________________
नतिरूपो नमःपदार्थः ] व्युत्पत्तिवादः ।
(४७३) माचमनीयादिदानेऽग्निप्रक्षेपोपहितत्वपित्रुद्देश्यकत्वविरहेपि स्वाहास्वधाप्रयोगस्य नाऽसमवेतार्थता. एवं च सति : नमःस्वाहास्वधाशब्दानामेकस्थानेऽन्यप्रयोगस्यापि वेदबोधितत्वाभावेनैव नातिप्रसङ्गः।।
नतिरूपो नमःपदार्थश्च स्वापकर्षबोधनानुकूल: स्वीयव्यापारः, चतुर्थ्या चाप. कर्षान्वय्यांवधित्वमऽवधिमत्त्वं वा प्रत्याय्यते. स्वमुच्चारयिता. तथा च चैत्रायुच्चारितात् ' नमो हरये' इत्यादिशब्दाद्धर्यऽवधिकचैत्रापकर्षबोधानुकूलश्चैत्रीयव्यापार इत्याकारको बोधः । नारायणं नमस्कृत्य ' इत्यादौ नमाशब्दयोगेपि न चतुर्थी- द्वितीयया कारकविभक्तित्वेन बलीयस्या बाधात् । __अथात्र नारायणादेर्नमस्कारघटकापकर्षावधित्वमेव तच्च न कर्मत्वं कर्मत्वं च क्रियाजन्यफलशालित्वादिरूपमेव तच्च न तस्येति द्वितीयाया नायं विषयः । न चापकर्षबोधरूपफलाश्रयत्वरूपकर्मत्वं तत्राबाधितमेवेति तद्विवक्षयैव द्वितीयोपपत्तिरिति वाच्यम्, एवं सति नारायणावधिकाऽपकर्षबोधकदण्डवत्प्रणिपाताअदेवोद्देश्यकत्यागतात्पर्येण । अत एव देशनादेशितेतिविशेषणादेव । देवोद्देश्यकाOदिदानरूपत्यागेऽमिप्रक्षेपोपहितत्वं पित्रुद्देश्यकत्वं च नास्येवाऽथापि स्वधास्वाहाप्रयोगस्याऽसमवेतार्थता=बाधितार्थकता नास्ति तान्त्रिकपूजाया अपि वेदबोधितत्वेन तद्घटकाया॑दिदानस्यापि वेदबोधितत्वप्राप्त्या तद्बोधकत्वं स्वधास्वाहापदयोर्युक्तमेवेत्यर्थः । देशनादेशितेत्यादिविशेषणस्योपयोगान्तरमाह- एवं चेति, वेदेन देवोद्देश्यकत्यागे एवं स्वाहापदं निर्दिष्टमिति न स्वाहापदस्य पित्रुद्देश्यकत्यागे प्रयोगापत्तिरेवं स्वधापदस्य न देवोद्देश्यकत्यागे प्रयोगापत्तिरित्यर्थः ।
नतिरूपनमःपदार्थमाह- नतिरूप इति । अपकर्षावधित्वमपकर्षनिरूपितमिति निरूपकता. संबन्धेनाऽपकर्षेऽवधित्वान्वयः । अपकर्षनिरूपितावधित्वं च नमस्कार्ये । वाक्यार्थबोधस्वरूप. माह- तथा चेति । ननु यदि नमःपदयोगे “ नमःस्वस्ति" इतिसूत्रेण चतुर्थी भवति तदा “नारायणं नमस्कृत्य ' इत्यत्र कथं न नमःपदयोगेपि चतुर्थीत्याशङ्क्याह- नारायणमिति, 'नारायणं नमस्कृत्य ' इत्यत्र नारायणस्य धात्वर्थनिरूपितकर्मत्वाद् द्वितीयैव भवति- “ नमः स्वस्ति " इतिसूत्रप्राप्तचतुर्था उपपदविभक्तित्वाद् द्वितीयायाश्च कारकविमक्तित्वाद् उपपदवि. भक्त्यपेक्षया कारकविभक्तबलीयस्त्वादुपपदविभक्तिबाधकत्वादत्र द्वितीयेत्यर्थः ।।
शकते- अथेति । अत्र' नारायणं नमस्कृत्य ' इत्यत्र । तच नमस्कारघटकापकर्षावधित्वं च । कर्मत्वस्वरूपमाह- कर्मत्वं चेति । तत्-क्रियाजन्यफलशालित्वम् । तस्य-नारायणस्य । तथा च नारायणस्यात्र क्रियाजन्यफलशालित्वाभावान्न कर्मवं कर्मत्वामावाच्च न द्विती. याप्राप्तिरित्यर्थः । ननु स्वापकर्षबोध एव फलं तदाश्रयत्वं च सत्र नारायणेऽस्त्ययेति युक्तं कर्मत्वमित्याशङ्कयाह-- न चेति । परिहारहेतुमाह- एवमिति, यदि स्वापकर्षबोधाश्रयतया नारायणस्य कर्मत्वं तदा यदा नारायणाने दण्डवत्प्रणामः क्रियते तदा तत्रस्थपुरुषस्यापि 'भयं
"Aho Shrutgyanam"