________________
(४७२)
सादर्श:
:[ चतुर्थी कारकेपुरुषाऽवधिकोत्कर्षववृत्तित्वरूपमुपलक्षणमुपेयते उक्तस्थले च योग्यतासत्त्वेपि नीचवृत्तिप्रीतेः स्वसमभिव्याहृतकत्रऽवधिकोत्कर्षववृत्तित्वरूपोपलक्षणानाका. न्तत्वेन तत्प्रीतिहेतुक्रियावाचकत्वविरहेण तत्तात्पर्येण 'पूजयति' इत्यादेन प्रयोगः, तथा नीचोद्देश्यकत्यागतात्पर्येण नमःपदाप्रयोगात् तदतिप्रसङ्गवारणाय गौरवितोद्देश्यकत्यागे एव नमःपदशक्तिरित्यनादेयम्- गौरवितोद्देश्यकस्वस्य नमःपदार्थशरीरे निवेशेपि गौरवितोद्देश्यकपूजातिरिक्तद्रव्यत्यागबोधनाय नमःपदप्रयोगवारणायोक्तविशेषणस्योच्चारणेऽवश्यं निवेशनीयतया तत एव तदतिप्रसङ्गवारणात् ।
'इन्द्राय स्वाहा ''तुभ्यं स्वधा' इत्यादावनिप्रक्षेपोपहितदेवोद्देश्यकत्यागबोधकस्वाहापद पित्रुद्देश्यकत्यागबोधकस्वधापदयोरपि नमःपदवद् देशनादेशितो. बारणकर्तृत्वोपलक्षितपुरुषीयत्यागवाचकता, अन्यथा पूर्ववदेवातिप्रसङ्गः । एवं च देवोद्देश्यकत्वादेरपि न वाच्यान्तीवः, अतादृशत्यागतात्पर्येण स्वाहादिग्रयोगस्य देशनादेशितत्वविरहेणैवाऽनतिप्रसङ्गात्, अत एव तान्त्रिकपूजायातित्वम् । स्वेति- यथा 'चेत्रः पूजयति हारिम्' इत्यत्र स्वम्=पूजयतिपदं तत्सममिव्याहृतः कर्तृपुरुषश्चैत्रस्तदवधिको य उत्कर्षस्तद्वान् हरिस्तवृत्तिवं पूजधात्वर्थप्रीतावस्त्येवेति स्वसमभिव्याहृतकर्तृपुरुषावधिकोत्कर्षववृत्तित्वविशिष्टा प्रीतिः पूजधात्वर्थः । उक्तस्थले= मृत्यं पूजयति । इत्यादौ । तत्प्रीति-नीचप्रीति । पूजयतिपदस्येत्यादिः । तत्तात्पर्येणः-नीचप्रीतिहेतुक्रियातात्पर्येण । नमःपदाप्रयोगादिति- नीचोद्देश्यकत्यागाय नमःपदप्रयोगो न भवतीति तदतिप्रसङ्गवारणाय नीचोद्देश्यकत्यागे नमःपदप्रयोगापत्तिवारणाय गौरवितोदेश्यकत्यागे एव नमःपदशक्तिरस्तीत्यऽनादेयम्-न वक्तव्यम् । उक्त हेतुमाह- गौरवितोद्देश्यकत्वस्येति, गौरवितोद्देश्यकयादृच्छिकत्यागार्थमपि नमःपदप्रयोग इष्टो नास्तीति नमःपदेन गौरवितोद्देश्यकयादृच्छिकत्यागबोधस्यापि वारणाय उक्तविशेषणस्यवेदीयत्वविशेषणस्य नमःपदोच्चारणेऽवश्यं निवेश्यत्वात् ततःवेदीयत्वविशेषणादेव तदतिप्रसङ्गस्य-नीचोद्देश्यकत्यागतात्पर्येण नमःपदप्रयोगापत्तेारणस्य संभवान्- वेदेन दानरूपस्त्याग उत्कृष्टोदेश्यकत्वेनैव बोधितो न तु नीचोद्देश्यकत्वेनेति न नीचोद्देश्यकल्यागतात्पर्येण नमःपदप्रयोगापत्तिरित्यर्थः ।
इन्द्रायेति- अग्निप्रक्षेपोपहितः अमिप्रक्षेपोपलक्षितो देवोद्देश्यकत्यागः स्वाहापदार्थः, पित्र्युद्देश्यकत्यागः स्वधापदार्थ इत्यन्वयः । देशना-चोदना । देशनादेशितोचारणम् वेदबोधितोचारणं तत्कर्तृत्यो ग्लक्षितपुरुषोयत्यागे एव स्वधास्वाहापदयोः शक्तिारति यादृच्छिकत्यागार्थ न स्वधास्वाहापदयोः प्रयोगापत्तिरित्यर्थः । अन्यथा देशनादेशितेत्यादिविशेषणाभावे । पूर्ववदेव नमःपदवदेव । अतिप्रसङ्गः यादृच्छिकत्यागे स्वधास्वाहापदयोः प्रयोगापत्तिः । एवं चन्देशनादेशितेत्यादिविशेषणात । वाच्ये त्यागे । अतादृशत्यागतात्पर्येण=
"Aho Shrutgyanam"