________________
पाकाय ब्रजति इत्यादि] व्युत्पत्तिवादः।
(४६७) य्याहरणं तादृशार्थकर्मतयैधस्य विवक्षितत्वात्तत्र चतुर्थी, चतुर्था एवार्थ:-तत्कमकाहरणप्रयोजनकत्वम् ।
'पाकाय व्रजति ' इत्यादौ 'पाकं कर्तुम् ' इत्यर्थविवक्षायामनेनैव सूत्रेण चतुर्युपपत्तावपि यदा पाककृतीच्छाधीनेच्छाविषयत्वरूपं पाककर्मककरणप्रयोजनकत्वं न व्रजनस्य विवक्षितमपितु पाकेच्छाधीनेच्छाविषयत्वरूपं पाकार्थकत्वमेव तत्रापि चतुर्युपपत्तये 'तुमर्थात् " इतिसूत्रम् ।
'अश्वाय घासः' इत्यादावश्वपदस्याऽश्वभोजनपरतया तादर्थ्यचतुर्थेव । * भातियते ' इत्यस्याध्याहारेण 'अश्वं भोजयितुमाहियते । इत्यर्थविवक्षया " क्रियार्थोपपद" इत्यादिसूत्रेण चतुर्युपपत्त्याऽश्वपदस्य मुख्यार्थपरत्वोपपादनेपि 'अश्वघासः' इत्यत्राश्वपदस्य तद्भोजनपरतायास्तादर्थ्यचतुर्थ्याश्चावश्यकता, अन्यथाऽहृतपदसापेक्षतया चतुर्थीसमासानुपपत्तेः । न च तथापि समासानुपपत्तिः-' रन्धनाय स्थाली' इत्यादौ तद्वारणाय " चतुर्थीतदर्थार्थ ” इतिसूत्रेण त्वान्वयि ( स्वनिरूपितत्वसंबन्धेन ) आहरणम् । तादृशार्थकर्मतया उक्ताहरणकर्मत्वेन । चतु
र्थ्यर्थमाह- चतुर्थ्या इति, तत्कर्मक-एधकर्मक । तथा च 'एधकर्मकाहरणप्रयोजनकबजनक्रियाश्रयः । इति शाब्दबोधः।
: 'पाकाय ब्रजति ' इत्यत्र पाकं कर्तुं व्रजति' इत्यर्थविवक्षायामनेन=" क्रियार्थोपपदस्य " इतिसूत्रेण चतुर्थी, व्रजने पाकेच्छाधीनेच्छाविषयत्वरूपपाकार्थकत्वस्य' पक्तुं व्रजति । इत्येवं विवक्षायां च “ तुमर्थाच्च " इतिसूत्रेण चतुर्थी भवति पाकपदस्य क्रियारूपभावबोधकवादित्याह- पाकायेति । पाककर्मककरणमित्यत्र करणेतिपदेन धात्वर्थभूतकरणं ग्राह्यम् ।
प्रयोगान्तरमुदाहरति- अश्वायेति, तादर्थ्यचतुर्थी=" तादर्थ्य चतुर्थी " इतिवार्तिकेन चतुर्थी । तथा च ' अश्वभोजनार्थो धासः ' इतिबोधः । यद्यपि भाहियते' इतिपदस्या. ध्याहारेण · अश्वं भोजयितुमाहियते ' इत्यर्थविवक्षयाऽश्वपदस्य मुख्यार्थपरत्वेपि “क्रियार्थोंपपदस्य " इतिसूत्रेण चतुर्युपपत्त्या · अश्वाय घास: ' इति प्रयोग उपपद्यते तथापि 'अश्वघासः ' इतिसमासोपपत्त्यर्थम् — अश्वाय घासः । इतिविग्रहवाक्येऽश्वपदस्याश्वमोजनपरत्वमश्वपदात्तादर्थ्यचतुर्थी चापेक्ष्यते, अन्यथाऽऽहृतपदसापेक्षतया “ सापेक्षमसमर्थवद्भवति " इतिनियमेन सामर्थ्याभावादऽश्वपदार्थस्य भोजनान्वयित्वेनः घासेनान्वयाभावाच 'अश्वघासः' इतिसमासो न स्यादित्याह-आहियत इति । ननु 'अश्वघासः' इत्यत्र " चतुर्थी तदर्थार्थ ” इतिसूत्रेणेव समासः कर्तव्यस्तत्र च 'रन्धनाय स्थाली' इत्यत्र तद्वारणाय चतुर्थीसमासवारणाय प्रकृतिविकृतिभावस्थले एव समासो भवति यथा 'यूपाय दारु-यूपदारु' इति तदुक्तम्-- " तदर्थेन प्रकृतिविकृतिभाव एव " इति तथा चाश्वघासयोः प्रकृतिविकृतिभावस्थामावादश्वर-दस्याश्वभोजनपरत्वेपि तादृशाश्वपदात्तादर्थ्यचतुर्थीसत्त्वेपि च ' अश्वघासः:' इतिचतुर्थीसमासो
"Aho Shrutgyanam"