतमेवेति न प्रथमान्तपदसामानाधिकरण्यप्रवादानुपपत्तिः। विशेषान्तरमाह- तृतीयाया इति, किं वा ननु लकारस्य कर्बवाचकत्वे " अनभिहिते कर्तरि तृतीया स्यात् " इतिनियमेन ' चैत्रः पचति ' इत्यत्रापि चैत्रपदोत्तरं तृतीया स्यात्अत्रापि शक्त्या लकारेण कत्रभिधानाभावादित्याशझ्याह- तृतीयाया इति । विशिष्टशक्त्याकर्तृत्वविशिष्टनिरूपितशक्त्या । विशिष्टाबोधनपर्यन्तम् = कर्तृत्वविशिष्टाबोधनम् । तृतीयापत्त्यभावे हेतुमाह- अन्वयेति, अत्रान्वयबलेन कर्तृत्वविशिष्टस्य बोधो भवत्येवेति न तृतीयापत्तिःयत्रान्वयबलेनापि कर्तृत्वविशिष्टस्य बोधो न भवति तत्रैव तृतीयापत्तिस्वीकाराद् यथा' चैत्रेण पच्यते । इत्यादावित्यर्थः । चैत्र इति- चैत्रः पक्ता ' इत्यादौ पत्रादिपदानां चैत्र• पदसामानाधिकरण्याद् विवशं कर्तृत्वविशिष्टेपि शक्तिः स्वीक्रियते- कर्तृत्वे शक्तिस्वीकारासंमवात्, कर्तृत्वस्य चैत्रादिनाऽभेदान्वयासंभवादित्यर्थः । “ अनभिहिते " इतिवचनेपि बोधकत्वमेव सप्तम्यर्थो न तु वाचकत्वमित्याह- शक्त्यधीनेति, अनभिधानं हि बोधाभाव एव बोधाभावप्रतियोगी च बोध एव स च बोधः शक्त्यधीनो यः कर्तृत्वविशिष्टबोधस्तत्साधारण एव गृह्यते तथा च कचिच्छक्त्याऽनभिधानं कचिदन्वयबलेन चानभिधानं ग्राह्यमित्यर्थः । फलमाहतथा चेति, “ अनभिहिते कर्तरि " इत्यत्र कर्तपदं कर्तृत्वविशिष्टधर्मिपरमेव · चैत्रेण पच्यते' इत्यत्र च तृतीयार्थभूतकर्तृत्वस्य प्रकृत्यर्थभूतचैत्रविशेष्यतयैव भानं भवति 'चैत्रवृत्तिकृतिजन्यविक्लित्त्यनुकूलव्यापारः । इतिबोधोदयादिति लकारस्यात्र कर्तृत्वविशिष्टधर्मिबोधकत्वाभावाच्चैत्रपदात्तृतीया प्राप्तेति “ अनभिहिते " इतिसूत्रविरोधोपि नास्ति- सूत्रेण लकारस्य कर्तृत्वविशिष्टधर्म्यऽबोधकत्वे एव कर्तृवाचकपदात्तृतीयाविधानादित्यर्थः । कर्तृत्वस्य विशेष्यत्वाद् धर्मिणः कर्तृत्वविशिष्टत्वमेव नास्ति येन तदभिधानमापद्येतेति भावः । परिहाराय पक्षान्तरमुत्थापयति- यदि चेति । तत्र-तृतीयाविधायकसूत्रे । धर्मपरम् कर्तस्वपरं न तु कर्तृत्वविशिष्टपरम् । कर्तृपदस्य धर्मपरत्वे सूत्रार्थमाह- तथा चेति, "अनमि "Aho Shrutgyanam" Page #563 -------------------------------------------------------------------------- ________________ कर्तृत्वानभिधानविचारः] व्युत्पतिवादः । तृतीयार्थ इति सूत्रार्थः 'चैत्रेण पच्यते' इत्यादौ कर्तृत्वस्य तृतीयामात्रार्थत्वाल्लकारेण तदनभिधानं सुघटमित्युच्यते ? तदा तत्रानभिधानशब्दार्थो भवतैव निवक्तव्यः, न तावदावाचकत्वं तदर्थ:-- लकारसामान्यस्यैव कर्तृत्वशक्तत्वेना. अनुत्त्यसंभवात्, कर्तरि यको साधुत्वादेव 'चैत्रः पच्यते' इत्यादिप्रयोगवारणात, यगाद्यनुत्तरत्वस्य कर्तृत्वशक्ततावच्छेदककोटावनिवेशात, तत्र तनिवेशे 'पच्यन्ते माषाः' 'भिद्यते कुसूलः ' 'लूयते केदारः ' इत्यादौ कर्मकर्तुर्मापकुसूलकेदारादेः कर्तृत्वबोधानुपपत्तिः । न च तत्र 'स्वयमेव ' इत्यस्याऽध्याहारेणाऽव्ययस्वयंपदोत्तरतृतीयया कर्तवं बोध्यते न तु लकारेणेति वाच्यम्, 'स्वयम् ' इत्याद्यऽध्याहारं विनापि तत्र कर्तृत्वबोधाभ्युपगमात् । तत्र लकारेण कर्तृत्वाबोधने कर्मकर्तुः “कर्मवत्कर्मणा तुल्यक्रिया " इत्यतिदेशसूत्रवैयथ्यापातात, लकारस्य कर्मत्वबोधकतयैव यगात्मनेपदीचणचण्वद्भावरूपातिदेशफलनिर्वाहात् । न च कर्मकर्तार लकाराधीनकर्मत्वबोधस्याप्यावश्यकता वस्तुगत्या कर्तुः हिते " इत्यस्य — लकारेण कर्तृत्वानभिहिते तृतीया' इत्यर्थे जाते लकारानभिहितं कर्तृत्वमेव तृतीयार्थः स्यादित्यर्थः । फलमाह- चैत्रेणेति, कर्तृत्वस्य लकारार्थत्वामावाल्लकारेणाऽनभिधानं प्राप्तमेव तथा च तृतीयोपपत्तिरित्यर्थः । उक्तपक्षे स्वं चोद्यमाविष्करोति- तदेति । तदर्थ:= अनमिधानपदार्थः । अनुक्त्यऽसंभवात्-अवाचकत्वासंभवात् । ननु लकारस्य कर्तृत्वे शक्तिस्वीकारे कर्तृत्ववाचकत्वेपि कर्तृवाचकत्वाभावात् यक्प्रत्ययेन 'चैत्रः पच्यते' इत्यपि प्रयोगः स्यादित्याशङ्क्याह-- कर्तरीति । ननु यगनुत्तर ( यग्रहित ) लकारस्यैव कर्तृत्वे शक्तिः स्वीक्रियता 'पच्यते । इत्यत्र च यगुत्तरत्वान्न कर्तृत्वबोधकत्वं स्याल्लकारस्येति न — चैत्रः पच्यते' इति प्रयोगापत्तिरित्याशझ्याह- यगाद्यनुत्तरेति । विपक्षे बाधकमाह- तत्रेति, यदि तत्र-कर्तृत्वशक्ततावच्छेदककोटौ तन्निवेशः-यगाद्यनुत्तरत्वनिवेशः स्यात्तदा पच्यन्ते माषाः' इत्यादी यगुत्तरत्वस्यैव सत्त्वेन यगनुत्तरत्वस्याऽसत्त्वात् कर्मकर्तृभूतमाषादेः कर्तृत्वं न प्रतीयेत न चैतदिष्टमित्यर्थः । ननु ' पच्यन्ते माषाः । इत्यत्र लकारण माषादीनां कर्तृत्वाबोधनेप्यध्याहृतस्वयंपदोत्तरप्राप्तलुप्ततृतीयया कर्तृत्वं बोध्यते इत्याशङ्कयाह- न चेति । उत्तरमाह= स्वयमिति । 'पच्यन्ते माषाः' इत्यत्र लकारस्य कर्तृत्वबोधकत्वे सूत्रं प्रमाणयति- तत्रेति, वैयर्थ्यापातादितितत्र लकारस्य कर्तृत्वबोधकत्वेन माषादीनां कर्तृत्वे प्राप्ते तदपवादेन कर्मतुल्यत्वं विधीयते लकारस्य कर्तृत्वाबोधकरवे माषादीनां कर्तृत्वाप्राप्तौ तदपवादं कृत्वा कर्मत्वबोधनं व्यर्थमेव स्यात्-- मप्राप्तस्यापवादासंभवादित्यर्थः । यदा च सूत्रेण भाषादीनां कर्मत्वं प्राप्तं तदा लकारस्यापि कर्मत्वबोधकत्वं प्राप्त कर्मत्वबोधकत्वे च कर्मत्वातिदेशफलभूता यगादिप्राप्तिरुपपद्यते इत्याह- लकारस्येति । आशङ्कते- न चेति । वस्तुगत्येति- यदि कर्तुः कर्मत्वे सति यगादिकं स्यात्तदा ' चैत्रः "Aho Shrutgyanam" Page #564 -------------------------------------------------------------------------- ________________ ( ५५२ ) सादर्श: [ आख्यातप्रकरणे 'कर्मत्वातिदेशे ' चैत्रः स्वं पश्यति स्वं हन्ति ' इत्यादावपि यगात्मनेपदादिप्रसङ्गाकारेण कर्मत्वविवक्षायामेव कर्मत्वातिदेशस्य : स्वीकरणीयत्वात् तथा चत्वमपि कर्मत्वातिदेशाऽसंगतिरिति वाच्यम्, कर्मत्वविवक्षायामपि कर्तृत्वविवक्षणे कर्तृकर्मादिसंज्ञासमावेशविरोधेन परत्वात् कर्तृसंज्ञया कर्मसंज्ञाया बाधेनात्मनेपदचिण्वद्भावाद्यनुपपत्तेः । "कर्तरि शपू" इत्याद्यपवादविषयतया यकोप्यनिर्वाहादतिदेश सार्थकत्वात् । न च कर्मत्वकर्तृत्वयोरुभयोस्तत्र बोधस्वीकारे तदेकतरस्याख्यातार्थतयोद्देश्यतावच्छेदकतया भानासंभवात् समूहालम्बनबोध एव स्वीकरणीय इति वाक्यभेदापत्तिरिति वाच्यम्, एकत्र द्वयमितिरीत्या तदुभयबोधस्य समूहालम्बनविलक्षणस्य स्वीकारात् । यदि च विधेयद्वयज्ञानं समूहालम्बनात्मकमेव अत एव विधेयभेदे वाक्यभेदः इति मीमांसकसिद्धान्तोपीत्युच्यते ? तदाऽस्तु धातो " स्वं पश्यति' इत्यादावपि यगादिकं स्यात् कर्तृभूतचेत्रादेरेव कर्मत्वात् न चैतदिष्टमिति लकाtha कर्मत्वाभिधाने कर्तुः कर्मत्वातिदेशो वक्तव्यस्तथा च त्वन्मतेपि कर्मत्वातिदेशासंगतिरेव - लकारस्य तत्र यन्मते कर्तृत्वबोधकत्वेन कर्मत्वाभिधायकत्वाभावादिति कर्मकर्तृस्थले लकारस्य कर्मत्वबोधकत्वमप्यावश्यकमेवेत्यर्थः । उत्तरमाह-- कर्मत्वेति, यदि लकारेण कर्मत्वविवक्षायामेव कर्मवातिदेशः स्यात्तदापि कर्मकर्तृस्थलत्वात् कर्तृत्वविवक्षापि प्राप्तैव तत्रैकस्यैव कर्तृसंज्ञा कर्मसंज्ञा च न संभवतीति परत्वात् कर्तृसंज्ञया कर्मसंज्ञाया बाधे जाते कर्मस्वप्रयुक्तात्मनेपदचिण्वद्भावादिकं नोपपद्यते तथा यगपि नोपपद्यते "कर्तरि शपु " इत्यनेन बाध्यमानत्वादित्यतिदेशस्य = " कर्मवत्कर्मणा " इति सूत्रस्य ' पच्यन्ते माषाः ' इत्यादौ माषादीनां कर्तृत्वसत्त्वेपि यगादिविधायकत्वेन सार्थकत्वमित्यर्थः । LL ननु ' पच्यन्ते माषाः इत्यत्र यदि माषाणां कर्मत्वेन च कर्तृत्वेन च बोधः स्यात्तदोमयोरेव कर्मत्वकर्तृत्वयोराख्यातार्थत्वेन विशेषाभावादेकतरस्योद्देश्यतावच्छेदकतया भानं न संभवति येन कर्तृत्वविशिष्टमाषव्यक्तिमुद्दिश्य कर्मत्वविधानम् - कर्मत्वातिदेश उपपद्येत, तथा चात्र ८ माषकको व्यापारो माषकर्मकश्च व्यापारः ' इत्येवं समूहालम्बनबोधः स्वीकर्तव्यस्तेन च वाक्यमेदः प्राप्त इत्याश क्याह- न चति । परिहारमाह- एकत्रेति, यथा एकत्र द्वयम् " इतिरीत्या ' नीलः सुन्दरो घटः ' इत्यत्रैकस्मिन्नेव घटे नीलत्वं सुन्दरत्वं चास्तीति नीलत्वावच्छिन प्रकारता निरूपिताया: सुन्दरत्वावच्छिन्नप्रकारतानिरूपितायाश्च घटनिष्ठविशेष्यताया एकत्वान्न वाक्यभेदो न वा समूहालम्बनात्मक बोधस्तथा प्रकृतेपि कर्मत्वनिष्ठप्रकारता निरूपितायाः कर्तृत्वनिष्ठप्रकारता निरूपितायाश्च माषनिष्ठविशेष्यताया एकत्वान्न वाक्यभेदो न वा समूहालम्वनबोध इत्यर्थः । ननु विधेयद्वयज्ञानं समूहालम्बनात्मकमेव भवतीति कर्मत्वकर्तृत्वयोर्विधाने वाक्यभेदः स्यादेवेत्याशङ्कते - यदीति । उत्तरमाह - तदेति, धातोः सामान्यतः क्रियायां " Aho Shrutgyanam" Page #565 -------------------------------------------------------------------------- ________________ कर्तृत्वानभिधानपदार्थविचारः ] व्युत्पत्तिवादः । ( ५५३ ) 6 रेव स्वकर्मक क्रियायां लक्षणा, कर्तृत्वसंबन्धमध्ये एव वा स्वनिरूपक क्रियाकर्मत्वस्याप्यन्तर्भावः । स्तुनमोरकर्मकत्वेपि ' प्रस्तुते गौः ' प्रास्नोष्ट गौः नमते दण्डः अनंस्त दण्डः' इत्यादौ व्यर्थान्तर्भावेनैव कर्मकर्तृतानिर्वा हे "न दुहस्नुनमां यचिणौ" इति यक्चिणनिषेधोपपत्तिः । एवं ' चैत्रेण पक्ष्यते ' इत्यादौ कर्तृत्ववाचकताया दुरपह्नवत्वात् तृतीयानुपपत्तिः - ' चैत्रः पक्ष्यते ' इत्यादौ लकारेण कर्तृत्वबोधनात् स्याद्युत्तरलकारसाधारणरूपस्य तद्वाचकतावच्छेदकताघ्रौव्याच्च । नापि तदबोधकत्वं तदनभिधानम् - ' चैत्रेण पच्यते ' इतिवाक्यजबोधे शक्तावपि माषादिकर्मकक्रियायां लक्षणा तथा च लक्षणया भाषादिकर्मकव्यापारस्य बोध उपपन्न इत्यर्थः । पक्षान्तरमाह- कर्तृत्वेति, स्वं कर्तृत्वं कर्तृत्वनिरूपिका या क्रिया तत्कर्मत्वस्य कर्तृत्वसंबन्धे एवाऽन्तर्भावः कर्तव्यस्तथा च स्वनिरूपकक्रियाकर्मत्वसंबन्धेनात्र माषादिलक्षणकर्तरि कर्तृत्वस्यान्त्रयः कर्तभ्य इति कर्तृत्वमात्रस्य विधेयत्वेन विधेयभेदाभावान्न वाक्यभेदप्रसङ्गः कर्मत्वस्य माषादौ संसर्गविधयापि मानसंभवादित्यर्थः, अत्र स्त्रं माषादिनिष्ठं कर्तृत्वं तन्निरूपिका या पाकादिक्रिया तत्कर्मत्वं माषादावस्त्येवेति तेन कर्मस्वरूपसंबन्धेन माषादौ कर्तृत्वान्वय इत्यन्वयः । ननु स्तुनमोर्धात्वोर्यदि सकर्मकत्वं स्यात्तदा कर्मकर्तृविवक्षायां यगादिप्राप्तौ सत्याम् न दुहस्नुनमाम् " इत्यनेन यगादिनिषेध उपपद्येतापि न च यगादिप्राप्तिरस्ति - स्तुतमोरकर्मकत्वादित्याङ्क्याह - स्तुनमोरिति, स्नुनमोरकर्मकत्वेपि तदर्थे ण्यर्थान्तर्भावेन कर्मकर्तृत्वमुपपद्यते व्यर्थभावनायाः सकर्मकत्वादिति सकर्मकत्वे प्राप्ते कर्मकर्तृत्वविवक्षायां यगादिप्राप्तौ सत्याम् न दुहस्नुनमाम् " इत्यनेन यगादिनिषेध उपपन्न एवेत्यर्थः । नम् धातोः सामा-' न्यतः सकर्मकत्वेपि दण्डादीनां स्वयमेव नमने 'नमते दण्डः ' इत्यादावकर्मकत्वमेव विज्ञेयं कर्माभावात् । 26 CA ८ ," LL न च कर्मकर्तरि " इत्यनेनाऽऽरब्धाम प्रकृतचिन्तां परिसमाप्य प्रकृतमाह - एवमिति, यथा " कर्मवत्कर्मणा " इति सूत्रवैयर्थ्यापत्तिरेवमिति पूर्वेण संगतिः । तृतीयानुपपत्तिरिति - "अनभिहिते कर्तरि ” इत्यत्रेदानीं कर्तृपदं कर्तृत्वपरमेवेत्यनभिहिते कर्तृत्वे तृतीया संभवति न चात्रकारस्य कर्तृत्ववाचकत्वेन कर्तृत्वाभिधानस्यैव सत्त्वादित्यर्थः । चैत्रेण पक्ष्यते ' इत्यत्र लकारस्य कर्तृत्ववाचकत्वे हेतुमाह - चैत्र इति, 'चैत्रः पक्ष्यते ' इति लट्प्रयोगे लकारस्य कर्तृत्व. वाचकत्वमस्त्येव ' पक्ष्यते इत्येव च प्रयोगः ' चैत्रेण पक्ष्यते ' इत्यत्राप्यस्त्येवेत्यत्र कथं न कर्तृत्ववाचकत्वं स्यात् उक्ते हेतुमाह- स्पायुत्तरेति, स्याद्युत्तरलकारसाधारणमेव ' पक्ष्यते ' इति रूपं तद्वाचकतायाः = कर्तृत्ववाचकताया अवच्छेदकमस्ति तादृशरूपाक्रान्तिश्वोभयत्र तुल्यैवेति कथमेकत्र लकारस्य कर्तृत्ववाचकत्वमेकत्र च कर्तृत्वावाचकत्वमिति वैषम्यं स्यादित्यर्थः । पक्षान्तरं परिहरति-- नापीति । तदबोधकत्वम् = कर्तृत्वाबोधकत्वम् । तदनभिधानम् = कर्तृ " Aho Shrutgyanam" " 6 Page #566 -------------------------------------------------------------------------- ________________ ( ६५४ ) सादर्श: [ आख्यातप्रकरणेकर्तृत्वविषयके तादृशका क्यघटकसकलपदानामेव जनकतया तद्धटकलकारस्यापि कर्तृत्वबोधकताया वाङ्मात्रेणाऽप्रत्याख्येयत्वात् । नापि तद्विषयत्वाप्रयोजकत्वं लादीनां तदनभिधायकत्वम् ' चैत्रेण पच्यते ' इत्यादौ धात्वर्थविशेषणतया कर्तृत्वविषयता तृतीयाप्रयोज्यैव न त्वाख्यातमयोज्या- आख्यातस्याश्रयता संबन्धावच्छिन्नकर्तुत्वमकारताया एव कार्यतावच्छेदकत्वादित्यपि सम्यक् - ' पचति ' इत्यवान्तरवाक्यार्थबोधासंग्राहकतया प्रकारताया एवाख्यातजन्यतावच्छेदकत्वासंभवात् प्रथमान्तपदसमभिव्याहारज्ञानस्य योग्यताज्ञानादेव जन्यतायामुक्तप्रकारताया अवच्छेदकत्वात् । ८८ वानभिधानम् । अनभिहिते कर्तरि ” इत्यत्रेति शेषः । बोधे इतिनिरूपितत्वं सप्तम्यर्थस्तथा वोक्तवाक्य घटकसकलपदानामेव कर्तृत्व विषयकबोधनिरूपितजनकतयेत्यर्थः । ' चैत्रेण पच्यते' इतिवाक्यस्य कर्तृत्वबोधकत्वे : वाक्यघटकलकारस्यापि कर्तृत्वबोधकत्वं प्राप्तमेवेति तृतीयानुपपत्तिः - तृतीयाप्रापकस्य कर्तृत्वाबोधकत्वस्याऽसत्त्वादित्यर्थः । ' चेत्रेण ननु कर्तृत्वविषयत्वाऽप्रयोजकत्वमेव लादीनां कर्तृत्वानभिधायकत्वमिति वक्ष्यामः पच्यते ' इत्यत्र च या धात्वर्थविशेषणतया कर्तृत्वविषयता ( कृतिनिष्ठा प्रकारता ) भासते — चैत्रसमवेतकृतिजन्यः पाकः ' इतिबोधोदयात् सा तृतीयाप्रयोज्यैवास्ति न तु लकारप्रयोज्यालकारस्याऽऽश्रयतासंबन्धावच्छिन्न कर्तृत्वप्रकारतामात्रप्रयोजकत्वात् अर्थादाख्यातेनाश्रयता संवन्धेन कर्तृत्वं कर्तरि विशेषणतया बोध्यते न तु धात्वर्थव्यापारे. तृतीययैव व्यापारे कर्तृत्वं विशे* षणतया बोध्यते इति लकारस्य तद्विषयत्वाप्रयोजकत्वालूलकारेण कर्तृत्वानभिधानं प्राप्तमिति न तृतीयानुपपत्तिरित्याशङ्क्याह- नापीति । परिहारमाह- पचतीति । यद्यपि ' चैत्रः पचति इत्यत्र चैत्रपदसमभिव्याहारात् चैत्रे कृतिः प्रकारतया भासते ' पाकानुकूलकृतिमांश्चैत्रः ' इति - बोधोदयादित्यत्र कर्तृत्वप्रकारताविषयक बोधजनकत्वरूपं कर्तृत्वप्रकारताप्रयोजकत्वमाख्यातस्यास्ति तथापि ' चैत्रः पचति ' इतिवाक्यस्य यदवान्तरवाक्यम् ' पचति ' इति वाक्यं तज्जन्यबोधे तु कृतिः प्रकारतया न भासते कृत्याश्रयीभूत कर्तुरनुपस्थितत्वात् ' पाकानुकूला कृतिः ' इत्येतावन्मात्रबोधोदयादित्येतादृशबोधाऽसंग्रहप्रसङ्गात् : कर्तृत्वप्रकारतैवाख्यातेन बोध्यते इति नः स्वीकर्तुं शक्यते, किं त्वेतादृशी = माश्रयत्व संबन्धावच्छिन्ना कर्तृत्वप्रकारता तु प्रथमान्तपदसमभिव्याहारज्ञानेन वा कर्तृत्वप्रकारताविषयक योग्यताज्ञानेन वा बोध्यते इत्येव युक्तं तथा चोक्तधात्वर्थविशेषणीभूता कर्तृत्वविषयतापि लकारप्रयोज्यैवेति ' चैत्रेण पच्यते ' इत्यत्र कर्तृत्वानभिधानाभावात् तृतीयानुपपत्तिस्तदवस्थैवेत्यर्थः । प्रकारताया इति वाक्यस्य प्रकारताया आख्यातजन्य तावच्छेदकत्वस्यैवासंभवात् ' इत्यन्वयः । जन्यतायामुक्तप्रकारताया अवच्छेदकत्वात् ” इत्यस्य उक्तप्रकारताया योग्यताज्ञानादिजन्यतावच्छेदकत्वात् ' इत्यर्थः । ८ ፡፡ 1 "Aho Shrutgyanam" Page #567 -------------------------------------------------------------------------- ________________ कर्तृत्वानभिधानपदार्थविचारः 1 व्युत्पत्तिवादः । ( ५५५ ) यदि च प्रथमान्तपदसमभिव्याहृताख्यातपदजन्यतावच्छेदकतयैव धर्मिवेिषयतानिरूपितकर्तृत्वविषयताया आख्यातप्रयोज्यत्वं कर्तृत्वविषयतासामान्यं च नाख्यात पदज्ञान सामान्यजन्यतावच्छेदकं तादृशसामान्यकार्यकारणभावे मानाभावादित्युच्यते ?, तदापि ' चैत्रेण पच्यते तण्डुलः ' इत्यादिवाक्यार्थबोधस्य परस्परसमभिव्याहृतपदसमूहरूपवाक्यज्ञानहेतुकतया तद्वाक्यार्थविषयतान्तःपातिकर्तृत्वविषयताया वाक्यघटकाख्यातप्रयोज्यत्वं दुर्वारमेवेति । मैवम् - " अनभिहिते कर्तरि तृतीया " इत्यस्य ' कर्तृत्वविशेष्यतया प्रातिपदिकार्थेऽविवक्षिते सति तृतीया ' इत्यर्थः ' प्रातिपदिकार्थविशेषणतयैव कर्तृत्वेऽविवक्षिते इतियावत्, अवधारणतया च ' प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते तदुत्तरं तृतीया ' इतिपर्यवसितम् । ननु न कर्तृत्वविषयतामात्रमाख्यातमात्रप्रयोज्यं भवति येन ' चैत्रेण पच्यते इत्यत्र धात्व. र्थविशेषणीभूताया अपि कर्तृत्वविषयताया: आख्यातप्रयोज्यत्वापत्त्या तृतीयाऽनुपपत्तिः स्यात् किंतु कर्तृभूतो यश्चेत्रादिरूपो धर्मी तन्निष्ठविषयता ( विशेष्यता ) निरूपिता या कर्तृत्ववि - यता ( कृतिनिष्ठा प्रकारता ) तस्या एव प्रथमान्तपदसमभिव्याहृताख्यातप्रयोज्यत्वमस्तीत्येतादृशविशेषरूप एक कार्यकारणभाव: स्वीक्रियते, कर्तृत्वविषयतासामान्यमाख्यातपदज्ञानसामान्यप्रयोज्यमिति सामान्यकार्यकारणभावे मानाभावात् तथा च प्रयोजकीभूताख्याते प्रथमान्तपदसमभिव्याहृतत्वमपेक्ष्यते प्रयोज्यभूतकर्तृत्वविषयतायां च प्रथमान्तपदसमभिव्याहृताख्यातपदजन्यतावच्छेदकत्वम् ( बोध्यत्वम् ) धर्मिविषयतानिरूपितत्वं चापेक्ष्यते ' चैत्रेण पच्यते ' इत्यत्र च प्रथमान्तपदाभावेन प्रथमान्तपदसमभिव्याहृतमाख्यातमेव नास्ति यस्य कर्तृत्वविषयताप्रयोजकत्वं स्यात्तेन च कर्तृत्वाभिधानप्राप्त्या : तृतीयानुपपत्तिः स्यादित्याशङ्कयाह- यदीति । उत्तरमाह— तदापीति, ' चैत्रेण पच्यते तण्डुलः ' इत्येतद्वाक्यजन्यो बोध एतद्वाक्येनैव जन्यते एतद्वाक्यं चैतद्वाक्यघटकपद समूहरूपमेवेति वाक्ये आख्यातपदमपि वर्तते एतद्वाक्यजन्यबोधे च कर्तृत्वविषयतापि भासते एवेति एतद्वाक्यस्यैतद्वाक्यार्थ प्रयोजकत्वे एतद्वाक्यघटकाख्यातस्यैतद्वाक्यार्थघटक कर्तृत्वविषयताप्रयोजकत्वं प्राप्तमेवेति तृतीयानुपपत्तिस्तदवस्थैव- तृतीयाप्रयोजकस्य कर्तृत्वविषयत्वाप्रयोजकत्वरूपस्य कर्तृत्वानभिधायकत्वस्य लकारे प्राप्त्यभावादित्यर्थः । ८ " अनभिहिते कर्तरि तृतीया " इत्यत्राऽनभिहितपदस्य उक्ताऽवाचकत्वाद्यर्थकत्वे उक्तानु-पपत्तीनां सत्त्वान्न तथा व्याख्या कर्तव्या किं तु प्रदर्श्यमानरीत्यत्रोक्तवचनव्याख्या कर्तव्येत्य-. भिप्रायेणाह - मैवमिति, ' चैत्रेण पच्यते ' इत्यत्र ' चैत्रवृत्तिकृतिजन्यो व्यापारः ' इति वा चैत्रवृत्तिकृतिजन्यपाकजन्य विक्लित्त्याश्रयस्तण्डुलः ' इति वा बोधोदयात् कृतेः = कर्तृत्वस्य प्रातिपदिकार्थे चैत्रे विशेषणत्वं नास्ति - व्यापारे विशेषणत्वात् प्रातिपदिकार्थस्य च कृतिवि 7 "Aho Shrutgyanam" Page #568 -------------------------------------------------------------------------- ________________ (५५६) सादर्श: [ आख्यातप्रकरणेअत्रैवम् 'चैत्रः पवति ' इत्यादावाख्यातेन कर्तृत्वबोधनात् “ उक्तार्थानामप्रयोगः” इतिन्यायात् तृतीयापत्तिविरहात् “प्रातिपदिकार्थान्वयितया कर्तृत्वविवक्षायाम् ' इत्येव सम्यक् किं विशेष्यतयाऽन्वयित्वपर्यन्तनिवेशनेनेति " अनभिहिते " इत्यनुवृत्तिरफला-तावत्पर्यन्तलाभस्यैव तदनुवृत्तिफलत्वादिति नाशङ्कथम्, 'संख्यातिरिक्तसुवर्थस्य प्रकृत्यर्थविशेष्यतयैवान्वयः । इतिव्युत्पत्तिसूचकत्वेन विशेष्यतयान्वयित्वपर्यन्तस्थावश्यं विवक्षणीयत्वात् । यथाश्रुतसू. त्रार्थानुरोधेन कर्तरि लकारतृतीयाविभक्त्योः शक्तिवादिभिर्वयाकरणैरपि 'प्रातिपदिकार्थविशेष्यतया कर्तरि विवक्षिते तृतीया' इत्येव सूत्रार्थो वाच्या, अन्यथा शेष्यत्वं नास्ति किं तु कृतेरेव प्रातिपदिकार्थविशेष्यत्वमस्ति चैत्रस्य कृतौ विशेषणत्वादित्यत्र चैत्रपदात् तृतीया प्राप्तेत्यर्थः । अवधारणतया=" प्रातिपदिकार्थविशेषणतयैव " इत्यत्रत्यैवकारार्थेन नियमेन । कर्तृत्वस्य प्रातिपदिकार्थविशेषणत्वेनाऽविवक्षानियमे उक्ते सति प्रातिपदिकार्थविशेष्यत्वेन विवक्षा प्राप्तवेत्यर्थः । तदुत्तरम्-कर्तृवाचकपदोत्तरम् । _ ननु " प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते कर्तृपदोत्तरं तृतीया " इत्येवं विशेष्यतयाऽन्ययित्वपर्थन्तनिवेशो व्यर्थ एव गौरवग्रस्तो वेति तस्य स्थाने " प्रातिपदिकार्थान्ययितया कर्तृत्वविवक्षायां तृतीया " इत्येव वक्तव्यं तथा च ' चैत्रेण पच्यते । इत्यत्र प्रातिपदिकार्थभूतचैत्रस्य कर्तृत्वे कृतावन्वयस्य सत्त्वेन कृतेः प्रातिपदिकार्थान्वयितया विवक्षितत्यात् चैत्रपदातृतीया प्राप्नोत्येव-चैत्रवृत्तिकृतिजन्यो व्यापार इति बोधोदयात, यद्यपि ' चैत्रः पचति । इत्यत्रापि 'पाकानुकूलकृतिमांश्चैत्रः । इतिबोधोदयात् कृतेः प्रातिपदिकार्थे चैत्रे विशेषणतयान्वयित्वात्ततीयापत्तिरस्ति तथापि “उक्तार्थानामप्रयोगः " इतिनियमोस्ति - चैत्रः पचति । इत्यत्र चाख्यातं . कर्तृत्वबोधकमस्त्येवेति कर्तृत्वबोधिकायास्तृतीयाया आपत्तिर्नास्त्येवेति सर्व सुस्थम्, एवं च " अनभिहिते कर्तरि " इत्यत्र “अनमिहिते " इत्यस्यानुवृत्तिरपि न कर्तव्या- तावत्पर्यन्तलाभस्य विशेष्यतयान्वयित्वपर्यन्तलाभस्यैव तदनुवृत्तिफलत्वात्=" अनभिहिते " इत्यनुवृत्तिफलत्वात, विशेष्यतयान्वयित्वपर्यन्तनिवेशस्य च त्यक्तत्वादित्याशयेनाशङ्कते- अत्रैवमित्यादिना, नाशयमित्यन्तम् । उत्तरमाह- संख्यातिरिक्तेति, “प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते तृतीया " इत्युक्ते 'चैत्रेण पच्यते' इत्यादौ तृतीयार्थकर्तृत्वस्य प्रातिपदिकार्थभूतप्रकृत्यर्थविशेष्यत्वं प्राप्तं तेन च " संख्यातिरिक्तसुबर्थस्य प्रकृत्यर्थविशेध्यतयैवान्वयो भवति " इति व्युत्पत्तेः समर्थनं भवति, त्वदुक्तेन " प्रातिपदिकार्थान्वयितया कर्तृत्वविवक्षायां तृतीया " इत्यनेनोक्तव्युत्पत्तिसमर्थनं न संभवति- प्रातिपदिकविशेषणस्यापि प्रातिपदिकार्थान्वयित्वाऽक्षतरित्यर्थः । यथाश्रुतेति- सूत्रे “ कर्तरि " इतिपदमस्तीति कर्तृत्वविशिष्टे कर्तर्येव लकारस्य तृतीयायाश्च शक्तिर्न तु कर्तृत्वे इतिवैयाकरणमतम् । प्रातिपदिकार्थविशेष्यतयेति- यथा 'नीलो घटः' इत्यत्र नीलपदार्थस्य घटपदार्थस्य चाभेदेपि नीलत्वघटत्व "Aho Shrutgyanam" Page #569 -------------------------------------------------------------------------- ________________ कर्तृत्वानभिधानविचारः ] व्युत्पत्तिवादः। (५५७) 'चैत्रेण पच्यते । इत्यादौ कर्तुरनभिधानस्योक्तक्रमेण कर्तृत्वानभिधानवद् दुर्वचत्वापत्तरित्यलमधिकेन । ___ अथ " अनभिहिते कर्तरि तृतीया " इत्यस्योक्तार्थकत्वे चैत्रादिकर्तृकत्वविशेषितपाकादिविवक्षया ' चैत्रेण पचति' इत्यादिप्रयोगापत्तिः, न च परस्मैपदार्थकर्तृत्वान्वयिविशेष्यविरहान तथाप्रयोगः-विशेष्यतयापि कर्तृत्वबोधसंभवात् । चैत्रमैत्रोभयकर्तृकपाकस्थले चैत्रकर्तृकपाककर्ता मैत्र इत्यन्वयतात्पर्येण 'चैत्रेण पचति मैत्रः' इतिप्रयोगस्य दुर्वारत्वाच्च ।। न च कर्तृत्वातिरिक्त विशेषणतापनायां कर्तृत्वे वा विशेषणातानापन्नायामेव योर्धमयोर्भेदात् नीलत्वावच्छिन्ना प्रकारता भवति घटत्वावच्छिन्ना च विशेष्यता भवति तथा ' चैत्रेण पच्यते ' इत्यादावपि प्रातिपदिकार्थस्य कर्तुश्चाभेदेपि चैत्रत्वकर्तृत्वयोधर्मयोभेदात् चैत्रत्वावच्छिन्नाप्रकारता कर्तृत्वावच्छिन्ना च विशेष्यता ज्ञेया तथा च ' चैत्रत्वाद्यवच्छिन्नप्रकारतानिरूपितकर्तृत्वावच्छिन्नविशेष्यतायां विवक्षितायां तृतीया' इत्येवं वैयाकरणः " अनमिहिते कर्तरि ". इतिसूत्रस्यार्थो वक्तव्य इत्यर्थः । विपक्ष बाधकमाह- अन्यथेति, अन्यथा यथोक्तरीत्या कर्तृत्वानभिधानं दुर्वचमेवेति प्रदर्शितं तथा कऽनभिधानमपि ताभिरेव. शङ्काभिर्दुर्वचमेव स्यादित्यर्थः । ननु " अनभिहिते कतार " इत्यस्योक्तार्थकत्वे= " प्रातिपदिकार्थविशेष्यत्वेन कर्तृत्वविवक्षायां तृतीया " इत्यर्थस्वीकारेपि विवक्षायाः स्वाधीनत्वेन 'चैत्रः पचति' इत्यत्रापि कर्तृत्वस्य चैत्रविशेष्यतया विवक्षासंभवात् प्रातिपदिकार्थचैत्रविशेष्यभूतकर्तृत्वस्य पाके विशेषणत्वविवक्षासंभ. वाच्च चैत्रेण पचति' इतिप्रयोगापत्तिः स्यादित्याशङ्कते-अथेति । ननु पचते' इतिपरस्मैपदस्यार्थभूतं यत्कर्तृत्वं तादृशकर्तृत्वस्य विशेष्यतयान्वयी प्रथमान्तपदार्थ एव भवति 'चैत्रेण पचति' इत्यत्र च परस्मैपदार्थकर्तृत्वस्य विशेष्यभूतश्चैत्रादिः प्रथमान्तपदार्थो नास्त्येवेति तदभावादेव · चैत्रेण पचति । इतिप्रयोगापत्तिर्नास्तीत्याशङ्क्याह- न चेति । उत्तरमाह- विशेष्यतयेति, परस्मैपदार्थकर्तृत्वस्य विशेषणतयैव बोधो भवतीत्यत्र श्रुत्यभावात् 'पाकानुकूला चैत्रसमवेता कृतिः' इत्येवं विशेष्यतयापि बोधसंभवात् 'चैत्रेण पचति' इतिप्रयोगापत्तिस्तदवस्थैवेत्यर्थः । “ प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते तृतीया " इत्युक्तसूत्रार्थस्वीकारे दोषान्तरमाह- चैत्रमैत्रेति, यत्र चैत्रमैत्राभ्यां पाकः क्रियते तत्र तादृशपाके उभयकर्तृकत्वमस्त्येवेति चैत्रसमवेतकर्तृत्वस्य पाके विशेषणतयाऽन्वयविवक्षासंभवात् तादृशपाककर्तृत्वेन च मैत्रविवक्षासंभवात् 'चैत्रकर्तृकपाककर्ता मैत्रः =चैत्रकर्तृकपाकानुकूलकृतिमान्मैत्रः इत्यन्वयतात्पर्येण ‘चत्रेण पचति मैत्रः ' इतिप्रयोगापतिः स्यादेव न चैतदिष्टमित्यर्थः । ___ आशङ्कते- न चेति, तथा च ' चैत्रेण पच्यते तण्डुलः ' इत्यत्र “ चैत्रवृत्तिकृतिजन्यव्यापारजन्यविक्लित्त्याश्रयस्तण्डुलः । इतिबोधोदयात् चैत्रः कृतौ कृतिश्च व्यापारे व्यापारश्च. "Aho Shrutgyanam" Page #570 -------------------------------------------------------------------------- ________________ ( ५५८ ) सादर्श: [ आख्यातप्रकरणे क्रियायां तृतीयार्यकर्तृत्वान्वयो व्युत्पन्न इतिवाच्यम्, 'चैत्रेण पाचयति मैत्रः ' इत्यादौ व्यर्थकर्तृत्वविशेषणतापन्ने पाकादौ चैत्रादिकर्तृकत्वान्वयेन तादृशव्युत्वत्तेरसिद्धेः । न च लकारार्थकर्तृत्वविशेषणतानापन्नक्रियाविशेषणतया कर्तृत्वबोधकत्वं सुपां व्युत्पन्नमिति न कश्चिद्दोष इति वाच्यम् उक्तस्थले 'चैत्रेण पकवान् मैत्रः' इतिप्रयोगापत्तेः । , " ८ विक्तित्तौ विक्लित्तिश्च तण्डुले विशेषणमस्तीत्यत्र कर्तृत्वातिरिक्तभूतायां विक्त्तिौ विशेषणतापन्नायां क्रियायां तृतीयार्थकर्तृत्वस्यान्वयोस्ति किं वात्र क्रियाया विकित्तौ विशेषणत्वेन कर्तृत्वे विशेषणत्वं नास्तीति कर्तृत्वे विशेषणतानापन्नायामेव : क्रियायां तृतीयार्थ कर्तृत्वस्यान्वयोस्तीत्यत्र तृतीया उपपद्यते ' चैत्रेण पचति मैत्रः इत्यत्र च ' चैत्रकर्तृकपाककर्ता मैत्र: ' इत्यन्त्रयतात्पर्ये ' चैत्रकर्तृकपाकानुकूलकृतिमान् मैत्र:' इतिबोधसंभवात् क्रियाया: कर्तृत्वे विशेबगत्वं प्राप्तमिति तादृश्यां कर्तृत्वविशेषणतापन्नक्रियायां तृतीयार्थ कर्तृत्वस्यान्वयो न संभवतीति न ' चैत्रेण पचति मैत्र: ' इति 'चैत्रेण पचति ' इति वा प्रयोगापत्तिरित्यर्थः । उत्तरमाहचैत्रेणेति, ' चैत्रेण पाचयति मैत्र: ' इत्यत्र ' चैत्रवृत्तिकृतिजन्यो यः पाकस्तादृशपाकानुकूलकृतिमान् मैत्रः ' इतिबोधोदयात् मैत्रवृत्ति यद् व्यर्थभूतं कर्तृत्वं तत्र विशेषणतापन्नायामेव पाकक्रियायां चैत्रवृत्तितृतीयार्थभूत कर्तृत्वस्यान्वयोस्त्येवेत्युक्तव्युत्पत्तिर्न स्वीकर्तुं शक्यते तथा 'च' चैत्रेण पचति मैत्र: ' इतिप्रयोगापत्तिस्तदवस्थैवेत्यर्थः । ननु लकारार्थभूतं यत् कर्तृत्वं तादृशकर्तृत्वे विशेषणतानापन्ना या क्रिया तद्विशेषणतया सुपां कर्तृत्वबोधकत्वं स्वीक्रियते लकारार्थकर्तृत्वविशेषणतानापन्न क्रियायां तृतीयार्थ कर्तृत्वान्त्रयो व्युत्पन्न इति यावत् तथा ' चैत्रेण पाचयति मैत्रः ' इत्यत्र हि प्यर्थकर्तृत्व विशेषणतापन्नायां पाकक्रियायां चैत्रवृत्तितृतीयार्थकर्तृत्वस्यान्वयोस्ति न तु लकारार्थ कर्तृत्व विशेषणतापन्नायां पाकक्रियायामित्यत्र युक्तंत्र तृतीया, ' चैत्रेण पचति मैत्र: ' इत्यत्र तु चैत्रवृत्तिकृतिजन्यपाकानुकूलकृतिमान् मैत्रः ' इति बोधोदयात् मैत्रवृत्ति यलकारार्थभूतं कर्तृत्वं तत्र विशेषणतापन्नायामेव पाकक्रियायां चैत्रवृत्तितृतीयार्थकर्तृत्वस्यान्वयो वक्तव्यः स तु न संभवतीति नात्र चैत्रपदात् तृतीयापत्तिः न घा ' चैत्रेण पचति मैत्र: ' इतिप्रयोगापत्तिश्चः, एवम् " चैत्रेण पचति ' इत्यत्रापि ' चैत्रसमवेता पाकानुकूला कृति ' इत्येवं कृतिविशेष्यकबोधस्वीकारेपि तत्र कृतिः = कर्तृत्वं लकारार्थ एव तादृशलकारार्थकृतौ विशेषणतापन्नायामेत्र पाकक्रियायां चैत्रवृत्तितृतीयार्थ कर्तृत्वस्यान्वयो चक्कत्र्यः स तु न संभवतीति न ' चैत्रेण पचति ' इतिप्रयोगापत्तिरपीत्याशङ्क्याह- न चेति । उत्तरमाह - उक्तस्थले इति, एवमप्युक्तस्थले = चैत्रमैत्रोभयकर्तृकपाकस्थले ' चैत्रेण पक्क्वान् मैत्र: ' इति प्रयोगः स्यादेव - अत्र मैत्रवृत्ति यत् कर्तृत्वं तलाकरार्थभूतं नास्ति कृदर्थत्वादिति लकारार्थ कर्तृत्व विशेषणतानापन्नायामेव पाकक्रियायां चैत्रवृत्तितृतीयार्थ कर्तृत्वस्यान्चयसंभवादिव्यर्थः, न चायं प्रयोग इष्ट:- उक्तस्थले ' चैत्रमैत्रौ पक्कवन्तौ ' इति प्रयोगस्येष्टत्वादिति भावः । " Aho Shrutgyanam" Page #571 -------------------------------------------------------------------------- ________________ तृतीयार्थकर्तृत्वान्वयविचारः] व्युत्पत्तिबादः । मैवम्- आश्रयातिरिक्ताविशेषणतापनकर्तृत्वविशेषणतानापन्नक्रियायामेव विशेषणतया कर्तत्वं ततीयया बोध्यते इति नियमः चैत्रेण पाचयति' इत्यादौ कर्तृत्वनिर्वाहकव्यापारो णिजर्थस्तत्राश्रयातिरिक्त व्यापारे विशेषणं कर्तृत्वमिति तद्विशेषणतापन्न क्रियायां तृतीयार्थकर्तृत्वविशेषणत्वे न किंचिद् बाधकम् । 'चैत्रेण पचति मैत्रः' इत्यादयश्च न प्रयोगा:- तत्राश्रये एव कृतेर्विशेषणतया तद्विशेषणतापन्नक्रियायां तृतीयया कर्तृत्वबोधनाऽसंभवात् । कृतिविशेष्यकबोधाभिप्रायेण 'चैत्रेण पचति ' इतिवारणायाऽऽश्रयविशेषणत्वमुपेक्ष्याऽऽश्रयातिरिक्ताविशेषणत्वं निवेशितम् । “अनभिहिते कर्तरि तृतीया " इत्यस्यापि निरुक्तक्रियाविशेषणतया प्रातिपदिकार्थान्वयिकर्तृत्वविवक्षायां तदुत्तरं तृतीया भवति' इत्येवार्थ इतिदिक । अथेत्यादिना शङ्कितं परिहरन् समाधत्ते- मैवमित्यादिना, आश्रयातिरिक्ताऽविशेषणतापन्नं यत् कर्तृत्वं तादृशकर्तृत्वविशेषणतानापन्न क्रियायां तृतीयार्थकर्तृत्वस्यान्वयो भवतीति नियमः, 'चैत्रेग पाचयति मैत्रः । इत्यत्राश्रयातिरिक्त व्यापारे विशेषणं कर्तृत्वं न त्वाश्रयातिरिक्ताऽधिशेषणतापन्नमिति चैत्रवृत्तिकृतिजन्यो यः पाक इत्येवं व्यापारविशेषणतापन्नं यत्कर्तृत्वं तादृशकर्तृत्वविशेषगतापनपाकक्रियायां चैत्रवृत्तितृतीयार्थकर्तृत्वस्य विशेषणतयान्वयेपि नोक्तनियमव्यभिचार इत्यर्थः । ' चैत्रेण पचति मैत्रः । इतिप्रयोगापत्त्य संभवमाह- चैत्रेणेति, अत्र मैत्रबृत्तिकर्तृत्वं तिबेर्थाश्रये विशेषणमेव- आश्रयविशेषणतापनकर्तृत्वे विशेषणतापन्नक्रियायां च तृतीयार्थकर्तृत्वस्यान्वयो न व्युत्पन्न इति ' चैत्रेण पचति मैत्रः । इतिप्रयोगापत्तिर्नास्तीत्यर्थः । अत्र चैत्रवृत्तिकृतिजन्यव्यापारानुकूलकृतिमान् मैत्रः' इत्यन्वयबोधविवक्षया पाकस्याश्रयविशेषणतापन्नकर्तृत्वे विशेषणत्वमस्ति । विशेषणतापन्नतादृशपाके एव तृतीयार्थकर्तृवस्यान्वयो वक्तव्यः स च न संभवति- उक्तनियमविरोधादिति भावः । कृतिविशेष्यकबोधाभिप्रायेणापि ' चैत्रेण पचति ' इतिप्रयोगापत्त्य संभवमाह- कृतिविशेष्यकेति, 'आश्रयविशेषणतापन्नकर्तृत्वे विशेषगतानापन्नक्रियायामेव तृतीयार्थकर्तृत्वस्यान्वयो भवति । इत्येवं नियमस्वीकारे 'चैत्रेण पचति । इत्यत्र ' कृतिमचैत्रवृत्तिकृतिजन्यपाकानुकूला कृतिः' इत्येवं कृतिविशेष्यकबोधस्वीकारे आश्रयविशेषणतापन्नं यत्कर्तृत्वं तादृशकतृत्वेऽत्र विशेषणताऽनापन्नैव पाकक्रियास्तीति तादृशपाकक्रियायां चैत्रवृत्तितृतीयार्थकर्तृत्वस्यान्वयः कर्तव्योस्तीत्युक्तनियमेनात्र तृतीयापत्त्या ' चैत्रेण पचति ' इति :प्रयोगः स्यादेव यदाः च 'आश्रयातिरिक्ताऽविशेषणतापन्नकर्तृत्वे विशेषणतानापन्नक्रियायां तृतीयार्थकर्तृत्वस्यान्त्रयो भवति' इत्युच्यते तदा तूक्तकृतिविशेष्यकबोधस्वीकारेपि कर्तृत्वस्याश्रयातिरिक्ते पाकव्यापारे विशेषणत्वादेवात्राऽऽश्रयातिरिक्ताऽविशेषणतापन्नत्वं नास्तीति व्यापारविशेषणतापनकर्तृत्वे विशेषणतानापन्नक्रियायामपि तृतीयार्थकर्तृत्वान्वयस्य नियमविरुद्धत्वात् तृतीयापत्तिस्तथा ' चैत्रेण पचति । इतिप्रयोगापत्तिश्च नास्त्ये "Aho Shrutgyanam" Page #572 -------------------------------------------------------------------------- ________________ १६६० आख्यातप्रकारणे कर्तृत्वं व ' चैत्रः पचति ' इत्यादी क्रियानुकूला कृतिरेव तस्याश्चानुकूलकृतित्वेन कृतित्वमात्रेण वाऽऽख्यातवाच्यता । 'रथो गच्छति । 'काष्ठं पचति' इत्यादौ च क्रियानुकूलव्यापाररूपे कर्तृत्वे निरूढलक्षणा । कृतित्वजातेः प्रवृतिनिमित्तत्वे लाघवात् । मीमांसकास्तु- व्यापारत्वेनैव शक्तिः- “पचति' इत्यादावपि तेनैव रूपेण बोधोपगमात् ।. एवं चाऽचेतनेपि प्रयोगो मुख्य एव । कृतित्वस्य लाघवं चाकिंचित्करम् । यत्र लघुगुरुरूपाभ्यां बोधो निर्विवादस्तत्रैव लघुरूपावच्छिन्ने शतयुपगमात् , प्रकृते च कृतित्वेन बोधस्य सविवादत्वात् । तथापि तदवच्छिन्ने वेत्यर्थः । उक्तनियमानुकूल्येनोक्तसूत्रस्याप्यर्थमाह-अनभिहिते इति । निरुक्तक्रियाविशेषणतयेति'आश्रयातिरिक्ताविशेषणतापन्नकर्तृत्वे विशेषणतानापन्नक्रियायो विशेषणतया प्रातिपदिकार्थान्वयि (वृत्ति ) कर्तृत्वस्य विवक्षायां चैत्रादिपदोत्तरं तृतीया भवति । इत्यन्वयः सूत्रार्थश्च ज्ञेयः । ' चैत्रेण पच्यते ' इत्यत्र ' चैत्रवृत्तिकृतिजन्यः पाकव्यापारः । इतिबोधोदयात् आश्रयातिरिक्ते व्यापारादावऽविशेषणतापन्ने कर्तृत्वे विशेषणतानापनत्वं पाकक्रियायामस्त्येव तत्रैव च तृतीयार्थ. कर्तृत्वस्यान्वयः कर्तव्योस्तीति न तृतीयानुपपत्तिः । कर्तृत्वस्वरूपमाह- कर्तृत्वमिति, · चैत्रः पचति । इत्यादौ क्रियानुकूला कृतिरेव कर्तृत्वं ज्ञेयं तस्याः क्रियानुकूलकृतेश्चानुकूलकृतित्वेन केवल कृतित्वेन वा रूपेणाख्यातवाच्यता, तत्र केवलकृतित्वस्याख्यातवाच्यतेऽनुकूलतासंबन्धेन तत्र कृतौ पाकाद्यन्वयः, अनुकूलकृतित्वेनाख्यातवाच्यतापक्षे च जनकतासंबन्धेन विशेष्यतासंबन्धेन वा कृतौ पाकाद्यन्वयः, 'पाकानुकूलकृतिमांश्चैत्रः । इति बोधः । रथाद्यचेतनपदार्थेषु यत्नरूपकर्तृत्वस्यासंभवात् ' रथो गच्छति' इत्यादौ गमनाद्यनुकूलव्यापाररूपे कर्तृत्वे आख्यातस्य निरूढलक्षणा रथादौ व्यापाररूपकर्त. त्वसत्त्वे बाधकामावात् , कृतावाख्यातस्य शक्तेर्लक्षणायाश्च स्वीकारे कृतित्वजातेरेकायाः प्रवृत्तिनिमित्तत्वसंभवाल्लाघवमस्ति, कृतिविशिष्ट शक्तिस्वीकारे नाना कृतिव्यक्तीनां प्रवृत्तिनिमित्तत्वापत्त्या गौरवं स्यादित्यन्वयः । मीमांसकमतमाह- मीमांसकास्त्वित्यादिना । व्यापारत्वेनेति- आख्यातस्य लकारस्य वा व्यापारत्वेन रूपेण व्यापारे शक्तिरित्यर्थः । 'पति' इत्यादावप्याख्यातात् तेनैव व्यापारत्वेनैव रूपेण बोधस्वीकारात् । अपि शब्दात् ‘पच्यते । इत्यादौ तु व्यापारत्वेन रूपेणाख्याताद्बोधस्योभयसंमतत्वमेवेति व्यज्यते । व्यापारे शक्तिस्वीकारे विशेषान्तरमाह- एवं चेति, — रथो गच्छति ' इत्यादिप्रयोगोपि मुख्य एव- अचेतनेपि रथादौ व्यापारस्य बाधाभावादित्यर्थः । नैयायिकेन कृतौ शक्तिस्वीकारे यल्लाधवमुक्तं तत्राह-- कृतित्वस्येति । ननु लघुरूपावच्छिन्ने एव शक्तिस्वीकार उचितः कृतित्वं च व्यापारत्वापेक्षया लघुरूपमित्याशङ्कयाह- यत्रेति। कम्युग्रीवादिमत्त्वापेक्षया घटत्वं लघुरूपमिति घटत्वावच्छिन्ने शक्तिः । प्रकृते=' पचति । इत्यादौ "Aho Shrutgyanam" Page #573 -------------------------------------------------------------------------- ________________ आख्यातार्थे मीमांसकादिमतम् ] व्युत्पत्तिवादः। (५६१) शक्त्युपगमे तत्राऽमुख्यार्थेऽनादितात्पर्यकल्पनायां गौरवात् । एवम् ‘बीजादिनाऽङ्कुरः कृतः' इत्यादौ विनापि यत्नं कृत्रः प्रयोगात् तस्यापि व्यापारसामान्यार्थकता, अतः करोतिविवरणीयार्थकत्वोपे नाख्यातस्य यत्नत्वावच्छिन्नवाचकता न वा' किं करोति ? ' 'पचति' इतिप्रश्नोत्तरयोः समानप्रकारकबोधजनकत्वानुरोधेन तथात्वम् । अत्र केचित — पचति । इतिवाक्यजन्यबोधे सति यत्नत्वावच्छिन्ने वर्तमानत्वसंशयानुदयात् तत्र यत्नत्वावच्छिन्ने वर्तमानत्वबोधकत्वसिद्धौ तदवच्छिन्ने शक्तिलाघवात् सिद्ध्यति. न हि यत्नाविनाभूतक्रियाविशेषलिङ्गकानुमानलभ्येन यत्त्वावच्छिन्नेन समं वर्तमानत्वान्वयबोधकत्वमाऽऽख्यातस्यार्थाध्याहारमतेपि संभवति- लडादिजन्यवर्तमानत्वान्वयबोधे लडादितत्समभिव्याहृतधात्वन्यतरकृतित्वेन बोधस्य सविवादत्वान्न कृतित्वावच्छिन्ने शक्तिस्वीकार उचित इत्यर्थः । विपक्षे बाधकमाह- तथापीति, कृतित्वेन बोधस्य सविवादलेपि तदवच्छिन्ने कृतित्वावच्छिन्ने शक्तिस्वीकारे रथो गच्छति' इत्यादावऽमुख्यार्थे व्यापारे निरूढलक्षणापत्त्या गौरवमित्यर्थः । यथाऽऽख्यातस्य व्यापारवाचकता तथा कृधातोरपि व्यापारवाचकत्वमेव न तु यत्नवाचकत्वमित्याह-एवमिति । तस्य कृतः । नैयायिकैः ‘पचति ' इत्यस्य 'पाकं करोति । इत्येवं विवरणात् करोतेश्च यत्नवाचकवात् करोतिना वित्रियमाणाख्यातस्यापि यत्नवाचकत्वं प्राप्तं यत्न एव च कृतिरित्युक्तं तत् परिहरनाह-अत इति, करोतेरेव यत्नवाचकत्वं नास्ति येन तेन वित्रियमाणाख्यातस्य यत्नवाचकत्वं स्थात्. किं तु करोतेरप्युक्तरीत्या व्यापारवाचकत्वात् तेन वित्रियमाणाख्यातस्यापि व्यापारवाचकत्वमेव प्राप्तमित्यर्थः । एवम् ‘किं करोति' इति प्रश्ने ' पचति । इत्युत्तरं दीयते प्रश्नोत्तरवाक्ययोश्च समानविषयकत्वनियमात् समानप्रकारकबोधजनकत्वमस्ति तथा च ' किं करोति । इत्यस्य कृतित्वप्रकारकबोधजनकत्वेन ' पचति ' इत्यत्राख्यातस्यापि कृतित्वप्रकारकबोधजनकत्वं प्राप्तमिति कृतावेव शक्तिरिति यदुक्तं नैयायिकैस्तत्परिहरन्नाह- न वेति । 'किं करोति ' इत्यस्य कृतित्वप्रकारकबोधजनकत्वमेव नास्ति किं तु व्यापारत्वप्रकारकबोधजनकत्वमेव तथा च तदुत्तरवाक्यस्य 'पचति' इत्यादेरपि व्यापारत्वप्रकारकबोधजनकत्वं न कृतित्वप्रकारकबोधजनकत्वमित्यर्थः । तथात्वम् यत्नार्थकत्वम् ।। मीमांसकपराकर्तृमतविशेषमनुवदति-अत्रेति । सति जाते । तत्र= पचति ' इतिवाक्यजन्यबोधकाले । यत्नत्वावच्छिन्ने यत्ने-कृतौ । ननु यत्नं विना क्रिया न संभवतीति क्रियया यत्नानुमानं भवति तथा चानुमानेनाध्याहृते एव यत्ने लडर्थवर्तमानत्वस्वान्थयो भवतीत्याशङ्कयाह-न हीति । परिहारहेतुमाह- लडादीति, आख्यातार्थवर्तमानत्वान्वयं प्रति लडादिजन्या लडादिसमभिव्याहृतधातुजन्या वा या विशेष्यस्य यत्नस्योपस्थितिस्तस्याः कारणत्वमावश्यक तथा च ' पचति । इत्यत्र लडुपस्थितवर्तमानत्वस्य लडुपस्थितयत्नेऽन्वयः — करोति । "Aho Shrutgyanam" Page #574 -------------------------------------------------------------------------- ________________ (५६२) सादर्श: [ भाख्यातप्रकरणेजन्यविशेष्योपस्थिते. कारणताया आवश्यकत्वात, अन्यथा निराकाङ्क्षयत्नादिपदमात्रादू यत्नामुपस्थितावपि तत्र वर्तमानत्वादेर्लडादितो बोधप्रसङ्गात् ।। न चार्थाध्याहारवादिनाम् ' द्वारं पिधानं कृतिः' इत्यादितो द्वारकर्मककृतेरिव ' पवति यत्नः :' इत्यादितः 'पाकयत्लो वर्तमानः ' इत्याद्याकारको वर्तमानत्वादेर्वोध इष्ट एवेति वाच्यम्, परस्परसाकाङ्क्षपदार्थव्यान्वयबोध एवाऽध्याहृतस्येव निराकाङ्क्षपदादुपस्थितस्याऽर्थस्य विषयतायास्तैरुपगमात्, तत्रा. न्वयानुभावकसाकाङ्क्षपदसखात्, प्रकृते चान्वयबोधस्याऽकाङ्क्षानुपयोगिपदार्थदयविषयकत्वेन तेषामप्यसंमतत्वात् । तत्स्वीकारे निराकाङ्क्षस्याप्यनुभावकत्वस्वीकारापत्ते, शाब्दबोधे आकाक्षानुपयोगप्रसङ्गाच्चेति । तन्त्र-तत्र तात्पर्यलिङ्गेन यत्नत्वावच्छिन्ने वर्तमानत्वानुमितेरेवोपगमाद. ताशवर्तमानत्व. प्रतीतौ शाब्दत्वप्रतीतेः सविवादत्वादित्याहुः । इत्यत्र च लडुपस्थितवर्तमानत्वस्य धातूपस्थितयत्नेऽन्वयः संमवति न त्वऽध्याहृतयनेपि- " शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यते " इतिनियमादित्यर्थः । विपक्षे बाधकमाह- अन्यथेति । ___ नन्वर्थाध्याहारवादिनाम् ‘पचति यत्नः ' इत्यादौ निराकाङ्क्षयत्नादिपदोपस्थितयत्नादावल्याख्यातार्थवर्तमानत्वस्य 'पाकयत्नो वर्तमानः ' इत्येवमन्वय इष्ट एवेत्याशझ्याह- न चेति । परिहारहेतुमाह- परस्परेति, अध्याहृतार्थस्य परस्परसाकाङ्क्षपदार्थद्वयान्वयबोधे एव यथा शाब्दबोधविषयता तैः मीमांसकैः स्वीक्रियते सथा तैनिराकाङ्क्षपदादुपस्थितस्यार्थस्यापि या विषयता स्वीक्रियते सा परस्परसाकाङ्क्षपदार्थद्वयान्वयबोधे एव स्वीक्रियते यथा ' द्वारम् । इत्युक्तेऽध्याहृतपिधानपदार्थस्य, न तु परस्परनिराकाङ्क्षपदार्थान्वयबोधेपि तथा च ' पचति । इत्यादावुक्तरीत्याऽध्याहृतयत्ने नाख्यातार्थवर्तमानत्वान्वयः संभवतीत्यर्थः । तत्रेति- तत्र= द्वार पिधानं कृतिः । इत्यत्राऽन्वयानुभावकसाकाङ्क्षपदस्य-शाब्दबोधजनकसाकाङ्क्षपदस्य सत्त्वात् द्वारकर्मककृतेर्बोध इष्टः प्रकृते= पचति यत्नः । इत्यत्र चान्वयबोध आकाङ्क्षानुपयोगिभूतं यत् 'पचति यत्नः' इतिपदद्वयं तदर्थविषयक एव वक्तव्यो न चाकाङ्क्षानुपयुक्तपदजन्यस्तदर्थ विषयकः शाब्दबोधस्तेषाम्=-मीमांसकानामपि संमत इति ‘पचति यत्नः' इत्यत्र जायमानान्वयबोधस्याकाङ्क्षानुपयोगिपदार्थद्वयविषयकत्वेन ( हेतुना ) असंमतत्वादित्यर्थः । विपक्षे बाधकमाह- तत्स्वीकारे इति, तत्स्वीकारे आकाङ्क्षानुपयोगिपदार्थद्वयविषयकशाब्दबोधस्वीकारे साकाङ्क्षस्यैव शाब्दबोधजनकत्वं भवतीति नियमभङ्गापत्त्या निराकाक्षपदस्याप्यनुभावकत्वं शाब्दबोधजनकत्वमापद्येत तेन च शाब्दबोधे आकाङ्क्षाया अनुपयोगः प्रसज्येत न चैतदिष्टं तस्मात् ' पचति । इत्यत्राध्याहृतयत्ने आख्यातार्थवर्तमानत्वान्वयासंभवादाख्यातस्य यत्नवाचकत्वमावश्यकमित्यर्थः । अथेत्यादिना शङ्कितं पारहरति- तन्नेति । यत्नकार्यभूतव्यापारस्य वर्तमानत्वेन तत्कारणीभूतयत्नस्यापि वर्तमानत्वमनुमीयते एव न तु शब्दाद्विज्ञायते इत्येव "Aho Shrutgyanam" Page #575 -------------------------------------------------------------------------- ________________ आख्यातार्थे नैयायिकमतम् ] व्युत्पत्तिवादः । अत्र नैयायिकाः- ' रथो गच्छति' इत्यादावाऽऽश्रयत्वमेवाख्याताओं न तु व्यापारः- अन्यदायगमनानुकूलनोदनादिलक्षणव्यापारवति 'गच्छति' इत्यप्रयोगाद । एवं च 'काष्ठं पचति' इत्यादिप्रयोग एव व्यापारशक्तिमाख्यातस्य साधयेद् यदि स्वारसिकः स्यात् तदेव न, न हि — चैत्रः पचति' इत्यादिप्रयोगेण 'काष्ठं पचति' इत्यादिप्रयोगस्याविशेषः । एवमचेतने स्वरसतः कर्तृपदाप्रयोगात् कृनापि यत्नत्वविशिष्टोर्थः । एवम् 'चैत्र एवं पचति पाककर्ता न त्वचेतन काष्ठादि' इत्यादिप्रयोगात् लकारस्य कृञश्च यत्नत्वविशिष्टार्थकताया आवश्यकत्वाल्लाघवात् तत्रैव शक्ति'. व्यापारे लक्षणेति । न च यत्नत्वस्याख्यातावाच्यनिवृत्तिजीवनयोनियत्नसाधारणतया लकारशक्यतावच्छेदकत्वाऽसंभव इति वाच्यम्, निवृत्त्यादियत्नस्याख्यातवाच्यतोस्वीक्रियते तादृश उक्तवर्तमानत्वप्रतीतिः शब्दादेव जायते इत्यस्य विवादग्रस्तत्वेन स्वीकर्तुमशक्यत्वात्. तथा च नाख्यातस्य कृमो वा यत्नवाचकत्वापत्तिः किं तु व्यापारसामान्यवाचकत्वमेव सिद्धमित्यर्थः । "शान्दत्वप्रतीतेः" इत्यत्र "शाब्दप्रतीतित्वस्या, इत्येवं पाठो युक्तः । नैयायिकमतमाह- अत्रेत्यादिना । ' रथो गच्छति । इत्यत्र व्यापारस्तु धात्वर्थ एवाश्रयत्वं चाख्यातार्थ इति 'गमनरूपन्यापाराश्रयो रथः । इति बोधो जायते । व्यापारस्याख्यातार्थस्वाभावे हेतुमाह- अन्येति, यदि व्यापार आख्यातार्थः स्यात् तदा 'गच्छति । इत्यनेन 'गमनानुकूलव्यापारवान् । इतिबोधोदयाद् अन्यदीयगमनानुकूलस्य नोदनस्यापि व्यापारत्वात् तद्वत्यपि 'गच्छति । इतिप्रयोगः स्थाद् न चैतदिष्टम्, आश्रयत्वस्याख्यातार्थत्वे तु गमनाश्रयस्ववत्येव ' गच्छति ' इतिप्रयोगः संभवति स चेष्ट एव न लूक्तनोदनादिव्यापारवत्यपीत्यर्थः । मीमांसकमतमाक्षिपति- एवं चेति । व्यापारशक्तिम् व्यापार शक्तिमित्यर्थः । स्वारसिका मुख्यः । उक्तस्वारसिकत्वाभावमेवाह- न हीति । अविशेष इति-' चैत्रः पचति । इति मुख्यः प्रयोगः-चैत्रे तिबर्थकृतेः सत्वात् ' काष्ठं पचति ' इति च गौणः प्रयोगः- काष्ठे कृतेरसंभवेनात्र तिपो व्यापारे लक्षणास्वीकारादित्यर्थः । उक्तमन्यत्रातिदिशति- एवमिति, अचेतने बीजादौ 'बीजेनाङ्करः कृतः । इत्येवम् । स्वरसतः मुख्यार्थतात्पर्येण । यत्नत्वविशिष्टःयत्नः । उपसंहरति- एवमिति । 