________________
( ३३६ )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्डे
अथैवमपि ' काष्ठं भस्म करोति ' ' दुग्धं दधि करोति' इत्यादौ काष्ठदुग्धादेः कर्मत्वानुपपत्तिः- तस्य भस्मदध्याद्युपादानताविरहात् काष्ठदुग्धादिनाशानन्तरमेव तदारम्भकपरमाणुभिर्भस्मदध्याद्यारम्भात् उत्पत्त्याश्रयस्यैवोपादानत्वात् विभिन्नकालीन योश्चाधाराधेयभावविरहात् कारणस्यैवोपादानत्वनिय माच्च । न च परिणामवादविद्वोषिणां नैयायिकानां काष्ठादेर्भस्मादिरूपद्रव्यान्तरकारणत्वम् अपि तु प्रतिबन्धकत्वमेव - द्रव्यवति द्रव्यान्तरानुत्पत्तेरिति चेत् १,
न-कर्म हि त्रिविधं भवति - प्राप्यं प्रकृतिविकृती च । तत्र प्राप्यं कर्म-क्रियाजन्यफलशालि गम्यादेर्ग्रामादि ज्ञानादेर्विषयश्च । क्रियानिष्पाद्यं यत् तद् विकृतिरूपं यथा- पाकादेरोदनादि यथा वा कृतेर्माल्यादि कटादि च । प्रथमे तण्डुलादिरूपपूर्वद्रव्यं विनाश्यौदनादर्निर्वर्तनम् द्वितीये पुष्पादिरूपपूर्वद्रव्यमविनाश्यैव संदर्भादिरूपविशेषं निष्पादनेन विशिष्टस्य माल्यादेर्निर्वर्तनम्, तृतीये च काशादिरूपपूर्वधर्मिणमविनाश्य तत्रैव कटादिरूपधर्मिनिष्पादनम, ईदृशं च कर्म प्रकृतेरसमभिव्याहारस्थले निर्वर्त्यमुच्यत ।
न भवति प्रत्युत काष्ठदुग्धादिनाशानन्तरमेव तदारम्भकपरमाणुभिः = काष्ठदुग्धाद्यारम्भकपरमाणुभिर्भस्मदध्यादिकार्योत्पत्तिर्दृश्यते. उत्पत्त्याश्रयस्यैव चोपादानत्वं भवति विभिन्नकालयोश्चाधाराधेयभावो न संभवतीति विनष्टस्य काष्ठदुग्धादेर्भस्मदध्याद्युत्पत्त्याश्रयत्वासंभवात् किं च कारणस्यैवोपादानत्वनियमाद् विनष्टस्य च काष्ठदुग्धादेर्भस्मदध्यादिकारणत्वासंभवाद् न काष्ठदु - ग्वादेरुपादानत्वं संभवतीति न कर्मत्वमपि संभवति तथा च काष्ठदुग्धादिपदोत्तरं द्वितीयानुपपत्तिरित्याशङ्कते - अथैवमपीति । ननु काष्ठदुग्धादेरुपादानत्वाभावेपि परिणामित्वरूपं कारणत्वं भविष्यतीत्याशङ्क्याह-- न चेति, न्यायमते परिणामवादाऽस्वीकारात् काष्ठादेर्भस्मादिरूपद्रव्यान्तरं प्रति कारणत्वमेव न संभवति येन परिणामिकारणत्वं स्यात् प्रत्युत काष्ठादिसत्त्वे भस्मासंभवाद् भस्मादिकं प्रति काष्ठादेः प्रतिबन्धकत्वमेव, उक्ते हेतुमाह-द्रव्यवतीति, काष्ठरूपद्रव्यवति काष्ठावयवभूतपरमाणुसमूहे भस्मरूपद्रव्यान्तरस्योत्पत्त्यसंभवादित्यर्थः ।
परिहरति-नेति । काष्ठदुग्धादीनां कर्मवप्रतिपादनार्थं कर्ममेदं निरूपयति-कर्मेति । प्राप्यकर्मस्वरूपमाह - तत्रेति, विषयः = घटादिः । तदुक्तम्
" क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते ।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ।। " इति ॥
नहि ग्रामघटादौ गमनज्ञानादिना कश्चिद्विशेष उपलभ्यते इति प्राप्यकर्मत्वम् । विकृतिरूपकमैंस्वरूपमाह-क्रियानिष्पायमिति, पाकादेः = पाकादिरूपक्रियायाः । प्रथमे == " पाकादेरोदनादि" इत्यत्र । तण्डुलनाशानन्तरमेवौदनोत्पत्तेः । निर्वर्तनम् = संपादनम् । द्वितीये =" कृतेर्माल्यादि इत्यत्र । संदर्भ: प्रथनं मालाया आकारसंपादनम् । विशिष्टस्य संदर्भादिविशिष्टस्य | वृर्ताये =
"Aho Shrutgyanam"
17