________________
(४७०)
सादर्श:
[चतुर्थीकारकेन च प्रथमान्तपदार्थस्य मुख्यविशेष्यतानियमः- 'भूतले न घटः' इत्यादौ निपातार्थस्यापि मुख्यविशेष्यतया भानात् । “ शिवायोत्सृजति ' इत्यादाविव. नात्राऽनिराकर्तृसंप्रदानता-त्यागपदार्थस्य क्रियात्वाभावात् । _ नमःपदेन च स्वप्रयोक्तृपुरुषकर्तृकत्वोपरागेणैव त्यागोऽभिधीयते- अन्योचरितनमःपदेनाऽन्यदोयत्यागावोधनात् । तत्पुरुषोचरितनमःपदात् त्यागबोधे सति त्यागे त्यज्यमाने द्रव्ये चान्यदीयत्वसंशयानुदयात् , अत एव त्यागे तदीयत्वबोधनाय ' अहं ददे' इत्यादिवत् ' अहं नमः' इति न प्रयुज्यते, न वा परकीयत्वबोधनाय 'चैत्रो नमः' इत्यादि । ऋत्विजा च यजमानरूपपुरुषान्तरीयतत्तद्रव्यत्यागे स्वीयत्वमारोप्यैव पूजायां नमःपदं प्रयुज्यते स चारोपस्तस्य विशेषदर्शनदशायामप्याहार्यतयोपपद्यते इति प्रतिनिधिप्रयुक्तस्य दानवाक्यस्येव पूजायां तादृशनमापदघटितवाक्यस्य बाधितार्थत्वेप्यदृष्टजनकत्वं न विरुद्धम् । पेच्छायाम् । “ यदि च त्यागरूपेच्छैव " इत्याधुक्तद्वितीयकल्पे चतुर्थ्यर्थमाह-द्वितीयकल्पेति । शिवनिष्ठोद्देश्यताख्यविषयतानिरूपितविषयिताश्रयीभूतेच्छाजन्याऽर्थ्यविषयकस्त्याग इतिशाब्दबोधः। स्पष्टमन्यत् ।
ननु प्रथमान्तपदार्थस्यैव विशेष्यत्वं भवतीति नियमे सत्यपि कथं नमःपदार्थत्यागस्य विशेष्यत्वमुक्तमित्याशङ्क्याह- न चेति । उत्तरमाह- भूतले इति । निपातार्थस्य नअर्धाभावस्य । 'घटाभावो भूतलवृत्तिः । इत्याकारकशाब्दबोधोदयादित्यर्थः । ननु ' एषोर्ध्यः शिवाय नमः' इत्यत्र शिवस्यानिराकर्तृसंप्रदानत्वं स्वीकार्य तथा च संप्रदानचतुर्थेव शिवपदात् संभवेदिति " नमःस्वस्ति" इति सूत्रं व्यर्थमेवेत्याशङ्कयाह- शिवायेति । त्यागपदार्थस्येच्छारूपत्वेन गुणत्वात् न क्रियारूपत्वम्, अनिराकर्तृसंप्रदानत्वं चोत्सृजतीत्यादिकियासत्त्वे एव भवतीत्यत्र नमःस्वस्त्यादिशब्दयोगे चतुर्युपपत्त्यर्थम् “ नमःस्वस्ति " इत्या. दिसूत्रं सार्थकमावश्यकं चेत्यर्थः ।। __ नम इति- स्वम् नमःपदम् । तथा च चैत्रोच्चारितनमःपदेन चैत्रकर्तृक एव त्यागो बोध्यते नान्यकर्तृक इत्यर्थः । उक्तेः हेतुमाह- अन्येति । हेत्वन्तरमाह- तत्पुरुषेति, चैत्रोच्चारतनमःपदाद् यदा त्यागबोधो भवति तदा तस्मिन् त्यागे त्यज्यमानद्रव्ये चान्यदीयत्वस्य संशयोपि न भवतीति नमःपदेन स्वोच्चारणकर्तृकर्तृक एक त्यागो प्रत्याय्यते इत्यर्थः । अत एवेति- यत एवोक्तान्यदीयत्वसंशयोपि नमःपदार्थत्यागे न भवत्यत एव । न वेति- परोचारितनमापदात् परकीयस्यैव त्यागस्य बोधो जायते इति न चैत्रादिनामोच्चारणापेक्षेत्यर्थः । ऋत्विगुच्चारितनमःपदाद् यजमानीयत्यागस्यैव बोधो भवतीत्याह- ऋविजेति । तस्य-ऋत्विजः। विशेषदर्शनदशायाम्= इदं द्रव्यं मदीयं न । इत्याकारकस्वकीयत्वाभावज्ञानदशायामपि । आहार्यतया बाधितत्वरूपेण । प्रतिनिधिप्रयुक्तस्येति दानवाक्यस्य विशेषणम् । तादृशनमः
"Aho Shrutgyanam"