________________
च्चिप्रत्ययार्थविचारः ]
व्युत्पत्तिवादः ।
( ४८१ )
भवति ' इति प्रयोगः स्यात्, अत्राऽभावरूपपदार्थान्तर विशिष्टप्रकृत्यर्थताव - च्छेदक वैशिष्ट्यमानं च प्रकृत्यर्थे न संभवति - प्रकृत्या स्ववृत्तिसहकारेण स्वार्थे यादृशविशेषणावच्छिन्नः प्रकृत्यर्थतावच्छेदकीय संबन्धो न प्रत्याय्यते पदान्तरसमभिव्याहाररूपाकाङ्क्षयापि पदार्थद्वयसंबन्धमानमात्रप्रयोजिकया प्रकृत्यर्थे प्रकृत्यर्थतावच्छेदकीयतादृश विशेषणावच्छिन्नसंबन्धात्यायनेन प्रकृत्यर्थता - वच्छेदकीय संबन्धे विप्रत्ययार्थाभावविशिष्टप्रतियोगित्वरूपविशेषणस्य प्रकृतिवृत्त्या भासमानस्य भानासंभवादित्यनुपपत्तिः ।
&
करण्यसहित प्रतियोगित्वसंबन्धेन स्वाभावविशिष्टस्य प्रकृत्यर्थतावच्छेदकस्य प्रकृत्यर्थेऽन्वयस्वीकारे तु प्रकृत्यर्थे का शौक्याभावः कदापि न भवतीति अशौक्यामावविशिष्टस्याऽशौक्लयस्य प्रकृत्यर्थतावच्छेदकस्याप्यन्वये बाध एवेति काकोक्की भवति' इतिप्रयोगस्यापत्तिर्यद्यपि नास्ति तथाप्यत्र = उक्तस्थलेऽभावरूप पदार्थान्तर ( स्वाभाव ) विशिष्टस्य प्रकृत्यर्थतावच्छेदकस्योक्तवैशिष्ट्यमानं प्रकृत्यर्थे न संभवतीत्यर्थः, अत्र हेतुमाह - प्रकृत्येति, प्रकृत्या=वटकाकादिपदेन स्त्रवृत्तिसहकारेण स्वनिष्ठवृत्तिसाहाय्येन स्वार्थे= घटकाकादिपदार्थे यादृशविशेषणावच्छिन्नो यथात्र सामानाधिकरण्यसहित प्रतियोगित्वविशेषणावच्छिन्नः प्रकृत्यर्थतावच्छेदकस्य संब-वो न प्रत्यायते तादृशविशेषणावच्छिन्नः प्रकृत्यर्थतावच्छेदकीय संबन्ध आकाङ्क्षयापि न प्रत्याय्यते इत्युक्तस्थलेऽभावरूप पदार्थान्तरविशिष्टस्य प्रकृत्यर्थतावच्छेदकस्य प्रकृत्यर्थे नैशिष्ट्यमानं न संभवति तथा च ' काकोऽशुकीभवति ' इतिप्रयोगः प्राप्त एवेत्येषा प्रकृत्यर्थतावच्छेदकगतः प्रागविद्यमानत्वस्य त्रिप्रत्ययार्थस्वमतेऽनुपपत्तिरित्यर्थः । भाकाङ्क्षायाः स्वरूपमुक्तम् - पदान्तरेति, कार्यमुक्तम्- पदार्थद्वयेति, पदार्थद्वयसंबन्धमानप्रयोजिकयाऽऽकाङ्क्षयापि पदार्थद्वयस्य तादृशः संबन्धो न प्रत्याय्यते यादृशः प्रकृत्या न प्रतिपाद्यते ' शुक्की भवति' इत्यत्र च प्रकृतिप्रतिपाद्यः संबन्धः समवायः 'अशुकी भवति' इत्यत्र च शौक्कयाभावस्य प्रकृतिप्रतिपाद्यसंबन्धो विशेषणता न तूक्तसामानाधिकरण्यसहितप्रतियोगित्वसंबन्ध इति ध्येयम् । अत्र शुकी भवति' इत्यत्र तु प्रकृत्यर्थतावच्छेदकगतप्रागविद्यमानत्वस्यापि व्यर्थतामते दोषो नास्ति यतः - अत्र प्रकृत्यर्थतावच्छेदकं शौक्कयमस्ति तस्य च्चिप्रत्ययेन प्रागविद्यमानत्वे प्राप्ते शौक्याभावस्य प्राग् विद्यमानत्वं प्राप्तं यत्र च शौक्याभावः प्रागस्ति घटादौ तत्र शौचस्यान्वयः कर्तव्यो न तु शौक्ल्याभावस्य येन दोषः स्यात् शौक्ल्याभावविशिष्ट च घटादौ शौक्ल्योत्पत्तौ विरोधाभावेन शौक्ल्यान्वये विरोधाभावाद् योग्यतानुपपत्तिर्नास्तीति ' शुक्की भवति इतिप्रयोग त्यक्त्वा 'अशुक्की भवति' इत्यत्र दोषः प्रदर्शितः ।
6
३१
"Aho Shrutgyanam"