________________
(४७४) सादर्श:
चतुर्थीकारकेदिलिङ्गकताहशापकर्षबोधाश्रयतायाः पुरुषान्तरसाधारणतया नारायणप्रणाम: दशायाम् ' मनुष्यं नमस्करोति' इत्यादिप्रयोगापत्तिः । यदि चापकर्षावधित्व.. प्रकारकबोधानुकूलव्यापारो नमस्कारस्तद्घटकबोधविशष्यतया नारायणादेः कर्मत्वं क्रियाजन्यफलशालित्वरूपे कर्मत्वे च व्यापारांशेऽनुकूलतासंबन्धेन विशेपणीभूतं फलमेव विवक्षणीयमत्र चानुकूलत्वमेव व्यापारांशे विशेषणमित्यपकर्षावधित्वबोद्धः पुरुषान्तरस्य न कर्मतेत्युच्यते ?, तदापि ‘नारायणं प्रणम्य ' इत्यादावेव कर्मत्वमुपपद्यते न तु ' नारायणं नमस्कृत्य' इत्यादौ- नम:पदार्थघटकज्ञानस्य धात्वर्थताविरहेण तद्विषयतायाः कर्मतानात्मकत्वात् कृतिविषयतायाश्च नमःपदार्थव्यापारे एव सत्त्वात् ।।
मैवम्-'नमस्करोति' इत्यादौ कृधातुनैव व्यापारबोधात्. अत्र च स्वापकर्षावधिवप्रकारकबोधविषयतामात्रं निपातार्थः, अत्र स्वं समभिव्याहृतः कर्ता तया च तादृशबोधविषयताप्रयोजकव्यापारानुकूलकृतिमानिति समुदायाधीनो स्वात्मानमपकृष्टं मन्यते ' इत्याकारकस्तदपकर्षबोधो जायते एवेति तादृशबोधाश्रयतया तस्यापि मनुष्यस्य कर्मत्वापत्त्या नारायणोद्देश्यकप्रणामदशायाम् “मनुष्यं नमस्करोति' इतिप्रयोगः स्थादेव न चैतदिष्टमित्यर्थः । नन्वपकर्षावधित्वप्रकारकबोधानुकूलव्यापारो नमस्कारस्तथा च नारायणावधित्वप्रकारकस्य स्वापकर्षबोधस्य विशेष्यता=आश्रयता हि नारायणे एव न तत्रस्थ. मनुष्ये इति न नारायणप्रगामदशायां मनुष्यस्य प्रणामकर्मतापत्तिः, क्रियाजन्यफलशालित्वरूपकर्मत्वशरीरप्रविष्टं च फलं व्यापारांशेऽनुकूलतासंबन्धेन विशेषणीभूतमेव फलं प्राह्यमिति नारा. यणसमवेत एव बोधो नमस्काररूपव्यापारेऽनुकूलतासंबन्धेन विशेषणं भवति–नारायणसमवेतबोधस्यैव तादृशव्यापारजन्यत्वाद् न तु मनुष्यसमवेतोपीति नारायणप्रणामदशायामत्र-पुरुषान्तरसमवेतस्वारकर्षबोधे, विषयत्वं सप्तम्यर्थ इति पुरुषान्तरसमवेतस्वापकर्षबोधविषयकानुकूलत्वमेव नमनव्यापारे विशेषणं भवति न त्वनुकूलतासंबन्धेन पुरुषान्तरसमवेनस्वापकर्षबोधरूपं फलमिति तादृशस्याऽपकर्षावधित्वबोद्धः पुरुषान्तरस्य न कर्मतापत्तिरित्याऽऽशड्क्याह-- यदि चेति । उत्तरमाह- तदापीति । नमःपदार्थघटकझानस्य- स्वापकर्षबोधस्य । ननु कृतिविषयस्वादेव नारायणस्यात्र कर्मत्वं भविष्यतीत्याशङ्कयाह- कृतीति । कृतिविषयता तु नमनानुकूलव्यापारे एव न तु नारायणे इत्यर्थः ।
अथेत्यादिनाशङ्कितं परिहरति- मैवमिति । अपकर्षावधित्वप्रकारकबोधानुकूलव्यापारो न नमस्कारपदार्थः किं तु तत्र व्यापारमात्रं कृधात्वर्थः, स्वापकर्षावधित्वप्रकारकबोधविषयता च निपातार्थ:-नमः पदार्थस्तथा च 'नमस्करोति । इत्यस्य स्वापकर्षावधित्वप्रकारकबोधविषयतानुकूलव्यापारोर्थस्तत्र व्यापारविशेषणीभूत (व्यापारप्रयोज्य ) तादृशविषयताश्रयतया नारायणस्य कर्मत्वं न तु मनुष्यस्य- तादृशबोधविषयताश्रयत्वाभावादिति न नारायणप्रणामदशायाम्
"Aho Shrutgyanam"