'पचति ' इत्यनेन लकारस्य ' पाककर्ता' इत्यनेन च कृत्रो यत्नार्थकत्वं सिद्धम् । तत्र यत्ने ( कृतौ )। ननु यत्नो हि त्रिविधस्तदुक्तम् " प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् । एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम् ॥” इति । तथा च यत्नत्वमाख्याताऽवाच्यनिवृत्तिजीवनकारणयत्नयोरपि सत्त्वादतिप्रसक्तमेव, अतिप्रसक्तधर्मस्य चावच्छेदकत्वं न भवतीति कथं यत्नत्वस्य लकारशक्यतावच्छेदकत्वं स्यादित्याशद "Aho Shrutgyanam" Page #576 -------------------------------------------------------------------------- ________________ (५६४) सादर्श: [ आख्यातप्रकरणेपगमें क्षतिविहरात, निवृत्त्यादेः पाकानुकूलताविरहेण तत्काले 'पचति । इति प्रयोगापत्तिविरहात् । इष्टसाधनताज्ञानजन्यतावच्छेदकप्रवृत्तित्वजातेरेव वाख्यातपदप्रवृत्तिनिमित्तत्वमुपगम्यते, अत एवेश्वरकृतेर्जन्यमानजनकत्वेपि, 'ईश्वरः पचति' 'ईश्वरो भुङ्क्ते ' इत्यादयो न प्रयोगाः।। न चैवम् — ईश्वरो वेदं वक्ति ' 'मथुरायां कृष्णो विहरति' इत्यादिप्रयोगानुपपत्तिः, अत्राख्यातस्य लक्ष्यार्थव्यापारबोधकतोपगमात् । ईश्वरकृतिसाधारणधर्मस्याऽऽख्यातप्रवृत्तिनिमित्तत्वेपि तत्र व्यापारलक्षणाया आवश्यकत्वाद, तथा हि-- ' आत्मा पचति ' 'शरीरं पचति ' इत्यादिस्वारसिकप्रयोगविरहादाऽऽख्यातार्थकृतेरुद्देश्यतावच्छेदकशरीरविशेषावच्छेदेन समवायेनाऽन्वयनियमः स्वीकरणीयः-- चैत्रादिपदस्य शरीरविशेषविशिष्टात्मपरतया ' चैत्रः पचति' इत्यादौ शरीरविशेषात्मकोद्देश्यतावच्छेदकावच्छेदेनात्मनि समवायेनान्वयसं. क्याह- न चेति । उत्तरमाह- निवृत्त्यादीति । ' न पचति । इत्यादौ निवृत्त्यनुकूल: 'जीवति ' इत्यादौ जीवनानुकूलोपि यत्नः प्रतीयते एवाख्यातेनेत्यर्थः । ननु यदि निवृत्त्यनुकूलोपि यत्न आख्यातार्थस्तदा पाकनिवृत्तिकाले 'पचति ' इति प्रयोगः कथं न स्यादित्याशब्याह- निवृत्त्यादेरिति । तत्काले-पाकनिवृत्तिकाले । पक्षान्तरमाह- इष्टति, इष्टसाधनताज्ञानेन प्रवृत्तिर्भवतीति प्रवृत्तरिष्टसाधनताज्ञानजन्यत्वादिष्टसाधनताज्ञानजन्यतावच्छेदकं जातिरूपं प्रवृत्तित्वमेव तदेवाख्यातपदप्रवृत्तिनिमित्तम्, प्रवृत्तावाख्यातस्य शक्तिरित्यर्थः । अत एव इष्टसाधनताज्ञानजन्यतावच्छेदकप्रवृत्तित्वस्यैवाख्यातपदप्रवृत्तिनिमित्तत्वादेव. यद्यपीश्वरकृतेः कार्यमानं प्रति कारणत्वं तथापि “ईश्वरः पचति' इत्यादयो न प्रयोगा:- ईश्वरकृतेनित्यत्वेनेष्टसाधनताज्ञानजन्यत्वाभावाद् आख्यातार्थत्वाऽसंभवात, इष्टसाधनताज्ञानजन्याया एव प्रवृत्तिरूपकृतेराख्यातार्थत्वस्वीकारादित्यर्थः । नन्येवम् “ईश्वरो वेदं वक्ति ' इत्यादिप्रयोगोपि न स्यात्तत्रापीश्वरकृतेनित्यत्वेनेष्टसाधनताज्ञानजन्यत्वामावेनाख्यातार्थत्वासंभवादित्याशक्याह- न चेति । उत्तरमाह- अत्रेति, ईश्वरव्यापारस्येष्टसाधनताज्ञानजन्यत्वादत्र चाख्यातस्य लक्षणया व्यापारमात्रबोधकत्वान्न प्रयोगानुपपत्तिरित्यर्थः । ननु ' ईश्वरो वेदं वक्ति' इत्यादावाख्यातस्य व्यापारे लक्षणास्वीकारापेक्षया परमेश्वरकृतिसाधारणस्य यत्नत्वधर्मस्येवाख्यातपदप्रवृत्तिनिमित्तत्वमुपगम्यतां तथा चोक्तस्थले आख्यातेन तादृशयत्नत्वाद्यवच्छिन्नस्य प्रतीतिसंभवाल्लक्षणापत्तिापारे न स्यादित्याशङ्कयाह-- ईश्वरेति । तत्र: ईश्वरो वेदं वक्ति' इत्यादौ । उक्तस्य व्यापारे लक्षणावश्यकत्वमुपपादयतितथा हीत्यादिना । —ात्मा पचति' इत्यादिमुख्यार्थतात्पर्येण प्रयोगो न भवतीत्याख्यातार्थकृतेरुद्देश्यतावच्छेदकीभूतशरीरविशेषावच्छेदेनात्मनि समवायसंबन्धेनान्वयो भवतीति स्वीकार्यम्, ' चैत्रः पचति । इत्यादौ चैत्रमुद्दिश्य पाकानुकूलकृतेर्विधानाच्छरीरविशेषावच्छिन्न एव चैत्रात्मोद्देश्य उद्देश्यतावच्छेदकं च शरीरमेवेत्यर्थः । उक्तस्वीकारे हेतुमाह- चैत्रादिपदस्येति, "Aho Shrutgyanam" Page #577 -------------------------------------------------------------------------- ________________ आख्यातार्थविचारः 1 व्युत्पत्तिवादः । ( ५६५ ) भवात् । ' गौरः पचति ' इत्यादावपि गौरादिपदस्य गौरशरीराद्यवच्छिन्नात्मनि आख्यातस्यैव वा व्यापारे लक्षणोपगमात् । एवं चेश्वरकृतेः शरीरानवच्छिन्नत्वादुक्तस्थले कृतेस्तथान्वयासंभव इति व्यापारलक्षणाऽऽवश्यकी । ईश्वरकृतिसाधारणयत्नत्वावच्छिन्न एव वाख्यातार्थः, असाधारणानुकूलत्वं हि यत्ने क्रियायाः संबन्धतया भासते न त्वऽनुकूलतामात्रम् - असाधारणानुकूलताया एवाकाङ्क्षानिरूपकत्वोपगमात् । अतोऽस्मदादिकर्तृकपाकादिक्रियानुकूलकृतिमादाय न ' ईश्वरः पचतेि ' इतिप्रयोगः । वेदवचनादौ चेश्वरकृतेरेवासाधारणकारणत्वात् 'ईश्वरो वेदं वक्ति' इत्यादयः प्रयोगा इत्यपि केचित् । - शरीर विशेषात्मकः = शरीरविशेषरूपो य उद्देश्यतावच्छेदकस्तदवच्छेदेनात्मनि समवायेन कृतेरन्वय संभवादित्यन्वयः । अत्र ' कृतेः ' इति शेषः । ' गौरः पचति इत्यादौ गौरादिपदस्य गौरशरीरावच्छिन्नात्मनि लक्षणा तत्र च कृतेरन्वयः संभवत्येव किं वात्राख्यातस्यैव व्यापारे लक्षगा व्यापारस्तु जडे शरीरेपि संभवत्येवेत्याह- गौर इति । चैत्रादिपदं तु शरीरावच्छिन्नात्मवाचकमेवेति न चैत्रादिपदस्य शरीरावच्छिन्नात्मनि लक्षगापत्तिराख्यातस्य वा व्यापारे क्षमापत्तिः, गौरादिपदं तु गौरत्वादिगुणपुरस्कारेण प्रवृत्तं गौरत्वादिधर्मत्रतः शरीरस्यैव वाच - कमिति गौरशरीरावच्छिन्नात्मनि लाक्षणिकमेवेति विवेकः । उपसंहरति - एवं चेति, उक्तप्रकारेण शरीरावच्छिन्नकृतेरेवाख्यातार्थत्वाद् ईश्वरकृतेश्व शरीरानवच्छिन्नत्वेनाख्यातार्थत्वाभावादुक्तस्थले = ' ईश्वरो वेदं वक्ति ' इत्यादावीश्वरकृतेः शरीरावच्छेदेनेश्वरेऽन्वयाऽसंभवादाख्यातस्य व्यापारे लक्षणाsssयं स्त्रीकार्येत्यर्थः । किं वेश्वरस्य शरीरावच्छिन्नत्वाभावादऽत्राख्यातस्य व्यापारे लक्षणैवेत्यर्थः । ८ पक्षान्तरमाह - ईश्वरकृतीति । असाधारणानुकूलत्वम्=असाधारणकारणत्वम् । चैत्रः पचति' इत्यादौ यत्ने क्रियाया असाधारणानुकूलत्व संबन्धेनान्वयः स्वीकार्य : चैत्रकर्तृकपाकं प्रत्यसाधारणानुकूलत्वं हि चैत्रवृत्तियत्नस्यैव भवति नेश्वरवृत्तियत्नस्यापि तस्य कार्यमात्रसाधार'णत्वादिति देवदचे पचति सति ' ईश्वरः पचति । इतिप्रयोगापत्तिर्नास्तीत्यर्थः । यदि क्रियाया यत्नेऽनुकूलतामात्रसंबन्धेनान्त्रयः स्वीकृतः स्यात्तदेश्वरयत्नस्यापि देवदत्तकर्तृकपाकं प्रत्यनुकू-त्वात् ( कारगत्वात् ) तादृशपाकस्यानुकूलता संबन्धेनेश्वरयत्नेव्यन्त्र यसंभवाद् देवदत्ते पचति सति ' ईश्वरः पचति ' इतिप्रयोगापत्तिः स्यादपि न चाऽनुकूलतामात्रं संबन्ध इत्याह- न "त्विति । असाधारणानुकूलतायाः संबन्धत्वे हेतुमाह- असाधारणेति, आकाङ्क्षा निरूपकस्यैव संबन्धत्वसंभवादसाधारणानुकूलताया एवाकाङ्क्षानिरूपकत्वात्संबन्धत्वमित्यर्थः । फलमाह - अत इति, ईश्वरकृतावस्मदादिकर्तृकपाकक्रियानुकूलत्वे सत्यप्यऽसाधारणानुकूलत्वाभावान्न तादृशेश्वर - कृतिमादाय ' ईश्वरः पचति ' इति प्रयोगो भवति - ईश्वरकृतेः सर्वकार्यसाधारणानुकूलत्वात्. असाधारणानुकूलकृतिमादायेव च पचति ' इत्यादिप्रयोगस्येष्टत्वादित्यर्थः । ईश्वरो वेदं C 6 " Aho Shrutgyanam" Page #578 -------------------------------------------------------------------------- ________________ ( ५६६ ) सादर्श: [ आख्यातप्रकरणे - C L ? अय कृतेराख्यातस्य कृञश्च वाच्यत्वे ' करोति ' इत्यादौ कृतेर्द्विधा भान स्यात् - धातुप्रत्यययोर्द्वयोः कृतिबोधकत्वादितिचेत् ?, नद्वौ एक: इत्यादावेकत्व द्वित्वादिबोधक प्रकृतिप्रत्ययोभयसत्त्वे प्येकवैवैकत्वादिधीवत् प्रकृतेपि बाधकाभावात्, तत्र विभक्तेः साधुत्वार्थकत्वे प्रकृतेपि तथात्वात् । - अथ तर्हि ' करोति चैत्रः ' इत्यादौ प्रातिपदिकार्थे साक्षादेव कृत्यन्वयः स्थात्. स च ' नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयस्याऽव्युत्पन्नत्वात्' न संभवति, नामार्थधात्वर्थयोः साक्षादन्वयोपगमे कर्मतादिबोधकविभक्तेरसत्त्वेपि ' तण्डुलः पचति' इत्यादौ कर्मतादिसंबन्धेन तण्डुलादेः पाकादावन्वयसंभवेन तादृशवाक्यात् तण्डुलकर्म कपाकादिबोधापत्तेः । न च प्रातिपदिकार्थप्रकारकक्रियान्वयबोधः एवाऽव्युत्पन्नो न तु क्रियाप्रकारकप्रातिपदिकार्थविशेष्यकवोघोपीति वाच्यम्, घटः करोति इत्यादितः कर्मतादिसंबन्धेन कृत्यादेर्घदादावन्वयाभावात्, " , वक्ति इत्यादिप्रयोगस्तूपपद्यते-- वेदवचनादावीश्वरकृतेरेवाऽसाधारणानुकूलत्वादित्याह - वेदचचनादाविति । शङ्कते - अथेति । कृतेरिति - आख्यातकृञोः कृतिवाचकत्वे इत्यर्थः । परिहरति- नेति, यथा " एकः इत्यत्र प्रकृतिप्रत्यययोरुभयोरप्येकत्वबोधकस्येप्येकत्वस्यैकधैव भानं यथा च ' द्वौ ' इत्यत्र प्रकृतिप्रत्यययोरुभयोरपि द्वित्वबोधकत्वेपि द्वित्वस्यैकधैव भानं तथा ' करोति इत्यत्र प्रकृतिप्रत्यययोरुभयोरपि कृतिबोधकत्वेप्येकधैव कृतिभानं भवति बाधकाभावादित्यर्थः । तत्र= * एकः द्वौ इत्यादी यदि विभक्तेः साधुत्वार्थकत्वमेव न स्वकत्वादिबोधकवं तदा प्रकृते= £ $ " करोति ' इत्यत्राख्यातस्यापि साधुत्वार्थकत्वमेव न कृत्यर्थकत्वमित्याह - तत्रेति । " ननु यदि ' करोति चैत्र: ' इत्यादावाख्यातस्य साधुत्वार्थकत्वं तदाऽऽख्यातोपस्थितार्थाभावेना . तत्र कृधात्वर्थकृतेरन्वयासंमवादाश्रयतासंबन्धेन साक्षाच्चैत्रे नामार्थे एवान्वयो वक्तव्यः स तु न संभवतीत्याशङ्कते - अथेति । नामार्थधात्वर्थयोः साक्षादन्वयोपगमे बाधकमाह - नामा - र्थेति । कर्मता दिसंबन्धेनेत्यस्य स्वकर्मकत्व संबन्धेनेत्यर्थः । किं वा तण्डुलवृत्तिकर्मतापि निरूपकत्वसंबन्धेन पाकादावस्त्येव तेन संबन्धेन पाके साक्षादेव तण्डुलान्वयः स्याद् न चैतदिष्टमि - त्यर्थः । नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयस्यान्युत्पन्नत्वे तु ' तण्डुलं पचति ' इत्यादौ तण्डुलस्य कर्मतायां कर्मतायाश्च पाकेन्वयः स्वीक्रियते इत्यादिकं पूर्वप्रतिपादितमेव स्मर्तव्यम् । ननु प्रातिपदिकार्थस्य प्रकारतया साक्षात् क्रियायामन्वयो न भवति क्रियायास्तु प्रकारतया प्रातिपदिकार्थे साक्षादप्यन्वयो भवत्येव तथा च तण्डुलः पचति ' इत्यत्र तण्डुलस्य साक्षात्पाकेSasirat' करोति चैत्रः ' इत्यत्र धात्वर्थकृतेः साक्षादपि चैत्रेऽन्वयः संभवत्येव बाधकाभावादित्याशङ्क्याह- न चेति । उत्तरमाह - घट इति, यदि क्रियायाः प्रातिपदिकार्थे साक्षादपि भेदान्वयः स्यात्तदा 'घटः करोति । इत्यत्र धात्वर्थकृतेः कर्मतासंबन्धेन घटेऽन्वया " "Aho Shrutgyanam" Page #579 -------------------------------------------------------------------------- ________________ आख्यातार्थविचारः] व्युत्पत्तिवादः। (५६७) क्रियाप्रकारकनामार्थविषयकबोधस्याऽव्युत्पन्नत्वादितिचेत् ?, न- उक्तातिप्रसङ्गवारणाय धातोः कर्मतादिसंबन्धेन क्रियान्वयाऽबोधकत्वव्युत्पत्तेरुपगमाद् न त्वाश्रयतासंबन्धेन कृत्यादिरूपक्रियान्वयाऽबोधकत्वव्युत्पत्तेरित्यदोषात् ।। न च तादृशातिप्रसङ्गवारणाय धातुजन्यकृत्यादिप्रकारकान्वयबोधे प्रत्यय जन्यविशेष्योपस्थितेहेतुता वाच्या ताशकारणाभावात् प्रातिपदिकार्थविशेष्यकबोधोपि न संभवतीति वाच्यम्, कर्मवादिसंबन्धेन कृत्यादिप्रकारकबोधस्याप्रसिद्ध्या सामय्यडकल्पनेनाऽऽपादकाभावात् तादृशकारणताया अकल्पनात् । .. न च ' क्रियते चैत्रः' इत्यादौ कृत्यादिप्रकारकान्वयबोधवारणायैवोक्ता कारणताकल्पनमावश्यकमिति वाच्यम्, सति तात्पर्ये इष्टत्वात् । कर्तृविशेष्यपत्त्यात्र घटकर्मककृतेर्बोधः आपद्येत न चैवमस्ति तस्मात् क्रियाया अपि प्रातिपदिकार्थे साक्षाद् भेदान्वयो नैव भवति तथा च ' करोति चैत्र: ' इत्यत्रापि कृतेश्चैत्रे साक्षादन्वयवारगायाख्यातस्य सार्थकत्वं स्वीकर्तव्यं येनाख्यातार्थे एव कृतेः साक्षादन्वयः स्यादित्यर्थः । परिहरति- नेति । उक्तातिप्रसङ्गवारणाय='घटः करोति ' इत्यादौ धात्वर्थकृतेः कर्मतासंब. न्वेन घटेऽन्वयापत्तिवारणाय धातुः कर्मतादिसंबन्धेन प्रातिपदिकार्थे स्वार्थक्रियान्वयं न बोधयति. आश्रयतासंबन्धेन तु बोधयति इति व्युत्पत्तिः स्वीक्रियते तथा च' घटः करोति' इत्यत्र धात्वर्थक्रियायाः कर्मतासंबन्धेन घटेऽन्वयापत्तिर्नास्ति, 'करोति चैत्रः । इत्यत्र त्वाश्रयतासंबन्धेनैव धात्वर्थकृतेश्चत्रेन्वय इष्टस्तत्र च बाधकाभावात् नानुपपत्तिरित्यर्थः । न वितिआश्रयतासंबन्धेन कृत्यादिरूपक्रियान्वयाऽबोधकत्वव्युत्पत्तेस्त्वनुपगमात् ' इत्यन्वयः । ननु धात्वर्थकृत्यादिप्रकारकान्वयबोधं प्रति प्रत्ययजन्याया विशेष्योपस्थितेः कारणत्वं वक्ष्या. मस्तथा च 'धदः करोति ' इत्यत्र घटस्य प्रत्ययेनोपस्थितेरभावान्न घटे कृत्यन्वयापत्तिः 'घर्ट करोति चेत्रः' इत्यत्र च द्वितीयोपस्थितकर्मतायां कृत्यन्वयः स्यादेवेत्याशझ्याह-न चेति । प्रातिपदिकार्थेति- धात्वर्थप्रकारकप्रातिपदिकार्थविशेष्यकेत्यर्थः । उत्तरमाह-- कर्मत्वादीति, यदि कृतेः कर्मतासंबन्धेन साक्षात् प्रातिपदिकार्थेऽन्वयबोधः प्रसिद्धः स्यात्तदा तदापादकसामन्या तदापत्तौ प्राप्तायां त्वदुक्तरीत्या कार्यकारणभावकल्पनेन तनिरोधः क्रियेतापि न च कर्मत्वादिसंबन्धेन कृत्यादिप्रकारकबोधः प्रसिद्ध इत्यर्थः । सामग्रीति- प्रसिद्धस्यैव सामग्री प्रकल्प्यते न त्वप्रसिद्धस्येत्यर्थः । तादृशकारणताया:-धातुजन्येत्यादिनियमस्य । ननु कृत्यादिप्रकारकान्वयबोधं प्रति प्रत्ययजन्यविशेष्योपस्थितेः कारणत्वकल्पने तु ' क्रियते चैत्रः ' इत्यत्र चैत्रस्य प्रत्ययजन्योपस्थितेरभावात् कृतिप्रकारकचैत्रविशेष्यकबोधस्यापत्तिर्नास्ति, उक्तकारणाऽकल्पने च स्यादेवेत्युक्तकारणकल्पनावश्यकतेत्याशक्याह- न चेति । अभ्युपगम्याह- सतीति, ' क्रियते चैत्र: ' इत्यत्रापि कृतिप्रकारकचैत्रविशेष्यकबोधतात्पर्ये सति ताहशबोध इष्ट एवेत्यर्थः । नन्वेवम् ' क्रियते चैत्रः' इतिप्रयोगः कथं न क्रियते ? इत्याशङ्या "Aho Shrutgyanam" Page #580 -------------------------------------------------------------------------- ________________ सादर्श: [ आख्यातप्रकरणे कान्वयबोधपरधातूत्तरयकोऽसाधुत्वादेव प्रामाणिकानां न तथाप्रयोगः । 'करणं चैत्रः' इत्यादौ चैत्रादौ धात्वर्थकृतेराश्रयतासंबन्धेनाऽन्वयबोधवारणाय तादृशकार्यकारणभावकल्पनमित्यपिन- ताशाऽन्वयबोधे आख्यातान्तधातुनामस मभिव्याहारज्ञानहेतुतयैवोक्तस्थले तादृशबोधवारण संभवात् । ( ५६८ ) दीधितिकृतस्तु - ' गच्छति जानाति करोति' इत्यादावाख्यातस्याश्रयत्वे निरूढलक्षणायाः स्वीकारान्न नामायें क्रियायाः साक्षादन्वय इत्याहुः । तन्मते यद्यप्याश्रयत्व संबन्धस्याधिकस्य ' जानाति चैत्र: ' इत्यादिवाक्यजन्यबोधविषयता कल्पनेन गौरवं तथापि यत्र ज्ञाधातोर्ज्ञानाद्याश्रयत्वे लक्षणाग्रहः शक्तिभ्रमो वा तत्र चैत्रादिविशेष्यको ज्ञानाद्याश्रयत्वप्रकारको बोध आश्रवतायाः संसर्गतावादिनामप्यनुमतः । चैत्रादिविशेष्यकाश्रयतासंसर्गकज्ञानादिप्रकार कशाब्द 1 “ 74 " ८ हं- कर्तृविशेष्यकेति कर्तृविशेष्यकबोधविवक्षायां शप् भवति न तु यगिति हेतोः प्रामाणिकास्तथा='क्रियते चैत्रः' इति प्रयोगं न कुर्वन्तीत्यर्थः । चैत्रस्य कर्मत्वविवक्षायां तु ' क्रियते चैत्रः " इति प्रयोग: साधुरेव । पुनराशङ्कते - करणमिति, कृतिप्रकारकान्वयबोधं प्रति प्रत्ययजन्यविशेष्योपस्थितेः कारणत्वे तु करणं चैत्रः ' इत्यत्र चैत्रस्य प्रत्ययेनोपस्थितेरभावान्नाश्रयतासंबन्धेन कृतेश्वत्रेऽन्वयापत्तिरित्यर्थः । परिहरति-नेति । तादृशाऽन्वयबोधे-कृतिप्रकारकप्रातिपदिकार्थविशेष्यकशाब्दबोधं प्रत्याख्यातान्तधातुनाम्नोः समभिव्याहारज्ञानस्य हेतुतास्ति. उक्तस्थले' करणं चैत्र: ' इत्यत्र चाख्यातान्तधातुसमभिव्याहारस्याभावात् तादृशबोधस्य = कृति - प्रकारक चैत्रविशेष्यक बोधस्य वारणं संभवतीति न खदुक्तप्रत्ययजन्यविशेष्योपस्थितेः कारणत्वकल्पनावश्यकतेत्यर्थः । , दीधितिकारमतमाह - दीधितीति । गच्छति' रथो गच्छति ' इत्यत्र गमनस्याश्रयत्वे आश्रयत्वस्य च स्वरूपसंबन्धेन रथेऽन्वयः । एवम् ' जानाति' इत्यत्राश्रयत्वे ज्ञान, 'करोति' इत्यत्राश्रयत्वे कृतेरन्वयस्तादृशाश्रयत्वस्य च चैत्रादान्वय इत्यर्थः । नेति धात्वर्थक्रियाया - sana एव साक्षादन्वयो न तु चैत्रादिनामार्थे इत्यर्थः । दीधितिकारमतमालोचयतितन्मते इत्यादिना ' जानाति चैत्रः इत्यत्राश्रयत्वस्याख्यातार्थत्वे आख्यातार्थत्वन प्रकारीभूततादृशाश्रयत्वस्य चैत्रे स्वरूपसंबन्धेनान्वयः स्यादिति तस्याश्रयत्वसंबन्धस्यापि शब्दबोधविषयत्वाक्त्या गौरवम्, एतद्गौरवमाश्रयत्वस्य संसर्गतावादे यद्यपि नास्ति तथापि ज्ञाधातोर्ज्ञानाश्रयत्वे लक्षण शक्तिभ्रमे वा चैत्रविशेष्यकज्ञानाश्रयत्वप्रकारकत्रोध याऽऽश्रत्व सर्ग नावादिमापि स्वीकार्यत्वादाश्रयत्व संबन्धस्याधिकस्य शाब्दबोधविषयत्वापत्तिरस्त्येोति न दाघितिकृन्मते प्राप्तं गौरवमाश्रयत्वे आख्यातलक्षणास्वीकारे बाधकं संभवतीत्यर्थः । ज्ञानस्याश्रयता संबवेन चैत्रादावन्वयस्तु दीधितिकारमते कचिदपि प्रसिद्धो नास्ति - आश्रयत्वम्या गतार्थत्वेन प्रकारत्वस्वीकारात् तथा च तथाविधशाब्दबोधाङ्गीकर्तुः = चैत्रादिविशे० का स्वसंसगर्कज्ञा "Aho Shrutgyanam" Page #581 -------------------------------------------------------------------------- ________________ आख्यातार्थविचारः] व्युत्पत्तिवादः। (५६९) बोधस्तु दीधितिकारमते कचिदपि न प्रसिध्यतीति तादृशशाब्दबोधे योग्यताज्ञानादेहेतुताकल्पनं तथाविधशाब्दबोधाङ्गीकर्तुमणिकारस्य मते आवश्यकमिति गौरवम् । वस्तुतस्तु- 'चैत्रेण ज्ञायते घटः ' इत्यादौ कर्मप्रत्ययस्थले यावतां पदार्थानां प्रकारता तावताम् ' चैत्रो जानाति घटम् ' इत्यादिकर्तृप्रत्ययस्थले तथात्वं परं तु विशेष्यविशेषणभाववपरीत्यम्, एवं कर्मप्रत्ययस्थले यस्य ससंबन्धिकपदार्थस्य यदंशे विशेष्यता कर्तृप्रत्ययस्थले तन्निरूपकतायास्तदंशे प्रकारतेत्यनुभवस्य दुरपहवत्वाभिप्रायेणाऽऽश्रयत्वस्याख्यातार्थतां दीधितिकार उररीचकार । * चैत्रेण ज्ञायते' इत्यत्राधेयत्वरूपतृतीयार्थस्य चैत्रविशेष्यत्वात् 'चैत्रो जानाति' इत्यत्राधेयतानिरूपकत्वरूपाधारतायाश्चैत्रांशेऽप्रकारत्वे तादृशानुभवविरोधात् । नादिप्रकारकशाब्दबोधाङ्गीकर्तुर्मणिकारस्य मते तादृशशाब्दबोधे चैत्रादिविशेष्यकाश्रयत्वसंसर्गकज्ञानादिप्रकारकशाब्दबोधं प्रति तादृशयोग्यताज्ञानादेरऽवश्थं हेतुत्वं कल्पनीयमिति तादृशहेतुत्वकल्पनेन गौरवमित्यर्थः ।। - आश्रयत्वस्याख्यातार्थतास्वीकारस्य दीधितिकाराभिप्रायमुद्घाटयति-- वस्तुतस्त्वित्यादिना । यावतामिति-- ' चैत्रण ज्ञायते घटः ' इत्यत्र 'चैत्रवृत्तिर्या ज्ञानाश्रयता तन्निरूपकं यज्ञानं तद्विषया घटः' इतिबोधोदयाचैत्रज्ञानाश्रयतानां प्रकारत्वमस्तीति कर्तृप्रत्ययस्थलेपि तावा पदार्थानां तथात्वम्-प्रकारत्वं भवत्येव न तु संसर्गत्वं किं तु विशेष्यविशेषणभावे चैपरीत्यं भवति यथा कर्मप्रत्ययस्थले चैत्र आश्रयतायामाश्रयता ज्ञाने ज्ञानं च घटे विशेषणं भवति कर्तृप्रत्ययस्थले च 'घटविषयकज्ञानाश्रयतावांश्चैत्रः । इतिबोधोदयाद् घटो ज्ञाने ज्ञानमाश्रयतायामाश्रयता च चैत्रे विशेषण भवतीति कर्मप्रत्ययस्थले ज्ञाने विशेषणतां याश्रयता प्राप्ता सा कर्तृप्रत्ययस्थले ज्ञानविशेष्यतां प्राप्तेति विशेष्यविशेषणभावमात्रवैपरीत्यमस्ति प्रकारत्वं तूभयत्र तुल्यमेवेत्यनुभवेन दीधितिकार आश्रयत्वस्याख्यातार्थता स्त्रीकरोति । हेत्वन्तरमाह- एवमिति । ज्ञानमाश्रयत्वादिकं च किंचिन्निरूपितमेव भवतीति ज्ञानादयः पदार्थाः ससंबन्धिका एव तथा च ' चैत्रेण ज्ञायते घटः' इतिकर्मप्रत्ययस्थले यस्य-तृतीयार्थभूतवृत्तित्वरूपाधेयत्वस्य यदंशे-चैत्रांश विशेष्यतास्ति 'चैत्रो जानाति घटम् ' इतिकर्तप्रत्ययस्थले तदंशे चैत्रांशे तन्निरूपकताया:आधेयत्वनिरूपकताया: आधेयत्वनिरूपकत्वरूपमेवाधारत्वं :भवतीत्याधेयत्वनिरूपकत्वरूपाधारतायाः प्रकारत्वं भवत्येव तनिरूपकताया अप्रकारत्वे उक्तानुभवविरोधादिति 'जानाति' इत्यत्राधारतायाः प्रकारत्वं प्राप्तम्. आधारत्वं चाश्रयत्वमेव प्रकारत्वं च पदेनोपस्थितस्यैव भवतीति स्तदुपस्थित्यर्थमाश्रयत्वस्याख्यातार्थतां दीधितिकारः स्वीकरोतीत्यभिप्रायः । स्वयमेवोक्तमुदा. हरति- चैत्रेणेति । अत्र प्रकारता विशेष्यविशेषणोभयसाधारणा संसर्गताविरुद्धा पदेनोपस्थितल्वेन रूपेण विषयतारूपा ग्राह्या एतद्विषयस्याने " संसर्ग एव न तु विशेष्यम् " इत्यनेन विशेव्यत्वेनाभिमताधेयत्वस्य संसर्गत्वशङकया स्पष्टत्वात् । "Aho Shrutgyanam" Page #582 -------------------------------------------------------------------------- ________________ (५७०) सादर्श: [ आख्यातप्रकरणे. न च ' चैत्रेण ज्ञायते ' इत्यत्राप्याधेयत्वं संसर्ग एव न तु विशेष्यमितिवाच्यम्, तथा सति 'आत्मना ज्ञायते न घटेन ' इत्यादौ घटादिवृत्तित्वाभाव. बोधानुपपत्तेः- आधेपत्वस्य तृतीयार्थताविरहेण तृतीयान्ताद् घटादिवृत्तित्वरूपप्रतियोग्यनुपस्थितेः, आधेयत्वसंबन्धस्याभावप्रतियोगितानवच्छेदकतया च तत्संबन्धावच्छिन्नघटाभावबोधस्य तत्रोपगमासंभवात् । तादृशसंबन्धस्याभावप्रतियोगितावच्छेदकत्वे ' ज्ञाने न घटः' इत्यादिवाक्यजन्यप्रत्यये ज्ञानाधिकरणकतादृशसंबन्धावच्छिन्नघटाद्यभावस्याप्यवगाहनसंभवाद् घटे ज्ञानं न वा' इत्यादिसंशयनिराप्ताय कदाचित् ‘ज्ञान न घटः' इत्यादिकमपि प्रयुज्येत । अत एवानुकूल कृतिमत्त्वादिरूपकर्तृत्वादेरपि चैत्र: पचति' इत्यादौ प्रकारता मणिकृतापि स्वीक्रियते न तु संसर्गता- “ न पचति ' इत्यादावन्वयबोधाऽनिहिाद. तादृशंसंबन्धस्य वृत्यनियामकतयाऽभावप्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नक्रियाविरहप्रत्ययस्य तत्रोपगमासंभवात् । . यदुक्तम् “ आधेयत्वरूपतृतीयार्थस्य चैत्रविशेष्यत्वात्" इति तत्राशङ्कते- न चेति । परिहारमाह- तथेति । तथा सति आधेयत्वस्य संसर्गत्वोपगमे सति । 'न घटेन ज्ञायते' इत्यत्राधेयत्वस्य तृतीयार्थत्वे तु ' घटेन । इतितृतीयान्ताद् घटवृत्तित्वस्योपस्थितौ सत्यां नत्रा ज्ञाने तदभावबोधनं संभवति. आधेयत्वस्य संसर्गत्वे तु तृतीयार्थत्वं न स्यादिति ज्ञाने घटवृत्तित्वामावबोधनं न संभवतीत्यर्थः । ननु 'आत्मना ज्ञायते न घटेन ' इत्यत्र ज्ञाने आधेयत्वसंबन्धावच्छिन्न प्रतियोगिताकघटाभावं वक्ष्यामस्तथा च नोक्तानुपपत्तिः- घटस्य घटपदेनोपस्थितत्वान्नमा ज्ञाने तदभावबोधनसंभवादित्याशङ्क्याह- आधेयत्वसंवन्धस्येति । अत्र 'वृत्त्यनियामकत्वेन ' इति शेषः । तत्संबन्धावच्छिन्न आधेयत्वसंबन्धावच्छिन्न । विपक्षे बाधकमाहतादृशेति, वृत्त्यनियामकस्याधेयत्वसंबन्धस्याभावप्रतियोगितावच्छेदकत्वे हि 'ज्ञाने न घटः' इत्यत्र ज्ञाने आधेयतासंबन्धेन घटामावबोधापत्त्या ' घटे ज्ञानं न वा ' इत्याकारकसंशयनिरासाय 'ज्ञाने न घटः' इत्यपि वाक्यं प्रयुज्येत तेन च वाक्येन ज्ञाने आधेयतासंबन्धेन घटाभावबोधोत्पत्त्या 'घटे ज्ञानं न वा । इतिसंशयनिरासोपि स्यादेव न चैवमस्ति नापि ' ज्ञाने न घटः । इति प्रयुज्यते तस्मात् 'चैत्रेण ज्ञायते ' इत्यत्राधेयत्वं चैत्रविशेष्यं तृतीयार्थश्च न तु संसर्ग इत्यर्थः । वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितावच्छेदकत्वं न भवतीत्यत्र मानमाह-अत एवेति, अत एव-वृत्त्यनियामकसंबन्धस्याभावीयप्रतियोगितानवच्छेदकत्वादेव । कर्तरि विद्यमानमनुकूलकृति. मत्त्वमेव कर्तृत्वं तस्य संसर्गत्ये चैत्रः पचति ' इत्यत्र तादृशकर्तृत्वसंबन्धेन चैत्रे क्रियान्वये संभवत्यपि न पचति । इत्यत्र चैत्रे कर्तृत्वसंबन्धावच्छिन्नप्रतियोगिताकक्रियाभावो वक्तव्यः स तु न संभवति कर्तृत्वस्य वृत्त्यनियामकत्वादिति कर्तृत्वस्य प्रकारत्वं स्वीकृतं प्रकारत्वे तु पाककर्तृत्वस्याश्रयतासंबन्धेनामावबोधः संभवत्येव- आश्रयत्वस्य वृत्तिनियामकत्वात, तथा च "Aho Shrutgyanam" Page #583 -------------------------------------------------------------------------- ________________ आख्यातार्थविचारः] व्युत्पत्तिवादः। (५७१) एवम्- 'चैत्रेण ज्ञायते' इत्यादावाधेयत्वस्य तृतीययाऽविवक्षणे प्रातिपदि. कार्थमात्र विवक्षया तद्विषयानुशिष्टप्रथमैव स्यात् । —जानाति चैत्रः । इत्यादी चाख्यातेन कर्तृत्वाविवक्षणे धात्वर्थरूपभावमात्रपरतया परस्मैपदस्य इनादिविकरणस्य चाऽसाधुतापत्ति:-" भावकर्मणोः" इत्यात्मनेपदविधायकानुशासनविषयत्वात् , “ कर्तरि" इत्यधिकारीयत्र्यादिभ्यः इनेत्यनुशासनाविषयत्वाञ्चेति तत्राख्यातस्य कर्तृत्वबोधकतायुक्तिस्तु न साधीयसी-इतराविशेषणतया क्रियाबोधपरत्वरूपभावविवक्षाया आत्मनेपदानुशासनविषयतोपगमादुक्तस्थले परस्मैपदसाधुतायाः. तादृशभावविवक्षादिविरहस्य श्नाद्यनुशासनविषयत्वोपगमेन इनादिविकरणस्य साधुतायाश्च निर्वाहसंभवात् । कर्तृत्ववदाधेयत्वस्यापि प्रकारत्वमेव युक्तं न संसर्गत्वमित्यर्थः । तादृशसंबन्धस्य अनुकूलकतिमत्त्वरूपकर्तृत्वसंबन्धस्य । - आधेयत्वस्य तृतीयार्थत्वाभावे दोषान्तरमाह- एवमिति, तद्विषयानुशिष्ट प्रातिपदिकार्थमात्रविषयानुशिष्ट । तथा च ' चैत्रो ज्ञायते ' इति स्यात् 'चैत्रेण ज्ञायते ' इति न स्यात्. न चैतदिष्टम् । कर्तृत्वस्याख्यातार्थत्वामावे दोषमाह- जानातीति । अविवक्षणेति- कर्तृत्वस्याख्यातार्थस्वाभावे इत्यर्थः । कर्तृत्वविवक्षायामेव परस्मैपदस्य श्नाप्रत्ययस्य च साधुत्वात् । परस्मैपदस्यासाधुतापत्तौ हेतुमाह- भावकर्मणोरिति । श्नाविकरणस्याऽसाधुतापत्तौ हेतुमाहकर्तरीति । इत्येवमाख्यातस्य कर्तृत्वबोधकतायुक्तिमुक्तामस्वीकुर्वन्नाह- इति तत्राख्यातस्पेति, न साधीयसीति-आख्यातस्य कर्तृत्वाबोधकत्वेपि यत्र धात्वर्थस्येतरविशेषणत्वं न भवति तत्रात्मनेपदं भवति यथा 'ज्ञायते' इत्यत्र धात्वर्यस्यैव प्रधानत्वात् यत्र चेतरविशेषगत्वं भवति तत्र परस्मैपदं भवति यथा 'जानाति' इत्यत्र धात्वर्थस्य प्रथमान्तार्थे विशेषणत्वादित्येवंयुक्त्या व्यवस्थासभवानोक्ता युक्तिः साधीयसीत्यर्थः। एतदेवोपपादयति- इतरेति । क्रियैव भाव इति क्रियाबोधपरत्वरूपैव भावविवक्षा ज्ञेया सा यत्रेतराऽविशेषणतया भवति तत्रैवात्मनेपदं भवतीत्युक्तस्थले'जानाति चैत्रः । इत्यत्र धातोश्चैत्रविशेषणतयैव क्रियाबोधपरत्वमस्तीत्यात्मनेपदाऽप्राप्त्या परस्मैपदस्य साधुतानिर्वाहः संभवति तथा तादृशमावविवक्षादिविरहस्य इतराविशेषणतया क्रियाबोधपरत्वरूपभावविवक्षा यत्र न भवति तत्र श्नादिविकरणं भवतीति 'जानाति । इत्यत्र धात्वर्थज्ञानस्य चैत्रे विशेषणत्वादितराविशेषणतया धातोः क्रियाबोधपरत्वं नास्तीति श्नादिविकरणस्य साधुतानिर्वाहः संभवत्येवेत्यर्थः । यद्याख्यातस्थ · कर्तृत्ववाचकत्वं विना ' जानाति , इत्यादौ परस्मैपदस्य साधुत्वं नोपपद्येत तदा परस्मैपदसाधुरवार्थमाख्यातस्य कर्तृत्ववाचकत्वमुक्तयुक्त्या प्राप्नुयात. उक्तयुक्तेश्च साधीयसीत्वं स्यादपि न चैवमस्ति- आख्यातस्य कर्तृत्वाऽवाचकत्वेपि मदुक्तयुक्त्या परस्मैपदनादिविकरणयोः ' जानाति । इत्यादौ साधुत्वसंमवादित्याक्षेपाभिप्रायः । तस्मात्-- 'जानाति । इत्यत्र नाख्यातस्य कर्तृत्ववाचकत्वं किं त्वाश्रयस्वार्थकत्वमेव पूर्वोक्तं विज्ञेयम् । "Aho Shrutgyanam" Page #584 -------------------------------------------------------------------------- ________________ (५७२) सादर्श: [ आख्यातप्रकरणे* पचन् : पचति ' इत्यादाविवोद्देश्यतावच्छेदकविधेयाऽभेदेन ' जानन् जानाति' इत्यादनिराकाङ्क्षतानिर्वाहायापि जानाति 'इत्यादावाख्यातस्याश्रयतार्थकतोपगम आवश्यकः, अन्यथा कृदन्तप्रतिपाद्यतावच्छेदकज्ञानाश्रयस्वरूपोद्देश्यतावच्छेदकस्य ज्ञानादिरूपविधेयभिन्नतया निराकाङ्क्षताविरहेण तथाप्रयोगापत्तेः । एतेन तत्राश्रयतायाः प्रकारतोपगमे 'जानाति चैत्रः' इत्यादिवाक्यज्ञानघटितशाब्दसामग्र्या भिन्नविषयकप्रत्यक्षादिप्रतिबन्धकतायामाख्यातजन्याश्रयत्वोपस्थित्यादिरूपाधिककारणानां निवेशे गौरवेणाश्रयतायाः संसर्गत्वमेवोचिसमित्यादिकमनुपादेयम् । 'नश्यति' इत्यादौ प्रतियोगित्वरूपकर्तृत्वमाख्यातार्थः, तादृशसंबन्धस्य 'जानाति ' इत्यत्राख्यातस्याश्रयत्वार्थकत्वे उपपत्तिमाह- पचन्निति, ‘पचन् पचति । इति प्रयोगो न भवति तत्कस्य हेतोः ? 'पचन् । इत्यनेन पचन्तमुद्दिश्य पचति । इत्यनेन पाककृतेरेव विधेयत्वात् पचतश्चोद्देश्यत्वे उद्देश्यतावच्छेदकं पाककृतिरेव स्यात् तत्र चोद्देश्यतावच्छेदकविधेययोरभेदः प्राप्तस्तत्र च शाब्दबोधस्यानिष्टत्वादित्यर्थः । अभेदेनेति-उद्देश्यतावच्छे. दकविधेययोरभेदेन निराकाङ्क्षतानिर्वाहायेत्यर्थः । एवं ' जानन् जानाति , इत्यस्य निराकाक्षतानिहाय-शाब्दबोधानुपयुक्तत्वनिर्वाहाय 'जानाति ' इत्यत्राख्यातस्याश्रयत्वार्थकत्वं स्वीकार्य तथा च 'जानन् । इत्यनेन ज्ञानाश्रयमुद्दिश्य 'जानाति । इत्यनेन ज्ञानाश्रयत्वं विधेयं ज्ञानाश्रयस्य चोद्देश्यत्वे ज्ञानाश्रयत्वमेवोद्देश्यतावच्छेदकं स्यात्तत्रोद्देश्यतावच्छेदकविधेयघोरक्यापत्त्या शाब्दबोधस्यानिष्टत्वात् 'जानन् जानाति , इतिप्रयोगापत्तिर्नास्तीत्यर्थः । विपक्षे बाधकमाह- अन्यथेति, अन्यथा यदि 'जानाति' इत्यत्राख्यातस्याश्रयत्वार्थकत्वं न स्यात्तदा 'जानन् ' इत्यत्रोद्देश्यतावच्छेदकं तु कृदन्तं यत् — जानन् ' इतिपदं तत्प्रतिपाद्यो यो ज्ञानाश्रयस्तन्निष्ठप्रतिपाद्यताया अवच्छेदकं ज्ञानाश्रयत्वं ' जानाति ' इत्यनेन ज्ञानाश्रयत्वस्य विधेयत्वाभावे ज्ञानमेव विधेयं स्यात् तत्र ज्ञानाश्रयत्वज्ञानयोरुद्देश्यतावच्छेदकविधेययो. र्भेदापत्त्या शाब्दबोधसंभवेन साकाङ्क्षत्वापत्त्या 'जानन् जानाति ' इति प्रयोगः स्यादेव. न चैतादष्टमित्यत्राख्यातस्याश्रयत्वार्थकत्वमावश्यकमित्यर्थः । एतेनेति- प्रकारत्वं पदेनोपस्थित. स्यैव भवतीति प्रकारत्वात् प्रतिबन्धककोटिप्रविष्टाश्रयताया अव्याख्यातेनोपस्थित्यपेक्षा स्यात् प्रतिबन्धकत्वकल्पना च स्था'दत्यर्थः । अनुपादेयमिति-यद्याश्रयत्वस्य संसर्गत्वं स्यान्न त्वाख्या. तबोध्यत्वं तदोक्तरीत्या 'जानन् जानाति ' इत्यपि प्रयोगः स्यादेव न चैतदिष्टमित्याश्रयत्व. स्याख्यातवोध्यत्वमेव स्वीकार्य न संसर्गत्वमित्यर्थः । ___ नश्यतीति- अत्र नाशपतियोगित्वमेव कर्तृत्वं तदप्याख्यातार्थ एव न संसर्ग इत्यर्थः । उक्तमुपपादयति-तादृशेति, ताशसंबन्धस्य प्रतियोगित्वरूपकर्तृत्वरूपसंबन्धस्याऽभावीयप्रतियोगितानवच्छेदकत्वेन — न नश्यति ' इत्यत्र प्रतियोगित्वरूपकर्तृत्वसंबन्धावच्छिन्नप्रतियोगि "Aho Shrutgyanam" Page #585 -------------------------------------------------------------------------- ________________ कर्तृत्वशक्ततावच्छेदकविचारः] व्युत्पतिवादः। (१७३) वृत्त्यनियामकतयाऽभावप्रतियोगितानवच्छेदकत्वेन न नश्यति' इत्यादौ नाशनतियोगित्वाभावबोधस्यैव स्वीकरणीयतया न संसर्गतासंभवः । अथाख्यातस्य कर्तृत्वशक्ततावच्छेदकं रूपं दुर्वचम् । न च तिस्त्वं तथा-- तिप्तसादिसाधारणतिङ्त्वस्य दुर्वचत्वात् । न च पाणिनीयसंकेतसंबन्धेन तिङ्पदवत्वमेव तिङ्त्वं. तिवाद्यष्टादशसु तत्पदसंकेतग्राहकं च " आदिरन्त्येन" इतिसूत्रमेव तत्संकेतमविदुषामनधीतपाणिनीयतन्त्राणां तिप्त्वादिना शक्तिभ्र. मादेव शाब्दबोध इति वाच्यम्, एवं सति घटादिवाचकघटादिपदेष्वपि कस्यचिच्छब्दस्य पुरुषविशेषीयसंकेतसंभवेन तुल्ययुक्त्या तत्रापि तच्छब्दस्यैव शक्ततावच्छेदकतापत्या तिबादिषु पाणिनेस्तिङ्पदसंकेतवत् तत्र शब्दान्तरसंकेतस्याप्यन्यपुरुषीयस्थ संभवात् तत्तच्छब्दानामपि प्रवृत्तिनिमित्ततायाः सुवचत्वाद् विनिगमनानुपपत्तेः । ताकनाशाभावस्य घटादौ ना बोधनासंभवाद् नाशप्रतियोगित्वाभावस्यैव नत्रा बोधः स्वीकर्तव्य इति न प्रतियोगित्वरूपकर्तत्वस्यापि संसर्गत्वं संभवति. किं तु प्रकारत्वमेव तेन चाख्यातार्थवं प्राप्तमित्यर्थः । उक्तकमेणाख्यातस्य कर्तृत्वे शक्तिरिति ज्ञाते संप्रति शक्ततावच्छेदकज्ञानार्थमाशङ्कते-अथेति, आरूपाते कर्तृत्वनिरूपिता या शक्तता सा केन रूपेणास्तीति जिज्ञासास्ति । न चेति, तथा कर्तृत्वशक्ततावच्छेदकम् । दुर्वचत्वादिति- तिप्तसाद्यानुपूर्वीगां विभिन्नरूपत्वेन तित्वस्य तत्साधारणत्वाऽसंभवादित्यर्थः। ननु पाणिनिसंकेत आश्रयतासंबन्धेन तिङि संज्ञिनि वर्तत एवेति पाणिनिसंकेतसंबन्धेन तिपदवत्त्वं तिङ्पदबोध्ये तिङि यदस्ति तदेव तिङ्वं ज्ञेयं तिबाधष्टादशसु तत्पदसंकेतप्राहकम्-तिङ्पदसंकेतप्राहक :च “ अन्त्येनेतासहितआदिमध्यगानां स्वस्य च संज्ञा स्यात् " इतिवृत्त्युक्तरीत्या " आदिरन्स्येन " इतिसूत्रमेवेत्यर्थः । नन्वेवं तिपदस्य तिबाद्यष्टादशसु संकेतमस्तीतिज्ञानरहितानामवैयाकरणानां तिङ्पदसंकेतग्रहो न स्यात्तेन च शाब्दबोधानुपपत्तिरित्याशङ्क्याह-- तत्संकेतमविदुषामिति, तेषां तिप्त्वमेव शक्ततावच्छेदकम् 'पचति ' इत्यादौ श्रूयमाणतिप एव कर्तृत्वे शक्तिरिति भ्रमादेव कर्तृत्वविषयकशाब्दबोधो भवतीत्याशङ्क्याह-- न चेति । उत्तरमाह- एवमिति, यदा केनचित् पुंसा मदुक्तपटपदेन त्वया घटपदं ज्ञेयमिति संकेतः कृतस्तदा तत्पुरुषीयसंकेतसंबन्धस्यापि संभवित्वात् तत्पुरुषीयसंकेतसंबन्धेन घटपदस्य पटपदवत्वं प्राप्तमिति तत्र पटपदस्यैव शक्ततावच्छेदकत्वं भवेन्न तु घटपदत्वस्य न चैतदिष्टमित्यर्थः, किं च यथा पाणिनिना तिबादिषु तिपदसंकेतः कृतस्तथान्येन व्याकरणनिर्मात्रा तिबादिषु डिपदसंकेतोपि कर्तुं शक्यते इति तत्संकेतसंबन्धेन डिपदवत्त्वमपि तित्वं स्यादिति तत्तच्छब्दानाम्=पटतिडिङादिशब्दानां शक्ततावच्छेदकतापत्त्या तत्तछब्दानां प्रवृत्तिनिमित्तत्वं स्यादेव न चैतदिष्टम्, तिपदस्यैव प्रवृत्तिनिमित्तत्वं न डिङ्पद "Aho Shrutgyanam" Page #586 -------------------------------------------------------------------------- ________________ (५७४) सादर्श: [ आख्यातप्रकरणे अत्र केचित्-तिबादिस्थानिनो लकारस्यैव लत्वजातिपुरस्कारेण कृतिवाचकता, 'पचति' इत्यादी लकाराऽश्रवणेप्याऽऽदेशेन तिबादिना स्थानिनः स्मरणात् तत एवार्थोपस्थितिः। आदेशादेशिभावमविदुषां तु तिप्त्वादिना शक्तिभ्रमादेवार्थोपस्थितिः। यत्र तिबादेलादेशत्वज्ञानं नास्ति श्रुतलकाराचार्थोपस्थितिस्तत्र 'पचति ' इत्यादिवाक्याच्छाब्दबोधवारणाय 'पति' इत्याद्यानुपूर्वीज्ञानजन्यबोधे तिबादेर्लादेशत्वज्ञानमपि हेतुः। न चोक्तस्थले धातुसाकाक्षत्वज्ञाने भवत्येव शाब्दबोधस्तदासत्वे च कारणाभावादेव नापत्तिरिति वाच्यम्, 'पचति' इत्यादौ तिबादिना कारस्योपस्थापनेपि तत्तद्धातुसाकाङ्क्षतया तत्स्मारकाभावेन तच्छाब्दबोधानुपपत्ते:- लकारे धातुसाकाङ्क्षत्वग्रहस्य शाब्दबोधहेतुत्वाऽसंभवात् ।