________________
कर्मप्रभेदनिरूपणम् ]
व्युत्पत्तिवादः ।
( ३३७ )
८
'तण्डुलानोदनं पचाते कुसुमानि खजं करोति ' 'काशान् कटं करोति' इत्यादौ प्रकृतिसमभिव्याहारस्थलेपि निर्वर्त्यते निष्पाद्यते यदिति व्युत्पत्त्या यद्यप्योदनादेरपि निर्वर्त्यताऽस्ति तथापि तद्व्यावृत्तमेव पारिभाषिकं निर्वर्त्यत्वम्, तदुक्तमंभियुक्तैः-
८८
3 £
सती वाsविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ॥
"
इति ।
यस्य - विकृतिकर्मणः, नाश्रीयते न प्रयुज्यते इत्यर्थः । एवं च तत्र तत्रौदनादे
=
विकार्यकर्मण्येवान्तर्भावः, तदुक्तम्
66
यदसज्जायते पूर्व जन्मना यत्प्रकाश्यते । तन्निर्वर्त्यम्, विकार्य तु कर्म द्वेधा व्यवस्थितम् ॥ प्रकृत्युच्छेदसंभूतं किंचित् काष्ठादिभस्मवत् । किंचिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥
53
L
इति । "कटादि च" इत्यत्र । द्वितीयतृतीयोदाहरणयोर्विशेषो नास्ति बुद्धिवैशद्यार्थमेव पृथक्प्रतिपादनम् । ईदृशम् = उक्तौदनमाल्यादिरूपमेव कर्म प्रकृतेः = तण्डुलपुष्पादेरसमभिव्याहारस्थले= ओदनं पचति ' ' माल्यं करोति ' L कटं करोति ' इत्यादिस्थले निर्वर्त्यमुच्यते--वयमाणप्रमाणात् । वक्ष्यमाणेन " सती वा " इत्यादिप्रमायेन प्रकृतेरसमभिव्याहारे एवं निर्वर्त्यत्वप्रतिपादनात् । योदनादीनां निर्वर्त्यत्वमस्ति तदा तण्डुलादिरूपप्रकृतिसमभिव्याहारस्थलेपि निर्वर्त्यत्वं किं न स्यात् प्रकृतिसमभिव्याहारस्य प्रतिबन्धकत्वासंभवादित्याशङ्कायामाह - तण्डुलानिति, प्रकृतिसमभिव्याहारस्थले ओदनादेः व्युत्पत्तिसिद्धं निर्वर्त्यत्वमस्त्येष तथा च पूर्वोक्तं प्रकृत्यऽसम'भिव्याहारस्थले एव यन्निर्वर्त्यत्वं तत् पारिभाषिकम् = सांकेतिकमेव निर्वर्त्यत्वमत एव तद्व्यावृत्तम्= france: 1 किंवा तद्व्यावृत्तं नामौदनादिव्यावृत्तं प्रकृतिसमभिव्याहारस्थले औदनाद्यनन्वयीत्यर्थः । अत्र प्रमाणमाह-सती वेति । लोकार्थमाह-यस्येति । न प्रयुज्यतेन समभिव्याहियते । कटं करोति' इत्यत्र कटप्रकृतिभूतकाशानां सत्त्वेपि तद्वाचककाशपदप्रयोगो न कृत इति कटस्य निर्वर्त्यत्वमिति 'सती प्रकृतिः परिणामिनी यस्य नाश्रीयते' इत्यस्योदाहारणम् । ' ओदनं पचति ' इत्यत्रौदनप्रकृतिभूततण्डुलानां नाशानन्तरमेवौदनोत्पत्तेरुत्पत्तिकाले तण्डुलानामविद्यमानत्वं तद्राचकतण्डुलपदप्रयोगथ न कृत इत्योदनस्य निर्वर्त्यत्वमिति ' अविद्यमाना वा' इत्यस्योदाहरणम् । उपसंहरति- एवं चेति, ओदनादे: निर्वर्त्यकर्मण इत्यर्थः । उक्ते प्रमाणमाह--यदसज्जायत इति, यत् पूर्वमसदेव जायते जन्मना च प्रकाश्यते तन्निर्वर्त्य कर्म
पूर्वं तण्डुलावस्थायामसदेवौदनं स्वोत्पत्त्या प्रकटं भवतीति निर्वर्त्यम् । निर्वर्त्यकर्मणो विकार्यकर्मण्यन्तर्भावाय विकार्यस्वरूपमाह-विकार्यमिति, प्रकृतिभूतस्यं काष्ठस्य नाशानन्तरं भस्मोत्पद्यते इति काष्टभस्म विकार्य कर्म एवमेवदनमपि विकार्यं कर्म, सुवर्णकुण्डलादौ च
२२
"Aho Shrutgyanam"