________________
( ३३२ )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्ड
वस्तुत: ' पुत्रमिवाचरति ' इत्यस्य पुत्रं यथा व्यवहरति तथा व्यवहरतीत्येवार्थः, व्यवहारश्च प्रतिपाल्यत्वादिना ज्ञानं प्रतिपालनादिरूपो व्यापारो वा, एवं च' पुत्रीयति' इत्यस्य पुत्रकर्मकव्यवहारतुल्यव्यवहारकर्तेत्यर्थः । मुखचन्द्रादे
स्वजन्ाह्लादस्य तुल्यतयोपमानोपमेयभावस्तथा पुत्रभृत्ययोरपि स्वकर्मकव्यवहारतुल्यतया स इति पुत्रपदस्योपमानवाचिता आचारनिष्ठ सादृश्य प्रतियोग्याचारकर्मवाचिता च । आचारसदृशाचार एव क्यचोर्थः, प्रथमाचारे कर्मतासंबन्धेन पुत्रादेरन्वयः - अमाद्यन्तात् क्यच्प्रत्यय विधानेपि धात्ववयव तया लुप्तस्याsमादेर्नियमेनानुपस्थितेः कर्मत्वस्य संबन्धतया भानमुपेयते, यथा 'राजपुरुषः ' कर्म गः सुबन्तादाचारेऽर्थे क्यच् स्यात् ( वृत्तिः ) " इत्येवं कर्मवाचकपदादेव क्यचो विधानादिव्याशक्य पुत्रपदस्य प्रथममते कर्मवाचकत्वमुपपादयति- पूर्वमते इति, ' पुत्रमिवाचरति पुत्रीयति इत्यत्रोपमानपदस्य = पुत्रपदस्य यद् आचारकर्मवाचकत्वं तद् उपमेयभूतभृत्यादिविषयकाचारकर्मभूतं यद् भृत्यादि तद्विशेषणीभूता या तुल्यता ( सादृश्यम् ) तत्प्रतियोगिभूतो यो पुत्रादिस्तोत्रकत्वरूपमेव बोध्यं न त्वाचारविषयबोधकत्वरूपम्-तदसंभवादित्यर्थः । अत्राचारपदेन तुल्यत्वाचार एव ग्राह्य इति तादृशाचारे पुत्रस्य स्वकर्मकत्व संबन्धेनान्वयासंभवेपि तादृशाचरैकदेशभूतायां तुल्यतायां तु स्त्रप्रतियोगित्वसंबन्धेनान्वयः संभवत्येवेति तावन्मात्रेणैवात्र पुत्रस्य कर्म पुत्रपदस्य च कर्मवाचकत्वं मन्तव्यमिति भावः ।
5
LL
L
स्वाभिप्रायमाह - वस्तुत इति, स्पष्टोयं ग्रन्थः । पुत्रीयति इत्यस्य शाब्दबोधमाह एवं चेति । पुत्रभृत्ययोरुपमानोपमेयभावं व्युत्पादयति-मुखेति । भृत्येन सह पुत्रविषयक व्यवहारसह - शव्यवहार इति स्वकर्मकव्यवहारतुल्यतया = पुत्रभृत्यकर्मकव्यवहारयोस्तुल्यतया पुत्रभृत्ययोरपि सः - उपमानोपमेयभात्रः सिद्धः । भचारनिष्टेति भृत्यकर्मकाचारनिष्टं यत् सादृश्यं तत्प्रतियोगिभूतो यः पुत्रकर्मकाचारस्तत्कर्मवाचकत्वं पुत्रपदस्य प्राप्तम् । एवं परिनिष्पन्नं क्यजर्थमाह-आचारसदृशेति । प्रथमाचारे= पुत्रकर्मकाचारे । आचारनिरूपिता पुत्रनिष्ठापि कर्मता निरूपकत्व संबन्धेनाचारे वर्तते तादृशकर्मतासंबन्धेन च पुत्रस्याचारेऽन्वयः । अमाद्यन्तादिति - ' पुत्रमिवाचरति इत्यत्र द्वितीयान्तपुत्रपदात् उपमानादाचारे " इत्यनेन क्यच्प्रत्ययो जातस्तादृशक्यजन्तस्थ द्वितीयान्तपुत्रपदस्य सनाद्यन्ता धातवः " इत्यनेन धातुसंज्ञा जातेति द्वितीयाया धात्ववयवतया "सुपो धातुप्रातिपदिकयोः " इत्यनेन लोपो जातो लुतायाश्च विभक्तेः समासादौ अनुषस्थितेः=स्मरणाभावाद् द्वितीयार्थस्य कर्मत्वस्य प्रकारत्वासंभवेन संबन्धतया =संसर्गतया भानं स्वीक्रियते - अनुपस्थितस्यापि संसर्गत्वसंभवादिति कर्मतासंबन्धेन पुत्रस्य पुत्रविषयकाचारेऽन्वयः । अत्र लुप्तविभक्त्यनुसंधानाभावे दृष्टान्तमाह-यथेति । विभक्तयन्तार्थविशिष्टे =राज संबन्धविशिष्ट | पूर्वपदलक्षगा = राजपदस्य लक्षणा । यदि समासादावपि लुप्तविभक्तेः स्मरणं स्यात्तदा राजपुरुषः ' इत्यत्र लुप्तषष्ट्या अपि स्मरणं स्यात्तथा च स्मृतषष्ठयैव राजसंबन्धोपस्थितेः संभबादू राजपदस्य राज संबन्धविशिष्ट लक्षणाश्रयणं न स्यादेव, न च मा भत्रतु लक्षणाश्रयणं स्मृत
6
" Aho Shrutgyanam"
3
7
.