न हि तत्तद्धातुसाकाङ्क्षत्वेन लस्तिबादिस्थानिता येन तद्रूपावच्छिन्नमेव तिवादिः स्येत्यत्र च विनिगमनानुपपत्तिः-विनिगमनाविरह एवेति न तिङ्पदवत्त्वरूपं तित्वं शक्ततावच्छेदकं संभवतीत्यर्थः । . उक्तशक्ततावच्छेदकनिरूपणे कस्यचिन्मतमनुवदति-अत्रेति । लत्वजातीति-कर्तृत्वशक्ततावच्छेदकं लत्वमेवेत्यर्थः । ननु लत्वस्य शक्ततावच्छेदकस्ये लकारस्यैव कर्तृत्वे शक्तिरिति प्राप्त तथा च — पचति ' इत्यादी कर्तृत्वबोधानुपपत्तिः-लकारस्याऽश्रवणादित्याशङ्क्याह- पचतीति । स्थानिन: लकारस्य । ततः-लकारस्मरणात् । पदज्ञानस्यैवार्थोपस्थितिकारणत्वात् लस्मरणस्यापि ज्ञानरूपत्वात् कर्तृत्वोपस्थापकत्वं युक्तमेवेत्यर्थः । ननु लकारस्य तिबादिरादेशो भवतीति ज्ञाने सति तिबादिना लकारस्मरणं संभवति न त्वादेशादेशिभावज्ञानं विनापीत्यादेशादेशिभावज्ञानशून्यानो तिबादिना लकारस्मरणासंभवात् 'पति' इत्यादौ कर्तृत्वोपस्थितिन स्यादित्याशझ्याह- आदेशेति, आदेशादेशिभावमविदुषां तु तिबादीनामेव कर्तृत्वे शक्तिरिति भ्रमादेव तिबादिना कर्तृत्वोपस्थितिः संभवतीत्यर्थः । यत्रेति-यत्र तिबादेर्लादेशत्वज्ञानं तु नास्ति वाक्यान्तरघटकेन श्रुतेन च लकारेण कर्तृत्वोपस्थितिर्भवति तत्र ‘पचति' इत्यादिवाक्याच्छाब्दबोधवारणाय तिबादेर्लादेशत्वज्ञानमपि हेतुत्वेन स्वीकार्य तथा चोक्तस्थले हेतुभूतस्य तिबादेर्लादेशत्वज्ञानस्याभावादेव न शाब्दबोधापत्तिरित्यर्थः । ननु 'पचति' इत्यादिवाक्यजन्यबोधे तिबादेर्लादेशत्वज्ञानस्य न हेतुत्वं स्वीकार्य किं तु धातुसाकाङ्क्षत्वज्ञानस्यैवान्वयव्यतिरेकाभ्यां हेतुत्वं युक्तं तथा च धातुसाकाङ्क्षत्वाने सति शाब्बोधो भवति धातुसाकाङ्क्षत्वज्ञानाभावे च न भवतीत्याशङ्क्याह- न चेति । तिबादेर्धातुसाकाङ्क्षत्वज्ञानं च धातूत्तरवर्तित्वज्ञानमेवेत्यर्थः । परिहारहेतुमाह- पचतीति, 'पति' इत्यादौ तिबादिना वाऽन्येन वा लकारस्य तत्तद्धातुसाकाङ्क्षवेन रूपेण स्मरणाऽसंभवात् सर्वदेव शाब्दबोधानुपपत्तिः स्यादिति न धातुसाकाङ्क्षत्वज्ञानस्य शाब्दबोधहेतुत्वं संभवतीत्यर्थः । उक्तमेवाऽऽक्षेपेणाह-- न हीति । तद्रूपावच्छिन्नम् धातुसाकाङ्क्षत्वविशिष्टम् । लत्वेनेति- लत्वेनैव रूपेण लकारस्य "Aho Shrutgyanam" Page #587 -------------------------------------------------------------------------- ________________ आत्मनेपदाख्यातार्थनिरूपणम् ] व्युत्पत्तिवादः । ( ५७५) स्मारयेत्. अपि तु लत्वेनैव तथात्वमिति । एवं तत्तद्धातुपदाव्यवहितोत्तरत्वरूपतत्साकाक्षत्वेन येन पुंसा न लकारः श्रुतस्तस्य तेन रूपेण तत्तत्स्मरणाऽसंभव इति । __ अत्रेदं चिन्त्यते-लकारतिबाधोरनतिप्रसक्तस्थान्यादेशभावस्य दुर्वचत्वात तिबादिस्मारितलकारस्य वाचकत्वं न विचारसहम्, तिबादेरेव यत्र वाचकताभ्रमस्तदनुरोधेन 'पचति' इत्याद्यानुपूर्वीज्ञानस्य तिबादिजन्योपस्थितिसहकारेण शाब्दबोधोपधायकताकल्पनस्यावश्यकत्वात्. लकारजन्योपस्थितिसहकृतवाहशानुपूर्वीज्ञानतिबादिमिकलादेशत्वज्ञानघटितसामध्यन्तरकल्पने गौरवेण लाघवात्तिबादेरेव तादूप्येण शक्तिकल्पनाया उचितत्वं चेति दिक् । आख्यातसामान्यस्य कर्तृत्वे इव तद्विशेषस्यात्मनेपदस्य कर्मत्वे शक्तिः, न तु यथाश्रुतग्राहिवैयाकरणमते इव कर्मरूपधर्मिवाचकत्वं गौरवाद, प्रथमातथात्वम्-तिबादिस्थानितास्तीति तिबादिना लकारस्य लत्वेनैव रूपेण स्मरणं संभवति तथ च तिबादेलादेशत्वज्ञानमेव शाब्दबोधकारणं न तु तद्धातुसाकाङ्क्षत्वज्ञानमित्यर्थः । यथानुभवमेव स्मरणनियमोस्तीति पदस्थापि येन रूपेण श्रवणं तेनैव रूपेण स्मरणमपि संभवति लकारे तत्तद्धातुसाकाङ्क्षत्वं च तत्तद्धातुपदाव्यवहितोत्तरत्वमेव तथा च लकारस्य तत्तद्धातुपदाव्यवहितोचरत्वेन श्रवणाभावे तेन रूपेण स्मरणमपि न संभवतीति शाब्दबोधानुपपत्तिरेवेत्याह- एवमिति । अत्रेदमिति, अनतिप्रसक्तेति- केनचित् "लट लिट्' इत्यादिस्थाने 'सटू सिटू' इत्यादि यदि पठितं स्यात्तदा सडादीनामपि स्थानित्वं स्यादेव तथा " तिप् तस्" इत्यादिस्थाने 'तिट तः। इत्यादिपाठे तिडादीनामप्यादेशत्वं स्यादेवेत्यनतिप्रसक्तस्य स्थानादेशमावस्य दुर्वचत्वं तथा च तिवादिस्मारेितलकारस्यापि कर्तृत्वादिवाचकस्वापच्या तिबादिस्मारितस्यैव वाचकत्वमिति न संभवतीति प्रयोगे श्रूयमाणतिबादेरेव कर्तृवे शक्तिः स्वीकार्येत्यर्थः । तिबादेः शक्तिमुपपादपति- तिबादेरेवेति, तदनुरोधेन=उक्तवाचकताभ्रमानुरोधेन । तिबादिजन्योपस्थितिसहकारेण तिबादिजन्यकर्तृत्वोपस्थितिसाहाय्येन । उपधायकता जनकता । तव मते 'पचति' इत्यादिवाक्यजन्यबोधं प्रति लकारजन्यकर्तृत्वोपस्थितिसहकृता तथा तादृशानुपूर्वी 'पचति' इत्याद्यानुपूर्वीज्ञानेन तिबादिधर्मिकलादेशत्वज्ञानेन-तिबादौ लादेशत्वज्ञानेन च घटिता या सामग्रीस्तस्याः कारणत्वकल्पने गौरवं स्यादिति लाघवात्तिबादेरेव तादूप्येण तिप्स्वादिरूपेण कर्तृत्वे शक्तिकल्पनमुचितमित्यर्थः । . परस्मैपदाख्यातस्य कर्तृत्वे शक्तिं निरूप्य संप्रत्यात्मनेपदाख्यातस्य कर्मत्वे शक्तिमाह- आख्यातेत्यादिना । ' कुरुते । इत्यादावात्मनेपदस्यापि कर्तृत्वे शक्तिरस्तीति कर्मत्वे शक्तौ यक्सम-. मिव्याहारस्य सहकारित्वं ज्ञेयम् । गौरवादिति- कर्मणि शक्ती शक्यतावच्छेदकं कर्मवं "Aho Shrutgyanam" Page #588 -------------------------------------------------------------------------- ________________ (५७६) सादर्शन आख्यातप्रकरणे तपदार्थे कर्मस्वान्वयबलादेव कर्मताविशिष्टर्मिलाभसंभवात् । - न चात्मनेपदस्य शानच्प्रत्ययस्य धर्मिणि शक्तेः ‘पच्यमानमानय ' इत्यादी पच्यमानादिनिष्ठानयनकर्मत्वाद्यनुरोधेनावश्यकत्वात् तत एवोपपत्तावाख्यातरूपात्मनेपदस्य धर्मवाचकत्वं नियुक्तिकमिति वाच्यम्,तशानच्साधारणस्यात्मनेपदत्वस्य शक्ततावच्छेदकत्वे एव तथोक्तिसंभवाद. तादृशात्मनेपदत्वस्य चाऽगुरो. निर्वचनासंभवात्, पाणिन्यादिसंकेतसंबन्धनात्मनेपदवत्त्वस्य शक्ततावच्छेदकताया उक्तरीत्याऽनवकाशात् । अतस्तादीनां तत्तदूपेण शक्तिकल्पनस्यावश्यक तया लाधवात् कर्मत्वे एव तत्कल्पनात् । कर्मत्वं च ' त्यज्यते ग्रामः , 'गम्यते ग्रामः' इत्यादौ धात्वर्थतावच्छेदकीभूतसंयोगविभागादिरेव विशेष्यतया तङ्वाच्यः। चैत्रेण गम्यते ग्रामः' तच्च संयोगविभागादिलक्षणफलरूपत्वान्नानैवेति गौरवम्, कर्मत्वे शक्तौ च शक्यतावच्छेदकं. कर्मत्वत्वं तच्चैकमेवेति लाघवम् । ननु कर्मत्वे शक्तौ कर्मपदार्थबोधो न स्यादित्याशङ्क्याहप्रथमान्तेति । उपस्थितकर्मत्वस्य धर्मत्वेन कचिदप्यन्वयोऽवश्यंभावी ति प्रथमान्तपदार्थेन्वयः स्यादेव तेन चान्वयेन कर्मस्वविशिष्टकर्मपदार्थभानं संभवत्येवेत्यर्थः । । ननु 'पच्यमानं तण्डुलमानय' इत्यादौ सामानाधिकरण्यानुरोधात् शानच्प्रत्ययरूपस्यात्मनेपदस्य धर्मिणि कर्मणि शक्तेरावश्यकतास्ति अन्यथा-शानचप्रत्ययोपस्थितकर्मत्वस्य कर्मभूततण्डुलादिनाऽभेदाऽसंभवात्सामानाधिकरण्यं न स्यात् तथा च ततः शानचप्रत्ययस्य कर्मणि शक्तिस्वीकारावश्यकत्वादेव ‘पच्यते ' इत्यादावप्यात्मनेपदस्य कर्मणि शक्तयुपपत्तौ सत्यामात्मनेपदस्य धर्मवाचकत्वम् कर्मत्ववाचकत्वं न युक्तम्-अर्धजरतीयत्वस्याऽन्याय्यत्वादित्याशङ्. क्याह- न चेति । उत्तरमाह-तशानचिति, यदि तङि शानच्प्रत्यये चैकरूपमेवात्मनेपदत्वं यात्तदा 'शानच्प्रत्ययस्यात्मनेपदरूपस्य कर्मणि शक्तिरस्तीति तरूपात्मनेपदस्यापि कर्मप्येव शक्तियुक्ता ' इति कथनं युक्तिसंगतं स्यादपि न चैवमस्ति- तादृशात्मनेपदत्वस्य-तङशानचसाधारणात्मनेपदत्वस्याऽगुरोर्निर्वचनासंभवादित्यर्थः । यदि पाणिनिसंकेतसंबन्धनात्मनेपदवत्त्वं कर्मत्वनिरूपितशक्ततावच्छेदकमित्युच्यते तदा “एवं सति घटादिवाचक ५७३" इत्यायुक्तदोषः प्रसज्येतेति तदपि न संभवतीत्याह- पाणिन्यादीति । उपसंहरति-अत इति, उक्त रीत्या सर्वानुगतात्मनेपदत्वस्य निर्वचनासंभवेनात्मनेपदत्वेन रूपेणात्मनेपदस्य कचिदपि शक्तिकल्पनाया असंभवात् तादीनामेव तत्तद्रूपेण तत्वादिना रूपेणैव शक्तिकल्पनं कर्तव्यमिति शानच्प्रत्ययस्याऽगत्या पृथगेव कर्मणि शक्तिस्वीकारेपि तादीनां लाधवात् कर्मत्वे एव तत्कल्पनात्शक्तिकल्पना युक्ता-तत्वादीनां पृथगेव शक्ततावच्छेदकत्वादित्यर्थः । कर्मत्वस्वरूपमाह- कर्मत्वमिति । विशेष्यतयेति-कर्मत्वे शक्तिस्वीकारात्तस्य विशेष्यतया तवाच्यत्वम् । चैत्रेणेत्यादिवाक्यार्थघटकपदार्थानामन्वयमाह- इत्यत्रेति । तस्य आधे. "Aho Shrutgyanam" Page #589 -------------------------------------------------------------------------- ________________ कर्माख्यातार्थविचारः ] व्युत्पत्तिवादः । ( ५७७) इत्यत्र तृतीयार्थस्तत्कर्तृकत्वरूपमाधेयत्वं तस्य धात्वर्थे संयोगात्मकफलावच्छिन्ने स्पन्दलक्षणे व्यापारे तस्य च जन्यतासंबन्धेनात्मनेपदार्थसंयोगरूपफले तस्य चाश्रयतासंबन्धेन प्रथमान्तपदोपस्थाप्यग्रामेऽन्वय इति चैत्रवृत्तिर्यः संयोगावच्छिन्नस्पन्दस्तज्जन्यसंयोगवान् ग्राम इत्याकारकः शाब्दबोधः । ' चैत्रेण त्यज्यते ग्रामः इत्यत्र संयोगस्थाने विभागमन्तर्भाव्य बोध उपपादनीयः । > अथ चैत्रनिष्ठक्रियाजन्यसंयोगविभागादेर्यामादाविव चैत्रादावपि सत्त्वात् चैत्रेण त्यज्यते गम्यते चैत्रः ' इत्यपि स्यात् न स्याच्च ' चैत्रेण न गम्यते न त्यज्यते चैत्रः ' इत्यादीति चेत् , अत्र दीधितिकारप्रभृतयः - फलमिव तत्र क्रियान्वयि परसमवेतत्वमपि कर्माख्यातार्थः, परत्वे च भेदरूपे प्रतियोगितया फले आश्रयतयान्वयिनः प्रथमान्तपदोपस्थाप्यस्यान्वयः - चैत्रे चैत्रान्यसमवेतक्रियाजन्यसंयोगादिमत्त्वस्याऽन्वयाऽयोग्यत्वात् तादृशसंयोगाद्यभावस्य च तत्रान्वययोग्यत्वान्न तत्रापत्त्यनुपपत्त्योरवकाश इत्याहुः । तत्रेदं चिन्तयन्ति - प्रथमान्तपदोपस्थाप्य कर्मणोऽन्वयितावच्छेदकावच्छिन्नयत्वस्य । तस्य व्यापारस्य च । तस्य= संयोगादिरूपफलस्य । वाक्यार्थमाह- चैत्रवृत्तिरिति । अन्तर्भाव्येति - ' चैत्रवृत्तिविभागानुकूलव्यापारजन्यविभागाश्रयो ग्रामः ' इतिशाब्दबोध इत्यर्थः ॥ शङ्कते - अथेति । ' चैत्रेण व्यज्यते गम्यते चैत्र: ' इति -' चैत्रेण त्यज्यते चैत्रः ' ' चैत्रेण गम्यते चैत्रः ' इत्यपि स्यादित्यर्थः । 'चैत्रेण न गम्यते चैत्र: ' 'चैत्रेण न त्यज्यते चैत्रः' इति च न स्यात् - चैत्रनिष्ठक्रियाजन्यसंयोगविभागादेश्चैत्रे सत्त्वादेवेत्यर्थः । अस्य दीधितिकारमतेनोत्तरमाह-- अत्रेति । क्रियान्वयीति- क्रियायां संयोगाद्याश्रयी भूतप्रामाद्यपेक्षया यः परश्चेत्रादिस्तत्समवेतत्वमपि भासते तदपि कर्माख्यातस्यार्थ इत्यर्थः । फले आश्रयतयान्वयिनः = फलाश्रयस्य प्रथमान्तपदोपस्थाप्यस्य प्रामादेर्भेदरूपे परत्वे प्रतियोगितयान्वयः - स च भेदः प्रथमान्तपदोपस्थाप्यग्रामादिप्रतियोगिको ग्राह्य इत्यर्थः । उक्तस्य फलमाह - चैत्रेति, ' चैत्रेण गम्यते चैत्रः ' इत्यत्र चैत्रे चैत्रसमवेतक्रियाजन्यसंयोगादेरेवान्वयः कर्तव्यः स च नेष्टः- क्रियायां परसमवेतत्वनिवेशात, अत्र चैत्रे चैत्रान्यसमवेतक्रियाजन्यसंयोगादेरन्वययोग्यतेव नास्ति - उपस्थित्यभावात् चैत्रवृत्तिसंयोगजनकक्रियायाश्च चैत्रान्यसमवेतत्वाभावादित्यापत्तिः' चैत्रेण गम्यते चैत्रः, इति प्रयोगापत्तिर्नास्ति, तादृशसंयोगाद्यभावस्य = चैत्रान्यसमवेतक्रियाजन्यसंयोगाद्यभावस्य च तत्र = चैत्रेऽन्वययोग्यत्वात् = अन्वयसंभवात् ' चैत्रैण न गम्यते चैत्र: ' इत्यादिप्रयोगस्यानुपपत्तिरपि नास्तीत्यर्थः । ग्रामे च ग्रामान्य चैत्रवृत्तिक्रियाजन्यसंयोगाद्याश्रयत्वस्य सत्त्वात् चैत्रेण 'गम्यते ग्रामः ' चैत्रेण त्यज्यते ग्रामः इत्युपपद्यते एव । L यदुक्तं भेदे प्रथमान्तपदोपस्थाप्यस्य प्रतियोगितयान्वयस्तत्राशङ्कते - तत्रेदमित्यादिना, मेदे प्रथमान्तपदोपस्थाप्य कर्मणोऽन्वयितावच्छेदकानवच्छिन्नप्रतियोगितया वाऽन्वयितावच्छेदकावच्छि ३७ "Aho Shrutgyanam" Page #590 -------------------------------------------------------------------------- ________________ ( ५७८ ) सादर्श: [ आख्यातप्रकरणे 6 , त्वाऽविशेषितप्रतियोगितया भेदांशेऽन्वयोपगमेपि चैत्रेपि चैत्रस्य द्वित्वादिना भेदसंभवेन तत्समवेतक्रियायां परसमवेतत्वाक्षतेरुक्तदोषोद्धारासंभवः । अन्वयितावच्छेदकावच्छिन्नप्रतियोगितया तत्र तद्मानस्वीकारे ? चैत्रेण द्रव्यं गम्यते' इत्यादावनुपपत्तिः- द्रव्यत्वावच्छिन्नभिन्नसमवेतत्वादेः क्रियादौ बाधात् । न च तत्र द्रव्यपदं लक्षणया चैत्रान्यद्रव्यपरमिति वाच्यम्, 'मल्लेन गम्यते मल्लः इत्यादौ मलपदस्य महान्यमल्लपरत्वासंभवात्, मलान्यसमवेतमलवृत्तिक्रियाया अप्रसिद्ध्याऽनुपपत्तितादवस्थ्यात्, अननुगतमलगततत्तद्व्यक्तित्वोपस्थित्यनैयत्यात्, कर्मव्यक्तिभिन्नमलत्वेन लक्षणाग्रहस्य तादृशवाक्यजनप्रतियोगितया वान्वय उपगम्यते इत्येवं द्विधा विकल्प्य प्रथमे दोषमाह - प्रथमान्तेति । द्वित्वादिनेति - चैत्रे चैत्रभेदाभावेपि चैत्र घटोभयभेदस्य सत्त्वेन चैत्रभेदप्राप्तौ तत्समवेतक्रियायाम् = चैत्रसमवेतक्रियायां परसमवेतत्वाक्षतेः = चैत्रापेक्षया परसमवेतत्वप्राप्त्या चैत्रे परसमवेतक्रियाजन्यसंयोगविभागाद्याश्रयत्वप्राप्त्या उक्तदोषोद्धारासंभव :- चैत्रेण गम्यते चैत्रः ' 1. चैत्रेण न गम्यते चैत्र: ' इत्यादिप्रयोगानुपपत्तिश्च तदस्थैवेत्यर्थः । द्वितीयपक्षे दोषमाह- अन्वयितेति यद्यऽन्वयितावच्छेदकावच्छिन्नप्रतियोगितया प्रथमान्तपदोपस्थाप्यस्य तत्र = भेदेऽन्वय उपगम्यते ? तदोक्तदोषोद्धार संभवेपि ' चैत्रेण द्रव्यं गम्यते ' इत्यादिप्रयोगो नोपपद्येत- क्रियायां प्रथमान्तपदोपस्थाप्यभिन्नसमवेतत्वस्य विवक्षितस्वात् चैत्रेपि द्रव्यत्वस्य सत्त्वेन क्रियायां द्रव्यत्वावच्छिन्नभिन्नसमवेतत्वस्याभावात् द्रव्ये द्रव्यत्वावच्छिन्नभिन्नसमवेतक्रियाजन्यसंयोगाश्रयत्वाभावादित्यर्थः । इत्यादिप्रयोगापत्तिस्तदवस्थैव ननु तत्र - ' चैत्रेण द्रव्यं गम्यते ' इत्यत्र द्रव्यपदं लक्षणया चैत्रान्यद्रव्यपरं ग्राह्यं तथा च द्रव्यपदवाच्यस्य चैत्रस्य च भेदे प्राप्ते द्रव्ये तदन्यचैत्रवृत्तिक्रियाजन्यसंयोगाश्रयत्वसंभवात् 'चैत्रेण द्रव्यं गम्यते ' इत्यादिप्रयोगानुपपत्तिर्नास्तीत्याशङ्कयाह - न चेति । उत्तरमाह - मलेनेति, ' चैत्रेण द्रव्यं गम्यते ' इत्यत्र द्रव्यपदस्य लक्षणया चैत्रान्यद्रव्यपरत्वेपि मलपदस्य महत्वावच्छिन्नवाचकत्वेन मल्लान्य मलपरत्वाऽसंभवात् ' मल्लेन गम्यते मल्लः ' इतिप्रयोगो नोपपद्येतमल्लान्यसमवेतायाः क्रियाया मलवृत्तित्वासंभवात् मल्लवृत्तिक्रियायाश्च मलान्यसमवेतत्वासंभवादित्यर्थः, अपेक्ष्यते च क्रियायां प्रथमान्तार्थमल्लान्यसमवेतत्वं तदत्र न संभवतीति भावः । ननु तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकमेदमत्र ग्रहीष्यामस्तथा च तन्मलुव्यत्यास्तन्मलुव्यक्तेर्भिन्नत्वाम्नानुपपत्तिरित्याशङ्कयाह- अननुगतेति । उपस्थित्यनेयत्यात् तद्द्व्यक्तित्वोपस्थितेरनियतत्वात्कारणाभावेनासंभवात् । नन्वत्रापि तृतीयान्तमल्लपदस्य कर्मभूतमल्लुव्यक्तिभिन्नपरत्वमेव लक्षणयेति नोक्तप्रयोगानुपपत्तिरित्याशङ्क्याह- कर्मेति, ' मल्लेन गम्यते मल: ' इतिवाक्यजन्यशाब्दबोधानन्तरमेव मलपदस्य मल्लान्यमले तात्पर्यग्रहे सत्युक्तलक्षणाग्रहः संभवति नतु वाक्यार्थबोधात पूर्वम्. वाक्यार्थबोधकारणीभूतलक्षणाग्रहेण च वाक्यार्थबोधात्पूर्वमेव भवितव्यं तद "Aho Shrutgyanam" Page #591 -------------------------------------------------------------------------- ________________ कर्माख्यातार्थविचारः ] व्युत्पत्तिवादः । (५७९ ) न्यधीपूर्व नियमतोsसंभवात् । न च फलविशेष्यव्यक्तीनां तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिता संबन्धेन परत्वेऽन्वयात् संबन्धोपस्थितेश्चानपेक्षणान्नाऽनुप्रपचिरिति वाच्यम्, संसर्ग तात्पर्यज्ञानानुरोधेन तदुपस्थितेरपि शाब्दबुद्धावऽप्रेक्षणीयत्वात् । ' तद्व्यक्त्या तद्व्यक्तिर्न गम्यते ' इत्यादावभावप्रतियोगिकोटिप्रविष्टतव्यक्तित्वावच्छिन्नभिन्नसमवेततद्व्यक्तिसमवेतक्रियाया अप्रसिद्धेः । ये तु फलं भेदश्च कर्मप्रत्ययार्थः, फले जन्यतासंबन्धेन भेदे च स्वावच्छिन्नप्रतियोगिताकत्व संबन्धेन क्रियाया अन्वयः, भेदफलयोश्च कर्मण्याश्रयतासंव न्धेनान्वयः, चैत्रसमवेतक्रियावच्छिन्नभेदस्य चैत्रो नाश्रय इति तादृशक्रिया जन्यफलाश्रयत्वेपि तस्य ' चैत्रेण चैत्रो गम्यते ' इति न प्रयोगः । ' मल्लो मल्लेन गम्यते ' इत्यादेरे कमलादिनिष्ठक्रियावच्छिन्नभेदसहितस्य तज्जन्यफलस्य संभवादयमपि पक्षो न युक्त इत्यर्थः । ननु फलविशेष्यव्यक्तीनाम् = प्रथमान्तार्थ प्रामादीनां यो भेदरूपपरत्वेऽन्वय उक्तः स तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगितासंबन्धेन कर्तव्य इति तद्व्यक्तित्वावच्छिनप्रतियोगिताकमेद एव भेदपदेन ग्राह्यतां प्राप्तस्तादृशभेदश्च मल्लस्य मल्लान्तरेस्त्येव तद्व्यक्तित्वस्य च संबन्धकोटिप्रवेशात्तदुपस्थित्यपेक्षा नास्तीति न 'भलेन गम्यते मल्लः' इतिप्रयोगानुपपत्तिरित्याशङ्कयाह-न चेति । उत्तरमाह - संसर्ग तात्पर्येति, संसर्गविषयक तात्पर्यज्ञानापेक्षायां सत्यां संसर्गोपस्थितेरपि शाब्दबोधकारणत्वस्य निर्विवादतया तद्व्यक्तित्वोपस्थितेरप्यपेक्षा प्राप्तैव न च तदुपस्थितिः संभवतीति 'मलेन गम्यते मल:' इतिप्रयोगानुपपत्तिस्तदवस्थैवेत्यर्थः । दोषान्तरमाहतद्व्यक्त्येति, 'तद्व्यक्त्या तद्व्यक्तिर्न गम्यते' इत्यत्र प्रथमान्तार्थतद्व्यक्तिभिन्नतद्व्यक्तिसमवेतक्रियाजन्यसंयोगस्याभाव: प्रथमान्तार्थतदूव्यक्तौ प्रतीयते प्रतीयमानैतादृशाभावस्य प्रतियोगिफोटौ प्रविष्टं यत् तद्व्यक्तित्वावच्छिन्नं तद्भिन्नसमवेतायाः क्रियायास्तद्व्यक्तिसमवेतत्वं न संभवति तद्व्यक्तिसमवेतायाश्च क्रियायास्तद्व्यक्तित्वावच्छिन्नभिन्नसमवेतत्वं न संभवतीति तद्व्यक्तित्वावच्छिन्नभिन्नसमवेतत्वे सति तद्व्यक्तिसमवेतत्वस्य तत्क्रियायामप्रसिद्धेः तद्व्यक्त्या तद्व्यक्तिर्न गम्यते ' इतिप्रयोगानुपपत्तिरप्यस्तीत्यर्थः । 6 दूषयितुं मतान्तरमनुवदति - ये त्वित्यादिना । फलस्य संयोगादिरूपत्वेन क्रियाजन्यावाज्जन्यतासंबन्धेन फले क्रियान्वयः । भेदश्च संयोगाद्यनुकूल क्रियावान्नेति प्राह्मस्तत्र प्रतियोगी तादृशक्रियावान् प्रतियोगितावच्छेदिका च क्रियैवेति प्रतियोगितायाः क्रियावच्छिन्नत्वात् स्वाव-. च्छिन्नप्रतियोगिताकत्वसंबन्धेन क्रियाया भेदेऽन्वयः स्वं क्रिया । कर्मणि प्रथमान्तपदार्थे आमादौ । तथा च तस्य = चैत्रस्य चैत्रसमवेत क्रियाजन्यसंयोगादिरूपफलाश्रयत्वेपि संयोगानुकूल क्रियावान्नेत्याकारको यश्चैत्रसमवेत क्रियावच्छिन्नभेदस्तदाश्रयत्वाभावात् चैत्रेण गम्यते चैत्र: ' इतिप्रयोगापत्तिर्नास्ति, एकमल्लनिष्ठा या संयोगानुकूलक्रिया तदवच्छिन्नभेदस्य = क्रियानेत्याकारकस्य भेदस्य तज्जन्यफलस्य - एक मल्ल निष्ठक्रियाजन्यसंयोगरूपफलस्य च मद्धान्तरे= $ "Aho Shrutgyanam" Page #592 -------------------------------------------------------------------------- ________________ (५८०) सादर्श: [ आख्यातप्रकरणे मल्लान्तरे सत्त्वान्नानुपपत्तिरिति ब्रुवते । तन्मतेपि - चैत्रेण चैत्रो न गम्यते' इत्यादेनुपपत्तिारैव- चैत्रे चैत्रसमवेतक्रियावच्छिन्नभेदाभावसत्वेपि तादृशक्रियाजन्यफलाभावस्य बाधात् । - न च फलाभावो नत्रा न तत्र प्रत्याय्यः. अपि तु भेदाभाव एव कर्मणीतिवाच्यम्, यदा चैत्रण ग्रामो न गम्यते तदापि तादृशप्रयोगानुपपत्तेः- तादृशभेदाभावस्य ग्रामे बाधात् । न च भेदस्य सामानाधिकरण्यसंबन्धेन फलेन्वयस्तादृशसंबन्धेन क्रियावच्छिन्नभेदविशिष्टस्य क्रियाजन्यफलस्यैव चाभावो ना कर्मणि प्रत्याय्यते इति न दोषः- विशिष्टाभावस्पोभयत्र सत्त्वादिति द्वितीयमले सत्त्वात् ' मल्लो मल्लेन गम्यते । इतिप्रयोगानुपपत्तिरपि नास्तीत्यर्थः । उक्त दोषमुद्घाटयति- तन्मतेपीति । अनुपपत्तौ हेतुमाह- चैत्रेति, संयोगानुकूल क्रियावान्नेत्याकारको भेदश्चैत्रे नास्तीति चैत्रे चैत्रसमवेतक्रियावच्छिन्नभेदाभावस्त्वऽस्ति तादृशक्रियाजन्यसंयोगादिरूपफलस्य चैत्रेपि सत्त्वात् तदभावस्तु नास्तीत्यन्वयः,' चैत्रेण गम्यते ग्रामः' इत्यादौ प्रथमान्तपदार्थे कर्मभूते ग्रामादावुक्तस्य भेदस्य फलस्य चाश्रयत्वमपेक्ष्यते, अस्ति चात्र ग्रामे तादृशभेदफलयोराश्रयत्वमिति ' चैत्रेण गम्यते ग्रामः' इत्यादिप्रयोग उपपद्यते. नसमभिव्याहारस्थले च कर्मभूतप्रथमान्तपदार्थे तादृशभेदफलयोरुभयोरप्यभावोऽपेक्ष्यते ' चैत्रेण चैत्रो न गम्यते । इत्यत्र च प्रथमान्तपदार्थचैत्रे तादृशभेदाभावस्य सत्त्वेपि तादृशफलाभावो नास्ति चैत्रसमवेतक्रियाजन्यसंयोगस्य चैत्रेपि सत्त्वादिति — चैत्रेण चैत्रो न गम्यते । इतिप्रयोगानुपपत्तिरस्त्येवेति भावः । ननु तत्र' चैत्रेण चैत्रो न गम्यते । इत्यत्र कर्मणि प्रथमान्तार्थचैत्रे ना फलाभावविषयकबोध इष्ट एव नास्ति येन चैत्रे चैत्रसमवेतक्रियाजन्यसंयोगरूपफलाभावस्योक्तरीत्या बाधादनुपपत्तिः स्यात् किं तु भेदाभावविषयकबोध एवेष्टः स तु नना संभवत्येव चैत्रे उक्तभेदाभावस्य सत्त्वादेवेत्याशक्याहन चेति । परिहारमाह- यदेति, यदि ना कर्मणि त्वदुक्तरीत्या • मेदाभाव एव प्रत्याय्यते तदा यदा चैत्रेण ग्रामो न गम्यते तदापि तादृशप्रयोगस्य- “चैत्रेण प्रामो न गम्यते' इतिप्रयोगस्यानुपपत्तिः स्यात्- संयोगानुकूलक्रियाया ग्रामेऽसत्त्वेन संयोगानुकूल क्रियावान्नेति भेदस्यैव ग्रामे सत्त्वात् तादृशभेदाभावस्य चासत्त्वात् कथं कर्मभूतग्रामे ना तादृशभेदाभावः प्रत्याय्यतेत्यर्थः । ननु ग्रामादौ भेदफलयोः सामानाधिकरण्यमस्त्येवेति तादृशसंबन्धन-सामानाधिकरण्यसंबन्धेन क्रियावच्छिन्नस्य यो भेदस्तद्विशिष्टस्य क्रियाजन्यफलस्यैवाभावो नत्रा प्रत्याय्यते इति न दोषः=' चैत्रेण चैत्रो न गम्यते , ' चैत्रेण ग्रामो न गम्यते' इति प्रयोगयोरनुपपत्तिनास्तीत्यर्थः । दोषाभावे हेतुमाह-विशिष्टेति । उभयत्रेति- 'चैत्रेण चैत्रो न गम्यते' इत्यत्र चैत्रे शुद्धफलाभावस्य बाधेपि भेदाभावस्य सत्त्वेन तादृशभेदविशिष्ट (समानाधिका ण)फलस्य बाधेन तादृशभेदविशिष्टफलाभावस्य बाधो नास्तीति नना प्रत्यायनं संभवत्येवेति न "Aho Shrutgyanam" Page #593 -------------------------------------------------------------------------- ________________ कर्माख्यतार्थाविचार: ] व्युत्पत्तिवादः । ( ५८१ ) वाच्यम्, एवमपि मल्लेन यत्रापरमल्लो न गम्यते. अपि तु ग्रामादिरेव तत्र श्रामाद्यगन्तरि मले मल्लान्तरनिष्ठक्रियावच्छिन्नभेदसहितस्य स्वात्मकमलनिष्ठ - क्रियाजन्यग्रामादिसंयोगस्य सत्त्वेन विशिष्टाभावबाधात् 'मल्लेन मल्लो न गम्यते' इत्यादेरनुपपत्तिः । यदि च फलमेव कर्माख्यातार्थस्तस्याऽऽश्रयत्वस्वानुकूलक्रेियावच्छिन्नभेदवत्वोभयसंबन्धेन कर्मण्यऽन्वयः, नञ्समभिव्याहारे च तदुभयसंबन्धावच्छिन्नक्रिया': चैत्रेण चैत्रो न गम्यते ' इतिप्रयोगानुपपत्तिः, ' चैत्रेण ग्रामो न गम्यते ' इत्यत्र च ग्रामे उक्तमेदस्यैव सत्त्वेन भेदाभावस्य वाधेपि तादृशभेद विशिष्टफलाभावस्य बाधो नास्त्येव - ग्रामे चैत्रसमवेतक्रियाजन्यसंयोगस्याऽसत्त्वादिति तादृशभेदविशिष्टफलाभावो ग्रामे नत्रा प्रत्याययितुं शक्यते एवेति न ' चैत्रेण ग्रामो न गम्यते ' इतिप्रयोगानुपपत्तिरपीत्याशङ्क्याह - न चेति । परिहारमाह - एवमपीति, उक्तरीत्या नत्रा भेदसहितफलाभावबोधनेपि यत्र मलेन मल्लो न गम्यते किं तु ग्रामो गम्यते तत्र ' मल्लेन मल्लो न गम्यते ' इतिप्रयोगानुपपत्तिरस्त्येवेत्यन्वयः । अत्र हेतुमाह- ग्रामाद्यगन्तरीति, ग्रामाद्यगन्तरि मले मल्लान्तरनिष्ठा = प्रामादिगन्तुमलुनिष्ठा या क्रिया तदवच्छिन्नो यः क्रियावान्नेतिभेदः स वर्तते एव अथ च ग्रामाद्यगन्तरि मले मलत्वेन रूपेण स्वात्मको यो ग्रामगन्ता मलस्तन्निष्ठो यः क्रियाजन्यो ग्रामादिसंयोगस्तस्यापि सत्त्वाद् भेदसमानाधिकरणः संयोग एव प्राप्तो न तु तादृशविशिष्टस्य भेदसहितस्य संयोगस्याभाव इति नञा तादृशविशिष्टाभावस्याऽसतो बोधनासंभवात् ' मलेन मल्लो न गम्यते ' इति प्रयोगो नोपपद्यते इत्यर्थः । यद्यप्यत्र ग्रामसंयोगो ग्रामगन्तुमले एवं नाऽगन्तृमलेपि तथापि ग्रामगन्तृमल्लस्य स्वात्मकत्वात् ( मलत्वेन रूपेण ग्रामागन्तृमलरूपत्वात् ) ग्रामगन्तृमलनिष्ठो ग्रामसंयोगों ग्रामाऽगन्तृमलेऽस्त्येव --मलत्वावच्छिन्नसमवेतस्यैव संयोगस्यात्र ग्राह्यत्वाद् अत एवोक्तम् - " स्वात्मकमलनिष्ठ " इति । " ग्रामाद्यगन्तरि " इत्यस्य स्थाने " ग्रामादिगन्तरि " इति पाठस्तु प्रामादिक एव प्रतिभाति - प्रथमान्तमलपदार्थे एव विशिष्टाभावबाधस्य प्रतिपाद्यत्वात् तस्मिन् ग्रामगन्तृत्वाभावादित्यवधेयम् । " ग्रामादिगन्तरि " इतिपाठस्य साधुत्वे तु एको मलः प्रथमं ग्रामं गच्छति द्वितीयश्च तत्पश्चाद् ग्राममेव गच्छति नाग्रेसरमलं तत्र यो प्रामादिगन्ता नाम प्रथमं ग्रामं गन्ता स एव प्रथमान्तमलपदार्थस्तस्मिन् ग्रामादिगन्तारे मल्ले उक्तरीत्या मल्लान्तरनिष्ठक्रियावच्छिन्नभेदसहितस्य स्वात्मकमलनिष्ठक्रियाजन्यग्रामादिसंयोगस्य सत्त्वेन विशिष्ट भावबाधात् ' मलेन मल्लो न गम्यते ' इत्यादेरनुपपत्तिरित्येवं ग्रन्थाभिप्रायो विज्ञेयः । अत्र पश्चाद् ग्रामगन्ता तृतीयान्तमलपदार्थः । दूषयितुं मतान्तरमनुवदति - यदीत्यादिना, तस्य संयोगादिरूपफलस्य । कर्मणि= प्रामादौ । ग्रामादावाश्रयत्वमपि वर्तते स्वं फलं तज्जनकक्रियावच्छिन्नो यः क्रियावान्नेति भेदः सोपि वर्तते एवेत्येतादृशोभयसंबन्धेन ग्रामादौ फलान्वय इष्टः । ' मलेन मल्लो न गम्यते ' इत्यादिनञ्सम "Aho Shrutgyanam" Page #594 -------------------------------------------------------------------------- ________________ सादर्श: [ आख्यातप्रकरणे जन्यफलाभाव एव तत्रान्वेतीत्युच्यते ?, तदापि यत्र चैत्रमैत्रयोरुभयकर्मजस योगस्तत्र चैत्रनिष्ठतादृशसंयोगस्य चैत्रे आश्रयत्वस्वानुकूलक्रियावच्छिन्नभेदवत्वो. भवसंबन्धेन सत्त्वात् 'चैत्रेण चैत्रो न गम्यते' इत्यस्यानुपपत्तिः 'चैत्रेण चैत्री गम्यते' इत्यापत्तिश्च । ___ अत्रोच्यते-भेदः फलं च कर्माख्यातार्थः, स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन चैत्रादिनिष्ठक्रियाविशेषितभेदस्य स्वसामानाधिकरण्यस्वप्रतियोगितावच्छेदकजन्यत्वोभयसंबन्धेन फलेन्वयः, विशिष्टफलस्य नाऽसमभिव्याहारे विशिष्टफलाभावस्य नसमभिव्याहारे च कर्मण्यऽन्वयः। चैत्रमैत्रयोरुभयकर्मजसंयोगस्थले चैत्रवृत्तिक्रियावच्छिन्नभेदस्य चैत्रेऽसत्त्वेन विशिष्टफलाभावोऽक्षतः । -- - ------------ - मिव्याहारे चोक्तोभयसंबन्धेन क्रियाजन्यफलाभाव एव तत्र प्रथमान्तार्थकर्मण्यऽन्वेति नत्रा बोध्यते इत्यन्वयस्तथा च 'मल्लेन मल्लो न गम्यते' इत्यत्र मल्ले मल्लान्तरनिष्ठक्रियाजन्यसंयोगो नास्तीति तदभाव एव ना बोध्यते इति नैतत्प्रयोगानुपपत्तिरित्यर्थः । अत्र दोषमुद्घाटयति- तदा पीति, चैत्रनिष्ठस्य तादृशसंयोगस्य-उभयकर्मजसंयोगस्य चैत्रे आश्रयत्वस्वानुकूलक्रियावच्छिन्नमेदवत्त्वोमयसंबन्धेन सत्त्वमेवास्ति- चैत्रे आश्रयत्वस्यापि सत्त्वात् तादशसंयोगजनिका या मैत्रनिष्ठा क्रिया तदवच्छिन्नो यो मैत्रनिष्ठक्रियावान्नेतिभेदस्तस्यापि च सत्त्वादिति नञा तदुभयसंबधावच्छिनफलाभावस्य चत्रे बोधनासंभवात् 'चैत्रेण चैत्रो न गम्यते' इतिप्रयोगो नोपपद्येत. चैने तादृशसंयोगस्य सत्त्वेन 'चैत्रेण चैत्रो गम्यते' इतिप्रयोगश्चापद्यतेत्यर्थः । निर्वस्तुमारमते- अत्रोच्यत इत्यादिना, भेदः फलं च पृथक् पृथगेव कर्माख्यातार्थ इत्यर्थः । क्रियाविशेषितभेदस्य क्रियाविशिष्टभेदस्य । स्वं क्रिया, क्रियावान्नेतिभेदस्य प्रतियोगितावच्छेदिका क्रियेवेति स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन क्रियाया मेदेऽन्वयस्तादृशक्रियाविशिष्टभेदस्य च स्वसामानाधिकरण्यस्वप्रतियोगितावच्छेदकजन्यत्वैतदुभयसंबन्धेन फलेऽन्वयः, यत्र ग्रामादौ फलं भवति तत्रैव भेदोपीति फले भेदसामानाधिकरण्यमप्यस्ति भेदस्य प्रतियोगितावच्छेदकीभूता या क्रिया तज्जन्यस्वमपि संबन्धभूतमस्त्येव. स्वं स्वं भेदः । तादृशोभयसंबन्धेन मेदविशिष्टफलस्य ' चैत्रेण गम्यते ग्रामः ' इत्यादौ नञऽसममिव्याहारे कर्मणि प्रामादावन्वयः, 'चैत्रेण चैत्रो न गम्यते । इत्यादौ नसमभिव्याहारे च कर्मणि प्रथमान्तार्थे चैत्रादावुक्तोभयसंबन्धेन भेदविशिष्टस्य फलस्याभावोऽन्वेति तथा च चैत्रमैत्रयोरुभयकर्मजसंयोगस्थले चैत्रे चैत्रवृत्तिक्रियावच्छिन्नभेद: चैत्रवृत्तिक्रियावान्नेतिभेदो नास्तीति चेत्रनिष्ठसंयोगे तादृशभेदसामानाधिकरण्यमपि न संभवतीति चैत्रे भेदसमानाधिकरणस्य विशिष्टफलस्य संयोगस्यामावोस्त्येव स एवं संयोगाभावो नञा प्रत्याय्यते इति · चैत्रेण चैत्रो न गम्यते । इतिप्रयोगस्यानुपपत्तिर्नास्ति, चैत्रे भेदसमानाधिकरणसंयोगस्यासत्त्वात् 'चैत्रेण चैत्रो गम्यते । इतिप्रयोगस्यापत्तिरपि "Aho Shrutgyanam" Page #595 -------------------------------------------------------------------------- ________________ कर्तृप्रत्ययस्थलीयपदार्थाः ] व्युत्पत्तिवादा।' (५८३) यत्र मल्लेन ग्रामो गम्यते न तु मल्लान्तरं तत्र मल्लनिष्ठग्रामसंयोगे मल्लान्तरनिष्ठक्रियावच्छिन्नभेदसामानाधिकरण्यस्य तन्मल्लान्तर्भावेन सत्वेपि तादृशभेदप्रतियोगितावच्छेदकमल्लान्तरनिष्ठक्रियाजन्यत्वस्याऽसत्त्वात् तद्घाटितोभयसंबन्धेन मल्लनिष्ठक्रियावच्छिन्नभेदविशिष्टस्य फलस्याभावो मल्लेऽक्षत एवेति न कश्चिद् दोषः । कर्तृप्रत्ययस्थले चाधेयतया प्रकृत्यान्वितस्य फलस्य भेदरूपाऽपरार्थे सामानाधिकरण्यस्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वोभयसंबन्धनान्वयः, ताशभेदस्य च स्वप्रतियोगितावच्छेदकत्वसंबन्धेन क्रियायाम् । यत्र चैत्रक्रियया नास्तीत्यर्थः । " एवमपि मल्लेन यत्रापरमल्लो न गम्यते " इत्याद्युक्तदोषं परिहरतियत्रेति, उक्तस्थले मल्लनिष्ठग्रामसंयोगे नाम प्रथमान्तार्थमल्लनिष्ठग्रामसंयोगे तन्मल्लान्तर्भावन= तृतीयान्तार्थमल्लान्तर्भावेन मल्लान्तरनिष्ठा-तृतीयान्तार्थप्रामगन्तृमल्लनिष्ठा या गमनक्रिया तदवच्छिन्नः तादृशक्रियावच्छिन्नप्रतियोगिताको यः क्रियावान्नेत्याकारकभेदस्तादृशभेदसामानाधिकरण्यमस्त्येव एतादृशमेदस्य ग्रामसंयोगस्य च प्रथमान्तार्थमल्ले सत्त्वादेव अथापि एतादृशस्य प्रथमान्तार्थमल्लनिष्ठस्य भेदस्य प्रतियोगितावच्छेदकीभूता या मल्लान्तरनिष्ठा-तृतीयान्तार्थमल्लनिष्ठा क्रिया तजन्यत्वं तु नास्ति- प्रथमान्तार्थमल्लनिष्ठप्रामसंयोगस्य प्रथमान्तार्थमल्लसमवेतग्रामगमनक्रियाजन्यत्वात् तथा च फले स्वप्रतियोगितावच्छेदकजन्यत्वस्य संबन्धैकदेशस्यासत्त्वात् उक्तोभयसंबन्धेन फले मेदान्वयो न संभवतीति तद्धस्तिोभयसंबन्धेन उक्तजन्यस्वघटितोभयसंबन्धेन मल्लनिष्ठा तृतीयान्तार्थमल्लनिष्ठा या क्रिया तदवच्छिन्नमेदविशिष्टं यत्फलं संयोगस्तदभावः प्रथमान्तार्थमल्लेऽक्षत एवेति तादृशफलामावमादाय न कश्चिद्दोवा' मल्लेन मल्लो न गम्यते ' इतिप्रयोगस्यानुपपत्तिर्नास्तीत्यर्थः । वस्तुतस्तु “ तन्मल्लान्तर्भावेन " इति विशेषणस्य सार्थक्यं चिन्त्यम् । .. कर्माख्यातार्थमुक्त्वा संप्रति कर्तृप्रत्ययस्थले=' चैत्रो ग्रामं गच्छति । इत्यादौ कर्मप्रत्ययस्य द्वितीयाया अर्थमाह- कर्तृप्रत्ययेति, प्रकृत्यर्थस्य ग्रामादेः फले-संयोगादावाधेयत्वसंबन्धेनान्थयो भवतीत्याधेयतया प्रकृत्यान्वितस्य फलस्य भेदरूपे कर्मप्रत्ययार्थे सामानाधि, करण्यस्वजनकक्रियावच्छिनप्रतियोगिताकत्वैतदुभयसंबन्धेनान्वयो भवति- फलं भेदश्च कर्मप्रत्ययार्थ इत्युक्तमेष प्रामे संयोगादिरूपफलमपि भवति क्रियावान्नेतिभेदोपि भवतीति भेदे फलसामानाधिकरण्यं वर्तते स्वं फलं क्रियावान्नेतिमेदप्रतियोगिनि चैत्रादौ प्रतियोगितापि वर्तते क्रियापि वर्तते सैव च क्रिया फलजनिकेति प्रतियोगिता स्वजनकक्रियावच्छिन्ना जातेति भेदे स्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वमपि वर्तते इति तादृशोमयसंबन्धेन फलस्य मेदेऽन्वयः, तादृशभेदस्य उक्तोभयसंबन्धेन फलविशिष्टमेदस्य स्वप्रतियोगितावच्छेदकत्वसंबन्धेन कियायाम: संयोगादिरूपफलजनकक्रियायामन्वयः, स्वं भेदः, भेदप्रतियोगितावच्छेदकत्वं क्रियायामस्ती "Aho Shrutgyanam" Page #596 -------------------------------------------------------------------------- ________________ (५८४) सादर्श: [आख्यातप्रकरणेग्रामे न संयोगः अपि त्वन्यत्र तत्र 'ग्रामं गच्छति चैत्रः' इतिप्रयोगवारणाय स्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वस्य. 'चैत्रो ग्रामं गच्छति' इत्यादी 'चैत्रश्चैत्रं गच्छति । इतिप्रयोगवारणाय सामानाधिकरण्यस्य, संबन्धमध्ये निवेशः। चरमस्थले चैत्रग्रामसंयोगस्यः ग्रामनिष्ठचैत्रक्रियावच्छिन्नभेदे संबन्धद्वयसत्त्वेपि चैत्रवृत्तित्वविशिष्टस्य तत्संयोगस्य तादृशभेदे सामानाधिकरण्यविरहाच्चैत्रक्रियायां तद्भेदप्रतियोगितावच्छेदकत्वसत्त्वेपि नातिप्रसङ्गः ।। त्युक्तमेव, तथा च 'ग्रामं गच्छति चैत्रः' इत्यत्राधेयतासंबन्धेन ग्रामविशिष्टो यः संयोगस्तद्विशिष्टो यो भेदस्तद्विशिष्टा या क्रिया तादृशेक्रियानुकूलकृतिमांश्चैत्र इतिशाब्दबोधाकार इत्यन्वयः । फलस्य भेदे यः सामानाधिकरण्यस्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वैतदुभयसंबन्धेनान्वय उक्तस्तत्रैतादृशसंबन्धकल्पनायाः फलमाह-योति, यदि फलस्य मेदे केवलसामानाधिकरण्यसंबन्धेनान्वय उक्तः स्यात्तदा यदा चैत्रक्रियया प्रामे न संयोगः, अपि स्वन्यत्रैव संयोग उत्पन्नस्तदापि 'ग्रामं गच्छति चैत्रः । इतिप्रयोगः स्यात्- ग्रामे क्रियावान्नेति भेदस्यापि सत्वात् तादृशभेदे सामानाधिकरण्यसंबन्धेन ग्रामे यश्चैत्रान्यवृत्तिक्रिययोत्पन्नः संयोगस्तदन्वयसंभवात् तादृशसंयोगविशिष्टभेदस्य क्रियायामन्वयसंभवात् तादृशक्रियायाश्चैत्रे सत्त्वादेव, यदा 'च स्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वस्य :संबन्धे निवेशस्तदा ग्रामवृत्तितादृशसंयोगस्य चैत्रवृ. तिक्रियायां जनकत्वं नास्तीति मेदे स्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वस्याभावात् तेन संबन्धेन भेदे फलान्वयो न संभवतीति तादृशभेदविशिष्टक्रियायाश्चैत्रेऽसत्वानोक्तस्थले ' चैत्रो ग्राम गच्छति । इतिप्रयोगापत्तिरित्यर्थः । उक्तसंबन्धे सामानाधिकरण्यनिवेशस्य फलमाह- चैत्र इत्यादिना यदि फलस्यभेदे केवलस्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वसंबन्धेनान्वय उक्तः स्यात्तदा यदा चैत्रो प्रामं गच्छति तदा ' चैत्रश्चैत्रं गच्छति । इत्यपि प्रयोगः स्यात्- ग्रामचिर्यः क्रियावान्नेतिभेदस्तप्रतियोगितावच्छेदकीभूतायाश्चैत्रनिष्ठायाः क्रियायाश्चैत्रवृत्तिसंयोगजनकत्वात् फलस्य भेदे स्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वसंबन्धेनान्वयसंभवात् तपशफलविशिष्टभेदस्य चैत्रवृत्तिक्रियायामन्वयसंभवात्, यदा च सामानाधिकरण्यस्य संबन्धे निवेशस्तदा भेदस्तु ग्रामे एव चैत्रवृत्तिसंयोगश्च चैत्रे एवेति भेदफलयोः सामानाधिकरण्याभावानोक्तस्थले 'चैत्रश्चैत्रं गच्छति' इतिप्रयोगापत्तिरित्यर्थः, एतदापत्तिपरिहारं स्वयमप्याह-चरमेति । यद्यपि यः खलु चैत्रग्रामसंयोगस्तस्य ग्राम निष्ठे चैत्रवृत्तिक्रियावच्छिन्नभेदे उक्तसंबन्धद्वयमस्ति-उभयोरपि भेदसंयोगयोमे सत्त्वादेव चैत्रवृत्तिक्रियायां च तादृशभेदप्रतियोगितावच्छेद. कत्वमप्यस्ति तथापि चैत्रवृत्तित्वविशिष्टस्य चैत्रवृत्तिग्रामसंयोगस्य तादृशभेदे सामानाधिकरण्यं नास्ति-- संयोगस्य चैत्रवृत्तित्वाद् भेदस्य ग्रामवृत्तित्वादिति चैत्रे ग्रामं गच्छति 'चैत्रश्चैत्रं गच्छति । इति प्रयोगापत्तिर्नास्तीत्यन्वयः । "Aho Shrutgyanam" Page #597 -------------------------------------------------------------------------- ________________ सकर्मक धातूनामर्थ : ] व्युत्पत्तिवादः । ( ५८५ ) 'चैत्रश्चैत्रं न गच्छति ' इत्यादौ च तादृशभेदान्वितक्रियाकर्तृत्वाभाव एव चैत्रे प्रतीयते न तु क्रियायां द्वितीयार्थविशिष्टभेदस्य प्रतियोगितावच्छेदकत्व संबन्धावच्छिन्नाभावः - वादृशसंबन्धस्य वृत्त्यनियामकत्वात् । यदि तात्पर्यविशेववशात् क्रियानुयोगिकोप्यभावः क्वचित् प्रतीयते इत्यनुभवसिद्धम् ? तदा प्रतियोगितावच्छेदकत्वेपि द्वितीयाद्यर्थत्वमुपगम्य विशिष्टभेदप्रतियोगितावच्छेदकत्वाभावान्वय एव तत्रोपगन्तव्य इति दिक् । फलावच्छिन्नव्यापारबोधकधातूनां फले व्यापारे च शक्तिद्वयम् । कर्त्राख्यातस्थले फलं धात्वर्थव्यापारविशेषणतया भासते तत्र द्वितीयार्थाधेयत्वान्वयः । कर्माख्यातस्थले फलं धात्वर्थव्यापारस्य विशेष्यतया भासते. तस्य विशेष्यतयाssख्यातार्थ आश्रयत्वम् (भासते ) तद्विशेष्यतया कर्म ( भासते ) इतिदीधितिकृतः । केचित्तु संयोगादिरूपफलावच्छिन्नव्यापारबोधकानां गमिप्रभृतीनां कर्म 6 नञ्समभिव्याहारस्थलीयोपपत्तिमाह- चैत्र इति, ' चैत्रश्चेत्रं न गच्छति' इत्यत्र च स्वप्रतियोगितावच्छेदकत्व संबन्धेन तादृशभेदविशिष्टायाः क्रियायाः कर्तृत्वाभाव एव चैत्रे प्रतीयते अस्ति चात्र चैत्रे चैत्रवृत्तिसंयोग विशिष्टभेदविशिष्टक्रियाकर्तृत्वाभाव इति नानुपपत्तिः, न तूकस्थले क्रियायां द्वितीयार्थेन फलेन संयोगेन विशिष्टभेदस्य स्वप्रतियोगितावच्छेदकत्व संबन्धेनाभावः प्रतीयते तादृशसंबन्धस्य = प्रतियोगितावच्छेदकत्वसंबन्धस्य वृत्त्यनियामकत्वेनाऽभावीयप्रतियोगितावच्छेदकत्वाऽभावादित्यर्थः । पक्षान्तरमाह- यदीति, यदि तात्पर्यविशेषवशात् कचित् क्रियानुयोगिकोप्यभावः =क्रियायामुक्तद्वितीयार्थ विशिष्टमेदस्याभावः प्रतीयते तदा प्रतियोगितावच्छेदकत्वस्यापि द्वितीयादिकर्मप्रत्ययार्थत्वमुपगम्य ' चैत्रश्चैत्रं न गच्छति ' इत्यादौ तत्र = चैत्रादिवृत्तिक्रियायामुक्तद्वितीयार्थविशिष्टभेद ( फलविशिष्टभेद ) प्रतियोगितावच्छेदकत्वस्यैवाभावः स्वीकर्तव्यो न तु प्रतियोगितावच्छेदकत्वसंबन्धेनोक्तभेदाभावः - प्रतियोगितावच्छेदकत्व संबन्धस्य वृत्त्यनियामकत्वादित्यर्थः । दीधितिकारमतमाह - फलावच्छिन्नेति, गम्यादीनां संयोगादिरूपफलावच्छिन्नव्यापारबोधकत्वं पूर्वमेवोक्तम् । कर्त्राख्यातस्थले = ' ग्रामं गच्छति चैत्र: ' इत्यादौ । तत्र = फले । ' ग्रामवृत्तिसंयोगजनकव्यापारानुकूलकृतिमांश्चैत्रः इतिबोधोदयात् फलस्य व्यापारविशेषणत्वं स्पष्टमेव । कर्मेति - कर्माख्यातस्थले - ' चैत्रेण गम्यते प्रामः ' इत्यादौ । तस्य संयोगादि| भासते इत्यनुवर्तनीयम् । तद्विशेष्यतया = आश्रयत्वविशेष्यतया । अत्रापि भासते इत्यनुवर्तनीयम् । अत्र ' चैत्रवृत्तिव्यापारजन्य संयोगाश्रयत्ववान् ग्रामः ' इतिबोधोदयाद् व्यापार विशेष्यत्वं संयोगे संयोगविशेष्यत्वमाश्रयत्वे आश्रयत्वविशेष्यत्वं कर्मणि प्रामे स्पष्टमेवेत्यन्वयः । रूपफलस्य परिहाराय मतान्तरमनुवदति - केचिदित्यादिना । गम्यादीनां संयोगाद्यनुकूलव्यापारबोध "Aho Shrutgyanam" Page #598 -------------------------------------------------------------------------- ________________ ( ५८६ ) सादर्श: [ आख्यातप्रकरणे प्रत्ययापेक्षया बहूनां फले शक्तिकल्पनामपेक्ष्य कर्मप्रत्ययानां फले शक्तिकल्पनमेव लघीयः, धातूनां च व्यापारमात्रवाचिता: । धातोः फलबोधकतामते नामार्थधात्वर्थयोराधाराधेयभाव संबन्धेन साक्षादन्वयासंभवात् फलाश्रयत्वस्य कर्मणि प्रकारतया भानस्योपगन्तव्यतया तत्संसर्गस्याधिकस्य भानकल्पनेनापि गौरवम्, फलस्य प्रत्ययार्थत्वे च तदाश्रयत्वं संबन्ध एवेति लाघवम् । 6 न च धातूनां व्यापारमात्रवाचित्वे ' ग्रामं त्यजति ' इत्यादितोपि ' ग्राम गच्छति' इत्यादित इव संयोगादिरूपफलावच्छिन्नस्पन्दबोधापत्तिः, ग्रामस्त्यज्यते ' इत्यादितोपि ' ग्रामो गम्यते ' इत्यत इव स्पन्दजन्यसंयोगादिमत्त्वेन भानप्रसङ्ग इति वाच्यम्, कर्मप्रत्ययस्य संयोगविभागादिरूपनानाफलवाचित्वेपिं तत्तत्फलबोधे धातुविशेषसमभिव्याहारज्ञानस्यापेक्षयाऽतिप्रसङ्गविरहात् । ' त्यज कस्वात् संयोगादिरूपफलावच्छिन्नव्यापारबोधकत्वम् । कर्मप्रत्ययानां संख्या न्यूनास्ति तदपेक्षया गम्यादीनां संख्याधिकास्तीत्युक्तम् - " बहूनाम् " इति । एवकारो भिन्नक्रम इति कर्म प्रत्ययानामेवेत्यन्वयः । धातोः फलबोधकतामते गौरवं प्रदर्शयति- धातोरिति, नामार्थस्य = कर्मभूतप्रामादेः, धात्वर्थस्य=फलरूपसंयोगादेश्च परस्परं साक्षाद् भेदेनान्वयासंभवात् फलस्य प्रत्ययार्थाश्रयत्वेऽन्वयः कर्तव्यः फलाश्रयत्वस्य कर्मणि ग्रामादौ प्रकारतयान्वयः कर्तव्य इति तत्संसर्गस्य-फलाश्रयत्वसंबन्धस्याप्यधिकस्य शाब्दबोधविषयत्वं स्यादिति गौरवम्, फलस्य प्रत्ययार्थस्वस्वीकारे तु प्रत्ययार्थत्वात् फलस्य ग्रामादौ कर्मण्याश्रयत्व संबन्धेन साक्षादन्वयः संभवति बाधकाभावात् धात्वर्थनामार्थयोरेव साक्षाद् भेदान्वयस्य व्युत्पत्तिविरुद्धत्वात् संबन्धभूताश्रयत्वस्य संबन्धान्तरमानकल्पना पत्तिर्नास्तीत्यस्मन्मते लाघवमिति कर्मप्रत्ययानामेव फले शक्तिर्म तु गम्यादिधातूनामित्यर्थः । , ननु तव मते धातूनां व्यापारमात्रवाचकत्वात् तादृश व्यापारमात्र बोधकत्वस्य त्यजिगमिप्रभूतिषु सर्वेष्वेव धातुषु साधारणत्वात् ' गच्छति ' इत्यत इव ' त्यजति ' इत्यतोपि संयोगानुकूलव्यापारबोधः स्यात् ' गम्यते ' इत्यत इव ' त्यज्यते ' इत्यतोपि ग्रामादेः संयोगादिमत्त्वेन भानं स्यादित्याशङ्क्याह- न चेति । उत्तरमाह- कर्मप्रत्ययस्येति, यद्यपि कर्मप्रत्ययस्यैव फलवाचकत्वं न तु धातूनां तथापि कर्मप्रत्ययस्य संयोगविभागादिरूपफलबोधने धातुविशेषसमभिब्याहारज्ञानस्यापेक्षास्तीति गमिसमभिव्याहारे कर्मप्रत्ययेन संयोगरूपमेव फलं बोध्यते व्यजिसमभिव्याहारे च कर्मप्रत्ययेन विभागरूपमेव फलं बोध्यते इत्युक्तस्य धातूनां समानाकारबोधजनकत्वस्यातिप्रसङ्गः=आपत्तिर्नास्तीत्यर्थः । पूर्वोत्तरपक्षौ चेतौ परस्परमसंबद्धार्थकाविति विभावनीयम् । किं वा वाक्यान्तरयोजनया व्याख्येयौ । ननु 'ग्रामं गच्छति' 'मामं त्यजति' इत्यादिकर्मसमभिव्याहारस्थले कर्मप्रत्ययेन संयोगादिरूपफलविशेषोपस्थितौ धातूनां तदनुकूलव्यापाबोधकत्वेन त्वदुक्तरीत्या बोधव्यवस्था संभवति यत्र हि ' त्यजति ' गच्छति' इत्यादौ कर्मस "Aho Shrutgyanam" Page #599 -------------------------------------------------------------------------- ________________ सकर्मकधातूनामर्थविचारः ] व्युत्पत्तिवादः। (५८७). ति ' ' गच्छति ।- स्पन्दते , ‘त्यागः ' 'गमनम् ' ' स्पन्दः ' इत्यादी कर्मासमभिव्याहृते बोधवैलक्षण्यं च तत्तद्धातूनां फलविशेषावच्छिन्नव्यापारलक्षणोपगमेनोपपादनीयम् । फलान्वितस्वार्थव्यापारबोधकत्वं सकर्मकत्वं गम्यादेः स्वभावाधीनं तदभावात् स्पन्दिप्रभृतिष्वकर्मकत्वव्यवहार इत्याहुः। तन्न- यागमिप्रभृतीनामिव त्यजिगमिप्रभृतीनामपि पर्यायतेतिभ्रमदशायाम् 'याति ''गच्छति' इत्यादाविव ' त्यजति' 'गच्छति' इत्यादितोप्यविलक्षणबोधोत्पत्त्या धातुविशेषसमभिव्याहारस्य फलविशेषबोधनियामकताकल्पनाऽसंभवात् । न च 'ग्रामं त्यजति' इत्यादितः संयोगावच्छिन्नव्यापारबोधस्तात्पर्यसत्त्वे इष्यत एव- त्वन्मतेपि तात्पर्यानुरोधेन लक्षणया तद्बोधोत्पत्तेरावश्यकत्वात्, परं तु तत्र विभागादिरूपफले एवं फलप्रत्ययतात्पर्यस्यानादितया संयोगादिरूपफलप्रत्यायनेच्छया स्वरसतो न तादृशप्रयोग इति वाच्यम्, विना मभिव्याहारो नास्ति तत्र कथं धातूनां विलक्षणबोधजनकत्वव्यवस्था स्यात् ? व्यापारमात्रवाचकत्वेन त्यजिगम्यादीनां समानाकारबोधजनकत्वप्रसङ्गादित्याशङ्क्याह- त्यजतीति, कर्मसममिव्याहाराभावस्थले गम्यादीनां संयोगादिरूपफलविशेषानुकूलव्यापारे लक्षणा स्वीकार्येति न समानाकारकबोधजनकत्वप्रसङ्ग इत्यर्थः । ननु धातूनां व्यापारमात्रवाचकत्वे गम्यादीनां स्पन्द्यादीनां च तुल्यत्वप्राप्त्या स्पन्द्यादीनामपि सकर्मकत्वं स्यान्न चैतदिष्टमित्याशङ्क्याहफलान्वितेति, गम्यादीनां व्यापारमात्रवाचकत्वेपि जनकतासंबन्धेन फलान्वितस्वार्थव्यापारबोधकत्वं नैसर्गिकमेवेति गम्यादीनां सकर्मकत्वं स्पन्द्यादिषु तु तदभावात् फलान्वितव्यापारबोधकत्वं नास्तीति न तेषां सकर्मकत्वं किं वऽकर्मकत्वमेवेत्यर्थः । स्पन्द्यादिबोध्यव्यापारे जनकतासंबन्धेनापि फलान्वयो न संभवतीति तेषामकर्मकत्वमिति यावत् । धातोर्व्यापारमात्रवाचितामतं परिहरति- तन्नेति, येतिगमनार्थको धातुः । पर्यायताभ्रमदशायां त्यजिगम्योः समानाकारकबोधजनकत्वं सर्वप्रसिद्धमेवेति धातुविशेषसमभिव्याहारस्य फलविशेषबोधनियामकत्वं त्वदुक्तं न संभवति- ' त्यजति ' इत्यत्रोक्तपर्यायताभ्रमदशायां गमिसममिव्याहासभावेपि संयोगरूपफलबोधस्येष्टवादिति न धातूनां व्यापारमात्रवाचिता किं तु फलवाचकतापि स्वीकार्येति फलानां संयोगादीनां विलक्षणत्वाद् धातूनां विलक्षणबोधजनकत्वं सिध्यतीत्यर्थः । शकते- न चेति, तद्बोधोत्पत्तेः त्यज्यादिभ्यः संयोगाद्यवच्छिन्नव्यापारबोधोत्पत्तेः । ननु यदि त्यजधातोस्तात्पर्यसत्त्वे संयोगावच्छिन्नव्यापारमोधकरवं त्वन्मतेस्ति तदा 'ग्रामं गच्छति' इत्यस्य स्थाने स्वरसतः ‘ग्रामं त्यजति' इतिप्रयोगस्त्वया कथं न क्रियते । इत्याशक्याह- परं त्विति, 'ग्रामं त्यजति । इत्यत्र फलप्रत्ययतात्पर्यस्य-कर्मप्रत्ययस्यानादितात्पर्य विभागरूपफले एवास्तीति न संयोगरूपफलप्रत्यायनेच्छया स्वरसतस्तादृशप्रयोगः'ग्रामं त्यजति । इति प्रयोगो मवतीत्यर्थः । परिहारमाह- विनेति । धातोरिति- धातोः "Aho Shrutgyanam" Page #600 -------------------------------------------------------------------------- ________________ (५८८) सादर्श: आख्यातप्रकरणेशक्तिभ्रमं लक्षणाग्रह च ' ग्रामं त्यजति ' इत्यादितः सत्यपि तात्पर्ये संयोगावच्छिन्नव्यापारामतीतेरानुभविकतया धातोः फलविशेषवाचिताया आवश्यकत्वात् । . 