________________
नमःपदार्थविचारः] व्युत्पत्तिवावा।
(४७७) ण्डल्यादिनिरूपितमपि प्रयोज्यत्वं विषयितया तदवच्छिन्नजनकताकज्ञानादौ प्रसिद्धम् । प्रयोज्यत्वविशिष्टोत्पत्तिरेव वा तत्र धात्वर्थः, तत्र पञ्चम्यन्तार्थपारिमाण्डल्यनिरूपितत्वस्याभावो नजा बोध्यते । उक्तरीत्या क्रियायोगेन नमस्कार्यस्थ कर्मत्वेपि 'स्वयम्भुवे नमस्कृत्य' इत्यादौ चतुर्थी- अपकर्षावधित्वमात्रविवक्षया ।
केचित्तु- 'नारायणं नमस्कृत्य ' इत्यादौ नम:पदं नतिकर्मपरं तथा च 'नारायणं नतिकर्मीकृत्य ' इत्यर्थविवक्षया 'घटं शुक्लं करोति शुक्लो करोति' इत्यादी घटादेरिख नारायणादेः कृतिकर्मता। 'शिखण्डिनं पुरस्कृत्य ' इत्यादौ पुर:पदमनस्थितपरम् । एवम् “ घटं साक्षात्करोति ' इत्यादौ साक्षात्पदं स्वीयप्रत्यक्षविषयपरं न तु धर्मपरम् । एवम् ‘दुःखमाविष्करोति ' ' अस्त्रं प्रादुष्करोति ' इत्यादावप्याऽविरादिपदं ज्ञानगोचरार्थकमिति सर्वत्र पूर्ववद् द्वितीयानिर्वाह इत्याहुः।
क्याह-पारिमाण्डल्येति, पारिमाण्डल्यस्यापि स्वविषयकज्ञानादौ प्रयोज्यत्वमस्त्येवेति पारिमाण्डल्यनिरूपितप्रयोज्यत्वं तदवच्छिन्ना=पारिमाण्डल्यत्वावच्छिन्ना जनकता यस्य तादृशपारिमाएडल्यविषयकज्ञानादौ विषयितया विषयितासंबन्धेन प्रसिद्धम्, ज्ञाने विषयिता वर्तते इति विषयितयेत्युक्तम् । पक्षान्तरमाह-प्रयोज्यत्वविशिष्टेति, तत्र घटो दण्डाज्जायते न पारिमाण्डल्यात' इत्यत्र, तत्र यात्वर्थीभूतप्रयोज्यत्वविशिष्टोत्पत्तौ,तथा च दण्डप्रयोज्या घटोत्पत्तिः पारिमा एडल्यनिरूपितत्वाभाववतीति वाक्यार्थबोधः । :विषयान्तरमाह-उक्तरीत्येति, उक्तरीत्या नारायणस्य कर्मत्वप्राप्तिरीत्या नमस्कार्यस्य स्वयम्भुवः कर्मत्वेपि स्वापकर्षावधित्वमात्रविवक्षया 'स्वयम्मुवे नमस्कृत्य ' इत्यत्र चतुर्युव न द्वितीया तथा च स्वापकर्षावधिवप्रकारकबोधविषयताश्रयत्वविवक्षायां नमस्कार्यवाचकपदाद् द्वितीया भवति यथा' नारायणं नमस्कृत्य ' इति, स्वापकर्षावधित्वमात्रविवक्षायां च चतुर्थी भवति यथा ' स्वयम्भुवे नमस्कृत्य ' इति निष्पन्नम् ।
मतान्तरमाह-केचित्त्विति । स्पष्टो ग्रन्थः । पूर्व नमआदिपदानां धर्मपरत्वमुक्तमऽनेन तु धर्मिपरत्वमुच्यते इति विशेषः । घटमिति-तथा च घटं स्वीयप्रत्यक्षविषयं करोतीत्यर्थः । न तु धर्मपरमिति-साक्षात्पदस्य धर्मपरत्वे स्वीयप्रत्यक्षविषयतारूपधर्मपरत्वं स्यात्तत्र च घटं स्वीयप्रत्यक्षविषयताश्रयं करोतीत्यर्थः स्यात् । ज्ञानगोचरार्थकमिति-तथा च दुःखं परकीयज्ञानगोचर ( विषयम् ) करोतीत्यर्थः । अयमेवार्थः प्रादुष्करोतीत्यस्य ज्ञेयः । पूर्ववदिति-' नारायणं नमस्कृत्य ' इत्यत्रेव धात्वर्थकर्मतया घटादिपदोत्तरं द्वितीयेत्यर्थः । नमादिपदानां धर्मपरत्वे तदर्थधर्मस्य धात्वर्थतावच्छेदकत्वाभावात् तदाश्रयस्यापि नारायणादेः कर्मत्वं न स्याद् धर्मिपरत्वे तु तदर्थस्य धर्मिणाऽभेदान्वयो धर्मिणश्च कृतिविषयत्वेन कर्मत्वं तेन च द्वितीया संभवतीति भावः ।
"Aho Shrutgyanam"