________________
नमःपदवटितप्रयोगाः ] व्युत्पत्तिवादः ।
(.४७५) बोधः, तादृशविषयताश्रयतया नारायणादेः कर्मत्वम्- यतः 'धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् ' इत्यत्र धात्वर्थतावच्छेदकत्वं न धातुशक्यतावच्छेदकत्वम्. आपे तु व्यापाररूपार्थेऽनुकूलतासंबन्धेन विशेषणतया धातुप्रति पाद्यत्वम् । प्रकृते च निपातार्थस्य धात्वर्थे साक्षादन्वयेन ताशबोधविषयत्वरूपस्य नमःपदार्थस्य धात्वर्थतावच्छेदकत्वमक्षतमेव ।
न चैवं पूर्वदेशादेर्गम्यादिकर्मत्वं दुर्वारम्, विभागादौ क्रियाजन्यत्वसत्त्वेपि निरुक्तधात्वर्थतावच्छेदकत्वाभावात्, न हि विभागादिर्गम्याद्यर्थे कथमपि विशेषणतया भासते । एवं च नारायणादेः करोतिकर्मत्वेपि नमःपदादिकं विना न तद्योगे नारायणादिपदोत्तरं द्वितीया-तदर्थान्वयिफलोपस्थापकाभावेन तदर्थानन्वयात् । नापि 'नारायणं फलं करोति' इतिप्रयोगापत्तिः-फलस्यात्र धात्वर्थव्यापारे साक्षादविशेषणत्वातू. निपातातिरिक्तनामार्थस्य धात्वर्थे भेदेनान्वयस्याव्युत्पन्नत्वात्. धात्वर्थे साक्षाद्विशेषणीभवत्येव फले द्वितीयार्थाः
'मनुष्यं नमस्करोति ' इति प्रयोगापत्तिरित्यर्थः । ननु यद्युक्तविषयता नमःपदार्थ एव न धात्वर्थस्तदा तस्या विषयताया धात्वर्थतावच्छेदकत्वाभावात्कथं तदाश्रयस्य नारायणस्य कर्मत्वं स्या दित्यत्राह- यत इति, धात्वर्थतावच्छेदकत्वं हि व्यापारेऽनुकूलतासंबन्धेन विशेषणतया धातुप्रतिपाद्यत्वमेव तथा च प्रकृते नम:पदार्थभूतोक्तविषयताया धात्वर्थे साक्षादेवान्वयोस्ति नमस्करोतीतिधातुप्रतिपाद्यत्वमप्यस्त्येवेति धात्वर्थतावच्छेदकत्वं प्राप्तं धात्वर्थतावच्छेदकत्वाच्च ताद. शविषयताश्रयस्य नारायणस्य युक्तं कर्मत्वमित्यर्थः । तादृश निपातार्थभूत ।।
मनु यदि व्यापारेऽनुकूलतासंबन्धेन विशेषणतया धातुप्रतिपाद्यत्वमेव धात्वर्थतावच्छेदकत्वं तदा 'गच्छति । इत्यत्र गमनव्यापारस्य पूर्वदेशविभागजनकत्वमप्यस्त्येवेति विभागस्याप्यनुकूलतासंबन्धेन व्यापारविशेषणत्वात् तादृशविभागाश्रयतया पूर्वदेशस्यापि गम्यादिकर्मत्वं स्यादित्याशङ्याहन चेति । परिहारमाह- विभागादाविति । निरुक्तधातु गम्यादिधातु । विशेपान्तरमाह-एवं चेति । तद्योगे= करोति' इतिपदयोगे । नारायणे नित्ये करोत्यर्थकर्मस्वाभावादिति भावः । तदर्थान्वयि द्वितीयार्था ( वृत्तित्वाद्य ) ऽन्वयि यत्फलं निरुक्तबोधवि. षयतारूपं तदुपस्थापकस्य नमःपदस्याभावेन तदर्थानन्वयात्-द्वितीयान्वयाऽसंभवात् । विशेषान्तरमाह-नापीति, ' फलं करोति ' इत्यत्र द्वितीयार्थस्यैव व्यापारे साक्षादन्वयो द्वितीयार्थे च फलस्यान्वय इति न फलस्य व्यापारे साक्षादन्वयो धात्वर्थव्यापारे साक्षाद्विशेषणभूते एव च फलें द्वितीयार्थाधेयत्वस्यान्वयो भवतीति नात्र फले द्वितीयार्थान्वयः संभवति । किं च नामार्थस्य फलस्य धात्वर्थे भेदेन साक्षादन्वयो न संमवति-निपातातिरिक्तनामार्थस्य धात्वर्थे भदेनान्वयस्याऽव्युत्पन्नत्वादिति ' नारायणं फलं करोति ' इतिप्रयोगापत्तिर्नास्ति । अत
"Aho Shrutgyanam"