________________
सादर्श:- [द्वितीयाकारकद्वितीयखण्डेलानवच्छिन्नस्यैव तदर्थत्वोपगमात् । शब्दज्ञानादिरूपसविषयकव्यापारात्मकस्थाचारस्य क्वचित्तदर्थत्वेपि विषयरूपकर्माऽवरुद्धस्यैव तस्य तदर्थत्वोपगमात्, कर्मावरुद्धस्य च कर्मान्वयनिराकाङ्क्षत्वादित्यादिकं स्वयमूह्यम् ।
कृत्यर्थकधातुयोगे इष्टसाधनत्वादिज्ञानविशेष्यताप्रयोज्यसाध्यताख्यविषयताधातुप्रतिपाद्यस्तु संयोगानुकूलव्यापार इति संयोगस्य प्रतिपाद्यतावच्छेदकत्वं प्राप्तं तादृशं यद गम्यादिप्रतिपाद्यता ( व्यापारता ) वच्छेदकीभूतं संयोगादिरूपं फलं तदनवच्छिन्नस्यैव तद्रहितस्यैव गमनादिरूपाचारस्य ( गत्याद्यनुकरणमात्रस्य ) तदर्थत्वोपगमात् क्यङन्ताद्यर्थत्योपगमात्तस्याकर्मकत्वम्-- फलावच्छिन्नव्यापारबोधकस्यैव धातो: सकर्मकत्वनियमादित्यर्थः । शब्दज्ञानेति-- यत्र कोपि हंस इव शब्दं करोति तत्र हंसायते हंसति ' इत्यादौ शब्दरूप एवाचारो ग्राह्य इति तत्र शब्दरूपाचार एव क्यङन्ताद्यर्थो भवति शब्दस्य सविषयकत्वं च ताशशब्दजन्यज्ञानविषयविषयकत्वेन विज्ञेयं यथा घटशब्दजन्यज्ञाने घटो विषय इति घटशब्दस्यापि स घटो विषय एव, यत्र पण्डितज्ञानमिव कोपि ज्ञानं करोति तत्र 'पण्डित इवाचरतीति पण्डितायते पण्डितति' इतिप्रयोगो भवति तत्र ज्ञानरूप एवाचारो ग्राह्यो ज्ञानस्य च सविषयकत्वं स्पष्टमेव । शब्दज्ञानादयश्च व्यापारा यद्यपि सविषयकत्वेन सकर्मका एव संभवन्ति तथापि शब्दादिविषयरूपकर्मणाऽवरुद्धस्यैव सहितस्यैव तस्य शब्दज्ञानादिरूपव्यापारलक्षगाचारस्य तदर्थत्वोपगमात्-क्यङन्ताद्यन्तार्थत्वोपगमात् शब्दादिविषयरूपकर्मण आचारकुक्षौ प्रवेशात् कर्मावरुद्धस्य च कर्माकाङ्क्षाया असंभवादकर्मकत्वं सिद्धम् , यथा- स्पर्धधातोः पराभवानुकूलेच्छार्थकत्वात् फलभूतपराभवस्यापि धात्वर्थकुक्षौ प्रवेशादकर्मकत्वं भवति तथा प्रकृतेपि 'पण्डितायते । “विद्वायते विद्वस्यते । इत्यादौ पण्डितादिकर्तृकारमादिविषयकज्ञानादिव्यापारस्य तथा पण्डिता. दिकर्तृकस्य नित्यो जीवः' इत्याद्यात्मादिविषयकशब्दादिव्यापारस्य च क्यङ्ताद्यन्तार्थत्वाद् विषयरूपकर्म गश्च तादृशव्यापारे एव प्रवेशेन तस्य कर्माकाङ्क्षाया अभावादकर्मकत्वम्, 'गच्छति । इत्यादौ तु संयोगानुकूल व्यापारस्यैव धात्वर्थत्वेन प्रामादिरूपकर्मणो धात्वर्थव्यापारे प्रवेशाभावात् तत्साकाङ्क्षत्वात् सकर्मकत्वमिति व्यतिरेकः । किं वा "शब्दज्ञानादि " इत्यत्र शब्द. ज्ञानपदेन शब्दविषयकं ज्ञानं ग्राह्यम् ‘पण्डितायते विद्वायते ' इत्यादिस्थले पण्डितादितुल्याचारकर्तुमैत्रादेः पण्डितोचारितशब्दसमुदायमात्रस्यैव ज्ञानं भवति न तु तदर्थस्यात्मादेः अत एवं ताशपण्डितत्वादिधर्मानाक्रान्तमेव मूर्खादिकमुद्दिश्य 'पण्डितायते' इत्यादि प्रयोगो भवति हंसातिरिक्तमेवोदिश्य च ' हंसायते । इत्यादि प्रयोगो भवति, शब्दविषयकज्ञानस्य तु सकर्मकत्वं स्पष्टमेव, अयाप्यत्र तादृशविषयरूपकर्मणः क्यङन्ताद्यन्तार्थव्यापारकुक्षौ प्रवेशात् तादृशव्यापरस्याकर्मकत्वम्. 'जानाति ' इत्यादौ च व्यापारकुक्षौ विषयरूपकर्मणः प्रवेशाभावात् सकर्मकत्त्रमिति व्यतिरेक इति प्रतिभाति ।।
'घटं करोति । इत्यादिप्रयोगमुदाहरति-कृत्यर्थकेति, 'घटं करोति' इत्यत्र घटो मदिष्टसाधनमित्याकारकेष्ट साधनत्वज्ञाननिरूपिता विशेष्यता घरेस्ति तादृशविशेष्यताप्रयोज्या साध्य
"Aho Shrutgyanam"