'ज्ञायते इष्यते क्रियते घटः ' इत्यादी विषयत्वरूपं कर्मत्वं तङर्थः । न च कृतिविषयतायाः फलतत्साधनतदुपादानसाधारणतया यत्र ‘घटः क्रियते' इत्यादि प्रयुज्यते तत्र ‘जलाहरणं क्रियते' 'कपालं क्रियते' इत्यादिप्रयोगस्यापतिरिति वाच्यम, कृत्यर्थकधातुसमाभिव्याहतकर्मप्रत्ययस्य चिकीर्षाप्रयोज्यसाध्यताख्यविलक्षणविषयत्वमेवार्थ उक्तस्थले च कपालादौ कृतेस्तादृशविषयत्वाभावानोक्तप्रयोगप्रसङ्गः । 'काशाः कटाः क्रियन्ते' इत्यादी साध्यताख्यविषयताश्रयकर्मान्तरसमभिव्याहृतकर्मप्रत्ययेन व्यापार्यतारूपविषयतापि प्रत्याय्यतेऽत उपादानतया कृतिविषयकाशादौ साध्यतारूपकृति विषयताविरहेपि न ताशप्रयोगानुपपत्तिः । तादृशकर्मसमभिव्याहाररूपतत्प्रयोजकविरहात् 'काशाः क्रियन्ते ' इत्यादौ काशादौ व्यापार्यताबोधानुपपत्तेर्न तादृशप्रयोग इति । फलवाचकत्वे तु त्यज्यादीनां विभागादिरूपफलवाचकत्वात् संयोगादिरूपफलप्रत्यायनेच्छया शक्तिभमं लक्षणाग्रहं वा विना त्यज्यादीनां प्रयोगो न भवतीति धातूनां विलक्षगबोधजनकत्वव्यवस्था संभवति न तु व्यापारमात्रवाचकत्वेपीति धातोः फलविशेषवाचकत्वमावश्यकमेवेत्यर्थः । ज्ञादिधातूत्तरकर्मप्रत्ययार्थमाह- ज्ञायत इत्यादिना । ' ज्ञायते घटः । इत्यस्य 'ज्ञानविषयो घटः' इत्यर्थः, एवमपि । ननु कृतिविषयता हि फले फलसाधने फलसाधनोपादानकारणे च तुल्यरूपैवेति — घटः क्रियते । इत्यत्र ' जलाहरणं क्रियते' इत्यपि प्रयोगः स्यादित्याशङ्कयाह- न चेति । ' जलाहरणम् ' इति फलम्, 'घटः' इति तत्साधनम्, 'कपालम् ' इति फलसाधनोपादानमिति विवेकः । उत्तरमाह- कृत्यर्थकेति, चिकीर्षाप्रयोज्या या साध्यताख्या विलक्षणविषयता सा कृत्यर्थकधातुसमभिव्याहृतकर्मप्रत्ययार्थोस्ति. उक्तस्थले 'घटः क्रियते । इत्यत्र च कृते:-कृतिनिरूपिता तादृशविषयता चिकीर्षाप्रयोज्यसाध्यतास्यविषयता घटे एवास्ति न तु कपालादाविति 'कपालं क्रियते । इत्यादिप्रयोगापत्तिर्नास्तीत्यर्थः । काशा इति- 'काशाः कटाः क्रियन्ते । इत्यत्र साध्यताख्यविषयताश्रयो यः काशापेक्षया कर्मान्तरं कटस्तत्सम भिव्याहृतेन 'क्रियन्ते । इतिधातूत्तरकर्मप्रत्ययेन व्यापार्यतारूपविषयता व्यापारविषयता ( व्यापारकर्मत्वम् ) अपि प्रत्यारपते साध्यताख्यविषयतापि प्रत्याय्यते तत्र साध्यताख्यविषयता कटेस्ति काशे च साध्यताख्यविषयताया असत्त्वेपि व्यापरविषयतास्त्येव- कटानुकूलव्यापारकर्मत्वादिति काशानामपि कर्मत्वप्राप्त्या ' काशाः कटाः क्रियन्ते । इतिप्रयोगानुपपत्तिर्नास्ति, अन्यथा काशे साध्यताविरहात् काशानां कर्मत्यासंभवादेतादृशप्रयोगो नोपपद्यतेत्यर्थः । कि वा ननु काशेषु साध्यताख्यविषयताविरहेण कर्मत्वासंभबात् 'काशाः कटाः क्रियन्ते ' इति प्रयोगो नोपपद्यतेत्याशझ्याह- काशा इति । साध्य "Aho Shrutgyanam" Page #601 -------------------------------------------------------------------------- ________________ लटो वर्तमानार्थकत्वम् ] व्युत्पत्तिवादः । ( ५८९ ) 'काशाः कटाः क्रियन्ते ' इत्यादावपि विशेष्यभेदेन वाक्यार्थभेदात् कर्मtयवाचकपदयोः समभिव्याहारे व्यापार्यताबोधानुपपत्तिः, एवम्- क्रियते ' इत्यत्र विषयतायाः कर्मप्रत्ययार्थत्वे पाकानुपधायककृतिमादाय ' पाकोऽकारि ' इत्यादिप्रयोगापत्तिरित्यादिकं तु दूषणं निराकृतमधस्तात् । ८ L कर्तृकर्मवत् कालविशेषेऽनुशिष्टा लडादयः कालविशेषमपि बोधयन्ति । तत्र लट्प्रत्ययस्य वर्तमानकाले शक्तिः, पचति ' इत्यादी कृत्यादिरूपव्यापारबोधकप्रत्ययोपस्थाप्यकालस्तादृशव्यापार एवान्वेति न तु क्रियायाम् - यदा ताख्यविषयताश्रयकर्म समभिव्याहृतेनैव कर्मप्रत्ययेन व्यापार्यतारूपविषयता प्रत्याय्यते नान्यथेति काशाः क्रियन्ते ' इत्येतादृशप्रयोगापत्तिर्नास्ति - अत्र काशेषु साध्यताख्यविषयतापि नास्ति साध्यताख्यविषयताश्रयी भूतकटरूपकर्मान्तरसमभिव्याहाराभावात् कर्मप्रत्ययेन व्यापार्यतारूपविषयता च न प्रत्याय्यते यस्याः काशेष्यन्वयः स्यादिति न काशाः क्रियन्ते इतिप्रयो गापत्तिरित्यर्थः । 6 L ननु ' काशाः कटा क्रियन्ते इत्यत्र काशानां व्यापार्यत्वात् कटस्य च साध्यत्वाद् विशेष्यभेदेन वाक्यार्थभेदः स्यादिति कर्मद्वयवाचकपदयोः समभिव्याहारे कर्मप्रत्ययेन व्यापायताबोधो नोपपद्यते इत्याशङ्कयाह - काशा इति । इत्यादिकं तु दूषणं निराकृतमध - स्तात् " इत्यनेनान्वयः । अधस्तात् = द्वितीयाकारके कृत्यर्थकधातुनिरूपणे ३४३ | वाक्यार्थभेदापत्तौ हि ' काशाः कटाः क्रियन्ते ' इत्येकवाक्यार्थस्थाने 'काशाः क्रियन्ते' कटाः क्रियन्ते ' इत्येवं प्रयोगद्वयमापद्येत न चैतदिंष्टमिति तत्रैवात्रापि व्यापार्यतारूपविषयताकत्व विशिष्टे व्यापारे सांध्यतारूपविषयताकत्वस्यान्वयस्वीकारान विशेष्यतामेदस्तथा च न वाक्यार्थभेदापत्तिर्वा - क्यार्थमेदापत्त्यभावाच्च व्यापार्यताबोधानुपपत्तिर्नास्तीत्यर्थः । ननु ' क्रियते ' इत्यत्र यदि विषयतामात्रं कर्मप्रत्ययार्थस्तदा पाकाऽजनककृतिमादायापि ' पाकोडकारि ' इतिप्रयोगः स्यादेव - पाकाजनककृतिविषयत्वस्यापि पाके संभवादित्याशङ्क्याह- क्रियते इति । अधस्तात् -" असा - धारणानुकूलत्वं हि यत्ने क्रियायाः संबन्धतया भासते ९६५१ इत्यादिना । तथा च पाकादीनां कृतावसाधारणानुकूलत्वसंबन्धेनान्वयस्येष्टत्वात् पाकानुपधायककृतौ चाऽसाधारणाऽनुकूलत्वं नास्तीति तादृशसंबन्धेन पाकान्वयासंभवाद् न पाकानुपधायककृतिमादाय पाकोऽकारि ' इत्यादिप्रयोगापत्तिरित्यभिप्रायः प्रतीयते । 65 लकाराणां कालविशेषबोधकत्वं व्युत्पादयति-कर्तृकर्मवदित्यादिना । लटो वर्तमानकालबोधकत्वमाह - तत्रेति । ' पचति ' इत्यादावाख्यातस्यैव कृतिबोधकत्वं वर्तमान कालबोधकत्वं चास्तीति कृतिरूपव्यापारबोधको य आख्यातप्रत्ययस्तदुपस्थाप्यकालस्य तादृशव्यापारे= आख्यातोपस्थाप्यकृतिरूपव्यापारे एवान्वयो भवति न तु धात्वर्थक्रियायामित्यन्वयः । उक्ते हेतुमाह-- यदेति यद्याख्यातोपस्थाप्यकालस्य धात्वर्थ व्यापारेऽन्वयः स्यात्तदा ラ "Aho Shrutgyanam" Page #602 -------------------------------------------------------------------------- ________________ सादर्श: ( ५९० ) पुरुषो यत्नशून्यस्तदधीनाग्निसंयोगादिरूपः पच्यादेरर्थो विद्यते तदा अयं न < पचति ' इतिप्रयोगात्, ' अयं पचति इत्युक्ते इदानीमयं पाकयत्नवान वा ' इतिसंशयनिवृत्तेः । पूर्वापरीभावापन्नस्थाल्यारोपणादिव्यापाराणां विशिष्य पच्याद्यर्थघटकत्वेन प्रत्येकतद्व्यापारेषु कालान्वयबोधापेक्षया कृत्यादिरूपैकार्थे, तदन्वयस्यैव लाघवेनोचितत्वाच्च । , [ आख्यातप्रकरणे "Aho Shrutgyanam" £ वर्तमानकालश्च तत्तच्छब्दप्रयोगाधिकरणकालरूपस्तत्तच्छन्दार्थः, अतो नैककालप्रयुक्तलडादितोऽपरलडादिप्रयोगाधिकरणकालीनत्वस्य कृत्यादावन्वयः । स्वप्रयोगाधिकरणकालत्वेन स्ववाच्यत्वे स्वत्वाननुगमाच्छक्त्यानन्त्यं सामान्यतो व्युत्पत्तेदुर्घटतयाऽपूर्वव्यक्तिबोधानुपपत्तिः सर्वनामविचारदर्शितरीत्या समाध्यस्यते - विशिष्य तत्तकालत्वावच्छिन्नबोधस्यानुभवसिद्धतया सर्वनामशक्ती बुद्धिपच्यादिधात्वर्थस्यामिसंयोगादिरूपस्य सत्त्वे यत्नस्य चासत्त्वेपि " पचति इति प्रयोगः स्यात् न पचति ' इतिप्रयोगो न स्यात् भवति च यत्नशून्यदशायां न पचति ' इतिप्रयोगस्तस्माज्ज्ञायते कालस्य कृतावेवान्वयो भवति न तु क्रियायामित्यन्वयः । हेत्वन्तरमाह - अयं पचतीति, ' पचति ' इत्युक्ते वर्तमानकाले पाककर्तरि यत्नवत्त्वनिश्चय एव भवति न तु ' पाकयत्नवान्न वा ' इति यत्नवत्त्वसंशय इत्येतस्मादपि विज्ञायते आख्यातोपस्थाप्यकालस्याख्यातोपस्थाप्यकृतावेवान्ययो भवतीति अन्यथा पचति' इत्युक्तेपि पाकयत्नवान्न वा' इति संशयः स्वादेवेत्यन्वयः । उक्ते विनिगमनामप्याह - पूर्वापरीति, पच्याद्यर्थभूता हि पूर्वापरीभावापन्नाः स्थाल्यारोपणादयो बहनो व्यापाराः सन्ति प्रत्येकं तादृशव्यापारेषु कालान्वयापेक्षया कृतिरूपे एवैकस्मिन् पदार्थे आख्यातार्थभूते तदन्वये = कालान्वये लाघवमस्तीति कृतावेव कालान्वय उचितो न तु धात्वर्थक्रियायामित्यर्थः । " कालान्वयबोधापेक्षया" इत्यत्र ' कालान्वयापेक्षया ' इतिपाठो युक्तः । , 6 C वर्तमानकालं निर्वक्ति- वर्तमानकाल इत्यादिना । तत्तच्छब्दार्थः = तत्तदाख्यातार्थः । 'पचति' इतिप्रयोगाधिकरणकाल एव ' पचति ' इतिपदघटकाख्यातार्थः स एवात्र वर्तमानकाल इति तस्यैवैतत्कालिककृतावन्वय इति न प्रयोगान्तराधिकरणीभूतकालस्य प्रयोगान्तरघटकाख्यातार्थकृतावन्वय इत्याह-- अत इति । स्वप्रयोगेति- स्वप्रयोगाधिकरणकालः स्ववाच्यः ( भाख्यातवाच्यः ) इत्येवमुक्ते स्वपदार्थाननुगमाच्छत्त्यानन्त्यं स्यात् किं च सामान्यतो लडादीनां तदर्थभूतकाले व्युत्पत्तिः - शक्तिप्रहो न स्यादित्यऽपूर्वव्यक्तेः = अगृहीतशक्तिककालस्य या बोधानुपपत्तिः सा सर्वनामशक्तिग्रहरीत्या लडादीनामपि तदर्थकाले शक्तिग्रहं व्युत्पाद्य समाधास्यते इत्यन्वयः । तादृशाभिप्रेतरीतिमाह - विशिष्येति, ' पचति ' इत्याद्युक्ते तत्तत्कालस्य विशेरूपेण बोधो भवत्येवेति यथा तत्पदस्य बुद्धिस्थत्वोपलक्षितधर्मावच्छिन्ने शक्तिरस्ति तथात्रापि शब्दप्रयोगाधिकरणत्वोपलक्षितधर्मावच्छिन्ने ( वर्तमानकाले ) लट: शक्तिरस्तीति नाऽपूर्वका C > Page #603 -------------------------------------------------------------------------- ________________ वर्तमान काल विचारः ] व्युत्पत्तिवादः । ( ५९१ ) स्थत्ववच्छब्दप्रयोगाधिकरणत्वमुपलक्षणविधया व्यावर्तकं वाच्यम् । न च तत्तत्कालत्वस्यैवमप्यऽवाच्यत्वे तद्भानानुपपत्तिरसमाधेयैवेति वाच्यम्, शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मत्वेन तत्तत्कालत्वानामेवोपलक्षणीयत्वात् । अथ शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मो वर्षत्वादिकमपि कालदयावृत्तिधर्मत्वनिवेशेप्येतद्रूपमासत्वादिव्यावर्तनमशक्यम्, क्षणद्वयावृत्तिक्षणवृत्ति धर्मत्वेन तद्व्यावर्तने चाऽध्ययनाद्यनधिकरणेप्यऽध्ययनाद्यधिकरणस्थूलकालान्तर्गतक्षणेऽसमाप्तारब्धाध्ययने पुंसि चिन्तामणिमयमधीते ' इत्यादिप्रयोगानुपपत्तिः । C लव्यक्तिबोधानुपपत्तिरित्यर्थः । ननु तत्तच्छब्दप्रयोगाधिकरणत्वोपलक्षितधर्मावच्छिन्नस्य वाच्यत्वे हि तत्तत्कालव्यक्तीनामेव वाच्यत्वं स्यात् तत्तत्कालव्यक्तीनां चानन्त्यादऽपूर्वकालव्यक्तिभानानुपपत्तिरस्त्येव, न चोक्तरीत्या कालत्वस्य वाच्यत्वं प्राप्तं येन कालत्वेन रूपेणापूर्व कालव्यक्तेरपि बोधः स्यादित्याशङ्क्याह-- न चेति । उत्तरमाह - शब्दप्रयोगेति, शब्दप्रयोगाधिकरणीभूतो यः कालस्तद्वृत्तिर्यः कालत्वव्याप्यधर्मस्तेन कालत्वव्याप्यधर्मत्वेन सामान्यरूपेण तत्तत्कालत्वानामेव शब्दप्रयोगाधिकरणत्वमुपलक्षणं स्त्रीक्रियते इति तत्कालत्वस्य वाच्यत्वं प्राप्तमेवेति नाऽपूर्वकालव्यक्तिज्ञानानुपपत्ति:- कालत्वेन रूपेण तासामप्याख्यातजन्यबोधविषयत्वसंभवादित्यर्थः प्रतिभाति । (2 तत्तत्कालत्वस्यैवमपि " इत्यत्र " तत्कालस्यैवं सति ' इत्यपि पाठो दृश्यते । शङ्कते - अथेति, शब्दप्रयोगाधिकरणीभूतो यः काकस्तद्वृत्तिकालत्वेन व्याप्यमेव वर्षत्वादिकमिति ' पचति ' इत्युक्ते पाकानुकूलकृतौ वर्षस्याप्यन्वयः स्यात् न च वर्षपर्यन्तं ताहशकृतिरनुवर्तते इत्यर्थः, ननु शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मो हि कालद्वयाऽवृत्तिरेव धर्मो वर्षत्वं तु शब्दप्रयोगाधिकरणकाले शब्दप्रयोगानधिकरणकाले च वर्तते - वर्षस्य सखण्डकालत्वादिति वर्षत्वादिकं न गृह्यते इति नोक्तदोषापत्तिरित्याह- कालद्वयेति । अत्रापि दोषमाह - एतद्रूपेति, मासकालस्त्वखण्ड एवेति मासत्वं कालद्वयावृत्त्येवेति मासत्वग्रहणे प्राप्ते उक्तत्या पाकादिकृतौ मासाद्यखण्डकालस्यान्वयः स्यादेव न चैतदिष्टमित्यर्थः । ननु शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मो हि क्षणद्वयावृत्तिक्षणवृत्तिधर्मो गृह्यते तादृशधर्मश्च क्षणत्वमेव क्षणत्वावच्छिन्नकालस्य च पाककृत्यादावन्वय इष्ट एव, मासत्वादिकं च क्षणवृत्त्यपि न क्षणद्वयावृत्तीति न पाकादिकृतौ मासाद्यऽन्वयापत्तिरित्याह- क्षणद्वयेति । तदूव्यावर्तने मासत्वादिव्यावर्तने । अत्रापि दोषमाह- अध्ययनेति, एवं हि ' अधीते ' इत्यत्राध्ययनानुकूलकृतावपि क्षणकालस्यैवान्वयः स्यादित्यऽध्ययनाधिकरणीभूतस्थूलकालान्तर्गतेऽध्ययनानधिकरणे क्षणे (रायनादिक्षणे ) ' अधीते ' इतिप्रयोगानुपपत्तिः स्यात् न चैतदिष्टम् - तादृशाध्ययनानधिकरणेपि क्षणे ' अधीते ' इतिप्रयोगस्येष्टत्वादित्यर्थः । "Aho Shrutgyanam" Page #604 -------------------------------------------------------------------------- ________________ ( ५९२ ) सादर्श: [ आख्यातप्रकरणे यदि च स्वप्रागभावानधिकरणस्वाश्रयकर्तृकमकृत क्रियानाशप्रागभावाधिकरशब्दप्रयोगाधिकरणकाल एव वर्तमानकाल आधेयतासंबन्धेन कृतावन्वेत्यस्तो नोक्तस्थले 'चिन्तामणिमयमधीते' इत्यादिप्रयोगानुपपत्तिः, आरम्भावधिसमाप्तिपर्यन्तस्य स्थूलकालस्यापि तथात्वेन शब्दप्रयोगाधिकरणक्षणादिरूपान्तराल कालेऽध्ययनाद्यनुकूलकृतिविच्छेदेपि शब्दप्रयोगाधिकरणत्वोपलक्षिततादृशस्थूलकाल वृत्तित्वस्यापि तादृशक्रियानुकूलकृतावऽबाधेन योग्यतानिर्वाह इत्युच्यते ? तदा यः समग्रचिन्तामणिमधीत्य किंचित्कालोत्तरं पुनश्चिन्तामणिमध्येष्यते तत्रान्तं दूषयितुं परिष्कारान्तरमनुवदति - यदीत्यादिना । स्वं स्वं कृतिः, ' अधीते ' इत्यत्राध्ययनानुकूलकृति प्रागभावानधिकरणं तथाध्ययनानुकूलकृत्याश्रयश्चैत्रस्तत्कर्तृकप्रकृता याध्ययनक्रिया तन्नाशप्रागभावाधिकरणं च यः शब्दप्रयोगाधिकरणकालः स एव वर्तमानकालस्तस्य कृतावाधेयतासंबन्धेनान्वयः– कृतेस्तादृशकाले वर्तमानत्वादिति उक्तस्थले=अध्ययनाधिकरणस्थूल कालान्तर्गतेऽध्ययनानधिकरणक्षणे ‘अधीते ' इतिप्रयोगानुपपत्तिर्नास्तीत्यर्थः । अत्र विवक्षितकृतेः पूर्वकालस्य व्यावृत्त्यर्थं स्वप्रागभावानधिकरणेत्युक्तमुत्तरकालव्यावृत्त्यर्थं च नाशप्रागभावाधिकरणेत्युक्तम्- उत्तरकाले नाशस्यैव सत्त्वेन नाशप्रागभावासंभवादिति विशेषणद्वयेन विवक्षितकृत्यनुवृतिकाल एव ग्रहीतुं शक्यते इति भावः । प्रयोगानुपपत्तेरभावमुपपादयति- आरम्भेति, तथात्वेनस्वप्रागमावानधिकरणत्वाश्रय कर्तृकप्रकृत क्रिया नाशप्रागभावाधिकरणशब्दप्रयोगाधिकरणकालरूपत्वेन विवक्षिताध्ययनादिकृत्यनुवृचिकाकत्वेनेति यावत् ' अधीते ' इत्यादिशब्दप्रयोगाधिकरणी भूतों यः क्षणादिरूपोन्तरालकालोऽध्ययनरहितका उस्तत्राध्ययनाद्यनुकूलकृतेर्विच्छेदेपि-अभावेपि शब्दयोगाधिकरणत्वोपलक्षितो यस्तादृशस्थूलकाल:-उक्तारम्भावधिसमाप्तिपर्यन्तः स्थूलकालस्तद्वृत्तित्वं तादृशक्रियानुकूलकृतौ अध्ययनाद्यनुकूलकृतावस्त्येवेति न योग्यतानुपपत्तिरपि तथा चाध्ययनाधिकरणस्थूलकालान्तर्गताध्ययनानधिकरणक्षणेपि न 'अधीते' इतिप्रयोगानुपपत्तिः - ' अधीते ? इत्यत्राध्ययनारम्भावधिसमाप्तिपर्यन्तस्यैव स्थूलकालस्य वर्तमानत्वेनाभिप्रेतत्वात् । एवमेवान्यत्रापि विवक्षितक्रियारम्भावधितादृश क्रियासमाप्तिपर्यन्तस्यैव कालस्य वर्तमानकालत्वं ज्ञेयं स च कालः क्षणमात्ररूपो वा स्याद् वर्षरूपो वा स्यादित्यर्थः । अत्रापि दोषमुद्घाटयति - तदेति, एवं हि यत्रैकदा चिन्तामणिरधीता पुनरपि कालान्तरेऽध्येतव्यास्ति तत्रान्तरालदशायाम् = चिन्तामणेः प्रथमाध्ययनानन्तरं द्वितीयाध्ययनाच्च पूर्वमपि चिन्तामणिमधीते ' इतिप्रयोगापत्तिः स्यादेव – एतादृशान्तरालका लेप्यऽध्ययनानुकूलकृतिप्रागभावानधिकरणत्वमस्त्येव - प्रथमाध्ययनानुकूलकृतेर्जातत्वात् तादृशाध्ययनानुकूलकृत्याश्रयी भूतचेत्रादिकर्तृकप्रकृताध्ययनक्रियानाशप्रागभावाधिकरणत्वमप्यस्त्येव - भाविद्वितीयाध्ययनक्रियानाशस्याऽजातत्वेन तत्प्रागभावाधिकरस्वस्य सत्त्वादित्यर्थः । अत्र द्वितीयाध्ययनक्रिया येन न प्राह्या स्यादेतादृशनिवेशस्तु नास्त्ये 6 "Aho Shrutgyanam" Page #605 -------------------------------------------------------------------------- ________________ वर्तमानकाल निर्वचनम् ] व्युत्पत्तिवादः । ( ५९३ ) 6 राब्दशायामपि अयं चिन्तामणिमधीते ' इतिप्रयोगापत्तिः । यदि स्तुतिपाठादिविच्छेददशायामपि प्रत्यहमयं स्तुतिं पठति ' इत्यादिवदुक्तस्थलेपि दर्शितप्रयोग इष्ट एवेत्युच्यते ? तदापि स्वपदेन विशिष्य तत्तत्कृतीनामुपादानेनाननुगमो दुरुदर एवेतिचेत् ?, न - शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मत्वेनोपलक्षणेनाऽनुगतीकृतततत्क्षणदिनमासवर्षत्वाद्यवच्छिन्ने एव काले लटः शक्तिः । क्रियारम्भात् पूर्वं कर्मसमाप्त्युत्तरं च ' अधीते ' ' पचति ' इत्यादिप्रयोगवारणाय कृत्यादिरूप - व्यापारे तादृशकालस्य स्ववृत्तिप्रागभावाऽप्रतियोगित्वस्ववृत्तिध्वंसाऽप्रतियोगिप्रकृतक्रियाकर्तृनिष्ठत्वाभ्यां विशेषितेनाधेयतासंबन्धेनोऽन्वयनियम उपगन्तव्यः, तत्तत् क्रियारम्भपूर्वमपि तत्समाप्युत्तरमपि वा वर्तते यस्तत्तत् क्रियानुकूलकृत्य C वेति विज्ञेयम् । ननु यथा स्तुतिपाठविच्छेददशायामपि ' प्रत्यहं स्तुतिं पठति' इतिप्रयोग इष्टस्तथा उक्तस्थले==प्रथमाध्ययनानन्तरं द्वितीयाध्ययनारम्भात् पूर्वमेतादृशान्तरालदशायामपि ' अधीते ' इतिप्रयोग इष्ट एवेति प्रयोगापत्तिर्न दोष इत्याशङ्क्याह- यदीति । अत्र दोषमाह - तदापीति, उक्ते " स्वप्रागभावानधिकरणस्व " इत्यादिपरिष्कारे स्वपदेन विशेषरूपेणैव तत्स्कृतीनां ग्रहणापत्त्याऽननुगमस्त्वऽपरिहार्य एवेत्यर्थः । अथेत्यादिना शङ्कितं परिहरति- नेति, ' अधीते ' इत्यादिशब्दप्रयोगाधिकरणीभूतो यः कालस्तद्वृत्तिकालत्वव्याप्यधर्मत्वेनोपलक्षणभूतेन विवक्षितकृत्यनुवृत्त्यधिकरणीभूतक्षणदिनमासवर्षादीनामनुगमः संभवत्येव तादृशानुगतीकृतकाले एव लटः शक्तिः स एव च वर्तमानकाल इत्युच्यते तथा च शब्दप्रयोगाधिकरण कालवृत्तिकालत्वव्याप्यधर्मोपलक्षितधर्मावच्छिन्ने ( क्षणदिनमासवर्षादौ ) लटः शक्तिरस्तीत्यत्र स्वपदप्रवेशो नास्तीति न त्वत्प्रदर्शिताऽनुगमापत्तिरित्यर्थः । नन्वेवं क्रियारम्भपूर्वकालस्य क्रियासमाप्त्युत्तरकालस्यापि च शब्दप्रयोगाधिकरणकालवृत्तिकाल - त्वव्याप्यधर्मोपलक्षितधर्मावच्छिन्नत्वात्तत्रापि पचति ' ' अधीते ' इत्यादिप्रयोगः स्यात्. न चैतदिष्टमित्याशङ्कयाह- क्रियारम्भादिति, कृत्यादिरूपव्यापारे = पाकाद्यनुकूलकृतौ तादृशकालस्य = शब्दप्रयोगाधिकरणकालवृत्तिकालत्वव्याप्यधर्मोपलक्षितधर्मा (क्षणत्वादि ) वच्छिन्नकालस्य स्ववृत्तीत्यादिविशेषणविशिष्टाधेयता संबन्धेनान्वयः कृतौ हि तादृशकाले वर्तमानत्वादाधेयत्वमस्त्येव, स्त्रवृत्तीति-- ' अधीते ' इत्यादी स्त्रं तादृशकालस्तद्वृत्तिप्रागभावाप्रतियोगित्वमध्ययनायनुकूलकृतावत्येव तादृशकाले तादृशकृतेजतत्वेन कृतिप्रागभावस्याऽसत्त्वात् स्वं तादृशकालस्तद्वृत्तिध्वंसाऽप्रतियोगिभूता या प्रकृताध्ययनादिरूपा क्रिया तत्कर्तृनिष्ठत्वमप्यध्ययनाद्यनुकूलकृतावस्त्येव - तादृशकाले क्रियाया वर्तमानत्वेन ध्वंसप्रतियोगित्वं नास्त्येव तादृशाध्ययनादिकृतावातापि वर्तते इति साधेयता सामानाधिकरण्यसंबन्धेन स्ववृत्तिप्रागभावाप्रतियोगित्वस्ववृत्तिध्वंसाप्रतियोगिप्रकृतक्रियाकर्तृनिष्ठत्वाभ्यां विशिष्टा जातेत्येतादृशविशिष्टाधेयतासंबन्धेनोक्तका ३८ "Aho Shrutgyanam" Page #606 -------------------------------------------------------------------------- ________________ (५९४) सादर्शः ( आख्यातप्रकरणेधिकरणकालस्तस्य दर्शितविशिष्टाधेयतासंबन्धस्तादृशकृतौ बाधितोऽप्रसिद्धोवेति न शब्दप्रयोगाधिकरणतादृशकालमादाय दर्शितप्रयोगापत्तिः । संबन्धे स्वपदा. र्थस्य विशिष्य निवेशेप्युपपत्तिश्चिन्त्या ।। न च क्रियानुकूलकृतिशून्यान्तरालदशायां स्थूलकालमादाय 'पति' 'अधीते' इत्यादिवत् तादृशकृत्यधिकरणक्षणेपि स्थूलकालावच्छिन्नाभावमादाय 'न पचति ' 'नाधीते ' इत्यादिप्रयोगः- तत्र नओ वर्तमानक्षणमात्रान्वितताशक्रियानुकूलकृत्यभावबोधकतानियमात्, उक्तरीत्या विशिष्य शब्द. प्रयोगाधिकरणक्षणादिरूपकालस्यापि लट्प्रत्ययेन बोधनसंभवात् । लस्य कृतावन्वयः स्वीक्रियते तथा च विवक्षितक्रियाया आरम्भात् पूर्वकालस्य समाप्त्युत्तरकालस्य च विवक्षितकृतावुक्तविशिष्टाधेयतासंबन्धेनान्वयो न संभवति क्रियारम्भात् पूर्वकाले कृतेः प्रा. गमावाऽप्रतियोगिवासंभवात् क्रियासमाप्त्युत्तरकाले च क्रियाध्वंसस्यैव जातत्वेन धंसाप्रतियोगिप्रकृतक्रियाकर्तृनिष्ठत्वासंभवाचाऽध्ययनाद्यारम्भात् पूर्वमध्ययनादिसमाप्त्युत्तरं च न' अधीते । इत्यादिप्रयोगापत्तिरित्यर्थः । स्थूलकालगतमैक्यमादाय भूतभविष्यस्कालयोरपि तत्तत्पाकादिक्रियानुकूलकृत्यधिकरणत्वं संभवत्येवेत्यभिप्रायेणोक्तम्- तत्तक्रियानुकूलकृत्यधिकरणकाल इति । बाधित इति~ अध्ययने सति भूतभविष्यकालस्य संबन्धो बाधितः, यदि चाध्ययनमेवाऽसिद्धं तदाऽप्रसिद्ध इति विवेकः । संबन्धविशेषणे प्रथमदलमारम्भात् पूर्व तादृशप्रयोगवारणाय द्वितीयदलं च समाप्त्युत्तरं तादृशप्रयोगवारणाय विज्ञेयम् । नन्वत्रापि संबन्धमध्ये स्वपदार्थ निवेशादननु - गमापत्तिः स्यादित्याशङ्क्याह- संबन्धेति । चिन्त्येति-स्वपदवाच्याना कालव्यक्तीनां संबन्धमध्ये प्रवेशादुपस्थित्यपेक्षा नास्ति येनाननुगमः स्यादित्यर्थः ।। ननु स्थूलकाले कृतिरपि भवति कृत्यभावोपि भवति-स्थूलकालान्तर्गतकिंचित्क्षगादावेव कृतिसंभवादिति यथाऽध्ययनायनुकूलकृतिशून्यायामन्तरालदशायां स्थूलकालमादाय स्थूलकालवृत्तिकृतिमुद्दिश्य 'अधीते ' इत्यादिप्रयोगो भवति तथा स्थूलकालवृत्चितादृशकृत्यभावमादाय तादृशकृत्यधिकरणक्षणे ' नाधीते ' इत्यपि प्रयोगः स्यादित्याशङ्क्याहन चेति । उत्तरमाहतत्रेति, तत्र' नाधीते । इत्यत्र नत्रा वर्तमानक्षणमात्रान्चितो यस्तादृशक्रियानुकूलकृत्यभावः स बोध्यते वर्तमानक्षणे च तादृशक्रियानुकूलकृत्यभावो नास्तीति न स्थूलकालावच्छिन्नाभावमादाय तादृशकृत्यधिकरणक्षणे ' नाधीते ' इत्यादिप्रयोगापत्तिरित्यर्थः । किं च भावान्त्रयबोधस्थले किंचितक्षणावच्छेदेनाप्यऽध्ययनादिसंबन्धसत्वे 'मासमधीते, इत्यादिप्रयोगो भवति. अभावान्वयबोधस्थले त्वभावस्य विवक्षितकालस्य यावतक्षणकूटेन संबन्धे सत्येव 'नाधीते' इत्या. दिप्रयोगो भवति अन्यथाऽध्ययनस्येवाऽध्ययनामावस्यापि मासवृत्तिकिंचित्क्षणावच्छेदेन संबन्वस्य सत्त्वात् — मासमधीते । इतिवत् 'मासं नाधीते' इत्यपि प्रयोगः स्यादेव तथा चात्रापि स्थूलकालस्य यावतक्षणकूटेनाध्ययनाभावसंबन्धस्यासत्त्वात् 'नाधीते, इत्यादिप्रयोगस्योक्त "Aho Shrutgyanam' Page #607 -------------------------------------------------------------------------- ________________ लडकालान्वय बेचार : ] व्युत्पत्तिवादः । (939) नञ्समभिव्याहारस्थलेपि प्रतियोगिन्येव कालान्वय इति तु न सत्-तत्तत्क्षणवृत्तिपाकादिकृतेर भावस्यान्यक्षणावच्छेदेन तदानींतनस्थूलकालावच्छेदेन ताकृतिमति सत्त्वेनोक्तातिप्रसङ्गस्य दुर्वारत्वात् । न च कालानवच्छिन्नाधारता संबन्धेन नञर्थस्प पुरुषेऽन्वयानोक्तातिप्रसङ्ग इति वाच्यम्, तादृशस्थूलकाले यत्रात्मनि पाकादिकृतिस्तादृश कालान्तर्गतवाहशकृत्यनधिकरणक्षणे न पचति' इत्यादिप्रयोगोपपत्तये तत्तत्क्षणावच्छिनपाकादिकृत्यभाक्बोधस्यैव तत्र तत्र स्वीकरणीयतया क्वचित् प्रतियोम्बऽप्रसिद्धेर्दुर्वारत्वात् । स्थले आपत्तिर्नास्तीत्यर्थः । ननु वर्तमानक्षणस्तु शब्दप्रयोगाधिकरणक्षण एवं तस्पोपस्थित्यसंभवात् ' नाधीते ' इत्यादौ नत्रा वर्तमानक्षणमात्रान्त्रितस्य तादृशक्रियानुकूल कृत्यभावस्य कथं बोधः स्यादित्याशङ्क्याह- उक्तरीत्येति । उक्तरीत्या = " शब्दप्रयोगाधिकरणवृत्ति कालत्वया - प्यधर्मत्वेन ५९३ " इत्याद्युक्तरीत्या क्षणादिकाले लट: शक्तिरस्तीति तस्य विशिष्य लट्प्रत्यये बोधसंभवान काचिदनुपपत्तिरित्यर्थः । ननु ' नाधीते ' इत्यादिन समभिव्याहारस्थले स्वया कृत्यभावे वर्तमानकालस्यान्वय उक्तस्तन्न वक्तव्यम् अन्यथा नञसमभिव्याहारस्थले कृतौ नञ्समभिव्याहारस्थले कृत्यभावे कालान्वय इति वैषम्यं स्यादिति प्रतियोगिभूतकृत्यादावेव कालान्वयः कर्तव्यस्तथा च शब्दप्रयोगाधिकरणक्षणवृत्तिकृतेरभावो नत्रा बोधयिष्यते इत्याशङ्कयाह - नञिति । परिहारहेतुमाह - तत्तत्क्षणेति, एवं हि तदानींतन:-शब्दप्रयोगाधिकरणीभूतो यः स्थूल कालस्तदवच्छेदेन तदवच्छिन्नः = तद्व्याप्यो योन्यक्षणः–कृत्यभावक्षणस्तदवच्छेदेन तादृशकृतिमत्यपि चेत्रादौ तत्तत्क्षणवृत्तिपाकाद्यनुकूलकृतेरभावस्य सत्त्वेनोक्तातिप्रसङ्गस्य = ' न पचति' इत्यादिप्रयोगापत्तेर्दुर्वारत्वं स्यातू - अन्यक्षणवृत्तिकृतेरन्यक्षणावच्छेदेनाभावे बाधकाभावादित्यर्थः । अभावे कालान्वये तु तत्क्षणावच्छेदेन कृतौ सत्यां कृत्यभावस्यासत्वात् ' न पचति ' इत्यादिप्रयोगापत्तिर्नास्तीति मावः । ननु कृतिः पुरुषे भवतीति पुरुषस्य कृत्यधारत्वात् ' नाधीते ' इत्यादौ कालानवच्छिन्नाधारतासंबन्धेन अर्थात् कालानवच्छिन्नाधारतासंबन्धावच्छिन्नप्रतियोगिताकस्य कृत्यभावस्य पुरुषऽन्वयः कर्तव्यस्तथा च पुरुषेऽध्ययनकृतिसत्त्वक्षणे ' नाधीते ' इतिप्रयोगापत्तिर्नास्तीत्याशङ्क्याह-- न चेति । कालावच्छिन्नाधारतायाः संबन्धत्वे हि क्षणान्तरवृत्तिकृतेरभावस्य कृत्यवच्छि नक्षणेपि पुरुषेऽन्वयसंभवात् अध्ययनादिकृतिक्षणेपि ' नाधीते ' इतिप्रयोगः स्यात् केवलाधारतायाः संबन्धत्वे त्वेतादृशापत्तिर्नास्ति- पुरुषे कृतिसत्त्वे कृत्यभावबोधनासंभवादिति भावः । परिहोरमाह- तादृशेति, तादृशस्थूलकाले = शब्दप्रयोगाधिकरणीभूतस्थूलकाले यस्मिन् पुरुषे पाकादिकृतिरस्ति तस्मिन् पुरुषे शब्दप्रयोगाधिकरणी भूतकालान्तर्गततादृशकृत्यनधिकरणक्षणे 'न पचति' इतिप्रयोगोपपत्तये त्वया तत्तत्क्षणावच्छिन्ना या पाकादिकृतिस्तदभावबोध एव स्वीकार्य : "Aho Shrutgyanam" Page #608 -------------------------------------------------------------------------- ________________ सादर्श: [ आख्यातप्रकरणेव्यापाराबोधकेन च लडादिप्रत्ययेन क्रियायामेव वर्तमानत्वान्धयो बोध्यते 'जानाति' इत्यादौ न तु लडाश्रयत्वादी-ज्ञानाद्यऽसत्त्वेपि तदाश्रयत्वादिसंबन्धे सति 'जानाति' इत्यादिप्रयोगापत्तेः । ज्ञानादिविशिष्टे आश्रयत्वादौं। कालान्वयमुपगम्यातिप्रसङ्गवारणे ? विशेषणे ज्ञानादावपि तदन्क्यस्यावश्यकत्वे तस्यैव स्वीकारौचित्यात् । 'नश्यति ' इत्यादौ क्रियायां कालान्वयस्वीकारे विनष्टादावपि 'नश्यति । इत्यादिप्रयोगः स्यादिति तत्रोत्पत्तेरपि लडाद्यर्थत्वमुपगम्य तत्रैव कालान्वयं अभावप्रतियोगिन्येव त्वया कालान्वयस्वीकारात् तथा च कचित प्रतियोग्यऽप्रसिद्धिः स्यात् यतक्षणावच्छिन्नाया कृतेरभावो बोधनीयस्तत्क्षणे कृतेरसत्त्वे ततक्षणावच्छिन्नकृतेः प्रतियोगि भूताया अप्रसिद्धिः प्राप्ता, अप्रसिद्धप्रतियोगिकस्य चाभावस्य बोध एत्र न भवतीति तत्र 'नाधीते' इत्यादिवाक्यजन्यबोधाभावप्रसङ्गः स्यात् न चैतदिष्टमित्यर्थः । वस्तुतस्तु नसम: भिव्याहारस्थले प्रतियोगिनि कालान्वयस्वीकारे 'नाधीते' इत्यनेन शब्दप्रयोगाधिकरणतत्क्षणा: वच्छिन्नायाः कृतेरभावो बोधनीयो न च तत्क्षणे कृतिः संभवति तदभावस्यैव सत्त्वादिति सर्व त्रैव प्रतियोग्यप्रसिद्धिः, तत्क्षणे कृतिसत्त्वे च तदभावासंभवात् तद्बोधनं न संभवतीति विज्ञेयम् । तस्मात् नञ्समभिव्याहारस्थलेऽभावे एव कालान्वयः स्वीकार्यस्तथा च 'नाधीते' इत्यादिशब्द, प्रयोगाधिकरणक्षणे कृतिर्नास्ति तादृशकृत्यभावस्त्वस्त्येवेति क्षणान्तरवृत्त्यध्ययनकृतेः शब्दप्रयो गाधिकरणक्षणेऽभावबोधनं नत्रा नानुपपन्नमिति भावः । 'पचति । इत्यादी लडाद्यर्थकालस्य लडाद्यर्थकृतावेवान्वयेपि 'जानाति । इत्यादौ तु व कडाद्यर्थाश्रयत्वादी लडाद्यर्थकालस्यान्वयो भवति किं तु धात्वर्थज्ञानादिरूपक्रियायामेवान्वयो भव. तीत्याह- व्यापारेति । व्यापाराऽबोधकेनेति पचति' इत्यादिस्थले लडादेः कृतिरूपव्यापारबो. धकत्वं यदुक्तं तत् 'जानाति' इत्यादौ न संभवति--ज्ञानाद्यनुकूलकृतेरसंभवादित्याशयेन व्यापाराबोधकत्वमुक्तमित्याशयः । यदि लडाद्यर्थकालस्य जानाति' इत्यादी लडाद्यर्थाश्रयत्वेऽन्वयः स्यात्तदा ज्ञानाश्रयत्वं हि ज्ञानसमवाय एव समवायश्च नित्य एवेति ज्ञानासत्वेपि तदाश्रयत्वादिसंबन्धेसति ज्ञानाश्रयत्वरूपसमवायसंबन्धस्य सत्त्वात् ज्ञानाभावकालेपि 'जानाति' इतिप्रयोग आपद्येत न चैव दिष्टमित्याह- ज्ञानाद्यसत्त्वेपीति । ज्ञाने कालान्वये तु ज्ञानाभावकाले 'जानाति' इतिप्रयोगापत्ति स्तीत्यर्थः । ननु 'जानाति' इत्यत्र ज्ञानविशिष्टाश्रयत्वे कालान्वयं वक्ष्यामस्तथा च ज्ञानसमवाय नित्यत्वेपि ज्ञानस्यानित्यत्वेन ज्ञानाभावकाले ज्ञान विशिष्टाश्रयत्वमपि न संभवतीति न ज्ञानाभावका 'जानाति' इतिप्रयोगापत्तिरित्याशङ्क्याह- ज्ञानादिविशिष्ट इति । उत्तरमाह- विशेषण इति ज्ञानविशिष्टाश्रयत्वे कालान्वये विशेषणीभूतज्ञानेपि कालान्वयः प्राप्त एवेति तस्य-ज्ञाने एव काला न्वयस्य स्वीकार उचित इत्यर्थः । नश्यतीति- 'नश्यति' इत्यत्र नाशक्रियायां कालान्वये नाशस्य ध्वंसरूपत्वेनाऽनन्तत्वात विनष्टदशायामपि 'नश्यति' इतिप्रयोगापत्तिः स्यादिति तत्र='नश्यति' इत्यादौ नाशोत्पत्ते "Aho Shrutgyanam" Page #609 -------------------------------------------------------------------------- ________________ ऌडर्थकालस्वरूपान्त्रयविचारः ] व्युत्पत्तिवादः । ( ५९७ ) दीधितिकृदुपजगाम । वस्तुतस्तु नाशत्वमुत्पत्तिमभावत्वं तथा च धातुप्रतिपाद्यतावच्छेदकोत्पत्तावेव कालान्वय इत्येव साधीयः । वर्तमानकालस्योत्पत्तिसंबन्धेन धात्वर्थेऽन्वय इत्यपि वदन्ति । लट्प्रत्ययेन 'पक्ष्यति' इत्यादौ प्रत्ययार्थकृतौ. 'ज्ञास्यति' इत्यादी क्रियायां भविष्यत्त्वं प्रत्याय्यते । यद्यपि भुव उत्पत्त्यर्थकतयाऽनागतकालोत्पत्तिकत्वं भविव्यच्छन्दार्थस्तथापि 'पक्ष्यति' इत्यादौ प्रत्ययार्थकृत्यादावनागतत्वमात्रस्य प्रती - तिरुपेयते-उत्पत्तिप्रतीतेर्निष्फलत्वात् । 'भविष्यति' 'उत्पत्स्यते' इत्यादौ च वातुनैव ताशोत्पत्तिः प्रत्याय्यते । 'नक्ष्यति' इत्यादौ व दर्शिता गतिः । · लढाद्यर्थत्वं स्वीकार्य तथा च लडाद्यर्थकालस्यात्र लडाद्यर्थभूतनाशोत्पत्तावेवान्वयः कर्तव्य उत्प श्वानित्यत्वेन विनष्टदशायामसत्त्वान्न विनष्टदशायाम् 'नश्यति' इतिप्रयोगापत्तिरित्यर्थः । स्वाभिप्रायमाह - वस्तुतस्त्वित्ति, 'नश्यति' इत्यत्र धात्वर्थो नाशो नाशश्च ध्वंसरूपत्वादुत्पत्तिमान् (उत्पत्तिविशिष्टः ) अभावपदार्थ एवेत्युत्पत्तेर्धातुप्रतिपाद्यतावच्छेदकत्वम् = धात्वर्थतावच्छेदकत्वं प्राप्तमिति तादृशोत्पत्तावेव कालान्वय इत्यर्थः । अत्र चोत्पत्तौ उडादेः शक्तिकल्पनापेक्षा नास्तीती- दमेव लाघवम्. अन्यत्सर्वं पूर्ववदेव । केचित्तु 'नश्यति' इत्यत्रापि कालस्य धात्वर्थनाशे एवोत्पत्तिसंबन्धेनान्वयः कर्तव्यो विनष्टदशायां च नाशस्याऽनन्तत्वेन सत्त्वेपि संबन्धभूतोत्पत्तेस्तत्रामा-वान विनष्टेपि 'नश्यति' इतिप्रयोगापत्तिरिति वदन्ति तदाह- वर्तमानकालस्येति । लृटः कालरूपार्थं निर्वतुमारभते - लडित्यादिना । 'पक्ष्यति' इत्यत्राख्यातार्थकृतौ लडर्थमविष्यत्वस्यान्वयो भवति, 'ज्ञास्यति' इत्यत्र तु भविष्यत्त्वस्य ज्ञानक्रियायामेवान्वयो न तु ज्ञानाश्रयत्वे - पूर्वोक्तदिशा ज्ञानासत्त्वेपि तदाश्रयत्वस्य वर्तमानत्वात् 'ज्ञास्यति' इतिप्रयोगानुपपत्तेरित्यर्थः । यद्यपीति-यद्यपि भविष्यत्त्वमित्यत्र भूधातोत्पत्त्यर्थकतया 'पक्ष्यति' इत्यादी पाककृत्या - दावनागतकालोत्पत्तिकत्वं यदस्ति तदेव भविष्यच्छन्दार्थोस्तीति पाककृत्यादावनागतकालोत्पत्तिकत्वप्रतीतिरेव लूटा प्राप्ता तथाप्युत्पत्तिप्रतीतेर्निष्फलत्वात् प्रत्ययार्थकृतावनागतत्वमात्रस्य लूटा प्रतीतिः स्वीक्रियते इत्यर्थः । 'भविष्यति' इत्यादावुत्पत्तेरेव धात्वर्थतया तादृशोत्पत्तावेवाऽनाग-तत्वस्यान्वयः कर्तव्य इत्याह-भविष्यतीति । दर्शितेति - 'नक्ष्यति' इत्यत्रोत्पत्तेर्लडर्थत्वं धात्वर्थतावच्छेदकत्वं वा ( १९६ ) उक्तरीत्या स्वीकृत्य तादृशोत्पत्तावेव डर्थकालस्यान्वयः कर्तव्यः, अन्यथा=भविष्यत्कालस्य नाशे धात्वर्थेऽन्वयस्वीकारे विनष्टघटप्रतियोगिकवर्तमाननाशस्य स - रूपस्याऽनन्तत्वेन भाविकालेपि संभवात् तत्र भविष्यत्कालस्यान्वयसंभवाच्च तादृशविनष्टघटमादायापि 'नक्ष्यति' इतिप्रयोगः स्यादेव न चैतदिष्टमिति नाशोत्पत्तौ ऌडर्थकालस्यान्त्रयः कर्तव्यस्तथा च वर्तमानो यो घटस्तस्प्रतियोगिकनाशस्योत्पत्तेर्मावित्वात् तत्र भविष्यत्कालान्वयो युक्त इति भाविविनाशस्य प्रतियोगिभूतघटमादायैव 'नक्ष्यति' इतिप्रयोगः संभवति, विनष्टघटप्रतियोगिकनाशोत्पत्तेश्च विनष्टत्वेन तत्र भविष्यत्कालान्वयाऽसंभवाद् विनष्टघटमादाय 'नक्ष्यति' "Aho Shrutgyanam" Page #610 -------------------------------------------------------------------------- ________________ सादर्श: [ भाख्यातप्रकरणे ( ५९८ ) तथा च वर्तमानप्रागभावप्रतियोगित्वं प्रतियोगितासंबन्धेनाऽन्वयी वर्तमानमार्गभावो वा लट्प्रत्ययार्थः । प्रागभावानङ्गीकारे वर्तमानकालध्वंस एव तदर्थः, ध्वंसस्य कालोपाधित्वेन स्वसमानकालपदार्थाधारतयाऽऽधेयता संबन्धेन. अनागतकृतेर्वर्तमानकालध्वंसोत्पत्तिमत्तया उत्पत्तिसंबन्धन वा कृत्यादावन्वयः ॥ 6 व्यथ पचमानेप्युदीच्यपाकानुकूलकृतिमादाय पक्ष्यति' इत्यादिमयोगापत्तिः, पाकानुकूलकृतित्वावच्छेदेन चाऽनागतत्वबोधस्वीकारो न संभवतिपूर्वपूर्वपाकानुकूलकृतौ तद्वाधात् पक्ष्यमाणेपि ' पक्ष्यति' इतिप्रयोगानुपपत्तेः । इतिप्रयोगापत्तिर्नास्तीति बोध्यम् । एवमेव 'मविष्यति' इत्यत्रापि भविष्यत्कालस्योत्पत्तावेवान्वयो विज्ञेयो न तु घटे, अन्यथा वर्तमानघटमादायापि तस्य भाविकालसंबन्धसंभवेन ' भविष्यति इतिप्रयोगः स्यात् न चैतदिष्टम्, अनुत्पन्नघटमुद्दिश्यैव ' भविष्यति' इतिप्रयोगस्येष्टत्वादिति सारः । कालभूतलडमाह - तथा चेति, 'पक्ष्यति' इत्यादौ वर्तमान शब्दप्रयोगाधिकरणक्षणवृत्तिप्रागभावप्रतियोगित्वं पाककृत्यादी. 'ज्ञास्यति' इत्यादौ च ज्ञानादावस्त्येव, किं वोक्तकृत्यादौ वर्तमानप्रागभावप्रतियोगिता वर्तते एवेति तादृशप्रतियोगितासंबन्धेन कृत्यादौ यो वर्तमानप्रागभावः स ऌडर्थ इत्यर्थः । ननु : प्रागभावो हि स्वप्रतियोगिसमवायिकारणे एव भवति नान्यत्र नाशश्च ध्वंस एव ध्वंसस्य च न समवायिकारणं किमपि भवति यत्र व्वंसरूपनाशस्य प्रागभावः संभवेदिति 'नङ्क्ष्यति' इत्यत्र कथं नाशस्य वर्तमानप्रागभावप्रतियोगित्वं स्यादित्याशङ्क्याह- प्रागभाबानङ्गीकारेति, नाशस्येत्यादिः । नाशस्य प्रागभावानङ्गीकारे हि वर्तमानकालस्य व्वंस एव लुडर्थः । किंवा मीमांसकैकदेशिमतमुद्दिश्याह - प्रागभावानङ्गीकारे इति । 'पक्ष्यति' इत्यादावनागतकृतौ कालोपाधिस्वरूपवर्तमानकालध्वंसाधेयता वर्तत एव--वर्तमानकालध्वंसस्य कालोपाधित्वेन स्वसमानकालिक कृत्यादिपदार्थाधारत्वात् क्षणादिवदिति तादृशाधेयतासंबन्धेन वर्तमानकालध्वंसस्य तादृशकृत्यादावन्वयः, किं वा तादृशानागतकृतौ या वर्तमानकालध्वंसस्योत्पत्तिस्तत्संबन्धेन तादृशानागतकृत्यादौ वर्तमानकालध्वंसस्यान्वयो भविष्यति । भाविपदार्थानां बौद्धत्वेन सत्त्वं स्वीकृत्यैष विचारो विज्ञेयः । ' ८ शङ्कते - अथेति, पचमानपुरुषस्य पाकानुकूलकृतयोप्यवान्त रफूत्कारादिव्यापाराणां पूर्वापभावापन्नानां भेदादनेका भवन्ति तत्र पक्ष्यति' इत्यत्र भविष्यत्त्वस्य प्रागभावप्रतियोगित्वरूपस्योक्तस्य ऌडर्थस्य कृतावन्त्रयस्वीकारेप्युदीच्या पाकानुकूलकृतिम् = क्रियमाणपाकानुकूलामेवोदीच्यां कृतिमादाय पचमानेपि 古 " पक्ष्य इतिप्रयोगः स्यात् - उदीच्यतादृशकृतौ भविष्यत्त्वस्य सत्त्वादेवेत्यर्थः । ननु भविष्यत्त्वस्य कृतित्वावच्छेदेनान्वयः क्रियते इति क्रियमाणपाकानुकूलोदीच्यकृतौ भविष्यत्त्वसत्त्वेपि क्रियमाणपाकानुकूलयावदूकृतौ भविष्यत्त्वस्याऽसत्त्वान्न पचमाने ' पक्ष्यति' इतिप्रयोगापत्तिरित्याशङ्क्याह- पाकानुकूलकृतित्वेति, पूर्वपूर्वपाकानुकूलकृतीनां जातत्वेन तत्र तद्वाधात् = अनागतत्वान्त्रयबाधात्, करिष्यमाणपाकानुकूलकृतिष्वपि पूर्व "Aho Shrutgyanam" Page #611 -------------------------------------------------------------------------- ________________ लडर्थकालान्दय निरीक्षणम् ] व्युत्पत्तिवादः । ( ५९९ ) ¿ 1 “ तत्तत्पाकानुकूलकृतित्वावच्छेदेनापि तदन्वयाऽसंभवः- तत्तत्पाकत्वेन पदादनुपस्थितेः । नापि यत् किंचित्वाकानुकूलाद्यकृतित्वावच्छेदेन तदन्वयः- आद्यत्वोपस्थापकपदाभावात् तत्तद्व्यक्तिमनन्तर्भाव्य दुर्वचत्वाच्चेति चेत् ?, न- प्रागभावस्य वर्तमानत्वम् - शब्दप्रयोगाधिकरण क्षणवृत्तित्वम्, वर्तमानप्रागभावस्य प्रत्ययार्थत्व तस्य स्वविशिष्टकालवृत्तिकृतिजन्यपाकाननुकूलत्वविशिष्टप्रतियोगितासंबन्धेन. वर्तमानकालध्वंसस्य तदर्थत्वे व स्वपूर्वकालीन कृतिजन्यपाकाननुकूलत्वविशिष्टाधेयत्व संबन्धेनः कृत्यंशेऽन्वयोपगमे उदीच्यकृतौ वर्तमानप्रागभापूर्वकृतिव्यक्तिषु तद्वाधात् पक्ष्यमाणेपि ' पक्ष्यति' इतिप्रयोगो न स्यादित्यर्थः । ननु पाकानुकूलकृतौ भविष्यत्वान्वयः' इत्यत्र पाकपदेन भविष्यत्तत्पाकव्यक्तिं ग्रहीष्यामस्तदनुकूलकृतौ च भविष्यत्त्वान्वयस्वीकारे नोक्तदोषप्रसङ्ग इत्याशङ्कयाह-- तत्तत्पाकेति । 'पक्ष्यति' इत्यादाविति शेषः । उक्ते हेतुमाह- तत्तत्पाकखेनेति । ननु यत् किंचित्पाकानुकूला याऽऽद्या कृतिस्तत्र लुडर्थभविष्यत्त्वस्यान्वयं कुर्मस्तथा च पचमानपुरुषकर्तृकपाकानुकूलायामुदीच्यकृतौ भविष्यत्त्वस्य सत्त्वेप्याद्यकृतौ भविष्यत्त्वं नास्ति तस्या जातत्वादिति न पचमाने ' पक्ष्यति इतिप्रयोगापत्तिः, पक्ष्यमाणकर्तृकभविष्यत्पाकानुकूलायामाद्यकृतौ तु भविष्यत्त्वमस्त्येवेति न पक्ष्यमाणे पक्ष्यति • इतिप्रयोगानुपपत्तिश्चेत्याशङ्कयाह - नापीति । ' पक्ष्यति' इत्यादावाद्यत्वपस्थापकपदाभावेन आद्यकृतित्वावच्छेदेनान्वयो न संभवतीत्याह- आद्यत्वेति । किं चात्रपक्षे पाककृतिव्यक्तीनां तत्तद्व्यक्तित्वेन ग्रहणे प्राप्ते ननुगमः स्यादित्याह - तत्तद्व्यक्तिमिति । परिहरति- नेति । उक्तऌडर्थभूतवर्तमानप्रागभावप्रतियोगित्वघटकस्य प्रागभावस्य वर्तमानत्वमाह-प्रागभाव - स्येति । उक्तदोषापत्ति निवारयति - वर्तमानेति, वर्तमानप्रागभावस्य = शब्दप्रयोगाधिकरणक्षणवृत्तिप्रागभावस्य प्रत्ययार्थत्वे =लडर्थस्खे, तस्य = वर्तमानप्रागभावस्य स्वविशिष्टत्यादिसंबन्धेन कृतावन्वय इत्यन्वयः, स्वविशिष्टेति - स्वं वर्तमानप्रागभावस्तद्विशिष्टो यो वर्तमान कालस्तद्वृत्ति कृतिजन्यो यः पचमानकर्तृकः पाकस्तदननुकूलत्वसमानाधिकरणप्रतियोगिता संबन्धेन वर्तमानप्रागभावस्य ऌडर्थस्य ऌडर्थकृतावन्वय इष्टोस्ति तथा च पचमानकर्तृकर्तृकपाकानुकूलोदीच्यकृती वर्तमानप्रागभावप्रतियोगितायाः सत्त्वेप्युक्तस्वविशिष्टकालवृत्तिकृतिजन्यपाका ( पचमानकर्तृकवपाका ) ननुकूलत्वं नास्ति- तादृशपाकानुकूलत्वस्यैव सत्त्वादिति नोक्तोदीच्यकृतावुक्तसंबन्धेन र्तमानप्रागभावस्यान्वयः संभवतीति न पचमाने उक्ता पक्ष्यति ' इतिप्रयोगापत्तिः, मवि - ष्यत्पाककृतौ तु पचमानकर्तृकपाकाननुकूलत्वं वर्तमानप्रागभावप्रतियोगित्वं चात्येवेत्येतादृशसंबन्धेन वर्तमानप्रागभावस्य भविष्यत् पाककृतादन्वयः संभवत्येवेति न पक्ष्यमाणे पक्ष्यति इतिप्रयोगानुपपत्तिरित्यर्थः । वर्तमानकालध्वंसस्य तदर्थत्वे-ऌडर्थत्वे तत्संबन्धस्वरूपमाह-स्वपूर्वेति, अत्रापि वर्तमानकालध्वंसपरामर्शकम् तस्य " इतिपदमनुवर्तनीयम् । अत्र स्वं वर्तमानकालध्वंसस्तत्पूर्वकालिका या कृतिस्तज्जन्यपाकाननुकूलत्वसमानाधिकरणाधेयता संबन्धेन 霖 2 ८८ 6 " Aho Shrutgyanam" , Page #612 -------------------------------------------------------------------------- ________________ (६००) सादर्श: [आख्यातप्रकरणेवादेर्दर्शितविशिष्टसंबन्धाऽसत्त्वेनाऽतिप्रसङ्गविरहात् । ध्वंसपूर्वत्वं च तदनधिकरणत्वमेव । न चान्तरालिककृतिजन्यस्य पच्यर्थव्यापारस्प पूर्वव्यापारानुकूलकृत्यजन्यतयाऽऽन्तरालिककृतेः पूर्वकृतिजन्यपाकाननुकूलत्वमक्षतमेवेति तस्या अपि निरुक्तविशिष्टसंबन्धेन वर्तमानप्रागभावादिमत्त्वमक्षतमेवेति वाच्यम्, कृतिजन्यपाकेत्यत्रं कृतिजन्यव्यापाराधीनफलानुकूलव्यापारस्य विवक्षितत्वात् । वर्तमानकालध्वंसस्त्र लुडर्यस्य ' पक्ष्यति' इत्यत्र लुडर्यकृतावन्वयः स्वीक्रियते तथा च वर्तमानकालध्वंसस्य कालरूपत्वेन तदाधेयता भविष्यत्पाककृतौ वर्तते एव वर्तमानकालध्वंसरूपभविष्यत्कालात् पूर्वकालिककृतिजन्यो यः पचमानकर्तृकपाकस्तदननुकूलस्वमपि वर्तते इत्येताहशसंबन्धेन भविष्यत्पाककृती वर्तमानकालध्वंसान्वयसंभवान्न पक्ष्यमाणे 'पक्ष्यति ' इतिप्रयोगानुपपत्तिः, पचमानकर्तृकपाकानुकूलोदीच्यकृतौ तु पचमानकर्तृकपाकाननुकूलत्वस्य संबन्धघटकस्याऽसत्त्वान्न तादृशकृती वर्तमानकालध्वंसान्वयः संभवति येन पचमानेपि ‘पक्ष्यति ' इतिप्रयोगापत्तिः स्यादित्यन्वयः । फलमाह- उदीच्यकृताविति । उदीच्यकृती वर्तमानपाकोदी. ध्यकृतौ । द्वितीयसंबन्धस्वरूपे स्वपूर्वेति यदुक्तं तदर्थमाह- ध्वंसेति, स्वपूर्वकाल इत्यनेन वर्त, मानकालध्वंसानधिकरणकालो ग्राह्य इत्यर्थः । स च कालो वर्तमानकाल एव तादृशकालीनकृतिजन्यपाकाननुकूलत्यन्वयः । ननु पचमानकर्तृकपाकानुकूला ह्येकाऽऽद्या कृतिरपरोदीच्या कृतिरपरा च तन्मध्यकालवतिनी आन्तरालिककृतिरपि भवत्येव तत्रान्तरालि ककृतिजन्यो व्यापारः पूर्वव्यापारानुकूलकृतिजन्यो न भवति पूर्वकृतिजन्यश्च व्यापार आन्तरालिककृतिजन्यो न भवतीत्यान्तरालिककृती पूर्वकृतिजन्यपाकाननुकूलत्वमस्त्येवेत्यान्तरालिककृतावुक्तसंबन्धेन लुडर्थकालस्यान्वयसंभवात् पचमाने 'पक्ष्यति' इतिप्रयोगः स्यादेवेत्याशङ्कयाह- न चेति । परिहरति- कृतिजन्येति । विवक्षितत्वादिति- तथा च ' स्वविशिष्टकालवृत्तिकृतिजन्यव्यापाराधीनफलानुकूलव्यापाराननुकूलत्वसमानाधिकरणप्रतियोगितासंबन्धेन कृतौ वर्तमानप्रागभावस्य लडथस्थान्वयः' इति वक्तव्यं तथा च वर्तमानप्रागभावविशिष्टो यो वर्तमानकालस्तवृत्तिकृतिजन्यो यः पाकादिव्यापारस्तदधीनं यद् विक्लित्तिरूपं फलं तदनुकूलो यः स एव वर्तमानः पाकव्यापारस्तदननुकूलत्वं भविष्यत्पाककृतौ स्वस्तीति न पक्ष्यमाणे · पक्ष्यति । इतिप्रयोगानुपपत्तिः, आन्तरालिकोक्तकृती तु पूर्वकृतिजन्यपाकाधीनफलानुकूलतादृशपाकानुकूलत्वमेवास्ति न तु तदननुकूलत्वमिति नान्तरालि ककृतौ वर्त. मानप्रागभावान्वयः संभवति येन पचमानेपि त्वदुक्तरीत्या पक्ष्यति ' इतिप्रयोगापत्तिः स्यादित्यर्थः । पचमानकर्तृकव्यापाराणां फलान्नुकूलत्वं नास्ति फलानुकूलव्यापाराननुकूलत्वं च पचमानवृत्तिकृतिषु नास्तीति भावः । "Aho Shrutgyanam" Page #613 -------------------------------------------------------------------------- ________________ लुढाथेकालनिवेचनम् ] व्युत्पत्तिवादः। (६०१) ‘पता' इत्यादी लुटोऽनद्यतनभविष्यत्वमर्थः । अनद्यतनभविष्यत्त्वं च शब्दप्रयोगाधिकरणदिवसाऽवृत्तित्वे सति शब्दप्रयोगकालीनप्रागभावप्रतियोगित्वम्. शब्दप्रयोगाधिकरणदिवसध्वंसोत्पत्तिकत्वं वा। केचित्तु-भविष्यत्वमेव तस्यार्थः, क्रियायाः कृतेर्वा स्वरूपसदनद्यतनत्वमेव तत्साधुतानियामकम् । असाधुत्वादेव — अद्य पक्ष्यति' इत्यादौ — पक्ता' इति न प्रयोग इत्याहुः । तन्न- तथा सति भविष्यत्त्वादिकमपि नाख्यातार्थः स्थाव, स्वरूपसद्भविष्यत्त्वादिकमेव लडादिप्रत्ययस्य साधुतानियामकम्, असाधुत्वादेव · पक्ष्यति' इत्यादौ 'पक्ता' इतिवत् 'पचति ' इत्यादौ पक्ष्यति ' इतिप्रयोगविरह इत्यस्यापि वक्तुं शक्यत्वात् ।। . 