________________
नामधातुप्रकरणम् ]
व्युत्पत्तिवादः ।
( ३३१)
' तमिवा
एव, तथा हि- तमिवाचरतीत्यर्थे उपमानवाचिनः क्यच् विहितः, चरति ' इत्यस्य ' तत्तुल्यं जानाति इत्यर्थ:- आचारपदस्य व्यवहारमूलज्ञानपरत्वात् । तुल्यतया ज्ञानं च क्यजर्थस्तच्च सकर्मकमेव, तत्र तुल्यत्वे प्रतियोगितया पुत्रादेरन्वयः । पुत्रादिपदमेव वा गौण्या पुत्रादितुल्यपरम् ज्ञानमात्रं क्यजर्थस्तत्र च स्वाभेदावगाहित्व संबन्धेन पुत्रादितुल्यस्याऽन्वयः ।
6:
न चैवं पुत्रादिपदमुपमेयार्थकमेव नतृपमानार्थकमिति कथम् उपमानादाचारे " इत्यनेन तदुत्तरं क्यचो विधानं संगच्छते इति वाच्यम्, पुत्रादिपदस्य तुल्यार्थकत्वेपि तुल्यत्वप्रतियोगितयोपमानपुत्राद्यर्थकत्वात्, अत एव तस्य कर्मवाचकत्वं पुत्रादितुल्यस्याचारकर्मत्वात् सम्यगुपपद्यते । पूर्वमते उपमानपदस्य कर्मवाचकत्वमाऽचारकर्मविशेषणतुल्यताप्रतियोगिबोधकत्वरूपं बोध्यम् । सत्त्वादित्याह - आचारार्थेति । सकर्मकत्वं स्वयमेत्र प्रतिपादयति- तथा हीति । उपमानवाचिनः= उपमानवाचकपुत्रादिपदात् ( उपमानत्येनाभीष्टो यः पुत्रादिस्तद्वाचकपुत्रादिपदात् ) । आचारपदस्य व्यवहारकारणीभूतज्ञाने लक्षणा । तच = ज्ञानं च । क्यजर्थज्ञानस्य सकर्मकत्वात् क्यजतस्यापि सकर्मकत्वं प्राप्तम् । तत्र = 'मृत्यं पुत्रीयति = पुत्रतुल्यं जानाति ' इत्यत्र तुल्यत्वे सादृश्ये प्रतियोगितया पुत्रादेरन्वयः । पक्षान्तरमाह--पुत्रादिपदमेवेति । तत्र= क्यजर्थज्ञाने । स्वम् = पुत्रतुल्यपदार्थः । स्त्रे पुत्रतुल्यपदाथ भृत्यादौ यः पुत्राभेदस्तदवगाहित्यमत्र क्यजर्थज्ञाने वर्तत एवेति तेन संबन्धेन क्यजर्थज्ञाने पुत्रतुल्यस्य ( पुत्रतुल्यपदार्थस्य ) अन्वय इति पुत्रतुल्यज्ञानस्य (पुत्रतुल्यत्वविषयक ज्ञानस्य ) लाभः । स्वस्मिन्नभेदः स्वाभेद इति सप्तमीसमासः, षष्ठीसमासे तु पुत्रतुल्यभूत्यादिपदार्थामेदः पुत्रे एव भासेत न चैतद् युक्तं प्रतिभाति-मृत्यादावेव पुत्राभेदमानस्य युक्तत्वादित्यनुसंधेयम् । किं था स्वपदं पुत्रपरं ज्ञेयम् ।
ननु यत्तुल्यं भवति तदुपमेयमेव भवति न तूपमानमिति पुत्रपदस्य पुत्रतुल्यार्थकत्वे पुत्रस्योपमेयत्वमेव स्यादिति पुत्रपदात् कथं क्यच् स्यात् सूत्रेणोपमानवाचकपदादेव क्यविधानादित्याशङ्क्याह-नं चेति । तदुत्तरम् = पुत्रपदोत्तरम् । परिहारमाह-पुत्रादिपदस्येति, तुल्यार्थकत्वेपि= पुत्रादितुल्यार्थकत्वेपि, सादृश्यप्रतियोगिन उपमानत्वनियमादत्रापि पुत्रस्य तुल्यत्वप्रतियोगित्वेन पुत्रपदस्योपमानभूतपुत्रार्थकत्वमक्षतमेवेति तदुत्तरं क्यच्प्राप्तौ न काचिदनुपपत्तिरित्यर्थः । अत एव = पुत्रपदस्योपमानवाचकत्वादेव, उपमानविषयकव्यवहारे उपमानस्यैव कर्मत्यात् पुत्रमिवाचरति ' इत्यत्र च पुत्रतुल्यस्यैचाचारकर्मत्वात् तस्य = पुत्रतुल्यार्थकपुत्रशब्दस्य कर्मवाचकत्वमुपपद्यते. अन्यथा पुत्रतुल्यस्याचारकर्मत्वेनाऽतदथकस्य ( पुत्रतुल्यार्थकत्वरहितस्य ) पुत्रशब्दस्य कर्मवाचकत्वं न स्यादित्याह - अत एवेति । ननु पूर्वमते == ' तुल्यताज्ञानं
$
क्यजर्थः '
इतिमते पुत्रतुल्यताज्ञानकर्मत्वं भृत्यादेरेव संभवति न तु कत्वं स्यात् ? कर्मवाचकत्वाभावे च पुत्रपदात् कथं
पुत्रस्येति पुत्रशब्दस्य कथं कर्मवाच - क्यच् स्यात् उक्तसूत्रेण उपमानात्
५८
"Aho Shrutgyanam"