________________
( ४८० )
बादर्श:
[ चतुर्थी कारके+
प्रकृत्यर्थतावच्छेदकगतमागविद्यमानत्वस्य विप्रत्ययार्थत्वमते तु 'अशुली भवति' इत्यादी प्रकृत्यर्थतावच्छेद कशौक्लया द्यभावस्य प्रागपि क्वचिद्र विद्यमा नतया तदभावान्वये योग्यतानुपपत्तिः । तत्तद्धर्मिण्यविद्यमानत्वस्य व्यर्थत्वे शक्त्यानन्त्यमिति पूर्वकालावच्छिन्नोऽभाव एवाविद्यमानत्वं तस्य च प्रकृत्यर्थतावच्छेद के सामानाधिकरण्यसहित प्रतियोगित्वसंबन्धेनाऽन्वयो वाच्यः, प्रकृत्यर्थे च तादृशसंबन्धेनाभावविशिष्टस्य वैशिष्ट्यमानमुपेयम्, अन्यथाऽन्यत्र स्वाभाव - समानाधिकरणस्याऽशौक्यादेः सर्वदाऽशुक्ले काकादावपि सत्त्वेन 'काको शुक्ली नास्त्येवेति शौक्ये उक्त प्रतियोगित्वसमानाधिकरणाधेयत्वस्य संबन्धभूतस्याऽभावात् प्रकृत्य • र्थस्य शुक्लाभिन्नस्य जलपरमाणोरन्वयो न संभवतीत्युक्तधर्मान्तरगताऽभूतत्वमादाय ' जलपरमाणुः शुक्ली भवति इतिप्रयोगापत्तिर्नास्त्येव, अभूतत्वं हि पूर्वकालावच्छिन्नाभावप्रतियोगित्वमेव शौक्ये च जलपरमाणु निष्टाभावप्रतियोगित्वरूपमभूतत्वं नास्त्येव संयोगादिरूपधर्मान्तरगताभूतत्वं च नात्र ग्रहीतुं शक्यते तस्य शौक्लयनिष्ठाचेयत्वसमानाधिकरणत्वाभावात्, आधेयत्वोक्तप्रतियोगित्वयोः समानाधिकरणयोरेव प्राह्यत्वेनात्र शौक्यनिष्ठयोरेवोक्तप्रतियोगित्वरूपाभूतत्वाधेयत्वयोर्ग्राह्यत्वादित्यर्थः ।
"
अभूतत्वस्य च्चिप्रत्ययार्थत्वमते दोषमाह - प्रकृत्यर्थतेति, अभूतत्वमेव प्रागविद्यमानत्वम् । चिच्चप्रत्ययेन प्रागविद्यमानत्वबोधे ह्यऽविद्यमानत्वमभाव एवेत्यऽमावस्य - शौक्कयाभावस्य प्राग विद्यमानत्वं प्राप्तं तथा: च यत्र शौक्कयाभाषः प्रागेवास्ति तत्राऽशुक्कीपदघटक नञ्बोध्यस्य शौक्याभावस्यान्बयो न संभवति तद्विशिष्टे तदन्वयाऽसंभवादिति तदमावान्वये - शौक्लयाभावान्व - यस्य योग्यतानुपपत्ति:- 'अशुक्लो भवति' इत्यनेन शौक्लयाभावान्वयबोधस्यैवेष्टत्वादित्यर्थः । किं च तत्तद्घार्मगताविद्यमानत्वस्य च्व्यर्थत्वे तत्तद्धर्मेनानात्वेन व्यर्थाविद्यमानत्वानामपि नानात्वापत्त्या च्चिप्रत्ययशक्त्यानन्त्यं स्यादिति सामान्यतः पूर्वकालावच्छिन्नोऽभाव एवाऽविद्यमानत्वं व्यर्थ इति वक्तव्यं तस्य = एतादृशाविद्यमानत्वस्य च प्रकृत्यर्थतावच्छेदके शौक्यादौ सामानाधिकरण्य विशिष्टप्रतियोगित्वसंबन्धेनान्वयो वाच्यस्तथा हि प्रकृत्यर्थतावच्छेदके तादृशाविद्यमानत्वस्य प्रतियोगित्वमपि वर्तते तादृशाविद्यमानत्वमपि वर्तते इति स्वसामानाधिकरण्यसहित प्रतियोगित्वसंबन्धेनाविद्यमानत्वस्य प्रकृत्यर्थतावच्छेदकेऽन्वयो जात इति तादृशसंबन्धेन= स्वसामानाधिकरण्यसहितप्रतियोगित्वसंबन्धेनाऽभावविशिष्टस्य = अविद्यमानत्वविशि ष्टस्य प्रकृत्यर्थतावच्छेदकस्य प्रकृत्यर्थे - शुक्लादिपदार्थे ( घटादौ ) वैशिष्ट्यम् = अन्वयः स्वीकार्यः, अन्यथा= एवं विशिष्टवैशिष्ट्य भावानभ्युपगमेऽन्यत्र - घटादौ कदाचिदऽशौक्यमपि भवति कदाचिदSaturभावोपि भवत्येवेति स्वाभावसमानाधिकरणस्याशौक्कयादेः सर्वदाऽशुक्के काकादावपि सत्त्वेन ' काकोऽशुक्लो भवति' इतिप्रयोगः स्यादेव - उक्तसामानाधिकरण्यसहित प्रतियोगित्वसंबन्धेन स्वाभावविशिष्टस्य प्रकृत्यर्थतावच्छेदकस्य प्रकृत्यर्थेऽन्वयाऽस्वीकारात, उक्तसामानाधि
"Aho Shrutgyanam"