________________
त्यागार्थकनमःपदम् ]
व्युत्पत्तिवादः ।
( ४७१ )
अस्मच्छन्दादिवत्- स्वोच्चारणकर्तृत्वोपलक्षितपुरुष विशिष्टवाचकान्नमः पदाद् विशेषरूपेण पुरुषभानम् । व्यशक्यस्य चैत्रत्वादेर्भानासंभवे तस्यापि वाच्येऽन्तर्भावः स्वीकरणीयः । तदनुगमकं चोपलक्षणीभूतमेककालीनोभयावृत्त्युच्चारबिवृशरीरजातित्वम् स्वत्वाननुगमेपि शक्त्यैक्यं कथंचिदुपपादनीयं सर्वनामशक्त्यैक्यवत् ।
,
उपलक्षणरूपप्रविष्टमुच्चारणं वेदीयत्वेन विशेषणीयम्. अतः पूजाभिन्नयाहच्छिकान्नत्यागबोधनाय ' अन्नं नमः ' इति न प्रयोगः | योग्यतासत्त्वेपि तत्र नमः - पदप्रयोगस्य वेदाबाधितत्वेन तद्घटिततत्पदशक्य पुरुषोपलक्षणरूपाऽप्रसिद्धयावाचकत्वात् । अत एव यथा नीचप्रीतिहेतुक्रियास्थले पूजयति' इत्यादिप्रयोगवारणाय पूजयतीत्यादिवाच्यमीतौ गौरवितवृत्तित्वं स्वसमभिव्याहृतकर्तृपदघटितवाक्यस्य=ऋत्विगुञ्चारितनमः पदघटितवाक्यस्य किं वा “प्रतिनिधिप्रयुक्तस्य" इत्युभयत्रैव विशेषणम् । अत्र चैतदऽदृष्टं यजमानसमवेतमेवोत्पद्यते न ऋत्विक्समवेतमिति शास्त्रफलं प्रयोक्तारं " इतिमीमांसाधिकरणे ( ३ । ७ । ८ ) द्रष्टव्यम् ।
अस्मदिति— यथाऽस्मच्छन्दस्य स्वोच्चारणकर्तृत्वोपलक्षितधर्मावच्छिन्ने शक्तिस्तथा नमः पदस्यापि स्वोच्चारण कर्तृत्वोपलक्षितपुरुषविशिष्टत्यागे शक्तिरिति स्वोच्चारणकर्तृत्वो पलक्षित पुरुषस्य शक्यांशे प्रवेशाद् नमः पदात् तस्य स्वोच्चारयितुर्विशेषरूपेण = चैत्रत्यादिरूपेण मानं भवतीत्यर्थः । यद्यपि चैत्रत्वादेर्न शक्यत्वं तथाप्युक्तरीत्या स्वोच्चारणकर्तृत्वरूपेण चैत्रत्वादेरपि नमः - पदवाच्यत्यागेऽन्तर्भावः संभवतीत्याह- अशक्यस्येति । चैत्रत्वादेरनुगमकमाह--तदनुगमकमिति, एककाले उभयशरीरावृत्ति यदुच्चारयितृशरीरजातित्वं तदेवोपलक्षणीभूतमनुगमकं तच चैत्रत्वाद्येव भवति चैत्रत्वस्यैकस्मिन् काले उभयशरीरावृत्तित्वात्, मनुष्यत्वादिकं तूमयशरीरवृत्त्येवेति तन्न ग्राह्यमित्यर्थः । चैत्रद्वयसत्त्वेपि तन्नमः पदोच्चारयितृत्वं त्वेकस्यैवैकस्मिन् काले संभव - तीति ज्ञेयम् । स्वोच्चारणेत्यत्र स्वत्वाननुगमेपि शक्तयैक्यं शक्तिवादोक्तरीत्या कर्तव्यमिति सूचयतिस्वत्वाननुगमेपीति ।
विशेषान्तरमाह - उपलक्षगेति, यत्र वेदेन नमःपदोच्चारणं विहितमस्ति तत्रैव नमःपदेन त्यागबोधो भवति नान्यत्रेति स्वोच्चारेणेत्यत्र वेदबोधितस्वोच्चारणेत्येवं वक्तव्यमित्यर्थः । उक्तस्य फलमाहअत इति । उक्ते हेतुमाह- योग्यतेति नमः पदस्य त्यागबोधने त्योग्यतास्त्येवेत्यर्थः । तत्र= यादृच्छिकत्यागे । तद्द्घटितेति- तदुद्घटितम् = यादृच्छिकत्यागविषयीभूतवाचकन्नादिपदघटितं यत् तत्पदम् = नमः पदं तच्छक्यं यत् पुरुषोपलक्षणरूपम् - वेदीयनमः पदोच्चारणं तस्याऽप्र'सिद्ध्या=असत्त्वात् ' अन्नं नमः ' इत्यादौ नमः पदस्य त्यागावाचकत्वं प्राप्तम् - वेदबोधितं यत् नमःपदोच्चारणं तत्कर्तृत्वोपलक्षितपुरुषोच्चारितस्यैव नमःपदस्य त्यागबोधकत्वादित्यर्थः । अत एवेति - पुरुषोपलक्षणीभूतोच्चारणे वेदीयत्वविशेषणप्रवेशादेवेत्यर्थः । गौरवितवृत्तित्वम् = पूज्यवृ
" Aho Shrutgyanam"
S
66