________________
(४६८)
सादर्श:
[चतुर्थीकारके
चतुर्थीसमासे प्रकृतिविकारभावस्य नियामकत्वानुसरणादिति वाच्यम्, आवास, गृहाऽश्वघासादौ चतुर्थीतियोगविभागेन शाब्दिकैः समासोपपादनात् ।
नमःस्वस्त्यादिशब्दयोगेपि तदर्थविशेषणवाचकपदात् " नमःस्वस्ति " इत्यादिसूत्रेण चतुर्थ्यनुशिष्यते । नम:शब्दार्थस्त्यागो नमस्कारश्च 'एषोऽर्थ्य: शिवाय नमः' इत्यादी त्यागार्थको नमःशब्दः, चतुर्था च तत्र प्रकृत्यर्थस्य शिवादेरुद्देश्यत्वं प्रत्याय्यते । त्यागश्च यदि शिवस्यायं भवतु ' इत्यादिफलेच्छाधीनस्वस्वत्वाभावेच्छारूपस्तदा त्यागोद्देश्यत्वं त्यागजनकेच्छायाः स्वत्वभागितया विषयत्वम् । यदि च त्यागरूपेच्छैव स्वस्वत्वाभावमिवान्यदीयत्वेन त्यज्यमानगतं स्वत्वमपि तत्र विषयीकरोति न तु तजनकेच्छा तदा स्वत्वभागि: तया त्यागविषयत्वमेव तदुद्देश्यत्वम् । शिवाविग्रहवत्वेपि स्वीकाराभावात तदाकारतया ध्यातमन्त्रस्य त्यागोदेश्यतामते तदभावाच त्यज्यमानोपचारादौ स्वत्वाभावेपि तदीयत्वेन तत्तद्रव्ये स्वत्वावगाहिनीच्छा विसंवादिरूपैव-द्रव्यनिष्ठेऽन्यदीयस्वत्वे बाधितं शिवादिनिरूपितत्वं शिवादिनिरूपित प्रसिद्धस्वत्वान्तरें वा बाधितं तत्तद्रव्यसंबन्धमवगाहते । नोपपद्यत इयाशङ्कयाहन चेति । परिहारमाह-आवासेति, " चतुर्थी तदर्थार्थ " इतिसूत्रे " चतुर्थी " इतिपदस्य योगविभागेन — चतुर्थ्यन्तं सुबन्तेन सह समस्यते ' इत्यर्थलाभात् "भावासाय गृहम्-आवासगृहम्' ' अश्वाय वास:-अश्वघासः ' इति समास उपपद्यते इत्यर्थः। वस्तुतस्तु · अश्वघास: । इतिषष्ठीसमास एवेति, कौमुद्यां द्रष्टव्यम् । . प्रयोगान्तरमुदाहरति-नम इति, रामाय नमः ' इत्यादौ रामायुद्येश्यकनमस्कारप्रतीत्या नमः पदार्थादीनां विशेष्यत्वेन तत्र रामादिपदार्थस्य विशेषणत्वमिति रामादिपदेभ्यः"नमःस्वस्ति" इतिसूत्रेण चतुर्थीत्यर्थः । नम:पदार्थमाह-नमःशब्दार्थ इति । तत्र=नमःशब्दार्थत्यागे । 'शिवोद्देश्यकार्यत्यागः' इतिबोधः । त्यागपदार्थमाह-त्यागश्चेति । फलमत्र शिवस्वत्वं ग्राह्यम् । अस्मिन् प्रथमकल्पे त्यागोद्देश्यत्वस्य स्वरूपमाह त्यागोद्देश्यत्वमिति । स्वत्वभागितया त्यागजनकेच्छाविषयत्वं त्यागोद्देश्यत्वमित्यन्वयः, अस्ति चात्रैतादृशोद्देश्यत्वं शिवस्य । त्यागोद्देश्यत्वस्य स्वरूपान्तरमाह- यदि चेति । तजनकेच्छा=परस्वत्वजनके च्छा त्यागजनकेच्छावा । परस्वत्वस्येच्छारूपत्यागविषयत्वमनेन प्राप्तमिति स्वत्वमागितया त्यागविषयत्वमेव त्यागोद्देश्यत्वमित्यर्थः । अन च द्वितीयकल्पेपि त्यागस्वरूपं पृथग्रवक्तव्यमासीदिति ध्येयम् । शिवादेविग्रहवत्त्वेपि शिवादिकर्तृकस्वीकारासंभवेन त्यज्यमानोपचारादौ-नैवेद्यादौ शिवादिस्वत्वाभावेप्युक्तत्यागरूपेच्छा तदीयस्वत्वमवगाहते इति विसंवादिरूपा आन्तिरूपैवेत्याह-शिवादेरिति । शिवस्वरूपेण ध्यातमन्त्रस्य त्यागोदेश्यतामते च सुतरां विसंवादः-तदभावात विग्रहवस्वस्यैवाभावाद् दूरे स्वीकर्तृत्वमित्याह- तदाकारतयेति । विसंवादिरूपत्वे हेतुमाह-द्रव्यनिष्ठेति, शिवायुद्देशेन त्यव्यमानो
"Aho Shrutgyanam"