________________
नामधातुप्रकरणम् ]
व्युत्पत्तिवादः ।
( ३३३ -
इत्यादिसमासरूपप्रातिपदिकावयवतया उप्तषष्ठ्यादिप्रतिसंधानाऽनियमाद् विभत्यन्तार्थविशिष्टे पूर्वपदलक्षणोपयते । द्वितीये आचारे नृत्यस्य कर्मतया क्यजन्तस्य सकर्मकत्वमिति ।
कुट्यां प्रासादयति ' इत्यादावाऽऽधाररूपोपमानवाचिसप्तम्यन्तोत्तरविहितक्यजन्तस्य न सकर्मकता तत्र च प्रासादाधिकरणकाचारतुल्याचारः क्यजन्तार्थः स चावस्थानरूप एवेत्यकर्मक एवेति कुटयास्तत्राधिकरणतया ततः सप्तम्येव । अवस्थानयोः साम्यं चैकजातीयसुखजनकत्वादिनाऽविशेषज्ञानविषयत्वेन वा । हंस इवाचरति हंसायते - हंसति इत्यादावुपमानवाचिकर्तृवाचकपदोत्तरविहितक्यङन्तक्विवन्तधातुरप्यकर्मकः- तत्र हंसादिकर्तृका चारतुल्याचारस्य गमनादिरूपस्य क्यङन्ताद्यर्थत्वेपि गम्यादिप्रतिपाद्यतावच्छेदकसंयोगादिरूपफषष्ठ्या राजसंबन्धोपस्थितावपि दोषाभावादिति वाच्यम्, समासादौ लुप्तविभक्तिस्मरणस्वीकारे हि. ऋद्धस्य राजमातङ्गाः ' इत्यपि प्रयोगः स्यात् - स्मृतषष्टीविशिष्टराजपदेन षष्ठयन्त ऋद्रपदस्यान्वये बाधकाभावात् न चैवं प्रयोगो भवतीति तन्निवारणार्थं समासादौ लुप्तविभक्तेः स्मरणाभावः स्वीकर्तव्यस्तथा च " राजपुरुषः इत्यत्र लुप्तषष्ठीस्मरणासंभवेन राजसंबन्धोपस्थितेरुपायामावाद् राजपदस्य राजसंबन्धविशिष्ट ( राजसंबन्धिनि ) लक्षणा स्वीकार्या तथा च तयोरभेदान्वयेन राजसंबन्धविशिष्टाभिन्नः पुरुष इतिशाब्दबोधो जायते इति भावः | द्वितीये = मृत्यविषय के आचारे भृत्यस्य कर्मव्यमिति क्यजन्तस्य ' पुत्रीयति इत्यस्य सकर्मकत्वं प्राप्तमिति मृत्यंपुत्रीयति ' इति प्रयोगो भवतीत्यर्थः ।
6
=
८८
अधिकरणाचेति वक्तव्यम् " इति वार्तिकसंपन्न प्रयोगमुदाहरति-कुटयामिति, कुटघ प्रासादयति ' इत्यन्त्र प्रासादस्याधिकरणरूपत्वेनैव प्रासादपदस्योपमानवाचकत्वं तादृशप्रासादपदाचाऽऽचारार्थे क्यच् जात इति कर्माकाङ्क्षाभावान्न सकर्मकत्वमित्यर्थः । अकर्मकत्वमुपपादयति - तत्रेति, तत्र = ' प्रासादयति ' इत्यत्र । सः = आचार: । स्थितेरधिकरण साकाङ्क्षत्वेन कर्माकाङ्क्षाभावात् स्थितिरूपाचारवाचकक्य चोप्यकर्मकत्वं प्राप्तमिति कुटया अधिकरणत्वमेव | ततः = कुटीपदात् । कुटयधिकरणकावस्थानस्य प्रासादाधिकरणकावस्थानस्य च परस्परं साम्यमाह - अवस्थानयोरिति । एतादृशसदृशावस्थानाधिकरणयोः कुटीप्रासादयोरुपमेयोपमानभावः सिद्ध इत्यर्थः ।
6
,
6
CL
<<
" कर्तुः क्यङ् सलोपश्च " इति सूत्रसंपन्नप्रयोगमुदाहरति- हंसायते इति, अत्र क्यङन्तस्य हंसशब्दस्य सनाद्यन्ता धातवः " इत्यनेन धातुत्वं प्राप्तस्य ङित्वात् अनुदात्तङित आत्मनेपदम् " इत्यनेनात्मनेपदं प्राप्तम् । " सर्वप्रातिपदिकेभ्यः किव् वा वक्तव्यः " इतिवार्तिकसंपन्नप्रयोगं चोदाहरति- हंसतीति, हंसकर्तृकगमनादिरूपाचारसदृशाचारकर्तेत्यर्थः । अकर्मकत्वमुक्तमुपपादयति-- तत्रेति, यद्यपि गमनम् ' ग्रामं गच्छति ' इत्यादौ सकर्मकमेव तथाप्यत्र क्यङाद्यन्तार्थभूतस्य गमनादिरूपाचारस्य सकर्मकत्वं नास्त्येव, अत्र हेतुमाह- गम्यादीति, गम
" Aho Shrutgyanam"