'पचति' — पक्ष्यति । इत्यादेरविलक्षणबोधजनकत्वमनुभवविरुद्धमिति कालविशेषबोध आवश्यक इतिचेत ?, तदा 'पक्ता'' पक्ष्यति' इत्यादेरापि विलक्षणबोधजनकत्वस्याऽऽनुभविकतयाऽनद्यतनत्वान्वयबोधोपि दुर्वारः। यदि च 'पक्ष्यति' इत्यादिवाक्यजन्यबोधे सति भविष्यत्त्वादिसंशयानुदयाद् : भविव्यवादेः शाब्दधीविषयत्वमावश्यकमित्युच्यते ? तदाऽनद्यतनंबोधेपीहशीमेव युक्तिं गृहाण । . एवम् — न पक्ष्यति' इत्यादावभावेऽनागतकालावच्छिन्नत्वभानमावश्यकम्, लुडर्थत्वेन विवक्षितं कालमाह- पक्तेति । अनद्यतनमविष्यत्वार्थमाह- शब्देति । पक्षान्तरमाह- शब्देति । कालभूतलुडथै मतान्तरमाह- केचिदिति । तस्य लुटः । तत्साधुता लुट्साधुता । लुडर्थकृतावनद्यतनत्वं स्वरूपसदस्तीति 'अद्य पक्ष्यति । इत्यस्य स्थाने ' पक्ता ' इतिप्रयोगोऽसाधुरेवेत्याह- असाधुत्वादिति । ' पक्ष्यति' इत्यस्य सामान्यतो भविष्यदर्थकत्वेन तत्स्थाने ' पक्ता ' इतिप्रयोगः संभवत्येवेत्यभिप्रायेणोक्तम् ' अध पक्ष्यति । इति । परिहरति- तन्नेति, प्रतिबन्युत्तरमाह-- तथा सतीति । तथा सति-अनद्यतनत्वस्य लुडर्थत्वाभावे सति । : शङ्कते-पचतीति । कालविशेषबोध इति-पति ' इत्यत्र वर्तमानकालबोधः, 'पक्ष्यति' इत्यत्र भविष्यत्कालबोधः । उत्तरमाह- तदेति । पुनराशकते- यदीति । सति जाते। उत्तरमाह- तदेति । ईदृशीम् = पक्का' इतिवाक्यजन्यबोधे जातेऽनद्यतनत्वसंशयानुदयादनद्यतनत्वस्य शाब्दधीविषयत्वमावश्यकमिति तादृशानद्यतनत्वस्यान्यतो भानासंभवाल्लुडर्थत्वं सिद्धमेवेत्यर्थः । ___ यथा ' पक्ष्यति । इत्यादौ कृतौ कालान्वयस्तथा 'न पक्ष्यति । इत्यादि नसमभिव्याहारस्थले कृत्यभावे .एव कालान्वयः कर्तव्यो न तु कृती- पूर्वमेव " नतमभिव्याहारस्थलेपि ५९५ " इत्यादिना दोषस्य प्रदार्शतत्वात्, किं च भविष्यत्कालिकचैत्रकृतेरसंभवेनाऽसद्भूत "Aho Shrutgyanam" Page #614 -------------------------------------------------------------------------- ________________ ( ६०२ ) सादर्श: [ आख्यातप्रकरणे - अन्यथा पक्ष्यत्यपि वर्तमानवृत्तिपाककृत्यभावमादाय ' न पक्ष्यति' इत्यादिप्रयोगप्रसङ्गात् । न च पक्ष्यत्यप्यऽनागतयत् किंचित्कालावच्छेदेन वर्तमानमभावमादाय ' न पक्ष्यति इतिप्रयोगो दुर्वार एवेति वाच्यम्, अनागतकालावच्छिनत्वं हि तत्र वर्तमानक्षणध्वंसावच्छिन्नत्वम्, तादृशध्वंसनिष्ठावच्छेदकता चानवच्छिन्ना ग्राह्या, अनागतकृतिमति च पुंसि तदभाववृत्तौ वर्तमानक्षणध्वंसरूपः कालः प्रतियोगिवृत्तावप्यवच्छेदक इति विरोधभञ्जनाय तादृशकृत्यनवच्छेदकावान्तरकाल एवावच्छेदक उपेय इति नोक्तातिप्रसङ्ग इति । 3 “ त्वात् तत्र कालान्वयाऽसंभवादित्यभिप्रायेणाह - एवमिति । विपक्षे बाधकमाह- अन्यथेति, अन्यथा=यद्युक्ताभावेऽनागतकालाम्बयो न स्वीक्रियेत तदाऽनागतकालानवच्छिन्नमेव कृत्यमाद मादाय न पक्ष्यति' इति प्रयोगो भविष्यति तथा च वर्तमानं वृत्तम् = भूतं च पाककृत्यभावमादाय किं वा वर्तमान वृत्तिम् = वर्तमानकालवर्तिनं पाककृत्यभावमादायापि न पक्ष्यति ? इति प्रयोगः स्यादेव - एतादृशस्यापि कृत्यभावस्याऽनागतका लानवच्छिन्नत्वादेव, यदा चानागतकालस्य कृत्यभावेऽन्वयः स्वीक्रियते तदा वर्तमानेत्यायुक्ताभावमादाय ' न पक्ष्यति' इति प्रयोगापत्तिर्नास्ति - वर्तमानाभावे वर्तमानकालस्य भूताऽभावे च भूतकालस्यान्वयसत्त्वेन तत्रानागतकालान्वयस्यासंभवादित्यर्थः । अत्र च यद्यपि भविष्यत्कालिक चैत्रकृतेरसंभवेन तदभावस्याप्रसिद्धिरिति न तादृशकृत्यभावेपि भविष्यत्कालान्वयः संभवति तथापि चैत्रीयवर्तमानकृतेः प्रसिद्धत्वेन तादृशकृत्यभावो भविष्यत्काले प्रसिद्धयत्येवेति तत्रैव भविष्यत्कालान्वयो विज्ञेयः । अञ वर्तमानवृत्ति " इत्यस्य स्थाने वर्त्तमानवृत्त " इत्यपि पाठः स चापि व्याख्यात एव । ननु यो भविष्यत्काले पाकं करिष्यत्यपि सोपि न सकलभविष्यत्काले पाकं करिष्यति किं तु यतुर्किचिद्भविष्यत्काले एव तथा च तदन्ययत् किंचिद्भविष्यत्काले वर्तमानम् - सन्तम् = यत् किंचिद्भविष्यत्कालावच्छिन्नं कृत्यभावमादायाभावे उक्तकालान्वयस्वीकारेण पक्ष्यत्यपि ' न पक्ष्यति' इति प्रयोगः स्यादेवेत्याशङ्क्याह - न चेति । उत्तरमाह - अनागतेति, तत्र = ' न पक्ष्यति ' इत्यत्र कृत्यभावे यदनागतकालावच्छिन्नत्वमुक्तं तद् वर्तमानक्षण ध्वंसावच्छिन्नत्वरूपं ज्ञेयम्, एवं हि कृत्यभावस्यात्र वर्तमानक्षणध्वंसावच्छिन्नत्वे प्राप्ते तादृशध्वंस एव कृत्यभावस्यावच्छेदक इति प्राप्तं तादृशावच्छेदकीभूतध्वंसनिष्ठा चाऽवच्छेदकता कालानवच्छिन्नैव प्राह्मा तथा च न पक्ष्यति ' इत्यत्र नञा सामान्यत एव वर्तमानक्षणध्वंसावच्छिन्नकृत्यभावो बोध्यते न त्वनाSगतयत् किंचित् कालावच्छिन्न वर्तमान क्षण ध्वंसावच्छिन्नकृत्यभावो येनानागतयत् किंचित् कालाव 46 L ८ " च्छिन्नकृत्यभावमादाय पक्ष्यत्यपि न पक्ष्य इतिप्रयोगः स्यादित्यर्थः । प्रदर्शितदोषस्याभावं स्वयमप्युपपादयति- अनागतकृतीति, अनागत कृतिमति पुरुषे तदभाववृत्तौ - अनागतकृत्यभावसत्त्वे ( अनागतकृत्यभावे सति ) वर्तमानक्षणध्वंसरूपः कालस्तदभाववृनाववच्छेदकः स्यात् प्रतियोगिवृत्तौ = अनागतकृतिवृत्तावप्यवच्छेदक ः स्यात् अर्थात् यद्यनागतक ८८ "Aho Shrutgyanam" .. Page #615 -------------------------------------------------------------------------- ________________ लुटोऽनद्यतनभविष्यदर्थकत्वम् ] व्युत्पत्तिवादः। उक्तयुक्त्याऽनागतत्वस्य यथा लडाद्यर्थत्वं तथा 'अद्य पक्ष्यति न पक्ता' इत्यत्रानद्यतनकालावच्छिन्नत्वस्याभावेऽभाने पक्ष्यत्यप्यन्यतनानागतकालावच्छिन्नपाककृत्यभावमादाय ‘न पक्ता' इतिप्रयोगासनेन लुटोऽनद्यतनार्थत्वमावश्यकम् । अनागतानद्यतनकालावच्छिन्नत्वमप्युक्तरीत्यातिप्रसङ्नावारणाय प्रकृतशब्दप्रयोगाधिकरणदिनध्वंसनिष्ठानवच्छिन्नावच्छेदकताकत्वरूपं ग्राह्यम् । अवच्छेद्यावच्छेदकभावश्च संबन्धविधया भासते ध्वंस एव पदार्थ इत्यवधेयम् । तिमति पुंसि तदभावः अनागतकृत्यभावः स्यात्तदा वर्तमानक्षणध्वंसरूपः कालोऽनागतकृतेस्तदमावस्य चावच्छेदकः स्यात् न चैतत्संभवति- एकस्यैव पदार्थस्य तत्तदभाषोभयावच्छेदकत्वाऽसंभवादिति वर्तमानक्षणध्वंसरूपकालस्यानागतकृतितदभावोभयावच्छेदकत्वप्राप्तिरूपस्य विरोधस्य मलनाय-परिहाराय तादृशकृत्यनवच्छेदकोऽवान्तरकाल एव तदभावावच्छेदक इत्युपेयम्-अर्थात पक्ष्यमाणे पुरुषे याऽनागतकृतिस्तदवच्छेदकोऽन्योवान्तरकालस्तादृशकृत्यमावावच्छेदकश्चान्योऽ. वान्तरकाल इति स्वीकार्य तथा चानागतकृत्यवच्छेदकावान्तरकाले पक्ष्यमाणे पुंसि 'न:पक्ष्यति । इतिप्रयोगापत्तिरूपोतिप्रसङ्गो नास्ति- अनागतकृत्यवच्छेदकावान्तरकालापेक्षयाऽनागतकृत्यभावावच्छेदकावान्तरकालस्य भिन्नत्वात, किं चानागतकृतितदभावयोरवच्छेदककालयोरेवं भेदे प्राप्ते उक्तावच्छेदकताविरोधोपि नास्तीत्यर्थः । प्रकृतमाह- उक्तयुक्त्येति यथाऽनागतत्वं लूडर्थस्तथाऽनद्यतनत्वं लुर्थ इति स्वीकर्तव्यम्, अन्यथा 'भद्य पक्ष्यति न पक्ता ' इत्यत्र पाशानुकूलकृत्यमावेऽनद्यतनत्वस्यान्वयस्तद्भानं च, न स्यात् तथा च श्वा-आगामिदिने पक्ष्यत्यपि पुरुषेऽद्यतनाऽनागतकृत्यभावमादाय ' न पक्ता, इतिप्रयोगापत्तिः स्यादेव न चैतदिष्टं तस्मादनद्यतनत्वं लुडर्थोस्त्येव तथा च 'न पक्ता ' इत्यत्र नाऽनद्यतनानागतस्य कृत्यभावस्य बोधनादद्यतनानागतकृत्यभावमादाय श्वः पक्ष्यति पुंसि 'न पक्ता । इतिप्रयोगापत्तिर्नास्तीत्यर्थः। अनागतेति-न पक्ता ' इत्यत्र पाकानुकूलकृत्यभावेऽनागतानद्यतनकालावच्छिन्नत्वम्-वर्त. मानदिनध्वंसावच्छिन्नत्वमस्तीति ताशवर्तमानदिनध्वंसनिष्ठा याऽवच्छेदकता सा दर्शितदिशा कालानवच्छिन्ना ग्राह्या. अन्यथाऽनद्यतनानागतकाले 'पक्ष्यत्यपि पुरुषेऽनद्यतनानागतयत्किंचित्कालावच्छिन्नं कृत्यभावमादाय ' न पक्ता' इतिप्रयोगापत्तिरूपोतिप्रसङ्गः स्यादेवेत्यर्थः । 'न पक्ता' इत्यत्र कृत्यभावे यदनागतानद्यतनकालावच्छिन्नत्वं तत् प्रकृतशब्दः' न पक्ता, इतिशग्दस्तत्प्रयोगाधिकरणदिनस्य यो ध्वंसस्तनिष्ठा याऽनवच्छिन्नावच्छेदकता तादृशानवच्छिनावच्छेदकताकत्वरूपं ग्राह्यमित्यन्वयः । ' पक्ता ' इत्यत्रापि यत् पाकानुकूलकृतावुक्तवर्तमानदिनध्वंसरूपलुडर्थकालावच्छिन्नवं भासते तत्रोक्तध्वंस एव लुखाद्यर्थोस्ति तादृशध्वंसस्य योऽनद्यतनाऽनागतकालेनावच्छेद्यावच्छेदकमावः स संबन्धविधया भासते इत्याह-अवच्छेयेति । ध्वंसः= लुट्लूडाद्यर्थवेनाभिमत उक्तविशिष्टध्वंस एव पदार्थः लुलडाद्यर्थः । "Aho Shrutgyanam' Page #616 -------------------------------------------------------------------------- ________________ (६०४) सादर्शा [ आख्यातप्रकरणे 'अथ नञ्समभिव्याहारस्थलोप कृतावेव कालान्वयोस्तु. अनागतकृतिश्च महाप्रलयस्याऽप्रामाणिकतया सर्वत्रैव प्रसिद्धयतीति न प्रतियोग्यप्रसिद्धिः, अभावान्वयश्चात्मनि कालानवच्छिन्नाश्रयतासंबन्धेनोपगम्यतामिति चेत् ?, नयदुत्तरकाले चैत्रीयौदनपाकादिकमप्रसिद्धं तदानीम् 'चैत्र ओदनं न पक्ष्यति' इतिप्रयोगानुपपत्तेः- अनागतचैत्रीयौदनकर्मकपाकानुकूलकृत्य प्रसिद्ध्या तदभावप्रत्यायनासंभवात् । न चाभावे कालान्ययोपगमोप यत्तण्डुलव्यत्तयादिकर्मकपाक एवाप्रसिद्धस्तद्व्यत्तयादिपरस्य 'एतत्तण्डुलं न पक्ष्यति' इत्यादिवाक्यस्याऽप्रमाणत्वापत्ति:प्रतियोग्यप्रसिद्धेर्दुरित्वादिति तत्र पाके तव्यक्तिकर्मकत्वाभाव एव नत्रा बोध्यते इत्युपगन्तव्यं तथा चोक्तस्थलेपि तत्तत्पाके चैत्रीयौदनकर्मकत्वाभावबोधोपगमेनोपपत्तिरिति वाच्यम्, पाके तत्कर्मकत्वाभावबोधोपगमे तादृशपाकानुक " नञ्तमभिव्याहारस्थले प्रतियोगिन्येव कालान्वयः ॥ इत्यादि (पृ. ५९५) यदाशङ्कितं तदेवाशङ्कते- अथेति । योत्र प्रतियोग्यप्रसिद्ध्या ( पृ. ५९५ ) दोषः प्रदर्शितस्तं पराचष्ट- अनागतेति, यदि महाप्रलयः स्यात्तदा तदधिकरणककृतेरप्रसिद्ध्या प्रतियोग्यप्रसिद्धिः स्यादपि न चैवमस्ति, महाप्रलयान्यकाले तु कस्या अपि कृतेः सत्त्वादत्यन्ताभावो न संभवतीत्यर्थः । यदुक्तम् " न च कालानवच्छिन्नाधारतासंबन्धेन (पृ. ५९५)" इति- तदेवाहअभावान्वय इति । परिहरति- नेति । यदुत्तरकाले यादृशोत्तरकाले ( यदा शब्दप्रयोगाधिकरणकालानन्तरम् ) चैत्रकर्तृकपाकोऽप्रसिद्ध: असंभवी तदानीम्=तादृशोत्तरकाले चित्र भोदनं न पक्ष्यति । इतिप्रयोगानुपपत्तिः स्यात् त्वया तत्र तादृशोत्तरकालवृत्तिकृतेरमाषः प्रत्यायनीयः स च न संभवति- प्रतियोगिभूतायास्तादृशोत्तरकालवृत्तिकृतेरप्रसिद्धत्वादित्यर्थः, तस्मात् नसमभिव्याहारस्थले कृत्यभावे एव कालान्वयः कर्तव्य इति सर्व प्रतिपादितम् । ननु 'न पक्ष्यति' इत्यादौ पाकानुकूलकृतेरमावेपि कालान्वयोपगमे यत्तण्डुलव्यक्तिकर्मकपाकोप्रसिद्धस्तद्व्यक्तिपरस्य-तत्तण्डुलव्यक्तिमुद्दिश्य प्रयुक्तस्य एतत्तण्डुलं न पक्ष्यति ' इतिवाक्यस्याऽप्रामाण्यं स्यादेव- प्रतियोग्यप्रसिद्धेः तत्तण्डुलकर्मकपाकाप्रसिद्धौ तदनुकूल कृतेरप्यूप्रसिद्धिः प्राप्ता कृत्यभावबोधनस्थले च कृतिरेव प्रतियोगिभूता भवति अप्रसिद्धप्रतियोगिकामावबोधस्य चानम्युपगमात्, न चोक्तस्थलेप्युक्तवाक्यस्याऽप्रामाण्यमिष्टमिति तत्यामाण्योपपत्त्यर्थं तत्र पाके तत्तण्डुलव्यक्तिकर्मकत्वाभाव एव नना बोध्यते इतिस्वीकार्य तथा चोक्तस्थलेपि यदुत्तरकाले चैत्रीयौदनपाकादिकमप्रसिद्धं तदानीम् 'चैत्र ओदनं न पक्ष्यति' इत्यत्रापि तत्पाके चैत्रीयौदनकर्मकत्वाभावचैत्रकर्तृकत्वौदनकर्मकत्वाभाव एष नत्रा बोध्यते तच्च संभवत्येवेति नोक्तस्थले एतद्वाक्य प्रयोगानुपपत्तिरित्याशङ्क्याह- न चेति । अत्रापि दोषमाह- पाके इति, चैत्र ओदनं न पश्यति ' इत्यत्र पाके चैत्रीयौदनकर्मकत्वाभावबोधस्वीकारे एतदभावान्वयिपाकस्याऽनागतस्य "Aho Shrutgyanam" Page #617 -------------------------------------------------------------------------- ________________ लुढर्थकालान्वयनिर्वचनम् ] व्युत्पत्तिवादः । (६०५) लानागतकृतेः कतरि भानस्योपगन्तव्यतया तदुत्तर कदाचिदपि येन न पक्ष्यते तादृशकर्तृसमभिव्याहृतदर्शितवाक्यस्य प्रामाण्योपपादनाऽसंभवात् । अगत्या तु यत्कर्मको यत्कर्तृका पाकोऽप्रसिद्धस्तादृशकर्मकर्तृघटितार्थकनपदवदाक्यस्थाऽयोग्यतोपगम्यते। __ केचित्तु तत्रापि पाके तत्कर्मकत्वाभावस्य तादृशे च कर्तरि पाककृत्यभावस्य बोधमुपगम्य प्रामाण्यमुपपादयन्ति- तात्पर्यसत्त्वे एकेनापि नञाऽभावद्वयबोधनसंभवात् । न चैवं तण्डुलमात्रं पचति पक्ष्यति वा चैत्रेपि तण्डुलमयं न पचति न पक्ष्यति' इतिप्रयोगः स्यात्- तत्तण्डुलाऽकर्मकपाकानुकूलवर्तमानादिकृत्यऽभावाऽबाधादिति वाच्यम्, यतः सुबर्थप्रतियोगिकस्वार्थाभावान्वितक्रियाकर्तृत्वाभाव बोधकत्वं नञः 'आकाशं न पचति घटः' इत्यादावपि न स्वीक्रियते-ताहप्रसिद्धिः स्वीकार्य पाकप्रसिद्धया च तादृशपाकानुकूलानागतकृतेरपि प्रसिद्धिः प्राप्तैव तस्याश्च कृतेस्तादृशपाककर्तरि भानमुपगन्तव्यं तथा च तदुत्तरम्-वर्तमानकालानन्तरं येन पुंसा कदाचिदपि न पक्ष्यते तादृशकर्तसमभिव्याहृतस्य-पाकव्यापाररहितकर्तृसममिव्याहृतस्य 'चैत्र ओदनं न पक्ष्यति' इतिवाक्यस्य प्रामाण्यं न स्यात- तत्र चैत्रीयपाकव्यापारस्याप्रसिद्धत्वेन तत्र चैत्रीयौदनकर्मकत्वाभावान्वयस्याऽसंभवादित्यर्थः । तस्माद् नञ्समभिव्याहारस्थले नअर्थाभावे एवं प्रत्ययार्थकालस्यान्वयो युक्त इति तात्पर्यम् । ननु यत्कर्मको यत्कर्तृकश्च पाकोऽप्रसिद्ध एव तादृशकर्तृकर्मघटितस्य “ अयमेतत्तण्डुलं न पक्ष्यति । इतिवाक्यस्य वन्मते का गतिरित्याशक्य तादृश्यवाक्ये बाधाभावरूपयोग्यताया अमावादगत्या प्रामाण्याभाव एवेत्याह- अगत्येति । ... मतान्तरमाह- केचिदिति,तत्र-यत्कर्मको यत्कर्तृकश्च पाकोऽप्रसिद्धस्तादृशकर्तृकर्मघटितार्थके नपदवति 'अयमेतत्तण्डुलं न पक्ष्यति' इतिवाक्येपि पाके तत्कर्मकत्वामावस्य तादृशकर्तरि च पाककृत्यमावस्यान्यत्र प्रसिद्धप्रतियोगिकस्य बोधमुपगम्य प्रामाण्यमुपपादयन्ति । नन्वेकस्य नञ्पदस्योक्ताभावद्वयबोधकत्वं कथं स्यादित्याशङ्क्याह- तात्पर्यसत्त्वे इति । शङ्कते- न चेति, तण्डुलं पचत्यपि चैत्रे ' तण्डुलमयं न पचति । इति प्रयोगः स्यात--तदानीं चैत्रे पच्यमानतण्डुलकर्मकपाकानुकूलकृत्यभावस्य बाधेपि पच्यमानतण्डुलाऽकर्मकपाकानुकूलकृत्यभावस्य वर्तमानस्याऽबाधात्. अर्थात् नञोऽभावद्वयबोधकत्वस्वीकारेणात्रापि पाके तादृशतण्डुलकर्मकत्वाभावस्य चत्रे च तादृशपाककृत्यभावस्य बोधसंभवेन विशिष्टस्यापि तत्तण्डुलाकर्मकपाकानुकूलकृत्यभावबोधस्य संभवादिति । एवं पक्ष्यत्यपि ' न पक्ष्यति । इतिप्रयोगापत्तिदलस्य योजना विज्ञेया । आदिपदादस्मिन् पक्षेऽनागतकृत्यभावाबाधादिति वक्तव्यम् । परिहारमाह-यत इति, त्वया हि तत्तण्डुलाकर्मकेतिवचनेन सुबर्थप्रतियोगिकः द्वितीयार्थतण्डुलकर्मकत्वप्रतियोगिको यः स्वार्थोऽभावस्तदन्विता या पाकक्रिया तत्कर्तृत्वाभावबोधकत्वं नत्र उक्तं तत्तु 'आकाशं न पचति घटः । इत्यत्रापि पाककर्मताशून्याकाशस्य पाककर्तृत्वशून्यघटस्य च समभिव्याहारस्थलेपि न स्वीक्रि "Aho Shrutgyanam" Page #618 -------------------------------------------------------------------------- ________________ (६०६.) साद [आख्यातप्रकरणेशबोधजनकताया अव्युत्पन्नत्वाद येनोक्कातिप्रसङ्ग स्यात्, किं तु. 'पाक आकाशाकर्मक: पाककृत्यभाववान् घटः' इत्यादिसमूहालम्बनबोध एव, उक्तस्थले च चैत्रे पाककर्तृत्वाभाववाधान प्रामाण्यप्रसङ्गः । अस्तु वा तत्राभावान्वितक्रियाकर्तृत्वाभावविषयकोऽसमूहालम्बनरूप एव बोधस्तथापि न दर्शितातिप्रसङ्गःतादृशबोधेन्वयितावच्छेदकावच्छेदेन प्रथमाभावभाननियमात् पाकत्वावच्छेदेन च तण्डुलादिकर्मकत्वाभावान्वये योग्यताविरहात् । 'अन्ध आकाशं न पश्यति' इत्यादांवपीहशी गतिः। अथ यत्तण्डुलादिकर्मको यत्पुरुषकर्तृका पाको प्रसिद्धस्तत्पुरुषेऽन्यकर्मकपाकयते का कथा पुनः तण्डुलमयं न पचति । इत्यत्र तादृशबोधप्रसङ्गस्येत्यर्थः, तथा च न तण्डुलं पचत्यपि 'तण्डुलमयं न पचति । इतिप्रयोगापत्तिरित्याह- येनेति । ननु 'आकाशं न पचति घटः ' इत्यत्र ययुक्तरूपो न वाक्यार्थबोधस्तदा कीदृशो बोधो भवतीत्याशक्याहकिं त्विति । एवं च ' तण्डुलमयं न पचति । इत्यादिस्थलेपि ' पाकस्तण्डुलाकर्मकश्चैत्र: पाककृत्यभाषवान् । इत्याकारकसमूहालम्बनात्मकबोध एव स्वीकर्तव्यस्तत्तु न संभवति- पचति चैत्रे पाककृसेरेव सत्त्वेन पाककृत्यभावस्य बाधात् तथा चोक्तस्थले पचति चैत्रे न पचति । इति वाक्यस्य न प्रामाण्यप्रसङ्गः, तथा च पचति चैत्रे न ' न पचति । इति प्रयोगापत्ति:अप्रमाणत्वादित्याह-उक्तस्थले इति । नत्र उक्तविशिष्टबोधजनकत्वमभ्युपगम्योक्तप्रयोगापत्ति परिहरति- अस्तु वेति, तत्र पचमानमपि चत्रमुद्दिश्योक्ते न पचति ' इतिवाक्येऽभावान्वितातत्तण्डुलकर्मकवाभावान्विता या पाकक्रिया तदनुकूलकृत्यभावविषयक एव तत्तण्डुलाकर्मकेत्यादिनोको विशिष्टोऽसमूहालम्बनरूपो ना बोधो भवतु तथापि दर्शितः पञ्चत्यपि चैत्रे 'न पचति' इतिप्रयोगातिप्रसङ्गो नास्त्येवेत्यन्वयः । अतिप्रसङ्गाभावे हेतुमाह-- तादृशबोधे इति, तादृशबोधेउक्तेऽभावान्वितक्रियाकर्तृत्वाभावबोधे प्रथमामावस्यान्वयितावच्छेदकावच्छेदेनान्वयो भवतिनियमादत्रान्वयितावच्छेदकं यत्पाकत्वं तदवच्छेदेनैव तण्डुलकर्मकत्वाभावस्यान्वयः स्यात्. न च पाकत्वावच्छेदेन तण्डुलकर्मकत्वाभावान्वयः संभवति योग्यताभावादिति नैतादृशविशिष्टबोधजनकवाक्यस्य प्रामाण्यं संभवति येन पचत्यपि न पचति ' इतिप्रयोगापत्तिः स्यादित्यर्थः । * भन्ध आकाशं न पश्यति ' इत्यत्रापि 'दर्शनमाकाशाकर्मकं दर्शनकृत्यभाववानन्धः । इतिसमूहालम्बनात्मक एव बोधो भवति नोक्तविशिष्टबोध इत्याह- अन्ध इति । किं वा 'अन्ध आकाशं न पश्यति । इत्यत्र आकाशकर्मकत्वाभावविशिष्टं यद् दर्शनं तदनुकूलकृत्यऽभावविषयको विशिष्टबोधोपि संभवति-आकाशकर्मकत्वामावस्याऽन्वयितावच्छेदकं यद् दर्शनत्वं तदवच्छेदेनान्वयसंभवात् दर्शनानुकूलकृत्यभावस्य चान्धेऽन्वयसंभवात् । वस्तुतस्त्वेतादृशवाक्यानामप्रामाण्यमेवेति पूर्वमेव द्वितीयाकारकग्रन्धे व्युत्पादितमित्यवधेयम् । शङ्कते- अथेति, अन्यपुरुषपच्यमानत्वादेः अन्यपुरुषकर्तृकपाककर्मस्वस्य । अमेति-ताश ... "Aho Shrutgyanam" Page #619 -------------------------------------------------------------------------- ________________ लुडर्यकालान्वयनिर्वचनम् ] व्युत्पचिवादः । (६०७) कर्तृत्वस्य तत्तण्डलादौ चान्यपुरुषपच्यमानत्वादेर्भमदशापाम् ‘तण्डुलमयं न पक्ष्यति ' इत्यादिवाक्यस्य बोधकताया अनुभवसिद्धत्वेनाऽपाकर्तुमशक्यत्वानो. क्तप्रकारः साधीयान्-विरोधिनिश्चयसवेन तत्पुरुषे पाककर्तृत्वसामान्यामावस्य पाकत्वावच्छेदेन तण्डुलकर्मकत्वाभावस्य च प्रतीत्यऽसंभवादितिचेत्, न-तत्र तादृशवाक्यस्यैकाभावावगाहिभ्रमजनकत्वोपगमात् । न च सर्वत्रैव तदुपगमौचित्येन प्रयासवैफल्यमिति वाच्यम्, विशेषदर्शिभिरमतातरकैरपि तथाविधवाक्यप्रयोगात् तस्य प्रसिद्धार्थकतासंपादनस्यावश्यकत्वात् । न च तत्तण्डुतण्डुलकर्मकपाकस्याऽप्रसिद्धत्वात् तादृशतण्डुले यत्पच्यमानत्वज्ञानं तभ्रमात्मकमेव संभवति यत्पुरुषकर्तृकश्च पाकोऽप्रसिद्धस्तादृशपुरुषे पाककर्तृत्वज्ञानमपि अमात्मकमेव स्यान्न तु प्रमात्मकमित्युक्तम्--भ्रमदशायामिति । एतादृशभ्रमदशायाम् ‘तण्डुलमयं न पक्ष्यति । इतिवाक्यस्य बोधजनकत्वानोक्तप्रकारः साधीयान्, उक्तप्रकार:=प्रथमाभावस्याऽन्वयितावच्छेदकावच्छेदेनान्वयो भवति. इति प्रकारो न साधीयानित्यन्वयः, उक्त हेतुमाह-विरोधीति, विरोधिनिश्चयस: त्वेन तत्तण्डुले पाककर्मत्वनिश्चयसत्त्वेन तत्पुरुषे पाककर्तृत्वनिश्चयसत्त्वेन च तत्पुरुषे पाककर्तृत्वाभावस्य पाके तण्डुलकर्मकत्वाभावस्य च प्रतीतिर्न संभवति । उक्तप्रकारस्य च साधुस्वेऽत्रापि प्रथमाभावस्य-तण्डुलकर्मकत्वामावस्य पाकत्वावच्छेदेनान्वयः स्यात् न च पाकत्वावच्छेदेन तण्डुलकर्मकत्वाभावान्वययोग्यतास्तीति योग्यताया अभावात् तादशबोधजनकत्वं न स्यात् अस्ति च बोधजनकत्वमिति नोक्तप्रकार: साधीयानित्यर्थः। परिहरति-नेति, तत्र उक्तश्रमदशायाम्, ताशवास्यस्य तण्डुलमयं न पक्ष्यति ' इति वाक्यस्य तण्डुलकर्मकत्वाभावविशिष्टपाकानुकूलकृस्यमावबोधकत्वरूपमऽभावद्वयावगाहिभ्रमजनकत्वं नास्ति किं त्वेकामावावगाहिभ्रमजनकत्वम्-तण्डुलकर्मकपाकानुकूलकृत्यभावबोधकत्वमेव स्वीक्रियते तच्च संभवत्येव तत्पुरुषे तण्डुलकर्मकपाककृत्यभावस्याऽबाधादिति पूर्वोक्तस्थले उक्ताभावद्वयावगाहनस्वीकारेपि किं वा प्रथमाभावस्यान्वयितावच्छेदकावच्छेदेनान्वयनियमेपि न दोष इत्यर्थः । ननु 'आकाशं न पचति घटः ' इत्यादावपि 'आकाशकर्मकपाककृत्यभावबोधकत्वरूपमेकाभावावगाहिज्ञानजनकत्वमेव युक्तं न त्वभावद्वयावगाहिज्ञानजनकत्वमित्याशक्याह न चेति । परिहारमाह- विशेषेति, ये खलु पाके आकाशकर्मकत्वाभावं घटे च पाककर्तृत्वाभावं जानन्ति तेपि 'आकाशं न पचति घटः । इति प्रयोगं कुर्वन्तीति तस्य प्रयोगस्य प्रसिद्धार्थकतासंपादनायाऽभावद्वयावगाहिबोध उपगम्यते-- आकाशकर्मकत्वं प्रतिपादनादी प्रसिद्धमस्ति तदभावः पाकेन्वेति पाककर्तृकत्वं पुरुषादी प्रसिद्धं तदभावो घटेऽन्वेतीत्यभावद्वयावगाहिबोधजनकत्वं संभवति न त्वेकाभावावगाहिंबोधजनकस्वम्- भाकाशकर्मकपाकाऽप्रसिद्धरित्यर्थः । ननु पाके तत्तण्डुलकर्मकत्वं हि तत्तण्डुलनिष्ठविक्लित्तिजनकत्वमेव तथा च पाकस्य तत्तण्डुलकर्मकत्वं नास्तीति तत्तण्डुलनिष्ठविक्लित्तिजनकत्वस्याप्रसिद्धचा "Aho Shrutgyanam" Page #620 -------------------------------------------------------------------------- ________________ ( ६०८ ) सादर्श: [ आख्यातप्रकरणे - लादिकर्मकत्वम् = तन्निष्ठविक्लित्तिजनकत्वं तदपि चाप्रसिद्धमिति कथं पाके तद्भावप्रत्यय इति वाच्यम्, विक्लित्त्यादावेव तत्तद्वृत्तित्वाभाव बोधोपगमात् । * अपाक्षीत् ' इत्यादौ लुङोऽतीतकालोऽर्थः, तस्याप्याख्यातसामान्यार्थकृत्यादावन्वयः, तस्य च संबन्ध आधेयत्वम् । अथः वा कालाऽविशेषणतयैवातीतत्वं ङोर्य आश्रयतासबन्धेन च तस्य कृत्यादावन्वयः - कालान्तर्भावस्य व्यर्थत्वात् । अतीतत्वम् = वर्तमानध्वंसप्रतियोगित्वम् । वस्तुतो वर्तमानध्वंस एव ढुङाद्यर्थस्तस्य प्रतियोगितासंबन्धेन कृत्यादावन्वयः । मध्यदशायाम् क्षीत् ' इत्यादिप्रयोगवारणमुक्तरीत्या बोध्यम् । L अपा - पाके तत्तण्डुलकर्मकत्वाभावबोधोपि कथं स्यात् - अप्रसिद्धप्रतियोगिकाभावस्याऽस्वीकारादित्याशङ्कयाह - न चेति । उत्तरमाह - विक्कित्त्यादाविति, तत्तद्वृत्तित्वाभावस्य तत्तत्तण्डुल वृत्तिस्वाभावस्य बोध उपगम्यते तथा च तण्डुलवृत्तित्वाभाववती या विक्कि तिस्तादृशविक्कित्तिजनकपाकानुकूलकृत्यभाववान् इतिबोधः स्यात्, अन्यवृत्तिविक्लित्तौ च तण्डुलवृत्तित्वाभावः प्रसिद्ध एवेति न कोपि दोष इत्यर्थः । लुकालं निरूपयति- अपाक्षीदिति, तस्य = लुङर्थ भूतस्यातीतकालस्य, तस्य लुकालस्य । ' अपाक्षीत् ' इत्युक्तकृतिर्हि तादृशकाले आसीदिति तादृशकालस्य कृतावाधेयतासंबन्धेनान्वयः । पक्षान्तरमाह- अथ वेति, लुङोऽतीतकालार्थत्वे ह्यर्तीतत्वं काले विशेषणमस्ति संप्रति कालेऽविशेषणीभूतमेवाऽतीतत्वम् = अतीतत्वमात्रमेव लुङर्थ इत्यर्थः, अतीतत्वं च कृतावेवेति तस्य= अतीतत्वस्याश्रयतासंबन्धेन कृतावन्ययः I कालान्तर्भावस्य = विशिष्टस्याऽतीतकालस्य लुङर्थत्वस्वीकारवैयर्थ्यात् । अतीतत्वपदार्थमाह- अतीतत्वमिति, वर्तमानो योऽतीतकृतिच्वंसस्तत्प्रतियोगित्वं यदतीत कृतावस्ति तदेवातीतत्वमित्यर्थः । स्वाभिप्रायमाह - वस्तुत इति, वर्तमानध्वंसः वर्तमानो यः कृतिध्वंसः स एव लुङोर्थस्तस्य = वर्तमानध्वंसस्य तादृशध्वंसप्रतियोगिता कृतावस्त्येवेति तेन संबन्धेन तस्य कृतावन्वय इत्यन्वयः । मध्यदशायामिति - वर्तमानपाकस्याप्याद्या कृतिर्नष्टेति तद्ध्वंसस्य पाकवर्तमानतादशायामपि सत्त्वात् ' अपाक्षीत् ' इति - प्रयोगः स्यादेवेति तद्वारणं पूर्वोक्तरीत्या बोध्यम् । मध्यदशायाम् = पाकमध्यदशायाम् | उक्तरीत्या = " वर्तमानप्रागभावस्य प्रत्ययार्थत्वे तस्य १९९ " इत्याद्युक्तरीत्या, तथा हि वर्तमानध्वं सस्य स्वविशिष्टकालवृत्तिकृतिजन्यपाकाननुकूलत्वविशिष्टप्रतियोगितासंबन्धेन कृतावन्वयः कर्तव्यः, अत्र स्वं वर्तमानध्वंसस्तदूविशिष्टो यो वर्तमान कालस्तद्वृत्तिकृतिजन्यो यः पचमानपुरुषकर्तृकः पाकस्तदननुकूलत्वसमानाधिकरणप्रतियोगिता संबन्धेन वर्तमानध्वंसस्य लुङर्थस्य कृतावन्वयः कर्तव्यस्तथा च पचमानकर्तृकर्तृकपाकानुकूलातीतकृतौ वर्तमानध्वंसप्रतियोगितायाः सत्त्वेप्युक्तस्वविशिष्टकालवृत्तिकृतिजन्यपाका ( पचमानकर्तृकपाका ) ननुकूलवं नास्ति - पचमानकर्तृकपाकानुकूलत्वस्यैव सत्त्वादिति न पचमानकर्तृकपाकानुकूलातीतकृतावुक्तसंबन्धेन वर्तमानध्वंस "Aho Shrutgyanam" Page #621 -------------------------------------------------------------------------- ________________ लङलिटोरर्थः] व्युत्पत्तिवाद। लङ्गप्रत्ययस्वाऽतीतत्ववदनद्यतनत्वमप्यर्थ:- अद्य पचति 'अपचत् । इत्यप्रयोगात् । “ अभून्नृपः" इत्यादावनद्यतनत्वसत्त्वेपि तदविवक्षया न लङ्गप्रत्ययेन लुबाधः । अतोप्यऽनयतनत्वबोधकत्वं लप्रत्ययस्यावश्यकम्- स्वरूपसदनद्यतनत्वस्य लङ्साधुतानियामकत्वेनद्यतनत्वस्य वस्तुसतोऽविवक्षामा णोक्तस्थले लवारणानुपपत्तेः । इदमप्यग्नघतनत्वम्-प्रकृतशब्दप्रयोगाधिकरणदिनाऽवृत्तित्वम् । अथ वा स्वातन्त्र्येणाऽनद्यतनत्वं न लङर्थः किं तु ताशदिनाचक्षणवृत्तिध्वंसप्रतियोगित्वरूपमऽनद्यतनातीतत्वं विशिष्टमेव । अतीतत्वमऽनद्यतनत्वं परोक्षत्वं च लिटोर्थः । “ अध्यास्त सर्वर्तुसुखामयोध्याम् " इत्यादौ परोक्षत्वसत्त्वेपि परोक्षत्वाविवक्षया न लिट् । परोक्षत्वं च वक्तुः साक्षात्काराविषयत्वम् । . स्यान्वयः संभवतीति न पचमाने पुरुषे मध्यदशायां वर्तमानपाकानुकूलातीतकृतिमादाय — अपाक्षीत् । इतिप्रयोगापत्तिरित्यर्थः । वस्तुतस्तु- अन्त्यकृतिध्वंसस्य लुङर्थत्वं स्वीकार्य तथा च वर्तमानपाकानुकूलान्यकृतेः पाकवर्तमानतादशायां ध्वसो न जात इति न तदानीम् ' अपाक्षीत् ' इतिप्रयोगापत्तिरी तिश्रीगुरवः । लङर्थभूतकालं निरूपयति- लङ्प्रत्ययस्येति । अतीतानद्यतनत्वं लङर्थ इत्यर्थः । उक्त हेतुमाह- अद्येति, यदि लोऽनद्यतनत्वं न स्यात्तदाद्य पचत्यपि-वर्तमानदिने कृतो नष्टश्च यः पाकस्तत्कर्तर्यपि चैत्रे ' अपचत् । इतिप्रयोगः स्यात्. न चैवं भवति तस्मादजद्यतनत्वमपि लङर्थोस्त्येवेत्यर्थः । ननु यद्यऽनद्यतनातीतत्वं लर्थस्ता " अभून्नृपः " इत्यत्र नृपेऽनद्यततनातीतवस्य सत्तात लदेव स्यान्न तु लङित्याशङ्कयाह- अभूदिति, मनद्यतनत्वस्य विवक्षा नास्तीति लुङः प्रयोगेपि न दोष इत्यर्थः । भनद्यतनत्वस्य लङर्थत्वे उपपत्त्यन्तरमाह-अतोपीति, यदि लङोऽनद्यतनार्थकत्वं न स्यात् किं तु स्वरूपसदेवानद्यतनवं लङ्साधुता नियामक स्वात्तदा स्वरूपसतः वर्तमानस्याऽविवक्षाया असंभवात् तादृशाऽविवक्षामात्रेण "अभून्नृपः " इत्यत्र लछारण नोपपद्येत यदा चानद्यतनत्वं लङर्थ एव तदा तु तस्याऽविवक्षा संभवतीत्यन द्यतनत्वस्याऽविवक्षया " अभून्नृपः " इत्यत्र लवारणं लुङः उपपादानं च संभवतीत्यर्थः । अनद्यतनत्वस्वरूपमाह- इदमिति । अपिशब्दाल्लुडानद्यतनत्वपरामर्शः । पक्षान्तरमाह- अय वेति, तादृशदिनम् शब्दप्रयोगाधिकरणदिनं तस्य य आद्यक्षणस्तवृत्तिध्वंसप्रतियोगित्वमनद्यतनातीतत्वं तदेव लङयः, आद्यक्षणवृत्तिध्वंसग्रहणेन वर्तमानदिने कृते नष्टेपि पाके ' अपचात् । इति लङः प्रयोगापत्तिर्नास्तीत्यर्थः । । लिडर्थभूतकालनिरूपणमारभते- अतीतत्वमिति । ननु यदि परोक्षत्वं लिडर्थस्तदा " अध्यास्त सर्वर्तुसुखामयोध्याम् " इत्यत्रायोध्यायाः परोक्षत्वेन लिट एव प्रयोगः स्यान तु " अध्यास्त " इतिलप्रयोग इत्याशङ्कयाह- अध्यास्तेति, परोक्षत्वविवक्षाया अभावादेवात्र न लिडित्यर्थः । परोक्षत्वस्वरूपमाह- परोक्षत्वमिति । "Aho Shrutgyanam" Page #622 -------------------------------------------------------------------------- ________________ ( ६१० ) खादर्श: [ आख्यातप्रकरणे - " केचित्तु वक्तृभिन्नकर्तृकत्वमेव परोक्षत्वम्, अत एव लिट उत्तमपुरुषाsसंभवेनाsपरोक्षतायामपि लिटः साधुत्वे " णलुत्तमो वा इत्यादेर्शापकत्वमुपायकारोक्तं संगच्छते, अन्यथा निद्रादिदशायां स्वकर्तृकगमनादिक्रियायाः स्वपरोक्षत्वसंभवेन ज्ञापकत्वाऽसङ्गते रित्याहुः । 5 "व्यातेने कलिङ्गे दृष्टोसि, नाहं कलिङ्गान् जगाम इत्यादावत्यन्तापह्नवस्थले सूत्रान्तरेण क्रियाया अपरोक्षत्वेपि लिविधानात् तादृशज्ञापकबलेन किरणावलीम् " इत्यत्र लिटः साधुत्वोपपादनमुपायकृतामयुक्तमेवेति बोध्यम् । अत्यन्ताऽपद्दवश्चाऽबाधितपरोक्त विपरीत बोधनाय तदुपपादकाभावप्रतिपादनेच्छा कलिङ्गाधिकरणकदर्शनादेरुपपादकं कलिङ्गगमनादिकं तेन विना तदसंभवात् । अत्यन्तापह्नवः स्वरूपसन्नेव लिट्साधुतानियामकः । , मतान्तरमाह- केचिदिति । उक्ताध्यासनक्रियायामपि कविभिन्नराजकर्तृकत्वमस्त्येव । अत एव = परोक्षत्वस्य वक्तृभिन्न कर्तृकत्वरूपत्वादेव उत्तमपुरुषस्य च वक्तृकर्तृकत्वालिट उत्तमपुरुषप्रयोगो नैव संमवेत्तथा च "लुत्तमो वा" इत्यनेन लिट उत्तमपुरुषादेशविधानं व्यर्थमेव स्यात् न च सूत्रवैयर्थ्य युक्तमित्यऽपरोक्षतायामपि लिटः साधुत्वं स्वीकार्यमित्यर्थः । विपक्षे बाधकमाहअन्यथेति, यदि साक्षात्काराविषयत्वमेव परोक्षत्वं स्यात्तदा निद्रादिदशायां स्वकर्तृकपार्श्वपरिवर्त नादिक्रियायां स्वपरोक्षत्वसत्त्वेन तादृशस्वपरोक्षक्रियोदेशेन लिट उत्तमपुरुषप्रयोगसंभवात् "लुत्तमो वा " इत्यादेशविधानं व्यर्थं न स्यादिति " णलुत्तमो वा " इत्यस्योपायकारेण यजूज्ञापकत्वमुक्तं तन्न संगच्छेत तस्मात् परोक्षत्वं वक्तृभिम्नकर्तृकत्वमेव न तु साक्षात्काराविषयत्वमित्यर्थः । परोक्षत्वस्य वक्तृन्निकर्तृकत्वरूपत्वे हि निद्रादिदशायामपि स्वकर्तृकगमनादौ स्वभि• कर्तृकत्वरूपं परोक्षत्वं नास्तीति " णलुत्तमो वा " इति सूत्रं व्यर्थं सजू ज्ञापयति- अपरोक्षतायामपि लिङ् भवतीति तथा च निद्रादिकालिकस्वीयगमनादौ परोक्षत्वाभावेपि लिङ्घटितप्रयोगस्य साधुत्वमुपपद्यते इत्यर्थः प्रतिभाति । कलिङ्गेति - चैत्रेण मैत्रं प्रत्युक्तम् ' कलिङ्गे दृष्टोसि ' तत्र मैत्रेणोक्तम्- ' नाहं कलिङ्गान् जगाम कथमहं कलिङ्गे त्वया दृष्टः ' इत्यर्थः । अत्र जगामेतिक्रियायाः परोक्षत्वाभावालिटो. ऽसंभवेप्यऽत्यन्तापह्नवस्थले सूत्रान्तरेण = " अत्यन्तापह्नवे लिट् वक्तव्यः " इतिवार्तिकेनाऽपरोक्षत्वेपि लिड् भवति. अस्ति चात्राऽत्यन्तापह्नव इति नात्र लिटोऽनुपपत्तिरित्यर्थः । एताः ज्ञापन "व्यातेने " इत्यत्र लिटः साधुत्वोपपादनमुपायकारोक्तमयुक्तमेव - " व्यातेने " इत्यत्रात्यन्तापह्नवस्याभावात् क्रियाया अपरोक्षत्वेपि सूत्रान्तरेणोक्तेनाऽत्यन्तापह्नवस्थळे' एव लिड् विधानादित्यर्थः । अत्यन्तापह्नवस्वरूपमाह - अत्यन्तेति, अबाधितं यत्परोक्तं तद्विपरीतबोधनाय तदुपपादकस्य = अबाधितपरोक्तोपपादकस्य योऽभावस्तत्प्रतिपादनेच्छा तथा च कलिङ्गाधिकरणकदर्शनोपपादकं दृष्टस्य कलिङ्गगमनमेव तेन कलिङ्गगमनेन विना तदसंमवात == कलि "Aho Shrutgyanam" Page #623 -------------------------------------------------------------------------- ________________ लिङ्लोटोरर्थनिरूपणम् ] व्युत्पत्तिवादः । (६११) लिङ्लोटोविधिरर्थः- परप्रवृत्त्यर्थं तत्प्रयोगात् । विधिः प्रवर्तकज्ञानविषयो धर्मः, स च धर्मो न्यायनये कृतिसाध्यत्वं बलवदनिष्टाननुबन्धित्व (अजनकत्व) सहितमिष्टसाधनत्वं च, ' ओदनकामः पवेत् ' "स्वर्गकामो यजेत" इत्यादावोदनस्वर्गादिरूपं यत्फलं तत्साधनत्वं पाकयागादिक्रियायां प्रतीयते । तादृशफलानां च तत्तद्रूपेण लिङादिशक्यतावच्छेदककोटिप्रवेशे शत्यानन्त्यं सर्वसाधारण्येन व्युत्पत्त्यनुदयेनाऽपूर्वफलसाधनत्वबोधानिर्वाहश्चेतीष्टत्वेन तेषामनुगमः । इष्टत्वम् समभिव्याहतपदोपस्थापितकामनाविषयत्वम्, अत: 'स्वर्गकामः पचेत' इत्यादौ शक्तिभ्रमशून्यस्य नौदनादिसाधनत्वधी.. न वा तत्तात्पपेण तथाप्रयोगः प्रामाणिकानाम् । इष्टत्वज्ञानस्याऽप्रवर्तकत्वेपि शक्यफलानुगमार्थ तस्य शक्यता । वस्तुतस्त्व. झाधिकरणकदर्शनासंभवात्. अत्र च कलिङ्गगमनाभाव उक्त एव-"नाहं कलिङ्गान् जगाम " इत्यत्रात्यन्तापहवस्य सत्ताल्लिटः साधुत्वमस्त्येवेत्यर्थः । अयं चारयन्तापहवो न लिडर्थ इत्याह-- अत्यन्तापह्नव इति । लिङ्लोटोरर्थनिरूपणमारभते- लिङ्लोटोरिति, प्रवर्तकत्वमेव विधित्वमस्तीति लिब्लोटोः परप्रवृत्त्यर्थं प्रयोगाद्विध्यर्थकत्वमित्यर्थः । विधिस्वरूपमाह- विधिरिति । समन्वयमाह- ओदन इति । तादृशफलानाम् स्वर्गादिफलानाम् । तत्तद्रूपेण-स्वर्गत्वादिरूपेण । लिङादिशक्यतावच्छेदककोटीति-लिङः शक्यं यदिष्टसाधनत्वं तद्विशेषणीभूतेष्टस्य शक्यतावच्छेदकत्वं प्राप्तम् इष्टं च स्वर्गादिरेव तत्र स्वर्गादीनां स्वर्गवादिरूपेण शक्यतावच्छेदकत्वे शक्यानन्त्यं स्यात् तथा च सर्वसाधारण्येन व्युत्पत्त्यनुदयेन-शक्तिप्रहो न स्यादित्यज्ञातफलसाधनत्वबोधानुपपत्तिः स्यादिति तेषाम् स्वर्गादीनामिष्टत्वेनानुगमः- इष्टत्वेनेष्टसाधनत्वे लिङ्लोटोः शक्तिरित्यर्थः । इष्टत्वस्वरू. पमाह- इष्टत्वमिति, समभिव्याहृतं यत् स्वर्गकामपदं तदुपस्थिता या स्वर्गकामना तद्विषयत्वं स्वर्गस्यास्तीतीष्टत्वं प्राप्तम् । अत इति- यतः समभिव्याहृतपदोपस्थापितकामनाविषयत्वमिष्टत्वं तादृशेष्टसाधनखमेव च समभिव्याहृतव्यापार संभवत्यतः ' स्वर्गकामः पचेत ' इत्यत्र शक्तिभ्रमशून्यस्य पाकव्यापारे स्वर्गसाधनत्वज्ञानमेव जायेत न त्वोदनसाधनत्वज्ञानं समभिव्याहतस्वर्गकामपदेनेष्टत्वेन स्वर्गस्यैवोपस्थापितत्वात्, तत्तात्पर्येण ओदनसाधनवतात्पर्येण तथा' स्वर्ग. कामः पचेत ' इतिप्रयोगोपि न भवति किं तु स्वर्गसाधनत्वतात्पर्येणैव 'स्वर्गकामः पचेत । इतिप्रयोगः संभवति, भोदनसाधनत्वतात्पर्येण तु 'ओदनकामः पचेत । इत्येव. प्रयोगो भवतीत्यर्थः। - इष्टत्वेति- केवलमिष्टत्वज्ञानस्य प्रवर्तकत्वं न भवति, अन्यथा सुमेरुसमानयनेपि प्रवृत्तिः स्यादिष्टत्वादितीष्टस्वज्ञानस्याऽप्रवर्तकत्वेपि तस्य-इष्टत्वस्य शक्यभूतस्वर्गादिफलानामनुगमार्थ शक्यता स्वीक्रियते. अन्यथा शक्त्यानन्त्यं स्यादित्यर्थः । स्वाभिप्रायमाह- वस्तुतस्त्विति, "Aho Shrutgyanam" Page #624 -------------------------------------------------------------------------- ________________ ( ६१२ ). सादर्श: [ आख्यातप्रकरणे शक्यस्यैव तस्य शक्यानुगमकता सर्वनामस्थले बुद्धिस्थत्ववत् तेन रूपेण फलानां संकेतविषयतां विना शक्त्यैक्यासंभवात् । तस्य संकेतविषयत्वोपगमेपि यथा न तस्य वाच्यता तथा प्रपञ्चितमन्यत्र | अत्र चेष्टत्वस्य शाब्दबोधेऽभानाद विशिष्येष्टतावच्छेदकस्वर्गत्वादिप्रकारेण शाब्दबोधोत्पत्त्या विधवाक्यात् प्रवर्तकज्ञान निर्वाहः । यन्तु - इष्टत्वेन फलभानेपि स्वर्गकामादिपदैकदेशोपस्थितस्वर्गत्वावच्छिन्नस्य विध्यर्थैकदेशे इष्टेऽभेदान्वयात् प्रवर्तकज्ञाननिर्वाह इति, तन्न सत् - वृत्तिशब्दे - कदेशे इतरानन्वयनियमात् स्वर्गत्वादिप्रकारेण कामनाधीनप्रवृत्तौ स्वर्गत्वादिविशेषितफलसाधनताज्ञानस्य हेतुतयाऽभेदेन स्वर्गादिविशेषितफलसाधनताज्ञानतस्य=इष्टत्वस्य । तेन - इष्टत्वेन रूपेण । तथा च यथा बुद्धिस्थत्वोपलक्षितधर्मावच्छिन्ने तत्पदस्य शक्तिस्तथात्र इष्टत्वोपलक्षितधर्मावच्छिन्नसाधनत्वे लिङः शक्तिरित्यर्थः । तस्य = उपलक्षणस्य । यथा ' बुद्धिस्त्वोपलक्षितधर्मावच्छिन्नं तत्पदं बोधयतु इत्येवं संकेत स्वीकारादुपलक्षणस्य बुद्धिस्त्वस्य संकेतविषयत्वमस्ति यद्यपि तथापि न वाच्यत्वमित्यन्यत्र शक्तिवादे प्रतिपादितं तथात्रापीष्टत्वस्योपलक्षणस्य ' इष्टत्वोपलक्षितधर्मावच्छिन्नसाधनत्यं लिङ् बोधयतु ' इत्येवं संकेतविषयत्वेपि न वाच्यत्वमित्यर्थः । प्रवृत्तिर्हि विशेषरूपेण ज्ञाने सत्येव भवति न त्विष्टत्वमात्रज्ञा" . नादन्यथा स्वर्गादीनामिष्टत्वात् पाकादीनां चेष्टसाधनत्वात् स्वर्गकामः पाके तृप्तिकामश्च यागेपि प्रवर्तेत न चैवमस्तीति शाब्दबोधे सामान्यरूपेणेष्टत्वभानं न भवति किं तु विशेषरूपेणेष्टतावच्छेदकं यत् स्वर्गत्वादिकं तत्प्रकारेणैव शाब्दबोधो भवति विशेषरूपेण च शाब्दबोधे जाते न प्रवृत्त्यनुपपत्तिरिति प्रवर्तकज्ञान निर्वाहः = लिङादिजन्यशाब्दबोधस्य प्रवर्तकत्वनिर्वाह: संभवतीत्याह- अत्रेति । उक्तेन विधिवाक्यात् प्रवर्तकं ज्ञानं जायते इत्यस्य निर्वाह: संपन्न इति यावत् । L ननु फलस्य स्वर्गादेरिष्टत्वेन सामान्यरूपेण मानेपि प्रवर्तकज्ञानानुपपत्तिर्नास्ति यतः स्वर्ग - कामपदार्थैकदेशो यः स्वर्गस्तस्य विध्यर्थो यदिष्टसाधनत्वं तदेकदेशेनेष्टपदार्थेनामेदान्वयः संभवत्येव तत्र स्वर्गाभिन्नेष्टसाधनत्वज्ञानादपि यागादौ प्रवृत्तिः संभवत्येवेति मतमुपस्थापयतियत्त्विति । परिहरति- तन्नेति, ' स्वर्गकामः ' इतिकृदन्तवृत्तिशब्दस्तदेकदेशेन स्वर्गपदेनेष्टपदस्या मेदान्वयो न संभवति, अन्यथा ऋद्धस्य राजमातङ्गाः ' इत्यत्राप्यभेदान्वयः स्पादित्यर्थः । " वृत्तिशब्देकदेशे " इत्यत्र ' वृत्तिशब्दार्थैकदेशे ' इतिपाठो युक्तस्तस्य च वृत्तिशब्दार्थो यः स्वर्गकामपदार्थस्तदेकदेशे स्वर्गे इतरस्य - इष्टस्याभेदान्वयो न युक्त इत्यर्थः स्यात् । किं च स्वर्गत्वप्रकारककामनाधोना या यागे प्रवृत्तिस्तस्यां स्वर्गत्वविशिष्टफलसाधनत्वज्ञानं हेतुरस्तीत्यऽभेदेन स्वर्गविशिष्टं यदिष्टरूपं फलं तत्साधनताज्ञानस्य स्वर्गत्यप्रकारककामनाधीनप्रवृत्तावुपपयोगोपि नास्ति येन त्वदुक्तरीत्या स्वर्गे विध्यर्थैकदेशेष्टस्या भेदान्वयः कल्प्येतेत्याह- स्वर्गत्वा दीति । नन्वमेदेन स्वर्गप्रकारक स्वर्गरूपेष्टसाधनताज्ञानम् = स्वर्गाभिन्नं यदिष्टं तत्साधनताज्ञानमपि "Aho Shrutgyanam" , Page #625 -------------------------------------------------------------------------- ________________ उक्तविधिप्रत्ययार्थनिर्वचनम् ] व्युत्पत्तिवादः । (६१३) स्यानुपयोगित्वाच्च । 