________________
(४७८)
सादर्श:
[ चतुर्थीकारके-- तन्न- नमःपदस्य धर्मिबोधकत्वे ' हरिराविर्भवति' इत्यादिवत् 'नमो भवति इतिप्रयोगमसङ्गात्, तस्मात् 'नमस्करोति ' ' आविष्करोति ' 'पुरस्करोति' 'अलं करोति ' इत्यादौ नमःप्रभृतयो निपाता धर्मवाचका एव लाघवात् , तत्तद्धमश्रियस्य दर्शितरीत्यैव कर्मतोपपत्तेः। 'आविर्भवति' इत्यादिप्रयोगानुरोधेन चाऽऽविरादिशब्दानां प्रकटताश्रये धर्मिणि लक्षणोपेयते 'शुक्लः पटः' इत्यादी शुक्लादिशब्दानामिव । अस्तु वा तत्रापि प्रकटतारूपो धर्म एव तदर्थस्तस्यैव धात्वर्थभावे धर्मरूपेऽभेदान्वयः, क्रियायां स्वार्थाभेदान्वये आविरादेरेवाकाङ्क्षा स्वीक्रियते न तु नमःपदादेरिति न 'नारायणो नमो भवति' इत्यादेः प्रसङ्गः।
'शुक्ली करोति' इत्यादौ विप्रत्ययान्तस्यापि शौक्लयादिधर्म एवार्थ:-- अभूततद्भावे तदनुशासनात् । अभूततद्भावश्च- अभूतस्य-पूर्वकालावच्छेदेन शुक्लादिभावरहितस्य तद्भाव:-शौक्लयादिः । अथ वा 'अभूतः पूर्वकालावच्छेदेन धर्मिण्यविद्यमानस्तद्भाव:-शौक्लयादिः । 'शुक्ली भवति' इत्यादौ तु दर्शिता गतिः ।
उक्तमतं पराचष्टे- तन्नेति, नमःपदस्य धर्मिवाचकत्वे नमःपदार्थस्य हरिपदार्थेन सामानाधिकरण्यप्राप्त्या 'हारनमो भवति ' इत्यादिप्रयोगः स्यादेव न चैवं प्रयोगो भवतीत्युक्तधर्मवाचकत्वमेव युक्तं लाघवात् नाम धर्मिवाचकवे धर्मविशिष्टस्यैव धर्मित्वाद् धर्मिधर्मोभयवाचकत्वं स्याद् धर्मवाचकत्वे च धर्मिवाचकत्वं न प्राप्नोतीति लाघवमित्यर्थः । तत्तद्धर्माश्रयस्य-स्वापक'विधित्वप्रकारकबोधविषयतादिरूपधर्माश्रयस्य हर्यादेः । ननु यदि धर्मवाचकत्वमेव तदा 'हारराविर्भवति , इत्यादिः सामानाधिकरण्येन कथं प्रयोगः स्यादित्याशङ्क्याह- आविर्भवतीति । धर्मिणिहर्यादौ । धर्मिणि लक्षणास्वीकारे दृष्टान्तमाह- शुक्ल इति । नमआदिपदानां धर्मिबोधकत्वं नास्ति आविरादिपदानां च धर्मिबोधकत्वमस्तीति वैषम्यमसहमानः पक्षान्तरमाह= अस्तु वेति । तत्र=हरिराविर्भवति । इत्यादिस्थले तदर्थः--आविष्पदार्थः । तस्यप्रकटतारूपधर्मस्य भूधास्वर्थे भावे भवने भवनमपि हरेधर्म एवेति तत्राऽभेदान्वयस्तथा च प्रकटीभवनाश्रयो हरिरिति वाक्यार्थबोधः । नन्वेवं नमःपदार्थस्यापि धात्वर्थभवनेऽभेदान्वयः स्यादेव तथा च ' नारायणो नमो भवति ' इति प्रयोगोपि स्यादित्याशक्याह-क्रियायामिति । तस्यैवेत्येवकारेण नमःपदार्थादेर्व्यवच्छेदः ।
विप्रत्ययान्तस्यापि धर्मवाचकत्वमेव न तु धर्मिवाचकत्वं येन तदृष्टान्तेन नमआदिपदानां धर्मिवाचकत्वं स्यादित्याह- शुक्लीति । अभूततद्भावपूर्वमविद्यमानधर्मे तदनुशासनात्-च्चिप्रत्ययस्य विधानात् । भावपदेनात्र धर्म एव ग्राह्यः । अभूततद्भावपदार्थ प्रकारद्वयेनाइ- अभूततद्भावश्चेति । 'घटो शुक्ली भवति' इत्यत्र तु चिप्रत्ययान्तस्य धर्मिणि लक्षणोपेयते शुक्लतारूपधर्मपरत्वं वेत्याह- शुक्लीति । दर्शितेति- 'आविर्भवति ' इत्यत्र लक्षणाश्रयणेन धर्मपरत्वाश्रयणेन च या गतिर्दर्शिता सैव ' शुक्ली भवति । इत्यत्रापि ज्ञेयेत्यर्थः ।
"Aho Shrutgyanam"