________________
( ३३०)
सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे-' नायैव सूत्रे “ आत्मनः" इत्युपात्तम् । " आत्मनः" इति षष्ठ्यर्थसंबन्धश्च नं "धातोः कर्मणः” इत्यादिसूत्रानुवृत्तायामिच्छायामन्वेति-अव्यावर्तकत्वादुक्तार्थलाभाऽप्रयोजकत्वात्, अपि तु सुप इत्यर्थे सुबन्तादित्यत्र । तच्चेच्छाकर्तृ. संबन्धितयेच्छाविषयार्थकम् । एवं च "इच्छाकर्मणः सुबन्तादिच्छाकर्तुरिच्छायाम्" इति वृत्तावपि 'इच्छाकर्तुः सुबन्तात् ' इत्येव योजना कार्या-- यथाश्रुते दर्शितानुपपत्तेरिति ध्येयम् ।
'भृत्यं पुत्रीयति ' इत्यादावाऽचारार्थविहितक्यजन्तस्य सकर्मकत्वं युज्यते याः पितृवृत्तित्वमुक्तं प्राप्तमेव, पुत्रनिरूपितविषयित्वमपीच्छायामस्त्येवेत्यर्थः । ननु “आत्मनः" इत्यनेनोक्तसंबन्धनियमे लब्धेपि षष्ठयर्थसंबन्धस्य किमिच्छायामेवान्वयो भवत्यन्यत्र वेत्याहआत्मन इति, अस्य षष्ठयर्थसंबन्धस्येच्छायामन्वयो न भवति-इच्छायामन्वये ह्यात्मविषयके च्छायां क्यचू स्यादिति सूत्रार्थः स्यात् तत्र विनिगमनाविरहाद् यावदात्मविषयकेच्छायां क्यच् स्यादिति कस्या अपीच्छाया व्यावृत्तिर्न 'स्यादित्याह-अव्यावर्तकत्वादिति, तथोक्तषष्ठयर्थसंबन्धस्येच्छायामन्वय उक्तंसूत्रार्थलाभस्य प्रयोजकोपि न भवतीत्याह-उक्तार्थेति । तस्मात् "आत्मनः" इति षष्ठयर्थसंबन्धस्य सूत्रोक्तस्य " सुपः " इत्यस्य योर्थ ः सुबन्तादिति तस्मिन्नऽन्वयो भवति पुत्रादिपदाथेऽन्वयो भवतीति यावदित्याह-अपि विति । तचोक्तसुबन्तं पुत्रादिपदमिच्छाकर्तृसंबन्धितया य इच्छाविषयः पुत्रादिस्तदर्थकम् तद्बोधकमेवेति परपुत्रादिविषयकेच्छायां क्यजादिर्न भवतीति प्राप्तमित्याह-तच्चेति । स चेति प्रामादिकः पाठः । “सुप आत्मनः क्यच " इति सूत्रस्य या खलु केनचित् " इच्छाकर्मणः सुबन्तादिच्छाकर्तुरिच्छायां क्यच्" इत्येवं वृत्तिर्विनिर्मिता तत्रापि 'इच्छाकर्तुः ' इतिषष्ठयर्थसंबन्धस्य सुबन्ते पुत्रपदार्थेऽन्वयलाभार्थम् ' इच्छाकर्तुः सुबन्तादिच्छाकर्मणः क्यच् स्यादिच्छायाम् ' इत्येवं योजना अन्वयः कर्तव्यः, अन्यथा यथाश्रुते" इच्छाकर्मणः सुबन्तादिच्छाकर्तुरिच्छायां क्यच " इत्येवं यथाश्रुतान्वये स्वीकृते तु चैत्रपुत्रस्यापि मैत्रसमवेतेच्छाविषयत्वसंभवात् मैत्रस्य च चैत्रपुत्रविषयकेच्छाकर्तृत्वसंभवाद् परपुत्रविषयकेच्छायामपि क्यच् स्यादिति स्वपुत्रविषयकेच्छायामेव क्यजादिप्रत्ययो भवति नान्यपुत्रविषयकेच्छायामपीति प्रदर्शितस्य नियमस्यानुपपत्तिः स्यादेवेत्याह-एवं चेति । उक्तवृत्तिग्रन्थस्य * इच्छाकर्तुः सुबन्तादिच्छाकर्मणः क्यच स्यादिच्छायाम् । इत्येवमन्वये तु सुबन्तपुत्रादिपदार्थस्य इच्छाकर्तृस्वत्ववत्त्वमिच्छाकर्मत्वं च प्राप्नोतीति स्वपुत्रविषयकेच्छायामेव क्यजादेः प्राप्तिः संभवति न तु परपुत्रविषयके च्छायामपि-परपुत्रे पुत्रत्वेनेच्छाकर्तृस्वत्वासंभवादिति भावः । __ " उपमानादाचारे " इतिसूत्रसंपन्नप्रयोगमुदाहरति-मृत्यं पुत्रीयतीति, पुत्रवदाचरतीत्यर्थः। उक्तेच्छार्थकक्यच उक्तरीत्याऽकर्मकत्वेप्याऽऽचारार्थकक्यचः सकर्मकत्वमेव-उपमानवाचकपदात् क्यचि जाते उपमेयस्यैव भृत्यादेः कर्मत्वसंभवात-पुत्रमिव कमाचरतीति कर्माकाङ्क्षाया नित्यं
"Aho Shrutgyanam"