________________
( ४८२ )
[ चतुर्थी कारके --
अस्मन्मते तु भवत्यर्थे भावे विप्रत्ययान्तार्थस्याधेयतासंबन्धेन पूर्वकालावच्छिन्नस्वाभावाधिकरणविशिष्टस्याऽशौक्यादेः सामानाधिकरण्यसंबन्धेनैवान्वयस्योपगन्तव्यतया तेन संबन्धेन चाधिकरणविशिष्टाऽशौक्यादिना विशिष्टस्य _भवत्यर्थस्यैवाख्याताद्यर्थे आश्रयत्वे निरूपितत्वसंबन्धेनैव भानात् तादृशविशिष्टनिरूपिताश्रयत्वस्य च पूर्वकालावच्छेदेनाऽशौक्लयाद्यभावाधिकरणे एव सत्त्वेन नोक्तातिप्रसङ्गः । अन्यत्स्वयमूहनीयम् ।
स्वस्ति भवते ' इत्यादावाशीः स्वस्त्यर्थः सा च परहितविषयकस्वेच्छा,
सादर्श:
A
स्वमतेऽनुपपत्त्यभावमाह - अस्मन्मत इति, अस्मन्मते तु यथा ' शुक्क़ी भवति ' इत्यत्र शौक्कयं च्चिप्रत्ययार्थस्तथा 'अशुक्क़ी भवति' इत्यत्राऽशौक्कयमेव च्चिप्रत्ययार्थो न त्वभूतत्वरूपं प्रागविद्यमानत्वं तथा च यत्र पूर्वमऽशौक्लयाभावो भवति तत्रैवाऽशौक्यमुत्पद्यते किं चाऽशौक्याधिकरणस्य धर्मिणोऽशौक्लये आधेयतासंबन्धेनान्वयः किं च ' अशुक्की भवति ' इत्यत्र यत्रैव धर्मिणि घटादौ भवत्यर्थो भावः = भवनानुकूलव्यापारो वर्तते तत्रैवाशौक्कयमपि वर्तते इति भवत्यर्थभावस्याऽशौक्यस्य च सामानाधिकरण्यं जातम् एतेन पूर्वकालावच्छिन्नस्य स्वाभावस्य ( अशौयाभावस्य ) यदधिकरणं घटादि तस्याधेयतासंबन्धेन विप्रत्ययान्तार्थे भशौक्कये वैशिष्टयं प्राप्तं ततश्चाधेयतासंबन्धेन पूर्वकालावच्छिन्न स्वाभावाधिकरण विशिष्टस्याऽशौक्लयस्य सामानाधिकरण्यसंबन्धेन भवत्यर्थ भावेऽन्वयः स्वीक्रियते तथा च सामानाधिकरण्यसंबन्धेनाऽधिकर·ण विशिष्ट = पूर्वकालावच्छिनस्वाभावाधिकरणविशिष्टं यदऽशौक्लयं तेन विशिष्टस्य भवत्यर्थस्य निरूपितत्वसंबन्धेनाऽऽख्यातार्थे आश्रयत्वेऽन्वयः स्वीक्रियते-आश्रयत्वस्य भवत्यर्थनिरू पितत्वात् तादृशविशिष्ट - अशौक्कयविशिष्टो यो भवत्यर्थ भावस्तनिरूपितस्याश्रयत्वस्य च पूर्वकालावच्छेदेनाऽशौक्याभावो यत्र भवति शुक्तघटादौ तादृशाधिकरणे एव सत्त्वेन 'घटोशुक्की भवति' इति प्रयोगस्तूपपद्यते काकादौ च सदाऽशौक्लयस्यैव सत्त्वेन पूर्वकालावच्छेदेनाशौक्याभावस्याऽसत्त्वान्न तत्रोक्ताश्रयत्वं संभवतीत्युक्तातिप्रसङ्गः = ' काकोऽशुक्ली भवति ' इत्युक्तप्रयोगापत्तिर्नास्तीत्यर्थः । प्रकृत्यर्थतावच्छेदकगताविद्यमानत्वस्य चित्रप्रत्ययार्थत्वमते त्वस्मदुक्तरीत्या पदार्थानां विशिष्टवैशिष्ट्य भावासंभवाद् भवत्यर्थनिरूपिताश्रयत्वस्याऽशौक्कयाभावस्य च वैयधिकरण्यसत्त्वेपि अशुक्ली भवति ' इतिप्रयोगस्य संभवात् ' काकोऽशुक्ली भवति इतिप्रयोगः स्यादेव तद्वारणाय तस्य च प्रकृत्यर्थतावच्छेदके " इत्याद्युक्तरीत्या पदार्थानां विशिष्टवैशिष्ट्यभावः स्वीकार्यः स तु " अत्राभावरूपपदार्थान्तर " इत्याद्युक्तरीत्या न संभवतीत्यलमधिकेन । अन्यत्स्वयमेवोहनीयम् ।
<6
प्रयोगान्तरमुदाहरति-स्वस्तीति । आशिष्पदार्थमाह-सेति । हितनिरूपकत्वं भवत्पदार्थेस्तीति निरूपितत्वं हिते वर्तते तदेव संबन्धश्चतुर्थ्यर्थ इत्यर्थः । वाक्यार्थबोधस्वरूपमाह एवं चेति ।
"Aho Shrutgyanam"
7