________________
च्चिप्रत्ययार्थविचारः ]
व्युत्पत्तिवादः ।
( ४७९)
न चाभूततद्भाव पर्यन्तस्य च्चिप्रत्ययवाच्यत्वे गौरवाच्छुक्लादिपदोपस्थाप्यपदार्थतावच्छेदक शौक्याद्यन्वय्य भूतत्वमेव विप्रत्ययार्थोस्तु. 'शुक्लतरः" इत्यादौ तरवाद्यर्थोत्कर्षस्येव च्व्यर्थस्यापि व्युत्पत्तिवैचित्र्येण पदार्थतावच्छेदकेऽन्वय संभवादिति वाच्यम्, मन्मतेपि शौक्कयादिभावस्यैव चित्रप्रत्ययार्थतोपगमेन गौरवानवकाशात्, पूर्वकालावच्छिन्न स्वनिष्ठाभावप्रतियोगित्वसहितस्याऽऽधेयत्वस्य प्रत्ययार्थे प्रकृत्यर्थसंबन्धतया भानोपगमात् शौक्छ्यादावऽभूतत्वलाभेनैव 'जलपरमाणुः शुक्की भवति ' इतिप्रयोगाप्रसङ्गात् । शौक्यादेर्धर्मत्वेनैव वाच्यता न तु ताद्रूप्येणेति न शक्त्यानन्त्यम् । प्रकृत्यर्थतावच्छेदकतत्तद्धर्मनिष्ठाधेयताविशेषाणामेव संबन्धतया भानोपगमाद् धर्मान्तरस्याऽभूतत्वमादाय न जलपरमाणुः शुक्की भवति' इत्यादिप्रसङ्गः ।
L
आशङ्कते - न चेति, अभूततद्भावस्य विप्रत्ययवाच्यस्वे शौक्कनाऽभूतत्वयोरुभयोर्वाच्यत्वं स्यादिति गौरवम् । शौक्कयादि - शुक्लत्वादि । ननु शौक्कचाद्यन्वयिनोऽभूतत्वमात्रस्य विप्रत्ययार्थत्वे - पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन " इतिनियमात् पदार्थस्य विप्रत्ययार्थस्याभूतत्वस्य पदार्थैकदेशेन शुक्लत्वादिना कथमन्वयः स्यादित्याशङ्क्याह- शुक्लतर इति, यथा तर - र्थोत्कर्षस्य पदार्थैकदेशे एत्र शुक्लगुणन्वयो भवति तथा च्चिप्रत्ययार्थाभूतत्वस्यापि पदार्थैकदेशे शुक्लत्वेऽन्वयो न विरुद्ध इत्यर्थः । उत्तरमाह - मन्मते पीति, अभूतत्वं न चिप्रत्ययार्थः किं तु शौक्लयमेव तथा चैकपदार्थवाचकत्वान्न गौरवम् । अत्राभूतत्वलाभप्रकारमाह- पूर्वकालेति, 'घटं शुक्की करोति' इत्यत्र पूर्वकाले स्वनिष्ठः घटनिष्ठो योऽभावः शौक्रयाभावस्तत्प्रतियोगिस्वेन शौक्लचनिष्ठेन सहितं यद् द्वितीयार्थभूतमाधेयश्वं तदेव प्रत्ययार्थे - सौक्लये प्रकृत्यर्थस्य = शुक्लपदार्थस्य घटादेः संबन्धस्तथा च शौक्लयस्य पूर्वकालावच्छिन्नाऽभावप्रतियोगिताप्राप्त्या अभूतत्वं प्राप्तमेवेति ' जलपरमाणुः शुक्ली भवति इति प्रयोगापत्तिर्नास्ति - जलपरमाणुनिष्ठशौक्लथेऽनादित्वेनाऽभूतत्वाभावादित्यर्थः । शौक्कवादेरिति - शौक्लयनैल्यादीनां यदि ताद्रूप्येण = तत्तद्रूपत्वेन शौक्लयनेल्यादिरूपत्वेन विप्रत्ययवाच्यत्वं स्यात्तदा शौक्कयनेल्यादीनामनन्तत्वाच्छत्यानन्त्यं स्यादिति शौक्यनैल्यादीनां धर्मत्वेन रूपेणैव वाच्यतेति न शक्त्यानन्त्यमित्यर्थः । ननु जलपरमाणुगतशौक्लयेऽभूतत्वाभावेपि जलपरमाणौ पूर्वमविद्यमान संयोगादिगताभूतत्वमादाय जलपरमाणुः शुक्ली भवति इतिप्रयोगः किं न स्यादित्याशङ्क्याह-- प्रकृत्यर्थतावच्छेदकेति, प्रत्ययार्थे प्रकृत्यर्थस्य यदाधेयत्वं संबन्ध उक्तस्तदाधेयत्वं प्रकृत्यर्थतावच्छेदकी भूतशौक्कवादिनिष्ठमेव ग्राह्यं तचाधेयत्वं पूर्वोक्तदिशा पूर्वकालावच्छिन्नस्व निष्ठाभावप्रतियोगित्वसमानाधिकरणमेत्र ग्राह्यं तथा च शौक्लये घटनिरूपिताधेयत्वमप्यस्ति पूर्वकालावच्छिन्नो यो घटनिष्ठोऽऽभावस्तत्प्रतियोगित्वमप्यस्तीति' घटः शुक्ली भवति' इत्यादिप्रयोगस्तूपपद्यते, शौक्लये जलपरमाणुनिरूपिताधेयत्वस्य सत्त्वेपि पूर्वकालावच्छिन्नो यो जलपरमाणुनिष्ठोऽभावस्तत्प्रतियोगित्वं तु
6
" Aho Shrutgyanam"