'अभेदेन स्वर्गादिप्रकारकस्वर्गादीष्टसाधनवाज्ञानमपि स्वर्गस्वादिप्रकारकावृत्ती हेतुः, अत एव " स्वर्गकामो यजेत " इत्यादितः प्रवृत्तिः' इति तु न युक्तम्-स्वर्गत्वप्रकारककामनाया अधिकारत्वानुपपत्तेः। अथेष्टत्वस्थ शक्योपलक्षणत्वे वदंशाऽभाननिर्वाहेपि स्वर्गवादेरशक्यस्य भानं न संभवति-अशक्यस्य भानोपगमेऽतिप्रसङ्गादितिचेत् ?, स्वर्गवाद्यवणिों समभिव्याहतकामनाविषयत्वज्ञानसहकृतस्य तादृशकामनाविषयतावच्छिन्नशक्ति ज्ञानस्य स्वर्गवादिप्रकारकशाब्दधीहेतुत्वोपगमेऽतिप्रसङ्गानवकाशात् । वस्तुतस्ता शकामनाविषयतावच्छेदकत्वोपलक्षितस्वर्गवादिविशिष्टसाधनत्वे शक्तिस्वीकारात् सर्वसामञ्जस्यम् । स्वर्गत्वादिप्रकारककामनाधीनप्रवृत्ती हेतुः संभवत्येव. अन्यथा “ स्वर्गकामो यजेत'" इत्यनेन यागे प्रवृत्तिरेव न स्यात यागे स्वर्गाभिन्नेष्टसाधनत्वज्ञानासंभवादित्याशङ्कयाह- अभेदेनेति । परिहरति-नेति, एवं हि स्वर्गत्वप्रकारककामनाया यदिष्टमधिकारत्वं तन्न स्यात् किं त्वभेदेन स्वर्गप्रकारकस्वर्गरूपेष्टफलकामनाया एवाधिकारत्वं स्यात् न चैतदिष्टम्. " स्वर्गकामः " इतिपदेनाधिकारिविशेषणीभूतायाः स्वर्गत्वप्रकारककामनाया एवाधिकारत्वप्रतीतेरित्यर्थः ।। _ननूपलक्षणस्य शाब्दबोधे भानं न भवतीत्युपलक्षणीभूतस्येष्टत्वरूपांशस्य लिङर्थस्य शाब्दबोधे भानामावसंभवेपि स्वर्गत्वादेरशक्यस्य लिङा भानं न संभवति-लिङः स्वर्गत्वावच्छि नेष्टसाधनत्वे शक्त्यऽभावात्. अन्यथा पाकादाविष्टसाधनत्वज्ञानं न स्यात् पाकादौ स्वर्गत्वावच्छिन्नेष्टसाधनस्वाभावात्, लिड इष्टसाधनत्वे. शक्तिरस्ति न च तत्र स्वर्गस्य प्रवेशोस्ति येन स्वर्गवस्य वाक्यत्वं तेन च मान स्यात, अशक्यस्यापि शाब्दबोधे भानस्वीकारेऽतिप्रसन: बट स्वादीनामपि भानं प्रसज्येतेत्याशङ्कते-अथेति । उत्तरमाह-स्वर्गवाद्यवच्छिन्नेति, " स्वर्गकामो यजेत " इत्यत्र स्वर्गस्य सममिव्याहृतकामनाविषयत्वमस्तीति स्वर्गवावच्छिन्ने यत्समभिव्याहृतकामनाविषयत्वज्ञानं तत्सहकृतं यत्स्वर्गे सममिव्याहृतकामनाविषयतावच्छिन्नशक्तिज्ञानं तेन स्वर्गत्वादिप्रकारक एव शाब्दबोधो जायते इति न स्वर्गत्वस्य भानानुपपत्तिर्न वान्य-- धर्मस्य भानापत्तिरित्यन्वयः, अत्र स्वर्गस्य कामनाविषयत्वमस्त्येव कामनाविषयत्वमेव चेष्टत्वं.. सममिव्याहृतकामनाविषयतावच्छिन्नं चेष्टमिति लिनिष्ठा या शक्तिस्तज्ज्ञानं तादृशकामनाविषयतावच्छिन्नसाधनत्वविषयकमेवेति प्राप्तं तादृशशक्तिज्ञानेनात्र यागे स्वर्गवावच्छिन्नसाधनत्वस्यैव बोधो भवतीति न स्वर्गवस्य भानानुपपत्तिर्न वान्यधर्ममानापत्तिरिति भावः । निष्कर्षमाहवस्तुत इति, समभिन्याइतकामनाविषयत्वो (इष्टत्यो ) पलक्षितं यत् स्वर्गवं तदवच्छिन्नसाधनत्वे लिङः शक्तिः स्वीकारात् सर्वसामञ्जस्यम् स्वर्गत्वस्यापि शक्यकोटिप्रवेशेन न मानानुपपत्तिर्न वान्यधर्मभानापत्तिस्तस्य शक्यकोटिप्रवेशाभावात, शक्यकोटिप्रवेशश्च सममिव्यातकामनाविषयतावच्छेदकधर्मस्यैव संभवति नान्यस्येत्यर्थः । "Aho Shrutgyanam" Page #626 -------------------------------------------------------------------------- ________________ (६१४) सादर्शः [ आख्यातप्रकरणे न च स्वर्गरवादिविशिष्टसाधनत्वस्य विधिप्रत्ययवाच्यत्व न संभवति- स्वर्गवादेगङ्गास्नानादिजन्यस्वर्गादिसाधारण्येन यागादिजन्यतानवच्छेदकतया यागादों स्वर्गत्वादिविशिष्टसाधनत्वबाधात. न हि जन्यतानवच्छेदकधर्मो जन्यत्वनिरूपके विशेषणमितिवाच्यम्, स्वर्गत्वादेः शक्यविशेषणत्वेपि तदुपलक्षितवैजात्यावच्छिननिरूपितजनकताया यागादाकऽबाधितायाः स्वर्गादिजनकतात्वेन विधिप्रत्ययतो भानसंभवात् । घटत्वादिविशिष्टवाचकपदघटितात् 'घटं द्रव्यत्वेनैव जानाति इत्यादिवाक्याद् घटत्वाद्युपलक्षितघटादिविशेष्यकत्वभानवत् । __न च तद्धर्मावच्छिन्ननिरूपिततत्साधनत्वज्ञानं विना तद्धर्मप्रकारकफलेच्छा/नप्रवृत्त्यनिर्वाह इतिशङ्क्यम्, वह्नित्वादिप्रकारकेच्छातोपि तृणादिसमवधाने ननु " स्वर्गकामो यजेत " इत्यत्र स्वर्गसाधनत्यस्य लिङ्वाच्यत्वं न संभवति स्वर्गो हि गङ्गास्नानादिनापि भवत्येव न तु यागेनैव भवति येन यागजन्यतावच्छेदकत्वं स्वर्गत्वस्य स्यात् तथा च यागे स्वर्गसाधनत्वस्य यागत्वे च स्वर्गसाधनतावच्छेदकत्वस्य बाधः प्राप्त:- अन्यूनानतिप्रसक्तधर्मस्यैवावच्छेदकत्वस्वीकारात.यागादौ स्वर्गसाधनत्वस्य बाधितत्वाच्च न विधिप्रत्ययवाच्यत्वं संभवतीत्यन्वयः, उक्त हेतुमाह- न हीति, अत्र जन्यतानवच्छेदकं यत्स्वर्गत्वं तस्य जन्यत्वनिरूपके जनके साधने विशेषणत्वं न संभवति जन्यतानवच्छेदकधर्मावच्छिन्ननिरूपिता जनकतान भवति. अत्र च त्वया यागे स्वर्गसाधनत्वं वक्तव्यं तत्र च स्वर्गस्वस्यापि विशेषणत्वं प्राप्तमेवेत्याशक्याह-न चेति । उत्तरमाह- स्वर्गवादेरिति, यद्यपि स्वर्गत्वं शक्य विशेषणं गङ्गास्नानादिजन्यस्वर्गसाधारणं च तथापि स्वर्गवोपलक्षितं यद्वैजात्यं यागजन्यस्वर्गनिष्ठं वैलक्षण्यं तादृशवैजात्यावच्छिन्नो यः स्वर्गस्तन्निरूपितजनकता तु यागे एव न गङ्गास्नानादाविति स्वर्गादिजनकतात्वेन रूपेण स्वर्गजनकत्वस्य स्वर्गसाधनत्वस्य यागादौ विधिप्रत्ययेन भानं संभवत्येवेत्यर्थः । ननु स्वर्गस्वस्य विशेषणत्वे वैजात्योपलक्षणत्वं कथं स्यादित्याशक्य दृष्टान्तमाह- घटत्वेति, 'घटं द्रव्यत्वेनैव जानाति ' इत्यत्र यद्यपि घटत्वं शक्यघटविशेषणमेव तथाप्यत्र घटत्वोपलक्षितद्रव्यत्वप्रकारकघटविशेष्यकं भानं भवतीत्येतादृशविशेष्यकत्वभाने यथा शक्य विशेषणस्यापि घटत्वस्य द्रव्यत्वोपलक्षणत्वं तथोक्तस्थले शक्यस्वर्गविशेषणस्यापि स्वर्गत्वस्योक्तवैजात्योपलक्षणत्वं संभवत्येवेत्यर्थः । स्वर्गस्वस्थ स्वर्गविशेषणत्वेपि सामानाधिकरण्येन वैजात्योपलक्षणत्वे बाधकाभावाद् यद्विशेषणत्वं तदुपलक्षणत्वे एव विरोधादिति सारः । - ननु तद्धर्मावच्छिन्न निरूपितं यत् तत्साधनत्वं तज्ज्ञानं विना तद्धर्मप्रकारकफलेच्छाधीना प्रवृत्तिर्न संभवति यथा तन्तुषु पटत्वावच्छिन्ननिरूपितसाधनत्वज्ञाने सत्येव या पटत्वप्रकारकफलेच्छा तदधीना प्रवृत्तिर्भवति नान्यथा त्वया च स्वर्गत्वस्य वैजात्योपलक्षणत्वमुक्तमिति यागे स्वर्गवावच्छिन्ननिरूपितसाधनत्वज्ञानं न प्राप्तं तथा च स्वर्गत्वप्रकारकस्वर्गेच्छाधीनप्रवृत्तिर्यागे नस्यादित्याशङ्क्याह- न चेति । उत्तरमाह- वह्नित्वादीति, तृणादिकार्यतावच्छेदकं न वह्नित्वं बहित्वस्य करीषादिजन्यवहावपि सत्त्वात् किं तु तृणजन्यवह्नित्वमेव तत्र यथा वहित्वप्रकारके "Aho Shrutgyanam" Page #627 -------------------------------------------------------------------------- ________________ उक्त विधिप्रत्ययार्थनिर्वचनम् ] व्युत्पत्तिवादः । ( ६१५ ) ऽभ्रान्तप्रवृत्तेरानुभविकत्वात्, भूयः सुखार्थिनामपि भ्रमं विना क्रियाविशेषे प्रवृत्तेश्वतद्धर्मावच्छिन्नफलार्थिप्रवृत्तौ तद्धर्मप्रकारेण भासमानफलं प्रति साधनताज्ञानस्यैव प्रवर्तकत्वात् । स च धर्मः कार्यतावच्छेदकतया भासतां कार्यांशे उपलक्षणतयैव वेत्यन्यदेतत् । न हि वह्नित्वादिकं तृणादिजन्यतावच्छेदकम् - व्यभिचारिसाधारणत्वात् न वा भूयस्त्वादिक कस्यचिज्जन्यतावच्छेदकम् - अर्थवश संपन्नत्वात् । एवं सति घटत्वावच्छिन्नफलार्थी तत्वादौ कथं न प्रवर्तते ? तन्त्वादेरापे घटत्वाद्युपलक्षितजन्यत्वादिविशिष्टनिरूपितद्रव्यत्वावच्छिन्न साधन तावत्स्वादितिचेतू ?, फलानुपधाननिश्चयात् तस्य स्वातन्त्र्येण प्रवृत्तिप्रतिबन्धकत्वात् । फलोच्छातस्तृणसंप्रहे प्रवृत्तिर्भवति तथा स्वर्गस्त्रं यद्यपि न यागजन्यतावच्छेदकं गङ्गास्नानादिजन्यस्वर्गसाधारणत्वात् किं तु तद्वैजात्यमेव तथापि स्वर्गत्वप्रकारकफलेच्छाधीना प्रवृत्तिर्यागादौ संभवत्येवेत्यन्वयः । भूय इति - क्रियाविशेषे = भोजनादौ हि तृप्तिसाधनत्वमेवास्ति न तु सामान्यतः सुखसाधनत्वमन्यथा तृष्व्यतिरिक्तसुखेच्छावतोपि भोजने प्रवृत्तिः स्यात् न चैवं भवत्यsथापि सुखार्थिनो मोजनादौ प्रवृत्तिर्भवति तत्कस्य हेतोः ? सुखत्वस्य तृप्तित्वादिव्यापकत्वादेव तथा च तद्धर्मावच्छिन्नफलार्थिप्रवृत्तौ तद्धर्मप्रकारेण भासमानफलं प्रति साधनत्वज्ञानमेव प्रत्रर्तकमिति प्राप्तं तथा च स्वर्गलस्योक्तवैजात्योपलक्षणत्वेपि स्वर्गप्रकारत्वमस्येव तादृशस्वर्गत्वप्रकारेण भासमानस्वर्गं प्रति यागे साधनत्वज्ञानसंभवात् स्वर्गत्वावच्छिन्नफलार्थिप्रवृत्तिर्यागे नानुपपन्ना, उक्तरीत्या वह्नित्वादीतिदृष्टान्तेन सामान्यधर्मावच्छिन्नफलार्थिनोपि विशेषधर्मावच्छिन्ननिरूपितसाधनत्वज्ञानेन प्रवृत्त्युपपत्तेरित्यर्थः । यद्धर्मप्रकारेण भासमानफलं प्रति साधनत्वज्ञानं प्रवर्तकं भवति स धर्मः कार्यतावच्छेदकतया भासतां कार्याशे उपलक्षणतया वेत्यत्र नामहस्तत्र वह्नित्वादिकं कार्यतावच्छेदकतया मासते " स्वर्गकामो यजेत " इत्यत्र स्वर्गत्वमुपलक्षणतया भासते इत्याह- स चेति । वह्नित्वं हि करीषादिजन्यवह्नावपि वर्तते इति साधारणलक्षणव्यभिचारित्वान्न तृणादिजन्यतावच्छेदकमथापि वह्नित्वावच्छिन्नफलार्थिनस्तृणादौ प्रवृत्तिर्भवत्येव न वा भूयः सुखजनकानां भूयस्त्वं जन्यतावच्छेदकं भवति भूयस्त्वस्याधिकसुखेऽर्थादेव प्राप्तत्वात सुखावच्छेदकत्वाभावाच्चाऽथापि भूयःसुखार्थिनां क्रियाविशेषे प्रवृत्तिर्भवत्येव, एवं स्वर्गस्वस्य यागजन्यतानवच्छेदकत्वेपि स्वर्गत्वावच्छिन्नफलार्थिनो यागादौ प्रवृत्तिरुपपद्यत एवेत्यर्थः । प्रागजन्यतावच्छेदकं तु स्वर्गत्वोपलक्षितोक्तवै जात्यमेवेति विज्ञेयम् । ननु यद्युपलक्षणीभूतस्वर्गत्वावच्छिन्ननिरूपितसाधनत्वज्ञानेनापि स्वर्गार्थिनो यागे प्रवृत्तिर्भति तदा घटार्थिनो मृत्तिकायामित्र तन्तुष्वपि प्रवृत्तिः स्यात् - तन्तुष्वपि घटत्वोपलक्षितं यजन्यत्वं तद्विशिष्टनिरूपिता = तदवच्छिन्ननिरूपिता या द्रव्यत्वावच्छिन्नसाधनता तस्याः सत्त्वादेव पटे द्रव्यत्वमस्येव तत्र घटत्वस्योपलक्षणत्वमपि संभवत्येवेति तन्तुषु घटत्वोपलक्षितद्रव्यत्वावच्छि नसाधनत्वं प्राप्तमेवेत्याशङ्कते - एवं सतीति । उत्तरमाह - फलानुपधानेति, तन्तुभिर्घटो नोत्प "Aho Shrutgyanam" Page #628 -------------------------------------------------------------------------- ________________ (६१६) सादर्शा [ आख्यातप्रकरणेपधायकसाधनत्वस्य वा विधिप्रत्ययार्थतया ‘घटकामस्तन्तुमुपाददीत ' इत्यादिर्न प्रयोगः । न च तथापि स्वर्गत्वादेर्यागादिनिष्ठकारणताघटकव्यापकतानिरूपंकतानवच्छेदकतया स्वर्गवावच्छिन्ननिरूपितव्यापकताघटितकारणताया बाधः स्वर्गादिनिष्ठकार्यतावच्छेदकवैजात्यस्य च कारणताग्रहोत्तरकालकल्प्यत्वेन प्रागनुपस्थित्या तदवच्छिन्ननिरूपितव्यापकताबोधासंभव इति " स्वर्गकामः" इत्यादौ विध्यर्थबोधानुपपत्तिारैवेति वाच्यम्, स्वरूपसंबन्धरूपाया एवं कारणताया विध्यर्थत्वोपगमात् । द्यते इतिनिश्चयस्य सत्त्वादेव घटार्थी तन्तुषु न प्रवर्तते । तस्यफलानुपधाननिश्चयस्य । न चैवं यागे स्वर्गत्वोपलक्षितफलाऽजनकत्वनिश्चयोस्ति येन प्रवृत्तिप्रतिबन्धः स्यादित्यर्थः । पक्षा. न्तरमाह- फलोपधायकेति, फलोपधायकं यदिष्टसाधनं तनिष्ठं यदिष्टसाधनत्वं तल्लिङर्थस्तथा च तन्तुषु घटत्वावच्छिन्नफलोपधायकत्वं नास्तीति न ‘घटकामस्तन्तुमुपाददीत' इतिप्रयोगापत्तिः, यागे तु स्वर्गत्वावच्छिन्नफलोपधायकत्वमस्तीति न " स्वर्गकामो यजेत" इतिप्रयोगानुपपत्तिरित्यर्थः । शङ्कते- न चेति, अयमर्थः- प्राक्क्षणवृत्त्यऽत्यन्ताभावाऽप्रतियोगित्वं हि कारणत्वं तदधिकरणनिष्ठाऽत्यन्ताभावाप्रतियोगित्वमेव च व्यापकत्वं कारणं विना च कार्याऽभभवात् कारणे व्यापकत्वं प्राप्तं तच्च व्यापकत्वं कारणताघटकमेव तादृशकारगताघटकव्यापकताया निरूपकतावच्छेदकं च कार्यतावच्छेदकं भवति यथा तन्तुनिष्ठकारणताघटकव्यापकतायाः पटत्वं निरूपकतावच्छेदकं भवति पटस्यैव तादृशव्यापकतानिरूपकत्वात् न तु तन्तुनिष्ठकारणताघटकन्यापकताया द्रव्युत्वं निरूपकतावच्छेदकं भवति तथा च यागनिष्ठकारणताघटकव्यापकताया निरूपकतावच्छेदकम् उक्तं स्वर्गवोपलक्षितवैजात्यमेव संभवति न तु स्वर्गत्वं तस्य गङ्गास्नानादिजन्यस्वर्गसाधारणत्वादिति स्वर्गवं यागनिष्ठकारणताघटकव्यापकतानिरूपकताऽनवच्छेदकमेव तथा च यागेपि स्वर्गवावच्छिन्ननिरूपिता या व्यापकता तद्घटितकारणताया बाधः प्राप्तः, स्वर्गादिनिष्ठकार्यतावच्छेदकं यद्वजात्यमुक्तं तत्तु यागनिष्ठकारणताग्रहोत्तरकाले एव कल्प्यमस्ति यागे स्वर्गकारणताग्रहे जाते यागजन्यस्वर्गनिष्ठवैजात्यस्य कल्पनीयत्वादिति. ताशवैजात्यस्य प्राक् कारणताग्रहपूर्वकालेऽनुपस्थित्या तदवच्छिन्ननिरूपितायाः उक्तवैजास्यावच्छिननिरूपि. ताया व्यापकताया यागे बोधो, न संभवतीति " स्वर्गकामो यजेत " इत्यादौ विध्यर्थबोधानुपपत्तिारैव- एतद्रीत्या यागे उक्तफलोपधायकसाधनत्वग्रहासंभवादित्यर्थः । उत्तरमाहस्वरूपसंबन्धेति । स्वरूपसंबन्धरूपाया:स्वरूपयोग्यतारूपायाः । स्वरूपयोग्यतारूपा कारणता तु स्वर्गस्वावच्छिन्ननिरूपिता यागेऽस्त्येवेति न विध्यर्थबोधानुपपत्तिः, किं वा स्वर्गादिनिष्ठकार्यतावच्छेदकवैजात्यस्य फलोपधायकतारूपकारणताया ग्रहोत्तरमपि कल्प्यत्वे स्वरूपयोग्यतारूपकारणतायास्तु पूर्वमपि कल्प्यत्वं संभवत्येवेति तादशवैजात्यावच्छिन्ननिरूपितायाः स्वरूपसं. बन्धरूपाया व्यापकताघटितकारणताया यागे बाधो नास्तीति न विध्यर्थबोधानुपपत्तिरित्यर्थः । "Aho Shrutgyanam" Page #629 -------------------------------------------------------------------------- ________________ स्वर्गकारणत्वनिर्वचनम् } व्युत्पत्तिवादः । अन्यथासिद्धिनिरूपकताऽनवच्छेदकनियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वमेव वा स्वर्गकारणत्वं नियतोत्तरवर्तितावच्छेदकश्च धर्मो विशिष्योत्तरकालकल्प्यो जातिविशेष एव नियतोत्तरवर्तितावच्छेदकत्वेन सामान्यरूपेण शाब्दबुद्धौ भासते, नियतोत्तरवर्तितावच्छेदकत्वं च कारणतावच्छेदकत्वाभिमतधर्मावच्छि न्नतपापारान्यतराभावाधिकरणताविशिष्टोत्पत्तिक्षणावच्छिन्नाधिकरणतानिरू पकतानवच्छेदकत्वम्. अधिकरणतावैशिष्ट्यं च स्वावच्छेदकक्षणाव्यवहितोत्तरक्षणावच्छिन्न स्वाश्रयनिष्ठत्व संबन्धेन । ( ६१७ ) यागस्य स्वर्गव्यापकत्वं च यागजन्यादृष्टद्वारा विज्ञेयम्-यागस्य क्रियारूपत्वेन स्वर्गतः पूर्वमेव विनाशित्वादिति । पक्षान्तरमाह — अन्यथासिद्धीति, घटत्वादिकं गर्दभादिनिष्ठान्यथा सिद्धिनिरूपकतावच्छेदकं मवति घटा देस्तादृशान्यथा सिद्धिनिरूपकत्वादित्यपथासिद्धिनिरूपकता नवच्छेदको यो नियमेनोत्तरवर्तितावच्छेदकः - यागोत्तरवर्तितावच्छेदको धर्मो वैजात्यविशेषस्तद्वान् यः स्वर्गस्तादृशस्वर्गकत्वम् ( जनकतासंबन्धेन तादृशस्वर्ग विशिष्टत्वमेत्र ) स्वर्गकारणत्वं तच यागेऽस्त्येवेति न विध्यर्थबोधानुपपत्तिरित्यर्थः । घटत्वादिकं गर्दभादिनिष्ठान्यथासिद्धेर्निरूपकतावच्छेदकं भवतीति घटादिकं प्रति गर्दभादेरन्यथासिद्धत्व प्राप्त्या कारणत्वं न भवति प्रकृते च स्वर्गनिष्ठवेजात्यस्य यागनिष्ठान्यथा सिद्धिनिरूपकतावच्छेदकत्वं नास्तीति तादृशवैजात्यविशिष्टस्वर्गः प्रति यागस्य कारणत्वं प्राप्तम् - अन्यथा सिद्धि निरूपकता नवच्छेदक नियतो त्तरवर्तितावच्छेदकधर्मावच्छिन्नं प्रति तदव्ययहितपूर्वकालवर्तिनः कारणत्वनियमादिति भावः । नियतोत्तरवर्तितावच्छेदकधर्म स्वरूपमाहनियतोत्तरवर्तितावच्छेदकश्चेति, स च धर्मो विशेषरूपेण तु यद्यपि कारणताप्रहोत्तरकाले एव कल्यो जातिविशेषः = वैजात्यविशेषोस्ति तथापि कारणताग्रहपूर्वकालेपि नियतोत्तरवर्तितावच्छेदकत्वेन सामान्यरूपेण शाब्दबुद्धौ भासते इति तन्निरूपितकारणताघटकव्यापकता महसंभवान्न विध्यर्थबोधानुपपत्तिरित्यर्थः । नियतोत्तरवर्तितावच्छेदकत्वस्वरूपमाह- नियतो तरवर्तितावच्छेदकत्वमिति । कारणतेति कारणतावच्छेदकत्वेनाभिमतौ यो धर्मो यागत्वं तदवच्छिन्नो यो यागस्तदभावाधिकरणतया वा तद् ( याग ) व्यापाराभावाधिकरणतया वा ( काल निष्ठया ) विशिष्टा या उत्पत्तिक्ष गावच्छिन्नाधिकरणता = स्वर्गमिन्नघटाद्युत्पत्तिक्षणावच्छिन्नाधिकरणता ताहशाधिकरणताया निरूपकता घटादौ भवति निरूपकतावच्छेदकत्वं च घटत्वादौ भवति निरूपकताया अनवच्छेदकत्वं च स्वर्गनिष्ठवैजात्येस्तीति तदेव नियतोत्तरवर्तितावच्छेदकत्वं विज्ञेयम्, घटोत्पत्तिक्षणे च यागस्तद्व्यापारयोः सत्त्वस्य नियमाभावेन यागस्य योगत्र्यापारस्य चाभावः संभवत्येवेति तादृशाभावाधिकरणतया विशिष्टा घटोत्पत्तिक्षणावच्छिन्न धिकरणता विज्ञेयाउक्तोभयोरप्यधिकरणतयोरेककालवृत्तित्वेन समानाधिकरणत्वादित्यन्वयः । उक्तवैशिष्ट्यप्रयोजकसंबन्धमाह - अधिकरणता वैशिष्ट्यमिति । स्वावच्छेदकेति- स्वम् = यागतद्व्यापारान्यतरा "Aho Shrutgyanam" Page #630 -------------------------------------------------------------------------- ________________ सादर्श: ( ६१८ ) [ आख्यातप्रकरणे वस्तुतः स्वर्गनिष्ठधर्मावच्छिन्ननिरूपित नियतपूर्ववर्तितावच्छेदकधर्मवत्त्वमेव स्वर्गकारणत्वम् । नियत पूर्ववर्तितावच्छेदकत्वं चाऽव्यवहितपूर्व कालावच्छिन्नवृत्ति - काभावघाटेत दैशिकव्यापकतायाः स्वाश्रयत्वस्वाश्रयनिष्ठ व्यापारवत्वाऽन्यतरसंबन्धेनावच्छेदकत्वमेव । व्यापकत्वनिरूपकतावच्छेदक वैजात्यस्य विशिष्यानुपस्थितावपि स्वर्गधर्मत्वेन ज्ञान संभवत्येव । व्यापकतावदकाभावप्रतियोगिभावाधिकरणता तदवच्छेदको यः क्षण:- घटोत्पत्तिपूर्वक्षणस्तदव्यवहितोत्तरक्षण : = घटोत्पत्तिक्षणस्तदवच्छिन्नं यत् स्वं घटस्तदाश्रयीभूतो यो घटोत्पत्तिक्षणस्तन्निष्ठत्वं घटोत्पतिक्षणावच्छिनाधिकरणतायां प्राप्तमित्यत्र तेन संबन्धेन यागतद्व्यापारान्यतराभावाधिकरणता विशिष्टा घटाद्युत्पत्तिक्षणावच्छिन्नाधिकरणता विज्ञेया, उक्तं स्वावच्छेदकंक्षणाव्यवहितोत्तरक्षणावच्छिन्नस्याश्रयनिष्ठत्वं च संबन्धभूतं घटोत्पत्तिक्षणावच्छिन्नाधिकरणतायामस्त्येव । यागव्यापारश्च यागजन्याऽपूर्वरूपो विज्ञेय इत्यन्वयः - स्वमतमाह - वस्तुत इति, स्वर्गनिष्टो यो वैजात्यविशेषो धर्मस्तदवच्छिन्नो यः स्वर्गविशेषस्तनिरूपिता या नियतपूर्ववर्तिता तदवच्छेदको यो धर्मो यागत्वं तद्वत्त्वमेव स्वर्गकारणत्वमि - त्यन्वयः, यागे यागत्वमप्यस्ति स्वर्गापेक्षया नियतपूर्ववर्तिताप्यस्तीति यागत्वे नियतपूर्ववर्तितावच्छेदकत्वं विज्ञेयम् । नियतपूर्ववर्तितावच्छेदकत्वस्य स्वरूपमाह - नियतपूर्ववर्तितेति । अव्यवहितेति - व्यापकतायास्तव निष्ठात्यन्ताभावाप्रतियोगित्वरूपत्वादभावघटितत्वमस्तीति स्वर्गापेक्षयाऽव्यवहितपूर्व कालेनावच्छिन्ना वृत्तिर्यस्यैवंभूतो योऽव्यवहितपूर्वकालावच्छिन्नवृत्तिकोऽभावस्तदूधटिता या दैशिकव्यापकता तस्याः स्वाश्रयत्व संबन्धेन वा स्वाश्रयनिष्ठव्यापारवत्त्वसंबन्धेन वा यदवच्छेदकत्वं तदेव नियतपूर्ववर्तितावच्छेदकत्वमित्यन्वयः । नियतपूर्ववर्तितावच्छेदकत्वं ह्युक्तव्यापकताया उक्तसंबन्धेनावच्छेदकत्वरूपमेव विज्ञेयमिति यावत् । स्वाश्रयत्व संबन्धेनेत्यस्य स्वसामानाधिकरण्यसंबन्धेनेत्यर्थः स्वं यागत्वं तथा च यागत्वमुक्तव्यापकता च यागे एवास्तीति स्वसामानाधिकरण्यसंबन्धेन यागत्वं व्यापकताया अवच्छेदकं जातम् । किं वा स्वाश्रयनिष्ठव्यापारवत्त्वसंबन्धेनावच्छेदकत्वं ग्राह्यं तत्रापि स्वं यागखं तदाश्रयो यागो जनकत्वसंबन्धेन यागनिष्ठो योऽपूर्वादिरूपो व्यापारस्तद्वत्त्वं व्यापकतायां सामानाधिकरण्येनास्ति - यागे एक व्यापारस्य व्यापकतायाश्च सत्त्वादिति तादृशेन स्वाश्रयनिष्टव्यापारवत्त्वसंबन्धेन यागस्खं व्यापकताया अवच्छेदकं जातमित्येतादृशं यद् व्यापकतावच्छेदकत्वं तदेव नियतपूर्ववर्तितावच्छेदकत्वमित्यर्थः प्रतिभाति । अत्र "स्वाश्रयनिरूपितव्यापारत्ववत्त्व" इतिपाठस्तु प्रामादिक एव प्रतीयते । व्यापकत्वेति- कारणनिष्ठज्यापकत्वनिरूपकता कार्ये एव भवतीति यागनिष्ठव्यापकत्वनिरूपकता स्वर्गे प्राप्ता तत्रैव स्वर्गे वैजात्यमध्यस्तीति व्यापकत्वनिरूपकतावच्छेदकत्वं वैजाप्ये प्राप्तं तस्य च व्यापकतानिरूपकतावच्छेदकवै जात्यस्य विशेषरूपेणोपस्थित्यऽसंभवेपि स्वर्गधर्मत्वेन रूपेण ज्ञानम्=मानं संभवत्येव शाब्दबोधे । ननु स्वर्गधर्मस्य वैजात्यस्यात्र स्वरूपत एव प्रवेशो " Aho Shrutgyanam" Page #631 -------------------------------------------------------------------------- ________________ स्वर्गकारणत्वनिर्वचनम् ] व्युत्पत्तिवादः । तायां स्वरूपतोऽवच्छेदककोटिप्रविष्टाया अपि जातेापकताभाने स्वर्गधर्मत्वादिना भाने न बाधकम्- स्वर्गधर्मत्वादेरुपलक्षणतया भानात् । प्रतियोगितासंबन्धेन प्रतियोगिप्रकारकज्ञान एवं प्रतियोगिकोटावुपलक्षणप्रकाराऽभाननियमात, प्रकृते च कारणताशरीरघटकाभावस्य प्रतियोगिताप्रकारेण भाननियमात् । अत एव स्वरूपतो पहित्वाद्यवच्छिन्नप्रतियोगिताकाभावस्य वह्नित्वाद्यवच्छिन्नव्यापकतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नाभावत्वेन लक्षणप्रवेशस्य संभवदुक्तिकता। ऽस्तीति कथं स्वर्गधर्मत्वेन रूपेण भानं स्यादित्याशक्य वैजात्यस्यात्र स्वर्गधर्मत्वेन रूपेण भानमुपपादयति- व्यापकताघटकेति, व्यापकताघटकाभावः स्वर्गनिष्ठधर्मावच्छिन्नाव्यवहितपूर्ववृत्तिर्योऽभावस्तत्प्रतियोगिता स्वर्गकारणीभूतयागादौ नास्तीत्याकारकप्रीतिसाक्षिका या प्रतियोगितानिष्ठा प्रतियोगिता स्वरूपतस्तादृशप्रतियोगितावच्छेदकको टिप्रविष्टाया अपि जाते: वैजात्यस्य स्वर्गधर्मत्वादिना भाने न किंचिद्बाधकम्, उक्त हेतुमाह- स्वर्गधर्मत्वादेरिति, स्वर्गधर्मत्वादेरुपलक्षणतया उक्तवैजात्योपलक्षणतया हि भानं स्वीक्रियते एतादृशस्थले चोपलक्षणीभूतधर्मस्यापि प्रकारतया भानं संभवत्येवेति स्वर्गधर्मत्वादिना रूपेण वैजात्यस्य भाने न किंचिद्बाः धकमित्यर्थः । उपलक्षणीभूतस्वर्गधर्मत्वस्य कथमत्र वैजात्यप्रकारतयोक्तं भानं स्यादित्याशङ्क्याह- प्रतियोगितासंबन्धेनेति, अभावज्ञान प्रतियोगितासंबन्धेन प्रतियोगिताप्रकारकश्चापिभवति तत्र 'प्रतियोगितासंबन्धेन घटवान् घटाभावः । इतिप्रतियोगितासंबन्धेनाभावज्ञानमस्ति * निरूपकत्वसंबन्धेन प्रतियोगितावानऽभावः । इति च प्रतियोगिताप्रकारकाभावज्ञानमस्ति तत्र प्रतियोगितासंबन्धेन घटादिप्रतियोगिप्रकारकामावविशेष्यकज्ञान एवं प्रतियोमिकोटौ यदुपलक्षणतया प्रविष्टं भवति तस्य प्रकाराभाननियमात्-प्रकारतया भानं न भवतीति नियमोस्ति, यथात्र द्रव्यत्वस्य, प्रतियोगिताप्रकारकाभावाने तु प्रतियोगिकोटावुपलक्षणतयापि प्रविष्टस्य प्रकारतया भानं संभवत्येव तथा च प्रकृतेपि कारणताशरीरघटकाभावस्य प्रतियोगिताप्रकारेणैव माननियमात्मानं भवतीति तादृशामावज्ञाने प्रतियोगिकोटावुपलक्षणतयापि प्रविष्टस्य स्वर्गधन मत्वस्य वैजात्यप्रकारतया भाने न किंचिद्बाधकमित्यर्थः । - मत एवेति, अत एव प्रतियोगितासंबन्धेन प्रतियोगिप्रकारकज्ञाने एव प्रतियोगिकोटावुपलक्षणप्रकारामाननियमादेवप्रतियोगिताप्रकारकाभावज्ञाने उपलक्षणीभूतधर्मस्यापि प्रकारतया मानस्वीकारादेवेति यावत् तथा च स्वरूपतः प्रविष्टं यद् वह्नित्वं तादृशवहित्वावच्छिन्नप्रतियोगिताकाभावस्य वह्नित्वावच्छिन्नव्यापकतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नाभावत्वेन लक्षणप्रवेशस्य संभवदुक्तिकता लक्षणे प्रवेशः संभवतीत्यन्वयः, अयमर्थ:- यदा हि प्रतियोगिताप्रकारकाभावज्ञाने उपलक्षणीभूतधर्मस्यापि प्रकारतया भानं स्वीक्रियते तदा वह्नित्वावच्छिन्नप्रतियोगिताकाभावो हि प्रतियोगिताप्रकारकामाव एवेति तत्र वह्नित्वे वर्तमानं यदुपलक्षणीभूतं "Aho Shrutgyanam" Page #632 -------------------------------------------------------------------------- ________________ (६२०) सादर्श: [ आख्यातप्रकरणेइत्यमेव चेष्टतावच्छेदकधर्माणामुपलक्षणीभूतेनेष्टतावच्छेदकत्वेन व्यापकताघटकाभावप्रतियोगितावच्छेदककोट्यप्रविष्टेनापीष्टतावच्छेदकधर्माणां सर्वसाधारणशक्तिग्रहे भानमुपपद्यते इति ।। एतेन- नियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वस्य विध्यर्थतामते यागादिधर्मिकतादृशकारणताग्रहस्य प्रवृत्तिहेतुता वाच्या तदपेक्षया च स्वर्गादिधर्मिकचह्नित्यावच्छिन्नव्यापकतावच्छेदकत्वं तस्य प्रकारतया मानसंमवादेव तादृशोपलक्षणीभूतं यद् वह्नित्वावच्छिन्नव्यापकतावच्छेदकत्वं तेनोपलक्षितो यो धर्मों वह्नित्वं तदवच्छिन्नाभावत्वेन= तादृश ( व्यापकतावच्छेदकत्वोपलक्षित ) वह्नित्वावच्छिन्नप्रतियोगिताकाभावत्वेन रूपेण वहित्वावच्छिन्नप्रतियोगिताकामावस्य ( वह्नित्वावच्छिनप्रतियोगिताप्रकारकाभावस्य ) लक्षणे प्रवेशः संभवति, अत्र चाभावज्ञाने उपलक्षणीभूतस्य वह्नित्वावच्छिन्नयापकतावच्छेदकत्वस्य वह्नित्वप्रकारतया भानं भवत्येव- व्यापकताघटकाभावज्ञाने हि वह्नित्वं व्यापकता च वहौ वर्तते इति व्यापकता वह्नित्वावच्छिन्ना जाता तादृशं वह्नित्वावच्छिन्न व्यापकतावच्छेदकत्वं च वह्नित्वे प्राप्त सच्च पतित्वावच्छिनव्यापकतावच्छेदकत्वं वह्नित्वस्योपलक्षण मेवेति तस्य वह्नित्वप्रकारतया भानं संभवत्येव, यदि च प्रतियोगिताप्रकारकाभावज्ञानेप्युपलक्षणीभूतधर्मस्य प्रकारतया मानं न स्यात्तदात्राप्युक्तलक्षणे व्याप्तिलक्षणे स्वरूपतो वह्नित्वावच्छिन्न प्रतियोगिताकाभावज्ञाने उपलक्षणस्य वद्धित्वावच्छिन्नव्यापकतावच्छेदकत्वस्य वह्नित्वप्रकारतया भानं न स्यादिति पहिवामस्टिनप्रतियोगिताकामावस्य पहित्वावच्छिन्नव्यापकतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नाभावत्वेन रूपेण लक्षणे प्रवेशो न स्यादेव न चैवमस्तीति प्रतियोगिताप्रकारकाभावज्ञाने उपलक्षणस्यापि प्रकारतया भानं भवत्येव तथा च स्वर्गनिष्ठवैजात्योपलक्षणस्यापि स्वर्गधर्मत्वस्य वेजात्यप्रकारतया भानं संभवतीति तादृशवैजात्यस्य स्वर्गधर्मत्वेन भाने न किंचिद्बाधकमिति । लक्षणप्रघेशेत्युक्तलक्षणं तु व्याप्तिवादे गवेषणीयम् । किं चात्र दैशिकव्यापकतोक्तास्तीति स्वर्गत्वेन यागजन्यापूर्वत्वेनापि च कार्यकारणभाव उपपादयितुं शक्यते-यद्यदात्मनि स्वर्गादिसुखमु. पद्यते तत्तदात्मनि यागजन्यापूर्वस्यापि सत्त्वाद् देशिकव्यापकतास्त्येव ।। ' उक्तमन्यत्रातिदिशति- इत्थमिति, यथोक्तस्थले स्वर्गनिष्ठवैजात्यस्य स्वर्गधर्मवादिना भानमु. प्रपन्नं तथेष्टतावच्छेदकधर्माणाम् स्वर्गवादीनामुपलक्षगीभूतं यदिष्टतावच्छेदकत्वं तस्य व्यापकताघटकाभावप्रतियोगितावच्छेदककोटौ यद्यपि प्रवेशो नास्ति- तादृशकोटाविष्टतावच्छेदकस्वर्गस्वादीनामेव प्रवेशात् तथापि तेनोपलक्षणीभूतेनेष्टतावच्छेदकत्वेन रूपेणेष्टतावच्छेदकधर्माण सर्वसाधारणशक्तिप्रहे भानमुपपद्यते एव यथा हि तत्पदेन घटत्वादीनामुपलक्षणीभूतेन बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मत्वेन भानं भवति तयेत्यर्थः । एतेनेति-यागाधपेक्षया नियनोतरवर्तितावच्छेदको यः स्वर्गस्वादिर्वा वैजात्यादिर्वा धर्मस्तद्वान् यः स्वर्गस्तादृशस्वर्गकत्वम्-वर्गजनकत्वम् ( जनकतासंबन्धेन स्वर्गविशिष्टत्वं हि स्वर्गक "Aho Shrutgyanam" Page #633 -------------------------------------------------------------------------- ________________ उक्ते लावगौरवविचारः] व्युत्पत्तिवादः। (६२१) नियतोत्तरवर्तितावच्छेदकधर्मरूपयागादिसाध्यताज्ञानस्य प्रवृत्तिहेतुत्वे ताशसा. ध्यताविशिष्टेष्टमात्रस्य विध्यर्थत्वे च लाघवम्, तादृशसाध्यताया निरुक्तसाधन.. तान्तर्गतत्वाद् इतीष्टसाधनत्वस्य विध्यर्थत्वं प्रवर्तकत्वं च व्याहन्येत । एवं यत्र कारणतावच्छेदकधर्मोप्यनुपस्थितः. अतिप्रसक्तेन न्यूनवृत्तिना वा धर्मेण कारणमुपलक्षितं तत्र शब्दात् कारणताग्रहानुपपत्तिश्चेति निरस्तम्- व्यापकताघटितकारणतायाः साध्यतामपेक्ष्या गरीयस्या एवोक्तरीत्या प्रवर्तकत्वादिसंभवात्, ताहत्वम् ) एव विध्यर्थस्तत्र च यागादिधर्मिकतादृशकारणताग्रहस्य यागनिष्ठरवर्गादिकारणताग्रहस्यैव यागादौ प्रवृत्तिहेतुता वाच्या पूर्वोक्तेन स्वर्गनिष्ठधर्मावच्छिन्नेत्यादिना नियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वस्यैव विध्यर्थत्वप्राप्त्या यागादिधर्मिकताशकारणताग्रहस्यैव प्रवृत्तिहेतुत्वप्राप्तेरितिभावः, तदपेक्षया च स्वर्गादिधर्मिका स्वर्गादिमिष्ठा या नियतोत्तरवर्तितावच्छेदकधर्मरूपा यागादिसाभ्यता (स्वर्गे नियतोत्तरवर्तिताप्यस्ति यागादिसाध्यताप्यस्तीति यागादिसाध्यता नियतोत्तरवर्तितावच्छेदकधर्मरूपा विज्ञेया ) तादृशसाध्यताज्ञानस्य यागादौ प्रवृत्तिहेतुत्वे तादृशसाध्यताविशिष्टेष्टमात्रस्य-स्वर्गादिधर्मिकनियतोत्तरवर्तितावच्छेदकधर्मरूपयागादिसाध्यता विशिष्टेष्टमात्रस्य च विध्यर्थत्वे लाघवमस्तीत्यर्थः । उक्त हेतुमाह- तादृशसाध्यताया इति, तादृशसाध्यता स्वर्गादिधर्मिकनियतोत्तरवर्तितावच्छेदकधर्मरूपयागादिसाध्यता हि निरुक्तसाधनतायामन्तःप्रविष्टास्ति- साधनतायाः ( कारणतायाः ) साध्यतानिरूपितत्वादिति निरुक्तसाधनतायाः प्रवृत्तिहेतुत्वे तदन्तःप्रविष्टसाध्यताया अपि प्रवृत्तिहेतुत्वं स्यादेवेति गौरवापत्तिः, तस्मादुक्तसाध्यतायाः ( साध्यताज्ञानस्य ) एव प्रवृत्तिहेतुत्वं युक्तम् एवं हष्टिसाधतरवस्य-व्यापकताघटितकारणताया उक्त विध्यर्थत्वं प्रवर्तकत्वं च व्याहन्येतव्याहतमेव न स्वीकार्यमिति यावत् । एवमिति- किंच व्यापकताघटितकारणतायाः प्रवर्तकत्वै विध्यर्थत्वे च यत्र कारणतावच्छेदकधर्मस्य यागत्वादेरुपस्थितिन स्यात् किं त्वतिप्रसक्तेनेष्टजनकत्वादिना धर्मेण कारणमुपलक्षितं स्यात् किं वा न्यूनवृत्तिना तव्यक्तित्वादिधर्मेण कारणमुपलक्षितं स्यात् तत्र शब्दात् तादृशकारणे कारणताग्रहोपि न संभवति- कारणताग्रहे कारणतावच्छेदकधर्मोपस्थितेः कारणत्वादिति नोक्तव्यापकताघटितकारणतायाः प्रवर्तकत्वं युक्तं किं तूक्तसाध्यताया एव प्रवर्तकत्वं युक्तमिति यत्केनाप्युक्तं तदप्येतेन उक्तेन निरस्तं वेदितव्यमित्यन्वयः । अयमर्थः- स्वर्गकारणत्वं हि स्वर्गनिष्ठधर्मावच्छिननिरूपितनियतपूर्ववर्तितावच्छेदकधर्मवत्त्वमेव : एतादृशधर्मवत्त्वरूपस्वर्गकारणत्वग्रहश्चोपपादित एव, किं च यथोक्ततादृशसाध्यताया निरुक्तसाधनतान्तर्गतत्वान्निरुक्तसाधनतायाः व्यापकतावटितकारणतायाः प्रवर्तकत्वे तदन्तःप्रविष्टसाध्यताया अपि प्रवर्तकत्वापत्त्या गौरवं प्रदर्शितं तथा साध्यतापि साधनतानिरूपितेव भवतीति साधनताया उक्तसाध्यतायामन्तःप्रवेशात् साध्यतायाः प्रवर्तकत्वे तदन्तःप्रविष्टसाधनताया अपि प्रवर्तकत्वं स्यादेवेति त्वन्मतेप्येत प्रदर्शितगौरवं तुल्यमेवेत्यर्थः । स्वयमपि निरस्तत्वे 'तुमाह- व्यापकताघटितेति, कारणतायाः साध्यतायाश्च समश. "Aho Shrutgyanam" Page #634 -------------------------------------------------------------------------- ________________ (६२२) सादर्शः [ आख्यातप्रकरणेशसाधनताशरीरे व्यापकतावच्छेदकत्वेनैव कारणतावच्छेदकप्रवेशात् तद्महे विशिष्य तदुपस्थित्यनुपयोगाच्चेति ।। - केचित्तु विजातीयस्वर्गनिरूपितसमवाय एव स्वर्गादिनिष्ठयागादिजन्यतावच्छेदकसंबन्धस्तथा च वैजात्यस्य संबन्धघटकतयैव व्यापकताशरीरे निवेशान्नो. पस्थित्यपेक्षा न वा कारणताविघटकव्यभिचारावकाश इत्याहुः, तदसत्- विजातीयस्वर्गनिरूपितसमवायत्वेन संबन्धतायां मानाभावात् । तादृशसंवन्धघटितव्यापकताया विधिप्रत्ययार्थत्वे तस्य स्वर्गादिनिष्ठवैजात्यभेदेन शक्तिवाहुल्यप्रसरीरत्वेन साध्यतापेक्षया कारणतायां गुरुत्वं नास्तीति व्यापकताघटितकारणताया उक्तरीत्या प्रवर्तकत्वं संभवत्येव, किं च तादृशसाधनताशरीरे व्यापकताघटितकारणतायां कारणतावच्छेदकधर्मस्य व्यापकतावच्छेदकत्वेनैव रूपेण प्रवेशोस्तीति तद्ग्रहे यागादिनिष्ठकारणताग्रहे विशिष्य-विशेषरूपेण कारणतावच्छेदकत्वेन रूपेण तदुपस्थित्यनुपयोगात्-कारणातावच्छेदक. धर्मोपस्थित्यपेक्षाभावात्. कारणतावच्छेदकस्य कारणतायां · कारणतावच्छेदकत्वेन रूपेण प्रवेश एव नास्ति येन कारणतावच्छेदकत्वेन रूपेण कारणतावच्छेदकधर्मोपस्थितेरपेक्षा स्यात् किं तु कारणतावच्छेदकस्य व्यापकतावच्छेदकत्वेन रूपेण प्रवेशोस्ति व्यापकतावच्छेदकत्वेन रूपेण तूपस्थितिः संभवत्येवेत्युक्तव्यापकताघटितकारणताया उक्तरीत्या प्रवर्तकत्वे न का चिदनुपपत्तिरस्तीत्यर्थः । परिहाराय मतान्तरमुपस्थापयति- केचिदिति, यागेन विजातीयः स्वर्ग उत्पद्यते स्वर्गश्च सुखविशेष एव सुखस्य चात्मनि समवाय एष संबन्धः स चारमनिष्ठः सुखसमवायः स्वर्गाभिन्नसुखनिरूपित एवेत्युक्तम्-" विजातीयस्वर्गनिरूपितसमवायः ": इति विजातीयस्वर्गनिकपितसमवाय एव स्वर्गनिष्ठाया यागादिजन्यताया अवच्छेदकः संबन्ध इति वैजात्यस्य संबन्धघटकतयैव व्यापकताशरीरे निवेशोस्तीति वैजात्योपस्थितेरपेक्षा नास्ति तथा च "स्वर्गादिनिष्ठकार्यतावच्छेदकबैजात्यस्य च कारणताग्रहोत्तरकालकल्प्यत्वेन प्रागनुपस्थित्या तदवच्छिन्ननि. हपितव्यापकताबोधासंभवः ६१६ " इत्यनेन यो दोष उक्तः स नास्ति किं चैत्र कारणताविघटकस्य व्यभिचारस्याप्यवकाशो नास्ति- स्वर्गविशेष प्रत्येव यागादिविशेषस्य कारणत्वप्राप्ते:. विजातीयस्वर्गनिरूपितसमवायस्य यागविशेषजन्यस्वर्गविशेषनिष्ठयागादिजन्यतावच्छेदकसंबन्धत्वादित्यर्थः । व्यापकताशरीरे इति- विजातीयस्वर्गनिरूपितसमवायसंबन्धावच्छिन्नस्वर्गवाव. च्छिन्नकार्यतानिरूपितं व्यापकत्ववटितकारणत्वं यागेस्तीति वैजात्यस्य संबन्धघटकतयैव व्यापकताशरीरे निवेशोस्तीत्यर्थः । परिहरति- तदसदिति, विजातीयस्वर्गनिरूपितसमवायत्त्वस्य गुरुधर्मत्वाद् विजातीयस्वर्गनिरूपितसमवायस्य संबन्धत्वं न संभवतीत्यर्थः । दोषान्तरमाह-ताह. शेति, तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वरूपं व्यापकत्वमेव कारणत्वम्, इष्टसाधनत्वमेव च विधिप्रत्ययार्थ इति व्यापकत्वस्यैव विध्यर्थत्वं प्राप्तं तत्र ताशसंबन्धघटितव्यापकतायाः विजातीयस्वर्गनिरू. "Aho Shrutgyanam" Page #635 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः । प्रकृतशक्तिविचारः ] ङ्गात् । तादृशकार्यसंबन्धघटितेष्टकारणतायाश्च प्रमाणान्तरेणाऽप्रत्यायितत्वात् तंत्र शक्तिग्रहानुपपत्त्या शाब्दबुद्धौ तद्भानाऽनुपपत्तेश्च । न चेष्टतावच्छेदकत्वो पलक्षितस्वर्गत्वावच्छिन्ने कारणताघटकाधिकरणादिपदार्थे च खण्डशः शक्तिरुपेया. आकाङ्क्षावशाच्चाधिकरणरूपविध्यर्थे विजातीयस्वर्गनिरूपितसमवायस्य संबन्धतया भानात् तादृशकार्यसंबन्धघटित कारणतायाः शाब्दबोधे भानमुपगन्तव्यं न तु तादृशसंबन्धान्तर्भावेन शक्तिरिति न का चिदनुपपत्तिरिति वाच्यम्, एवं सत्यपि संसर्गतात्पर्यज्ञानानुरोधेन तादृशसंसर्गोपस्थित्यपेक्षाया दुर्वारत्वात् । पितसमवायघटितव्यापकताया विधिप्रत्ययार्थत्वे हि तस्य विधिप्रत्ययार्थस्य विजातीय स्वर्गनि रूपितव्यापकत्वस्य स्वर्गादिनिष्ठवैजात्यानन्त्येनाऽऽनन्त्याद् विधिप्रत्ययशक्त्यानन्त्यं स्यादित्यर्थः । दोषान्तरमाह - तादृशकार्येति, तादृशेन कार्यसंबन्धेन = विजातीयस्वर्ग निरूपितसमवायेन घटिता येष्टकारणता तस्याः प्रमाणान्तरेणाऽज्ञातत्वात् तत्र == तादृशकारणतायां विधिप्रत्ययस्य शक्तिप्रहानुपपत्त्या शाब्दबोधे तत्-तस्या उक्तकारणताया मानानुपपत्तिश्च - शाब्दबोधशक्तिज्ञानयोः समानविषयकत्व नियमात् प्रमाणान्तरेण ज्ञाते एवं पदार्थे शक्तिग्रहसंभवादित्यर्थः । ननु विजातीयस्वर्गनिरूपितसमवायस्य शक्तिप्रहे प्रवेशो नास्ति येन तादृशवैजात्यानन्त्येन शक्त्यानन्त्यं स्यात् किं तु विजातीयस्वर्गनिरूपितसमवायस्याऽधिकरणरूपविध्यर्थे= आत्मनि संबन्धत्वेन रूपेणाकाङ्क्षाबलेन मानं स्वीकुर्भस्तथा च न शक्त्यानन्त्यं शक्तिस्तु विधिप्रत्ययस्येचतावच्छेदकत्वोपलक्षितस्वर्गत्वावच्चिने कारणताघटकाधिकरणादिपदार्थे च खण्डशोस्ति तथा ( ६२३ ) च. · तादृशकार्यसंबन्धघटितकारणतायाः [:== आकाङ्क्षाबलमासमान विजातीयस्वर्गनिरूपितसमवायघटित कारणतायाः शाब्दबोधे माने न काचिदनुपपत्तिः- शुद्धेष्टकारणताया अनुमानादिप्रमाणवेद्यत्वेन तस्यां शक्तिमहानुपपत्त्यभावादित्याशङ्क्याह - न चेति, अत्र तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वं यत् कारणत्वं तत्र तद्वदित्यधिकरणस्य प्रवेशेन शक्यत्वादुक्तम्- कारणताघटकाधिकरणपदार्थे " इति, स्वर्गादिरूपं सुखं ह्यात्मन्युत्पद्यते इति तदधिकरणमात्मैव तस्मिंश्च विध्यर्थभूते आत्मरूपाधिकरणपदार्थे विजातीयस्वर्गस्य समवाय एव संबन्धः स चाकाङ्क्षाबलेन ग्रासते न तु शक्त्या । उत्तरमाह - एवमिति, एवमपि ' विजातीयस्वर्गनिरूपितसमवायेन स्वर्गत्वावच्छिन्नविशिष्टमधिकरणं विधिप्रत्ययो बोधयतु' इत्याकारकसंसर्गविषयक तात्पर्यज्ञाने विजातीयस्वर्ग निरूपितसमवायोपस्थित्यपेक्षा स्यादेव उपस्थितिश्च शक्तिमहं विना न भवतीति वैजात्यानन्त्येन शक्यानन्त्यं स्यादेवेत्यर्थः । << "Aho Shrutgyanam" वाक्ये यत् तत्संसर्गेण विशेषणविशिष्टविशेष्यपरत्व ( बोधकत्व ) ज्ञानं तदेव संसर्गमाननियामकं भवतीति स्वीकार्य तथा च "स्वर्गकामो यजेत " इतिवाक्यं विजातीय स्वर्गनिरूपितसमवायेन स्वर्गत्वावच्छिन्नाभिन्न विशेषणविशिष्ट यदात्माऽभिन्नाधिकरणरूपं विशेष्यं तत्परं Page #636 -------------------------------------------------------------------------- ________________ ( ६२४ ) सादर्श: [ आख्यातप्रकरणे न च तत्संसर्गेण विशेषणविशिष्टविशेष्यपरत्वज्ञानमेव संसर्गभान नियामकं तत्रापि च संसर्गः संसर्ग एव न तु विशेषणमिति न ज्ञानापेक्षेति वाच्यम्, विशेषणविशिष्टविशेष्यस्य वाक्यार्थत्वेन पूर्वमनिश्चिततया तत्परत्वग्रहस्य शाब्दबोधातु पूर्वमसंभवात्, तत्तत्संबन्धविषयतानिरूपित विशेषणादिविषयताशालिबोधपरत्यज्ञानस्यैव हेतुतया तत्र संबन्धस्य विशेषणतया तदुपस्थितेरावश्यकत्वात् । एवं विजातीयस्वर्गनिरूपितसमवायसंबन्धेन स्वर्गत्वावच्छेदेन जन्यतोपगमे " स्वर्गत्वस्याश्वमेधजन्यत्वसामानाधिकरण्यमात्रमेव हि शब्देनापि प्रतीयते न तु स्वर्गत्वस्य जन्यतावच्छेदकत्वमा सामर्थ्यादसंभवाच्च" इत्यादिमिश्रप्रन्यविरोधः । यत्तु वैजात्यमेव कार्यतावच्छेदकं तच्च संबन्धविधयैव कारणताघटक कार्यतद्बोधकमिति ज्ञानमेव विजातीयस्वर्गनिरूपितसमवायमाननियामक ( भासक ) मस्ति तत्र = रतादृशज्ञानेपि चोक्तसंसर्गः संसर्ग एव न तु विशेषणं येन तदुपस्थित्यपेक्षा स्यादित्याशङ्कयाह-- न चेति । परिहारमाह-विशेषणेति, विशेषणविशिष्टविशेष्यं हि वाक्यार्थबोधविषयो भवतीति तस्य वाक्यार्थबोधात् पूर्वमनिश्चिततया वाक्यस्य विशेषणविशिष्टविशेष्यपरत्वज्ञानमेव वाक्यार्थबोधात् पूर्व न संभवति येन तस्य संसर्गमाननियामकत्वं स्यादित्यर्थः । विवक्षितबोधपरत्वज्ञानस्य संसर्गभाननियामकत्वेपि संसर्गोपस्थित्यपेक्षामाह-- तत्तत्संबन्धेति, विवक्षितसंबन्धविषयतानिरूपिता या स्वर्गदिरूपविशेषणविषयता तादृशविषयताशाली यो बोधस्तादृशबोधपरत्वस्य वाक्ये यज्ज्ञानं तदेवसंबन्धमान नियामकम् एतादृशबोधपरत्वज्ञाने च संबन्धविषयताया विशेषणविषयतानिरूपकत्वेन मानात् संबन्धविषयतायां च संबन्धो विशेषणमेवेति संबन्धस्य विशेषणतया मानात्तदुपस्थित्य-. पेक्षा प्राप्तैष, स्वयुक्तस्य विशेषणविशिष्टविशेष्यपरत्यज्ञानस्य तु संसर्गभाने नियामकत्वं न संभवति तस्योक्तरीत्या वाक्यार्थबोधात् पूर्वमसंभवादित्यर्थः । “विजातीयस्वर्गनिरूपितसमवाय एव स्वर्गा दिनिष्ठयागादिजन्यतावच्छेदकसंबन्धः " इत्युक्ते मुरारिग्रन्थविरोधमपि प्रदर्शयति- एवमिति । मुरारिप्रन्यमाह - स्वर्गत्वस्येति, यत्र स्वर्गेऽश्वमेधादियागजन्यत्वं तत्र स्वर्गत्वमप्यस्त्येवेति स्वर्ग यागादिजन्यतासामानाधिकरण्यमात्रमस्ति न तु यागादिजन्यतावच्छेदकत्वम् - असामर्थ्यात् = स्वर्गत्वे विधिप्रत्ययशक्तेरस्वीकारात् वैजात्ये वा विजातीयस्वर्गत्वे एव वा विधिप्रत्ययशक्तिस्वीकारात्, असंभवाच्च = स्वर्गत्वं हि गङ्गास्नानादिजन्यस्वर्गसाधारणतयाऽतिप्रसक्तमेव न चातिप्रसक्तधर्मस्यावच्छेदकत्वं संभवतीति मिश्रेणोक्तं तत्र यदा स्वर्गत्वं यागादिजन्यतावच्छेदकमेव नास्ति तदा विजातीयस्वर्गनिरूपितसमवायस्य कथं स्वर्गत्वादिनिष्ठयागादिजन्यतावच्छेदकसंबन्धवं स्यादित्यर्थः । परिहाराय मतान्तरमुपस्थापयति- यत्त्विति, उक्तवैजात्यमेव यागादिनिरूपितायाः स्वर्गादिनिष्ठायाः कार्यताया अवच्छेदकं तच्च वैजात्यं संबन्धविधयैव कारणताघटकमिति न तदुपस्थि-त्यपेक्षा न वा तत्र विधिप्रत्ययशक्तिग्रहस्याप्यऽपेक्षा येन तादृशवैजात्यानन्त्येन शक्त्यानन्त्यं स्यात्, तच्च वैजात्यं तत्तयागादिजन्यतत्तत्स्वर्गादिव्यक्तिमात्रविश्रान्तमिति नाप्यतिप्रसक्तं येन तस्य कार्यतावच्छेदकत्वं न स्यादित्यर्थः, वैजात्यस्य संबन्धविवया कारणताघटकत्वं प्रदर्शयति " Aho Shrutgyanam" Page #637 -------------------------------------------------------------------------- ________________ योगसाध्यतावच्छेदकविचारः ] व्युत्पत्तिवादः । (६२५) तावच्छेदकधर्मविशिष्टनिरूपितकार्यतावच्छेदकसंबन्धेन कार्यवनिष्ठाभावाप्रतियो. गित्वस्य कारणताशरीरे निवेश्यत्वादिति, तदप्यसत्- कार्यस्य कार्यतावच्छेदकरूपेणैव निवेशनीयतया तदुपस्थित्यपेक्षाध्रौव्यात् । न च संबन्धसंकोचे प्रमेयत्वेनैव कार्यप्रवेशः संभवतीति वाच्यम्, विजातीयस्वर्गवन्निष्ठाभावप्रतियोगितात्वस्यागुरोरवच्छेदकत्वसंभवे विजातीयस्वर्गीयसमायसंबन्धेन प्रमेयवन्निष्ठाभावप्रतियोगितात्वरूपगुरुधर्मावच्छिन्नाभावाप्रसिद्धः। एतेन स्वर्गत्वमेव यागजन्यतावच्छेदकम्. अवच्छेदकताघटकसमवायसंबन्धसंकोचेन न व्यभिचार इत्यपि निरस्तम्- ताशसंबन्धविशेषेणेष्टतावच्छेदक. कार्यतावच्छेदकधर्मेति, कार्यतावच्छेदकधर्मो वैजात्यं तद्विशिष्टो यः स्वर्गस्तनिरूपितः तत्प्रतियोगिको यः कार्यतावच्छेदकसंबन्धः समवायस्तेन संबन्धेन स्वर्गादिरूपकार्यवान् यः आत्मा तनिष्ठाऽभावाप्रतियोगित्वमेवात्र कारणत्वं तथा च वैजात्यस्यात्र संबन्धस्वरूपे प्रवेशोस्तीति न तदुपस्थित्यपेक्षेत्यर्थः । परिहरति- तदप्यसदिति, कार्यवनिष्ठात्यन्ताभावाप्रतियोगित्वं यत् कारणतास्वरूपमुक्तं तत्र तत्ततकार्यव्यक्तिनिवेशे शक्त्यानन्त्यं स्यादिति कार्यस्य कार्यतावच्छेदकरूपेण= कार्यत्वेनैव रूपेण निवेशः कर्तव्यः कार्यतावच्छेदकरूपं च वैजात्यमेव तथा च कार्यस्य स्वर्गादेईजात्यरूपेण कारणताशरीरे निवेशे कृते तादृशबैजात्योपस्थितेरपेक्षा प्राप्तव. उपस्थित्यर्थ च वैजात्ये विधिप्रत्ययशक्तिप्रहापेक्षा प्राप्ता वैजात्यं च तत्तत्कार्यव्यक्तिभेदेन नानैवेति शक्त्यानन्त्य स्यादेवेत्यर्थः । ननु न कार्यस्य कार्यतावच्छेदकरूपेणोक्तकारणताशरीरे निवेशः कर्तव्यो येनोक्तरीत्या वैजास्यभेदेन शक्त्यानन्त्य स्यात् किं तु कार्यस्य कारणताशरीरे प्रमेयत्वेनैव रूपेण निवेशः कर्तव्यः संबन्धस्य कार्यतावच्छेदकधर्मविशिष्टत्यादिना संकोचः कृत एव तत्र प्रमेयत्वस्य स्वरूपसंबन्धेनातिप्रसक्तत्वेप्युक्तकार्यतावच्छेदकेत्यादिसंबन्धेनातिप्रसक्तत्वं नास्ति-- एतादृशसंबन्धेन प्रमेयत्ववतः स्वर्गसुखस्य यागजन्यापूर्वविशिष्टात्ममात्र विश्रान्तत्वादित्याशझ्याह- न चेति । परिहारमाह- विजातीयेति, कारणत्वं हि तद्वन्निष्ठाभावप्रतियोगिताऽभावरूपमेवएतादृशाभावप्रतियोगिनी च तद्वन्निष्ठाभावप्रतियोगितैव तदवच्छेदकत्वं च तद्वन्निष्ठाभावप्रतियोगितात्वस्य प्राप्तं तत्र विजातीयस्वर्गवन्निष्ठाभावप्रतियोगितात्वस्यागुरोः कारणताघटकप्रतियोगितावच्छेदकरवे संभवति सति विजातीयस्वर्गनिरूपितसमवायेन प्रमेयवनिष्ठाभावप्रतियोगितात्वावच्छिन्नप्रतियोगिताकाभावस्य कारणत्वेन रूपेण स्वीकारो न संभवति- उक्त प्रतियोगितावच्छेदकधर्मस्य उक्तसमवायप्रवेशेन गुरुत्वादिति ने कार्यस्य प्रमेयत्वेन रूपेण कारणताशरीरे निवेशः संभवति किं तु