________________
स्यागर्थकनमः शब्दयोगे चतुर्थी ] व्युत्पत्तिवादः ।
(४६९ )
न च स्वत्थान्तररूपफलेच्छां विना स्वस्वत्वाभाव गोचरेच्छेव न संभवतीति * शिवादिस्वत्वं त्यागस्यैव विषयः इतिपक्षोऽसंभवदुक्तिक इति वाच्यम्, स्वस्व - त्वाभावविषयकेच्छायाः पुण्यादिरूपफलजनकत्वात् तद्विषयस्य पुण्यादिजनकतावच्छेदकस्यापि पुण्यादिफलकत्वात्, अन्यथा तत्स्वत्वस्यापीष्टान्तराऽजनकतया स्वतोsपुरुषार्थतया च प्रथममपि तदिच्छाया असंभवेन प्रथमकल्पस्यापि हेयत्वापातात्, तत्र च प्रथमकल्पे स्वत्वप्रकारकेच्छाजन्यत्वं जन्यतासंबन्धेन त्यागान्वयिनी तादृशेच्छैव वा चतुर्थ्यर्थस्तत्र प्रकृत्यर्थस्य शिवादेर्विषयिताविशेषसंबन्धेनान्वयः । द्वितीयकल्पे च विषयिताविशेष एव चतुर्थ्यर्थस्तत्र च: निरूपितत्वसंबन्धेन शिवादेरन्वयः नमः पदार्थत्यागस्य च विषयताविशेषसंबन्धेन द्रव्येऽन्वयः, द्रव्यस्यैव वा विशेष्यतया भासमानत्यागे विषयिताविशेषसंवन्धेनान्वयः ।
पचारादिरूपद्रव्ये ब्राह्मणादीनामेव स्वत्वं जायते तादृशस्वत्वे ब्राह्मणादिनिरूपितत्वस्य सत्त्वेन शिवादिनिरूपितत्वस्य च बाधितश्वेन तादृशबाधितशिव निरूपितत्वस्यावगाहनाद्विसंवादिरूपता यदि त्रिशूलावस्थे शिवादिनिरूपिते प्रसिद्धस्वत्वे त्यज्यमानद्रव्यसंबन्धमवगाहते तदा एतादृशसंबन्धस्यापि बाधितत्वाद् बाधितावगाहनेन विसंवादिरूपतैव प्राप्तेत्यर्थः । त्रिशूलादिनिष्ठे स्वत्वे त्रिशूळादीनामेव संबन्धो न त्वस्मदादित्यज्यमानद्रव्यस्य संबन्ध इति ज्ञेयम् ।
ननूद्देश्यत्वद्वितीयस्वरूपे यत् " यदि च त्यागरूपेच्छेव " इत्यादिना शिवादिस्वत्वस्यापि त्यागरूपेच्छाविषयत्वमुक्तं तन्न संभवति- शिवादिस्वत्वरूपफलविषयकेच्छा विना स्वस्वत्वाभा - चविषयकत्यागरूपेच्छाया असंभवादित्याशङ्क्याह- न चेति । उत्तरमाह - स्वस्वत्वेति, स्वस्वत्वाभावविषयकेच्छयापि पुण्यमुत्पद्यते इति पुण्यादिजनकता स्वस्वत्वाभावेच्छायामस्ति पुण्यादिननकतावच्छेदकं च स्वस्वत्वाभाव एव स एव स्वस्वत्वाभावेच्छाया विषय इति स्वस्वत्वामाचेच्छाया पुण्यजनकत्वे प्राप्ते पुण्यजनकतावच्छेदकस्य स्वस्वत्वाभावस्यापि पुण्यजनकत्वं प्राप्तमेवेति स्वस्वभावस्य पुण्योत्पादकत्वज्ञाने जाते परस्वत्वरूपफलेच्छां विनापि स्वस्वत्वाभावगोचरेच्छा संभवत्येवेत्युक्तपक्षे नाऽसंभवदुक्तिकत्वं दोष इत्यर्थः । विपक्षे बाघकमाह - अन्यथेति, यदि स्वस्वत्वाभावस्य पुण्योत्पादकत्वं न स्यात् तदा पुण्योत्पादकत्वज्ञानेपि परस्वत्व विषयकेच्छां विना स्वस्वस्वाभावविषयकेच्छा न संभवेत्तथा च तत्स्त्वत्वस्य = परस्वत्वस्याप्येकेष्टजनकत्वेनेष्टान्तराजनकतया स्वयं च सुखदुःखाभावयोः पुरुषार्थयोर्मध्येऽन्यतररूपत्वाभावेनाऽपुरुषार्थतया प्रथमं तदिच्छा. याः = परस्वत्वविषयके च्छाया अप्यसंभवात् प्रथमकल्पस्य = "" त्यागश्च यदि ” इत्यादिनोक्तस्थ परस्वत्वेच्छानन्तरं स्वस्वत्वाभावेच्छेतिकल्पस्यापि हेयत्वं स्यात् = असंभवदुक्तिकत्वं स्यात् उक्तरीत्या परस्वत्वेच्छाया अपि प्रथममसंमवादित्यर्थस्तथा चोक्तं पक्षद्वयमपि संभवदुक्तिकमेव रक्तप्रथमकल्पे चतुर्थ्यर्थमाह-तत्रेति । स्वत्वप्रकारकेच्छाजन्यत्वं त्यागे ज्ञेयम् । तत्र चतुर्थ्यर्थरू
" Aho Shrutgyanam"