________________
(४७६)
सादर्श:
[ चतुर्थी कारकेधेयत्वान्वयात, अत एव — पुरस्कृत्य शिखण्डिनम्' इत्यादावपि शिखण्डयादेः कृतिकर्मता- धात्वर्थव्यापारविशेषणपुरःपदरूपनिपातार्थायदेशावस्थानरूपफलाश्रयत्वात् ।। - 'नारायणो नमस्क्रियते ' ' ज्यायान् पुरस्क्रियते ' इत्यादौ निपातार्थफलं धात्वर्थव्यापारे विशेष्यतयैव भासते । तदन्वितमाश्रयत्वं कर्माख्यातादिना प्रत्याय्यते। । अथैवमपि कारकविभक्तेः साक्षाद्धात्वर्थान्वयित्वनियमभङ्ग इति चेत् ?, नताशनियमे निपातातिरिक्तार्थमन्तराऽकृत्वेत्यस्यैव साक्षादर्थत्वात् । अन्यथा 'घटो दण्डाज्जायते न पारिमाण्डल्यात्' इत्यादी कारकपञ्चम्या जन्याद्यन्वयिनि नर्थाभावे प्रतियोगितया स्वार्थप्रयोज्यत्वादिबोधनासंभवात् । पारिमाएवेति- यथा नमःपदार्थस्य धात्वर्थविशेषणत्वात्तदाश्रयस्य नारायणस्य कर्मत्वं तथा पुर:पदार्थस्याग्रावस्थानरूपस्य निपातार्थत्वेन साक्षाद् धात्वर्थविशेषणत्वात् तदाश्रयस्य शिखण्डिनः कर्मत्वात् 'पुरस्कृत्य शिखण्डिनम्' इति प्रयोग उपपद्यते । कृतिकर्मता पुरस्कृत्येति कृधात्वर्थकर्मता ।। ___ कर्मप्रत्ययान्तप्रयोगमुदाहरति-नारायण इति, नमइतिनिपातार्थफलमुक्तबोधविषयता, पुरहतिनिपातार्थरूपं फलमप्रावस्थानम् । तदन्वितम्-उक्तनिपातार्थरूपफलनिरूपितम्, तथा च नमनानुकूलव्यापारजन्यस्वापकर्षावधित्वप्रकारकबोधविषयताश्रयो नारायण इति, पुरस्कृतिरूपव्यापारजन्याऽमावस्थानाश्रयो ज्यायानिति वाक्यार्थबोधः ।
ननूक्तरीत्या 'नारायणं नमस्करोति' इत्यत्र नारायणवृत्तिर्या स्वापकर्षबोधविषयता तत्प्रयोजकव्यापारानुकूलकृतिमानित्याकारकबोधोदयाद् द्वितीयार्थाधेयत्वस्य निपातार्थरूपफलेनान्वयो जातो न च निपातार्थो धात्वर्थो द्वितीया च कारकविभक्तिः कारकविभक्तेश्च धात्वर्थेनैवान्वयः साक्षाद्भवति यो नियमस्तस्य व्यभिचारः प्राप्त इत्याशङ्कते-अथेति । परिहरति-नेति, उक्तस्थले .नमइतिनिपातार्थद्वारा द्वितीयाया धात्वर्थेऽन्वयोस्ति स नोक्तनियमभङ्गकरः-निपाता. तिरिक्तार्थमन्तराकृत्वा कारकविभक्त्यर्थस्य धात्वर्थेन्वयो न भवतीत्येव तादृशनियमार्थ इत्यर्थः । विपक्षे बाधकमाह--अन्यथेति, यदि कारकविभक्त्यर्थस्य निपातार्थेऽन्वयो न स्यात्तदा 'षटो दण्डाजायते न पारिमाण्डल्यात् ' इत्यत्रापि निपातरूपनार्थाऽभाचे कारकविभक्तिरूपपञ्चम्यर्थस्य प्रयोज्यत्वस्यान्वयो न स्याद् भवति चान्वय इति निपातार्थेपि कारकविभक्त्यर्थस्यान्वयो भवत्येव । जन्येति-जन्यो घटस्तदन्वयी यो नर्थाभावः पारिमाण्डल्यनिरूपितप्रयोज्यत्वामावस्तत्र प्रतियोगितया प्रतियोगित्वरूपेण स्वप्रतियोगिकत्वसंबन्धेन च पञ्चम्यर्थस्य पारिमाण्डल्यनिरूपितप्रयोज्यत्वस्यान्वयो भवतीत्यर्थस्तथा च घटः पारिमाण्डल्यनिरूपितप्रयोज्यत्वाभाववानिति बोधाकारः । ननु " पारिमाण्डल्यभिन्नानां कारणत्व ( प्रयोज्यत्व ) मुदाहृतम् " इत्युक्तं तथा च पारिमाण्डल्यनिरूपितप्रयोज्यत्वमेव प्रसिद्धं नास्ति यदभावस्य घटेऽन्वयः स्यादित्याश
"Aho Shrutgyanam"