कार्यतावच्छेदकरूपेणैव तत्र च शक्त्यानन्त्यदोषः प्रदर्शित एवेत्यर्थः। उक्तपरिहारमन्यत्रातिदिशति- एतेनेति । अवच्छेदकतेति- स्वर्गस्वस्य समवायेन यागजन्यतावच्छेदकत्वमस्तीस्यवच्छेदकताघटकः समवाय एवं स्वर्गत्वस्य संबन्धस्तस्य च समवायस्य संकोचः कर्तव्यः अर्थाद् विजातीयस्वर्गीयसमवायस्य संबन्धत्वं वक्तव्यं तादृशसमवायेन च "Aho Shrutgyanam" Page #638 -------------------------------------------------------------------------- ________________ (६२६) साद [ भाख्यातप्रकरणेविशिष्टस्य प्रमाणान्तसज्वेद्यतया तत्र शक्तिनिश्चयासंभवात्. न हि समभिव्याहृतफलबोषकपदोपस्थाप्यतावच्छेदकत्वरूपोपलक्षणधर्मेण यथा स्वर्गवादीनां शक्तिग्रहे भानं तथोपलक्षणीभूततादृशंपदोपस्थाप्यतावच्छेदकसंबन्धत्वेन विजातीयस्वर्मनिष्ठसमवायादेरपि तत्र भानसंभव:- स्वर्गपदाच्छुद्धसमवायेनैव स्वर्गत्वविशिष्टस्योपस्थितेः । विशिष्टसमवायेन स्वर्गत्वविशिष्टस्य स्वर्गपदार्थत्वोपगमे लक्षणाप्रसङ्गात्. शुद्धसमवायेन स्वर्गत्वविशिष्टविषयककामनावतोऽनधिकारप्रसङ्गात् । मीमांसकास्तु " अहरहः संध्यामुपासीत " इत्यादौ नित्यतया निष्फले सन्ध्योपासनादाविष्टसाधनत्वस्यायोग्यत्वेनाऽन्वयासंभवान्नेष्टसाधनत्वं लिङर्थः। . अथ सन्ध्यावन्दनादेरप्यर्थवादोपस्थापितब्रह्मलोकावाप्त्यादिफलसाधनत्व-मव्याहतम्, यत्र नित्येर्थवादादपि न फलोपस्थितिस्तत्रापि फलाभावनिश्चाय कप्रमाणाभावाद् योग्यतासंशयसंभवेन फलसाधनत्वप्रत्ययो लिङादितः संभस्वर्गवं यागजन्ये एव स्वर्गे संभवति न तु गङ्गास्नानादिजन्यस्वर्गेपीति न व्यभिचार इत्यर्थः । निरासहेतुमाह- तादृशेति, विजातीयस्वर्गीयसमवायसंबन्धेनेष्टतावच्छेदकरूपस्वर्गवविशिष्टश्य तादृशविजातीयस्वर्गस्य प्रमाणान्तरावेद्यतया तत्र स्वर्गपदशक्तिनिश्चयाऽसंभवात् तदर्थं यागे प्रवृत्तिर्न स्यात प्रमाणान्तरवेद्ये एव शक्तिनिश्चयसंभवादित्यर्थः । न हीति--- " स्वर्गकामो यजेत " इत्यत्र समभिव्याहृतफलबोधकं यत्स्वर्गपदं तदुपस्थाप्यतावच्छेदकस्यरूपोपलक्षणधर्मय डोन रूपेण यथा स्वर्गवादीनां स्वर्गादिपदशक्तिमहे मानं भवति तथा तत्रशकिग्रहे उपलक्षणीभूतसममिवारपास्क रसंवधवेन विजातीयस्वालिष्ठसमवायस्य मानं न भवतीति न तादृशसमवायेन स्वर्गवविशिष्टे स्वर्गपदशकिग्रहः संपनीत्यर्थः । उक्त हेतुमाह- स्वर्गपदादिति । उक्त दोषान्तरमाह- विशिष्टति, यदि विशिष्ठसमवायेनोक्तेन स्वर्गत्वविशिष्ट स्वर्गपदस्य शक्तिः स्यात्तदा शुद्धसमवायेन स्वर्गत्वविशिष्टे स्वर्गपदस्य लक्षणैव प्रसज्येत न चैतदिष्टमित्यर्थः । दोषान्तरमप्याह- शुद्धेति, यदि विशिष्टसमघायेनैव स्वर्गत्वविशिष्टस्य स्वर्गपदवाच्यत्वं स्यात्तदोक्तविशिष्टसमवायेनेव स्वर्गस्वविशिष्टविषयककामनावतो यागेऽधिकारः स्यान्न तु शुद्धसमवायेन स्वर्गत्वविशिष्टविषयककामनावतोपि न चैतदिष्टमिति न संबन्धभूतसमवायसंकोचपक्ष उक्तो युक्त इत्यर्थः । ___ मीमांसकमतमुपदर्शयति- मीमांसका इत्यादिना, सफलस्यैवेष्टसाधनत्वं संभवति न तु निष्फलस्यापीति नित्यकर्मविधायकवाक्यघटकलिङ इष्टसाधनत्वार्थकत्वासंभवानेष्टसाधनत्वं लियः किं तु प्रवर्तकत्वमेव तच्च सर्वत्रैव लिङोर्थः संभवतीत्यर्थः । शङ्कते- अथेति । अर्थवादश्चात्र " सन्ध्यामुपासते ये च " इत्यादि यः । यत्र नित्येस्नानादावर्थवादेनापि फलं न प्रतिपाद्यते तत्र फलाभावनिश्चायकप्रमाणाभावाद् योग्यतासंशयसंभवात् फलयोग्यतासंशयेनापि लिङादितस्ताहशनित्ये फलसाधनत्वज्ञानं संभवत्येवेति लिज O "Aho Shrutgyanam" Page #639 -------------------------------------------------------------------------- ________________ नित्यकर्मविषयक विचारः ] व्युत्पत्तिवादः । ( ६२७ ) वस्व । न च तद्बोधों नोपयोगी- निष्फलतया ज्ञाते चैत्यवन्दनादी प्रवृत्तिवारणायेष्टसाधनताज्ञानस्य प्रवृत्तिहेतुतावश्यकत्वेन नित्यविधेः प्रवृत्तिनिर्वाहाय तस्य फलसाधनताबोधकताया आवश्यकत्वादितिचेत् ?, न- सन्ध्यामुपासते ये च सततं संशितव्रताः " इतिश्रुतौ " सततम् " इतिश्रुतेः कदाचिद् यस्य सन्ध्यावन्दनादिबाधस्तेन स्वीयसन्ध्यावन्दने ब्रह्मली-कावाप्तिफलानुपधानस्य निश्चिततयाऽहरहः सन्ध्यावन्दने ब्रह्मलोकावाप्तिसाथनताबोधनेपि तस्य सन्ध्यावन्दने प्रवृत्त्यनिर्वाहात् । यत्र च नित्ये विशिष्य फलबोधकोऽर्थवादादिर्नास्ति तत्र विधिप्रत्ययेनेष्टत्वेन फलसाधनताबोधस्य जननेपीच्छाविषयतावच्छेदकस्वर्गत्वादिरूपविशेषधर्मप्रकारेण फलविषयकतत्साधनताबोधस्याsनिर्वाहेण प्रवृत्यनिर्वाहात् । इष्टसाधनताज्ञानाऽघटितकारणस्तीमाइष्टसाधनत्वार्थकत्वं युक्तमेवेत्यर्थः । ननु फलयोग्यतासंशयेन जायमानस्तादृशानित्ये लिङादितः फलसाधनत्वबोध निरुपयोग एवं स्याद् निश्वयात्मकबोधस्यैवोपयोगित्वादित्याशङ्कयाह- न चेति । परिहारहेतुमाह- निष्फलतयेति, नित्यविधेरिति पञ्चम्यन्तम् । यदि लिङः फलसा - धनत्वम् = इष्टसाधनत्वमर्थो न स्याचदा निष्फलतया ज्ञातेपि चैत्यवन्दनादौ प्रवृत्ति: स्वादेव न चेतदिष्टम्, यदा च फलसाधनत्वं लिडर्यस्तदा निष्फलतया ज्ञाते चैत्यवन्दनादी प्रवृत्त्यापत्तिर्नास्तीति प्रवृत्ति प्रतीष्टसाधनताज्ञानस्यैव कारणखं स्वीकार्य तथा च नित्यविधिः प्रवृत्त्युपपत्त्यर्थं तस्य नित्यविधेरपीष्टसाधनताबोधकत्वं स्वीकार्यमेश लिङादितच फलसाधनं - ८८ अथेत्यादिना शकितं परिहरति- नेति । बाधः =भङ्गः । ब्रह्मलोकावातिफलानुपधानस्थ ब्रह्मलोकप्राप्तिरूपफलाजनकत्वस्य | प्रवृत्त्यनिर्वाहादिति-- नैरन्तर्येणोपासितसंभ्यावन्दनस्य ब्रह्मलोकप्राप्तिरूपफलजनकत्वेपि नैरन्तर्यरहितसंध्यावन्दनस्य तु सततम् " इतिवचनानुरोधेन ब्रह्मलोकावाप्तिफलजनकत्वं न संभवतीतीष्टसाधनत्वमपि न स्यादिति तस्य तंत्र प्रवृत्तिरपि न स्थान तस्मान्नेष्टसाधनत्वं लिङर्थ इति न नैरन्तर्यरहितसन्ध्यावन्दनादौ प्रवृत्त्यऽनिर्वाह इत्यर्थः । यत्रेशि यत्र च नित्ये खानादो फलस्य विशेषरूपेण बोधकोर्थवादो नास्ति तत्र यद्यपि विवित्ययेनेष्टत्वेन - सामान्यरूपेण फलसाधनताबोधः संभवत्येव तथापि प्रवृत्तिर्हि विशेषरूपेणेव फलसाधनताज्ञाये जाते भवति न तु सामान्यत इष्टसाधनताज्ञानमात्रेणापि सर्वस्येव कंचित प्रतीष्टत्वसंभवादिति तंत्रेच्छा विषयतावच्छेदको यः स्वर्गत्वादिरूपविशेषधर्मस्तत्प्रकारेण फलविषयक तत्साधनताबोधो न संभवति - विशेषरूपेण फलबोधकप्रमाणाभावादिति तत्र प्रवृत्तिर्न स्थादेवेति नेष्टसाधनत्वं लिङर्थ इत्यर्थः । इष्टसाधनतेति- इष्टसाधनताज्ञानवर्जित कारण समूहरूपायाः सन्ध्यावन्दनाभावे - नरकं भवतीत्याकारकं यत् सन्ध्यावन्दनाद्यभावगोचरो नरकादिसाधनताज्ञानं तादृशज्ञानाधी 66 आर्थवादिकमपि फलं नास्ति सत्र कोचः संभवत्येवेस्पर्म। 1 "Aho Shrutgyanam" Page #640 -------------------------------------------------------------------------- ________________ ( ६२८ ) सादर्श: त्मिकायाः सन्ध्यावन्दनाद्यभावगोचरनरकादिसाधनताज्ञानाधीनतद्गोचरद्वेषघ टितसामय्या एवं सन्ध्यावन्दनादौ प्रवर्तकताया उपगन्तव्यतया नित्यस्थले इष्टसाधनताबोधस्यानुपयोगिताया दुर्वारत्वात् । बच "विश्वजिता यजेत'' इत्यत्र विशिष्टफलाश्रवणेपि यथा स्वर्गैकामपदस्या ध्याहारेण तत्समभिव्याहाराद विशेषरूपावच्छिन्नस्वर्गसाधनताबोधस्तथा नित्यस्थलेपि विशेषधर्मप्रकारक स्वर्गसाधनताबोधसंभवादुक्तप्रवृत्तिसामथ्र्यन्तरकल्पनमयुक्तमिति वाच्यम्, बहुवित्तव्ययाऽऽयाससाध्यविश्वजिद्रयागे तत्तद्यामपश्वादिफलोद्देशेन प्रवृत्त्यनुपपत्तेस्तद्विधेः : स्वर्गफलतात्पर्यनिश्चयात्, सन्ध्यावन्दनादी चापायाससाध्ये ग्रामादिफलोद्देशेनापि प्रवृत्त्युपपत्तेस्तद्विधेः स्वर्गपरत्वनिश्चयाsयोगात, स्वर्गादिफलकामनारहितैर्मुमुक्षुभिरपि सन्ध्यावन्दनाद्याचरणाद् उक्तप्रवृत्तिसामग्रीकल्पनस्यावश्यकत्वाच्च तादृशसामग्री विना प्रायश्चित्तादाविष्टा - साधने प्रवृत्यनिर्वाहाच्च । न च तत्रापि पापध्वंसरूपेष्टसाधनताज्ञानात् प्रवृत्तिर्निर्वहति, सुखदुःखाभा वेतरगोचरेच्छायामिष्टसाधनताज्ञानस्य नियमतोऽपेक्षायां निष्फलपापध्वंसस्येष्टननरकादिगोचरो यो द्वेषस्तद्घटिताया एव सामय्याः सन्ध्यावन्दनादौ प्रवर्तकत्वं स्वीकार्य तथा च तादृशसामग्र्यैव नित्ये प्रवृत्तिसंभवे नित्ये इष्टसाधनताबोधो निष्फल एवेति नेष्टाधनत्वंविदा नरकादी द्वेषे सत्येव नरककारणीभूतस्य सन्ध्यावन्दनाद्यभावस्य परिवर्जनाय सन्ध्यावन्दनादी प्रवृत्तिरिति प्रवर्तकसामग्र्या करकादिद्वेषयटितत्वमुक्तम्ः । शङ्कते - न चेति । तत्समभिव्याहारात् = अध्याहृतस्वर्गकामपदसमभिव्याहारात् । विशेषरूपावच्छिन्न स्वर्गसाधनताबोधः = विशेषरूपावच्छिन्नो यः स्वर्गस्तत्साधनताबोधः । नित्यस्थ लेपि यत्रार्थवादिकमपि फलं नास्ति तत्र स्वर्गकामपदाध्याहारात् स्वर्गत्वादिविशेषधर्म प्रकार कस्वर्गादिसाधनताबोधस्य नानुपपत्तिरिति तत्रापीष्टसाधनताज्ञानात् प्रवृत्तिः संभवत्येवेति नरकादिगो चरद्वेषघटित सामग्र्याः प्रवृत्त्यर्थकल्पनं न युक्तमित्यर्थः । उत्तरमाह - बहुवितेति, विश्वजिद्यागे स्वर्गरूपफलावाप्तिं विना प्रवृत्तिर्न संभवतीति तद्विधेः = विश्वजिद्विधितः स्वर्गफले तात्पर्यनिश्चयः संभवति न चैवं नित्यकर्मण्यस्तीति न तत्र फलत्वेन स्वर्गकल्पना संभवति, स्वर्गकामनारहिता अपि सन्ध्यावन्दनं कुर्वन्तीति न तंत्र फलत्वेन स्वर्गकल्पना संभवतीति नित्ये प्रवृत्त्यर्थमुक्तद्वेषघटितसामय्याः कल्पनमावश्यकमेव प्रायश्चित्तादौ च प्रवृत्यर्थमप्युक्तसामग्रीकल्पन-मावश्यकमेवेत्यर्थः । [ आख्यातप्रकरणे ननु तत्रापि=प्रायश्चित्तेपि पापध्वंसरूपेष्टसाधनत्वमस्त्येवेति तज्ज्ञानेन कथं न प्रवृत्तिः स्यादिस्याशङ्क्याह- न चेति । परिहारहेतुमाह - सुखेति, सुखदुःखाभावाम्यामितरस्येच्छायां नियमेनेष्टसाधनताज्ञानापेक्षा भवति निष्फलस्य पापध्वंसस्य चेष्टत्वं न संभवतीति तादृशपापध्वंस "Aho Shrutgyanam" Page #641 -------------------------------------------------------------------------- ________________ नित्यकर्म विषयक विचारः ] वासंभवात् । नरकसाधनगोचरद्वेषस्य तद्ध्वंसगोचरेच्छाजनकत्वोपगमेऽस्मत्समीहितायामिष्टसाधनत्वज्ञानाऽघटितमवृत्तिसामग्र्यामविवादात्, कृतिसाध्यताज्ञानसहितेच्छासामान्यसामग्रीतश्चिकीर्षोत्पत्तेर्निष्फलेपि सन्ध्यावन्दनादौ निर्वाण व्युत्पत्तिवादः । ( ६२९ ) प्रवृत्त्युपपत्तेः । न च नरकानुत्पाद एव प्रायश्चित्तस्य सन्ध्यावन्दनादेश्व फलमितीष्टसाधनताज्ञानघटितैव प्रवृत्तिसामग्री. नरकद्वेषवतां च तदनुत्पादे नियमत एवेच्छेति तेषां नित्यसन्ध्यावन्दनाद्यनुष्ठानमुपपद्यते. अन्यैश्च तन्नानुष्ठीयते इतिवाच्यम्, नरकानुत्पादस्य तत्प्रागभावात्मकस्य प्रतियोगिविकल्पप्रासेन फलत्वाऽसंभवात्, अत्यन्ताभावस्य प्रतियोगिविरोधितया कदाचित् पापान्तरेण यस्य नरकदुःखं जनितं जनिष्यते वा तदात्मन्यत्सत्त्वाद नित्यत्वेन चोभयोः फलत्वासंभवात् । कारणीभूतप्रायश्चित्ते इष्टसाधनताज्ञानासंभवात् प्रवृत्तिर्न स्यादेव न च पापध्वंसस्य सुखरूपत्वं वा दुःखाभावरूपत्वं वास्तीति नेष्टसाधनत्वं लिड इति प्रायश्चित्ते प्रवृत्त्युपपत्त्यर्थमुक्तद्वेषधाटेतसामग्री कल्पनमावश्यकमेवेत्यर्थः । नरकेति - नरकसाधनीभूतपापस्य द्वेषेण तद्ध्वंस पापसगोचरेच्छा जायते तादृशेच्छया च पापध्वंसजनकप्रायश्चित्ते प्रवृत्तिर्भवतीति स्वीकारे विष्टसाधनताज्ञानरहिताया नरकादिद्वेषंघटित सामग्र्या उक्तायाः प्रवर्तकत्वं प्राप्तमेवेत्यर्थः । कृतिसाध्यताज्ञाने जाते इच्छायां च जातायां सन्ध्यावन्दनादौ चिकीर्षा संभवति तादृशचिकीर्षानन्तरं च निष्फलेपि संन्ध्यावन्दनादौ प्रवृत्ति संभवतीति नेष्टसाधनत्वं वि इत्यभिप्रायेणाह - कृतिसाध्यतेति । निर्वाहेण= चिकीर्षोत्पते निर्वाहेणेत्यन्वयः शङ्कते- न चेति । नरकानुत्पादः = नरकप्रागभाव एव तत्र ( प्रायश्चित्तादौ ) फलमिति - तादृशफलसाधनताज्ञानात् सन्ध्यावन्दनादौ प्रवृत्तिः संभवत्येवेति नोक्तद्वेषघटित सामम्यन्तरक - पनं युक्तमित्यर्थः । तदनुत्पादे = नरकानुत्पादे । तेषाम् = नरकद्वेषवताम् । अन्यैः नरकद्वेषरहितैः । तत् = सन्ध्यावन्दनादिकम् । परिहारमाह - नरकानुत्पादस्येति । प्रतियोगीति-सन्ध्यावन्दनादिना सामान्यतो नरकप्रागभावस्तु न संभवत्यन्यथा सन्ध्योपासकस्य परस्त्रीगमनादि - नापि नरको न स्यात्. नरकविशेषप्रागभावस्य स्वीकारे कस्य नरकस्य प्रागभाव इति प्रतियोग्यवधारणासंभवाद् नरकप्रागभावस्यापि फलत्वं न संभवतीत्यर्थः । नरकाध्यन्ताभावस्थापि फलत्वं न संभवतीत्याह- अत्यन्तामावस्येति, नित्यस्य स्वयमेव सत्त्वान्न फलत्वंसंभवतीत्युक्तम्- नित्यत्वेनेति । यदात्मनि नरकदुःखं जनितं जनिष्यते वा तदात्मनि नरकात्यन्ताभावस्य प्रतियोगिविरोधित्वेनाऽसंभवादेव न फलत्वं संभवति, यदात्मनि च नरकदुःखं न जनितं न वा जनिष्यते तदात्मन्यपि नरकात्यन्ताभावस्य फलत्वं न संभवति सिद्धत्वादित्यर्थः । उभयोः नरकस्य प्रागभावाऽत्यन्ताभावयोः । नित्यत्वेन =स्त्रयमेव सिद्धखेन । साध्यस्यैव फलत्वसंभवादिति । नरकं हि दुःखरूपमात्मसमवेतं भवतीति तदत्यन्ताभावेनाऽप्यात्मन्येव "Aho Shrutgyanam" Page #642 -------------------------------------------------------------------------- ________________ ( ६३० ) सादर्श: [ आख्यातप्रकरणे CE योगक्षेमसाधारणसाधनतायाश्च गुरुशरीरत्वेन प्रवृत्त्यनुपयोगित्वात् । ---यदपि मण्डलीं कुर्यात् इत्यादिवाक्य प्रामाण्यवारणायेष्टसाधनत्वस्य विध्यर्थत्वमावश्यकमिति, तदपि न - मण्डलीकरणादिजन्य तद्ध्वंसादिरूपफलेपिं कदाचित कस्यचिदिष्टताभ्रमेणेच्छोत्पत्या मण्डलीकरणादावपीष्टसाधनत्वाsबाधेनेष्टसाधनत्व विध्यर्थतामतेपि तद्वाक्यप्रामाण्यस्यावश्यकतयेष्टापत्तेः । 'स्वकामो मण्डली कुर्यात् ' इतिवाक्यजन्यबोधे च स्वर्गकामनाया मण्डलीकरणादिनिष्ठ कर्तव्यत्वप्रयोजकत्वभानेन तदर्थबाधेन तद्वाक्याप्रामाण्योपपत्तेः । न चेष्टसाधनत्वस्य विधिप्रत्ययार्थत्वानुपगमे स्वर्गकामो यजेत " इत्यादिवाक्याद् यागादौ प्रवृत्त्यनुपपत्तिः- तत्राभावगोचरद्वेषघटितसामय्यसंभवात्यागाद्यभावस्य नरकादिरूपद्विष्टसाधनत्वाभावात् इष्टसाधनत्वबोधक मानाभावेन भवितव्यमित्युक्तम् — तदात्मनीति | योगेति- अप्राप्तस्य प्राप्तिर्योगः, प्राप्तस्य परिरक्षणं क्षम तत्र यागादौ स्वर्गादियोगसाधनता सन्ध्यावन्दनादौ च नरकानुत्पादस्य क्षेमरूपपरिरक्षणसाघनतेत्युभयसाधारणेष्टसाधनत्वस्य विध्यर्थत्वं प्रवृत्त्युपयोगित्वं च न संभवति- गुरुशरीरत्वादिति प्रवर्तकत्वमेव लिडर्थो न त्विष्टसाधनत्वमित्यर्थः । 66 शकते - यदपीति । मण्डली कुर्यात् " इति बौद्धानां वाक्यं ते हि नरकनिवृत्त्यर्थ मिलिया मण्डलाकारेण च स्थित्वा - कामप्युपासनां कुर्वन्तीति तेषां मतम् । तत्र यदीष्टसाधनस्वं विध्यर्थो न स्यात्तदा कुर्यात् इतिवापि प्रवर्तकत्वस्याव्याहतत्वात् प्रामाण्यं स्यादेव न च प्रामाण्यमिष्टमितीष्टसाधनत्वं विध्यर्थस्तथा च मण्डलीकरणादाविताधनत्वस्य बाधादस्य वाक्यस्य प्रामाण्यापत्तिर्नास्तीत्यर्थः । परिहरति-तदपि नेति, मण्डलीकरणजन्यं यत् पापादिध्वंसरूपं फलं तत्रापि कस्यचिद् यदीष्टताभ्रमेणेच्छा स्यात्तदा तज्जनकमण्डलीकरणादाविष्टसाधनत्वमत्राधितं स्यादेवेतीष्टसाधनत्वस्य विध्यर्थत्वस्वीकारपक्षेपि मण्ड लोम् " इतिवाक्यप्रामाण्यस्यावश्यकतया तत्प्रामाण्यापत्ताविष्टापत्तिरेवास्तीति न तद्वाक्यप्रामाण्यवारणायेष्टसाधनत्वस्य विध्यर्थत्वस्वीकारावश्यकतेत्यर्थः । स्वर्गकामेति - यदि ' स्वर्गकामो मण्डलीं कुर्यात् ' इत्युच्येत तदैतादृशवाक्यजन्ये ' मण्डलीकरणेन स्वर्ग संपादयेत्' इतिबोधेमण्डलीकरणनिष्ठा या कर्तव्यता तादृशकर्तव्यताप्रयोजकत्वं स्वर्गकामनायां भासते तदर्थत्राधेन= स्वर्गकामनाय च मण्डलीकरणादिनिष्ठकर्तव्यत्वप्रयोजकत्वं वास्तविकं नास्त्येवेति बाधितार्थबोधकत्वात् ' स्वर्गकामो मण्डलीं कुर्यात् ' इतिवाक्यस्य त्वऽप्रामाण्यं सुघटमेवेति नेष्टसाधन विध्यर्थ इत्यर्थः । शङ्कते - न चेति, इष्टसाधनत्वज्ञानं विना प्रवृत्तेरसंभवादितिभावः, ननु यागे उक्तया तदभावगोचरनरकादिसाधनताज्ञानाधीनतद्गोचरद्वेषघटितसामग्र्यैव प्रवृत्तिर्भविष्यतीत्याशङ्क्याह-तत्रेति, तत्र=यागादिस्थले । सामग्र्यभावे हेतुमाह- यागाद्यभावस्येति, यागाऽकरणेन नरको न भवतीति 37 32. "Aho Shrutgyanam" 63 ८८ Page #643 -------------------------------------------------------------------------- ________________ विधिप्रत्ययार्थविचारः व्युत्पत्तिवादः । तज्ज्ञानघटितसामथ्या अपि भवन्मते दुर्घटत्वादिति वाच्यम, इष्टसाधनत्वस्य विध्यर्थताविरहपि 'स्वर्गाऽसाधनं न स्वर्गकामनाधीनकृतिसाध्यम्' इतीतरबाधबलाद स्वर्गकामकृतिसाध्यतान्वयितावच्छेदकतया स्वर्गसाधनत्वस्पोक्तविधिजन्यबोधे भानाद् यागादाविष्टसाधनताज्ञानादेव प्रवृत्तिनिर्वाहात् । इत्थं च सन्ध्याबन्द. नादौ तत्कालावच्छिन्नशौचादिकमेवाधिकारो न तु फलकामनापि, अतः फलकामनाशून्यस्यापि शौचादिमतः सन्ध्यावन्दनाकरणं प्रत्यवायजनकम् । फलकामनायास्तत्राधिकारत्वे तच्छून्यस्पाऽनधिकारितया तदकरणं न प्रत्यवायमावहेत् । __ • न च मुमुक्षापवादेन स्वर्गादिरूपफलकामनायाः कदाचिदसंभवपि नरकाभावरूपफले नियमत एवेच्छा संभवतीति न शौचादिमतः सन्ध्यावन्दनाद्यऽकरणस्य प्रत्यवायजनकत्वानुपपत्तिरिति वाच्यम्, नरकाद्यनुपस्थित्यैव सदभावाऽज्ञानेन तदिच्छाविरहोपपत्तरित्याहुः ।। स्पष्टमेव, ननु यागादौ मानान्तरजन्येष्टसाधनस्वज्ञानेन प्रवृत्तिर्भविष्यतीत्याशक्याह- इष्टसाधन त्वबोधकेति । तज्ज्ञानघटितसामन्या:=प्रमाणान्तरजन्येष्टसाधनत्वज्ञानवटितसामग्या अप्यसंभषेनोक्तरीत्या यागादौ प्रवृत्त्यनुपपत्तिः प्राप्तेलि प्रवृत्त्युपपत्यर्थमिष्टसाधनत्वस्य विध्यर्थत्वं स्वीकार्यमिति पूर्वपक्षार्थः । इष्टसाधनत्वस्य विध्यर्थताविरहेपि यागादाविष्टसाधनत्वज्ञानं संभवत्येवेत्यभिप्रायेणोत्तरमाह- इष्टसाधनत्वस्येति, स्वर्गकामनाजन्यकृतिसाध्यं स्वर्गसाधनमेव संभवति न तु स्वर्गाऽसाधनमपीतीतरस्य स्वर्गासाधनस्य बाधबलात् स्वर्गकामकृतिसाध्यत्वबाधाद् उक्तविधिः जन्यबोधे=" स्वर्गकामो यजेत ॥ इति विभिखाक्यजयोले सलमानसानायो मागस्तनिधा या स्वर्गकामकृतिसाभ्यता बाशमा मतान्ययितावच्छेदकतया स्वर्गसाधनत्वस्य भानं भवतिस्वर्गसाधनस्यैव स्वर्गकामकृतिसाभ्यत्वेन स्वर्गसाधनत्वस्य स्वर्गकामकृतिसाध्यतावच्छेदकत्वान् तथा चेष्टभूतस्वर्गसाधने यागादावीदेवेष्टसाधनत्वज्ञानं जायते तेन च तत्र प्रवृत्तिनिर्वहतीति नेष्टसाधनत्वस्य विध्यर्थत्वस्वीकारापेक्षेत्यर्थः । मीमांसकः स्वसिद्धान्तान्तरमाह- इत्थमिति । इत्थम् = इष्टसाधनत्वस्य विध्यर्थत्वास्वीकारेण । फलकामनाया अनधिकारत्वस्य फलमाह-अत इति, यदि फलकामनाप्यधिकारः स्यात्तदा फलकामनाशून्यस्य तदकरणम्-सन्ध्यावन्दनाऽकरणं प्रत्यवाय. जनकं न स्यादित्याह-फलकामनाया इति । फलकामनाया अपि सन्ध्यावन्दनाद्यधिकारत्वे दोषापत्तिरुक्ता नास्तीत्यभिप्रायेणाशङ्कतेन चेति, मुमुक्षोः स्वर्गादिफलकामना न भवतीति मुमुक्षापवादेन मुमुक्षाबाधेन स्वर्गादिरूपफलकामनाया असंभवेपि मुमुक्षोरपि नरकाभावरूपंफले तु नियमेनेच्छा संभवत्येवेति नरकाभावरूपफलकामनायाः सन्ध्यावन्दनाद्यधिकारत्वं स्वीकार्य तथा च शौचादिमतो . नरकामावरूपफलकामनावत्त्वात सन्ध्यावन्दनाऽकरणं प्रत्यवायजनकं स्यादेवेत्यर्थः । उत्तरमाह- नरकाधनुपस्थित्यैवेति, "अहरहः सन्ध्यामुपासीत " इत्येवं विधिवाक्यं न चात्र नरकाद्युपस्थापक पदमस्तीति नरकोपस्थित्यभाषान्न नरकाभावज्ञानम् ( नरकामावसाधनता ज्ञानं वा ) संभक्तीति "Aho Shrutgyanam" Page #644 -------------------------------------------------------------------------- ________________ (६३२) सादर्श: [ आख्यातप्रकरणेतदसत्- ध्वंसादेरत्यन्ताभावविरोधिताया निष्प्रामाणिकतया नरकात्यन्ताभावस्यैव । प्रायश्चित्तसन्ध्यावन्दनादिफलत्वसंभवादिष्टसाधनताज्ञानाघटितप्रवृतिसामन्या असिद्धेः । कारणान्तरकल्पनापेक्षया गुरुशरीरक्षेमसाधारणसाधनताज्ञानस्यैव सर्वत्र प्रवृत्तिहेतुतेति । 'दण्डाद् घटः ' इत्यादिप्रतीतिबलात् स्वरूपसंबन्धविशेषरूपस्य क्षेमसाधारणसाधनत्वस्योपगमे तच्छरीरगौरवस्याभावाञ्चेति । नित्यस्थले शौचादिफलकामनयोरुभयोरधिकारत्वेपि प्रत्येकमेव तयोरधिकारता न तु मिलितयोरिति फलकामनाशून्यस्यापि शौचादिमतोऽधिकारित. या तस्यापि नित्याकरणं प्रत्यवायजनकम् । ___अथ वा सन्ध्यावन्दनाकरणेन प्रत्यवायजननेऽधिकारैकदेशशौचादिमत्त्वमेव सहकारि न तु फलकामनापि तदसत्वेपि प्रत्यवायोत्पत्तेः सर्वसिद्धत्वात् । एतेन तदिच्छापिनरकामावरूपफलेच्छापि न संभवतीति न नरकामावफलकामनाया अधिकारस्वं संभवति किं तु शौचादिकस्यैवेति मीमांसका आहुरित्यर्थः । प्रदर्शितमीमांसकमतं परिहरति- तदसदिति, यत्र तध्वंसो भवति तत्र तदत्यन्ताभावोपि संभवत्येवेति नरकात्यन्तामान एव प्रायश्चित्तसन्ध्यावन्दनादीनां नित्यानां फलं तादृशफलस्येष्टत्वा. दिष्टसाधनत्वं सन्ध्यावन्दनादौ प्रातमेवेतीष्टसाधनताज्ञानेनैव प्रवृत्तिः संभवतीति नेष्टसाधनताज्ञा. नरहिता प्रवृत्तिसामग्री संभवतीति न मीमांसकमतं युक्तं तथा चेष्टसाधनत्वं विध्यर्थों भवत्येवे. त्यर्थः। कारणान्तरेति- कारणान्तरस्य मीमांसकोक्तद्वेषघटितसामग्र्याः कल्पनापेक्षया गुरुशरीरस्यापि क्षमसाधारणस्य सावताशानव प्रतिहेतुक सुकमेव कारणान्तरकल्पने परमगौरवादित्यन्वयः, गुरुत्वं च पूर्व प्रतिपादितमेव, किं च फलोपधायकवस्वरूपे एव क्षेमसाधारणसाधनत्वे गौरवमस्ति न तु स्वरूपयोग्यतारूपेपीत्याह-दण्डादिति, 'दण्डाद् घटः । इत्यत्र दण्डत्वावच्छेदेन घटसाधनत्वं प्रतीयते न च दण्डत्वावच्छेदेन फलोपधायकत्वरूपं साधनत्वमस्ति- अरण्यस्थदण्डे व्यभिचारादिति दण्डत्वावच्छेदेन स्वरूपसंबन्धविशेषरूपम् स्वरूपयोग्यतारूपमेव साधनत्वं स्वीकार्यम्- अरण्यस्थदण्डादावपि स्वरूपयोग्यतारूपसाधनत्वस्य सत्त्वादित्यर्थः । तच्छरीरगौरवस्थः-स्वरूपसंबन्धस्वरूपसाधनत्वशरीरे गौरवस्याभावाचेत्यर्थः । नित्यस्थले इति, प्रत्येकमिति- शौचे पृथगधिकारत्वं फलकामनायां च पृधगधिकारत्वं तथा च फलकामनाशून्यस्यापि शौचयुक्तस्याधिकारितया नित्याकरण तस्यापि प्रत्यवायं जनयत्येवेत्यर्थः । अदि शौचफलकामनयोरुभयोरेकमेवाधिकारत्वं व्यासक्तं स्यात्तदा फलकामनारूपाधिकारामावे फलकामनारहितस्प शौचयुक्तस्याप्यधिकारित्वाभावप्रसक्त्या तस्य नित्याकरणं प्रत्यवायजनक न स्यादिति शौचफलकामनयोः प्रत्येकमेवाधिकारता स्वीकृतेति भावः । पक्षान्तरमाह- अथ वेति, अत्र पक्षेपि शौचफलकामनयोरुभयोः प्रत्येकमेवाधिकारत्वं तथाप्यधिकारैकदेशभूतं शौचादिमत्त्रं यत् तदेव प्रत्यवायजनने सहकारि न तु फलकामनापितदसत्त्वेपि फलकामनाया असत्त्वेपि प्रत्यवायोत्पत्तेः सर्वसिद्धत्वात् तथा च फलकामनाया "Aho Shrutgyanam" Page #645 -------------------------------------------------------------------------- ________________ ..इष्टसाधनत्वस्य विध्यर्थत्वम् ] व्युत्पत्तिवादः । ६३३) संवलिताधिकारानुपगमे शौचादिशून्यफलकामनावतो देवान्नित्याकरणं प्रत्यवायं जनयेदिति निरस्तम् । अत एव नित्य काम्यजयन्तीव्रतादौ फलकामनाया अधिकारत्वस्य सर्वसिद्धतया शौचादिमतः फलकामनारहितस्य तदकरणं प्रत्यवायं जनयति । अपरे तु 'चैत्यं न वन्देत ' इतिवाक्यप्रामाण्यानुरोधेनेष्टसाधनत्वस्य विध्यर्थत्वमावश्यकम्, कृतिसाध्यत्वादिमति चैत्यवन्दनादौ कृतिसाध्यत्वाद्यभावस्य ना बोधने तद्वाक्यस्याप्रामाण्यापत्तेः । कृतिसाध्यतायाश्च विधित्वं निर्युक्तिकम् - तदनङ्गीकारेपि कृतेराख्यातसामान्यार्थतया विधिप्रत्ययस्यापि तदर्थकतया ' पचेत ' इत्यादौ कृतेः पाकानुकूलत्व मानस्य । वश्य कतयाऽर्थात् पाकाअभावेपि प्रत्यवायोत्पत्तिसहकारिणः शौचादिमत्त्वस्य सत्त्वेन प्रत्यवायोत्पत्तेर्नानुपपत्तिरित्यन्वयः । एतेनेति - यत् केनाप्युक्तं संवलिताधिकारानुपगमे = शौचफलकामनोभयव्य सिक्ताधिकाराऽस्वीकारे शौचादिशून्यस्य फलकामनावतोप्यधिकारित्वात् तस्यापि नित्याकरणं प्रत्यवायजनकं स्यात् न चैतदिष्टमित्युभयसंवलितः ( व्यासक्तः ) अधिकार : स्वीकार्यस्तथा च शौचाभावेनाधिकारिवाभावान्न शौचशून्यस्य नित्याकरणं प्रत्यवायजनकमिति तन्निरस्तं यतः संवलिताधिकारानुपगमेपि शौचादिशून्यस्य फलकामनावतोपि नित्याकरणं न प्रत्यवायजनकं भवति - प्रत्यवायोत्पत्ति सहकारिणः शौचादिमत्त्वस्यैवाभावादित्यर्थः । एतेन शौचादिमत्त्वस्य प्रत्यवायोत्पत्तिसहकारिrandणेत्यर्थः । अत एव = शौचादिमत्त्वस्य प्रत्यवायोत्पत्ति सहकारिवादेव, सदरमू नित्यकाम्यजयन्तीव्रताद्यकरणम् | जयंतीव्रतस्य नित्यत्वात् फलकामनायाः असत्त्वेपि प्रत्यवायोरप - त्तिसहकारिणः शौचस्य सत्त्वेन प्रत्यवायोत्पत्तिरुपपद्यत इत्यर्थः । ८ मतान्तरं प्रदर्शयति- अपरे त्विति, 'चैत्यं न वन्देत ' इतिवाक्यस्य प्रामाण्यमिष्टं तत्रेष्ट - साधनत्वस्य विध्यर्थत्वे ' चैत्यवन्दनमिष्टसाधनत्वाभाववत् । इत्येवं बोधजनकत्वेन प्रामाण्यमु पपद्यते यदि चेष्टसाधनत्वं न विध्यर्थः किं तु कृतिसाध्यत्वमेव तदा चैत्यवन्दने कृतिसाध्यत्व स्य सत्त्वेपि नत्रा कृतिसाध्यत्वाभावबोधने बाधितस्य कृतिसाध्यत्वाभावस्य बोधनेन चैत्यं न वन्देत ' इतिवाक्यस्याऽप्रामाण्यमेवाऽऽवद्येतेत्यर्थः । कृतिसाध्यताया विधित्वम् = विध्यर्थ त्वमुपपद्यपि नेत्याह- कृतिसाध्यतायाश्चेति । निर्युक्तिकत्वमुपपादयति-- तदनङ्गीकारेपीति, कृति. सांध्यताया विध्यर्थत्वा नङ्गीकारे व्याख्यातमात्रस्य कृतौ शक्तिः स्वीकृतेति विधिप्रत्ययस्यापि कृत्य..र्थकत्वम् = कृतौ शक्तिः प्राप्तैव तथा ' पचेत ' इत्यादौ प्रत्ययार्थकृती पाकानुकूलत्वं भासते . एवेति स्वीकार्यम् - कृतेः क्रियाविशेषानुकूलत्वस्वरूपत्वादिति कृतौ पाकानुकूलत्वे प्राप्ते पाकेऽर्थादेव . कृतिसाध्यखं प्राप्नोत्येव न चार्थलभ्यस्य शक्यत्वं युक्तमिति न कृतिसाध्यतायां विध्यर्थत्वं सयुक्तिकमित्यर्थः । नन्विष्टसाधनत्वस्य विध्यर्थत्वे विधिप्रत्ययेन पाकादाविष्टसाधनत्वं बोधनीयं तादृशेष्टसाधनताज्ञानेन च पाकादौ प्रवृत्तिः स्यादिति विधिवाक्यजन्यशाब्दबोधस्य साक्षात् प्रवर्तकत्वं "Aho Shrutgyanam" Page #646 -------------------------------------------------------------------------- ________________ ( ६३४ ) सादर्श: [ आख्यातप्रकरणे दावपि कृतिसाध्यतामानात् । कृतिसाध्यताया विधित्वेपिं तत्तत्कालतत्तत्पुरुषविशेषविशेषितकृतिसाध्यताविषयकस्य प्रवर्तकज्ञानस्य शाब्दबोधोत्तरमेव स्वीक रणीयतया विधिवाक्पजशाब्दबोधतः साक्षात् प्रवृत्यनिर्वाहात् । 3 अस्तु वा साध्यतासंबन्धेनैवाख्यातसामान्यार्थकृतेः क्रियायां विधिपत्ययजन्यबोधे भानम्, प्रवर्तिका चिकीर्षापि साध्यतासंबन्धेन कृतिप्रकारिका क्रिये - च्छैव । न च लडादिस्यले आख्यातार्थकृतेः क्रियाविशेष्यतयैव भानमिति - व्युत्पत्तेः क्लृप्तत्वात् ' पचेत ' इत्यादौ न तस्याः क्रियाविशेषणतया मानसंभव इतिवाच्यम्, व्युत्पत्तिवैचित्रयेण तदुपपत्तेः शक्त्यभेदोपे व्युत्पत्तिभेदे बाधकाभावात्, अत एव प्राचीनै राख्यातार्थस्यैव कृतेः कर्मप्रत्ययस्थले क्रियाविशेषणतया न स्यादित्याशङ्क्याह- कृतिसाध्यताया इति, कस्य चिदेव कस्मिंश्चिदेव काले किंचित् कृतिसाध्यं भवति न तु सर्वस्य सर्वदा सर्वमिति कृतिसाध्यताया विध्यर्थत्वस्वीकारेपि तत्तत्कालतत्तत्पुरुषविशेषितकृतिसाध्यताविषयकं यत्प्रवर्तकं ज्ञानं तद् विधिवाक्यजन्यशाब्दबोधोत्तरमेव संभवतीति विधिवाक्यजन्यशाब्दबोधानन्तरं जायमानेन कृतिसाध्यता विषय केनोक्तविशेषज्ञानेन प्रवृत्तिः स्यादिति विधिवाक्यजशाब्दबोधस्य त्वन्मतेपि साक्षात् प्रवर्तकत्वं नैव संभवतीत्यर्थः । 'ननु विधिवाक्यजन्यबोधेपि कृतिसाध्यत्वं भासते एव न तु विधिवाक्य जशाब्दबोधोत्तरमेवेति निगम इत्याह- अस्तु वेति, क्रियायां साध्यत्वमस्तीति तादृशसाध्यत्वसंबन्धेनाख्यातार्थकृतिवि.. सिटी भमानं किं च प्रवर्तिका या चिकीर्षा सापि साध्यसासंबन्धेन कृतिप्रकारिका क्रियेच्छेव भवतु क्रियाया साध्यतास्ति तादृशसाध्यतासंबन्धेन श्रुतिविशिष्टा या क्रिया तादृशक्रियेच्छेव प्रवर्तिका भवत्विति न ज्ञानान्तरमुक्तं विधिप्रत्ययजन्यशाब्दबोघन्तरं जायमानं प्रवर्तकं कल्पनीयम् एवमपि कचित् पाकादावित्र सर्वत्रैव यागपाकादी लौकिकप्रमाणादेव कृतिसाध्यताबोधो निर्वहतीति न कृतिसाध्यत्वं विध्यर्थ इत्यग्रिमेणान्वयः । मध्ये शङ्कते - न चेति, पचति' इत्यादी पाकानुकूलकृतिमान् ' इत्याकारकबोधोदयात् कृतेः क्रियाविशेष्यत्वेन भानं भवतीति पचेत ' इत्यादौः कथं तस्या:=कृतेः साभ्यतासंबन्धेन क्रियायां विशेषणत्वं त्वदुक्तं सङ्गच्छेतेत्यर्थः । उत्तरमाह-- व्युत्पत्तीति, व्युत्पतिवैचित्र्येण = बोधवैचित्र्यप्रभावेन पचेत ' इत्यादौ कृतेः क्रियाविशेषणत्वमप्युपपद्यते एवेत्यर्थः ः । शक्त्यभेदेपीति- यद्यपि ' पचति ' पचेत' इत्युभयत्रैवाख्यातस्याख्यातत्वेन रूपेण कृतौ शक्तिरस्तीति शक्तिभेद: - ' पचति । इत्यत्राख्यातस्य कृतावन्यरूपा शक्ति: : पचेत ? इत्यत्र चाख्यातस्य कृतौ भिन्नरूपा शक्तिरिति शक्तिभेदो नास्ति तथापि बोधभेदे बाधकं किमपि नास्तीति लडादिस्थले कृतेः क्रियाविशेष्यतया भानं भवति लिङादिस्थळे च क्रियाविशेषणतया भानं भवतीत्यर्थः । अत एव शक्त्यभेदेपि व्युत्पत्तिभेदे बाधकाभावादेव कर्मप्रत्ययस्थलेपि कृते: क्रियाविशेषणतया भानं भवति - पाकानुकूलकृतिजन्यपाकजन्य विक्कित्त्याश्रय इत्यादिरित्याह “ "Aho Shrutgyanam" Page #647 -------------------------------------------------------------------------- ________________ निषेधवाक्यार्थविचारः ] व्युत्पत्तिवादः । ( ६३५ ) भानमुपेयते । एवं च क्वचित् पाकादाविव सर्वत्रैव यागपाकादी लौकिकप्रमाणादेव कृतिसाध्यताबोधो निर्वहतीति वदन्ति । "न कलअं भक्षयेत् ” इत्यादिनिषेधंविधेः प्रामाण्यानुरोधतो. बलवदनिष्ठाननुबन्धित्वस्य विध्यर्थप्रवेश :- निषिद्धेपि कलञ्जभक्षणादौ तृप्त्यादिरूपेष्टसाधनत्वसत्त्वेन तदभावस्य नञा बोधने प्रामाण्यानुपपत्तेः, बलवदनिष्टाऽननुबन्धित्वस्य विधित्वे तस्यैवाभावो बलवदनिष्टनर कानुबन्धिनि तत्तत्कर्मण्य बांधितो बोध्यते इति तत्प्रामाण्योपपत्तिः । बलवदनिष्टाननुबन्धित्वस्येष्टसाधनता विशेषणतया वाच्यत्वे विशिष्टाभावस्यैव शाब्दबोधे भानम्, सोपि विशेषणाभावायत्तोऽबाधितः कलञ्जभक्षणादौ. विशिष्टाभावबोधानन्तरमेव तल्लिङ्गकानुमानगम्यो बलवदनिष्टानुबन्धित्वरूपस्तदनअत एवेति । प्राचीनैरिति- प्राचीनमते कर्मप्रत्ययस्थलेपिः कृतिराख्यातार्थ एव तादृशाख्यातार्थभूतकृतेः क्रियाविशेषणत्वमिति दृष्टान्तः, नवीनमते तु कर्मप्रत्ययस्थले कृतिस्तृतीयार्थो भवति न खाख्यातार्थ इति तृतीयायाः कृतौ शक्तिभिन्नैवेति शक्तिभेदे प्राप्ते लडादिस्थले भाख्यातार्थकृतेः क्रियाधिशेष्यत्वेपि कर्मप्रत्ययस्थले तृतीयार्थकृतेः क्रियाविशेषणत्वे न किंचिद्वैषम्याप्रतिरिति भावः इदं च तृतीयाकारकारम्भे द्रष्टव्यम् । उपसंहरति- एवमिति, यथा कचित पाकादौ लौकिकप्रमाणात् = प्रत्यक्षानुमानादितः कृतिसाध्यताबोधो भवति - चैत्रस्य समर्थत्वे तत्समवेतकृतिसाध्यत्वस्य पाकादो बोधोदयात् तथा सर्वश्रेष दिप्रमाणेन कृतिसाध्यताबोधी नितिन कृतिसाध्यत्वे विध्यर्थे इत्यपरे वदन्तीत्यन्वयः । नेति । विपक्षे बाधकमाह-- निषिद्धेपीति, यदि बलवदनिष्टाननुबन्धित्वम् = बलवदनिष्टाजनकत्वं विष्यर्थो न स्यात्तदा कलजभक्षणेपि तृप्त्यादिरूपेष्टसाधनत्वमस्त्येवेति तदभावस्य = ताद्दशेष्टसाधनत्वाभावस्य नत्रा बोधने बाधितार्थप्रतिपादकत्वादुक्तवाक्यस्य प्रामाण्यं नोपपद्येत. इष्टं च प्रामाण्यमित्यर्थः । स्वपक्षे साधकमाह - बलवदिति, बलवदनिष्टाननुचन्धित्वस्य विधित्वे विध्यर्थत्वे तु तस्य = बलवदनिष्टाननुबन्धित्वस्यैवाभावो नञा बलवदनिष्टरूपनरकादिजनके कल क्षणादिकर्मणि बोध्यते तादृशकर्मणि बलवदनिष्टाननुबन्धित्वाभावश्चाबाधित एवेत्ययाचितार्थबोधकत्वात् तत् = तस्योक्तवाक्यस्य प्रामाण्यमुपपद्यते, एवमन्यत्रापि निषेधवाक्यानां प्रामाण्योपपत्तिरित्यर्थः । ८८ मतान्तरमुपदर्शयति- बलवदनिष्टाननुबन्धित्वस्येति, यदि बलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेषणतया विधिप्रत्ययवाच्यखं नाम बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वस्य विधिप्रस्ययवाच्यता तदा न कल भक्षयेत्" इत्यादौ विशिष्टाभावस्यैव बलवदनिष्टाननुबन्धि स्वविशिष्टेष्टसाधनत्वाभावस्यैव शाब्दबोधे भानं संभवति-- कलञ्जभक्षणं बलवदनिष्टाननुबन्धिस्वविशिष्टेष्टसाधनत्वाभाववदित्यर्थः । सोपीति- कलञ्जभक्षणादौ तृप्यादिरूपेष्टसाधनत्वमस्त्ये "Aho Shrutgyanam" Page #648 -------------------------------------------------------------------------- ________________ सादर्श: [ आख्यातप्रकरणेनुबन्धित्वाभावः । प्रवर्तकमिव निवर्तकमपि ज्ञानं श्रुतिवाक्यात् परम्परयैव न तु साक्षात् । .. एतन्मते च न ताशाभावस्य शाब्दबोधे भानम्- पदार्थकदेशतयेतरविशेपणतयोपस्थितत्वेन नार्थविशेषणतयाऽनिष्टाननुवन्धित्वाऽन्वयासंभवात् । वस्तुतो विशिष्टशक्ती विशेष्यविशेषणभावे विनिगमनाविरहात् पृथगेव बलवदनिष्टाननुबधिताया वाच्यत्वम् ।। न च बलवदनिष्टाननुबन्धित्वस्यष्टसाधनत्वविशेष्यत्वे विधिवाक्यतः क्रियावेत्युक्तविशिष्टाभावो न विशेष्याभावप्रयुक्तः किं तु विशेषणाभावायत्तः विशेषणाभावप्रयुक्तोऽबाधित एव- कलञ्जभक्षणादौ नरकादिरूपबलवदनिष्टाननुबन्धित्वाभावस्य सत्त्वादेवेति विशिष्टाभाव. बोधानन्तरम् 'यत्र विशिष्टाभावो भवति तत्र विशेषणाभावो भवत्येव ' इतिरीत्या तल्लिङ्गकानुमानगभ्यः विशिष्टोभावलिङ्गकानुमानगम्यस्तदननुबन्धित्वाभावः= बलवदनिष्टाननुबन्धित्वाभावोस्ति स च बलवदनिष्टानुबन्धित्वरूपः बलवदनिष्टजनकत्वरूप इत्यन्त्रयः । कलञ्जभक्षणे विशेष्यस्य तृप्त्यादिरूपेष्टसाधनत्वस्य सत्त्राद्विशिष्टाभावस्य सत्त्वं विशेषणाभावाधीनमेवास्ति न तु विशेष्याभावाधीनं वोभयाभावाधीनं वा. विशिष्टस्य च विध्यर्थत्वेन ना विशिष्टाभावस्यैव प्रतीतिर्भवतीति विशेषणाभावस्य बलवदनिष्टाननुबन्धित्वाभावस्य प्रतीतिस्तु विशिष्टाभायाधीनास्तीति विवेकः । प्रवर्तकमिति- यथा “यजेत " इत्यादौ श्रुतिवाक्यादिष्टसाधनamtamanानं जायते न तु साक्षाच्छतिवाक्यात् तथा “न भक्षयेत्" इत्यादावपि श्रुतिवाक्यात्तु बलवदनिष्टाननुबन्धिस्वविशिष्टेष्टसाधनत्वामावज्ञानं जायते तेन च द्विष्टसाधनत्वादिज्ञानरूपं निवर्तकं ज्ञानं जायते न तु साक्षाच्छृतिवाक्यादित्यर्थः । = प्रदार्शतमतं विविनक्ति- एतदिति, एतन्मते बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वस्य विध्यर्थत्वमते तादृशाभावस्य बलवदनिष्टाननुबन्धित्वाभावस्य शाब्दबोधे भानं न भवतीत्यर्थः । .भानाभावे हेतुमाह- पदार्थैकेति, विशिष्टस्य विध्यर्थत्वेन बलवदनिष्टाननुबन्धित्वं हीष्टसाधनत्वविशेषणतयोपस्थितं भवत्यत एव पदार्थेकदेशोपि भवति तथा चेष्टसाधनत्वे विशेषणतां प्राप्तस्य बलवदनिष्टाननुबन्धित्वस्य स्वप्रतियोगिकत्वसंबन्धेन नअर्थाभावे विशेषणत्वं न संभवति नापि नअर्थाभावस्थ बलवदनिष्टाननुबन्धित्वविशेषणत्वं संभवति बलवदनिष्टाननुबन्धित्वस्य पदार्थैकदेशत्वात् " पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन " इतिव्युत्पत्तिविरोधादिति नोक्तमते बलबदनिष्टाननुबन्धित्वाभावस्य शाब्दबोधे भानं संभवति किं तु बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाभावस्यैव भानं संभवतीत्यर्थः । स्वाभिप्रायमाह-वस्तुत इति । ननु बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वयोर्विशेषणविशेष्यभावेऽस्ति विनिगमकमित्यभिप्रायेणाशङ्कते- न चति, यदि बलवदनिष्टाननुबन्धित्वस्येष्टसाधनत्वविशेष्यत्वं स्यादिष्टसाधनत्वस्य च बलबदनिष्टाननुबन्धित्वे विशेषणत्वं स्यात्तदैकत्र विशेषणस्यान्यत्र विशेषणत्वस्य व्युत्पतिविरुद्ध "Aho Shrutgyanam" Page #649 -------------------------------------------------------------------------- ________________ निषेधवाक्यार्थ विचार: ] व्युत्पत्तिवादः । (६३७) विशेष्य केष्टसाधनताज्ञानासंभवात् क्रियागोचरचिकीर्षाद्यर्थं विधिवाक्यजशाब्दबोधोत्तरमिष्टसाधनत्वप्रकारकक्रियाविशेष्यकज्ञानान्तरं कल्पनीयमिति तदकल्पनमयुक्तलाघवमेव बलवदनिष्टाननुवन्धित्वस्य विशेषणत्वे विनिगमकमिति वा - च्यम्, क्रियायां बलवदनिष्टाऽसाधनत्वज्ञानस्यापि तद्गोचरेच्छाहेतुतया बलवदनिष्टाऽसाधनत्वस्येष्टसाधनत्वाविशेषणत्वमते क्रियाविशेष्यकतत्प्रकारकज्ञानान्तरस्य कल्पनीयतया मतद्वये कल्पनासाम्यात् । यदि च बलवदनिष्टसाधनत्वज्ञानमेव द्वेषसामग्रीत्वे नेच्छाप्रतिबन्धकं न तु तदत्वेनेष्टसाधनत्वस्य क्रियायां विशेषणत्वेन विधिवाक्यजबोधे भानं न स्यात् - विधिवाक्यजबोधे इष्टसाधनत्वस्य बलवदनिष्टाननुबन्धित्वविशेषणत्वेन मानस्य प्राप्तत्वात् प्रवृत्तिश्च तत् क्रियाविशेष्यकेष्टसाधनत्वप्रकारकज्ञानादेव संभवतीति क्रियाविषयकचिकीर्षाद्यर्थं विधिवाक्यजशाब्दबोधोंतरमिष्टसाधनत्वप्रकारकक्रियाविशेष्यकं ज्ञानं कल्पनीयम् = प्रमाणान्तरेणोत्पादनीयमित्येतादृशकल्पनाप्रयुक्तं गौरवमस्ति यदा च बलवदनिष्टाननुबन्धित्वस्येष्टसाधनत्वे विशेषणत्वमिष्टसाधनत्वस्य च बलवदनिष्टाननुबन्धित्वे विशेषपत्वं तदैकत्र विशेष्यस्यान्यत्र विशेषणत्वे व्युत्पत्ति विरोधामावाद् विधिवाक्यजबोधे बलवदनिष्टाननुबन्धित्वे विशेष्यस्यापीष्टसाधनत्वस्य विधिवाक्यजबोधे क्रियायां विशेषणत्वेन भानं संभवतीति विधिवाक्यादेव क्रियाविशेष्यकेष्टसाधनत्वप्रकारकज्ञानसंमवातादृशज्ञान विधिवाक्यजशाब्दबोधानन्तरं न कल्पनीयमिति तदकल्पनप्रयुक्तं लाघवमस्तीति तदेव लाघवं बलवदनिष्टाननुबन्धित्वस्येष्टसाधनत्व विशेषणत्वे विनिगमकुस्तीत्यर्थ: । मह क्रियायामिति, तदुमोचरेच्छा निवारिपच्छा ज मयकेच्छायामिष्टसाधनत्वमात्रज्ञानस्य कारणत्वमस्ति. अन्यथा विषयुक्तान्न भोजनेच्छापि स्यात् किं तु बलवदनिष्टासाधनत्वज्ञानस्यापि कारणत्वमस्त्येव बलवदनिष्टाऽसाधनत्वस्य बलवदनिष्टाननुबन्धित्वरूपस्य चेष्टसाधनत्वे विशेषणत्वेन विधिवाक्यजबोधे भानस्वीकारात् क्रियायां विशेषणत्वेन भानं न संभवतीति क्रियाविशे-ष्यकस्य तत्प्रकारकस्य - बलवदनिष्टा साघनत्वप्रकारकस्य ज्ञानान्तरस्य क्रियागोचर चिकीर्षाद्यर्थ विधिवाक्यजशाब्दबोधानन्तरं कल्पनापत्तिरस्त्येवेति मतद्वये = इष्टसाधनत्वस्य बलवदनिष्टाननुबविश्वविशेषणत्वमते यथेष्टसाधनत्वप्रकारक क्रियाविशेष्यकज्ञानान्तरं दर्शितदिशा कल्पनीयं तथेष्टसाधनत्वस्य बलवदनिष्टाननुबन्धित्वविशेष्यत्वमते बलवदनिष्टाननुबन्धिवप्रकारक क्रियाविशेष्य-कज्ञानान्तरं चिकीर्षाद्यर्थं कल्पनीयमिति मतद्वयेपि कल्पनासाम्येन बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वयोर्विशेष्यविशेषणभावे विनिगमनाविरहात्तयोर्विधिप्रत्ययस्य पृथक् पृथगेव शक्तिरित्यर्थः । यदीति - यदि च बलवदनिष्टसाधनत्वज्ञानं द्वेषसामग्री स्वरूपत्वेच्छाप्रतिबन्धकमस्ति न तु बलवदनिष्टाननुबन्धित्वज्ञानमिच्छा हेतु रित्युच्यते तदेष्टसाधनत्वप्रकारकक्रियाविशेष्यकज्ञानस्यैव चिकीर्षा - कारणत्वं प्राप्तमितीष्टसाधनत्वस्य बलवदनिष्टाननुबन्धित्व विशेषणत्वे इष्टसाधनत्वप्रकारकक्रियाविशे sयकज्ञानान्तरं दर्शितदिशा कल्पनीयं स्यात् इष्टसाधनत्वस्य बलवदनिष्टाननुबन्धित्वविशेष्यत्वे "Aho Shrutgyanam" Page #650 -------------------------------------------------------------------------- ________________ सार्दश: ( ६३८ ) [ आख्यातप्रकरणे - साधनत्वज्ञानमिच्छाहेतुः ? तदोक्तस्य विशेष्यविशेषणभावे विनिगमकस्य संभवेपि विशिष्टस्य वाच्यत्वे इयेने विध्यर्थबाधेन तद्विधायक श्रुतेरप्रामाण्यप्रसङ्ग इति शक्तिभेदस्य श्येने केवलेष्टसाधनताबोधस्य चोपगम आवश्यकः । मणिकृतापि तत्र बलवदनिष्टाऽसाधनत्वस्याभानं लिखितम् । तदभानं विशिशक्तिपक्षे न संभवति - विशिष्टशक्तेर्विशेषणविनिर्मोकेण विशेष्यांशाऽभासकस्वात्, तत्तद्धर्मप्रकारेण पदार्थविषयकशाब्दबोधे तत्तद्धर्मांशे शक्यतावच्छेदकत्व - - तादृशज्ञान कल्पना पत्तिर्दर्शितदिशा नास्त्येव बलवदनिष्टाननुबन्धित्वप्रकारक क्रियाविशेष्यकज्ञानस्य तु चिकीर्षाकारणत्वमेव नास्ति येनात्र बलवदनिष्टाननुबन्धित्वस्येष्टसाधनत्वे विशेषणत्वेन क्रियायां विशेषणत्वासंभवात् बलवदनिष्टाननुबन्धिवप्रकारकक्रियाविशेष्यकज्ञानान्तरं चिकीर्षार्थं कल्पनीयं स्यादिति बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वयोर्विशेषणविशेष्यभावे उक्तं ज्ञानान्तरकल्पनाभावप्रयुक्तलाघवरूपं विनिगमकं यद्यपि संभवति तथापि विशिष्टस्य = बलवदनिष्टाननुबन्धित्व विशिष्टष्टसाधनत्वस्य वाच्यत्वे - विध्यर्थत्वे श्येने बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वं नास्ति - श्येनस्थ हिंसाफलकत्वान्नरकजनकत्वेन श्येने बलवदनिष्टाननुबन्धित्वस्याभावादिति बाधितार्थबोधकत्वेन " श्येनेनाभिचरन् मजेत " इतिश्येनविधायकश्रुतेरप्रामाण्यं स्याद् न चैतदिष्टमिति शक्तिभेदः = बलवदनिष्टाननुबन्धित्वे इष्टसाधनत्वे च विधिप्रत्ययस्य पृथक् पृथगेव शक्तिः स्वीकार्या. श्येने च विधिवाक्येन केवल मिष्टसाधनत्वं बोध्यते इति स्वीकर्तव्यम् पृथक्शक्तिस्वीकारेण केमलेष्टाघनत्वबोधस्य बलवदनिष्टाननुबन्धित्व परित्यागस्य ( अबोधनस्य ) च संभवात् अस्ति च श्येनेपि शत्रुमृत्युरूपेष्टसाधनत्वमिति सोचनानोक्तस्पेनश्रुतेरप्राणायाचित्वार्थः । 