________________
कृत्यर्थकधातुस्थलीपद्वितीयार्थः ] व्युत्पत्तिवादः ।
( ३३५) विशेष एव कर्मत्वं द्वितीयादेरर्थः, न तु विषयतामात्रम्-यत्र 'घटं करोति' इति प्रयुज्यते तत्र'कपालं करोति ' 'जलाहरणं करोति' इत्याद्यप्रयोगात् । __ अथैवम् ‘काशान कटं करोति ' 'काष्ठं भस्म करोति' इत्यत्र काशकाष्ठादिपदोत्तरद्वितीयानुपपत्तिः-- तत्र कृतिनिरूपितोक्तविषयताविरहादितिचेत् ?, उपादानीयविलक्षणविषयतापि द्वितीयार्थः, सा च द्वितीयान्तरोपस्थाप्यसाध्यीयविषयताविशिष्टायामेव कृतावऽन्वेति, अत:- कटादिरूपकर्मान्तराऽसमभिव्या. हारे 'काशान् करोति ' इत्यादयो न प्रयोगाः।
ताख्यविषयतापि घटे जायते साध्यताया इष्टसाधनताज्ञानप्रयुक्तत्वेनेष्टसाधनताज्ञाननिरूपितविशेष्यताप्रयोज्यत्वात् , तादृशसाध्यताख्यविषयतारूपं यत् कर्मत्वं तदेवात्र द्वितीयार्थः न तु विषयतामात्रम् विषयतासामान्यम् । प्रतिषेधे हेतुमाह- यत्रेति, यदि विषयतासामान्य द्वितीयार्थः स्यात्तदा घटो मदिष्टसाधनमित्याकारकेष्टसाधनताज्ञानकाले विषयतासामान्यं तु कपालेपि भवति कपालं विना घटोत्पत्तेरसंभवात् तथा जलाहरणेपि भवति जलाहरणार्थमेव घटापेक्षासत्वादिति 'घटं करोति' इति प्रयोगकाले 'कपालं करोति' 'जलाहरणं करोति' इत्यपि प्रयोगः स्यात् . न चैतदिष्टमिति. साध्यताख्यविषयतैव द्वितीयार्थस्तथा च घटो मदिष्टसाधनमितीष्टसाधनताज्ञानकाले साध्यता घटे एव प्रतीयते न कपालादाविति न 'कपालं करोति' इत्यादिप्रयोगापत्तिरत्रेत्यर्थः ।
ननु यदि कृत्यर्थकधातुयोगे साध्यताख्यविषयतैव द्वितीयार्थस्तदा 'काशान् कटं करोति । इत्यादौ काशादेः सिद्धत्वेन तत्र=काशादौ साध्यताख्यविषयताया असंभवात् काशादिपदोचर द्वितीया न स्यादित्याशङ्कते- अथैवमिति ! उत्तरमाह- उपादानीयेति, उपादानताख्यविषयतापि द्वितीयार्थोस्तीति काशानां कटोपादानत्वेन तद्बोधकद्वितीयायाः प्राप्तौ न काचिदनुपपत्तिः, सा उपादानताख्यविषयता च या द्वितीयान्तरोपस्थाप्या=कटादिपदोत्तरद्वितीयोपस्थाप्या साध्यीयविषयता-पाध्यताख्यविषयता तद्विशिष्टायामेव कृतावन्वेति तथा च कटादिरूपकर्मान्तरस्याऽसमभिव्याहारे कृतौ साध्यताख्यविषयताया अन्वयाऽसंभवेनोपादानताख्यविषयताया अपि अन्वयासंभवात् 'काशान् करोति' इति प्रयोगो न भवति काशानां सिद्धत्वात् । कृतौ विषयतोभयस्यैव निरूपकत्वसं बन्धेनान्वयो ज्ञेय इत्यर्थः ।
ननु यदि 'काशान् कटं करोति । इत्यत्र काशानां कटोपादानत्वेन कारणत्वं काशपदोत्तरद्वितीयायाश्चोपादानताख्यविषयतार्थस्तदापि ' काष्ठं भस्म करोति' इत्यादौ काष्ठादिपदोत्तरद्वितीयाया उपादानताख्यविषयतार्थकत्वं न स्यात् काष्ठादेश्च कर्मत्वमपि न स्यात् , उक्त हेतुभाह- तस्येति, तस्य-काष्ठदुग्धादेः भस्मदध्यादिकं प्रत्युपादानस्वासंभवात्, उपादानत्वाभावे हेतुमाह- काष्ठेति, कार्यावस्थायामपि विद्यमानस्यैवोपादानत्वं भवति यथा काशानाम् . काशानां कार्यभूतकटावस्थायामपि विद्यमानत्वात् , काष्ठदुग्धादेस्तु कार्यभूतभस्मध्याद्यवस्थायां सत्त्वं
"Aho Shrutgyanam"