1 स्वोक्ते मणिकारसंमतिमाह- मणिकृतेति । तत्र श्येने । तदभानम् = बलवदनिष्टासाधनत्वामानम् । न संभवतीत्यत्र हेतुमाह - विशिष्टशक्तेरिति, विशिष्ट शक्तिप्रहे विशेषणविशिष्टस्यैव मानं भवति न तु विशेषणरहितस्येति यदि विधिप्रत्ययस्य बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वे शक्तिः स्यात्तदा श्येने बलवदनिष्टाननुबन्धित्वस्यापि मानं स्यादेव न च तद्भानमिष्टमिति न विशिष्टे शक्तिरित्यर्थः । हेत्वन्तरमाह-- तद्धर्मेति यथा घटत्वप्रकारकघटविषयकशाब्दबोधे घटत्वे या शक्यतावच्छेदकत्वपर्याप्तिरस्ति तदवगाहिज्ञानस्य हेतुत्वमस्ति तथा प्रकृते विशिष्टशक्तिपक्षे बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वस्य शक्यत्वे शक्यतावच्छेदकत्वपर्याप्तिर्हि बलवदनिष्टाननुबन्धित्वत्वष्टसाधनत्वत्वयोरुभयोरेव स्यान्न तु केवलेष्टसाधनत्वत्वेइति केवलेष्टसाधनस्वत्वप्रकारकेष्टसाधनत्वाविषयक बोधो न संभवति खण्डशक्तिस्वीकारपक्षे तु केवलेष्टसाधनत्ववेपि शक्यतावच्छेदकत्वपर्याप्तिरस्त्येवेति केवलेष्टसाधनत्वत्वप्रकार केष्टसाधनत्व विशेष्यकबोधः संभवति, किं वोक्तविशिष्टशक्तिपक्षे श्येनपदशक्यतावच्छेदकत्वपर्याप्तिरुभयोरेव बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वयोः स्यादित्युभयप्रकारकश्येन विशेष्यकबोधः संभवति न तु केवलेष्टसाधनत्वप्रकारकोपि तत्र शक्यतावच्छेदकत्वपर्याप्तेरभावाद् भवति च केवलेष्टसाधनत्वप्रकारकोपि बोध इति खण्ड · " Aho Shrutgyanam" Page #651 -------------------------------------------------------------------------- ________________ श्येनवाक्यार्थ विचार: 1 व्युत्पत्तिवादः । पर्याप्त्यवगाहिज्ञानस्य हेतुत्वात्, अन्यथा विशिष्टस्वर्गादिवाचकस्वर्गादिपदाद विना लक्षणां केवल सुखत्वादिप्रकारकशाब्दबोधापत्तेः । यादे च केवलसुखत्वादिना स्वर्गादिरूपसुखबोधो लक्षणामन्तरेण स्वर्गादिपदादिष्यते एव. नेष्यते परं सुखान्तरबोधः- तत्र शक्तिविरहादिति शक्यतावच्छेदकता पर्याप्त्यवगाहित्वमनुपयोगीत्युच्यते १ तदापि बलवदनिष्टाननुबन्धित्वविशि ष्टेष्टसाधनत्वस्य शक्यतायां श्येननिष्ठवैरिवध साधनत्वस्य बलवदनिष्टसाधनत्वनियतत्वेन तदसाधनत्वविशिष्टत्वेन विधिप्रत्ययाऽवाच्यतया सुतरां तत्र विध्यर्थत्वनिर्वाह एव । यत्तु श्येनस्याsदृष्टाद्वारकत्व घटितहिंसालक्षणानाक्रान्ततया बलवद्दुःखाऽजनकत्वशक्तिः स्वीकार्या तथा च केवलेष्टसाधनत्वेपि शक्यतावच्छेदकत्वपर्याप्तेः सत्त्वात् केवलेष्टसाध नवप्रकारकोप बोधः संभवतीत्यर्थः । विपक्षे बाधकमाह- अन्यथेति, यदि तद्धर्मप्रकारेण तत्पदार्थबोधं प्रति तद्धर्माशे शक्यतावच्छेदकत्वपर्याप्त्यऽनवगाहिज्ञानस्यापि कारणत्वं स्याचदा दुःखासं भिन्नसुखस्त्वविशिष्टस्वर्गवाचकस्वर्गपदालक्षणां विनापि शक्त्यैव दुःखाभिन्नत्वांशं परित्यजय केवलसुखत्वप्रकारकबोधः स्यात् न चैवं भवति तत्कस्य हेतोः ? प्रकारीभूतधर्मांशे शक्यतावच्छेदकत्वपर्याप्त्यवगाहिज्ञानस्य तद्धर्मप्रकार कशाब्दबोधं प्रति कारणत्वादिति तथा च प्रकृते विशिष्टशक्तिपक्षे बलवदनिष्टाननुबन्धित्वांशाऽभानं न संभवतीति तदुपपत्त्यर्थं खण्डशक्तिरेव स्वीकार्या न तु विशिष्टशक्तिरित्यर्थः । ननु स्वर्गपदान् केव सुखलपकारकस्यगोभिमुखविशेष्यकबोधः शक्तया स्वीक्रियते एव न तु सुखान्तरस्य=भदिव्यभौमसुखस्य बोधः, तत्र = भदिव्ये दुःखमिश्रसुखे स्वर्गपदस्य शक्त्यभावादिति शक्तिज्ञानस्य शक्यतावच्छेदकधर्मे शक्यतावच्छेदकत्वपर्याप्त्यवगाहित्वापेक्षा नास्येव तदपेक्षा हि स्वर्गपदेन केवलसुखत्वप्रकारकबोधापत्तिपरिहारायैव स्वीकृता संप्रति च स्वर्गपदात् केवलसुखत्वप्रकारक बोधोपि स्वीकृत एवेति न शक्यतावच्छेदकत्वपर्याप्त्यवगाहित्वापेक्षेव्याशक्याह- यदीति । उत्तरमाह- तदापीति, बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वस्य विधिप्रत्ययवाच्यत्वे यत्र यत्र वधसाधनत्वं तत्र तत्र बलवदनिष्टसाधनत्वमस्त्येवेति श्येननिष्ठवैरिवधसाधनवस्यापि बलवदनिष्टसाधनत्वरूपत्वं प्राप्तमिति 'इथेनेनाभिचरन् यजेत " इत्यत्रत्यविधिप्रत्ययस्य बलवदनिष्टसाधनत्व विशिष्टेष्टसाधनत्वमेव वाच्वं स्यान्न तु तदसाधनत्वविशिष्टत्वेन = बलवदनिष्टसाधनत्वविशिष्टेष्टसाधनत्वम्. विधिप्रत्ययस्य च त्वया बलवदनिष्टाऽसाधनत्वविशिष्टेष्टसाधनत्वे एव शक्तिः स्वीकृतेति तत्र श्येने विध्यर्थत्वं न स्यादेवेति न विशिष्टशक्तिपक्षः साधीयानित्यर्थः । मतान्तरमुपस्थापयति- यत्त्विति, खड्गाभिघातादिरूपहिंसाया एव बलवन्नरकरूपदुःखजनकत्वमस्ति - अदृष्टाऽद्वारक हिंसारूपत्वात् न तु श्येनस्यापि तस्याऽदृष्टद्वारकहिंसारूपत्वेना - दृष्टाऽद्वारकहिंसात्वानाक्रान्तत्वात् तथा च श्येने इष्टसाधनत्ववद् बलवदनिष्टाननुबन्धित्वमपि प्राप्तमि "L " Aho Shrutgyanam" (६३९) Page #652 -------------------------------------------------------------------------- ________________ ( ६४० ) सादर्श: [ आख्यातप्रकरणे मिति मतान्तरम्, तदसत् - तथा हि श्येने सात्त्विक प्रवृत्तिवारणाय बलवद्दुःखाप्रयोजकत्वज्ञानस्यैव प्रवृत्तिहेतुताया उपगन्तव्यतया तस्यैव विध्यर्थताया आवश्यत्वेन श्येने तद्बाधाच्छ्रुतेरप्रामाण्यप्रसङ्गतादवस्थ्यात् इयेनस्य हिंसात्वविरहेण्यऽभिचारतया नरकजनकत्वस्य दुर्वारत्वाच्च । यत्तु अभिचरन् इत्यस्य वैविधगोचरप्रबल कामनाविशिष्टार्थतया तादृशकामनाविशिष्टस्यैव पुरुषस्य बलवद्वेषविषयाजनकत्वरूपबलवदनिष्टाननुबन्धित्वघटकद्वेषानुदयात् तादृशकामनाविशिष्टवृत्तिबलवद्वेषविषयाजनकत्वं श्रुतिवाक्यात् प्रत्येतव्यं तच्च श्येनेऽबाधितमेव- वैरिवधे उत्कटरागवतस्तज्जन्य £2 "" ति बलवदनिष्टाननुबन्धित्वविशिष्टष्टसाधनत्वस्य विध्यर्थस्य सत्त्वान्न श्येने विध्यर्थत्वबाध इति न विशिष्टशक्तिस्वीकारे कोपि दोष इति बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वे विधिप्रत्ययस्य शक्तिर्युक्तेत्यर्थः । परिहरति- तदसदिति, श्येने सात्त्विक प्रवृत्तिवारणाय बलवदुः खाजनकत्व - ज्ञानस्यैव प्रवृत्तिहेतुत्वं स्वीकार्य बलवद्दुः खाजनकत्वज्ञानस्य प्रवृत्तिहेतुत्वे च तस्यैव = बलवद्दुःखाजनकत्वस्यैव विध्यर्थस्वं वक्तव्यं श्येने च बलबददुः खजनकत्वस्य सत्त्वेन तद्वाघात्= बलवद्दुःखाजनकत्वं नास्तीति बाधितार्थप्रतिपादकत्वेन श्येनश्रुतेरप्रामाण्यापत्तिः स्यादेवेत्यर्थः । अत्र घ तदसत् " इत्यस्यानन्तरम् तथा सति " इत्यपि पाठ उपलभ्यते स च लेखकप्रमादज एव प्रतिभाति । ननु श्येने बलवद्दुः खाजनकत्वं मयोक्तमेवेति कथं तत्र विध्यर्थ - भूतस्य बलबनंद खाजनकत्वस्य बाधः स्पादित्याशङ्कयाह -- श्येनस्येति, श्येनस्य स्वरूपेण हिंसारूपत्वाभावेप्यभि चारतया हिंसा साघनत्वेन नरकजनानत्वेवेति श्वेने बलषदुःखाजनकत्वस्य विध्यर्थत्वेन स्वीकृतस्य बाधोस्त्येवेति तद्वाक्यस्याप्रामाण्यं स्यादेवेत्यर्थः । <6 66 L मतान्तरमुपस्थापयति- यत्त्विति, एवं हि वैरिवधविषयकप्रबलकामनाविशिष्टः श्पेन कुर्यात् ' इतिवाक्यार्थः संपन्नस्तत्र तादृशकामना विशिष्टस्य = वैरिवधगोचरप्रबलाकामना विशिष्टस्यैव पुरुषस्य बलवद्द्द्वेषविषयो यो नरकादिस्तदजनकत्वरूपं यद्बलवदनिष्टाननुबन्धित्वं तत्र बलवदनिष्टं बलवद्वेषविषय एव भवतीति तद्घटको यो द्वेषः स नोदेति = न जायते - तस्य पुरुस्य वैरिवधे उत्कटरागवत्त्वेन वैविधजन्यनरकादावुपेक्षा संभवेन द्वेषासंभवात् तथाच वैरिवधगोचरप्रबल कामना विशिष्टपुरुषवृत्तिर्यो बलवद्वेषस्तद्विषयो यो नरकादिस्तदजनकत्वं श्येनस्य श्येनवाक्यात् प्रत्येतव्यमन्यथा = श्येनस्य तादृशकामनाविशिष्टपुरुषवृत्तिद्वेषविष यजनकत्वे वैरिवधगोचरप्रबलकामनावतोपि श्येने प्रवृत्तिर्न स्यादेव तच्च = तादृशकामनाविशिष्टवृत्तिबलवद्वेषविष- " याजनकत्वं श्येने बाधितं नास्तीति श्येनेपीष्टसाधनत्ववद् बलवद्वेषविषयाजनकत्वरूपं बलवद निष्टाननुबन्धित्वमपि प्राप्तमेवेति नोक्तविशिष्टशक्तिस्वीकारे कोपि दोष इत्यर्थः । उक्तं बलवद् - द्वेषविषयाजनकत्वाऽबाधितत्वमुपपादयति- वैरिवधे इति, यस्य वैरिवधे उत्कटरागो भवति तस्य तज्जन्यनरके वैरिवधजन्यनरके बलवद्वेषोपि न जायते इति तादृशनरकस्य = वैरिवधजन्यनरकस्य " Aho Shrutgyanam" Page #653 -------------------------------------------------------------------------- ________________ श्येनवाक्यार्थविचारः] व्युत्पत्तिवादः। (६४१) नरके बलवद्वेषानुत्पत्त्या तादृशनरकस्य वैरिवधोत्कटकामनाविशिष्टवृत्तिद्वेषाऽविषयत्वात्, न ह्येकदैकत्राऽवर्तमानयोरेकतरमऽपरविशिष्टवृत्तीति मिश्राणां मूलाभिप्रायवर्णनम्, तदपि न- बलवद्वेषविषयदुःखजनकत्वप्रतियोगिकाभा. वस्याऽतिप्रसक्ततया बलवद्वेषविषयदुःखजनकत्वत्वावच्छिन्नाभावस्य वाच्यतास्वीकारेणान्यपुरुषस्य पुरुषविशेषीयबलवद्वेषविषयदुःखजनकत्वाभावस्य प्रत्य. याऽसंभवात् तादृशदुःखजनकत्वेऽभावे च खण्डशक्तिस्वीकारे विशिष्टशक्तिस्वीकारपरित्यागात् ।। एवं यत्रोत्कटरागो यदा तत्रैव नोत्कटद्वेषस्तदा. तज्जन्ये फले उत्कटरागदशायां च तज्जन्यदुःखरूपफलान्तरे उत्करदेषेन किं चिद्भाधकमिति वैरिवधे उत्कटरागद. शायां श्येनजन्यनरके बलवद्वेषो दुरपवाद एव । अस्तु वा फलविषयोत्कटरावैरिबंधविषयकोत्कटकामनाविशिष्टपुरुषवृत्तिद्वेषविषयत्वं नैव भवतीत्यर्थः । न हीति- घटत्वपटत्वे एकदैकत्र न भवत इति यथा तयोर्मध्ये एकतरं घटत्वं पटत्वविशिष्टपटवृत्ति न भवति पटत्वं च घटत्वविशिष्टघटवृत्ति न भवति तथा प्रकृतेपि प्रकृतौ रागद्वेषावेकदैकत्र न संभवत इति वैरिवध. विषयकोकटरागवति वैविधजन्यनरकादिद्वेषो न संभवतीति श्येने बलवद्वेषविषयाजकनत्वं प्राप्त. मेवेत्यर्थः । मूलाभिप्रापवर्णनम् श्रुतिवाक्याभिप्रायवर्णनम् । पराचष्टे- तदपि नेति, बलद्वेषवि. षपदुःखाजनकत्वं हि बलवद्वेषविषयदुःखजनकत्वाभाव एवं स चातिप्रसक्त एव- बलवद्वेषविषयकिंचिदुःखजनकेपि बलबद्वेषविषयर्किचिदपरदुःखाजनकत्वस्य सत्त्वादिस्यतिप्रसततया तस्य वाच्यत्वं न संभवति तस्माद् बलबद्वेषनिस्तान्तराषिकन्नासावस्यबलवद्वेषविषयया. वदुःखाजनकत्वस्य विधिप्रत्ययवाच्यत्वं स्वीकार्य तस्यातिप्रसक्तस्त्राभावात् तत्र चाभ्यपुरुषस्था. न्यपुरुषीयबलवद्वेषविषयदुःखजनकल्पामावज्ञावं न संभवतीति नान्यपुरुषीपक्लवद्वेषविषवदुःखाजनकत्येप्येका विधिप्रत्ययशकिः संभवति तस्मात् तादृशदुःखजनकत्वेऽभावे च खण्डशक्तिरेव स्वीकार्या तथाच विशिष्टशक्तिपक्षपरित्यागो गले पतित एवेति बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वयोरपि खण्डशक्तिरेव स्वीकार्य न विशिष्टशक्तिरित्यर्थः । परकीयदुःखजनकत्वं तु कण्टकवेधादावनुमानग्राह्यमस्तीति तज्ज्ञानसंभवात्तत्र शक्तिरपि संभवत्येव. एवममावेपि, वस्तुतस्त्वेवमुक्तदुःखज. नकत्वाभावज्ञानमपि संभवत्येवेति तदसंभववचनं विवेचनीयम् । यदुक्तं वैरिवधोरकटरागे सति वैविधजन्यनरके द्वेषो न भवतीति तन्निराचष्टे- एवमिति । एवम्= किं च । यत्र यदोत्कटरागो भवति तत्रैव तदोत्कटद्वेषो न भवतीति नियमोस्ति तथा च श्येने उस्कटरागदशायामुत्कठद्वेषो यद्यपि न संमवति तथापि तजन्येन्स्येनजन्ये वीरवधारूपले उत्कटरागदशायामपि श्येनजन्यनरकादिदुःखरूपफले उत्पाटद्वेषे बाधकं नास्त्येवेति श्येनजन्यनरके बलवद्वेषापवादो नैव संभवति तथा च श्येनस्य बलवद्वेषविषयदुःखजनकत्वं प्राप्तमेवेति विशिष्टशक्तिपक्षे विध्यर्थत्वं न स्यादित्यर्थः । पक्षान्तरमाह- अस्तु वेति, फले उत्कटरागे सति तदुपायेपि उत्कटरागो भवतीति वैरिवधरूपफलविषयकोकटरागघटिता या. "Aho Shrutgyanam" Page #654 -------------------------------------------------------------------------- ________________ ( ६४२ ) सादर्श: [ आख्यातप्रकरणे - गघटिता उपायगोचरोत्कटरागसामग्री तत्रेव तज्जन्यतया ज्ञाते फलान्तरेप्युत्कटद्वेषविरोधिनी तथापि नरकवैरिवघयोरेकतरं प्रति श्येनस्य हेतुत्वाग्रहदशायां तयोर्बलवद्वेषरागयोर्युगपत् संभव एव । EC यत्तु दीक्षाङ्गपघातस्य नरकाऽसाधनतया मा हिंस्यात् " इत्यत्राऽवैधहिसैव विवक्षितेति श्येनस्य नरका सावनत्वोपपादनम्, तदपि न तावताप्यभिचारविधया तथात्वस्य दुर्वारत्वात् । अथ खण्डशक्तिमवलम्ब्याऽनिष्टाऽसाधनत्व विनिर्मोकेण कचिद् विधिवाक्यजन्यबोधोपगमे श्वेतं छागमालभेत " इत्यादावपि तत्परित्यागसंभवात् अविरोधेन मा हिंस्यात् " इत्यत्र श्रुत्यर्थसंकोचो न स्यादिति सांख्यमतमेव 65 6 66 श्येन विषयको कटरागसामग्री सा तत्रैव = वैरिवधे इव तज्जन्यतया = श्येनजन्यतया ज्ञाते फलान्तरे= नरकादिरूपफलेप्युत्कटद्वेषविरोधिनी भवतु तथा च यद्यपि चैरिवधे उत्कटरागदशायां स्वदुक्तरीत्या श्येनजन्यनरके उत्कटद्वेषो न संभवति तथापि यदा नरकवैरिवघयोर्मध्ये चैरिवधमात्रं प्रति श्येनस्य हेतुत्वं गृहीतं तदा मा हिंस्यात् " इतिश्रुतिबलात्तु श्येनजन्यचैरिववस्य नरकहेतुत्वं स्यादेवेति तादृशनरके द्वेषो वैरिवधे च रागोपि युगपदेव संभवति न होकतरं प्रति हेतुत्वग्रहदशायामपरं श्येनजन्यत्वेन गृहीतं भवति येन तत्र रागो वा द्वेषो वा न स्यात्. एवं श्येनुस्य यदा नरकमा नहेतुत्वं गृहीतं तदा चैरिवधस्य कारणान्तरफलत्वमेव गृहीतं स्यात् तथा च श्येनफले नरके द्वेषे सति कारणान्तरजन्यवैरिवधरूपफले रागेपि न किंचिद्वाधक मिति नरकपैरिवधयोर्युगपदपि द्वेषरागौ संभवत एवेत्यर्थः । te यत्त्विति - दीक्षाङ्गपशौर्घातस्य यन्न नरकसाधनत्वं तद्धि वैधत्वात् = वेदविहितत्वादेव वक्तव्यं तथा च मा हिंस्यात् " इत्यनेनाऽवैध हिंसाया एव नरकसाधनत्वं प्रतिपाद्यते श्येनजन्य हिंसापि वेदविहितैवेति श्येनस्यापि न नरकसाधनत्वं तथा च श्येने बलवदनिष्टाननुबन्धिस्बेष्टसाधनत्वयोरुभयोरपि सत्त्वात्तादृश विशिष्टे एव विधिप्रत्ययस्य शक्तिरित्यर्थः । परिहरति-सदपि नेति, श्येनेतिकर्तव्यताप्रविष्टहिंसाया नरकाऽसाधनत्वेपि श्येनफलीभूतशत्रु हिंसाया नरकसाधनत्वमस्त्येवेति श्येनस्याभिचारकर्मत्वात् तथात्वम् - नरकसाधनत्वं दुर्वारमेव तथा च न श्येने बलवदनिष्टाननुबन्धित्वं संभवति येनोक्तविशिष्टशक्तिपक्षो युक्तः स्यादित्यर्थः । ननु बलवदनिष्टाननुबन्धित्वेष्टसाधनत्वयोः खण्डशक्तिस्वीकारेण यदि कचित्स्येनादावुक्तरीत्याऽनिष्टसाधनत्वांशं परित्यज्य केवलेष्टसाधनत्वमात्रस्य विधिवाक्येन बोधो भवतीति स्वीक्रियते तदा वायव्यं श्वेतमालमेत भूतिकामः " इत्यादावप्यऽनिष्टसाधनत्वांशपरित्यागः << संभषेत् तथा च वापव्यादिपश्वालम्भनस्य स्वर्गजनकत्वेनेष्टसाधनत्वेपि हिंसारूपत्वेन नरकसाधनवमपि स्यादेव - अनिष्टाऽसाधनत्वस्य विधिवाक्येनाऽबोधनात् तथा च 46 ' मा हिंस्यात् " इत्यनेन विरोधो न स्यात् - अनेनापि हिंसाया अनिष्टसाधनत्वस्यैव प्रतिपादनात् तथा च " मा "Aho Shrutgyanam" Page #655 -------------------------------------------------------------------------- ________________ विधिप्रत्ययार्यविचार: ] व्युत्पत्तिवादः। साधीय इतिवेत् ?, स्यादेव अविरोधेपि ." ब्राह्मणेभ्यो दधि दीयतां तकं कौण्डि न्याय' इत्यत्रेव सामान्यविधर्विशेषेतरपरत्वं व्युत्पत्तिसिद्धमिति “मा हिंस्यात् ' इत्यत्र संकोचः । अथ वा कथंचिद् बाधकापनयसंभवे नौगिकार्यपरित्याग इति हिंसानिषेधसंकोचेनैवोपपत्तौ न " श्वेतं छागमालभेत " इत्यादौ विधिप्रत्ययस्य बलवदनिष्टाऽसाधनत्वार्थपरित्याग इत्यप्याहुः । हिंस्यात् " इत्यत्र ' यागाङ्गहि पाते रिक्तहिंसाया अनिष्ट साधनत्वमस्ति । इत्येवं श्रुत्यर्थसंकोचो न स्यादिति सांरूपमतमेव श्रेष्ट स्यात्- सांस्पैर्यागाङ्गहिंसाया स्वर्गादिसाधनत्वेपि यागपूरकत्वेपि वा नरकसाधनत्वस्य प्रतिपादनादित्याशङ्कते- अथेति । सिद्धान्ते हि यागस्येष्टसाधनत्वमे. वास्तीति यागाङ्गहिंसाया अपोष्टसाधनत्वमनिष्टासाधनत्वं च प्राप्तम् “ मा हिंस्यात् '' इत्यनेन भ हिंसाया भनिष्टसाधनत्वं प्रतिपादितमिति विरोधे प्राप्ते " मा हिंस्यात् " इत्यत्र ' यागाङ्गहिंसातिरिक्तहिंसाया एवानिष्टसाधनत्वम् । इत्येवं श्रुत्यर्थसंकोचो भवतीति विज्ञेयम् । उत्तरमाह- स्यादेवेति, अविरोधेपि " मा हिंस्यात् " इत्यत्र संकोचः स्यादेवेत्यन्वयः, न खलु विरोधे एवोक्तश्रुत्यर्थसंकोचो भवति किं त्वविरोधेपि श्रुत्यर्थसंकोचो भवत्येवेतिभावस्तथा हियथा- " ब्राह्मणेभ्यः " इत्यत्र " ब्राह्मणेभ्यो दधि दीयताम् " इतिसामान्यविधेर्विशेषो यः कौण्डिन्यस्तदितरब्राह्मणपरत्वमस्तीति कौण्डिन्येतरत्राह्मणेभ्यो दधि दातव्यमिति लभ्यते तथैव प्रकृतेपि " मा हिंस्यात्" इतिसामान्यविधेर्विशेषभूतयागाङ्गहिंसातिरिक्तहिंसापरत्वेन यागानहिंसातिरिक्तहिंसाया एवानिष्टसाधनत्वं लभ्यते इति " वायव्यं श्वेतम् " " मा हिस्यात् ।" इत्यनयोरविरोधेप्युक्तश्रुत्यर्थसंकोचः संभवत्येवेति नाऽविरोधे श्रुत्यर्थसंकोचनिवृत्तियेन सांख्यमतं श्रेष्ठं स्यादित्यर्थः, तथा च श्रुत्यर्थसंकोचे जाते यागाङ्गहिंसायामऽनिष्टाऽसाधनत्वं प्राप्तमेव तथा चोक्तखण्डशक्तिपक्षेपि “छागमालभेत" इत्यत्रानिष्टासाधनवांशपरित्यागस्य नाऽपेक्षा श्येने तु गत्यऽभावाहिवशमनिष्टासाधनत्वांशपरित्यागः क्रियते इत्यर्थः । पक्षान्तरमाह- अथ वेति, कथंचित् केनापि प्रकारेण बाधकापनयसंभवे बाधककृतविरोधपरिहारसंभवे सत्यौत्सर्गिकार्थस्य परित्यागो न भवतीतिनियमोस्ति तथा च " मा हिंस्यात्" इत्याकारकहिंसाबाधककृतविरोधस्य कथंचित-यागाङ्गहिंसातिरिक्तहिंसाऽनिष्टसाधनमित्येवंश्रत्यर्थसंकोचन परिहारः संभवत्येवेत्यौत्सर्गिकस्य सामान्यतः प्राप्तस्य विधिप्रत्ययार्थभूतस्य चलवदनिष्टासाधनत्वस्य वायव्यादिपश्वालम्भने परित्यागो न भवतीत्यर्थः । श्येनस्थलेपि श्येनाङ्गहिंसाया अमिष्टासाधनत्वमस्त्येव किं तु श्येनफलीभूतहिंसाया नरकजनकत्वेन तदुपायभूतश्येनस्य नरकजनकत्वं प्राप्तमिति तत्राऽनिष्टाऽसाधनत्वस्य बाधात् परित्याग पाश्रीयते । विधिप्रत्ययस्येति- विधिप्रत्ययस्य यो बलवदनिष्टासाधनत्वरूपोर्थस्तत्परित्यागो नेत्यन्वयः । "Aho Shrutgyanam" Page #656 -------------------------------------------------------------------------- ________________ (६४४ सादर्श: [ भाख्यातप्रकरणेअथ यागपाकादिजन्यश्रमादावपि कदाचित् कस्यचिद् बलवद्वेषोदयाद 'यजेत ' ' पचेत' इत्यादावऽप्रामाण्यप्रसङ्गो दुर्वारः। यत्तु बलवदनिष्टाऽसाधनत्वं न लौकिकविध्यर्थः किं तु “ न कलञ्जम् " इत्यादिश्रुतेः प्रामाण्योपपत्तये वैदिकलिङ एव तदर्थकता, तत्रापि बलवदनिष्टं नरकमेव तादूप्येणार्थः, अत इष्टोत्पत्तिनान्तरीयकश्रमादः कदाचिद् द्वेषविषय. तया न यागादी विध्यर्थबाध इति, तदपि न-- "शाकं न भुञ्जीत" इत्यादिवैद्यकवाक्यस्य बलवदनिष्टाजनकत्वनिषेधपरत्वं विना प्रामाण्यानुपपत्तेः। तत्रापि रोगाऽजनकत्वं विध्यर्थस्तदभावो नत्रा बोध्यते इतिचेत् ?, " रिक्तायां न गच्छेत् " " पुष्ये नोदहेत" इत्यादिज्योतिःशास्त्रवचनस्य "नैका शङ्कते- अथेति । अप्रामाण्यप्रसङ्ग इति- श्रमादिरूपबलवदनिष्टजनकत्वे प्राप्ते विधिप्रत्ययेन बाधितस्य बलवदनिष्टाजनकत्वस्य प्रतिपादनादप्रामाण्यं स्यादेवेत्यर्थः । __ यत्त्विति- ' पचेत ' इत्यादौ विधिप्रत्ययेन बलवदनिष्टासाधनत्वं न प्रतिपाद्यते येन पाकस्य श्रमादिबलवदनिष्टजनकत्वेन बाधितार्थप्रतिपादकत्वादप्रामाण्यं प्रसज्येत, किं तु वैदिकविधिप्रत्ययस्यैव बलवदनिष्टाजनकत्वमर्थोस्ति तत्रापि बलवदनिष्टपदस्य नरकमेव ताद्रूप्येण वलवदनिष्टत्वेन रूपेणार्थोस्ति,अत:-अनिष्टपदेन नरकस्यैव विवक्षितत्वाच्छूमादिजनकस्यापियागादेनरकसाधनत्वं तु नास्त्येवेति न यागादौ विध्यर्थस्य नरकाजनकत्वस्य बाधः, श्रमादिरूपानिष्टाजनकरवं तु विध्यर्थ एव नास्ति येन द्वेषविषयीभूतश्रमादिजनकत्वेन विध्यर्थबाधः स्यात्, एवं च " न कलझं भक्षयेत् " इतिश्रुतेरपि प्रामाण्यमुपपद्यते-नरकासाधनत्वस्य विध्यर्थस्य नाऽभावबोधनसंभवात्- कलञ्जभक्षणे नरकसाधनत्वप्रतिपादनात्, यदि च वैदिकटिङोपि बलवदनिष्टा ( नरका ) साधनत्वमर्थो न स्यात् किं विष्टसाधनत्वमात्रमर्थः स्यात्तदा कलञ्जभक्षणेपि तृप्तिरूपेष्टसाधनत्वस्यैव सत्त्वेन तदभावस्य बाधितस्थ ना प्रतिपादनात् “न कलञ्जम् " इत्यादिनिषेधवाक्यानां प्रामाण्यं नोपपद्यतेति पूर्वपक्षार्थः । परिहरति- तदपि नेति, यदि बलव. दनिष्टासाधनत्वं लौकिकविध्यर्थो न स्यात्तदा “ शाकं न भुञ्जीत " इतिलौकिकवाक्यस्य प्रामाण्यं नोपपद्येत- शाकभोजनेपि तृप्तिरूपेष्टसाधनत्वस्य सत्वात् तदभावस्य बाधितस्य नत्रा प्रतिपादने स्पष्टमेवाऽप्रामाण्यमापद्येत, यदा च लौकिकविधेरपि बलवदनिष्टासाधनत्वमर्थस्तदा -शाकभोजनस्य रोगादिरूपबलवदनिष्टजनकत्वेन विध्यर्थभूतस्य बलवदनिष्टाजनकत्वस्याऽभावो नत्रा प्रतिपादनीयः स चाऽबाधित एवं शाकभोजने इत्यबाधितार्थप्रतिपादकत्वात् प्रामाण्यमुपपद्यते इत्यर्थः । ननु " शाकं न भुञ्जीत " इत्यत्र न बलवदनिष्टाजनकत्वं विध्यर्थः किं तु रोगाजनकत्व. मेव तस्य च रोगाजनकत्वस्याभावो नआ बोध्यते स चाबाधित एव शाकमोजने इति न प्रामाण्यानुपपत्तिरित्याशङ्कते-तत्रापीति । उत्तरमाह- रिक्तायामिति । न गच्छेत् यात्रा न "Aho Shrutgyanam" Page #657 -------------------------------------------------------------------------- ________________ तर्कमतेन विध्यर्थ निष्कर्षः व्युत्पत्तिवादः । ( ६४५ ) पर्वतमादेित्" इत्यादिवाक्यस्य च का गतिः ? । तत्रापि विशिष्य तत्तदनिष्टसाधनत्वस्य विधिप्रत्ययार्थत्वे शक्त्यानन्त्यप्रसङ्गो व्युत्पत्त्यनुपपत्तिश्च । अत्र वइन्ति-द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्याश्रयसाधनतात्वावच्छि नपतियोगिताकाभावकूटे तादृशाभाववेनानुगते एकैव विधिप्रत्ययस्य शक्तिः । उपलक्षगीभूत द्वेष विनयतावच्छेदकत्वं परित्यज्य नरकाद्यसाधनत्वं प्रतीयते । कुत्र चिन्नरका साधनत्वं कुत्रचिद्रोगासाधनत्वं प्रतीयते इत्यत्र तात्पर्यमेव नियामकम् । प्रतियोगितायाः प्रकारतया भानात् प्रतियोगितावच्छेदकघ टकनरकवादी द्वेषविषयतावच्छेदकत्वस्योपलक्षगतया शक्तिग्रहे भानमविरुद्धम् । कुर्यात् । 66 रिक्तायाम् " इत्यादिलौकिक विधिवाक्यानां का गतिरित्याक्षेपः । तत्रापीति - यदि रिक्कायाम् " इत्यादिस्थलेपि विशेषरूपेणैव तत्तदनिष्टासाधनत्वं विध्यर्थो न तु सामान्यरूपेणाऽनिष्टसाधनत्वं तदाऽनन्तेषु तत्तदनिष्टाऽसाधनत्वेषु विधिप्रत्ययस्य शक्त्यानन्त्यं स्यात् तेन च व्युत्पत्तेः = शाब्दबोधस्यानुपपत्तिः स्यात् - अगृहीतशक्तिकपदार्थमानासंभवादित्यर्थः । सिद्धान्तमाह- अत्रेति, द्वेषविषयतावच्छेदकत्वेनोप उक्षितं यनरकत्वादि तदाश्रयो यो नरकादिस्तत्साधनतात्वावच्छिन्नप्रतियोगिता काऽभावकूटे ( अनिष्टसाधनत्वाभावकूटे ) तादृशाभाचत्वेनानुगमविषये विधिप्रत्ययस्यैकैव शक्तिरित्यन्वयः, द्वेषविषयतावच्छेदकत्वो पलक्षितधर्मावच्छि ननिरूपितसाधनतात्वावच्छिन्नाभावे विधिप्रत्ययस्य शक्तिरिति यावत् । उपलक्षणीभूतेतियथा तत्पदस्थले तत्पदेनोपलक्षणीभूतबुद्धिविषयतावच्छेदकत्वं परित्यज्य घटादिकं प्रतीयते तथात्राप्युपलक्षणीभूनं यद् द्वेषविषयतावच्छेदकत्वं तत् परित्यज्य नरकायसाधनत्वं विधिप्रत्ययेन प्रतीयते इत्यर्थः । कुत्रेति- विशेषरूपस्य नरकाद्यसाधनत्वस्य या प्रतीतिर्भवति सा तात्पर्यज्ञानाधीनैव भवतीत्यर्थः । यथा शाकभोजनेन नरकासंभवात् तत्र रोगाजनकत्वं विध्यतदभावो नत्रा बोध्यते, कलञ्जभक्षणे रोगाद्यसंभवात् तत्र नरका साधनत्वं विध्यर्थस्तदभावो नत्रा बोध्यते इत्येवं विज्ञेयम् । प्रतियोगिताया इति- द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्याश्रयसाधनतात्वावच्छिन्नप्रतियोगिताकामावे शक्तिः । इत्युक्ते प्रतियोगिता ह्यभावे प्रकारतया भासते इति तादृशप्रतियोगिताया भवच्छेदकं यद् द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्याश्रयसाधनतात्वं तद्धटकं यद् नरकत्वादि तत्रोपलक्षणीभूतं यद् द्वेषविषयतावच्छेदकत्वं तस्य शक्तिप्रहे उपलक्षगतया भानं संभवत्येवेति तादृशोपलक्षणेनोपलक्षितं यन्नरकत्वादि तदाश्रमसाधनतात्वावच्छिन्नाभावे शक्तिप्रदेपि न काचिदनुपपत्तिरित्यर्थः । प्रतियोगिताया अभावे स्त्रनिरूपकत्व संवन्वेन प्रकारता ज्ञेया । यत्र प्रतियोगितायाः संसर्गतया भानं भवति तत्र प्रतियोगिकोटिप्रविष्टोपलक्षणीभूतधर्मस्य शक्तिप्रहादौ भानं न भवतीति नियमोस्ति, न चात्र प्रतियोगितायाः संसर्गतया भानं भत्रति किं तु प्रकारतयेवेति नोपलक्षणीभूतस्य द्वेषविषयतावच्छेदकस्य भानं विरुद्वम्, अयं च विषयः पूर्वमपि " प्रतियोगितासंबन्धेन प्रतियोगिप्रकारकज्ञाने एव प्रतियोगिकोटावुपलक्षणप्रकाराऽमाननियमात् ६१९ " इत्यादिना प्रतिपादितः । ८ "Aho Shrutgyanam" L Page #658 -------------------------------------------------------------------------- ________________ ( ६४६ ) सादर्श: [ आख्यातप्रकरणे - न च प्रमेयत्वादेरप्युपलक्षणतया भानमविरुद्धमिति प्रमेयत्वादेरुपलक्षणतया नरकत्वाद्यनुगमकत्वं कथं न स्वीक्रियते विनिगमकाभावादिति वाच्यम्, सुखाद्यसाधनत्वस्य विध्यर्थताविरहेण प्रमेयत्वादेः सुखत्वादिसाधारण्यं नोक्तरूपस्येत्यस्यैव विनिगमकत्वात् । न च तात्पर्याभावात् सुखाद्यसाधनत्वाबोधकत्वोपपत्तौ विध्यर्थत्वेपि क्षतिविरह इति वाच्यम्, तस्य विध्यर्थत्वे तचात्पर्येणाधुनिकानाम् 'न भुञ्जीत' इत्यादिप्रयोगापत्तेः ॥ इति, तर्कशास्त्रधुरन्धर महामहोपाध्याय श्रीमद्गदाधर भट्टाचार्यविरचितः व्युत्पत्तिवादः समाप्तः । ननु यत्रोपलक्षणीभूतं द्वेषविषयतावच्छेदकत्वं तत्र प्रमेयत्वमपि भवत्येवेति प्रमेयत्वस्यैव किं न नरकत्वाद्युपलक्षणत्वं स्यादित्याशङ्क्याह- न चेति । परिहारमाह- सुखादीति, प्रमेयत्वं हि सुखत्वादिसाधारणमस्ति प्रमेयत्वस्योपलक्षणस्खे च प्रमेयत्वोपलक्षितधर्मावच्छिन्नासाधनत्वं विध्यर्थः स्यात् प्रमेयत्वोपलक्षितधर्मस्तु सुखत्वादिरपि भवतीति सुखाद्यसाधनत्वस्यापि विध्यर्थत्वं स्यात् न च सुखाद्यसाधनत्वस्व विध्यर्थत्वमिष्टम् उक्तरूपस्य द्वेषविषयतावच्छेदकत्वरूपोपलक्षणस्य तु न सुखत्वादिसाधारण्यम्- सुखे द्वेषविषयताया असंभवादिति न सुखासाधनत्वस्य विध्यर्थत्वप्रसक्तिरित्यस्यैव द्वेषविषयतावच्छेदकत्वनिष्ठोपलक्षणये विनिगमकत्वं विज्ञेयमित्यर्थः । ननु शाब्दबोधे तात्पर्यज्ञानमपि कारणमस्तीति तात्पर्याभावादेव सुखासाधनत्वाऽबोधकत्वं विधेः संभवतीति सुखासाधनत्वस्य विध्यर्थत्वेपि क्षतिर्नास्तीत्याशङ्कवयाह- न चेति । परिहारमाहतस्येति, तस्य= सुखासाधनत्वस्य विध्यर्थत्वे तत्तात्पर्येण = सुखासाधनत्वस्य विध्यर्थत्वतात्पर्येण किंवा सुखसाधनत्वतात्पर्येण ' न भुञ्जीत इतिप्रयोगः स्यादत्र च सुखासाधनत्वं विध्यर्थस्तदभाव एव नञा प्रतिपादनीयः सुखसाधनत्वाभावश्च सुखसाधनत्वरूप एव तथा च • भोजनं सुखसाधनम्' इतितात्पर्येण न भुञ्जीत ' इति प्रयोग आपद्येत न चैतदिष्टं न वा न भुञ्जीत ' इत्यनेन ' भोजनं सुखसाधनम् ' इत्यर्थः प्रत्येतुं शक्यते इति न सुखासाधनत्वं विध्यर्थस्तथा वन प्रमेयत्वमुपलक्षणं किं तु द्वेषविषयतावच्छेदकत्वमेवेत्यर्थः ॥ 7 ८ ८ लुङश्च भूतभविष्यत्कालयोः शक्तिज्ञेया यथा - ' सुवृष्टिश्चेदभविष्यत् तदा सुभिक्षमभविष्यत् ' एथश्वेदप्राप्स्यत् ओदनमप्यऽपश्यत् ' इत्यादि । तदुक्तम्- लिनिमिते लृङ् क्रियातिपत्तौ " भूते च " इति, लिङ् निमित्तम् हेतुहेतुमद्भावः । अतिपत्तिः = अनिष्पत्तिः । शब्दशक्तिप्रकाशिकायामप्युक्तम् 66 5 ८८ " क्रियातिपाते कालस्य भादिनः प्राक्तनस्य च । वैशिष्ट्यबोधिका या तिङ् लृट् च लङ् च क्रमादिमे || या तिङ् क्रियायाः = धात्वर्थस्यातिपाते = विगमे ( अनिष्पत्तौ ) भाविकाला वच्छेद्यत्वस्य वोधि • का तादृशी लट्, या त्वsतीतकालावच्छेद्यश्वस्य बोधिका ) तादृशी ऌङ्, ' तण्डुलं चेत् प्राप्स्यस्योदनमपि पक्ष्यतिं चैत्रः ' इत्यादी स्यतिप्रभृतयश्चैत्रादेर्भाविकालावच्छेदेन तण्डुलप्रापत्याद्यभाववत्त्वमनुभावयन्ति ( चैत्रो न तण्डुलं प्राप्स्यति न चौदनं पक्ष्यतीत्यर्थः ) तथ: "Aho Shrutgyanam" Page #659 -------------------------------------------------------------------------- ________________ आख्यातप्रत्ययार्थोपसंहारः] व्युत्पत्तिवादः । (६४७) * एवश्वेदप्राप्स्यत् ओदनमप्यऽपक्ष्यत् । इत्यादाक्तीतकालावच्छेद्यमिन्धनप्राप्त्यभाववत्तम् ( चैत्रेऽनुभावयन्ति स्यतिप्रभृतयः) तथा च भाव्यऽतीतकालाविव क्रियाप्रतियोगिकोऽभावोपि तयोः (लट्लङोः) अर्थः ( एतेन पाकाद्यभावबोधकत्वं लट्लडोः प्राप्तमिति विज्ञेयम् ) । वस्तुतो भाव्यादिकालावच्छेदेन तण्डुलप्राप्त्यभावप्रयुक्त ओदनपाकाद्यभाव एवोक्तस्थले लडादिना चैत्रादावनुभाव्यः क्रियाविरहप्रयुक्तस्य (तण्डुलप्राप्त्यभावप्रयुक्तस्य ) क्रियान्तरविरहस्य (पाकाद्यमावस्य ) एव क्रियातिपातत्वात् ( क्रियातिपातपदार्थत्वात् ) ।" इति । अत्रत्यविषमपदानि तु ( ) एतचिह्नान्तर्गतशब्देर्व्याख्यातानीति विज्ञेयम् ।। ___ सन्प्रत्ययार्थस्तु पूर्वमेव ( ३१०) “सनो धात्वर्थविषयकेच्छावाचित्वात् " इत्यादिना निरूपितः । णिप्रत्ययार्थश्च ( २५६ ) ( २५९) “णिजों हेतुकर्तृत्वम् " " अनुकूलव्यापार एव णिजर्थः " इत्यादिना निरूपितः । शष्प्रत्ययार्थश्च (२६३)" लकारसामान्यवृत्त्या यत्र कर्तृत्वं प्रतीयते तत्रैव "कर्तरि शप्" इत्यस्य शब्विधायकता " इत्यादिना निरूपित इति तत्र तत्रैव द्रष्टयम् । अवशिष्टप्रत्ययानामर्थास्तु शब्दशक्तिप्रकाशिकायां द्रष्टव्याः ॥ ॥ इति धातुप्रत्ययाः ।। श्रीमद्गुरुमुखाज्ज्ञातपदार्थानां हि संग्रहः । स्वकीयज्ञानरक्षायै कृतोयं युक्तयुन्नतः ॥ श्रीशास्त्रदीपिकाटीका प्रकाशाख्या प्रकाश्य च । बालानामुपकाराय द्वावाऽऽदी प्रकाशितौ ॥ एष व्युत्पत्तिवादस्य शक्तिवादस्य चापरः । प्रकाशं संमुखीकृत्य दर्शनीयौ कदाचन ॥ अनेकग्रन्थनिर्माणश्रमसंदोहर्षितम् । शरीरं शीर्णतां प्राप्तमेतद् व्यसनदुष्फलम् ।। वन्दे श्रीमद्धयग्रीवं मन्देभ्यः करुणानिधिम् । विद्यागुरुं तथा वन्दे श्रीगङ्गाधरशास्त्रिणम् ।। यः साङ्ख्ये कपिलः पतञ्जलिरलं शाब्दे कवित्वे परं श्रीहर्षोऽद्वयदर्शने शिवतनुस्तर्केषु यो गौतमः । मीमांसामतजैमिनिध्रुवमुपाध्यायो महद्भ्यो महान् स्याऽऽई ई पदभृद् गुरुर्विजयते शास्त्री स गङ्गाधरः ।। ॥ इति पश्चनदीय (पंजाबी) पण्डितसुदर्शनाचार्यशास्त्रिप्रणीता व्युत्पत्तिवादस्याऽदख्यिा व्याख्या समाप्ता ॥ ॥ श्रीः ॥ "Aho Shrutgyanam" Page #660 -------------------------------------------------------------------------- ________________ समातश्चार्य ग्रन्थः "Aho Shrutgyanam" Page #661 -------------------------------------------------------------------------- ________________ पृ० पं० १ ( अन्त्या ) २ २८ ३ २६ २९ 6 ू 6) 19 ६१ ६२ ६८ -७४ 심 ७५ ८२ ८५ (19 ९२ अशुद्धम्. ज्ञान संसग त्यथ त्यथ ज्ञयः काङ्का रूपद वाथ स्थव क्तव १५ २३ १७ १० १८ २५ २५ १८ २५ ३० २६ २१ वावयस्य ३३ १५ प्रत्याया ३८ ( केचित् यान्त्रिकबिन्दवोऽशुद्राः ) ४२ १० ४३ २५ ४९ १५ ४९ १२ ४९ द्रव्य पेक्षापेशा ब्याण दक २४ च्छद्रक १३ च्छदक २९ सयोग १ णत्व ८ ङ तथ तयाः चक २७ शुद्धिपत्रम् २९ ति ३ य १२ गभूत शुद्धम्. ज्ञात संसर्ग त्यर्थ त्यर्थ ज्ञेयः ॐ काङ्क्षा रूपपद वार्थ स्थेव अत्र वाक्यस्य प्रत्यया बोधोत्पात्त बोधोत्पत्ति वेति यस्य गंभूत द्रव्यं वेशापेक्षा ष्याणां दकं च्छेदक च्छेदक संयोग पणत्वं इस तया चैक पृ० ९३ ९५ १०१ १०३ १०३ १०३ १०३ १०३ १०४ १०४ ११० ११४ ११४ ११४ ११६ ११९ १२५ १२५ १२६ १३५ १३७ १३९ १४५ १५३ १५४ १५५ १५७ १६. "Aho Shrutgyanam" पं० २७ २ २४ १९ २० २१ २९ २९ १७ १७ २ < २३ of अशुद्धम्. साप्या: क्यन लक्षा चत्र रूपाथा दश दान्वन पदाथ ज्ञन ३० ज्ञनेन २ उरी १६ ताथ चत्र पपदं हेतु निवाहो १२ १४ सभ १६ परि ५ ऽऽन्वय ( अन्त्ये) संख्य २९ व्यापत्वं २० शत ३ कवा ( अन्त्ये ) पित २७ ताय ७ तापद युक्ता स्व शुद्धम्. सामन्याः क्येन लक्षण चैत्र रूपार्था देश दान्वय पदार्थ चैत्र पदं तु निर्वाहों ज्ञान ज्ञानेन उररी तार्थ संभ पारि ऽन्वय संख्यावि व्याप्यत्वं शवे कैवा पिता ताया तांद युक्त्या स्तः Page #662 -------------------------------------------------------------------------- ________________ - ( २ ) पृ० १६० १६० १६० १६० १६० १६१ १६४ १६६ '** १६७ १६७ १७६ १७७ १८६ १८७ पं० अशुद्धम्. बन्धन १८९ १८९ १५ १७ १८९ १९२ १९६ १९७ १९९ २०० १५ घटा १६९ १ १७२ ३ नस्ये १७२ २७ पृथक १७४ १९/२० ब्रह्मणा ब्रह्माण नान्त १७७ २४ त्राणि १७७ १८४ ए वृत्तित्व त्यथः ४ २९ टव २९ २३ रथकंब चैत्रत्य चित्र पचत १८७ ४ पचेत ण्डुलो २२ २५ २५ ञ ( अन्त्या ) ससर्ग संसर्ग ३ ( द्वितीयरेखा नापेक्षता ) २ बन्धेन बन्धन यमि सहित ३१ १५ ३० ७ १९ २० यैव २२ १७ चव कर्त येण त्येन स्वाभि यायेना शुद्धम् बन्धेन एव वृत्तित्वा त्यर्थः अत्र प्यमि सहितै घटत्व शुद्धिपत्रम् | घटा नस्य पृथक् ब्राह्मणा ब्राह्मण नान्ता श्रोणि रर्थव चैत्रस्य चैत्र पचते परते तण्डुलो स्यैव न्यायेना चैव कर्तृ येण त्ययेन स्याभि पृ० पं० २०० २८ ३१ २०० २०५ १ २०५ ९ २११ २५ २१२ ४ २१५ २१६ २१७ २१७ २१८ २२५ २२५ १७ १५ ७ ३० १ ३० २२९ १ २३५ २४ २३६ ३ २३८ १ २३८ ५ २३९ २२ २३९ २९ " Aho Shrutgyanam" ९ • अशुद्धम्. ततीया भदो स त्वाथ त्यर्थ संभव व्यापर क्यह बाधो धेयात्व स्थिया भूम सयोग सर्गा विधय कत्व स्पदो ताह चाच्छिन्न द्वितीय २४२ ३० आधय २४२ ३० वच्छद २४७ ( हेडिङ् ) त्पर्थः २५२ २६ शस २५५ २० साहा २५५ २५ न्तावा २५६ १७ २५७ १५ २५७ २९ २६० १ २६२ ९ कतृ प्रप्तं मैत्र तृतीया भेदो सं स्वार्थ व्यर्थ संभवे व्यापार क्याह बोधो धेयत्व स्थित्या भूमे संयोग सर्गो विधेय शुद्धम् कत्वं स्पन्दो तर्हि वच्छिन्न द्वितीया आधेय वच्छेद त्यर्थः शसं सहा न्ताव कर्तृ प्राप्तं मैत्रे निर्वा निर्वाह्य ण्यतो ण्यन्तो Page #663 -------------------------------------------------------------------------- ________________ शुद्धिपत्रम् । तार्थ त्वर्थे स्वर्थे ० कर्म भवति, पृ . . अशुद्धम्. शुद्धम्. २७२ २३ श्चत्र चैत्र २७२ २४ याथत्वे यार्थत्वे २७३ १ वादा त्वादी २७९ १० हृयते हियते । २८० ९ आकाश आकाशं २८२ १० माना भानान्ना २८३. १७ दाशत दर्शित २८३ १७११८ चत्री चैत्री २८६ ५ पदाथ पदार्थ २९९ ९ रजन रजत २९९ १५ विभक्ति, विभक्ति२९९ १६ भवति३०१ २८ ष्टाया शिष्टाया ३०२ १ सतिः सति ३१० २७ मेति मेवेति ३१० २८ अथ ३१२ १. वेता वैता ३१४ २९ शषि ३१७ २० गृहाहि गृहादि ३२१ ८ कीष्यते । कीर्ण्यते ३२३ कर्तृ ३२७ ५ ण्यन्त्य ण्यन्त ३२८ १३ दिवक्षा विवक्षा ३३१ ८ कम ३३१ १० बाध्यम्। बोध्यम् । ३३१ १६ पदाथ पदार्थे ३३१ २८ तदद्य तदर्थ ३३२ २ ज्ञान ज्ञान ३३३ १२ षष्ठयन्तऋद्र षष्ठयन्तर्द्ध ३३४ २५ तदथ तदर्थ ३४० १५ काय कार्य । पृ० पं० अशुद्धम्. शुद्धम्. । ३४३ ११ ताथ ३४४ ५ कम ३४७ २५ त्वाथ स्वार्थ ३४८ १ त्वथे । ३४८ ९ . कम ३४८ २७ सयो संयो ३४९ ८ त्वथ ३४९ ९ त्याद त्यादि १५ अन्तार्भूत अन्तर्भूता ३४९ २४ कम कर्म ३४९ ३० कम ३४९ नयक नर्थक ३५० ९ व्याप्त व्याप्ते ३५१ ११ वाक्य वाक्यं ३५१ १४ सयो संयो ३५२ ८ द्विती द्विती ३५२ १७ भिादन भिर्दिन ३५२ २२ काश्या काश्य ३५५ २५ भविष्यत् ) ( भविष्यत् । ३५९ २० चत्री चैत्री ३६९ १६ कत्व कत्वं ३७५ (हेडिङ्) यव याव ३८० २४ सबन्ध संबन्धे ३८३ ६ इत्थ इत्थं ३८३ १५ स्याथः स्यार्थः ३८७ २१ मित्यर्यः मित्यर्थः ३९१ ३० त्वति विति ३९२ ४ वक्लिश्या विक्लित्त्या ३९२ १५ सम साम ३९४ ३० शष शेष ३९७ २८ मैत्र मैत्र: hd vave अर्थ कत "Aho Shrutgyanam Page #664 -------------------------------------------------------------------------- ________________ (४) शुद्धिपत्रम् । اس 30 . occcccccccccccc ccc c occccc पृ० पं० अशुद्धम्. शुद्धम्. ४०० २१ अचेत अचेतन ०४ २७ चतने चेतने ०५ २।३ वेण वेन ४१६ १७ व्यापा व्यापार प्रामाण्य प्रामाण्यं पढं पदं ४२३ १२ विषधेय विधेय ज्ञानल ज्ञानला ४२६ २८ चशे द्यशे ४३१ १. विधय विधेय ४३३ १२ कत कर्तृ ४३३ २७ हतु ४३५ ११ प्रसोष्ट प्रासोष्ट ४४१ ५ वाच्छन्न- वच्छिन्न ४४३ (हेडिङ्)भाष भाषा ४४३ ४ संज्ञा संख्या १७ बद्धो बद्ध ४४३ १८ सद तद २६ विच्छेद वच्छेद बाहुल्यन बाहुल्येन २० विश विशे मुख मुख्यं ___ कर्मत्वयं कर्मत्व ४४६ २० तय तया ४४८ २३ सब संब ४५१ २९ पत्त्या त्पत्त्या ४५२ १२ निष्ठं निष्ठ ४५२ १८ वच्छद बच्छेद ४५२ २५ जल जलं ४५५ ११ एव एवं ४१५ २४ मिति२ मति२ | पृ. ५० अशुद्धम् शुद्धम्. ४६३ १ चतुर्थः चतुर्थ्यर्थः ४६४ ४ सप्र संप ४६६ ११ योग योगं । ४६६ ११ पादा पदा ४६६ २२ चतुर्थ चतुर्थी. ४६८ १९ द्येश्य द्देश्य ४७० २२॥२४त्यथः त्यर्थः ४७१ २६ योग्य योग्य ४७१ २७ कन्नादि कान्नादि ४७२ १४ चेत्रः चैत्र: ४७२ २६ पित्र्यु पित्रु ४७४ १० मवम् मैवम् ४७५ ३० भदे भेदे ४८१ १५ त्याय त्याय्य ४८५ प्राप्त प्राप्ते पतात पतति ४९१ २० णाम णाय ४९६ ४ वय वेय ४९८ ३ वियते । वियते ५०० १८ क्षया ५०३ (हेडिङ्) अन्वे अन्ये ५०३ ७ गणस्य । गुणस्य ५०४ ३० धात धातू ५०५ १८ दस्था पस्था मिद्य भिद्यते ५१३ २३ मत्वर्थी मत्वर्थीय क्षात्रय क्षत्रिय ५२० १ जला जलो ५२० ११ पादा पदा ५२४ (हेडिङ्)सप्तम सप्तमी ५२५ १२ ऽधेय ऽऽधेय पेक्षया N0nur turer ی ی "Aho Shrutgyanam" Page #665 -------------------------------------------------------------------------- ________________ पं० अशुद्धम्. शुद्धम्. दवृत्ति दिवृत्ति प्यत्वं च्छेदे त्वेन पृ० ५२७ १२ ५२७ १७. यत्वं ५२८ २३ च्छेद ५२९ ३ त्वन १२९ ३ आप ५२९ २२ चम ५३२ २८ वावये ५३७ २० खा १३८ ३ गाग्यः १३८ २२ रूपः ५४० ५ चत् ५४० १५ भ्यव ५४१ ९ पुष्प १४८ २८ सख्या १४९ बोध ९५२ ५ शत्रु ५५४ १३ चैत्रेण ५५५ २७ रीत्य. १९७ २२ प्रथो ५५९ २ तती ५५९ २५ कट ५६० १७ वाच्यते १६८ २२ दान्त्रय १६८ २९ भवता १६९ ११ वरथं ५६९ १९ पया १६९ १९ पण ५६९ २१ शकया १७० ५७४ ^^ ज्ञान कार अपि चर्म वाक्ये खट्टा गार्ग्यः रोपः चेत् भ्यैव पुष्य संख्या बोध शपु चैत्रेण राध्ये प्रयो तृती कर्तृ वाच्यत्वे दावन्वय भवती वश्यं षयो षणं शङ्कया ज्ञाने लकार शुद्धिपत्रम् । पृ० १७५ ९७६ ९८१ ९८१ ५८७ १८८ १९३ .५९५ १९९ ५९९ १९९ ६०७ ६०९ ६१० ६१९ पं० १२ तथ २१ १ ५ १ २७ २० २२ "Aho Shrutgyanam" २५ २६ ६ १९ ६१८. ६१८ ६१९ ६२० ६२१ ६२४ ५ ५ ६ अशुद्धम्. प्रतात द्यतत २० सज् ५ दिक ق ज्ञान स्पति - २९ जाप्ये २७ ३१ यात्तदा मल्ला ताथ - ' स्पन्दते' 'स्पन्दते' व्यापर ताऽनु कृत्य त्व पाका र्तमानपाका ष्टाया धर्माण तुमाह परव (५) शुद्धम्. र्तमानप्राग प्राग प्रता द्यत तथा स्वात्तदा समाय द्वेष क्षेम विध्यर्थ मल्लो तार्थ व्यापार ताडननु कृत्या र्थ वे सज् दिकं ज्ञान त्यत्ति जाये ष्टाय धर्माणां हेतुमाह परत्व ६२९ ६२९ १३० ११ - ६२१ २२ ६४० २१ प्रबला एतदिशा स्वयं शोध्यमशुद्धं यत्र दृश्यते । अवश्यं शिष्यतेऽशुद्धिः सूक्ष्मदृष्टयापि दर्शने । यन्त्राघाताच जायन्ते बहुत्राशुद्धयोऽवशम् i समवाय द्वेष क्षेमं विध्यर्थ प्रबल Page #666 -------------------------------------------------------------------------- ________________ अथ टीकाकारकृता शिवाष्टपदी भज विषमविलोचनवेशम् । चन्द्रकिरणसमशुभ्रसुदर्शनशैलनितम्बनिवेशम् । ध्रु० ॥ निटिलविलोचनलोचनतः कृतभस्मशरीररतीशम् । हिमनिधिसानुसमाधिसमश्चितचक्रधरं धरणीशम् ॥ १॥ यामवतीपतिपूर्वकलापरिकलितविशालललाटम् । हैमवतीपरिरम्भपवित्रितचित्रितवत्सकपाटम् ॥ २॥ व्यालवलयकमनीयकरम्बितभूषितहस्तसरीजम् । शैलसुतावदनेन्दुविलोचनचञ्चलहृदयमनोजम् ॥ ३ ॥ विष्णुपदीपरिभोगपरिष्कृततुङ्गकपर्दकतल्पम् । गानकलाकुतुकेन नवीकृतताण्डवकल्पमनल्पम् ॥४॥ भक्तजननमरणादिमहास्रवमोचनकौशलवेषम् । त्रिभुवनमण्डलमण्डनपण्डितवन्दितपादविशेषम् ॥ ५ ॥ विष्णुमतीयतृतीयविचक्षणवल्लभवादनिदानम् । चाटुकथाचातुर्यनिकृन्तितगिरिजामानसमानम् ॥ ६ ॥ संहृतसागरमथनविनिस्मृतदारुणदारदशोकम् । मन्मथविशिखभुजगविषाहतिसंहतिसमवितलोकम् ॥ ७ ॥ गीतमिदं हरहर्षकरं किल सुखयतु पुररिपुदासम् । अष्टपदीनिपुणाय पिनाकी वितरतु निजपदवासम् ॥ ८॥ म. म. सी. आई. ई. श्रीगङ्गाधरशास्त्रिणामन्तेवासी चञ्चनदीयः सुदर्शनाचार्यशास्त्री काशी. "Aho Shrutgyanam" Page #667 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ अथ श्रीकृष्णपश्चकम् कादम्बहंस परिसेवितवारिधारा फुल्लारविन्दशतशोभितमध्यभागा । कादम्ब निम्बबकुलादिलसत्तटाढया वृन्दावने वहति या यमुना स्रवन्ती ॥ १ ॥ तस्यास्तटे परममञ्जुलरम्यशोभे सङ्ख्याविहीनसुभगाकृतिगोसुयूथे । कामप्रियापरिभवार्हसुदिव्यरूपवृन्दीभवद्व्रजजनीव्रजरङ्गभूते ॥ २ ॥ बर्हावतंसललितः करकङ्कणादयो मुक्तावलीशतविभूषितवक्रकण्ठः कारागार कार्यकामनासी मुग्धारविन्द विलसत्सु विलोलनेत्रः ॥ ३ ॥ श्रीमन्मृणालसहितान्ज मनोहरेण हस्तेन बिम्बफलसुन्दरदन्तपत्रे | ये निधाय मधुरध्वनिधामरागा • नालापयन् हृदयमोहनमन्त्रभूतान् ॥ ४ ॥ सूच्याद्यनेकपदपाटव कोविदेन्दु दिव्यप्रसून तुलसीकृतदामवत्सः । श्रीराधिकावदनपङ्कजलुब्धचित्तो नृत्य हो प्रियकिशोरतनुर्मुरारिः ॥ ९ ॥ काशीनिवासी पं० सुदर्शनाचार्थशास्त्री "Aho Shrutgyanam" Page #668 -------------------------------------------------------------------------- ________________ // श्रीः॥ पञ्चनदीयपण्डितसुदर्शनाचार्यशानिप्रणीतानां मुद्रितपुस्तकानां सूची 1 शास्त्रदीपिकाप्रकाशः 2 व्युत्पतिवादादर्शः 3 शक्तिवादादर्शः * विशिष्टाद्वैताधिकरणमाला 5 सावलोकदशरूपकप्रभा 6 अद्वैतचन्द्रिका 7 संस्कृतभाषा 8 श्रीरङ्गदेशिकशतकम् / 9 श्रीसृतियतीन्द्रवन्दना 1. अनर्घनलचरित्र (नाटक) गीताभाषाभाष्य 12 भगवद्गीतासतसई 13 श्रीआल्वारचरितामृत 14 अष्टादशरहस्यभाषा 15 स्त्रीचर्या 16 नीतिरत्नमाला 17 श्रीवैष्णपत्रतनिर्णय 18 नागरीदर्पण (हिंदीमाषाव्याकरण) 19 भाषाशब्दसंग्रह ( हिंदीकोश) शंखचक्रतिटकबन्धचित्रपट पुस्तकप्राप्तिस्थानम् वेंकटेश्वरप्रेस ! विद्याविर बंबई. Kamsoon "Aho Shrutgyanam"